०२० सम्

अच्

  • {समच्}
  • अच् (अञ्चु गतिपूजनयोः, अचु इत्येके)।
  • ‘मायाभिरश्विना युवं वृक्षं सं च वि चाचथः’ (ऋ० ५।७८।६)। समचथः संयोजयथः।
  • ‘रात्र्या समच’ (तै० ब्रा० ३।१०।४।३)। रात्रिनिमित्तं स्वं तेजः समच संकुचितं कुरु।

अज्

  • {समज्}
  • अज् (अज-गतिक्षेपणयोः)।
  • ‘क्षामेव नः समजतं रजांसि’ (ऋ॰२.३९.७)। (हे अश्विनौ) समजतम् युगपत् प्रेरयतम्।
  • ‘समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः’ (भा॰द्रोण॰१३२.३४)। समाज इह रङ्गः। समजन्ति सङ्गच्छन्ते लोका अत्रेति। अधिकरणे घञ्। अन्यत्र समाजो ब्राह्मणादीनां समवायः, इह समवायिनामाश्रयविशेषो नाट्यशाला।
  • ‘समर्यो गा अजति यस्य वष्टि’ (ऋ० १।३३।३, नि० ६।२२।२)। समजति समस्ताः क्षिपति। गा अपः। अर्य इन्द्र ईश्वरः।

अञ्च्

  • {समञ्च्}
  • अञ्च् (अञ्चु-गतिपूजनयोः)।
  • ‘पशुरङ्गानि सं चाञ्चति प्र च सारयति’ (श॰ब्रा॰८.१.४.७)। समञ्चति सङ्कोचयति।
  • ‘अथातः समञ्चनप्रसारणस्यैव (श॰ब्रा॰८.१.४.७)। समञ्चनम्=सङ्कोचनम्।
  • ‘समक्नौ शकुनेः पादौ’ (८.२.४८ सूत्रे वृत्तावुदाहरणम्)।
  • ‘अङ्गुलीः समच्य’ (श॰ब्रा॰३.३.२.१४ इत्यत्र भाष्ये)। अङ्गुलीः समम् आभुज्येत्याह।

अञ्ज्

  • {समञ्ज्}
  • अञ्ज् (अञ्जू-व्यक्तिम्रक्षणकान्तिगतिषु)।
  • ‘अञ्जते व्यञ्जते समजते’ (अथर्व॰१८.३.१८)। समञ्जते=समञ्जन्ति सम्यग् अञ्जन्ति।
  • ‘देवान्यजन्तावृतुथा समञ्जतः’ (ऋ॰२.३.७)।
  • ‘समजन्तु विश्वेदेवाः समापो हृदयानि नौ’ (ऋ॰१०.८५.४७)। समञ्जन्तु=संयुञ्जन्तु =सम्पृञ्चन्तु।
  • ‘अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे’ (ऋ॰१.६१.५, अथर्व॰२०.३५.५)। समञ्जे=सङ्गतं करोमि।

अच्

  • {समच्}
  • अत् (अत-सातत्यगमने)।
  • ‘अयमु ते समतसि कपोत इव गर्भधिम्’ (ऋ॰१.३०.४)। समतसि=सङ्गच्छसि।

अद्

  • {समद्}
  • अद् (अद-भक्षणे)।
  • ‘समदन्त्यामिषं गाः’ (भट्टि॰१८.१२)। समं भक्षयन्ति, साकमभ्यवहरन्तीत्याह।

अन्

  • {समन्}
  • अन् (अन-प्राणने)।
  • ‘अद्या ममार स ह्यः समान’ (ऋ॰१०.५५.५)। समानेत्यनितेः समुपसृष्टस्य लिटि प्रथमैकवचने रूपम्। जिजीव, जीवितं लेभे श्वसनमापेत्यर्थः।
  • ‘ऋचा प्राणिहि यजुषा समनिहि’ (शां० गृ० १।२४।२)।

अम्

  • {समम्}
  • अम् (अम-गत्यादिषु, आदिशब्देन शब्दसम्भक्त्योर्ग्रहः)।
  • ‘एतद्ध देवा भूयः समामिरे तथो एवैतत् सममन्त’ (श॰ब्रा॰३.४.२.१३)। सममन्त=ऐकमत्यमानशिर इत्यर्थः।
  • ‘संवत्सराय वा एतौ सममाते’ (तै० सं० २।२।६।२)। सममाते शपथं कुर्वाते एतस्मिन्विषयेऽन्योन्यमावाभ्यां न द्रोग्धव्यमिति। अमाते इत्यत्रात्मनेपदमार्षम्।

अय्

  • {समय्}
  • अय् (अय-गतौ)।
  • ‘यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम्’ (ऋ॰७.८३.२)। समयन्ते=सङ्गच्छन्ते (युयुत्सया)।
  • ‘यज्ञस्य विद्वान् समये न धीरः’ (अथर्व॰२.३५.३)। समयन्ते सङ्गच्छन्ते योद्धारोऽत्रेति समयः सङ्ग्रामः।

अर्थ्

  • {समर्थ्}
  • अर्थ् (अर्थ-उपयाच्ञायाम्)।
  • ‘अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व’ (ऋ॰२.१३.१३)। समर्थयस्व=कल्पयस्व=घटय।
  • ‘यदीये सम्प्रहारेऽस्मिन् वीरपानं समर्थ्यताम्’ (रा॰४.९.७२)।
  • ‘द्विषेतां समभिक्रुद्धावेतदेकं समर्थयेः’ (भा॰आश्व॰७.२०)। समर्थयेः=चिन्तयेः।
  • ‘अपत्योत्पादने यत्नमापदि समर्थय (भा॰आदि॰१२०.२७)। उक्तोऽर्थः।
  • ‘असिस्तव तपःस्थस्य न समर्थयते शमम्’ (कि॰११.१७)। समर्थयते=सम्भावयति।
  • ‘अनुपयुक्तमिवात्मानं समर्थये’ (शा॰)। मन्ये इत्यर्थः।
  • ‘उभयमप्यपरितोषं समर्थये’ (=मन्ये)।
  • ‘स्वजनेभ्यः सूतविनाशकारणं श्रुत्वा तथैव समर्थितवान्’ (पञ्चत॰)। तत्तथैवेत्यभ्युपगतवान् इत्यर्थः।
  • ‘मम वृत्तं च शीलं च तेन सर्वं समर्थितम्’ (रा॰६.१०१.१७)। समर्थितं विमृष्टम्, साध्वालोचितम्।
  • ‘यथा मन्त्रिभिः सह समर्थितं तथा परिणमति’ (स्वप्न॰१)। समर्थितम्=मन्त्रितम्।
  • ‘कामचारश्च वतिनिर्देशे समर्थयितुम्’ (१.१.५६ सूत्रे भाष्ये)। समर्थयितुम्=कल्पयितुम्।
  • ‘तेन हि समर्थयितुमिच्छामि’ (पञ्चत॰१)।
  • ‘समर्थनासु सर्वासु हितं च प्रियमेव च’ (भा॰वि॰४.२४)। समर्थनासु कार्याकार्यपरीक्षासु।
  • ‘समर्थनां मे पृष्टा त्वं प्रयच्छ शुचिलापिनि’ (हरि॰२.९२.४३)। समर्थनाम्=कार्यघटनोपायम्।
  • ‘रात्रौ भवत्येषा नित्यमेव समर्थना’ (भा॰द्रोण॰१८२.२०)। समर्थना=चिन्ता।
  • किं समर्थं जनस्यास्य (रा॰)। समर्थं युक्तम्।
  • ‘समर्थः पदविधिः’ (पा॰२.१.१)। समर्थः सङ्गतः संसृष्टः।
  • ‘किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् (रा॰२.७७.१७)। सामर्थ्यम्=साफल्यम्।
  • ‘एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये’ (रा० ३।७।२१)। न समर्थये नेच्छामि।
  • ‘समर्थ्य चात्यर्थविशारदावुभौ’ (रा० ३।४।२८)। समर्थ्य निश्चित्य।

अश्

  • {समश्}
  • अश् (अशु-व्याप्तौ सङ्घाते च)
  • ‘समश्नुते मे लघिमानमात्मा’ (रघु॰१३.३७)। समश्नुते=प्राप्नोति।
  • ‘…पृच्छ्यमाना सखीयते। सं धीतमश्नुतं नरा…’ (ऋ॰८.४०.३)॥ इतोऽभिमुखमागच्छतम् इत्याह।
  • ‘सुवर्गस्य लोकस्य समष्ट्यै’ (तै० सं० ५।७।२।२)। समष्ट्यै प्राप्त्यै।
  • ‘समानंश समतिभिः को अस्य’ (ऋ० ४।२३।२)। समानंश समानशे संभेजे संजग्मे।

अश्

  • {समश्}
  • अश् (अश भोजने)।
  • ‘मृद्वीका रसिता सिता समशिता’ (भामिनी० ४।७)। समशिता अशिता। नार्थः समा। समशनं तु संभूयाशनमाह। यथा समाजेषु समाशेषु समवायेषु इत्यत्र (पा० सू० १।१।५० भाष्ये)।

अस्

  • {समस्}
  • अस् (अस भुवि)।
  • ‘त्वं च तान्त्सं च प्रति चासि मन्मना’ (ऋ० २।१।१५)। तान्देवान्समसि संगच्छसि।

अस्

  • {समस्}
  • अस् (असु-क्षेपे)।
  • ‘मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती। मह्यं मध्यं भूम्या उभावन्तौ समस्यताम्’ (अथर्व॰६.८९.३)। समस्यताम्=संयुनक्तु। सम्पूर्वादस्यतेर्लोटि प्रथमैकवचने रूपम्। अस्यत्यूह्योर्वा वचनमित्यात्मनेपदम्। त्वेति जायामाह।
  • ‘तं (रज्जुं) सप्तधा समस्यति’ (श॰ब्रा॰१०.२.३.८)। सप्त समप्रविभागान् कृत्वा संयोजयति।
  • ‘तस्मात्पुमानूरू समस्यति’ (ऐ॰ब्रा॰२.३५)। पुमान् शयान उपरि स्वावूरू श्लेषयति इति षड्गुरुशिष्यः।
  • ‘प्रेदं ब्रह्म प्रेदं क्षत्रम् इत्येते एव समस्येद् ब्रह्मक्षत्रयोः संश्रित्यै’ (ऐ॰ब्रा॰३.११)। समस्येत्=मेलयेत्।
  • ‘न निविदः पदे समस्येत्’ (ऐ॰ब्रा॰३.११)। समासोऽनवसायोच्चारणमिति षड्गुरुशिष्यः।
  • ‘समस्यन्तौ चापि शराननेकान्’ (भा॰कर्ण॰९०.८)। क्षिपन्तावित्यर्थः।
  • ‘तत्र तत्र समासेन’ (हरि॰१.१.१४)।
  • ‘उल्काविद्युत्समासे विरात्रम्’ (व॰ध॰१३.९) समासः=सन्निपातः।
  • ‘अनसूयासमस्यामप्यङ्गरागस्य चार्पणम्’ (रा॰१.३.१८)। समस्या=सङ्गतिः।
  • ‘यद् द्वौ द्वौ पशू समस्येयुः। कनीय आयु: कुर्वीरन्’ (तै० ब्रा० १।२।५।३)। **समस्येयुः समस्यालभेरन्, समं हन्युरित्यर्थः। **
  • ‘ते ब्रह्मविद्भिश्च समस्यमानाः’ (सम्पूज्यमानाश्च सुरैः सशक्रैः) (हरि० ३।५२।५३)। समस्यमानाः सङ्गच्छमानाः। अस्यत्यूह्योर्वा वचनमिति वा तङ्।
  • ‘तद्यत्रैतत् सुप्तः समस्तः’ (छां० उ० ८।६।३)। समस्तः संहृतसकलकरणव्यापारः।
  • ‘तस्य सप्त पदानि समस्यावस्येत्’ (शां० ब्रा० ३।२)। समस्य सङ्ग्रथ्य संश्लिष्य।
  • ‘यद्यप्येनान् उत्क्रान्तप्राणान् शूलेन समासं व्यतिसन्दहेत्’ (छां० उ० ७।१५।३)। समासं प्रक्षिप्य। णमुलन्तमेतत्।
  • ‘तद्यत्रैतत् सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मा’ (छां० उ० ८।११।१)। समस्तः समुपसंहृतकरणग्रामः।

आप्

  • {समाप्}
  • आप् (आप्लृ-व्याप्तौ)।
  • ‘तं समाप्नोति जूतिभिः’ (अथर्व॰१३.२.१५)। समाप्नोति=आसादयति।
  • ‘तत्र लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः’ (अथर्व॰९.५.१५)।
  • ‘अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृतौ’ (याज्ञ॰१.६४)। उक्तोऽर्थः।
  • ‘यस्माल्लोकात्परमेष्ठी समाप’ (अथर्व॰१२.३.४५)। सम्यगाप्तवान्।
  • ‘न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते’ (भा॰वि॰२४.२२)।
  • ‘तां परित्यज्य सद्यो वा विघातं न समाप्नुयाः’ (अवदा॰जा॰१३.२७)। समाप्नुयाः=प्राप्नुयाः।
  • ‘देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु। अददद्धि समवाप्नोति किल्बिषं यस्य तस्य तत्’ (याज्ञ॰२.३६)॥ उक्तोऽर्थः।
  • सर्वं समाप्नोषि ततोऽसि सर्वः’ (गीता)। समाप्नोषि=व्याप्नोषि।
  • ‘यदि मे वक्ष्यति समाप्स्यामि’ (श॰ब्रा॰११.८.४.२)। समाप्स्यामि=आप्तकामः समृद्धमनोरथो भविष्यामि।
  • ‘अहरहर्दद्यादोदपात्रात्तथैतं मनुष्ययज्ञं समाप्नोति’ (श॰ब्रा॰११.५.६.२)। समाप्नोति=समाप्तिं नयति।
  • ‘ज्वलितां वा सूर्मिं परिष्वज्य समाप्नुयात्’ (आप॰ध॰१.२५.२)। समाप्नुयात्=म्रियेत।
  • ‘सैनं स्वर्गं लोकं समापयति’ (श॰ब्रा॰२.३.३.१६)। प्रापयतीत्याह।
  • ‘नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः। मदात्कपिं ते कपयः…’ (रा॰५.६१.२४)॥ समापयन्तो मृतकल्पं कुर्वन्तः।
  • ‘स च राजा नरश्रेष्ठ यज्ञस्य समाप्तवान्। फलं बहुगुणं राम…’ (रा॰१.६२.२७)। समाप्तवान्=सम्यगाप्तवान्।
  • ‘ईजे च क्रतुभिः पुण्यैः समाप्तवरदक्षिणैः’ (भा॰द्रोण॰७१.१०)।
  • ‘ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणः’ (हरि॰१.४१.५४)। उभयत्र समाप्तशब्दः पर्याप्तवचनः।
  • ‘राद्धिः प्राप्तिः समाप्तिः’ (अथर्व॰११.९.२२)। समाप्तिः सम्यगाप्तिः।
  • ‘एतस्य लोकस्य समाप्तये’ (गो॰ब्रा॰पूर्व॰२.२४)। समाप्तये=प्राप्तये।
  • ‘ओदनेन यज्ञवचः सर्वे लोकाः समाप्याः’ (अथर्व॰११.३.१९)। यज्ञवचः=यज्ञेनोच्यमानाः। समाप्याः=प्राप्याः।
  • ‘इष्टं स्यात् क्रतुभिस्तेन समाप्तवरदक्षिणैः’ (याज्ञ० १।३५९)। समाप्ता पर्याप्ता प्रभूता भूरिः।
  • ‘अयं सर्वः समाप्ताङ्गः श्रितः कृष्णमृगो मया’ (रा० २।५६।२८)। समाप्ताङ्गः परिपूर्णाङ्गः।

आस्

  • {समास्}
  • आस् (आस-उपवेशने)।
  • ‘यत्रा नरः समासते सुजाताः’ (ऋ॰७.१.४)। समासते=सह आसते।
  • ‘इमे च ते सूर्यसमानवर्चसः समासते वृत्रहणः क्रतुं यथा’ (भा॰आदि॰५५.८)। उक्तोऽर्थः।
  • ‘प्रत्युवाच समासीनं वसिष्ठम्’ (रा॰२.१११.८)। समासीनम्=आसीनम्। सम्शब्दोऽकिञ्चित्करः।
  • ‘ते ह वैश्वानरे समासत। तेषां न समियाय’ (श॰ब्रा॰१०.६.१.१)। वैश्वानर इति वैश्वानरविषये विचारणां प्रवर्तयितुं समासीना न च तत्र निश्चयं गता इत्यर्थः।
  • ‘सत्यं सन्तः समासते’ (भा॰शां॰१९३.१२)। आसादयन्तीत्याह।
  • ‘मत्समो यदि सङ्ग्रामे शरासनधरः क्वचित्। विद्यते तं समाचक्ष्व यः समासीत मां मृधे’ (भा॰आश्व॰२९.६)। समासीत=मदभिमुखं तिष्ठेत्, मया विगृह्णीयात्।
  • ‘एकैकशश्चौघबलानिमान् पुरुषसत्तमान्। कोऽन्यः समासेत (=समासीत) कालान्तकयमादृते’ (भा॰वन॰३१३.२७)॥ उक्तोऽर्थः।
  • ‘कस्तान् युधि समासीत जरामरणवान्नरः’ (भा॰वन॰१०.२७)। विरुन्धीत विगृह्णीतेत्याह।
  • ‘न नागा न च गन्धर्वाः… तव राम रणे शक्ताः शरवेगं समासितुम्’ (रा॰५.३६.५०)। समासितुम्=प्रतिग्रहीतुम्=रोद्धुम्।
  • ‘यूयं सर्वे सुरसमा येन युद्धे समासिताः’ (भा॰स्वर्गा॰१.१४)। समासिताः=समासन्नाः=कृतसमागमाः।
  • ‘त्रिदशाऽपि समुद्युक्ता नालं भीमं समासितुम्’ (भा॰भीष्म॰११७.२९)। समासितुम्=अभिमुखे स्थातुम्। तं पर्यवस्थातुं वा।

  • {समि}
  • इ (इण्-गतौ)।
  • ‘त्वष्टा दुहित्रे वहतुं कृणोतीदं विश्वं भुवनं समेति’ (ऋ॰१०.१७.१)। समेति=समवैति=संवर्तते=एकीभवति। रघुराप्तैः समियाय योगिभिः। समियाय=सञ्जग्मे।
  • ‘ते ह वैश्वानरे समासत तेषां ह वैश्वानरे न समियाय’ (श॰ब्रा॰१०.६.१.१)। न समियाय निश्चयो न बभूव। ते तत्र व्यवसितिं न लेभिरे।
  • ‘पार्थाः समेष्यन्त्यथ याज्ञसेन्या’ (भा॰वन॰२६९.१६)। सम्मेलिष्यन्तीत्याह।
  • ‘नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे’ (भा॰शां॰१३८.१७२)। समेष्यामि=उपैष्यामि=उपसर्प्स्यामि, त्वया सङ्गन्ताहे।
  • ‘यथा कृतायविजितायाधरेऽयाः संयन्ति’ (छां॰उ॰४.१.४)। संयन्ति=सङ्गच्छन्ते=अन्तर्भवन्ति=मान्ति।
  • ‘यद्ध क्षुमन्तः शवसा समायन्’ (ऋ॰१०.३१.५)। समायन्=समागच्छन्=सम्प्राप्ताः।
  • ‘ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये’ (रा॰२.९९.४१)। समीयतुः=सञ्जग्माते=सङ्गतौ।
  • ‘परं समगात्स्वधाम’ (भा॰पु॰९.२४.६६)।
  • ऐश्वरं समगात्पदम्’ (भा॰पु॰४.३१.२७)। उभयत्र प्रापदित्यर्थः।
  • ‘तस्मिन्निदं सं च वि चैति सर्वम्’ (वा॰सं॰३२.८)। समेति=अभिसंविशति=अप्येति।
  • ‘काममङ्गानि मे सीते दुनोत् मकरध्वजः। न त्वामकामां सुश्रोणि समेष्ये’ (भा॰वन॰२८१.२७)। त्वया मिथुनीभविष्यामि, त्वां संवेक्ष्यामि, त्वयि व्यवायी भविष्यामीत्याह। समेष्य इत्यत्रात्मनेपदमार्षम्।
  • ‘तौ मिथुनं समन्ताम्’ (श॰ब्रा॰१४.४.३.१९)। मिथुनीभावमगच्छताम्।
  • ‘मार्जारा द्वीपिभिः सार्धं शुकराश्च श्वभिः सह। किन्नर्यो राक्षसैश्चैव समीयुर्मानुषैः सह’ (रा॰६.११.४०)॥ उक्तोऽर्थः।
  • ‘यावतीभिश्च समियात्तावत्यो गर्भमाप्नुयुः (का॰सं॰कल्प॰लशुन॰श्लो॰२४)। समियात्=सङ्गच्छेत, मैथुन्यमाचरेत्।
  • ‘महित्वेभिर्यतमानौ समीयतुः’ (ऋ॰१०.११३.७)। समीयतुः=सङ्ग्रामयाञ्चक्राते। सम्पूर्वस्येणो योधनमर्थः समित्समितिशब्दयोस्तदर्थस्य दर्शनात्। आह चामरः- समित्याजिसमिद्युधः।
  • ‘समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ’ (भा॰भीष्म॰१०२.१)। उक्तोऽर्थः।
  • ‘कम्बोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः’ (भा॰द्रोण॰११२.४८)।
  • ‘यान् समेष्यामि समरे न तु कुन्तीसुतान्नृप’ (भा॰उ॰१७२.२१)। इहैतिः सोपसर्गकः सकर्मकः।
  • ‘सिकता इव संयन्ति रश्मिभिः समुदीरिताः’ (तै॰आ॰१.२७.५)। संयन्ति सम्पृक्ता भवन्ति, एकीभवन्तीत्यर्थः।
  • ‘यं क्रन्दसी संयती विह्वयेते’ (ऋ॰२.१२.८)। संयती=सङ्गच्छमाने युयुत्सया समवयत्यौ देवमनुष्यसेने। विह्वयेते विविधं ह्वयेते।
  • ‘समीयतुस्तदाऽन्योन्यं परस्परवधैषिणौ’ (भा॰शल्य॰१४.२३)। समीयतुः=युयुधाते।
  • ‘अन्यत्र वधकालात्ते सदृशेन समीयुषः’ (भा॰शां॰३.३१)। समीयुषः=युध्यमानस्य। समिणः क्वसौ रूपम्।
  • ‘सम् अन्या यन्त्युप यन्त्यन्याः’ (तै० सं० २।५।१२।१-२)। संयन्ति संगच्छन्ते सम्भेदमापद्यन्ते।
  • ‘कश्चिद्वै स्वर्गे लोके समेति’ (ऐ० ब्रा० ६।२६)। समेति प्राप्तो भवति।
  • ‘तौ मिथुनं समैताम्’ (बृह० उ० १।५।१२)। मिथुनं समैतां समविशतां समभवताम् समगच्छेताम्।
  • ‘सर्व एव समेष्यन्ति संयुक्ताः परया मुदा’ (रा० ६।१२०।१५)। समेष्यन्ति संगंस्यन्ते संयोक्ष्यन्ते (प्राणैः)।
  • ‘गदापरिघहस्तौ तौ युधि वीरौ समीयतुः’ (रा० ६।९७।१९)। समीयतुः समासेदतुः, युयुधाते, सङ्ग्रामयाञ्चक्राते।
  • ‘ततो भिन्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः (रा० ६।९७।२५)। युयुधाते इत्यसांशयिकोऽर्थः।
  • ‘ईश्वरौ वा एतौ संयन्तौ यजमानं हिंसितोः’ (ऐ० ब्रा० ५।४)। संयन्तौ सङ्गच्छमानौ (इति षड्गुरु०)। स्पर्धमानौ (इति गोविन्द०)। सङ्ग्रामं कुर्वाणौ (इति सायणः)।
  • ‘गुणानां समितिर्हि सा’ (भा० पु० ११।२५।८)। समितिः संनिपातः, व्यतिकरः।

इङ्ग्

  • {समिङ्ग्}
  • इङ्ग् (इगि-गतौ)।
  • ‘यथा वातः पुष्करिणीं समिङ्गयति सर्वतः। एवा ते गर्भ एजतु’ (ऋ॰५.७८.७)। समिङ्गयति=मन्दमन्दं नुदति।

ईक्ष्

  • {समीक्ष्}
  • ईक्ष् (ईक्ष-दर्शने)।
  • ‘मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे’ (वा॰सं॰३६.१८)। इह सम्शब्दोऽर्थे विशेषं न करोति।
  • ‘तव सुहृत्… तव मार्गं समीक्षमाणस्तिष्ठति’ (पञ्चत॰)। प्रतीक्षमाण इत्याह।
  • ‘समीक्षध्वं महारण्ये देशम्… यत्रेमाः शरदः सुखं प्रतिवसेमहि’ (भा॰)। समीक्षध्वम्=अन्विष्यत, मृगयध्वम्।
  • ‘भोजयन्ति किल श्राद्धे केचित्स्वानेव बान्धवान्। ततः पश्चात् समीक्षन्ते कृतकार्यान् द्विजर्षभान्’ (रा॰२.६१.१२)॥ समीक्षन्ते=विचारयन्ति भोजयितुम्।
  • ‘न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः’ (भा॰उ॰१६२.६३)। समीक्षते=गणयति।
  • ‘स हि राजगुणैर्युक्तो युवराजः समीक्षितः’ (रा॰२.४५.९)। समीक्षितः=निश्चितः।
  • ‘अभिषेकं न जानामि योऽभूद्राज्ञः समीक्षितः (रा॰२.७५.३)। समीक्षितः=चिन्तितः।
  • ‘समीक्षा यादृशी ह्यस्य पाण्डवान् प्रति भारत’ (भा॰वन॰८.८)। समीक्षा विचारपूर्विका बुद्धिः।
  • ‘तत्रापराणि दारूणि संसृज्यन्ते परस्परम्। तृणकाष्ठकरीषाणि कदाचिन्न समीक्षया’ (भा॰शां॰२६२.२३)॥ उक्तोऽर्थः।
  • ‘यदि त्वरेत गुरोः समीक्षायां स्वाध्यायमधीत्य कामं गच्छेत्’ (आप॰ध॰२.५.३)। समीक्षायां सन्दर्शने। गुरुचक्षुर्विषयमनतिक्रम्य स्थितः सन्नित्याह।
  • ‘रत्नावतंसाः कुलटाः समीक्ष्य किमार्यनार्यः कुलटा भवन्ति’ (सुभाषितम्)। समीक्ष्य=दृष्ट्वा।
  • ‘समीक्ष्य कामात् सुग्रीवं मन्दं धर्मार्थसङ्ग्रहे’ (रा॰४.२८.१)। समीक्ष्य=उपलभ्य=विज्ञाय।
  • ‘एवमार्य समीक्ष्य त्वं प्रीतो भवितुमर्हसि’ (रा॰५.७३.६१)। समीक्ष्य=परीक्ष्य=विमृश्य।
  • ‘उचितमेवैतन्ममासमीक्ष्यकारिणः’ (हित॰)। असमीक्ष्यकारी=अविमृश्यकारी। कार्याकार्ये इष्टानिष्टे अगणयित्वा यः प्रवर्तते स एवमुच्यते। समीक्ष्यं साङ्ख्यं भवति
  • तथा च माघे प्रयोगः- ‘फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि’ (५.५९)।

ईर्

  • {समीर्}
  • ईर् (ईर-गतौ)।
  • ‘ते होचुर्देवाः। म्लानोऽयं पिता मयोभूः। पुनरिमं समीर्योत्थापयामेति’ (गो॰ब्रा॰उ॰४.१२)। समीर्य=वीजयित्वा।
  • ‘स ऐक्ष्वाको ऽधावयत्, ब्राह्मणकुमारं रथेन व्यच्छिनत्… तमेतेन साम्ना समैरयत्’ (पञ्च० ब्रा० १३।३।१२)। समैरयत् सङ्गतावयवमकरोत्।
  • ‘कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्’ (अथर्व० ८।५।१४)। त्वां मणिम्। उक्तपूर्व एवार्थः।

