अर्ज्
- {समुपार्ज्}
- अर्ज् (अर्ज अर्जने प्रतियत्ने च)।
- ‘तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम्’ (भा० उ० १७६।५०)। समुपार्जितम्=संस्कृतम्। तम् (विचित्रवीर्यम्)।
आस्
- {समुपास्}
- आस् (आस उपवेशने)।
- ‘यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते’ (का० प्र० २।१४)। समुपास्यते=आश्रीयते।
ईक्ष्
- {समुपेक्ष्}
- ईक्ष् (ईक्ष दर्शने)।
- ‘शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते’ (भा० सभा० ५५।१६)। अनर्थकः सम्शब्दः। उपेक्षत इत्येतावतैवोक्तो विवक्षितोर्थः।
उष्
- {समुपोष्}
- उष् (उष दाहे)।
- ‘तमग्निभिः समुपोषेत्’ (श० ब्रा० १२।५।१।१३)। समुपोषेत्=दहेत्। नार्थः समुपाभ्याम्। ओषेदित्यनेनैव विवक्षितार्थगतेः।
ऊह्
- {समुपोह्}
- ऊह् (ऊह वितर्के)।
- ‘ध्वनयः समुपोहन्ते वृत्तिभेदे तु वैकृताः’ (वा० प० १।७७)।
- ‘समुपोहन्ते कारणानि भवन्तीति’ (प० ल० म० स्फोट० नागेश:)।
क्रम्
- {समुपक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘यथायं समुपक्रान्तः’ (रा० २।७८।१४)। समुपक्रान्तः=प्रारब्धः।
जन्
- {समुपजन्}
- जन् (जनी प्रादुर्भावे)।
- ‘मम दुःखमिदं पुत्र भूयः समुपजायते’ (रा० २।७५।६१)। समुपजायते=उपजायते=जायते।
ज्ञा
- {समुपज्ञा}
- ज्ञा (ज्ञा अवबोधने)।
- ‘संवासात्परुषं किंचिदज्ञानादपि यत् कृतम्। तन्मे समुपजानीत (रा० २।३९।३८)। क्षान्तमित्यनुजानीतेत्याह।
दिश्
- {समुपदिश्}
- दिश् (दिश अतिसर्जने)।
- ‘तत् किमर्थं विदर्भाणां पन्थाः समुपदिश्यते’ (भा० वन० ६१।३२)। उपदिश्यत इत्येवार्थः। नार्थः समा।
- ‘अनेन कृतकृत्योस्मि यन्मां स पुरुषेश्वरः। मृत्युं समुपदेक्ष्यति’ (रा० ३।४५।१८)। मृत्यवे परादास्यतीत्यर्थः। समुपयोः सतोरपि शुद्धे धात्वर्थेऽतिसर्जने प्रयोगः।
नी
- {समुपनी}
- नी (णीञ् प्रापणे)।
- ‘ऋषींश्च समुपानयतु’ (भा० आदि० १०७।१५)। इत आनयदित्यर्थः।
- ‘अन्ये प्रधानवाससी समुपनीयेताम्’ (मृच्छ० )। सहानीयेतामित्यर्थः।
- ‘(अश्वान्)। जवनानाशुगांश्चैव करार्थं समुपानयत्’ (भा० सभा० २७।२८)।
रुध्
- {समुपरुध्}
- रुध् (रुधिर् आवरणे)।
- ‘शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते’ (भा० अनु० ३५।७)। समुपरुध्यते=विघ्नितो भवति।
वह्
- {समुपवह्}
- वह् (वह प्रापणे)।
- ‘सङ्ग्रामे समुपोढे च शत्रुपक्षभयङ्करे’ (रा० २।७५।३९)। समुपोढे=उपस्थिते, सन्निहिते सति।
- ‘संग्रामे समुपोढे राजानं संनाहयेत्’ (आश्व० गृ० ३।९।१)।
- ‘यथेदावानन्दं व्रजति समुपोढे कुमुदिनी’ (उत्तर० ५।२६)। समुपोढे=उदिते।
विश्
- {समुपविश्}
- विश् (विश प्रवेशने)।
- ‘तथेति ह समुपविविशुः’ (छां० उ० १।८। २)। आसाञ्चक्रिरे, आसेदुः।
- ‘प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत्।’ (रा० ७।८२।४)। समुपाविशत्। समविशत्। यापितवान् इत्यर्थः।
- ‘पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत्’ (भा० वन० १४४।१)। समुपाविशत् न्यषीदत्।
वृत्
- {समुपवृत्}
- वृत् (वृतु वर्तने)।
- ‘कामवृत्तोन्वयं लोकः कृत्स्नः समुपवर्तते’ (रा० २।१०९।९)। समुपवर्तते=संजायते, उपजायते।
वृह्
- {समुपवृह्}
- वृह् (वृह वृहि वृद्धौ)।
- ‘इतिहासपुराणाभ्यां वेदं समुपवृंहयेत्’ (भा० आदि० १।२६७)।
सद्
- {समुपसद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘जुगुप्समानो धावन्स तं यज्ञं समुपासदत्’ (भा० आश्व ९२।५१)। प्राप्तवानित्यर्थः।
स्था
- {समुपस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘अपत्यलाभो वैदेहि त्वय्ययं समुपस्थितः’ (रा० ७।४२।३१)। समुपस्थितः सन्निहितः।
ह्वे
- {समुपह्वे}
- ह्वे (ह्वेञ् स्पर्धायां शब्दे च)
- ‘भक्षयित्वा समुपहूताः स्मः’ (श० ब्रा० ४।३।१।१)। समं निमन्त्रिताः स्म इत्यर्थः।
क्रम्
- {समुपक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा’ (रा० १।४१।२१)। समुपक्रान्ताः=उपेताः=प्राप्ताः।