०५२ संव्यव (सम्+वि+अव)

हृ

  • {सम्व्यवहृ}
  • हृ (हृ हरणे)।
  • ‘तेन जातं ततो जातमितीयं रचना गिराम्। शास्त्रसंव्यवहारार्थं न राम परमार्थतः’ (यो० वा० ४।४०।१७)॥ शास्त्रसंव्यवहारः शास्त्रव्यवहारः।
  • ‘संव्यवहारात् शौचं मैत्रतां दृढभक्तिं च परीक्षेत’ (कौ० अ० १।९)। संव्यवहारः=इतरैः सह व्यवहारः, परेषु वृत्तिः।
  • ‘याप्यो गर्ह्यः सर्वैरसंव्यवहार्य इति’ (गौ० ध० २।४।२३ सूत्रे मिताक्षरायाम्)। मिथो व्यवहारे वर्जनीय इत्यर्थः।