ईष्

  • {समीष्}
  • ईष् (ईष गतिहिंसादर्शनेषु)।
  • ‘पशवो वै समीषन्ती’ (विष्टुतिः) (पञ्च० ब्रा० ३।१२।४)। समित्येकोभावे। एकीभूय ईषति गच्छति। सङ्गमनीत्यर्थः।
  • ‘एष वामनः समीषितः पशुभ्य एव प्रजातेभ्यः प्रतिष्ठां दधाति’ (तै० सं० २।१।५।२)। समीषितः सम्यग् ईषितो गमितः।

उक्ष्

  • {समुक्ष्}
  • उक्ष् (उक्ष=सेचने)। ‘समौक्षत गुडाकेशं शैलं नीलमिवाम्बुदः। अग्रहस्तप्रमुक्तेन शीकरेण स नागराट्’ (भा॰आश्व॰७६.७)। समौक्षत=समौक्षत्=अभ्यषिञ्चत्।
  • ‘समुक्षितं सुतं सोमम्’ (ऋ॰३.६०.५)। उक्तोऽर्थः।

उच्

  • {समुच्}
  • उच् (उच-समवाये)।
  • ‘उत यासि सवितस्त्रीणि रोचनोत सूर्यस्य रश्मिभिः समुच्यसि’ (ऋ॰५.८१.४)। समुच्यसि=सङ्गच्छसे।
  • ‘समन्धसा मदेषु वा उवोच’ (इन्द्रः) (ऋ॰७.२०.४)। इन्द्रो मदेषु मदनिमित्तेष्वन्धसा सोमलक्षणेनान्नेन समुवोच समवैति, समवायं सङ्गतिं कामयत इत्याह।

उब्ज्

  • {समुब्ज्}
  • उब्ज् (उब्ज-आर्जवे)।
  • ‘वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु’ (अथर्व॰९.३.१८)। व्युब्जतु=अपावृणोतु॥

उष्

  • {समुष्}
  • उष् (उष-दाहे)।
  • ‘तदुभयतोऽग्निशिखे समोषन्त्यौ तिष्ठतः’ (श॰ब्रा॰१.९.३.२)। समोषन्त्यौ ज्वलन्त्यौ। ओषतिरिहाकर्मकः।

ऊह्

  • {समूह्}
  • ऊह् (ऊह-वितर्के)।
  • ‘यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि’ (ऋ॰१.१३१.३)। यतस्तपः ससूहसि। उभयत्र समानयसि सङ्गमयसीत्यर्थः। तपः समूहसीति तपः संहतं करोषीति वरीयो व्याख्यानम्।
  • ‘समूहन्त्यग्न्यगारमुपलिम्पन्त्यायतनानि’ (आप॰श्रौ॰१.२.६.१०)। समूहन्ति सम्मृजन्ति। समूहनी सम्मार्जनी भवति।

‘पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः’ (ईश॰उ॰१६)। समूह=एकीकुरु=संहतं कुरु।

  • ‘वर्णश्रवेऽनिले रात्रौ दिवा पांसु समूहने’ (मनु॰४.१०२)। पांसुसमूहनेऽनिले=धूलिपटलोत्सारणसमर्थे वायौ।
  • ‘समुह्य स्वां महामानी तदानीमेव येदिलः। पृतनां प्रेषयामास…’ (शि॰भा॰८.३५)॥ समुह्य=सन्निपात्य।

‘समिद्धमग्निं पाणिना परिसमहेन्न समूहिन्या’ (आप॰ध॰१.४.१८)। समूहिनी=सम्मार्जनी।

  • {समर्}
  • ऋ (ऋ-गतिप्रापणयोः)।
  • ‘तेन मा समरामहि’ (अथर्व॰११.२.७)।
  • ‘मा त्वया समरामहि’ (अथर्व॰११.२.२०)। तेन त्वया वा मा सङ्गस्महीत्याह। अर्तेर्लुङि रूपम्।
  • ‘ऋतस्य योना समरन्त नाभयः’ (ऋ॰१.७३.१)।
  • ‘समारन्त ममाभीष्टाः सङ्कल्पास्त्वय्युपागते’ (भट्टि॰८.१६)। उक्तोऽर्थः। '
  • ‘दभ्रेभिश्चित्समृता हंसि भूयसः’ (ऋ॰१.३१.६)। समृता=समृते=सङ्गते।
  • ‘दिवः स्कम्भः समृतः पाति नाकम्’ (ऋ॰४.१३.५)।
  • ‘समर्पयेन्द्र महता वधेन’ (अथर्व॰६.६६.१)। समर्पय=संयोजय=प्रहर=क्षिणु=विध्य।
  • ‘इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे भूपतयः समेताः। छिद्रेण यन्त्रस्य समर्पयध्वं शरैः शितैर्व्योमचरैर्दशार्धैः’ (भा॰आदि॰१८५.३५)॥ समर्पयध्वम्=विध्यत।
  • ‘अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च। शरैः समर्पिता नागाः … …’ (भा॰द्रोण॰९०.१९)॥ उक्तोऽर्थः।
  • ‘स चिन्तयानो वैदेहीं कामबाणसमर्पितः’ (रा॰३.५५.२)। पञ्ज शरशराहत इत्याह।
  • ‘देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम्’ (वा॰सं॰१२.६६)। समरे पथीनाम्=पथिवतां (पथिकानां) सङ्गमस्थाने।
  • ‘कथा न क्षोणी र्भियसा समारत’ (ऋ० १।५४।१)। भयेन किमिति न समं प्रद्रवन्तीत्याह। क्षोणीः=क्षोण्यः। तात्स्थ्याल्लोका जनाः।
  • ‘समरन्त पर्व’ (=पर्वाणि) (ऋ० ४।१९।९)। समरन्त समारन्त समगच्छन्त, समधीयन्त समाहितान्यभवन्। पर्वाणि अङ्गानि।
  • ‘धिया रथं न कुलिशः समृण्वति’ (शां० ब्रा० १९।९)। समृण्वति समानयति।
  • ‘साधुर्वा यदि वा ऽ साधुः परैरेष समर्पितः’ (रा० ५।५२।१९)। समर्पितः सम्प्रेषितः।

ऋच्छ्

  • {समृच्छ्}
  • ऋच्छ् (ऋच्छ-गतीन्द्रियप्रलयमूर्त्तिभावेषु)।
  • ‘तस्मादनभिरूपाभिर्वारिभिर्मा त्वं समर्च्छसि’(=समृच्छसि) (भा॰उ॰७६.४)। विध्यसीत्यर्थः।
  • ‘समार्छन्मामका युद्धे कथं सञ्जय शंस मे। भरद्वाजं जिघांसन्तो सव्यसाचिवृकोदरौ’ (भा॰द्रोण॰१८३.१७)॥ समार्छन्=समासादयन्=अभिमुखमयुः। ताभ्यां सङ्गता अभूवन्नित्यर्थः।
  • ‘वायुना हीदं यतमन्तरिक्षं न समृच्छति’ (ऐ॰ब्रा॰२.४१)। न समृच्छति न प्रलीयते न शीर्यत इति षड्गुरुशिष्यभट्टभास्करौ। यतं बद्धम्। यमेर्निष्ठा।
  • ‘वज्रौ ह समृच्छेयातां तवोह वज्रौ न समृच्छेते’ (श॰ब्रा॰१.२.५.२०)।
  • ‘यथाल्पधान्ये (अनसि) पात्राणि समृच्छेरन्नेव तस्योक्थानि समृच्छन्ते’ (शां० ब्रा० ११।८)। समृच्छेरन् सङ्घट्टेरन्। समृच्छन्ते परस्परमाहन्यन्ते।
  • ‘उक्थानामनुसमरमीश्वरो यजमानं भ्रेषोऽन्वेतोः’ (शां० ब्रा० ११।८)। समरः सङ्घट्टनम्।

ऋञ्ज्

  • {समृञ्ज्}
  • ऋञ्ज् (ऋञ्जतिः प्रसाधनकर्मा छान्दसः)।
  • ‘समस्मिन्नृञ्जते गिरः’ (ऋ० १।६।९)।

ऋध्

  • {समृद्ध्}
  • ऋध् (ऋधु-वृद्धौ)।
  • ‘समिद्धहोमेन ह्येव समृद्धा आहुतयः’ (श॰ब्रा॰१.५.३.७)। समृद्धा सम्पन्नाः सम्यङ्निरुप्ता निरूढा (भवन्ति)।
  • ‘असमृद्धेन कामेन’ (रा॰२.९२.१६)। असमृद्धः=अपूर्णः=असिद्धः।
  • ‘देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् (ब्राह्मणान्) समृध्नुयात्’ (मनु॰९.३१५)। समृद्धिं प्राप्नुयादित्याह।
  • ‘अन्तःपुरसमृद्धं च क्रोशन्तं (राजानम्) पर्यदेवयन्’ (रा॰२.४०.३८)। अन्तःपुरसमृद्धमन्तःपुरसहितमिति यावत्।

ऋष्

  • {समृष्}
  • ऋष् (ऋषी-गतौ)।
  • ‘उभावन्तौ समर्षसि वत्सः सम्मातराविव’ (अथर्व॰१३.२.१३)। समर्षसि=योजयसि॥ सम्मातरौ=पुण्यात्मानौ मातरौ।
  • ‘मर्य इव युवतिभिः समर्षति (ऋ॰९.८७.१६)। समर्षति=सङ्गच्छते=सहचरो भवति।

कथ्

  • {संकथ्}
  • कथ् (कथ-वाक्यप्रबन्धे)।
  • ‘त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पते। नातितृप्यति मे चित्तम् …’ (भा॰पु॰८.५.१३)॥ सङ्कथ्यमानेन=सङ्कीर्त्यमानेन=उपवर्ण्यमानेन=अभिष्टूयमानेन।
  • ‘एवं सङ्कथिते कृत्स्ने मोक्षधर्मे’ (भा॰सभा॰२२.३३)। सङ्कथिते=प्रोक्ते=निरुक्ते=व्याख्याते=उपविष्टे।

कम्प्

  • {संकम्प्}
  • कम्प् (कपि-चलने)।
  • ‘अमर्षात्स्फुरमाणौष्ठः समकम्पत राक्षसः’ (रा॰३.५७.२६)। समकम्पत=बाढमकम्पत प्रावेपत।
  • ‘अतिष्ठद् भ्रूणहा कोट्यां वार्धुषिः समकम्पत’ (व॰ध॰२.४२)।

कल्

  • {संकल्}
  • कल् (कल-गतौ सङ्ख्याने च)।
  • ‘तरुच्छिद्रप्रोतान् (शशिनः करान्) बिसमिति करी सङ्कलयति’ (सुभा॰)। सङ्कलयति=गृह्णाति। जानाति।
  • ‘पत्तीन् सर्वान् अतिबलान् योत्स्यमानानवस्थितान्। एकः सङ्कालयिष्यामि वज्रपाणिरिवासुरान्’ (भा॰वि॰६१.३०)॥ विद्रावयिष्यामीत्याह।
  • ‘गां दोग्ध्रीं समकालयन्’ (हरि॰१.२१.२७)। समकालयन्=वनमनयन्।
  • ‘सङ्कलयति कालयति वा भूतानीति कालः’ (सुश्रुते सूत्र॰६.२)। सङ्कलयति=सङ्गृह्णाति।
  • ‘न तु सङ्कालनं राज्ञो विना पुत्रेण मन्त्रिणः’ (रा॰२.६६.१५)। सङ्कालनं प्रेतनिर्हारम्।
  • सङ्गूढः स्यात्सङ्कलितः (अमरः)। पिण्डीकृत इत्याह।

कस्

  • {संकस्}
  • कस् (कस-गतौ)।
  • ‘सङ्कसुको विसंस्थुलो भवति दुर्वृत्तो वा।’
  • सङ्कसुकोऽस्थिर इत्यमरः। श्मशानाग्निरपि सङ्कसुक उच्यते।

काल्

  • {संकाल्}
  • काल् (काल-क्षेपे)।
  • ‘यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत्। तथा भीमो गजानीकं गदया समकालयत्’ (भा॰भीष्म॰६२.६३)॥ समकालयत्=अक्षिपत्=प्राजत्।

काश्

  • {संकाश्}
  • काश् (काशृ-दीप्तौ)।
  • ‘ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः। प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकाशिरे’ (रा॰२.६५.१४)॥ सञ्चकाशिरे=प्रतिबभुः।
  • ‘असभ्याः सभ्यसङ्काशाः सभ्याश्चासभ्यदर्शनाः’ (भा॰शां॰१११.६५)। सभ्यसङ्काशाः=सभ्यसन्निभाः=सभ्यसदृशाः।

कित्

  • {संकित्}
  • कित् (कित-निवासे रोगापनयने च)।
  • ‘सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च’ (सा॰द॰)। सङ्कतो रूढिः। सङ्केतः कामिनोनिश्चितपूर्वं सङ्गमस्थानम्।
  • ‘नामसमेतं कृतसङ्केतं वादयते मृदुवेणुम्’ (गीत॰५)।
  • कान्तार्थिनी तु या याति सङ्केतं साभिसारिका (अमरः)।
  • ‘सं जानते मनसा सं चिकित्रे’ (ऋ० १०।३०।६)। संचिकित्रे=संचिकितिरे संकेतयन्ति सम्यक् पश्यन्ति बुध्यन्ते।

कुच्

  • {संकुच्}
  • कुच् (कुच-सङ्कोचने)।
  • ‘न मे मनः सङ्कुचति प्रदानात्’ (अवदा॰श्रेष्ठि॰१२)। प्रदाने न विचारयति।
  • ‘प्रत्यङ् जनान् सञ्चुकोचान्तकाले’ (नि॰१.१५.७)। सङ्कोचयतीति दुर्गः।
  • ‘न श्रुतेन न दानेन न सान्त्वेन न चेज्यया। त्वयेयं पृथिवी लब्धा न सङ्कोचेन चाप्युत’ (भा॰शां॰१४.१८)॥
  • सङ्कोचो याञ्चेति नील॰।
  • ‘न हि सङ्कुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः’ (रा॰४.३०.२०)॥ सङ्कुचितः=संवृतः=निरुद्धः।
  • ‘सङ्कुचितव्रणता ‘(सुश्रुते १.३६.२)। क्षतस्य तनूभाव इत्याह।

कुल्

  • {संकुल्}
  • कुल् (कुल-संस्त्याने बन्धुषु च)।
  • संस्त्यानं सङ्घातः। बन्धुशब्देन बन्धुव्यापारो लक्ष्यते।
  • ‘अन्योन्यप्रतिघातसङ्कूलचलत्कल्लोलकोलाहलैः’ (उत्तर॰२.३०)। सङ्कुलमक्रमं यथा स्यात्तथा।
  • ‘महतः पौरजनस्य सङ्कुलेन विघटितायां तस्यामागतोऽस्मि’ (मालती॰१)। सङ्कुलम्=सम्मर्दः=अोघः=जननिकायः।
  • अथ सङ्कुलविलष्टे परस्परपराहते (अमरः)। यावज्जीवमहं मौनी ब्रह्मचारी च मे पितेत्यादि सङ्कुलं वचः।

कृ

  • {संकृ}
  • कृ (डुकृञ्-करणे)।
  • ‘समिन्द्र गोभिर्मधुमन्तमक्रन्’ (ऋ॰३.३५.८)। समक्रन्=समकुर्वन्=समयुञ्जन्। भूषणाद्यर्थाभावात्सुडागमो न कृतः।
  • ‘इषुं समस्कुर्वत’ (तै॰सं॰६.२.३.१) धनुषि समदधुरित्यर्थः।
  • ‘पित्रे चिच्चक्रुः सदनं समस्मै’ (ऋ॰१०.८२.४)। सञ्चक्रुः=निर्ममुः।
  • ‘तस्यास्थिभिर्महाघोरं वज्रं सङ्क्रियतां दृढम्’ (भा॰वन॰१००.१०)। सङ्क्रियताम्=निर्मीयताम्। मूषणाद्यर्थविरहादत्रापि सुडभावः।
  • ‘सौवर्णानि च भाण्डानि सञ्चक्रुस्तत्र शिल्पिनः’ (भा॰आश्व॰८.३५)।
  • ‘तस्मिन् सङ्क्रियमाणे तु राघवस्याभिषेचने’ (रा॰३.५३.५)। सङ्क्रियमाणे=निर्वर्त्यमाने।
  • ‘फलमूलामिषं शाकं संस्कृतं यन्महानसे’ (भा॰वन॰३.७३)। संस्कृतम्=श्रपितम्।
  • ‘असूर्ते सूर्ते रजसि निषर्त्ते ये भूतानि समकृण्वन्निमानि (ऋ॰१०.८२.४)।
  • ‘असंस्कृतान् पशून् मन्त्रैर्नाद्याद्विप्रः कदाचन’ (मनु॰५.५६)। असंस्कृतान्=अशोधितान्। मन्त्रवत्प्रोक्षणादिसंस्कारशून्यानित्यर्थः।
  • ‘सम्परिभ्यां करोतौ भूषणे’ (पा॰६.१.१३७)।
  • ‘ककुभं समस्कुरुत’ (शिशु॰९.२५)। अभूषयदित्यर्थः।
  • ‘सुसंस्कृतोपस्करया’ (स्त्रिया भाव्यम्) (मनु॰५.१५०)। सुशोधितकुण्डकटाहादिगृहभाण्डयेत्याह।
  • ‘एष सर्वान्महीपालान् करदान् समकारयत्’ (भा॰वि॰७०.२२)। समकारयत्=अकारयत्। नार्थः समा।
  • ‘दमघोषात्मजं वीरं संस्कारयत मा चिरम्’ (भा॰सभा॰४५.३५)। अग्निसंस्कारोऽस्य कार्यतामित्याह।
  • ‘मधुना समकारि कानने रुचिरा काचन कान्तिरुच्चकैः’ (पारिजात० ११।८)। भूषणाद्यर्थाभावे सुट् न कृत इति साधु कृतम्। सम्शब्दप्रयोगस्तु पादपूरणः कवेरशक्तिं व्यनक्ति।
  • ‘स प्रथमः संकृतिविश्वकर्मा’ (तै० ब्रा० १।१।१।५)। संकृतिः समीचीनव्यापारः।

कृत्

  • {संकृत्}
  • कृत् (कृती-छेदने)। ‘यानि मांसानि संस्कृत्य सन्न्यासुः’ (श॰ब्रा॰३.१.३.४)। संस्कृत्य=खण्डशः कर्तित्वा=छित्त्वा।

कृष्

  • {संकृष्}
  • कृष् (कृष-विलेखने)।
  • ‘इच्छन् पक्षपुच्छाप्ययेषु चतुरङ्गुलं चतुरङ्गुलं सङ्कर्षति विकर्षत्यन्ते’ (का॰श्रौ॰१६.८.१५)। सङ्कर्षति=सङ्कोचयति। विकर्षति=विस्तारयति।
  • ‘क्व चासौ पुरुषः श्यामो योऽसौ मां सञ्चकर्ष ह’ (भा॰वन॰२९७.६५)। सञ्चकर्ष=साकं कृष्टवान्।
  • ‘कोटीः शतसहस्राणि हरीणां समकर्षत’ (भा॰वन॰२८३.५)। सेनानीः सन् सहानयदित्यर्थः।
  • ‘यः परमः सङ्कर्षः सामावस्या’ (गो॰गृ॰१.५.७)। सङ्कर्षः सन्निकर्षः। निस्त्यक्तः। समैव सान्निध्यार्थं लब्धेः। यावदर्थं शब्दप्रयोगः।

कॄ

  • {संकॄ}
  • कॄ (कॄ-विक्षेपे)।
  • ‘शतहस्त समाहर सहस्रहस्त सङ्किर’ (अथर्व॰३.२४.५)। भूरि क्षिप। धनमस्मास्विति शेषः। धनवर्षं वर्षेत्याह।
  • ‘सं दाशुषे किरतु भूरि वामम्’ (तै॰सं॰३.३.११.५)। उक्तोऽर्थः।
  • ‘गामश्वं रथ्यमिन्द्र सङ्किर’ (ऋ॰६.४२.२)।
  • ‘सं सहस्रा कारिषच्चर्षणिभ्य आ’ (ऋ॰६.४८.१५)।
  • ‘ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्ते परस्परम्’ (भा॰वन॰१९०.१७)। सम्मिश्रिता भवन्ति=व्यतिकीर्यन्ते=योनिसङ्करमापद्यन्ते।
  • ‘सङ्कीर्यन्ते ततः प्रजाः। न सङ्किरेत्तदन्नं च’ (भा॰अनु॰१३६.१३)। उत्कृष्टं निकृष्टेन न मिश्रयेदित्याह।
  • ‘यत्र यत्र च सङ्कीर्णमात्मानं मन्यते द्विजः। तत्र तत्र तिलहोमो गायत्र्या वचनं तथा’ (याज्ञ॰३.३०९)॥ यत्र यत्र ब्रह्मवधादौ तज्जनितकल्मषजातेनात्मानं सङ्कीर्णमभिभूतं मन्यत इति तदर्थ इति मिताक्षरा।
  • ‘अस्थि कङ्कालसङ्कीर्णा’ (भूः) (भा॰आदि॰२१०.२४)। सङ्कीर्णा=आकीर्णा=परीता=परिक्षिप्ता=सङ्कुला।
  • ‘अनेकजनसकङ्कर्णान् ग्रामान्’ (रात॰५.१०५)। उक्तोऽर्थः।
  • ‘मदोद्धतस्य नृपतेः सङ्कीर्णस्येव दन्तिनः’ (हितोप॰४.१६)। ‘सङ्कीर्णस्य=प्रभिन्नस्य। मत्तस्य=मदस्राविणः।
  • ‘महीभुजो मदान्धस्य सङ्कीर्णस्येव दन्तिनः’ (हितोप॰३.१३४)। उक्तोऽर्थः।
  • ‘नाकाले नाति सङ्कीर्णे…’ (भुञ्जीत) (वि॰पु॰३.११.८३)। नातिसङ्कुचिते स्थाने (?)।
  • जागर्त्येव हि दुष्टात्मा सङ्करेऽग्निरिवोत्थितः (भा॰शां॰१०३.१२)। सङ्करेऽवकरे।
  • ‘सकर्दमं तु वर्षासु प्रविश्य ग्रामसङ्करम् (मिताक्षरोद्धता यमस्मृतिः)। ग्रामसङ्करः=ग्रामसलिलप्रवाहः। (मिताक्षरा॰३.३०)।
  • ‘सङ्करो नरकायैव कुलघ्नानां कुलस्य च’ (गीता१।४२)। सङ्करः सङ्कीर्णता।
  • ‘न संकिरेत्तदन्नं च’ (भा० अनु० १३६।१३)। इदं पुस्तके धृतपूर्वम्। व्याख्यान्तरन्यासायेहानुवादः। पुनर्भोजनं न कुर्यादिति वाक्यार्थः।
  • ‘आप्तान्वितमसंकीर्णं शुचि कार्यं महानसम्’ (सुश्रुत० सूत्र० ४६।५०१)। असंकीर्णमसङ्कटम्। सावकाशम्।

क्लृप्

  • {संक्लृप्}
  • क्लुप् (क्लृपू-सामर्थ्ये)।
  • ‘तस्मात्तेन (मनसा) उभयं सङ्कल्पते सङ्कल्पनीयं चासङ्कल्पनीयं च’ (छां॰उ॰१.२.७)। सङ्कल्पते=इच्छति=कामयते। सङ्कल्पनीयम् एषणीयम्। असङ्कल्पनीयम् अनेषणीयम्।
  • ‘कुमारास्ते विशाखं च पितृत्वे समकल्पयन्’ (भा॰वन॰२८८.३)। समकल्पयन्=मनस्यकुर्वन्।
  • ‘राजदुहितुर्विलासप्रायमाकारमात्माभिलाषमूलमिव यथा सङ्कल्पयेत्’ (दशकु॰)। सङ्कल्पयेत्=उत्प्रेक्षेत।
  • ‘लोम लोम्ना सङ्कल्पया त्वचा कल्पया त्वचम्’ (अथर्व॰४.१२.५)। योजयेत्यर्थः।
  • ‘यथासङ्कल्पिताश्चेह सर्वान् कामान् समश्नुते’ (मनु॰२.५)। सङ्कल्पितान्=मनसा ध्यातान्।
  • ‘अयाचितमसङ्कृप्तमुपपन्नं यदृच्छया (भैक्ष्यम्)’ (भा॰आश्व॰४६.१९)।
  • ‘अतीतमपि न स्मरन्नपि च भाव्यसङ्कल्पयन्’ (भर्तृ॰३.६३)। उक्तोऽर्थः।
  • ‘तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा’ (भा॰अनु॰९१.२४)। सङ्कल्पिताः=निश्चिताः=निर्णीताः।
  • ‘सङ्कल्पितार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे’ (कु॰३.११)। चिकोर्षितेऽर्थ इत्याह।
  • ‘तत्पुत्र शीघ्रं विधिना विधिज्ञैर्वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः। सङ्कल्प्य राजानमदीनसत्त्वमात्मानमुर्व्यामभिषेचयस्व’ (रा॰२.७२.५३)॥ सङ्कल्प्य=अन्त्यामर्चामस्मै प्रयुज्य।
  • ‘असङ्कल्पयन्’ (कौ॰सू॰४२)। अविचारयन्नित्याह।
  • ‘सङ्कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम्’ (हरि॰१.६.१०)। प्रकल्प्येत्यर्थः।
  • ‘सङ्कल्प्य तेषां कुल्यानि (कीकसानि)’ (भा॰आश्रम॰३९.२२)। सङ्कल्प्य=एकीकृत्य।
  • ‘तत् सङ्कल्पोपहितजडिमस्तम्भमभ्येति गात्रम्’ (मालती॰१.३५)। तत्सङ्कल्पस्तच्चिन्ता, तत्प्रतिसन्धानम्।
  • ‘वृथैव सङ्कल्पशतैरजस्रमनङ्ग नीतोऽसि मया विवृद्धिम्’ (शा॰३.५ पाठभेदः)।

