०२३ समनु (सम्+अनु)

आप्

  • {समन्वाप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘देवैरिन्द्रस्त्वं भविष्यसीति समन्वीप्सितम्’ (वि० पु० ४।९।८)। समन्वीप्सितम् अभ्युपगतम्।
  • ‘शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्वीप्सितवान्’ (वि० पु० ४।१३।८०)।
  • ‘ममायमच्युते नैव सामान्यः समन्वीप्सितः’ (वि० पु० ४।१३।१५०)। उक्तोऽर्थः।

  • {समन्वि}
  • इ (इण् गतौ)।
  • ‘ततस्तां प्रहितां देवीमिन्द्राणी सा समन्वगात्’ (भा० उ० १४।५) । अन्वपद्यतेत्यर्थः।
  • ‘भिन्नानां समानरूपता समन्वयः’ (वाचस्पतिमिश्रः)।
  • ‘पदार्थ एव वाक्यार्थे समन्वीयते’ (सर्व० द० पात० पं० ८०)। समन्वीयते=अन्वयं लभते।

क्लृप्

  • {समनुक्लृप्}
  • (कृपू सामर्थ्ये)।
  • ‘दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत्’ (भा० वन० १०९।१८)। अकल्पयदित्येवार्थः। नार्थः समनुभ्याम्।

गम्

  • {समनुगम्}
  • गम् (गम्लृ गतौ)।
  • ‘यदिदं धर्मगहनं बुद्ध्या समनुगम्यते’ (भा० स्त्री० ५।१)। समनुगम्यते=विगाह्यते।

ग्रह्

  • {समनुग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘अवमुच्य किरीटं स केशान्समनुगृह्य च’ (भा० सभा० २३।६)। समनुगृह्य=अवस्थाप्य=अनाकुलान्कृत्वा।

ज्ञा

  • {समनुज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘गोभिश्च समनुज्ञातः सर्वत्र च महीयते’ (भा० अनु० ७३।४९)।
  • ‘संवासात्परुषं किञ्चिदज्ञानाद्वापि यत्कृतम्। तन्मे समनुजानीत…’ (रा० २।३९।३८)॥ क्षान्तमित्यनुज्ञां कुरुतेत्यर्थेति भूषणकारः।

दिश्

  • {समनुदिश्}
  • दिश् (दिश अतिसर्जने)।
  • ‘तद्यदर्वाग्यत्परः कृन्तन्ति यदुल्बणं यद्विथुरं क्रियते शमितृभ्यश्चैवैनं तन्निग्रभीतृभ्यश्च समनुदिशति’ (ऐ० ब्रा० २।७)। तच्छमित्रादीनां भागधेय इति कल्पयति, तेभ्यः प्रदेश्य इति निश्चिनोति।

धाव्

  • {समनुधाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘(धनञ्जयं) समन्वधावन्’ (भा० कर्ण० ७९।९२)। आसादयितुं त्वरितमन्वसरन् इत्यर्थः।

युज्

  • {समनुयुज्}
  • युज् (युजिर् योगे)।
  • ‘धार्तराष्ट्रं सहामात्यं स्वयं समनुयुङ्क्ष्महे’ (भा० उ० ७२।३)। समनुयुङ्क्ष्महे=प्रार्थयामहे।
  • ‘न च प्रेषयिता कश्चित्प्रेष्यैः समनुयुज्यते’ (रा० ५।१।६८) । समनुयुज्यते=नियुज्यते, आदिश्यते, अनुशिष्यते।

वृत्

  • {समनुवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘प्रयोजनवतीं प्रीतिं लोकः समनुवर्तते’ (रा० ६।८२।४५)। समनुवर्तते=अनुवर्तते=अनुसरति।