क्रम्

  • {संक्रम्}
  • क्रम् (क्रमु-पादविक्षेपे)।
  • ‘स वा उत्तरामेवोपवसेत्। समिव वा एष क्रमते’ (श॰ब्रा॰१.६.३.३३)। सङ्क्रमते=सङ्घट्टते=विरोधमुपैति=सङ्घर्षति।
  • ‘सङ्क्रामतं मा जहीतं शरीरम्’ (अथर्व॰७.५३.२)। सम्बद्धौ भवतमित्याह। समवस्थितौ भवतमित्यर्थः।
  • ‘कस्मादृक्सामयोः सङ्क्रामति’ (श॰ब्रा॰८.१.३.५)। ऋक्सामे सम्बध्नातीत्याह।
  • ‘सम् अध्वानः क्रामेयुः’ (श॰ब्रा॰१३.२.४.२)। सङ्गच्छेरन्=एकी भवेयुः।
  • ‘अर्वाङ् यज्ञः सङ्क्रामत्वमुष्मादधि मामभि’ (तै॰सं॰७.३.११.१)। सङ्क्रामतु=इत आगच्छतु।
  • ‘जीवः सङ्क्रमतेऽन्यत्र क्रमबन्धनिबन्धनः’ (भा॰वन॰२०९.२४)। सङ्क्रमते=सञ्चरति=शरीरमन्यन्निगच्छतीति तात्पर्यार्थः।
  • ‘(बर्हिणः) सङ्क्रामन्त इवाभान्ति पुष्पिताः कमलाकराः’ (रा॰५.५२.१३)।
  • ‘एवं स सङ्क्रमंस्तत्र स्वर्गलोके महायशाः। ततो ददर्श शक्रस्य पुरीम्…’ (भा॰वन॰९६.५५)। सङ्क्रमन्=सङ्क्रामन्=परिक्रामन्=विचरन्।
  • ‘सङ्क्रामन्तौ बहून्देशान् शैलाच्छैलं वनाद्वनम्। ततः पुष्करिणीं रम्यां पम्पामासादयिष्यथः’ (रा॰३.७६.५)॥ उक्तोऽर्थः।
  • ‘पुत्रसङ्क्रान्तलक्ष्मीकैर्यद्वृद्धैरिक्ष्वाकुभिर्धृतम्’ (उत्तर॰१)।
  • ‘अस्मिन् (अशोके) सङ्क्रान्तानीव कुसुमानि’ (माल॰५.५)। अशोकान्तरेभ्यः सङ्क्रम्य सञ्चर्येहाशोके प्राप्तानि सन्निविष्टानीत्याह।
  • ‘रविसङ्क्रान्तसौभाग्यश्चन्द्रमा न प्रकाशते’ (रा॰३.२.१३)। इहोदाहृतिषु सम्शब्दः पूर्वस्थानप्रच्युतिपूर्वकं स्थानन्तरप्राप्तिं द्योतयति।
  • ‘औपसर्गिकरोगाः सङ्क्रामन्ति नरान्नरम्’ (सुश्रुते निदान॰६.२६)। सञ्चारिणो भवन्तीत्यर्थः।
  • ‘कालो ह्ययं सङ्क्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते’ (रघु॰५.१०)। इहापि पूर्ववद्वेद्यम्।
  • ‘अनद्धा वै सङ्क्रान्तयोर्यदीतरो वेतरमभिभवतीतरो वेतरम्’ (श॰ब्रा॰१.६.३.३३)। सङ्क्रान्तयोः सङ्घट्टमानयोः=स्पर्धमानयोः=विरुन्धानयोः। '
  • जरां त्वेतां त्वमन्यस्मिन् सङ्क्रामय’ (भा॰आदि॰८३.३९)। स्वस्मान्निष्क्रमय्यान्यत्र पुरुषे प्रापयेत्याह।
  • ‘विभीषणे सङ्क्रमय्य श्रियं वैरिणः’ (रघु॰१२.१०४)।
  • ‘स तु तं (धनुर्वेदं) प्रतिगृह्यैव पुत्रे सङ्क्रामयिष्यति’ (भा॰अनु॰५६.८)। स्वेन गृहीतां स्वस्थां धनुर्विद्यां पुत्रेऽर्पयिष्यतीत्याह।
  • ‘कदाचिदयं पाप इदमकार्यं मयि सङ्क्रामयेत्’ (मृच्छक॰)। अन्यदीयं पापं मय्यारोपयेदित्याह।
  • ‘इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप। अन्योन्यस्याभिसन्देहे तो सङ्क्रामयतां ततः’ (भा॰उ॰१९२.८)। सङ्क्रामयताम्=समचरताम्=साहचर्यमगच्छताम् इति कश्चित्। विन्यमयेतामित्यर्थ इति नीलकण्ठः। सन्देहे लिङ्ग इति च सः।
  • ‘स ते दुहितरं… वृणुते। वरदः शम्भुरस्मत्सङ्क्रामितैः पदैः’ (कु॰६.७८) अस्मासु निवेशितैर्वचोभिरित्यर्थः।
  • ‘रसातलं सङ्क्रमिते तुरङ्गे’ (रघु॰२.१३३)।
  • ‘सङ्क्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः’ (हरि॰१.३२.१४)। भारतस्य (नष्टपुत्रस्य) पुत्रत्वं प्रापितः (पुत्रोऽसन्) इत्यर्थः।
  • ‘एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्। उत्पाट्य सङ्क्रामयितुम्’ (रा॰६.१.४१)। सङ्क्रामयितुम्=स्थानान्तरं प्रापयितुम्।
  • सङ्क्रमो दुर्गसञ्चर इत्यमरः। स्वामी तु सङ्क्राम इति पठति।
  • ‘सङ्क्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः (भा॰वन॰१५.१५)। सङ्क्रमा नदीसेतवः।
  • ‘नदीमार्गेषु तथा सङ्क्रमानवसादयेत्’ (भा॰शां॰६९.३९)। सङ्क्रमान्=अवतरणार्थान् सेतून्।
  • ‘ततस्तैः सङ्क्रमः सर्वः प्रत्युक्तः शास्त्रकोविदैः’ (हरि॰१.२०.६५)। सङ्क्रम उपायान्तरेण शम इति नील॰।
  • ‘विद्यानुष्ठानसम्पन्नो यज्वा पण्डित एव वा। वैश्वदेवे तु सम्प्राप्तः सोऽतिथिः स्वर्गसङ्क्रमः’ (बौ॰ध॰२.३.५.१२ गोविन्दस्वामिधृतः शातातपश्लोकः)। सङ्क्रमः=सञ्चरः=मार्गः।
  • ‘असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति। आत्मानं सङ्क्रमं कृत्वा कृच्छ्रधर्मविदेव सः’ (भा॰शां॰१३२.४)॥ सङ्क्रमः=नागमनमार्गः।
  • ‘मृजेर्वृद्धिः’ (७.२.११४)। अत्रेदं पठ्यते भाष्ये- इहान्ये वैयाकरणा मृजेरजादौ सङ्क्रमे विभाषा वृद्धिमारभन्ते। तत्र कैयटीयं व्याख्यानम्- सङ्क्रामतो गुणवृद्धी अस्मादिति व्युत्पत्त्या गुणवृद्धिप्रतिषेधनिमित्तभूतः क्विप्प्रत्ययः सङ्क्रमशब्देनोच्यते, योगरूढेः।
  • ‘सेतुमेव तं सङ्क्रमणं यजमानः कुरुते स्वर्गस्य लोकस्य समष्टये’ (श॰ब्रा॰१३.२.१०.१)। सङ्क्रामति पारं गच्छत्यनेनेति सङ्क्रमणः, सेतुविशेषणम्।
  • ‘यदि दुःखमकृत्वा तु मम संङ्क्रमणं भवेत्’ (रा॰२.१३.१२)। सङ्क्रमणं स्वर्गं प्रति गमनम्।
  • ‘कथं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च। औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्तरम्’ (सुश्रुत० निदा० ५।२६)॥ संक्रामन्ति आविशन्ति। सोऽभवन्मन्मथाक्रान्तः सङ्क्रान्तः स्वेदवारिणि ( )। सङ्क्रान्तः प्रतिबिम्बितः प्रतिफलितः।
  • ‘मिथोदर्पेण सङ्क्रान्ताः’ (बृ० क० म० वेताल १।१६०)। संक्रान्ताः सङ्गताः समं क्रान्ता वा।
  • ‘योषिद्भिः सह संक्रान्ताश्चिक्रीडुर्जहृषुश्च वै’ (रा० ७।२६।८)। संक्रान्ताः संगताः सहचरिताः।
  • ‘न पर हृदि संक्रान्ता चित्रं दिक्ष्वपि शून्यता’ (कथा० ३३।१३८)। संक्रान्ता व्याप्ता।

क्रीड्

  • {संक्रीड्}
  • क्रीड् (क्रीडृ-विहारे)।
  • ‘तस्य सङ्क्रीडमानस्य महादेवस्य धीमतः। शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम्’ (रा॰१.३६.६)॥ सङ्क्रीडमानस्य=रममाणस्य=विहारमनुभवतः। नार्थः समा।
  • ‘हरः सङ्क्रीडमानश्च उमया सह पर्वते’ (रा॰१.४७.१०)।
  • चित्रं सङ्क्रीडमानास्ताः क्रीडनैर्विविधैः (रा॰१.९.१४)। उक्तोऽर्थः।
  • ‘सङ्क्रीडन्ति शकटानि’ (पा॰१.३.२१ सूत्रवृत्तौ)। कूजन्तीत्यर्थः।
  • ‘सङ्क्रीडते खले रामा नगे मेघोऽम्बु मुञ्चति’ (बृ० क० को० ५८।२९)। सङ्क्रीडते क्रीडति खेलति। खले इति सामीप्ये सप्तमी।
  • ‘तासां सङ्क्रीडमानानामेव वादित्रनिःस्वनः’ (रा० ३।११।२०)। उक्तोऽर्थः।

क्रुध्

  • {संक्रुध्}
  • क्रुध् (क्रुध-क्रोधे)।
  • ‘सङ्क्रुध्यसि मृषा किं त्वं दिदृक्षं माम् मृगेक्षणे’ (भट्टि॰८.७६)। अनर्थकः सम्-शब्दः।
  • ‘धर्मराजो न सङ्क्रुध्येत्’ (भा॰वन॰२३९.९)।

क्रुश्

  • {संक्रुश्}
  • क्रुश् (क्रुश-आह्वाने रोदने च)।
  • ‘एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुशुर्नृपाः’ (भा॰सभा॰४४.३५)। समम् उच्चैश्चक्रन्दुः।
  • ‘सङ्क्रोशतामेनान् (अमित्रान्) द्यावापृथिवी’ (अथर्व॰८.८.२१)। सक्रोधमभिसम्बोधयतामित्याह।
  • ‘ऋतावरीरिव सङ्क्रोशमानाः’ (ऋ॰४.१८.६)। सङ्क्रोशमानाः=सङ्क्रोशन्त्यः=उच्चैः शब्दायमानाः।
  • ‘जनयिष्यति सङ्क्रोशं रामस्य विवासनम्’ (रा॰२.५८.३०)। सङ्क्रोशम्=हाहाकारम्। दुःखमिति तु तिलकः।
  • ‘एतेन वा अङ्गिरसः संक्रोशमानाः स्वर्गं लोकमायन्’ (पञ्च० ब्रा० १२।३।२३)। संक्रोशमानाः संहत्य शब्दं परस्पराह्वानरूपं प्रियवाक्यं वदन्तः।

क्षर्

  • {संक्षर्}
  • क्षर् (क्षर-सञ्चलने)।
  • ‘इन्द्रस्य सोम जठरे समक्षरः’ (ऋ॰९.८५.५)। समक्षरः=समस्यन्दथाः।
  • ‘तदश्रु सङ्क्षरितमासीत्’ (श॰ब्रा॰६.३.१.२८)।

क्षि

  • {संक्षि}
  • क्षि (क्षि-क्षये)।
  • ‘पशून्त्सङ्क्षिणाति’ (अथर्व॰३.२८.२)। एषा विजाता यमिनी पशूनां हानये कल्पत इत्याह।
  • ‘आदित्यस्य गतागतैरहरहः सङ्क्षीयते जीवितम्’ (भर्तृ॰३.४४)। हीयत इत्यर्थः।

क्षिप्

  • {संक्षिप्}
  • क्षिप् (क्षिप-प्रेरणे)।
  • ‘सङ्क्षिप्य संरम्भमसद्विपक्षम्’ (भट्टि॰२.५२)। सङ्क्षिप्य=उपसंहर।
  • ‘महार्णवं विक्षिपेत्सङ्क्षिपेच्च’ (भा॰१४.११६१)। सङ्क्षिप्तं सङ्कुचितं कुर्याद् इत्याह।
  • ‘स यातस्तेजसा व्योम सङ्क्षिपन्निव वेगितः’ (रा॰)। उपसंहरन्निव, सङ्कोचमापादयन्निव।
  • ‘शरीरमत्यर्थं सङ्क्षिप्य’ (रा॰५.१.१९७)। सङ्क्षिप्य=तनूकृत्य।
  • ‘विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षिप्य चाब्रवीत्’ (भा॰आदि॰१.५१)।
  • ‘सङ्क्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि (मनु॰७.३४)।
  • ‘सङ्क्षिप्येत क्षणमिव कथं दीर्घयामा त्रियामा’ (मेघ॰१०७)। उपसंह्रियेत।
  • ‘धर्मपाशेन सङ्क्षिप्तः प्रकाशं नाभ्युदैक्षत’ (रा॰२.४०.३९)। धर्मपाशेन बद्ध इत्याह। संयुक्त इति पाठान्तरम्।
  • ‘(भृगवः) सङ्क्षिप्तास्तस्य तेजसा’ (भा॰पु॰८.१८.२५)। मन्दीकृताः=मन्दीकृततेजस्काः। अभिभूताः।
  • ‘भिन्दिपालान् कुठारांश्च …। युगपत् सङ्क्षिपन्ति स्म वधार्थं कृष्णनन्दने’ (हरि॰२.१०५.५७)॥ समं क्षिपन्तीत्यर्थः। समानार्थः। युगपच्छब्देन तदर्थगतेः।
  • ‘ततो द्विजोत्तमास्तोयं सङ्क्षिपन्ति महामुने’ (वि॰पु॰२.८.५१)। क्षिपन्ति प्रक्षिपन्तीति वाऽर्थः।
  • ‘यावदूर्ध्वमधश्चैव ग्रीवां सङ्क्षिपते पशुः’ (भा॰शां॰११२.१४)। सङ्कोचयतीत्यर्थः।
  • ‘सङ्क्षिपेच्च महामेरुम्’ (भा॰आदि॰७१.३६)। सङ्क्षिप्तं सङ्कुचितं कुर्यादित्याह।
  • ‘कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः’ (भा॰आदि॰१.२४९)। सङ्क्षिपते=संहरते।
  • ‘सत्त्वं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः’ (भा॰वन॰१९०.१४)। उक्तोऽर्थः।
  • ‘मम्लौ न गात्रं न मुमूर्च्छ चेतः सञ्चिक्षिपे न क्षतजं क्षरद्वा’ (अवदा॰८.४२)। न सञ्चिक्षिपे=नोपरराम, न विराममाप। न तस्थौ।
  • ‘सङ्क्षिप्यतां जवनिका’ (स्वप्न॰)। सङ्गृह्य तामित्याह। अपनीयतामिति त्वार्थिकोऽर्थः।
  • ‘शुभाशुभान्वितान् भावान् विसृजन् सङ्क्षिपन्नपि’ (भा॰अनु॰१४.७२)। सङ्क्षिपन्=संहरन्।
  • ‘सम्मूढनिगमां सर्वां सङ्क्षिप्तविपणापणाम्’ (अयोध्याम्) (रा॰२.११४.१३)। सङ्क्षिप्ताः संवृता विपणापणाः पण्यवीथयो यस्यां ताम्।
  • ‘न तत्र चन्द्रार्ककरैर्दिगङ्गना विभान्ति सङ्क्षिप्ततमोऽवगुण्ठनाः’ (अवदा॰ब्रह्म॰२१)। सङ्क्षिप्तम्=अपनीतम्।
  • ‘सङ्क्षिप्तधैर्योऽपि मनोभवेन’ (अवदा॰चूडू॰८)। सङ्क्षिप्तधैर्यः=संहृतधीरभावः।
  • ‘सङ्क्षिप्तनीवारासु (भूमिषु)’ (रघु॰१.५२)। सङ्क्षिप्तो राशीकृतो नीवारस्तृणधान्यं यासु तासु।
  • ‘मत्पराक्रमसङ्क्षिप्तराज्यभोगपरिच्छदः’ (भट्टि॰५.८६)। मत्पराक्रमेण सङ्क्षिप्तौ अपहृतौ राज्यभोगपरिच्छदौ यस्य सः।
  • ‘एकप्राकारसङ्क्षिप्तं कोसलराज्यं कृत्वा’ (प्रतिमा॰१)। सङ्क्षिप्तम्=परिक्षिप्तम्। अपूर्वः प्रयोगः समर्थनामपेक्षते।
  • ‘एष ते त्रिषु लोकेषु सङ्क्षिप्यापः पिबाम्यहम्’ (हरि॰१.३२.४६)।
  • ‘इन्द्रियाणि च सङ्क्षिप्य मनः सङ्क्षिप्य चञ्चलम्’ (चरके शारीर॰३.२७)। सङ्क्षिप्य=प्रत्याहृत्य=व्यावर्त्य विषयेभ्य इति यावत्।
  • ‘स्कन्दः सनत्कुमारश्च तेजः सङ्क्षिप्य तिष्ठतः’ (हरि॰१.३६)। सङ्क्षिप्य=निगृह्य।
  • ‘सोऽहं भुजाभ्यां दीर्घाभ्यां सङ्क्षिप्यास्मिन्वनेचरान्’ (रा॰३.७१.१४)। सङ्क्षिप्य=सङ्गृह्य=गृहीत्वा।
  • ‘समरव्यायामसङ्क्षोभितान् निरुपचारं सङ्क्षिप्य केशान्’ (प्रतिज्ञा॰१)। सङ्क्षिप्य=संहत्य।
  • ‘सग्रहं कृष्ण नक्षत्रं सङ्क्षिप्यारिविमर्दन’ (हरि॰२.४०.४४)। सङ्कोचं प्राप्येति नील॰। दुःश्लिष्टपदमिदं पद्यम्।
  • ‘प्रजासङ्क्षेपसमये दण्डहस्तमिवान्तकम्’ (भा॰वन॰१५५.२७)। सङ्क्षेपसमये=संहारकाले। स्यात्पुलाकस्तुच्छधान्ये सङ्क्षेपे भक्तसिक्थके इत्यमरोक्तिं व्याचक्षाणः स्वाम्याह- सङ्क्षेपे क्षिप्रे यथा- पुलाककारी विपुलाशयः स्यात्। तेन सङ्क्षेपः क्षिप्रवचनो भवतीति स मनुत इत्यनुमा।
  • ‘सङ्क्षेपो विक्षेपः कृतः’ (कौ॰अ॰२.८.२६)। जनसमूहदेयः पिण्डकरः सङ्क्षेपः। विक्षेपो विप्रकीर्णकरः कृतः, समूहिभ्यः प्रत्येकं विभज्य ग्राह्यः कृत इत्यर्थः।
  • ‘द्वाविमौ पक्षिणौ नित्यौ सङ्क्षेपौ चाप्यचेतनौ’ (भा॰आश्व॰४७.१६)।
  • ‘पक्षिणौ जीवेश्वरौ। सङ्क्षिप्येते ययोस्तौ सङ्क्षेपौ, तयोरुपाधी बुद्धिमाये’ (नील॰)।
  • ‘मार्गशीर्षं तु यो मासमेकभक्तेन संक्षिपेत्’ (भा० अनु० १०६।१७)। संक्षिपेत् उपसंहरेत्, समाप्नुयात् यापयेत्।
  • ‘यान्यान्बाणानर्जुनस्तु संचिक्षेप शिवोपरि’ (स्कन्दपु० के० १८१।६२)। संचिक्षेप प्रास। अस्थाने सम्शब्दः। विरुद्धमतिकृद्धि सः।
  • ‘तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः’ (रा० ३।११।४२)। संक्षिप्ताः सङ्ग्रहीताः, राशीकृताः।
  • ‘सर्वास्त्राणि निकृत्तानि संक्षिप्तान्यमरैर्गणैः’ (शि० पु० २।४।१५।६०)। संक्षिप्तानि क्षिप्तानि। अस्थाने सम्शब्दः।
  • ‘शस्त्राण्यस्त्राण्यनेकानि संक्षिप्तानि ह्यबुद्धितः। दधीचस्याश्रमे…’ (स्कन्द पु० १।१६।९१)॥ संक्षिप्तानि निक्षिप्तानि।
  • ‘हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः। लेढि जिघ्रति संक्षिप्य करोत्युत्तममासनम्’ (भामिनी० १।९४)॥ संक्षिप्य=अवक्षिप्य=अधः क्षिप्त्वा। सम्शब्दस्त्वत्रार्थेऽशक्तः। पादपूरण इति चेत्। हन्त पण्डितराजेनापि पादपूरणस्य समाश्रय इति दोषलेशास्पृष्टानां गिरां क्वाऽवकाशः।
  • ‘गतः सत्त्वस्य संक्षेपः’ (रा० ६।१०९।६)। संक्षेपः संग्रहस्थानम् इति तिलकः। सङ्ग्रह इति भूषणे गोविन्दराजः। रावणवधे विलपतो विभीषणस्योक्तिरियम्।

क्षुद्

  • {संक्षुद्}
  • क्षुद् (क्षुदिर्-सम्पेषणे)।
  • ‘बबन्धुर्बन्धनीयांश्च क्षोद्यान् सञ्चुक्षुदुस्तथा। बिभिदुर्भेदनीयांश्च तांस्तान् देशांस्ततस्ततः’ (रा॰२.८०.१०)। सञ्चुक्षुदुः सम्यक् पिपिषुः। नार्थः समा। धातुरेव केवलः सम्पेषणे पठितः।

क्ष्णु

  • {संक्ष्णु}
  • क्ष्णु (क्ष्णु-तेजने)।
  • ‘सङ्क्ष्णुत्येव गायेत् सङ्क्ष्णुत्येव हि वाचं पुरुषो वदति’ (षड्विंश॰२.२)। सङ्क्ष्णुत्य=निशाय। तीव्रं तारं कृत्वेत्यर्थः।
  • ‘सङ्क्ष्णुवान इवोत्कण्ठाम्’ (भट्टि॰८.४०)। सङ्क्ष्णुवानः=तीव्रामुत्कष्ठां कुर्वाणः।
  • ‘वक्षः पीठे घनास्त्रब्रणकिणकठिने संक्ष्णुवानः पृषत्कान्’ (हनुमन्नाटके १।३१)। तीक्ष्णी कुर्वन्नित्यर्थः। समः क्ष्णुव इति तङ्।

खाद्

  • {संखाद्}
  • खाद् (खादृ-भक्षणे)।
  • ‘असङ्खादन् निगिरेत्’ (लाट्या॰श्रौ॰४.११.१३) असङ्खादन अचर्वन् इत्यर्थः।

खिद्

  • {संखिद्}
  • खिद् (खिद-परिघाते)।
  • ‘समित् तान् वृत्रहाऽखिदत्खे अराँ इव खेदया’ (ऋ॰८.७७.३)। समखिदत्=समयुनक्, संयुक्तान् अधात्।
  • ‘अथ ह प्राण उच्चिक्रमिष्यन्त्स यथा सुहयः षड्वीशशकून् सङ्खिदेदेवमितरान् प्राणान् समखिदत्’ (छां॰उ॰५.१.१२)। सङ्खिदेत्=उद्धरेत्।

ख्या

  • {संख्या}
  • ख्या (ख्या-प्रकथने)।
  • ‘समख्ये देव्या धिया’ (वा॰सं॰४.२३)। दिव्येन मनसा युक्तो दृश्येऽहमित्याह।
  • ‘सोमः समादित्येभिरख्यत’ (ऋ॰९.६१.७)। समख्यत=साहचर्येरणादृश्यत। सोम आदित्यैः सहचरितः प्रकाशत इत्याह।
  • ‘अथैनां सोमक्रयण्या सङ्ख्यापयति’ (श॰ब्रा॰३.३.१.११-१२)।
  • ‘सङ्ख्याता अस्य निमिषो जनानाम्’ (अथर्व॰४.१६.५)। सङ्ख्याताः=परिगणिताः।
  • ‘वयमस्य यथा लोके सङ्ख्याताः सौम्यसाधुभिः। भार्याः पुत्राश्च शिष्याश्च…’ (रा॰२.१०१.१९)॥ सङ्ख्याताः=समाख्याता इच्छाविनियोगार्हतयेति तिलकः।
  • ‘ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः (भा॰उ॰६०.१)। सङ्ख्यातुम्=विमर्ष्टुम्।
  • ‘सङ्ख्याने कुशलो गवाम्’ (भा॰वि॰३.८)। सङ्ख्याने=परीक्षायाम्। अत एव सङ्ख्यावान् पण्डित उच्यते।
  • तथा चामरः पठति- धीरो मनीषी ज्ञः प्राज्ञः सङ्ख्यावान् पण्डितः कविः। अत एव च गोपनामसु गोसङ्ख्य इति पठितम्। गाः सञ्चष्टे गणयति गुणदोषतः परीक्षत इति तदर्थः।
  • निर्मन्युश्चाप्यसङ्ख्येयः पुरुषः क्लीबसाधनः’ (भा॰उ॰१३३.६)। असङ्ख्येयः=अगणनीयः।
  • ‘सञ्चक्ष्या दुर्जनाः’ (पा॰२.४.५४ सूत्रे वृत्तौ)। वर्जनीया इत्याह।
  • ‘नैष शक्यो मया वीरः संख्यातुं रथसत्तमः’ (भा० उ० १६७।५)। संख्यातुं योधयितुम्। संख्य हि युद्धं भवति।
  • ‘सं यस्मिन् विश्वा वसूनि जग्मुः’ (ऋ० १०।६।६)। संजग्मुः स्वत्वेन संगतानि भवन्ति।
  • ‘स त्वमग्ने सूर्यस्य वर्चसा ऽगथाः’ (तै० सं० १।५।५।५)। समगथाः समगंस्थाः सम्पृक्तोसि।
  • ‘औदुम्बर्या दक्षिणा (=दक्षिणतः) प्रावृतो निपद्यते तदेव (=तदानीमेव) सङ्गच्छते’ (पञ्च० ब्रा० १७।१२।५)। सङ्गच्छते म्रियते।
  • ‘दरिद्रशब्दस्यैकस्य नासीत्तत्रार्थसङ्गतिः’ (कथा० ३४।१२०)। अर्थसंगतिः=अर्थान्वयः=अर्थेन योगः।
  • ‘संगत्या भरतः श्रीमान् राज्येनार्थी स्वयं भवेत्’ (रा० ६।१२५।१७)। संगत्या चिरपरिचयेन कैकेयीसंगत्या वेति तिलककारः। इदं व्यवहारानवबोधमूलकम्, अनभिप्रेतं च रामस्य। वस्तुतः संगत्येति समापत्त्या, यदृच्छया, दैवयोगादित्यादिभिः समानार्थकम्। पुस्तके भारतगतेन प्रमाणप्राचुर्येण प्रतिष्ठापितो ऽयमर्थ इति नेह वितायते। रामश्च मानुष्यकसुलभचित्तवृत्तिपरिवृत्तिमेव कादाचित्कीं निमित्तीकृत्य भरतस्य राज्यकामत्वमाशङ्कते। श्रीमान् श्रियं प्राप्तः श्रियं हातुं नेच्छेदित्यभिप्रायः।
  • ‘अहं राष्ट्री संगमनी वसूनाम्’ (ऋ० १०।१२५।३)। संगमनी संगमयित्री, उपासकानां प्रापयित्री।

गम्

  • {संगम्}
  • गम् (गम्लृ-गतौ)।
  • ‘सञ्जग्मिरे पथ्या रायो अस्मिन्त्समुद्रे न सिन्धवो यादमानाः’ (ऋ॰६.१९.५)। एकीभूताः, एकायनं गता इत्याह।
  • ‘यत्र देवाः समगच्छन्त विश्वे’ (ऋ॰१०.८२.६)। समवायन्नित्याह।
  • ‘सङ्गच्छध्वं संवदध्वम्’ (ऋ॰१०.१९.२)। सङ्गताः सङ्घटिता भवतेत्याह।
  • ‘संश्रुतेन गमेमहि (मा श्रुतेन विराधिषि)’ (अथर्व॰१.१.४)। सङ्गतो निरन्तरो नः स्वाध्यायोऽस्तु।
  • ‘ये सिन्धुवितस्ते समगंसाताम्’ (रात॰५.९७)। एते भगवत्यौ कलिन्दकन्यामन्दाकिन्यौ सङ्गच्छेते। उभयत्र सम्भेदमाप्नुत इत्यर्थः।
  • ‘मर्यो न योषामभि निष्कृतं यन्त्सङ्गच्छते कलश उस्रियाभिः’ (ऋ॰९.९३.२)। सङ्गच्छते=मिथुनी भवति=संविशति=सम्भवति।
  • ‘सङ्गच्छ पौस्नि स्त्रैणं मां युवानं तरुणि शुभे’ (भट्टि॰५.९१)। सङ्गच्छेत्यत्र सकर्मकत्वात्तङ् न।
  • ‘वाक्यार्थो न सङ्गच्छते’ (वे॰सा॰)। न घटत इत्याह। ग्रामं सङ्गच्छति=ग्रामं गच्छति=प्राप्नोति।
  • ‘सङ्गच्छस्व मया सार्धमेकेनैकः’ (भा॰आदि॰१५३.२८)। सङ्ग्रामयस्वेत्याह।
  • ‘सृष्टप्राणो भृशतरं तेन चेत् सङ्गमो मम’ (भा॰सभा॰८०.४७)। सङ्गमः=सङ्ग्रामः। सृष्टप्राणः=उत्सृष्टप्राणः=प्राणव्ययेनापि कृतः।
  • ‘शस्त्राणां सङ्गमश्चैव घोरस्तत्राभवत्पुनः’ (भा॰शल्य॰१४.२६)। सङ्गमः=सङ्घट्टः=प्रतिघातः।
  • ‘वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः। आत्मतुल्यानजनयत्सहस्रं संशितव्रतान्’ (भा॰आदि॰७५.५)॥ सङ्गम्य=सम्भूय=मिथुनीभूय।
  • ‘सा मया सह सङ्गम्य पुनः कन्या भविष्यसि’ (भा॰वन॰३०७.१६)। उक्तोऽर्थः।
  • ‘वलीसङ्गतगात्रस्तु दुर्दर्शो दुर्बलः कृशः’ (भा॰आदि॰८४.६)। वलीव्याप्तावयवः।
  • ‘खे सङ्गतान्यवाद्यन्त देवतूर्याण्यनेकशः’ (हरि॰२.३०.३८)। सङ्गतानि=निरन्तराणि।
  • ‘सङ्गतं घृतं सङ्गतं तैलमित्युच्यते एकीभूतमिति गम्यते’ (२.१.१ सूत्रे भाष्ये)। एकीभूतं संशीनमित्याह।
  • ‘सङ्गताः परमायत्ता रामेण सह संयुगे’ (रा॰३.३६.६)। सङ्गताः=युयुत्सयाऽभिमुखं गताः।
  • ‘कथं काश्यपदायादाः पुंश्चल्यो मयि सङ्गताः’ (भा॰पु॰८.९.९) =मयि सङ्गताः=मामाश्लिष्टाः, मां परिष्वक्तवत्यः।
  • ‘यस्य भार्या परसङ्गता’ (पञ्चतं॰)। पुमन्तरे बद्धभावा।
  • ‘दिष्ट्या मे सङ्गतं त्वया’ (भा॰वन॰२१५.१४)। सङ्गतम्=समागमः।
  • ‘अतः परीक्ष्य कर्तव्यं विशेषात् सङ्गतं रहः’ (शा॰५.२४)। रहः सङ्गतम्=रहसि कृतं मैत्र्यम्।
  • ‘यः सङ्गतानि कुरुते मोहाच्छ्राद्धेन मानवः’ (मनु॰३.१४०)। सङ्गतानि=सम्बन्धान्।
  • ‘विषयैः सङ्गतं चास्तु त्यजेयं सङ्गतं यदि’ (भा॰आश्व॰७.२३)।
  • ‘अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम्’ (भा॰आदि॰१७७.१२)। सङ्गत्या=समापत्त्या=यदृच्छया=दैवयोगात्।
  • ‘समीक्ष्य कृष्णा वरयेत्सङ्गत्यैकतमं वरम्’ (भा॰आदि॰१८४.१८)।
  • ‘सङ्गत्या तत्र भगवान् विष्णुरासीच्चतुर्भुजः’ (भा॰उ॰१०४.२३)।
  • ‘सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः’ (भा॰अनु॰११७.२८)।
  • ‘सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम्’ (भा॰शां॰३३१.२३)। उक्तोऽर्थः।
  • ‘यथा नः सर्व इज्जनः सङ्गत्यां सुमना असत्’ (अथर्व० ३।२०।६)। संगत्यां संगमने प्राप्तौ।

गाह्

  • {संगाह्}
  • गाह् (गाहू-विलोडने)।
  • ‘(सुग्रीवः) समगाहिष्ट चाम्बरम्’ (भट्टि॰१५.५९)। आकाशमाक्रान्तवानित्याह।

गुप्

  • {संगुप्}
  • गुप् (गुपू-रक्षणे)।
  • ‘बालभावेन सङ्गुप्तः शत्रुभिश्च न धर्षितः’ (भा॰अनु॰५.२२)। सङ्गुप्तः सम्यग्रक्षितः।
  • ‘न चैव तिष्ठामि तथाविधेषु नरेषु सङ्गुप्तमनोरथेषु’ (भा॰अनु॰५.१४)। सङ्गुप्तमनोरथाः=प्रच्छन्नकामाः।

गुह्

  • {संगुह्}
  • गुह् (गुहू-संवरणे)।
  • सङ्गूढः स्यात्सङ्कलित इत्यमरः। सम्पिण्डित इत्याह।

गॄ

  • {संगॄ}
  • गॄ (गॄ-शब्दे, गॄ-निगरणे)।
  • ‘न सख्यमिन्द्रोऽसुन्वता सङ्गृणीत’ (ऋ॰४.२५.७)। अनुपगच्छतीत्याह।
  • ‘यददास्यन्ना उत सङ्गृणामि (अथर्व॰६.११९.१)। सङ्गृणामि=प्रतिजाने दास्यामीति।
  • ‘यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत सङ्गृणामि’ (अथर्व॰६.७१.३)। उक्तोऽर्थः। सङ्गृणामि निगिरामीति संस्कृतशार्मण्यकोषकारौ। अयं च तयोर्महितयोर्विभ्रमः। सम्पूर्वो गृणातिः प्रतिशाने रूढः। रूढिं च प्रत्यनादरो न युक्तः। सायणोऽप्यत्रैव सूक्ते स्माह- सम्पूर्वो गुणातिः प्रतिज्ञायां वर्तत इति।
  • ‘नित्यं शब्दं सङ्गिरते’ (पा॰१.३.५२ सूत्रवृत्तौ)। प्रतिजानीत इत्याह।
  • ‘वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः सङ्गिरमाण एव। तयाऽवजज्ञे…’ (भट्टि॰३.८)॥ उक्तोऽर्थः।
  • ‘यथास्वं सङ्गिरन्ते स्म गोप्तीषु स्वामिनो गुणान्’ (भट्टि॰८.३१)। अभ्युपगच्छन्ति=सम्मनसः सन्तो वदन्तीति तात्पर्यम्।
  • ‘मन्दाक्रान्ता…तां सङ्गिरन्ते’ (श्रुत॰)॥ ऐकमत्येन व्यपदिशन्तीत्याह। अत्र प्रतिज्ञानेऽर्थे गिरतेस्तौदादिकस्य प्रयोगो व्यवहारभ्रंशकृत इत्यस्माभिर्व्याकरणचन्द्रोदये तिङन्तप्रकरणे सप्रमाणमुपपादितमिति तत एवावसातव्यम्।
  • ‘यद्गिगामि सङ्गिरामि समुद्र इव सङ्गिरः’ (अथर्व॰६.१३५.३)। सङ्गिरामि=सम्यग्गिरामि=निगिरामि।
  • ‘सखा सख्युर्न प्रमिनाति सङ्गिरः’ (अथर्व॰१८.४.६०)। सखा (सोमः) अभिषवस्तोत्रादिना सखिभूतस्य यष्टुः सङ्गिरः सङ्गीर्यमाणानि इदमेव फलं सोमादेव लभेयेत्येवं प्रतिज्ञायमानानि काम्यमानानि वस्तूनि (सायणः)।
  • ‘दक्षिणानां च सङ्गरे घ्नन् धर्मेण न दुष्यति’ (मनु० ८।३४९)। सङ्गरो ऽवरोध इति मेधातिथिः। दक्षिणाधनगवाद्यपहारनिमित्ते संगरे संग्रामे इति कुल्लूकः।

गै

  • {संगै}
  • गै (गै-शब्दे)।
  • ‘पुराणैरिमं यजमानं राजभिः साधुकृद्भिः सङ्गायतेति तं सथा सङ्गायन्ति’ (श॰ब्रा॰१३.४.३.३)। सङ्गायन्ति=साकं गायन्ति।
  • ‘वीणागाथिनौ संशास्ति सोमं राजानं सङ्गायेतामिति’ (आश्व॰गृ॰१.१४)। उक्तोऽर्थः
  • ‘सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः’ (भा॰पु॰३.२२.३३)।
  • ‘सामसङ्गायः’ (पा॰३.२.८ सूत्रवृत्तौ)। साम सुष्ठु गायतीति।

ग्रन्थ्

  • {संग्रन्थ्}
  • ग्रन्थ् (ग्रन्थ-सन्दर्भे)।
  • ‘वि शुष्णस्य सङ्ग्रथितमनर्वा विदत्’ (ऋ॰१०.६१.१३)। सङ्ग्रथितम्=सन्नद्धम्। सन्दृब्धम्। सम्बद्धम्।
  • ‘तेन सङ्ग्रथिताः सुमनस आबध्नामि यशो मयि’ (पा॰गृ॰२.७)। सङ्ग्रथिताः=गुम्फिताः।

ग्रह्

  • {संग्रह्}
  • ग्रह् (ग्रह-उपादाने)।
  • ‘इमे चिदिन्द्र रोदसी अपारे यत्सङ्गृभ्णाः काशिरित्ते’ (ऋ॰३.३०.५)। सङ्गृभ्णाः=समगृभ्णाः=समगृह्णाः=समं करेणावधाः।
  • ‘यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया। तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत्’ (भा॰द्रोण॰१२८.१७)॥ समग्रहीत्=अन्तराले प्रत्यरौत्सीत्।
  • ‘यक्ष्मणा समगृह्यत’ (भा॰आदि॰१०२.७०), राजयक्ष्मणाऽगृह्यत=अभ्यसूयत। अत्र सम्शब्दो विशेषकृन्न। रुजां कर्तृतायां केवलस्य ग्रहो बहुलं प्रयोगदर्शनात्- ‘श्वेतकेतुं ह किलासो जग्राह’ (छां॰उ॰) इत्यादिषु।
  • ‘औषधानि च सर्वाणि मूलानि च फलानि च। चतुर्विधांश्चैव वैद्यान् सङ्गृह्णीयाद्विशेषतः’ (भा॰शां॰६९.५९)॥ सङ्गृह्णीयात्=समानयेत्=समाहरेत्=सन्निपातयेत्।
  • ‘सङ्गृह्णीयादनुरूपान् सहायान्’ (भा॰उ॰३७.२४)। उपार्जयेदित्याह।
  • ‘हालाहलं विषं घोरं सञ्जग्राहामृतोपमम्’ (रा॰१.४५.२६)। अत्रापि समा नार्थः।
  • ‘अलं वैरेण ते राजन् पुत्रः सङ्गृह्यतामिति’ (भा॰स्त्री॰१.१४)। सङ्गृह्यताम्=नियम्यताम्=वार्यताम्।
  • ‘श्रुतदेवां तु कारूपो वृद्धशर्मा समग्रहीत्’ (भा॰पु॰९.२४.३६)। भार्यां प्रत्यग्रहीदित्यर्थः। अस्थाने सम्शब्दः।
  • ‘यदसौ भगवन्नाम म्रियमाणः समग्रहीत्’ (भा॰पु॰६.२.१३)। उदचारयत्, अकीर्तयदिति विवक्षति। अत्रापि समा नार्थः।
  • ‘मूर्ध्ना सञ्जगृहे शापम्’ (भा॰पु॰६.१७.३७)। सञ्जगृहे=आददे। छन्दोरिरक्षिषया यत्र तत्र सममुपादत्तेऽर्थानपेक्षोऽवशः कविः।
  • ‘लोहितदर्शने यावतस्तत्प्रस्कन्द्य पांसून् सङ्गृह्णीयात्’ (गौ॰ध॰३.३.२१)। सङ्गृह्णीयात्=पिण्डान् कुर्यात्।
  • ‘शोणितं यावतः पांसून् सङ्गृह्णाति महीतलात्’ (मनु॰४.१६८)। सङ्गृह्णाति=पिण्डी करोति।
  • ‘अहं ते सङ्ग्रहीष्यामि शत्रुरथारुजान्’ (भा॰वि॰४५.१८)। संयंस्यामि। सारथ्यमास्थास्यामीत्याह। - ‘प्रोषितपतिकामपचरन्तीं पतिबन्धुस्तत्पुरुषो वा सङ्गृह्णीयात्’ (कौ॰अ॰४.८९)। नियम्य रक्षेदित्यर्थः।
  • ‘अखिलमिह कमठः सञ्जरीगृह्यते च। भृशं सङ्गृह्णाति सङ्कोचयति स्वानि गात्राणि। यन्मध्ये चपालस्य सङ्गृहीतमिव भवति’ (श॰ब्रा॰३.७.१.१२)। सङ्गृहीतम्=सङ्कुचितम्।
  • ‘मध्ये सङ्गृहीतमिव हि शिरः’ (श॰ब्रा॰७.५.१.२३)। उक्तोऽर्थः।
  • ‘स सङ्गृहीतो रथिभिर्गजो वै’ (भा॰शल्य॰२०.२०)। सङ्गृहीतः=रुद्धः।
  • ‘आप इव काशिना (=मुष्टिना) सङ्गृभीताः’ (ऋ॰७.१०४.८)। मुष्टावन्तर्धृता इत्याह।
  • ‘सा कृपासङ्गृहीतेन हृदयेन मनस्विनी’ (भा॰वन॰१२.१०३)। कृपासङ्गृहीतेन=कृपावशीकृतेन=कृपाविधेयीकृतेन।
  • ‘मयि सङ्गृभितात्मनाम्’ (भा॰पु॰३.२१.२४)। अयि नियतमनसाम् इति विवक्षति। सङ्गृभितमिति च्युतसंस्कृतिकम्। तमिमं कामतः कृतं शब्दविकारं पाणिनीया न सहन्ते। अयं च बहुलो भागवते।
  • ‘तथैव वृत्रस्य वधे सङ्गृहीता हया मया’ (भा॰वन॰१७१.१९)। सङ्गृहीताः=संयताः। अहमेषां क्षत्ताऽभूवमित्याह।
  • ‘अर्जुनस्य तदानेन सङ्गृहीता हयोत्तमाः (भा॰वि॰३६.१८)।
  • ‘तम् (रथम्) आस्थितः केशवसङ्गृहीतं कपिध्वजो गाण्डिवबाणपाणिः’ (भा॰भीष्म॰२२.१०)। उक्तोऽर्थः।
  • ‘सुसङ्गृहीतराष्ट्रः पार्थिवः’ (मनु॰७.११३)। सु ष्ठुवशीकृतदेश इत्याह। प्रसह्यैव स्वसा तवामुना भुजङ्गमेन सङ्गृहीता। =वशेकृता।
  • ‘वाग्यतः सङ्गृहीतात्मा सर्वभूतदयान्वितः’ (भा॰शां॰१०४.५१)। सङ्गृहीतात्मा=यतमनाः।
  • ‘सङ्गृहीतमनुष्यश्च’ (रा॰)। सम्यक् पालनेनानुरञ्जितमनुष्यः।
  • ‘सङ्गृहीतलाङ्गूलः संयतचतुश्चरणः’ (तन्त्रा॰१.१२)। सङ्गृहीतलाङ्गूलः=सङ्क्षिप्तपुच्छः।
  • ‘हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः’ (यो॰सू॰४.११)। सङ्ग्रहीता व्याप्ताः।
  • ‘हन्त सङ्गृहीतोऽधिकारः’ (मुद्रा॰३)। सङ्गृहीतः प्रतिसंहृतः।
  • ‘सङ्गृभ्या न आ भरा भूरि पश्वः’ (ऋ॰३.५४.१५)। सङ्गृभ्या=सङ्गृभ्य (साहितिको दीर्घः)। सङ्गृह्य समाहृत्येत्याह।
  • ‘सङ्गृह्य धनं सुबहु मणिरत्नमजाविकम्’ (रा॰१.१७.१५)। उक्तोऽर्थः।
  • ‘स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्सङ्गृभ्य’ (अथर्व॰११.७.६)। सङ्गृभ्य=हस्ते धृत्वा। सङ्ग्राहो मुष्टिबन्धो भवतीति यतः।
  • ‘क्षत्तारं चापि सङ्गृह्य पृष्ट्वा कुशलमव्ययम् (भा॰आश्व॰५२.३१)। सङ्गृह्य=उपसङ्गृह्य पादग्रहणं कृत्वा।
  • ‘सङ्गृह्य तमलङ्कारं ताश्च तिस्रः सुरस्त्रियः’ (हरि॰२.४१.३५)। सङ्गृह्य=प्रतिगृह्य=प्रतीष्य।
  • ‘ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः’ (भा॰सभा॰४५.६४)। सङ्गृह्य=निरुध्य।
  • ‘गच्छ चाश्वं महाभाग सङ्गृह्य पुरुषर्षभ’ (रा॰१.४१.२१)। संयम्य रश्मिष्वादायेत्याह।
  • ‘सुयोधनमसङ्गृह्य न शक्या भूः ससागरा। केवला भोक्तुम्…’ (भा॰स्त्री॰१५.७)॥ असङ्गृह्य=असन्नियम्य।
  • ‘तैस्तैरुपायैः सङ्गृह्य’ (मनु॰८.४८)। सङ्गृह्य वशे कृत्वा।
  • ‘प्रज्वाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम्’ (रा॰७.१२.२०)। पाणिसङ्ग्रहम्=पाणिग्रहणम्। समा नार्थः।
  • ‘धनैः कार्योऽस्य सङ्ग्रहः’ (मनु॰३.१३८)। सङ्ग्रहः=सभ्यग्ग्रहः।
  • ‘पर्याप्तो राजसङ्ग्रहे’ (भा॰शां॰१२०.५०)। राजसङ्ग्रहे=सामन्तवशीकरणे।
  • ‘एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः’ (भा॰पु॰११.२३.६१)। सङ्ग्रहः=संयमः।
  • ‘यक्षैः क्रियतेऽभीषुसङ्ग्रहः’ (वि॰पु॰२.१०.२१)। अभीषुसङ्ग्रहः=रश्मिसंयमनम्। सङ्ग्रहीता यन्ता भवतीति यतः।
  • ‘न मन्याहनुसङ्ग्रहः’ (चरक॰सू॰५.८४)।
  • ‘कृतप्रकृतिमुख्यसङ्ग्रहैः’ (अमात्यः) (रघु॰१९.५५)। कृतं प्रधानपौरजनसन्निपातनं यस्तैरित्यर्थः।
  • ‘तथा ग्रामशतानां कुर्याद्राष्ट्रस्य सङ्ग्रहम्’ (मनु॰७.११४)। सङ्ग्रहम्=रक्षास्थानम्।
  • ‘न सोऽस्ति कश्चित् त्रिषु सङ्ग्रहेषु’ (रा॰५.४८.५)। सङ्ग्रहा लोकाः।
  • ‘भोक्तृभिः कर्मणा सङ्गृह्यन्त इति सङ्ग्रहा लोका इति तिलकः।
  • ‘विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे’ (भा॰सौ॰१५.६)। सङ्ग्रहे=संहारे=प्रतिसंहारे।
  • ‘निग्रहेणापि पापानां साधूनां सङ्ग्रहेण च’ (मनु॰८.३३२)। सङ्ग्रहेण=समर्थनेन=परिपोषणेन।
  • ‘भ्रातॄणां सङ्ग्रहार्थं सुखार्थं चापि लक्ष्मण’ (रा॰२.९७.६)। सङ्ग्रहार्थम्=सम्यक् पालनार्थम्।
  • ‘न कुलं न कृतं विद्या न दत्तं नापि सङ्ग्रहः’ (रा॰२.३९.२३)। सङ्ग्रहः=दृष्टेऽपि दोषे स्वीकारः, अथवा सङ्ग्रहो बन्धनादिरिति तिलकः।
  • ‘तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत्’ (कठ॰उ॰१.२.१५)। सङ्ग्रहेण=सङ्क्षेपेण।
  • ‘तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये’ (गीता ८.११)। उक्तोऽर्थः।
  • ‘पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम्’ (भा॰द्रोण॰१०३.२०)। ससङ्ग्रहम्=सोपदेशम्।
  • ‘स्नेहसहितं द्रवत्वं सङ्ग्रहेऽपि हेतुर्भवति’ (यथा सक्तुकादौ)। सङ्ग्रहः पिण्डीभावः।
  • ‘आपः सङ्ग्रहात्’ (गौड॰सां॰का॰३९)। पिण्डीभावकरणादित्याह।
  • ‘सङ्ग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता। निग्रहश्चापि …’ (भा॰शां॰१४०.५३)॥
  • ‘लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि’ (गीता)। लोकस्येष्टे प्रवर्तनमनिष्टाच्च निवारणं लोकसङ्ग्रहः।
  • ‘अहो मल्लस्य सङ्ग्राहः’ (३.३.३६ सूत्रवृत्तौ)। दृढमुष्टितेत्यर्थः।
  • ‘किञ्चिदम्लं सङ्ग्राहि किञ्चिदम्लं भिनत्ति च’ (चरके सू॰२६.५०)। सङ्ग्राहि=कोष्ठबन्धकारि।
  • ‘अप्रत्तासु च कन्यामु प्रत्तास्वेके हि कुर्वते। लोकसङ्ग्रहणार्थं हि यदमन्त्रास्स्त्रियो मताः’ (बौ॰ध॰१.५.११.५)॥ लोकसङ्ग्रहणं महाजनवशीकार इति गोविन्दस्वामी।
  • ‘आकाशस्थावकाशदानं कर्म, वायोर्व्यूहनं विन्यासरूपं, तेजसः पाकोऽपां सङ्ग्रहणं पिण्डीकरणरूपम्’ (मनु॰१.१८ इत्यत्र कुल्लूकः)।
  • ‘कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते’ (तन्त्रा॰१.१.२६)। सङ्ग्रहणोचितः=प्रतिवापस्योचितः।
  • ‘कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते’ (पञ्चत॰१.८५) इत्यत्र पाठः। उक्तोऽर्थः।
  • ‘अब्राह्मणस्य शारीरो दण्डः सङ्ग्रहणे भवेत्’ (बौ॰ध॰२.२.४.१)। सङ्ग्रहणं पारदार्यम्।
  • ‘स्तेयं च साहसं चैव स्त्रीसङ्ग्रहणमेव च’ (मनु॰८.६)।
  • स्त्रियाः परपुरुषसम्पर्क इति कुल्लूकः।
  • ‘मूले च’ (८.३५७)। मनुना स्वायम्भुवेन स्वयं सङ्ग्रहणं व्याख्यातम्। तद्यथा स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा। परस्परस्यानुमते सर्वं सङ्ग्रहणं स्मृतम् इति।
  • ‘पुमान् सङ्ग्रहणे ग्राह्यः केशाकेशि परस्त्रियाः’ (याज्ञ॰२.२८३)। स्त्रीपुंसयोर्मिथुनीभावः सङ्ग्रहणमिति मिताक्षरा।
  • ‘वर्चसो द्यावापृथिवी सङ्ग्रहणी’ (अथर्व॰१९.५८.३)। सङ्ग्रहणी=सङ्ग्रहण्यौ=दात्र्यौ।
  • ‘सङ्ग्रहीता च मनुष्यान्’ (आप॰ध॰२.८.२०-२१)। सङ्ग्रहीता=अर्थप्रदानप्रियवचनप्रयोगादिना वशे कर्ता। तृनि रूपम्।
  • ‘मातलिं सङ्ग्राहकमित्युवाच’ (अवदा॰शक्रजा॰)। सङ्ग्राहकः=क्षत्ता, सारथिः।
  • ‘इत्युक्त्वा निशितं बाणं समगृह्णाद् दुरासदम्’ (पद्मपु० ५।३४।२५)। अस्थाने समुपमर्गः।
  • ‘विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा’ (रा० ६।१२७।६२)। संगृहीतं हृतं स्ववशे कृतम्।
  • ‘द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्वपि नाभविष्यताम्’ (धारणकर्षणे) (न्याय भा० २।१)। जतुसंगृहीतेषु जतुना संयुक्तेषु।
  • ‘क्रियतां दारसङ्ग्रहः’ (कथा० ११८।१२१)। सङ्ग्रहो ग्रहणम्।
  • ‘ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम्’ (रा० ७।१०३।१५)। सङ्ग्रहं रक्षितारमिति भूषणम्। द्वारपालम् इति यावत्। सम्यगुक्तार्थग्रहणवन्तम् इति तु तिलकः। नेदं हृदयग्रहणीयम्। न ह्येवं दुरूहमुदाहरन्त्यृषयः।
  • ‘धर्म्यमर्थ्यं यशस्यं च सोपदेशं ससङ्ग्रहम्’ (ना० शा० १।१४)। सङ्ग्रहः सम्यग् ग्रहणमित्यभिनवगुप्तः।
  • ‘त्वत्सुतासङ्ग्रहो ऽस्माकं राजन् विशति नो स्फुटम्’ (वृ० क० को० १०।८७)। संग्रहः संजीवनम्।
  • ‘इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः’ (रा० ७।४८।१८)। रामं प्रति वक्तव्यस्य सन्देशस्य सङ्ग्रहः संक्षेपः। संग्रहः सामदानोक्तिरिति कोषः।
  • ‘संग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितम् अपां संयोगादामे कुम्भे ऽग्निसंयोगात्पक्वे’ (न्या० भा० २।१।३६)। संग्रह एकीभावः।
  • ‘परदाराभिमर्शेषु’ (मनु० ८।३५२)। अभिमर्शः सङ्ग्रहणम्। अत्रार्थे संग्रहणशब्दप्रयोगः ३५६-३५९ श्लोकेषु वरीवृत्यते। परस्त्रीकामत्वं संग्रहणमिति मेधातिथिः।
  • ‘सूतश्च गामणी च क्षत्ता च सङ्ग्रहीता’ (पञ्च० ब्रा० १९।१।४)। सङ्ग्रहीता भाण्डागारस्य पालक इति सायणः।
  • ‘त्यागिनं सङ्ग्रहीतारं सानुक्रोशं जितेन्द्रियम्’ (रा० ६।१२२।८)। संग्रहीतारं यथाकालं यथान्यायं रत्नादेः समाहर्तारम्।
  • ‘आयामतो विस्तरतः स्वमानदेहेन लोकत्रयसङ्ग्रहेण’ (भा० पु० ३।८।२५)। लोकत्रयसङ्ग्रहेण लोकत्रयं सङ्गृह्यत मीयतेऽत्रेति तेन देहेन।
  • ‘एष वै परमो योगो मनसः संग्रहः स्मृतः’ (भा० पु० ११।२०।२१)। सङ्ग्रहो निग्रहः संयमः।

घट्

  • {संघट्}
  • घट् (घट-चेष्टायाम्)।
  • ‘सान्द्रं लेढि रसामृतं विचिनुते तात्पर्यमुद्रां च यः। सङ्घटते… काव्यश्रमज्ञो जनः’ (का॰मी॰१.४)॥ सङ्घटते=युज्यते।
  • ‘सञ्जघटे लोकः’ (रात॰६.२४२)। समियायेत्याह।
  • ‘भेरीमृदङ्गवीणानां कोणसङ्घाटितः’ (शब्दः) (रा॰२.७१.२६)। सङ्घाटितः=ताडनेनोत्पादितः।
  • ‘तत्सर्वाः स घट्यन्तां प्रजाः’ (कथा॰१३.१८३)।
  • ‘सङ्घाटितासङ्ख्यचण्डालडामरमण्डल…’ (रात॰५.३२६)।
  • ‘सङ्घटय्याखिलान् स्थेयान्’ (रात॰६.२८)। सङ्घटय्य=सङ्गमय्य=सन्निपात्य।

घट्ट्

  • {संघट्ट्}
  • घट्ट् (घट्ट-चलने)।
  • ‘अन्योन्यमिश्रितैः शस्त्रैराकाशं सञ्जघट्टिरे। बभञ्जुश्चिच्छिदुश्चैव तयोर्बाणाः सहस्रशः’ (रा॰६.६८.३०)। सञ्जघट्टिरे=चालयामासुः सञ्जघृषुः सम्पिपिषुः।
  • ‘सङ्घट्टयति सैन्यानि द्रोणस्तु रथिनां वरः’ (भा॰द्रोण॰९५.२२)। सङ्घट्टयति=सम्मेलयति=सङ्गमयति।
  • ‘सङ्घट्टयन्द्विजान् सर्वान्’ (रात॰५.४५६)। सन्निपातयन्नित्याह।
  • ‘सङ्घट्टयन्नङ्गदमङ्गदेन’ (रघु॰६.७३)। सङ्घट्टयन्=सङ्घर्षयन्।
  • ‘न्यवर्तत ततः कर्णः सङ्घट्टित इवोरगः’ (भा॰द्रोण॰१८८.११)। सङ्घट्टितः प्रतिहतः।

घुष्

  • {संघुष्}
  • घुष् (घुषिर्-अविशब्दने, विशब्दनं प्रतिज्ञानम्, ततोऽन्यस्मिन्नर्थे, शब्द इत्यन्ये)।
  • ‘द्विजसङ्घुष्टं सरः’ (भा॰वन॰१२५.११)। पक्षिनिनादितमित्याह।
  • अष्टाध्याय्यां (७.२.२८) इत्यत्र वृत्तौ सङ्घुष्टं वाक्यमाह, सङ्घुषितं वाक्यमाहेत्युदाहरणे। उच्चैरुदीरितमित्यर्थः।

घृष्

  • {संघृष्}
  • घृष् (घृषु-सङ्घर्षे)।
  • ‘प्रयोगनिपुणैः प्रयोक्तृभिः सञ्जघर्ष सह मित्रसन्निधौ’ (रघु॰१९.३६)। सङ्घर्षः पराभिभवेच्छा। पस्पर्धे इत्यर्थः। धात्वर्थेन कर्मण उपसङ्ग्रहाद्घृषिरत्राकर्मकः।
  • ‘सन्ति देवनिकायाश्च सङ्कल्पाज्जनयन्ति ये। वाचा दृष्ट्या तथा स्पर्शात् सङ्घर्षेणेति पञ्चधा’ (भा॰आश्रम॰३०.२२)॥ सङ्घर्षेण=रत्या=मैथुनेन।
  • ‘तस्मिंश्च भ्राम्यमाणेऽद्रौ स घृष्यन्तः परस्परम्’ (भा॰आदि॰१८.२२)॥ सङ्घृष्यन्तः सङ्घृष्यमाणाः। सम्मृद्यमाना इत्यर्थः।
  • ‘पुष्पमासे हि तरव सङ्घर्षादिव पुष्पिताः’ (रा० ४।१।९२)। सङ्घर्षः स्पर्धा।

घ्रा

  • {संघ्रा}
  • घ्रा (घ्रा-गन्धोपादाने)।
  • ‘तमाहृतमग्निभिः सङ्घ्रापयन्ति’ (श॰ब्रा॰१२.५.१.१३)। गन्धं ग्राहयन्तीत्यर्थः। शम्शब्दोऽत्र विशेषको न।

चक्ष्

  • {संचक्ष्}
  • चक्ष् (चक्षिङ्-व्यक्तायां वाचि, छन्दसि तु दर्शनेऽपि)।
  • ‘यदमुष्मै स्वाहाऽमुष्मै स्वाहेति जुह्वत् सञ्चक्षीत’ (श॰ब्रा॰१३.३.५.२)। सञ्चक्षीत=गणयेत्।
  • ‘सञ्चक्षाणो भुवना देव ईयते’ (ऋ॰६.५८.२)। गणयन् सम्पश्यन्वेत्याह।
  • ‘संयूथेव जनिमानि चष्टे’ (ऋ॰७.६०.३)। उक्तोऽर्थः।
  • ‘न पततः सं सञ्चक्षीत’ (आप॰ध॰१.११.३१.१७)। पतत्त्रिणो न गणयेदित्याह।
  • ‘यस्य त्रसन्ति शवसः सञ्चक्षि शत्रवः’ (ऋ॰६.१४.४)। सञ्चक्षि=दर्शने, चिन्तायाम्।
  • ‘घोरमुत्पातजं भयम्। सञ्चचक्षेऽथ मेधावी शरीरे चात्मनो जराम्’ (रा॰२.१.२७)। सञ्चचक्षे=ददर्श।
  • ‘चक्षुर्भ्यां सञ्चक्षाणो दहन्निव अहनद् हरिम्’ (भा॰पु॰३.१९.८)। उक्तोऽर्थः।
  • ‘मेरोरप्यन्तरं पार्श्वे पूर्वं सञ्चक्ष्व सञ्जय। निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्’ (भा॰भीष्म॰७.१)। सञ्चक्ष्व=उपवर्णय, विस्तरेणाख्याहि।
  • ‘सञ्चक्षे कं पृश्निमेतामुपाजे’ (अथर्व॰५.१०.२)। सञ्चक्षे परीक्षितुम्।
  • ‘दशावयवानेके नैयायिका वाक्ये संचक्षते’ (न्याभा० १।१।३२)। संचक्षते संगृणते प्रतिजानते।
  • ‘न पततः संचक्षीत’ (सत्या० श्रौ० २६।८।३५)। पुस्तके धृतमिदमापस्तम्बीयमिति कृत्वा। इह सत्याषाढीयं तदनूद्यते व्याख्यान्तरयोजनाय। ज्योतींषि पतन्ति न कथयेत्परस्मा इति व्याख्यान्तरम्।

चर्

  • {संचर्}
  • चर् (चर-गतिभक्षणयोः)।
  • ‘सर्वा दिशः समचरद् रोहितोऽधिपतिर्देवः’ (अथर्व॰१३.२.४१)। समचरत्=आक्रामत्=व्याप्नोत्।
  • ‘सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव’ (भा॰द्रोण॰२१.३४)। उक्तोऽर्थः।
  • ‘उभौ लोकौ सञ्चरसि इमं चामुं च देवल’ (समस्तृतीयायुक्तात् १.३.५४ सूत्रे भाष्ये)।
  • ‘नान्तराग्नी (गार्हपत्याहवनीयौ) सञ्चरति’ (आप॰श्रौ०६.१.२.७)।
  • ‘सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्’ (भा॰आश्रम॰२०.३५)।
  • ‘क्वचित्पथा सञ्चरते सुराणाम्’ (रघु॰१३.१९)। सञ्चरते=गच्छति।
  • ‘शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न सञ्चरेत्’ (वि॰पु॰३.९.४)। सञ्चरेत्=आचरेत्=व्यवहरेत्। अस्थाने सम्शब्दः। केवलेन चरतिनाऽऽचरतिना वैवमर्थं ब्रूयात्।
  • ‘चरन्तः सञ्चरन्तश्च तत्र वातमजामृगाः’ (बृ॰श्लो॰८.४२)। सञ्चरन्तः परिक्रामन्तः।
  • ‘सञ्चारयामास जरां तदा पुत्रे महात्मनि’ (भा॰आदि॰७५.४५)। सञ्चारयामास=सङ्क्रमयामास।
  • ‘सुहृदि वत्से वाङ्मयं समस्तमेव सञ्चारयामास’ (हर्ष॰कविवंशवर्णने)। उक्तोऽर्थः।
  • ‘ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित्’ (भा॰वन॰७५.९)। सञ्चारम् द्वारम्।
  • ‘यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः। अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः’ (कु॰६.४३)। सञ्चरो मार्गः। सञ्चरतेऽनेनेति व्युत्पत्तेः।
  • ‘दक्षिणपश्चिमे अन्तरेण सञ्चरः’ (गो॰गृ॰३.७.१०)। सञ्चरः सञ्चरणमार्गः।
  • ‘तेषां पौष्णान्तानि पञ्च सञ्चराणि’ (आप॰श्रौ॰८.१.२.३)। सञ्चरन्ति पर्वचतुष्टयमिति पर्वचतुष्टयसाधारणानि पञ्च हवींषि सञ्चराण्युक्तानि।
  • ‘दूती सञ्चारिणी समे’ (अमरः)। दूतीसञ्चारिके समे इत्यपि पाठः। सञ्चारयति प्रापयति सन्देशमिति व्युत्पत्तरिति स्वामी।
  • ‘तस्मात् प्राणापानौ सं चरतः’ (तै० सं० ५।२।१०।५९)। संचरतः सह चरतः।
  • ‘एतेन ह वा एवं सञ्चरमाणमग्नयो विदुरयमस्मासु होष्यतीति’ (ऐ० ब्रा० ७।१०)। एतेन पथा सञ्चरमाणं क्रामन्तम्।
  • ‘अपरेण वेदिं प्रतिप्रस्थातुः संचरः’ (का० श्रौ० ५।३।१७)। संचरो गमनागमनमार्गः।
  • ‘यं द्विष्यात्तस्य संचरे पशूनां न्यस्येत्’ (तै० सं० ५।४।४।१३)। संचरः संचरणदेशः।
  • ‘प्राग्वाऽसञ्चरे निनयेत्’ (पा० गृ० १।३।२४)। असंचरे जनसंचाररहिते प्रदेशे, निर्जन इत्यर्थः।
  • ‘असञ्चरे प्रोक्षणीर्निधाय’ (का० श्रौ० २।३।३९)। प्रणीताहवनीयान्तराले ऽसंचरे वेदिमध्ये।
  • ‘प्रार्थितेन पूनस्तेन जरा संचारिणी कृता’ (लिङ्गपु० पू० ६७।६)। संचारिणी संक्रमिणी।

चल्

  • {संचल्}
  • चल् (चल-कम्पने, चल-विलसने)।
  • ‘ताः स्त्रियः स्वप्नशीलज्ञाश्चेष्टां सञ्चलनाडिषु (रा॰२.६५.१४)। सञ्चलनाडिषु=हृदयकरमूलनाडिषु।

चेष्ट

  • {संचेष्ट}
  • चेष्ट् (चेष्ट-चेष्टायाम्)।
  • ‘सञ्चेष्टन्ते शत्रवोऽस्माद्रणाग्रे’ (भा॰उ॰४८.४७)। इतस्ततो भ्रमन्तीत्यर्थः।
  • ‘पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यतमाहवे। कालाग्निमिव दुर्धर्ष समचेष्टत नित्यशः’ (भा॰भीष्म॰१४.१३)। समचेष्टत=अकम्पत।

चृत्

  • {संचृत्}
  • चृत् (चृती हिंसाग्रन्थनयोः)।
  • ‘कृण्वन्त्संचृतं विचृतमभिष्टये’ (ऋ० ९।८४।२)। संचृतं सङ्ग्रथितम्।

जन्

  • {संजन्}
  • जन् (जनी-प्रादुर्भावे)।
  • ‘दृष्टवत्यास्तु सञ्जज्ञे शिबिरौशीनरो नृपः’ (हरि॰१.३१.२७)। दृष्टवत्या इति सप्तमीस्थाने पञ्चमीप्रयोगो व्यवहारव्यभिचारः क्वाचित्कः। जननक्रियायां मातुरधिकरणता स्थितेति प्रसाधितमस्माभिर्वाग्व्यवहारादर्शे।

जल्प्

  • {संजल्प्}
  • जल्प् (जल्प-व्यक्तायां वाचि)।
  • ‘तस्मिन् पुरे जनपदे सञ्जल्पोऽभूच्च सङ्घशः’। सञ्जल्पः=साधारणो जल्पः, समुदितो जल्पः।
  • ‘संगता मुनयः सर्वे संजजल्पुरथो मिथः’ (रा १।७४।२१)। सम्शब्दोऽधिकः। मिथ इत्यनेन गतार्थत्वात्। संबभाषिरे, समूदिरे।

जि

  • {संजि}
  • जि (जि-जये, जि-अभिभवे)। ‘अहं धनानि सञ्जयामि शश्वतः’ (ऋ॰१०.४८.१)। सञ्जयामि=साकं जयामि।
  • ‘न च सन्दर्शने किञ्चित्प्रवृत्तमपि सञ्जयेत्’ (भा॰वि॰४.२९)। सञ्जयेत्=स्वीकुर्यात्। अहम्पूर्विकयाऽनाकारितः सन्नित्यर्थः। सन्दर्शने समक्षम्।
  • ‘सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत’ (गीता १४.९)। सत्त्वं प्रकृष्टं सत्सुखदुःखकारणमभिभूय सञ्जयति संश्लेषं जनयतीत्यर्थः।
  • ‘इतो जयेतो विजय सञ्जय जय’ (अथर्व॰८.८.२४)।
  • ‘स च जयति वि च जयते’ (ऐ० ब्रा० ३।१९)। संयुज्य (शत्रून्) जयति।
  • ‘येनेमा विश्वा भुवनानि संजिता’ (तै० ब्रा० ३।१।१।७)। संजितानि सम्यग् जितानि।

जीव्

  • {संजीव्}
  • जीव् (जीव-प्राणधारणे)।
  • ‘सञ्जीवाः स्थ सञ्जीव्यासम्’ (अथर्व॰१९.७०.३)। सञ्जीवाः सम्यग्जीवन्तः। जीवनकाल एकः क्षणो वैयर्थ्येन न नीयते यस्ते (सायणः)।
  • ‘तेन सञ्जीवतु मम प्रिया’ (भा॰आदि॰९.४)। पुनः प्राणान्धारयत्वित्याह।
  • ‘तवामृतरसप्रख्यं हस्तस्पर्शमिमं प्रभो। लब्ध्वा सञ्जीवितोऽस्मीति मन्ये कुरुकुलोद्वह’ (भा॰आश्रम॰३.७३)। उक्तोऽर्थः।
  • ‘यस्यै निक्रमणे घृतं प्रजाः संजीवन्तीः पिबन्ति’ (तै० सं० १।७।२)। संजीवन्तीः संजीवन्त्य उपजीवन्त्यः।

जु

  • {संजु}
  • जु (जु-वेगितायां गतौ सौत्रो धातुः)।
  • ‘सञ्जवनपुञ्जितोद्विग्नपरिजने’ (हर्ष॰५)। सञ्जवनं चतुःशालम्।

ज्ञा

  • {संज्ञा}
  • ज्ञा (ज्ञा-अवबोधने)।
  • ‘सञ्जानते न यतन्ते मिथस्ते’ (ऋ॰७.७६.५)। सञ्जानते परस्परमानुकूल्येन ऐकमत्येन वर्तन्त इत्याह।
  • ‘ते जानत स्वमोक्यं संवत्सासो न मातृभिः’ (ऋ॰८.७२.१४)।
  • ‘सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्’ (ऋ॰१०.१९१.२)।
  • ‘सञ्जानीध्वं सम्पृच्यध्वं सं वो मनांसि जानताम्’ (अथर्व॰६.६४.१)। उक्तोऽर्थः।
  • सं ह्यज्ञास्था वरुणैः (वरुणेन–पिप्पलाद॰) संविदानः’ (अथर्व॰३.४.६)। समज्ञास्थाः सम्यग् जानासि, इतरैः साधारणं वा जानीषे त्वदाह्वानविषये।
  • ‘सञ्जानीतां मे ग्रामः इति तस्य ह तत एव ग्रामः सञ्जज्ञे’ (श॰ब्रा॰४.१.५.७)। सञ्जानीतां सम्यक् समं वर्तताम्, मिथ आनुगुण्येन वा व्यवहरतामित्याह। सञ्जज्ञे=साधु संव्यवजहार। ‘द्विषद्भ्यो वै रघ्यामो हन्त सञ्जानामहा एकस्य श्रियै तिष्ठामहा इति’ (श॰ब्रा॰३.४.२.२)। सञ्जानामहा=सञ्जानामहै=सङ्गता एकमतयो भवाम।
  • ‘प्रजापतिः प्रजा असृजत ता नानोल्बा असृजत, ता न समजानत। सोऽकामयत सञ्जानीरन्निति ताः समानोल्बा अकरोत्’ (श॰ब्रा॰७.१.१.७)। उक्तोऽर्थः।
  • ‘यदा वै द्यावापृथिवी सञ्जानाते अथ वर्षति’ (श॰ब्रा॰१.८.३.१२)।
  • ‘मात्रा सञ्जानीते। पित्रा सञ्जानीते’ (पा॰२.३.२२ सूत्रवृत्तौ)। मात्रैकमना वर्तते। पित्रैकमना वर्तत इत्येतयोरर्थः। शतं सञ्जानीते। सहस्रं सञ्जानीते। देयमित्यभ्युपगच्छति इति वाररुचसङ्ग्रहे नारायणः। अवेक्षत इति दीक्षितः। अन्वेषत इति चापटेः। मातुः सञ्जानाति। पितुः सञ्जानाति। सोत्कष्ठं स्मरतीत्यर्थः।
  • ‘यन्नो भवान् सजानीते तस्मिंस्तिष्ठामहे वयम्’ (भा॰पु॰९.१६.३४)। सञ्जानीते=आज्ञापयति। अपूर्वः स्वकपोलकल्पितोऽर्थः। तदस्य शीलं पुराणकारस्य व्यासेतरस्य।
  • ‘यद्वै त्वं (मनः) वेत्थाऽहं तद्विज्ञापयामि सञ्ज्ञपयामि’ (श॰ब्रा॰१.४.५.१०)। सर्वस्य बोधविषयतां नयामीत्याह।
  • ‘अथैनामुदगुत्सृप्य सञ्ज्ञपयन्ति’ (गो॰गृ॰३.१०.२१)। आलमन्ते घ्नन्तीत्याह।
  • ‘ता (आपः) एतयर्चा समज्ञपयत्’ (ऐ॰ब्रा॰८.२)। सम्प्रतिपन्ना अकरोदित्यर्थः।
  • ‘सञ्जानानाः समनसः सयोनयः (अथर्व॰७.२१.१)। सञ्जानानाः समानज्ञानाः। कार्यविषये परस्परमैकमत्यं प्राप्ता इत्यर्थः।
  • ‘ईलिता हि शेरे सजानानाः’ (श॰ब्रा॰२.३.१.३)। सञ्जानानाः सन्तुष्यन्त इत्यर्थः प्रतिभाति। न चेदं कल्पनामात्रम्। मारणतोषणनिशामनेषु ज्ञा इति घटादिषु मित्त्वार्थ गणसूत्रम्। तत्र ण्यन्तस्य सञ्ज्ञपयतेस्तोषणमर्थो व्यक्तमुदितस्तेनाप्यन्तस्य सञ्जानातेस्तुष्टिरर्थ इत्यनायासमायाति। ईलिता इति ईरयतेर्लत्वमापाद्य निष्ठायां रूपम्। मृदुमृद्वास्फालिता इत्यर्थः।
  • ‘तद्यत् तिस्रश्चैकां चान्वाह सञ्जानानावेवैनौ तत्सङ्गमयति (ऐ॰ब्रा॰१.३०)। सञ्जानानौ सम्प्रतिपन्नाविति षड्गुरुशिष्यः।
  • ‘सञ्जानाना ह्यस्यापो यज्ञं वहन्ति’ (ऐ॰ब्रा॰२.२०)।
  • ‘सञ्जानानान् परिहरन् रावणानुचरान् बहून्’ (भट्टि॰८.५६६)। सञ्जानानान्=चेतयमानान्=जागृतः=जागरूकान्।
  • ‘मयि सञ्ज्ञानमस्तु वः’ (अथर्व॰३.१४.४)। सञ्ज्ञानं सम्प्रीतिरिति सायणः।
  • ‘सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानम्’ (ऐ॰उ॰३.४)। सञ्ज्ञानं प्रबोधसामान्यलक्षणमिति गोपाल॰। सञ्ज्ञानं सञ्ज्ञप्तिश्चेतनभाव इति शङ्करः।
  • ‘सञ्ज्ञानं नः स्वेभिः सञ्ज्ञानमरणेभिः’ (अथर्व॰७.५४.१)। सञ्ज्ञानमैकमत्यम्, अविसंवादः। वेदेऽरणशब्दः परवचनः।
  • ‘तत्कृण्मो ब्रह्म वो गृहे सञ्ज्ञानं पुरुषेभ्यः’ (अथर्व॰३.३०.४)। सञ्ज्ञानं समानज्ञाननिमित्तम्। ऐकमत्यापादकम्।
  • ‘एतद्वै सञ्ज्ञानं सन्तनि सूक्तं यत्कयाशुभीयम्’ (ऐ॰ब्रा॰५.१६)। सञ्ज्ञानं परस्परैकमत्यसाधनमिति सायणः। ऐक्यहेतुभूतमिति षड्॰।
  • ‘क्षुद् धर्मसञ्ज्ञां प्रणुदत्यादत्ते धैर्यमेव च’ (भा॰वन॰२६०.२४)। सञ्ज्ञां बोधम्।
  • ‘अहिते हितसंशस्त्वमघ्रुवे घ्रुवसञ्ज्ञकः’ (भा॰शां॰३२९.२७)। हितसञ्ज्ञः=हितं सम्यग् जानातीति।
  • ‘सञ्ज्ञामेवाभ्यामेतत्करोति’ (श॰ब्रा॰७.१.१.३८)। सञ्ज्ञाम्=समन्वयम्।
  • ‘स शर्यातेभ्यश्चुक्रोध। तेभ्योऽसञ्ज्ञां चकार। पितैव पुत्रेण युयुधे भ्राता भ्रात्रा’ (श॰ब्रा॰४.१.५.३)। असञ्ज्ञा=विरोधः।
  • ‘तस्मै विशः संजानते’ (ऐ० ब्रा० ८।२५)। राज्ञा सहैकमत्यं प्राप्नुवन्तीत्याह।
  • ‘यन्नः पिता संजानीते तस्मिंस्तिष्ठामहे वयम्’ (ऐ० ब्रा० ७।१८)। संजानीतेऽङ्गीकरोति, प्रतिजानीते।
  • ‘यदिदमाहुर्न वा ऊर्वौ पलितौ संजानाते’ (पञ्च० ब्रा० २१।१०।६)। न संजानाते नोत्पद्येते इति सायणः। ऊर्वौ ऊर्ववंशजौ। नान्योन्यमभिजानीत इति त्वन्ये। जानातिरुत्पत्त्यर्थे न प्रसिध्यतीत्यवश्यमभ्युपेयम्।
  • ‘समिन्द्रो मरुद्भिर्यज्ञियैः समादित्यै र्नो वरुणो अजिज्ञपत्’ (तै० सं० २।१।११।१५)। समजिज्ञपत् सभ्यग्ज्ञापयतु अभ्युपगच्छत्विति भट्टभास्करः।
  • ‘घ्नन्ति वा एतत् पशुं यत् संज्ञपयन्ति’ (तै० सं० ६।३।११।६२)। निगदव्याख्यातम्।
  • ‘प्रजापतिः प्रजा असृजत ता अविधृता असञ्जानाना अन्योन्यमादन्’ (पञ्च० ब्रा० २४।११।२)। असञ्जानाना ऐकमत्यरहिताः।
  • ‘गतासु तासु मैथिल्या सञ्जानानो ऽनिलात्मजः’ (भट्टि० ८।१०२)। संजानान इयं सेत्यवगच्छन्निति जयमङ्गला। अन्वेषमाणः, विचिन्वान इत्यन्ये।
  • ‘संज्ञोऽन्यतरस्यां कर्मणि’ (पा० २।३।२२) इति कर्मणि तृतीया।
  • ‘शब्देन संज्ञाकरणं व्यवहारार्थं लोके’ (नि० १।२)। संक्षेपेण ज्ञायतेऽनयेति संज्ञा देवदत्तो यज्ञदत्त इति इति स्कन्दस्वामी।

ज्वर्

  • {संज्वर्}
  • ज्वर् (ज्वर-रोगे)।
  • ‘किमिच्छन् कस्य कामाय शरीरमनु स ज्वरेत्’ (बृ॰उ॰४.४.१२)।
  • ‘ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्। यज्ञं च तादृशं दृष्ट्वा मादृशः को न सञ्ज्वरेत्’ (भा॰सभा॰४७.३४)। सञ्ज्वरेत्=सन्तप्येत।
  • सन्तापः सञ्ज्वरः समावित्यमरः।
  • ‘दिष्टं बलीय इति मन्यमानो न सञ्ज्वरेन्नापि हृष्येत्कथञ्चन’ (भा॰आदि॰८९.८)। उक्तोऽर्थः।

डी

  • {संडी}
  • डी (डीङ्-विहायसा गतौ)।
  • ‘सण्डीनम्’ (भा॰कर्ण॰४१.२६)। ललितं गतमित्यर्थः।

तक्ष्

  • {संतक्ष्}
  • तक्ष् (तक्षू/त्वक्षू-तनूकरणे)।
  • ‘निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः’। सम्यक् ततक्षतुरित्यर्थः।

तन्

  • {संतन्}
  • तन् (तनु-विस्तारे)।
  • डुवप-बीजसन्ताने इति धातुपाठः। बीजसन्तानो बीजविकिरणम् (=बीजविकरणम्)।
  • ‘संरश्मिभिस्ततनः सूर्यस्य’ (ऋ॰७.२.१)। सन्ततनः संयुङ्ग्धि।
  • ‘अध्वर्युं निष्क्रामन्तं प्रस्तोता सन्तनुयात्’ (लाट्या॰श्रौ॰१.११.२)। तमनु बध्नीयात्। अनुपदमनुगच्छेदित्याह।
  • ‘यज्ञेन यज्ञं सन्तनोति सन्ततं ह्येवास्यैतद् व्रतं भवति’ (श॰ब्रा॰३.२.२.७)। सन्तनोति सम्बध्नाति, अविच्छिन्नं करोति।
  • ‘अभोजनेन सन्तनुयादित्येके’ (द्रा॰गृ॰२.२.९)। अविच्छिन्नं कुर्यादित्यर्थः।
  • ‘अद्भिरेवास्या एतत्क्षतं विलिष्टं सन्तनोति’ (श॰ब्रा॰६.४.३.१)। सन्तनोति सन्दधाति।
  • ‘माल्यैश्च विविधैः… सन्तता शुशुभे भूमिः’ (रा॰५.१४.४६)। सन्ततावव्याप्ता=आकीर्णा।
  • ‘अपरोप्यवलप्राणः कृशो धमनिसन्ततः’ (भा॰वन॰९.१२)। धमनिसन्ततः=सिराव्याप्तः। छातत्वान्निर्मांसप्रायत्वात्सन्दृष्टधमनीकः, धमनील इति यावत्।
  • ‘अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः’ (भा॰उ॰३९.३८)। अर्थसन्ततिः=अर्थानामविच्छेदेन वृद्धिः।
  • ‘ते वै देवाश्च ऋषयश्चाद्रियन्त समानेन यज्ञं सन्तनवामेति’ (ऐ० ब्रा० ६।१७)। सन्तनवाम श्लिष्टं करवाम।
  • ‘ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः’ (भा० पु० ८।२३।१४)। सन्तनु=संसीव्य। लोण्मध्यमैकवचने रूपम्।

तप्

  • {संतप्}
  • तप् (तप-सन्तापे)।
  • ‘तानथर्वण ऋषीनाथर्वणांश्चार्षेयानभ्यश्राम्यद् अभ्यतपत् समतपत्’ (गो॰ब्रा॰१.१.५)। सुष्ठवतापयदित्यर्थः।
  • ‘सं मा तपन्त्यभितः सपत्नीरिव पर्शवः’ (ऋ॰१०.३३.२)। सन्तपन्ति=बाधन्ते=निपीडयन्ति।
  • ‘ऋतस्य द्वारौ मा मा सन्ताप्तम्’ (वा॰सं॰५.३३)।
  • ‘दिवापि मयि निष्क्रान्ते सन्तप्येते गुरू मम’ (सावित्र्यु॰५.८३)। सन्तप्येते=दूयेते=दुःख्यतः।
  • ‘उरसा हि समिव तप्यते’ (श॰ब्रा॰११.५.२.४)।
  • ‘न सन्तापयितुं शक्यं सागराम्भस्तृणोल्कया’ (हितोप॰१.८१)। सन्तापयितुम्=उष्णीकर्तुम्।
  • ‘यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि। यच्च स्वयं नतं दारु न तत्सन्तापयन्त्यपि॥’ इति च तत्रैव पाठान्तरं मातृकासु।
  • ‘सन्तप्तानां त्वमसि शरणम्’ (मेघ॰७)। दुःखितानाम्, आर्तानां घर्मार्तानाम्।
  • ‘सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते’ (भर्तृ॰२.६७)। सन्तप्तम्=अत्युष्णम्=प्रज्वलत्।
  • सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः। सन्तप्तपद्माः=म्लानाम्बुजाः।

तम्

  • {संतम्}
  • तम् (तमु-काङ्क्षायाम्)।
  • ‘चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सन्ताम्यति’ (गीतगो॰४.२१)। सन्ताम्यति सङ्क्षीयते उपदीयते।

तर्ज्

  • {संतर्ज्}
  • तर्ज् (तर्ज-भर्त्सने)।
  • ‘ततस्तं वाग्भिरुग्राभिः संरब्धः समतर्जयत्’ (हरि॰२.११९.७७)। समतर्जयत्=समतर्जयत=अभर्त्सयत। नार्थः समा।

तिज्

  • {संतिज्}
  • तिज् (तिज-निशाने)।

वृकोदरम्।

  • ‘सन्तेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम्’ (भा॰उ॰७५.३)॥ सन्तेजयन्=सम्प्रहर्षयन्, वर्धयन्, क्रोधं जनयन्।

तुद्

  • {संतुद्}
  • तुद् (तुद-व्यथने)।
  • ‘आतोदिनौ नितोदिनावथो सन्तोदिनावुत’ (अथर्व॰७.१००.३)।
  • सन्तोदिनौ सम्भूय व्यथाकारिणौ।

तुल्

  • {संतुल्}
  • तुल् (तुल-उन्माने)।
  • ‘आकिञ्चन्यं च राज्यं च तुलया समतोलयत्’ (भा॰शां॰२७६.१०)।
  • ‘उत्कृत्योत्कृत्य मांसानि तुलया समतोलयत्’ (भा॰अनु॰३२.२४)। सम्-शब्द इह धातुना साहचर्यमेव प्रयोगेषु दर्शयति नार्थान्तरं किमपि द्योतयति।

तुष्

  • {संतुष्}
  • तुष् (तुष-प्रीतौ)।
  • ‘सन्तृष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च’ (मनु॰३.६०)। प्रीत इत्यर्थः। इहापि सम्शब्दो नार्थे वैशिष्ट्यं किमपि करोति।
  • ‘सन्तोषमूलं हि सुखं दुःखमूलं विपर्ययः’ (मनु॰४.१२)। सन्निहितसाधनादधिकस्यानादित्सा सन्तोष इति योगाः।

तृद्

  • {संतृद्}
  • तृद् (उतृदिर्-हिंसानादरयोः)।
  • ‘तान् (गर्तान्) अक्षणया सन्तृन्दन्ति… तस्मादिमे प्राणाः परः सन्तृण्णाः (श॰ब्रा॰३.५.४.१४)। सन्तृण्णाः=सन्दृब्धाः=तिरश्चीनेन च्छिद्रेण संयुक्ताः।
  • ‘त्रीणि पलाशपलाशानि सन्तृद्य’ (शां॰श्रौ॰४.१८.५)। सन्तृद्य=सम्भिद्य।
  • ‘यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक् सन्तृण्णा’ (छां॰उ॰२.२३.४)। सन्तृण्णा=विद्धा।
  • ‘तस्मात् सन्तृण्णा अन्तरतः प्राणाः’ (तै० सं० ६।२।११।५७)। अधस्तादेकीकृता इत्यर्थः।

तृप्

  • {संतृप्}
  • तृप् (तृप-प्रीणने)।
  • ‘यावन्तः कामाः समतीतृपस्तान्’ (अथर्व॰१२.३.३६)। या तृप्तिः सैव सन्तृप्तिः, तेन सम्शब्दो धात्वर्थानुवादी नार्थोपजनाय। धातुपाठेऽर्थनिर्देशो व्यामोहकः। धातुरेष प्राचीने साहित्ये सर्वत्राकर्मको न केवलं दैवादिकः सौवादिकोऽपि। अत एव प्रकृते समतीतृप इत्यत्र प्रीणने णिच्प्रयोगः।

तॄ

  • {संतॄ}
  • तॄ (तॄ-प्लवनतरणयोः)।
  • ‘यदङ्ग त्वा भरताः सन्तरेयुः’ (ऋ॰३.३३.११)। सन्तरेयुः=तरेयुः=उत्तरेयुः।

‘चिन्ताशोकमहाह्रदम् … प्रज्ञया सन्तरन्ति’ (भा॰शां॰३०१.६४-६५)।

  • ‘सं पूषन्नध्वनस्तिर’ (ऋ॰१.४२.१)। अध्वनोऽतिक्रामेत्याह।
  • ‘ऋक्सामाभ्यां सन्तरन्तो यजुभिः’ (वा॰सं॰४.१)।
  • ‘स कृत्वा प्लवमात्मानं सन्तारयति तावुभौ’ (मनु॰११.१९)।

त्यज्

  • {संत्यज्}
  • त्यज् (त्यज-हानौ)।
  • ‘यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज’ (रा॰२.१०८.१६)। सन्त्यज=प्रव्रज। सम्शब्दस्त्यागस्य परिपूर्णतामाह, दत्तस्याप्रत्यापत्तिम्।

त्वर्

  • {संत्वर्}
  • त्वर् (ञित्वरा-सम्भ्रमे)।
  • ‘यद्ध वा इदं पूर्वयोः सवनयोरसन्त्वरमाणाश्चरन्ति’ (ऐ॰ब्रा॰३.४४)। असन्त्वरमाणाः=असम्भ्रान्ताः=अव्यग्राः।
  • ‘त्वं प्रापयाशु मां रामं प्राणाः सन्त्वरयन्ति माम्’ (रा॰.२.५९.२३)। सन्त्वरयन्ति=त्वरां कारयन्ति।

दंश्

  • {संदंश्}
  • दंश् (दंश-दशने)।
  • ‘व्याघ्रीव च हरेत् पुत्रान् सन्दशेन्न च पीडयेत्’ (शिक्षा)। दशनैर्गृह्णीयात्।
  • ‘सन्दश्य दशनच्छदम्’ (भा॰आदि॰१६३.८)। ओष्ठी निपीड्य। अधरोष्ठौ उपपीड्य।
  • ‘सन्दष्टकुसुमशयनानि गात्राणि’ (शा॰३.१८)।
  • ‘सन्दष्टवस्त्रेष्वबलानितम्बेषु’ (रघु॰१६.६५)। सन्दष्टवस्त्रेषु=संश्लिष्टाम्बरेषु।
  • ‘तस्यापि वाचनिकाङ्गसन्दष्टत्वेन बलवत्त्वात्’ (भा० दी० ३।३।७)। सन्दष्टत्वेन सम्बद्धत्वेन।
  • ‘रक्तबीजो रक्तनेत्रः सन्दष्टदशनच्छदः’ (स्कन्दपु० के० ८७।१)। दन्तोपपीडिताधर इत्यर्थः।

दह्

  • {संदह्}
  • दह् (दह-भस्मीकरणे)।
  • ‘यं त्वमग्ने समदहस्तमु निर्वापया पुनः’ (अथर्व॰१८.३.६)।

दा

  • {संदा}
  • दा (डुदाञ्-दाने)।
  • ‘सर्वाः सङ्गत्य वीरुधोऽस्यै सन्दत्त वीर्यम्’ (ऋ॰१०.९७.२१)। सन्दत्त=सम्भूय दत्त।
  • ‘समस्मे इषं वसवो ददीरन्’ (ऋ॰७.४८.४)। उक्तोऽर्थः।
  • ‘अग्निः सूर्य आपो मेधां विश्वे देवाश्च सन्ददुः’ (अथर्व॰१२.१.५३)।
  • ‘उत्तरात्त्वा सोमः सं ददातै (अथर्व॰१२.३.२४)। सन्धारयत्वित्यर्थः।
  • ‘मा वामन्ये नियमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम्’ (ऋ॰४.४४.५)। सन्ददे=स्वसविघे धारयामि।
  • ‘आत्मानमपि सन्दत्ते पात्रे दाता स उच्यते’ (शुक॰१.३२४)। अनर्थकः संशब्दः।
  • ‘दीर्घमायुरपि सन्ददौ यमः’ (पारिजात० १७।२७)। दानेर्थे सम्पूर्वको ददातिः सुदुर्लभः, काममर्थान्तरे वर्तमानस्तु बहुलं प्रयोगमवतरन्दृष्टः। तेन सुपरिहरः समः प्रयोगः।

दा

  • {संदा}
  • दा (दाप्-लवने)।
  • ‘बहिर्देवसदनं सन्दामीति’ (का॰श्रौ॰भाष्य उद्धरणम्)। अवदाय सङ्गृह्णामीत्यर्थः।

दिश्

  • {संदिश्}
  • दिश् (दिश-अतिसर्जने)।
  • ‘वाल्मीकये च ऋषये सन्दिदेशासनं ततः’ (रा॰१.२.२९)। सन्दिदेश=ददौ। इदमासनं सनाथ्यतामिति निवेदयामासेत्यर्थः।
  • ‘तौ सन्दिदेशेतिकर्तव्ये’ (भा॰वन॰२८६.२८)। उपदिदेशेत्याह।
  • ‘अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम्’ (कु॰६.१)। सन्देशेन प्रजिघायेत्यर्थः। इह दिशिरुच्चारणक्रियो न, नाप्यतिसर्जनार्थः, किन्तर्हि वक्तव्योच्चारणपूर्वके विसर्जने वर्तते। अत एव सखीम् इत्यत्र द्वितीयोपपन्ना भवति। विश्वात्मन इत्यत्र च क्रियाग्रहागमपि कर्तव्यमिति वचनाच्चतुर्थी च।
  • ‘फाल्गुनं चापि सन्दिदेश हयान् प्रति’ (भा॰१४.२१०.४)। सन्दिदेश=उपदिदेश।
  • ‘अभिदूति काचिदिति सन्दिदिशे’ (शिशु॰९.५६)। दूतोषु मध्ये काचिद् वक्ष्यमाणलक्षणं सन्देशमुक्तेत्यर्थः।
  • ‘न त्वां सन्देष्टुमर्हामि भर्तॄन् प्रति’ (भा॰सभा॰७९.५)। सन्देष्टुम्=उपदेष्टम्=अनुशासितुम्।
  • ‘सन्दिष्टश्चासि यानर्थांस्तांस्तान् ब्रूयास्तथा तथा’ (रा॰२.५२.५९)। सन्दिष्टः=उपदिष्टः।
  • ‘तव सन्दिष्टवान् इदम्’ (कथा॰१४.२)। तुभ्यमिमं सन्देशमुक्तवानित्यर्थः।
  • ‘आदिशत्सर्वं यथासन्दिष्टमिष्टवत्’ (रा॰२.८२.२२)। यथासन्दिष्टम्=यथादेशम्।
  • ‘सन्दिष्टस्याप्रदाता च’ (याज्ञ्॰२.२३२)। सन्दिष्टस्य=प्रतिश्रुतस्य।
  • ‘दूतैर्मधुरसम्भाषैर्नैतदस्तीति सन्दिशन्’ (भा॰उ॰१९०.२)।
  • ‘ततः शक्रेण सन्दिष्टश्चित्रसेनो ममान्तिकम्’ (भा॰वन॰३६.३१)। सन्दिष्टः=प्रेषितः=विसृष्टः (सन्देशेन सहेति गम्यते)।
  • ‘किं नु खलु दुःष्यन्तस्य युक्तरूपमस्माभिः सन्देष्टव्यम्’ (शा॰४)। सन्देशवचः प्रापणीयं हारणीयमित्यर्थः।
  • ‘अङ्गदप्रमुखान् वीरान्… सन्दिदेश विशेषवित्’ (रा० ४।४१।५)। सन्दिदेश प्रेषयामास।
  • ‘आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ’ (रा० ३।७०।२)। सन्दिष्टौ प्रेषितौ, प्रहितौ, विसृष्टौ, प्रेरितौ।

दिह्

  • {संदिह्}
  • दिह् (दिह-उपचये)।
  • ‘सा (निर्ऋतिः) पृथिव्या सन्दिह्यते’ (नि॰२.७)। सन्दिह्यते=व्यतिकीर्यते, व्यामिश्रयते।
  • ‘योऽयं संवत्सरे यज्ञः स सन्दिह्यते’ (मी॰१७.४७ सूत्रे शा॰भा॰)। तद्विषये सन्देहो भवतीत्यर्थः।
  • ‘करोतिकिरती सन्दिग्धौ वर्षकर्मणा’ (नि॰२.९)। सन्दिग्धौ=सन्देहस्य विषयः। तस्य सन्दिदिहे।
  • ‘बुद्धिस्तां दृष्ट्वा तद्विनिर्णये’ (रा॰५.१८.१७)। सन्देहवत्यजायतेत्यर्थः।
  • ‘धूपैर्जालविनिःसृतैर्वलभयः सन्दिग्धपारावताः’ (विक्रम॰३.१०)। उक्तोऽर्थः।
  • ‘पान्तु त्वामकठोरकेतकशिखासन्दिग्धमुग्धेन्दवः’ (जटाः) (मालती॰१.२)। उक्तोऽर्थः।
  • ‘सन्दिग्धसाध्यवान् पक्षः’ (तर्क॰)।
  • ‘पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः’ (तर्कभाषा)। सन्दिहानः सन्देहं कुर्वाणः।
  • ‘तन्मे सन्देहयद्दिशः’ (भा॰आदि॰१३१.५१)। सन्देहयत्=समदेहयत्=अमोहयत्।
  • ‘अथ सन्देहयानानां दृष्ट्वा स्पृष्ट्वा च पार्थिवम्। यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः’ (रा॰२.६५.१५)॥ सन्देहयानानाम् इति स्वार्थे णिच्। आगमशास्त्रस्यानित्यत्वान्मुङ्न कृतः। सोऽयं मुगभावः क्वाचित्को णिङन्तस्य कमेर्ण्यन्तानां च केषाञ्चिच्छानचि दृष्टो नेतरत्र।
  • ‘तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम्। विमुच्य कवचम् …’ (भा॰स्त्री॰२०.८)। अत्र सन्दिग्धं दिग्धमेवाह। सम्शब्दो धात्वर्थानुवादी।
  • ‘रक्तचन्दनसन्दिग्धौ… बाहू’ (भा॰कर्ण॰६२.२०)। इहापि पूर्ववत्।
  • ‘लोमानि जतुना सन्दिह्य’ (कौशिक॰१३.२६)। सन्दिह्य=उपलिप्य।
  • ‘सन्देहस्त्वेष आत्मन इति होवाच’ (छा॰उ॰५.१५.२)। सन्देहः=त्वगादिरुपचयहेतुः।
  • ‘वर्णानां च सन्देहो युगान्ते रविनन्दन’ (मात्स्य पु० १६५।१८)। सन्देहः संकरः।
  • ‘चतुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलः’ (छां० उ० ५।१८।२)। सन्देहो देहस्य मध्यभागः।

दीप्

  • {संदीप्}
  • दीप् (दीपी-दीप्तौ)।
  • ‘अग्निं न मा मथितं सं दिदीपः’ (ऋ॰८.४८.६)। प्रज्वलय प्रकाशय भासयेत्याह।
  • ‘सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः’ (भर्तृ॰३.७७)। सन्दीप्ते=दग्धे।

दुष्

  • {संदुष्}
  • दुष् (दुष-वैकृत्ये)।
  • ‘यदि यास्यति सन्दुष्टा रामस्याक्लिष्टकर्मणः। नेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति’ (रा॰गोरे॰सं॰२.९१.११)। सन्दुष्टा=विकृतमनाः=अनिष्टसङ्कल्पा। समा नार्थः, यथा प्रदुष्टविप्रदुष्टयोर्विप्राभ्यां नार्थः।

दुह्

  • {संदुह्}
  • दुह् (दुह-प्रपूरणे)।
  • ‘अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान्’ (भा॰शां॰१२०.३३)। दुह्यादित्येवार्थः सम्शब्दो धात्वर्थानुवर्ती।
  • ‘य इमे रोदसी मही सं मातरेव दोहते’ (ऋ॰९.१८.५)। सन्दोहते=सम्भूय दुग्ध इत्याह। सम्पिवत इति तात्पर्यम्।
  • ‘सर्वघोषस्य सन्दोहो गृह्यतां मा विचार्यताम्’ (वि॰पु॰५.१०.३९)। समुदितो दोहः सन्दोहः। अन्यत्र समूहवचने सन्दोहशब्द इव नात्र दोहशब्दोऽत्यन्ततिरस्कृतार्थः।
  • ‘सर्वघोषस्य सन्दोहः क्रियतां किं विचार्यते’ (हरि॰२.१६.११)। उक्तोऽर्थः।
  • ‘त्रिरात्रं चैव सन्दोहः सर्वघोषस्य गृह्यताम्’ (हरि॰२.१७.१४)।

दृभ्

  • {संदृभ्}
  • दृभ् (दृभी-ग्रन्थे)।
  • ‘वायुना वै गौतम सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति’ (शा॰ब्रा॰१४.६.७.२)। सन्दृब्धानि=सङ्ग्रथितानि।

दृश्

  • {संदृश्}
  • दृश् (दृशिर्-प्रेक्षणे)।
  • ‘एवं या इष्टा देवता भवन्ति ताः सम्पश्यत्यसौ हविरजुषतासौ हविरजुषतेति’ (श॰ब्रा॰१.९.१.१०)।
  • ‘मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह’ (रा॰१.१.५५)। सन्ददर्श=आलुलोके। अत्र समा न किञ्चिदर्थान्तरमुपजन्यते।
  • ‘भुवना सं च पश्यति’ (अथर्व॰६.३४.४)। ऐक्यरूपेण पश्यतीति सायणः।
  • ‘ध्यानयोगेन सम्पश्येत्सूक्ष्म आत्मात्मनि स्थितः’ (याज्ञ॰३.६४)। सम्पश्येत्=सम्यक् पश्येत्।
  • ‘इन्द्रेण सं हि दृक्षसे’ (ऋ॰१.६.७)। इन्द्रेण साकं समानकाले समानदेशे वा दृश्यस इत्याह।
  • ‘समिव वा इमे लोका ददृशिरे’ (पञ्च॰ब्रा॰१२.२) उक्तोऽर्थः।
  • ‘तदिदमेकमेव रूपं समदृश्यताप एव’ (श॰ब्रा॰६.१.१.१२)। सम्शब्दोऽत्र दर्शनस्य साम्यमाह।
  • ‘सन्दृष्टव्ययकर्मवित्’ (रा॰२.१.२६)। सन्दृष्टः सम्यक् चिन्तितो व्ययो येषु तानि कर्माणि सन्दृष्टव्ययानि।
  • ‘कवीँ रिच्छामि सन्दृशे सुमेधाः’ (ऋ॰३.३८.१)। कविभिः सुमेधस्त्वेन समानो दृश्येयेतीच्छामीत्याह।
  • ‘य एष मनुष्यः प्रेक्षापूर्वकारी भवति स बुद्ध्या कञ्चिदर्थं सम्पश्यति, सन्दृष्टो प्रार्थना…’ (१.३.१४ सूत्रे भाष्ये)।
  • ‘विपाकोऽयं दशग्रीव सन्दृष्टोऽनागतो मया’ (भट्टि॰१८.३)। सन्दृष्टः=सम्यगुपलब्धः।
  • ‘मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरम्। श्रीगोविन्दपदारविन्दम्…’ (गीत॰७.४२)। सन्दर्शितेन्दीवरम्=आभासितरोलम्बम्। इन्दीवरशब्द इह भ्रमरमाचष्टे।
  • ‘सन्दर्शनं प्रार्थनायां व्यवसाये त्वनन्तरा। व्यवसायस्तथाऽऽरम्भे साधनत्वाय कल्पते’ (वा० प० ३।७।१६)॥ सन्दर्शनं फलविषयः सङ्कल्पः।
  • ‘सन्दर्शने तु चैतन्यं विशिष्टं साधनं विदुः’ (वा० प० ३।७।१७)। निगदव्याख्यातम्।
  • ‘सम्पश्यन्तु च मे क्रियाः’ (हरि० २।५१।२२)। सम्पश्यन्तु सम्पन्ना भवन्त्विति नीलकण्ठः। वस्तुतो ऽपपाठ एषः। सन्दृशेस्तत्रार्थेऽशक्तत्वात्। अस्ति सम्पत्स्यन्तु इति पाठान्तरम्। तच्च संस्कारहीनमिति परिहृतम्। लोटि स्यो दुर्लभः। तत्रात्मनेपदव्यत्ययश्चापि दूषणम्। स च पुराणेषु बहुल इत्यकिञ्चित्करः।

दो

  • {संदो}
  • दो (दो-अवखण्डने)।
  • ‘सं परमान् समवमानथो सन्द्यामि मध्यमान्’ (अथर्व॰६.१०३.२)। सन्द्यामि बध्नामीत्यर्थः। सम्पूर्वो द्यतिर्बन्धने वर्तत इति सायणः।
  • ‘सन्दानं वो बृहस्पतिः’ (अथर्व॰६.१०३.१)। सन्दानं बन्धनम्।
  • ‘उत्तिष्ठतमारभेथामादानसन्दानाभ्याम्’ (अथर्व॰११.९.३)। सन्दानं बन्धनरज्जुः।
  • ‘विमृळीकाय ते मनो रथीरश्वं न सन्दितम्। गीर्भिर्वरुण सीमसि’ (ऋ॰१.२५.३)। सन्दितम् बद्धम् (स्वस्थाने स्यन्दने वा)। विसीमसि=विसिनुमः=विषितं कुर्मः।
  • ‘सन्दिताय स्वाहा। वल्गते स्वाहा’ (वा॰सं॰२२.७)।
  • ‘असन्दितानां सन्दाता सन्दितानां च मोक्षकः’ (मनु॰८.३४२)। सन्दाता बन्द्धा। सन्द्यतेस्तृचि रूपम्। असन्दितानामबद्धानामश्वादीनाम्।

द्युत्

  • {संद्युत्}
  • द्युत् (द्युत-दीप्तौ)।
  • ‘सं सूर्येण दिद्युतद् उदधिर्निभिः’ (वा॰सं॰३८.२२)।

द्रु

  • {संद्रु}
  • द्रु (द्रु-गतौ)।
  • ‘यत्रा नरः सं च वि च द्रवन्ति’ (वा॰सं॰२९.४८)। सन्द्रवन्ति=सङ्गच्छन्ते।
  • अन्वर्थं खल्वपि निर्वचनम्- ‘गुणसन्द्रावो द्रव्यम्’ (५.१.११९ सूत्रे भाष्ये )। गुणसमूह इत्यर्थः।

धा

  • {संधा}
  • धा (डुधाञ्-धारणपोषणयोः)।
  • ‘ब्रह्मा च गिरो दधिरे समस्मिन्’ (ऋ॰६.३८.४)। सन्दधिरे=सन्निहितवन्तः।
  • ‘स सौभगानि दधिरे पावके’ (ऋ॰६.५.२)। उक्तोऽर्थः।
  • ‘यन्मामेकं समधत्ताहिहत्ये’ (ऋ॰१.१६५.६)। प्रासञ्जयदित्याह।
  • ‘हस्तेषु खादिश्च कृतिश्च सन्दधे’ (ऋ॰१.१६५.६)। सन्दधे- कर्मणि प्रत्ययः। खादिश्च कृतिश्च निहिते इत्यर्थः।
  • ‘यथा नकुलो विच्छिद्य सन्दधात्यहिं पुनः’ (अथर्व॰६.१३९.५)। सन्दधाति=संहितं करोति पुनर्योजयति।
  • ‘यथा सूच्या वासः सन्दधद् इयात्’ (ऐ॰ब्रा॰३.१८)। सन्दधत्=सीव्यत्।
  • ‘यज्ञस्य विरिष्टं सन्दधाति’ (छां॰उ॰४.१७.४)। सन्दधाति=समादधाति।
  • ‘अद्भिरेवास्या एतत्क्षतं विलिष्टं सन्तनोति सन्दधाति’ (श॰ब्रा॰६.४.३.१)। उक्तोऽर्थः।
  • ‘तद्यथा लवणेन सुवर्णं सन्दध्यात्सुवर्णेन रजतम्’ (छां॰उ॰४.१७.७)। संयोजयेत्=सम्पृञ्च्यात्।
  • ‘मुखेन मुखं सन्धाय’ (श॰ब्रा॰१४.९.४.९)। उक्तोऽर्थः।
  • ‘तेषां सन्दध्मो अक्षीणि यथेदं हर्म्यं तथा’ (अथर्व॰४.५.५)। सन्दध्मः=निमीलयामः।
  • ‘व्रणं कषाये सन्धत्ते’ (सुश्रुते १.४७.७)। व्रणं व्रणमुखं सन्धत्ते सङ्गतं करोति।
  • ‘कृष्णं च वर्णमरुणं सन्धुः’ (ऋ॰१७३.७)। सन्धुः समधुः। अडभावश्छान्दसः। धाञो लुङि रूपम्। उभयोर्वर्णयोर्मेलनमकुर्वन्नित्याह।
  • ‘धनुष्यमोघं समधत्तं बाणम्’ (कु॰३.६६)। समधत्त समयोजयत्।
  • ‘शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः’ (पञ्चत॰१.२२९)। सन्धत्ते=अविचलः सन् विरोधमाचरति। शतं विरुणद्धीत्यर्थः।
  • ‘हीयमानाः किल रिपोर्नृपाः सन्दधते परान्’ (वेणी॰५.६)। सन्धिबन्धं बध्नन्तीत्यर्थः।
  • ‘शत्रुणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना’ (हितोप॰१.८८)।
  • ‘सन्धेयानभिसन्धत्स्व विरोध्यांश्च विरोधय’ (भा॰शां॰१५७.४)। सन्धत्स्व=अनुकूलय।
  • ‘सत्यधर्मव्यवेतेन न सन्दध्यात्’ (का॰नी॰सा॰९.४१)। न सन्धिं कुर्यात्।
  • ‘सन्दधे दृशमुदग्रतारकाम्’ (रघु॰११.६९)। सन्दधे=ससञ्ज।
  • ‘सर्वेषामेव मर्त्यानां व्यसने समुपस्थिते। वाङ्मात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे’ (पञ्चत॰२.१३)॥ न सन्दधे=विधत्ते। लडर्थे लिट्।
  • ‘तस्माद्बलं च कोषश्च नीतिश्चापि विधीयताम्। यथा कालोदये प्राप्ते सम्यक् तैः सन्दधामहे’ (भा॰वि॰२९.८)। सन्दधामहे=सन्दध्महे=व्यवहरामः, सम्यक् तान्युपयुज्महे।
  • ‘न तत् परस्य सन्दध्यात्प्रतिकूलं यदात्मनः’ (भा॰अनु॰११४.८)। ‘सन्धत्ते भृशमरतिं हि सद्वियोगः’ (कि॰५.५१)। सन्धत्ते=जनयति।
  • ‘यस्यावाच्यं न लोकेऽस्ति नाकार्यं चापि किञ्चन। वाचं तेन न सन्दध्यात्…’ (भा॰शां॰११४.११)। वाचं न सन्दध्यात्, तद्वचोभिः स्ववचांसि न मिश्रयेत्, न तेन सम्भाषेतेत्याह।
  • ‘कथं काम न सन्दध्यात् सा त्वं विप्रेहि तिष्ठ वा’ (भा॰आदि॰१६७.३८)। सन्दध्यात्=साधयेत्।
  • ‘रहस्यं शृणु भो राजन्… चोदितः सन्दधासीदम्’ (यो॰वा॰६(२)१५७.२)। सन्दधासि=रक्षसि।
  • ‘असन्दधानो मानाद्यः समेनापि हतो भृशम् (पञ्चत॰.३.१३)। सन्धिमकुर्वाण इत्याह।
  • ‘न सन्दधानं ददृशे नाददानं च तं तदा। किरन्तमेव स शरान् ददृशे पाकशासनिः’ (भा॰आश्व॰७४.१८)। सन्दधानं (शरान्) धनुषि योजयन्तम्।
  • ‘शीघ्रमभ्यस्यतो बाणान् सन्दधानस्य चानिशम्। नान्तरं ददृशे किञ्चित् कौन्तेयस्य यशस्विनः’ (भा॰आदि॰१३८.४१)॥
  • ‘न गृह्णतोः शरान् घोरान्न च सन्दधतोस्तयोः’ (हरि॰३.५९.९७)।
  • ‘सर्वमेतदशेषेण मन्त्री सन्धातुमर्हति’ (का॰नी॰सा॰१३.६०)। सन्धातुम्=समाधातुम्, साधूकर्तुम्, व्यवस्थापयितुम्।
  • ‘सकद्दुष्टं हि मित्रं पुनः सन्धातुमिच्छति’ (चाणक्य॰१९)। सन्धातुम्=अनुकूलयितुम्।
  • ‘न सन्धातुमनीकानि न चैवाथ पराक्रमे। आसीद्बुद्धिर्हते कर्ण…’ (भा॰शल्य॰२.४)॥ सन्धातुम्=एकीकर्तुम्।
  • ‘सहदेवस्तु सन्धाय रथेन गजयोधिनः। पातयामास नाराचैः…’ (भा॰वन॰२७१.११)। सन्धाय=समीपमित्वा, सन्निकर्षं प्राप्य। संयायेति पाठान्तरम्।
  • ‘सम्मृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्मसंहितम्’ (भा॰आदि॰८१.१९)। संहितम्=सखिभावेन सम्बद्धम्।
  • ‘पृथक् चरन्तः सहिता बभूवुः’ (भा॰वन॰२६९.१)। सहिताः=सङ्गताः। समो हितततयोरिति समो मकारस्य वैकल्पिको लोपः।
  • ‘मन्त्रयेते ध्रुवं किञ्चिदभिषेचनसंहितम्’ (रा॰२.१६.१५)। अभिषेचनसंहितम्=अभिषेचनसम्बद्धम्।
  • ‘यत्र संहिता रात्रीर्वसेत्’ (आप॰श्रौ॰६.८.२८.५)। संहिताः=वास्त्वन्तरवासेनाव्यवेताः (रुद्र॰)।
  • ‘सत्यसंहिता वै देवाः, अनृतसंहिता मनुष्याः’ (ऐ॰ब्रा॰१.६)। उक्तोऽर्थः। यदि सहिता यतिष्यध्वे। सहिताः=समेताः।
  • ‘शन्नोदेवीयं संहितयाधीष्वेत्युक्तः स तत्र परमसन्निकर्षमधीते। यामिन्द्रेण सन्धां समधत्था ब्रह्मणा च बृहस्पते’ (अथर्व॰११.१०.९)। सन्धां प्रतिज्ञाम्। सन्धानं स्यादभिषव इत्यमरः।
  • ‘इन्द्रनीलनिभं लक्ष्म सन्दधात्यलिनः श्रियम्’ (काव्यादर्शे १।५६)। सन्दधाति दधाति। नार्थः समा।
  • ‘सन्धीयते प्रजया पशुभि र्ब्रह्मवर्चसेन’ (तै० उ० १।३।४)। संधीयते युज्यते।
  • ‘इन्द्रश्च वै नमुचिश्चासुरः समदधातां न नो नक्तं न दिवा ऽहन्नार्द्रेण न शुष्केणेति’ (पञ्च० ब्रा० १२।६।८)। समदधातां सन्धिमकुरुताम्, संविदं व्यधत्ताम्।
  • ‘सन्धां तु सन्दधावहै’ (तै० सं० २।४।१२।५)। एकत्वं प्रतिपद्यामहा इत्यर्थः।
  • ‘शरं ह्युपासानिशितं सन्दधीत’ (मुण्ड० उ० २।२।३)। सन्दधीत आरोपयेत्।
  • ‘स्वधर्मं सन्दधानो हि प्रेत्य चेह च नन्दति’ (कौ० अ० १।१।३)। सन्दधानोऽनुष्ठापयन्।
  • ‘इमं हि सालं सहितस्त्वया शरः’ (रा० ४।११।९२)। सहितः संहितः, धनुरारोपितः।
  • ‘मेखला चेदसन्धेया भवत्यन्यां कृत्वानुमन्त्रयते’ (शां० गृ० २।१३।४)। असन्धेया ऽबन्धनीया।
  • ‘नापागाः शौद्रान्न्यायादसन्धेयं कृतम्’ (ऐ० ब्रा० ७।१७)। असन्धेयमप्रतिसमाधेयम्।
  • ‘सन्धिन्यनिर्दशावत्सागोपयः परिवर्जयेत’ (याज्ञ० १।१७०)। सन्धिनी (गौः) या वृषेण सन्धीयते। अथ सन्धिनी आक्रान्ता वषभेणेत्यमरः।

धाव्

  • {संधाव्}
  • धाव् (धावु-गतिशुद्ध्योः)।
  • ‘प्रतिघ्नानाः सन्धावन्तूरः पटूरावाघ्नानाः’ (अथर्व॰११.९.१४)। सन्धावन्तु- त्वरितं गच्छन्तु।
  • ‘सङ्क्रुद्धाः समधावन्त’ (भा॰वन॰१०७.३१)। उक्तोऽर्थः।
  • ‘मत्ताविव महानागावन्योन्यं समधावताम्’ (हरि॰२.४३.६४)। वेगेन परस्परम् आपतताम्।
  • ‘पाणिभिः सन्धावेरन्’ (लाट्या॰श्रौ॰४.४.११)। प्रक्षालयेरन्नित्याह।
  • ‘प्रक्षाल्य सन्धाव्य’ (कौशिक॰३४,४९,५८)। अत्र सन्धावनेन निर्णेजनार्थं मर्दनमुच्यते।

धुक्ष्

  • {संधुक्ष्}
  • धुक्ष् (धुक्ष/धिक्ष-सन्दीपनक्लेशनजीवनेषु)।
  • ‘मनश्च्युता मन एवोपपन्नाः सन्धुक्षध्वम्’ (भा॰अनु॰७६.१३)। सञ्जीवतेत्यर्थः।
  • ‘सन्दुधुक्षे तयोः कोपः’ (भट्टि॰१४.१०९)।
  • ‘निर्वाणभूयिष्ठमथास्य वीर्यं सन्धुक्षयन्तीव वपुर्गुणेन’ (कु॰३.५२)। सन्धुक्षयन्ती=सन्दीपयन्ती।

धू

  • {संधू}
  • धू (धू-विधूनने)।
  • ‘सं गा अस्मभ्यं धूनुहि’ (ऋ॰१.१०.८)। गाः सं गमय्येतः प्रेरयेत्याह।
  • ‘समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम्’ (ऋ॰वालखिल्येषु ४.१०)। समधूनुत=सम्मार्जन्येव समगृह्णात्।

धृ

  • {संधृ}
  • धृ (धृञ्-धारणे)।
  • ‘अरैः सन्धार्यते नाभिः’ (पञ्चत॰१.८१)। धार्यत इत्येवार्थः। नार्थः समा।
  • ‘गतासूनपि संशुष्कान् भूमिः सन्धारयिष्यति’ (भा॰अनु॰८५.३२)।
  • ‘कथं सा कुशचीराणि गात्रैः सन्धारयिष्यति’ (रा॰गोरे॰सं॰.२.६२,१५)। सन्धारयिष्यति=सहिष्यते।
  • ‘यः सततं परिपृच्छति शृणोति सन्धारयत्यनिशम्’ (पञ्चत॰५.७८)। सन्धारयति=प्रतिसन्धत्ते=स्मरति।
  • ‘यावत् सन्धारयाम्यहम्’ (मार्क॰पु॰८.५२)। यावद् ध्रिये, यावज्जीवामीत्याह।
  • ‘यथा हि गोवृषो वर्षं सन्धारयति खात्पतत्। भीमस्तथा द्रोणमुक्तं शरवर्षमदीनवत्’ (भा॰भीष्म॰९६.३२)॥ सन्धारयति=सहते।
  • ‘द्रौपदीमार्ष्टिषेणाय सम्प्रचार्य’ (भा॰वन॰१६१.३)। सम्प्रचार्य=समर्प्य, दत्त्वा।
  • ‘सन्धारयितुमात्मानं न शशाक नरोत्तमः। सीतावियोगजे दुःखे मग्नः…’ (रा॰३.६७.३)॥ आत्मानं सन्धारयितुम्=ऋजुना कायेनावस्थातुम्।
  • ‘अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम्। सम्प्रधार्याब्रवीद् धाता न समौ नासमाविति’ (मनु॰१०.७३)॥ सम्प्रधार्य=तोलयित्वा, तयोर्गुरुलाघवं विचिन्त्य।
  • ‘सम्प्रधार्य महाराज यत्क्षेमं तत् समाचर’ (भा॰सभा॰४६.२४)। सम्प्रधार्य साधुत्वासाधुत्वे, बलाबलचिन्तां कृत्वा। इदमिह सम्प्रधार्यम् इति व्याकरणमहाभाष्येऽनेकत्र। अर्थस्तु पूर्वोक्तादभिन्नः।

धृ

  • {संधृ}
  • धृ (धृङ् अवस्थाने)।
  • ‘ते ऽदित्यां समध्रियन्त’ (तै० सं० ६।१।५।३४)। समध्रियन्त सम्भूयातिष्ठन्।

धृष्

  • {संधृष्}
  • धृष् (धृष-प्रसहने)।
  • ‘एवं सन्धर्षिता साध्वी कथं जीवितुमुत्सहे’ (हरि॰२.११८.११)। सन्धर्षिता=बलाद्दूषिता, हठात्परामृष्टा।

ध्मा

  • {संध्मा}
  • ध्मा (शब्दाग्निसंयोगयोः)।
  • ‘ब्रह्मणस्पतिरेता स कर्मार इवाधमत्’ (ऋ॰१०.७२.२)। समधमत्=समतपत्=समम् अद्रावयत्।
  • ‘उद्धमाधम सन्धम’ (तै॰आ॰१.१२.१) उक्तोऽर्थः

ध्यै

  • {संध्यै}
  • ध्यै (ध्यै-चिन्तायाम्)।
  • ‘मुहूर्त्तमिव सन्दध्यौ किमयं चोद्यतामिति’ (भा॰सभा॰१.८)। सन्दध्यौ=चिचिन्त प्रणिहितमनाः।

नद्

  • {संनद्}
  • नद् (णद्-अव्यक्ते शब्दे)।
  • ‘सिंहवत्सन्ननाद’ (भा॰१७९.१३)। सन्ननाद=उच्चैर्ननाद।
  • ‘उवाचकैः इहेत्युच्चैर्वनं सन्नादयन्निव’ (भा॰आदि॰७१.२)। सन्नादयन्=संरावयुक्तं कुर्वन्।

नम्

  • {संनम्}
  • नम् (णम-प्रह्वत्वे शब्दे च)।
  • ‘यूने समस्मै क्षितयो नमन्ताम्’ (ऋ॰५.३६.६)। क्षितयः प्रजा यूनेऽस्मा इन्द्राय सन्नमन्ताम् सन्नताः प्रवरणा वचने स्थिताः समानमतयः स्युरित्याह।
  • ‘सत्या एषामाशिषः सन्नमन्ताम्’ (वा॰सं॰३५.२०)। सन्नमन्ताम्=समृध्यन्तु।
  • ‘एतं यज्ञस्य रसं सन्नमन्ति’ (श॰ब्रा॰३.९.३.२४)। सन्नमन्ति=प्राप्नुवन्ति।
  • ‘सं वो मनांसि सं व्रता समाकूतीर्नमामसि’ (अथर्व॰३.८.५)। सम्प्रतिपन्नानि कुर्म इत्यर्थः।
  • ‘कृत्वाऽप्युच्चसम्बन्धं पश्चाज्ज्ञातिषु सन्नमेत्’ (का॰सू॰टी॰)॥ ज्ञातिषु सन्नमेत्=ज्ञातिगृहे गच्छेत्।
  • ‘यूपं प्राचीं सन्नमति’ (षड्विंश॰४.४)। सन्नमति=सन्नमयति।
  • ‘पत्नी मन्त्रं सन्नमयति’ (कौशिक॰६०.६३)। ऊहत इत्यर्थः। विनियोगविशेषाय मनाक् परिवर्त्य पठति।
  • ‘आत्मनि मन्त्रान् सन्नमयेत्’ (आश्व॰गृ॰३.९.८)। मन्त्रानात्माभिमुखानूहेदित्याह।
  • ‘अपो अन्नादा अन्नाद्यायेति मन्त्रं सन्नमयति’ (आप॰श्रौ॰८.२.८.२)।
  • ‘ये के च देवसंयुक्ता मन्त्रा देवेभ्यः पितृभ्य इति तान् सन्नमति’ (=सन्नमयति) (आप॰श्रौ॰८.४.१३.६)। उक्तोऽर्थः।
  • ‘यथार्थं विभक्तीः सन्नमयेत्’ (नि॰२.१.४)। सन्नमयेत्=विपरिणमयेत्।
  • ‘अमी ये विव्रता स्थन तान्वः सम्नमयामसि’ (अथर्व॰३.८.५)। एकविषयप्रह्वान् अविसंवादिनः कुर्म इत्याह।
  • ‘तामस्मै देवा आशिषं सन्नमयन्ति’ (श॰ब्रा॰१.९.१.३)। दत्तामाशिषं मानयन्तीत्यर्थः।
  • ‘इषूः सम्नममानः’ (ऋ॰१०.८७.४)। सन्नमय्य यथास्थानं निवेशयन्नित्याह।
  • ‘अग्निश्च पृथिवी च सन्नते’ (वा॰सं॰२६.१)। सन्नते=समानचिन्ते, एकमनसौ।
  • ‘(वेदिः) मध्ये सन्नततरा’ (का॰श्रौ॰६.८८.१७ सूत्र टी०)। सन्नततरा=सङ्कुचिततरा।
  • ‘महावीरं करोति… मध्ये सन्नतं वायव्यप्रकारम्’ (आप॰श्रौ॰१५.२.१४)। उक्तोऽर्थः।
  • ‘अपि ते सन्नताः सर्वे सामन्ता रिपवो जिताः’ (रा॰१.२०.१२)। सन्नताः प्रणता वचने स्थिताः।
  • ‘सन्नताः फलभारेण पुष्पभारेण च द्रुमाः’ (रा॰३.१६.५)। सन्नताः=आवर्जिताः।
  • ‘सन्नतगात्रि… सख्यं साप्तपदीनमुच्यते’ (कु॰५.३९)। उक्तोऽर्थः।
  • ‘ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भाऽसि सन्नतिः’ (वि॰पु॰५.२.१०)। सन्नतिः=गुरुशुश्रूषा।
  • ‘त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम्’ (भा॰शां॰२२१.५)। सन्नतिः=भूताराधनमिति नील॰।
  • ‘गुणोदितानेव परैति सन्नतिः’ (अव॰जा॰२२.९५)। सन्नतिर्विनयः। गुणसमुदितानेव विनयो विन्दतीत्याह।

नस्

  • {संनस्}
  • नस् (णस-कौटिल्ये)।
  • ‘सं जामिभिर्नसते रक्षते शिरः’ (ऋ॰९.६८.४)। सन्नसते=सङ्गच्छते=सम्भवति।

नह्

  • {संनह्}
  • नह् (णह-बन्धने)।
  • ‘सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत’ (अथर्व॰७.५०.९)। सन्नह्यत=वेष्टयत। इहाक्षाः सम्बोध्यन्ते।
  • ‘कवचेन महार्हेण समनह्यद् बृहन्नलाम्’ (भा॰वि॰६७.२५)। समनह्यत्=पर्यधापयत्।
  • ‘सन्नह्यमानेषु वाजिषु’ (पञ्चत॰)। आरोप्यमाणपर्याणादिषु।
  • ‘उत्तिष्ठत सन्नह्यध्वं मित्रा देवजना यूयम्’ (अथर्व॰११.९.२)। सन्नद्धाः सज्जा भवतेत्याह।
  • ‘समगात्सीत्ततः सत्यम्’ (भट्टि॰१५.१११)। रणोद्युक्तमकरोदित्यर्थः।
  • ‘समनह्यश्च वर्मभिः’ (भट्टि॰१७.४)।
  • ‘छेत्तुं वज्रमणीन् शिरीषकुसुमप्रान्तेन सन्नह्यते’ (भर्तृ॰२.६)।
  • ‘सन्नह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि’ (भा॰वन॰२६८.१८)। सन्नह्यध्वम्=बध्नीत।
  • ‘सङ्ग्रामे समुपोढे राजानं सन्नाहयेत्’ (आश्व॰गृ॰३.९.१)। सन्नाहयेत्=सन्नाहवन्तं कुर्यात्। सङ्ग्रामे समुपोढे=युद्धे समुपस्थिते।
  • ‘तथा सन्नहनान्येषां परिमुच्य समन्ततः’ (भा॰वि॰४१.९)। सन्नहनानि धनुषां बन्धनानि।
  • ‘प्रतिष्ठद्युगमध्ये स युगसन्नहनेषु च’ (भा॰द्रोण॰९७.२६)। युगसन्नहनेषु=युगबन्धेषु।
  • ‘तत्कार्मुकं सन्नहनोपपन्नम् (भा॰आदि॰१८७.१८)। अत्यन्तं काठिन्येनोपपन्नं युक्तमित्याह।
  • ‘अथ सन्नहनं विस्रंसयति’ (श॰ब्रा॰१.३.३.६)। बर्हिष्पूलीमुद्ग्रथ्नाति (उत्कचते) इत्याह।
  • ‘निण्यः सन्नद्धो मनसा चरामि’ (ऋ॰१.१६४.३७)।
  • ‘आस्तां बालस्य सन्नद्धे धात्र्यौ तस्य वृद्धये’ (राज॰१.७७)। सन्नद्धे=उद्युक्ते=कार्यपरायणे=कर्तव्योन्मुख्यौ।
  • ‘सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम्’ (रा॰१.३८.१)। पर्वतसन्नद्धम्=पर्वतसम्बद्धम्=गिरिपरिक्षिप्तम्।
  • ‘कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम्’ (शा॰१.२१)। सन्नद्धम्=व्याप्तम्=अनुविद्धम्।
  • ‘सन्नह्य काञ्चनं वर्म’ (भा॰आश्व॰७९.१४)। सन्नह्य=सम्बध्य। सन्नाह्यो रथः=युद्धार्थं सज्जीकृतः।

नी

  • {संनी}
  • नी (णीञ्-प्रापणे)।
  • ‘सं चेन्नयाथो अश्विना’ (अथर्व॰२.३०.२)। मत्समीपं प्रापयतमित्याह।
  • ‘यथा ऋणं सन्नयामसि’ (ऋ॰८.४७.१७)। सम्प्रदानेन गमयाम इत्यर्थः।
  • ‘यस्मिन्नृणं सन्नयति’ (मनु॰९.१०७)। यस्मिञ्जाते सति ऋणं शोधयतीत्याह। सङ्क्रमयतीति वा।
  • ‘यदीदहं युधये सन्नयान्यदेवयून्’ (ऋ॰१०.२७.२)। सन्नयानि=सङ्गृह्णानि=समेतान् करोमि।
  • ‘यः सङ्ग्रामान्नयति स युधे वशी’ (अथर्व॰४.२४.७)।
  • ‘सम्पूषन्विदुषा नय’ (ऋ॰६.५४.१)। सन्नय=सङ्गमय।
  • ‘इति दक्षः कविर्यज्ञं भद्ररुद्रावमर्शितम्। …सन्निन्ये’ (भा॰पु॰४.७.४८)।
  • ‘युवं मित्रेमं जनं यतथः स च नयथः’ (ऋ॰५.६५.६)। सन्नयथः=सत्पथेन नयथः।
  • ‘संयन्नॄन्न रोदसी निनेथ’ (ऋ॰७.२८.३)। उक्तोऽर्थः।
  • ‘भद्रान्नः श्रेयः समनैष्ट देवाः’ (तै॰सं॰५.७.२.४)। श्रेयः समनैष्ट=कल्याणं प्रापयत।
  • ‘समिन्द्र णो मनसा नेषि सं गोभिः सं सूरिभिर्हरिवः सं स्वस्ति’ (ऋ॰५.४२.४)। सन्नेषि=संयुङ्ग्धि।
  • ‘तदु समेव नयेत’ (श॰ब्रा॰१.६.४.११)। स सान्नाय्यं हविर्दद्यादित्याह।
  • समितां मर्दयेदाज्यैर्जलेनापि च सन्नयेत्। मिश्रयेदित्यर्थः।
  • ‘नासोमयाजी सन्नयेत्’ (आप॰श्रौ॰१.४.१४.८)। सान्नाय्येष्टिं कुर्यादित्याह।
  • ‘अवदानैः सह यूपेण सन्नयेत्’ (गो॰गृ॰३.१.७)। सन्नयेत्=एकीकुर्यात् सम्मिश्रयेत्।
  • ‘इमौ वै लोकौ सहास्तां तौ व्यैतां नावपन्न समतपत्। ते पञ्चजना न समजानत। तौ देवा समनयन्’ (ऐ॰ब्रा॰४.२१)। समनयन्=समानयन्=समयोजयन्।
  • ‘यावद्ग्रासं सन्नयन्’ (आप॰ध॰२.८.१९.५)। संवर्तयन्=पिण्डीकुर्वन्नित्याह।
  • ‘परे भगवति ब्रह्मणि आत्मानं सन्नयञ्जहौ’ (भा॰पु॰६.१०.११)। सन्नयन्=लयं गमयन्।
  • ‘सन्नीतात्तृतीयमात्रमवदाय’ (गौ॰गृ॰४.१.९)। सन्नीतात्=सम्मिश्रितात्।
  • ‘मन्थं सन्नीय जुहोति’ (श॰ब्रा॰१४.९.३.१)। सन्नीय=सम्मिश्र्य।
  • ‘सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा’ (मनु॰३.२४४)। सर्वप्रकारकं भोज्यमन्नं व्यञ्जनादिभिरेकीकृत्येत्याह।
  • ‘अथ दधि मधु घृतं सन्नीयानन्तर्हितेन जातरूपेण प्राशयति’ (बृ॰उ॰६.४.२५)। सन्नीय=समिश्र्य।
  • ‘लोहितद्रप्सेन सन्नीय’ (कौ॰सू॰३६)। उक्तोऽर्थः।
  • ‘कंसे पृषदाज्यं सन्नीय’ (बृ॰उ॰६.४.२४)।
  • ‘पश्चादवस्थायि बलं समवायश्च सन्नयौ’ (अमरः)। सन्नयो मेल इति स्वामी।
  • ‘अस्मिन् राजसमवाये देवानामिव सन्नये’ (भा॰आदि॰१८९.६)। सन्नयः=समवायः=समाजः।
  • ‘तेषां समुपविष्टानां देवानामिव सन्नये’ (भा॰आदि॰२२०.१५)।
  • ‘एतदस्मै संनयत’ (तै० सं० २।५।३।२)। संनयत सम्यक् प्रापयत।
  • ‘यदीदहं युधये सन्नयान्यदेवयून्’ (ऋ० १०।२७।२)। सन्नयानि संगमयामि।
  • ‘इन्द्रियेणैवैनं देवताभिः सं नयति’ (तै० सं० ६।१।४।३१)। संनयति संयोजयति।
  • ‘ऋणमस्मिन् सं नयति’ (ऐ० ब्रा० ७।१३)। सन्नयति सम्यगवस्थस्थापयति, संक्रमयति।
  • ‘स संनयः स विनयः पुरोहितः’ (ऋ० २।२४।९)। संनयो विश्लिष्टानां मन्त्रैः संगमयिता।

नु

  • {संनु}
  • नु (णु-स्तुतौ)।
  • ‘समङ्गिरसो नवन्त गोभिः’ (ऋ॰४.३.११)। वाश्यमानाभिर्गोभिः सममाक्रोशन् इत्याह।
  • ‘सोमे अर्कास्त्रिष्टुभः सन्नवन्ते’ (ऋ॰९.९७.३५)। सन्नवन्ते=सङ्गच्छन्ते।

नुद्

  • {संनुद्}
  • नुद् (णुद=प्रेरणे)।
  • ‘अमूं च मां च सन्नुद’ (अथर्व॰६.१३९.३)। बलात्सङ्गमय।
  • ‘इहेमाविन्द्र सन्नुद चक्रवाकेव दम्पती’ (अथर्व॰१४.२.६४)। उक्तोऽर्थः
  • ‘अहं सन्नोदयाम्येनं यः कार्यं साधयिष्यति’। इतोऽभिवर्तयामीत्याह।
  • हयोत्तमान्… सन्नोदयामास’ (भा॰वन॰७२.४२)। सन्नोदयामास=सञ्चोदयामास।

नृत्

  • {संनृत्}
  • नृत् (नृती-गात्रविक्षेपे)।
  • ‘यदीमे केशिनो जना गृहे ते समनर्तिषुः’ (अथर्व॰१४.२.५९)। समं नृत्यमकार्षुरित्यर्थः।

पठ्

  • {संपठ्}
  • पठ् (पठ-व्यक्तायां वाचि)।
  • ‘वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु सम्पठेत्’ (मनु॰४.९८)। सम्पठेत्=पठेत्। नार्थः समा।
  • ‘यज्ञकर्मणीति किम्। सम्पाठे मा भूत्’ (पा० १।२।३४ सूत्रवृत्तौ)। सम्पाठः स्वाध्यायकाल इति न्यासः।

पत्

  • {संपत्}
  • पत् (पत्लृ-गतौ)।
  • ‘तान् सम्पातैः समपतत्’ (ऐ॰ब्रा॰४.३०)। समपतत्=प्राप्नोत्। प्राप्त्यर्थः सम्पतिरिति षड्गुरु॰।
  • ‘समश्वपर्णाः पतन्तु नो नराः’ (अथर्व॰६.१२६.३)। अश्वपर्णाः=अश्वपतनाः=अश्वारूढाः। सम्पतन्तु=रिपून् आपतन्तु। आस्कन्दन्तु। इतस्ततो गच्छन्त्विति तु सायणः।
  • ‘एते यज्ञोपनिमन्त्रिताः पुत्रदारैः सह दिगन्तरेभ्यो महर्षयः सम्पतन्ति’ (महावीर॰१)। सम्पतन्ति=समापतन्ति=समागच्छन्ति=समवयन्ति।
  • ‘यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव’ (ऋ॰६.७५.१७)। सम्पतन्ति=सञ्चरन्ति।
  • ‘यानानि मार्गेषु न सम्पतन्ति’ (रा॰)। उक्तोऽर्थः।
  • ‘विजयस्य ह्यनित्यत्वाद् रभसेन न सम्पतेत्’ (का॰नी॰सा॰१०.३४)। न सम्पतेत्=नास्कन्देत्, न विगृह्णीयात्।
  • ‘शितिपदी सम्पतत्वमित्राणाममूः सिचः’ (अथर्व॰११.१०.२०)।
  • ‘दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः’ (भा॰भीष्म॰१७.२)। सम्पेतुः=सञ्जग्मिरे।
  • ‘पक्षान् सन्तत्य सम्पतेत्’ (भा॰सनत्सु॰)। सम्पतेत्=उत्पतेत्।
  • ‘गृष्टीनां क्षीरमभिनवं पय आज्येन संसिञ्चामि गवां क्षीरमाज्येन सम्पातयामि’ (अथर्व॰२.२६.४ इत्यत्र सायणः)। व्यक्तं सम्मिश्रणेऽर्थे भाष्यकारस्य प्रयोगः सम्पातेः।
  • ‘तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः। सम्पतद्भिर्योध्यायां न विभान्ति महापथाः’ (रा॰२.११४.१३)॥ सम्पतद्भिः=सञ्चरद्भिः, गमागमौ कुर्वद्भिः।
  • ‘इतो द्रक्ष्यामि वैदेहीम्… इतश्चेतश्च दुःखितां सञ्चरन्तीं यदृच्छया’ (रा॰५.१५.५०)। उक्तोऽर्थः।
  • ‘विकारैर्बहुभिः प्राप्तः सम्पतद्भिर्महाबलैः’ (हरि॰३.१९.१०)।
  • ‘सम्पतद्भिः स्थितश्चापि नानारत्नविभासितैः’ (विमानैः) (भा॰वि॰५६.१७)।
  • ‘एषा मया सम्पतता वारुणी भरतर्षभ। दृष्टपूर्वा सभा रम्या’ (भा॰सभा॰९.३०)। सम्पतता=समागच्छता।
  • ‘दृष्टपूर्वः स बहुशो राजन् सम्पतता मया’ (भा॰आश्रम॰२०.९)। सम्पतता=भ्राम्यता=पर्यटता।
  • ‘निर्वार्यः कार्यकर्ता यः सम्पतन् सत्त्वसम्पदा’ (अमरः)। सङ्गच्छमानः, संयुक्त इत्यर्थः। तथा च सम्पन्न इति पाठान्तरम्।
  • आ’सीत् सुभीमः सम्पातो वज्रपर्वतयोरिव’ (भा॰वि॰१३.२५)। सम्पातः=सङ्घर्षः=सङ्घट्टः।
  • ‘भवति! उरभ्रसम्पातं पश्यामः’ (माल॰)। उक्तोऽर्थः।
  • ‘सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः। न तयोरन्तरं कश्चिद् ददर्श नरसिंहयोः’ (भा॰द्रोण॰१४.६९)।
  • ‘सम्पातः सम्भेदो नद्योः’ (व॰बृ॰सं॰)।
  • ‘खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः’ (भा॰द्रोण॰११२.२२)। सम्पातो विहरणम्।
  • ‘निर्मलानामजिह्मानां नाराचानां विशाम्पते। निर्मुक्ताशीविषाभानां सम्पातोऽभूत् सुदारुणः’ (भा॰द्रोण॰९८.२१-२२)। सम्पातः सङ्घर्षः, सन्ताडनम्।
  • ‘स दारकस्य कारणाद्दूतसम्पातं करोति’ (स्वप्न॰१)। दूतसम्पातं दूतसम्प्रेषणं करोति।
  • ‘उत्पपाताथ वेगेन मनःसम्पातविक्रमः’ (रा॰५.१.१८९)। सम्पातो मनोगतिः।
  • ‘धारासम्पात आसारः’ (अमरः)। धाराणां सम्भूय पतनं धारासम्पातः।
  • ‘निःसम्पातः कृतः पन्थास्तेन’ (हरि॰२.२४.१४)। निःसम्पातः=निर्जनसञ्चारः।
  • ‘सम्पातानवनयन् मूर्धनि वध्वाः’ (खा॰गृ॰१.४.३)। आहुत्यनन्तरं स्रुवलग्नान् आज्यबिन्दून्।
  • ‘आहुतेराहुतेश्च सम्पातमुदपात्रेऽवनयेत्’ (गो॰गृ॰२.५.५)। सम्पात आहुतिशेषः।
  • ‘इत्यृषभं सम्पातवन्तमतिसृजति’ (कौ॰सू॰२४.१९)।
  • ‘तस्मिन्यावत् सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्’ (छां॰उ॰५.१०.५)। सम्पतन्त्यनेनामुं लोकं फलभोगायेति सम्पातः कर्म।
  • ‘महिषशतसम्पातसदृशोऽहो बलवानन्धकारः’ (बाल॰१)। महिषशतसम्पातः=महिषशतसङ्घातः।
  • ‘सन्नमुसले व्यङ्गारे निवृत्तशरावसम्पाते भिक्षेत’ (बौ॰ध॰२.६.११.२४)। सम्पातः सम्मार्जनम् इति गोविन्द॰।
  • ‘भक्तं सुरां प्रपां सम्पातवत्करोति’ (कौ॰सू॰१२.९)। सन्निहितं करोति।
  • ‘आदिशब्दः सम्पातायातः’ (२.१२ सां॰सू॰भा॰)। प्रयोजनमन्तराऽनुवृत्त आहृतो वा।
  • ‘तथाऽनेन सूक्तेन दधिमधुनी सम्पात्याभिमन्त्र्य वर्चस्कामं ब्राह्मणमाशयेत्’ इति अथर्व॰३.१६ इत्यत्रोपक्रमे सायणः।
  • सम्पात्य (ऋजीषेण) प्रोक्ष्य। असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः (इषवः) (रा॰५.२१.२६)। सम्पातोऽनवकाशः।
  • ‘एतौ वै लोको सह सन्तौ व्यैताम्। तयोर्न किंचन समपतत्’ (जै० ब्रा० १।११६)। न समपतत् न सङ्गतमभूत्।
  • ‘सम्पतन्ति च मे शिष्याः प्रवृत्त्याख्याः पुरीमितः’ (रा० ६।१२४।१६)। सम्पतन्ति पुरा संगच्छन्ति।
  • ‘सम्पतन्ति नगाग्रेषु समवायांश्च कुर्वते’ (भा० भीष्म० २।१७)। सम्पतन्ति एकीभूय पतन्ति।
  • ‘तान् (सम्पातान्) क्षिप्रं समपतत्’ (ऐ० ब्रा० ६।१८)। शिष्येभ्यः क्षिप्रं प्रापितवान् इति सायणः। सम्पतिरिहोच्चारणक्रिय इति तु षड्गुरुशिष्यः।
  • ‘आस्थानीं समये समं नृपजनः सायन्तने सम्पतन्’ (रत्ना० १।२३)। सम्पतन् संगच्छन् प्राप्नुवन्।
  • ‘अथो महद्भिः पथि सम्पतद्भिः’ (सौन्दर० ५।४)। सम्पतद्भिः सङ्गच्छमानैः।
  • ‘पावकानिलसम्पातो रराज युधि दानवः’ (मात्स्य पु० १७७।५९)। सम्पातः सम्मिश्रीभावः, संसर्गः।
  • ‘अग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्’ (छां० उ० ५।२।४)। हुतावशिष्टं स्रुवसं लग्नं सम्पातः।
  • ‘तान् वा एतान्सम्पातान् विश्वामित्रः प्रथममपश्यत्’ (ऐ० ब्रा० ६।१८)। सम्पाताः (त्रये) सूक्तविशेषाः।
  • ‘ग्रामादनिर्णयनमसम्पातं च सुरायाः’ (कौ० अ० २।२५।३)। असम्पातोऽसङ्ग्रहः।
  • ‘भुरण्युः शकुनिर्भूरिमध्वानं नयति स्वर्गस्य लोकस्यापि वोढा, तत्सम्पाती भुरण्युः’ (नि० १२।२२।१)। तत्सम्पाती तेन युक्तः (अग्निचित्)।

पद्

  • {संपद्}
  • पद् (पद-गतौ)।
  • ‘अथान्यं रथमास्थाय हार्दिक्यः समपद्यत’ (भा॰शाल्य॰२१.३७)। समपद्यत=सज्जोऽभवत्।
  • ‘यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा’ (हरि॰१.३०.४१)। ब्रह्म सम्पद्यते=ब्रह्मत्वमाप्नोति।
  • ‘श्रमव्यायामकुशलाः समपद्यन्त यौवनम्’ (भा॰आदि॰१०९.१८)। समपद्यन्त=आपद्यन्त=आप्नुवन्। इह समा नार्थः।
  • ‘सर्वस्य जगतो धात्री शर्वरी समपद्यत’ (भा॰सौप्तिक॰१.२४)। समपद्यत=प्राप्ता=अवतीर्णा।
  • ‘ब्रह्मशापाभिभूता सा मानुषं समपद्यत’ (हरि॰१.२६.१३)। समपद्यत=समगच्छत्। सम्पदिरिह सकर्मकः।
  • ‘तिस्रः सतीरुपसदो द्विर्द्विरेकैकामुपायंस्ताः षट् समपद्यन्त’ (ऐ॰ब्रा॰१.२३)। सङ्ख्यया षडभवन्नित्यर्थः।
  • ‘तद्धास्यशतं गावः सहस्रं सम्पेदुः (पञ्चविश॰२५.१०.१८)। सन्तानवृद्ध्या सहस्रसङ्ख्याका अभूवन्नित्याह। इत्यादिषु सम्पदिः परिणामार्थकः।
  • ‘अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्’ (रा॰२.३३.२२)। वनरूपेण परिणमतामित्यर्थः।
  • ‘तीक्ष्णांशुः शिशिरांशुत्वं भयात्सम्पद्यते रविः’ (रा॰३.५४.१२)। उक्तोऽर्थः।
  • ‘सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः’ (मेघ॰)।
  • ‘सम्पेदे श्रमसलिलोद्गमो विभूषणम्’ (कि॰७.५)। विभूषणतामापेत्यर्थः।
  • ‘त्र्याहताः पञ्च पञ्चदश सम्पद्यन्ते’ (=भवन्ति)। त्र्याहताः त्रिभिरभ्यस्ताः।
  • ‘सम्पद्यते स डकारो ळकारः’ (ऋक्प्राति॰१.११)।
  • ‘स सर्वदमनो नाम कुमारः समपद्यत’ (भा॰आदि॰७४.८)। समपद्यत=अभवत्।
  • ‘अष्टौ रथसहस्राणि नागानामयुतं तथा। अर्बुदं पत्तिसङ्घानां तद्बलं समपद्यत’ (भा॰)॥ तद्बलं सम्पन्नं सम्पूर्णं सकलमकुर्वन् इत्यर्थः। एतत्प्रमाणं तद्बलमभूदित्याशयः।
  • ‘साधोः शिक्षा गुणाय सम्पद्यते नासाधोः’ (पञ्चत॰)। सम्पद्यते=कल्पते=अलम्भवति।
  • ‘पुरूरवास्ततो विद्वानिलायां समपद्यत’ (भा॰आदि॰)। अजायतेत्यर्थः।
  • ‘धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत’ (रा॰१.४७.१४)। उक्तोऽर्थः।
  • ‘स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत’ (हरि॰१.१८.९) |
  • ‘ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत’ (रा॰१.२.१३)।
  • ‘सुबीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा’ (मनु॰१०.६९)। सम्पद्यते=समृध्यति, समृद्धं भवति।
  • ‘तन्मे सर्वं सम्पद्यताम्’ (अथर्व॰१०.९.२७)। सम्पद्यताम्=घटताम्, पूर्यताम्, सिध्यतु।
  • ‘मा तत्सम्पादि यदसौ जुहोति’ (अथर्व॰७.७३.२)। उक्तोऽर्थः।
  • ‘यत्कामयेत तदश्नीयाद् यद्वा सम्पद्येत’ (श॰ब्रा॰३.१.२.१)। सम्पद्येत=लभ्येत।
  • ‘प्रियः कामो न ते सम्पत्स्यते क्वचित्’ (भा॰आदि॰८४.२०)। सम्पत्स्यते=समर्धिष्यति। सेत्स्यति।
  • ‘सम्पत्स्यते कः कामोऽयं कालः कश्चित् प्रतीक्ष्यताम्’ (कु॰२.५४)।
  • ‘प्रयत्नस्तेन कर्तव्यो नैष सम्पत्स्यते तव’ (भा॰उ॰११९.३)। न सम्पत्स्यते=न फलवान् भविष्यति।
  • ‘पुष्पस्य प्रयतो वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्’ (छां॰उ॰६८.६)। समपद्यते=समाविशति।
  • ‘एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामहा इति’ (छां॰उ॰४.२)।
  • ‘सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले’ (भा॰पु॰१.९.४४)। उक्तोऽर्थः।
  • ‘उभे हि तेजसी सम्पद्येते’ (तै॰प्रा॰२.१.२.९)। सम्पद्येते=एकीभवतः।
  • ‘अथ यदि द्विमात्रेण मनसि सम्पद्यते’ (प्रश्न॰उ०५.४)। सम्पद्यते=अभिसंविशति=लीयते।
  • ‘दण्ड्यः पुरुषः। …दण्डेन सम्पद्यते’ (नि॰.२.२.११)। सम्पद्यते संयुज्यते।
  • ‘अशोक यदि सद्य एव कुसुमैर्न सम्पत्स्यसे मुधा वहसि दोहदं ललितकामिसाधारणम्’ (माल॰३.१७)। सम्पत्स्यसे=सङ्गंस्यसे=सङ्गतो भविष्यसि।
  • ‘यदि सम्पत्स्यसे पुत्रैः सहामात्यैर्नराधिप’ (भा॰उ॰९५.२७)। उक्तोऽर्थः।
  • ‘वाणी सम्पद्यतामेषा कर्मणा मा चिरं कृथाः’ (भा॰शल्य॰५६.४१)। सम्पद्यताम्=युज्यताम्।
  • ‘गगनालिङ्गिभिर्भीमा (नदी) तरङ्गैः समपद्यत’ (राज॰८.३०८५)। समपद्यत=समयुज्यत।
  • ‘मयूरचन्द्रकाङ्केव वितस्ता समपद्दत’ (राज॰१.२६०)। समपद्यत=अशोभत।
  • ‘वेषेण सम्पद्यते शोभत इति वेष्यो नटः’ (पा॰५.१.९९ सूत्रवृत्तौ)।
  • ‘सम्पदयन्तौ सह लोकमेवम् (अथर्व॰१२.३.३९)। आसादयन्तौ।
  • ‘पन्नगाशनमाकाशे पतन्तं पक्षिसेविते। अभिभूय जवेनाशु लङ्कां सम्पादये ध्रुवम्’ (रा॰५.३.४०)। उक्तोऽर्थः।
  • ‘उत्पिञ्जभीतया राज्ञ्या त्यक्त्वा परिभवत्रषाम्। ते यत्नात् समपद्यन्त’ (=समाधीयन्त) (राज॰६.२८)॥
  • ‘वाचा देवेभ्यो हव्यं सम्पादयति’ (ऐ॰ब्रा॰२.५)।
  • ‘पिप्पलीलवणाभ्यां च मत्स्यान् सम्पादयिष्यथ’ (रा॰३.७६.२४)। सम्पादमिष्यथ=संस्करिष्यथ, अभ्यवहाराय सज्जयिष्यथ।
  • ‘दश ता आहुतीः सम्पादयेत्’ (श॰ब्रा॰११.१.२.२)। पूरयेदित्याह।
  • ‘देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्’ (ऐ॰ब्रा॰२.२५)। न समपादयन्= एकमतयो नाभूवन्।
  • ‘सर्वं पण्यमर्वाक् पणन्ते परः सम्पादयन्ति’ (श॰ब्रा॰३.३.३.४)। पूर्वं क्रयमूल्ये परिभाषन्ते पश्चात्तत्र संवादमुपयन्ति।
  • ‘ममैवायं पुत्रोऽस्त्विति तान् ह न सम्पेदे। ते (ऋविजः) सम्पादयामासुः’ (व॰धर्म॰१७.३५)।
  • ‘ते ह सम्पादयाञ्चक्रुः। उद्दालको वै भगवन्तोऽयमारणिः सम्प्रतीममात्मानं वैश्वानरमध्येति’ (छां॰उ॰५.११.२)। ‘ते होचुः। हन्तेदं जुहवामहा इति कस्मै न इदं प्रथमाय होष्यन्तीति मह्यमिति हैवाग्निरुवाच मह्यमिति योऽयं पवते। ते न सम्पादयाञ्चक्रुस्तेऽसम्पाद्योचुः प्रजापतिमेव पितरं प्रत्ययाम’ (श॰ब्रा॰२.२.४.१६)। न सम्पादयाञ्चक्रुः=निश्चयमधिगन्तुं न शेकुः।
  • ‘कस्य न भविष्यतीति ते मम ममेत्येव न सम्पादयाञ्चक्रुः। ते हासम्पाद्योचुराजिमेवास्मिन्नजामहै’ (श॰ब्रा॰५.१.१.३)।
  • ‘ते सम्पादयन्तोऽब्रुवन्’ (ऐ॰ब्रा॰२.१५)। सम्पादयन्तः सम्प्रतिपत्तिमन्त इति भट्टभास्करः।
  • ‘भीमं सम्पादयामास रथेन रथसारथिः’ (भा॰भीष्म॰५४.७१)। रथेन सम्पन्नमकरोत् रथवन्तमकरोदित्यर्थः।
  • ‘एवं सम्पादयन्तस्ते तदाऽन्योन्यं महारथाः’ (भा॰वि॰१३.१२)। सम्पत्तिभिर्विभवैर्योजयन्त इत्याह।
  • ‘तं रथेन नरश्रेष्ठं सम्पादय महारथम्’ (भा॰द्रोण॰१३४.१७)। सम्पादय=संयोजय।
  • ‘स्नातैः (वाजिभिः) सम्पादयामासुः सम्पन्नैः सर्वसम्पदा’ (भा॰उ॰८३.१९)। सम्पादयामासुः=सज्जीकृतवन्तः।
  • ‘रश्मिनैवाश्वं सम्पादयति’ (श॰ब्रा॰१३.२.७.९)। सम्पादयति=शोभयति।
  • ‘श्वः सम्पादयिता क्रीडा या वः सा कथ्यतामिति’ (वृ॰श्लो॰सं॰८.२९)। कामं वः सम्पादयिता=इष्टं वः साधयिष्यति।
  • ‘विज्ञानेनात्मानं सम्पादयेत्। सम्पादितात्मा जितात्मा भवति’ (चाणक्य॰१.८,९)। सम्पादयेत्=समग्रं कुर्यात्।
  • ‘मत्या परीक्ष्य मेधावी बुद्ध्या सम्पाद्य चासकृत्’ (भा॰उ॰३९.४२)। सम्पाद्य=सम्प्रधार्य।
  • ‘इति स्वसुर्भोजकुलप्रदीपः सम्पाद्य पाणिग्रहणं स राजा’ (रघु॰७.२९)। सम्पाद्य निर्वर्त्य।
  • ‘सता सोम्य तदा सम्पन्नो भवति’ (छां॰उ॰६.७.१)। सम्पन्नः=एकत्वं गतो भवति।
  • ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति, तेन पितृलोकेन सम्पन्नो भवति।’ सम्पन्नः=सङ्गतः।
  • ‘सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्यदोहनाः’ (रा॰१.७२.२३)। सम्पन्नाः=बहुदुग्धाः।
  • ‘प्राप्तकामा जनपदाः सम्पन्नयवगोरसाः’ (रा॰३.२२.७)। सम्पन्ना बहुलाः प्रभूताः।
  • ‘एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम्’ (भा॰अनु॰९४.२१)। सम्पन्नं स्वादु।
  • ‘सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा। क्षुत् स्वादुतां जनयति…’ (भा॰उ॰३४.५०)॥ उक्तोऽर्थः।
  • ‘सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः’ (रा॰५.८८.९) सम्पन्नम्=मधुरं पयः।
  • ‘त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम्’ (भा॰आदि॰२०२.२३)। विक्रमसम्पन्नम्=विक्रमसुन्दरम्।
  • ‘यो मामदत्त्वा पितृदेवताभ्यो भृत्यातिथीनां च सुहृज्जनस्य। सम्पन्नमश्नन् विषमत्ति मोहात्…’ (बौ॰ध॰२.३.५.१८)॥ सम्पन्नम्-मृष्टम्। ‘सन्तानवर्धनं पुत्रं युक्तं च पितृकर्मणि। देवब्राह्मणसम्पन्नमभिनन्दन्ति पूर्वजाः’ (शङ्खलिखितौ)। देवब्राह्मणसम्पन्नः=देवब्राह्मणपूजनपरः।
  • ‘अपराह्णस्तथा दर्भा वास्तुसम्पादनं तिलाः’ (मनु॰३.२५५)। वास्तुसम्पादनं श्राद्धदेशसंशोधनम्।
  • ‘ध्यानेनोपरमं कृत्वा विद्यासम्पादितं मनः’ (भा॰शां॰२४६.६)। विद्यासम्पादितम्=विद्यया संस्कृतम्।
  • ‘ता द्वादशानुष्टुभः स्युर्गायत्र्यः षोडशैव हि। कथं स्यादेवमिति चेत् सम्पत्तिः श्रूयतामियम्’ (ऐ॰ब्रा॰२.३७ इत्यत्र षड्गुरुशिष्यवचनम्)॥ सम्पत्तिर्निरूढिः।
  • ‘सम्पत्तिरिव वित्तानामध्रुवा स्थितिरायुषः’ (अवदा॰अविषह्य जा॰२५)। सम्पत्तिः=प्राप्तिः।
  • ‘न च शोचत्यसम्पत्तौ (कर्मणः)’ (मनु॰१२.३६)। असम्पत्तौ=असिद्धौ।
  • ‘पदक्रमविभागज्ञो वर्णक्रमविचक्षणः। स्वरमात्राविशेषज्ञो गच्छेदाचार्यसम्पदम्’ (ऋ॰प्रा॰१.८)। आचार्यसंसदमिति पाठान्तरम्।
  • ‘अवसाययितुं क्षमाः सुखं विधेयेषु विशेषसम्पदः’ (कि॰२.२९)। विशेषसम्पदः=अवान्तरभेदभूमानः।
  • ‘तथा ह्येव सम्पत् सम्पद्यते’ (श॰ब्रा॰३.४.४.२१)। पूर्णता जायत इत्याह।
  • ‘तच्चास्य प्रार्थितं न सम्पद्यते, सम्पद्य वा विपद्यते’ (न्याभा० ४।१।५७)। सम्पद्यते सिध्यति समृध्यति।
  • ‘सम्पत्स्यन्ते ते ऽद्य कामाः सर्वे ये चिरचिन्तिताः’ (स्कन्दपु० का० ४।७१।४४)। सम्पत्स्यन्ते सेत्स्यन्ति समर्धिष्यन्ति समर्त्स्यन्ति फलिष्यन्ति।
  • ‘उभे हि तैजसी सम्पद्येते’ (तै० ब्रा० २।१।२।९)। सम्पद्येते संगते मिश्रिते व्यतिकीर्णे भवतः।
  • ‘दण्डेन सम्पद्यत इति वा’ (दण्ड्य) (नि० २।२।१२)। सम्पद्यते संयुज्यते। सम्पद्यते शोभते (पापनिवृत्तिहेतुत्वाद् दण्डस्य) इति तु स्कन्दस्वामी। दूराधिरोहिणी कल्पना, यद्यपि रुचिरा।
  • ‘अथ कस्माद् वदस्येतत् सम्पादय सुकर्मणा’ (रा० ६।८८।२७)। सम्पादय संगमय।
  • ‘स्वामी च सम्पन्नः स्वसम्पद्भिः प्रकृतीः सम्पादयति’ (कौ० अ० ८।१।१६)। सम्पादयति सम्पद्वतीः करोति।
  • ‘स ह सम्पादयाञ्चकार’ (छां० उ० ५।११।३)। मनसि निश्चयमकरोत् सोऽध्रियत, स दध्रे। तेऽब्रुवन् –वीरं भजामहा इति।
  • ‘तस्य विभागे न समपादयन्’ (जै० ब्रा० २।१२८)। न समपादयन् ऐकमत्यं नाध्यगच्छन्।
  • ‘तौ (मातापितरौ) मध्यमे सम्पादयाञ्चक्रतुः’ (ऐ० ब्रा० ७।१५)। ऐकमत्यमापतुः, दानमङ्गीकृतवन्तौ। मध्यमे मध्यमं सुतमधिकृत्य।
  • ‘पितृलोकेन सम्पन्नो महीयते’ (छां० उ० ८।२।१)। सम्पन्नः स गतः।
  • ‘सम्पन्नहस्ता गुणवादिनी च’ (हरि० २।७९।१२)। समृद्धहस्ता। मुक्तहस्ता इत्यर्थः।
  • ‘अनाभरणसम्पन्ना परमाम्बरवर्जिता’ (भा० वन० १२३।७)। अनाभरणसम्पन्ना ऽनलङ्कारापि सुन्दरी।
  • ‘व्यूहेदेकाक्षरीभावात्पदेषूनेषु सम्पदे’ (ऋक्प्रा० १७।१३)। सम्पदे पूर्त्तये।
  • ‘एवं भगवतो रूपं सुभद्रं ध्यायतो मनः। …सम्पन्नं न निवर्तते’ (भा० पु० ४।८।५२)। सम्पन्नमेकत्वमापन्नं तत्र लीनम्।

पा

  • {संपा}
  • पा (पा-पाने)।
  • ‘सं यज्ञेसु पिबध्वम्’ (ऋ॰७.३७.२)। सह पिबतेत्यर्थः।
  • ‘यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः’ (ऋ॰१०.१३५.२)। उक्तोऽर्थः।
  • ‘त उभये देवमनुष्याः पितरः सम्पिबन्ति’ (श॰ब्रा॰३.६.२.२६)।
  • ‘तव वा इमेऽन्तेवासाः। त्वमेवैभिः सम्पिबस्व’ (ऐ॰ब्रा॰३.३०)।
  • ‘यत्पिबामि सम्पिबामि समुद्र इव सम्पिबः’ (अथर्व॰६.१३५.२)। शत्रुमेव सङ्गृह्य तदीयं रसं पिबामीत्याह।
  • ‘यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः’ (नि० १२।२९।१)। अर्थनिर्देशायेह पुनरुपन्यासः। सम्पिबते संगच्छत इति यास्कः।

पाशय्

  • {संपाशय्}
  • पाशय् (पाशय पाशाण्णिचि नामधातुः)।
  • ‘पाशाद् विमोचने संगमने च’ (सरस्वती० १।३।४६)। पाशैः संयोजयति सम्पाशयति।

पिष्

  • {संपिष्}
  • पिष् (पिष्लृ-सञ्चूर्णने)।
  • ‘वज्रेणान उषसः सम्पिपेष’ (ऋ॰२.१५.६)।
  • ‘सम्पिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना’ (भा॰कर्ण॰८०.१९)। सम्शब्दः पेषणस्य सम्पूर्णतामाह। अपि वा सम्पूर्णताया धात्वर्थेनैवोपसङ्ग्रहादनर्थकः।

पीड्

  • {संपीड्}
  • पीड् (पीड-अवगाहने)।
  • ‘तास्तं पयोधरोत्तानैरुरोभिः समपीडयन्’ (हरि॰२.२०.२३)। समपीडयन्=अबाधन्त।
  • ‘द्वावपि निक्षेपौ सम्पीड्य दापनीयः’ (मनु॰८.१८४ इत्यत्र कुल्लूकः)। सम्पीडय=सङ्कलय्य।
  • ‘सम्पीडिते जन्मभे’ (व॰बृ॰सं॰९७.११)। सम्पीडिते=ग्रस्ते=ग्रहगृहीते।

पृच्

  • {संपृच्}
  • पृच् (पृची=सम्पर्के)।
  • ‘सम्पृचः स्थ सं मा भद्रेण पृङ्क्त’ (श॰ब्रा॰१२.७.३.२२)। सम्पृङ्क्त=योजयत।
  • ‘द्रुहो रिषः सम्पृचः पाहि सूरीन्’ (ऋ॰२.३५.६)। सम्पृचः सम्पर्कात्।
  • ‘स्यन्दनौ समपृच्येताम्’ (भट्टि॰)।
  • ‘वागर्थाविव सम्पृक्तौ’ (रघु॰१.१)। सम्पृक्तौ=नित्यसम्बद्धौ।
  • ‘तेजसा सम्पिपृग्धि मा’ (तै॰ब्रा॰२.७.७.३)। संयुक्तं कुर्वित्याह।

पॄ

  • {संपॄ}
  • पॄ (पॄ-पालनपूरणयोः)।
  • ‘यथाऽसौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न सम्पूर्यते’ (श॰ब्रा॰१४.९.१.२)।

प्लु

  • {संप्लु}
  • प्लु (प्लुङ्-गतौ)।
  • ‘तस्य प्रमादाद्यदि वाप्यसान्नैध्याद्यथा भिन्ना नौरगाधे महत्युदके सम्प्लवेत’ (गो॰ब्रा॰उत्तर॰२.५)। सम्प्लवेत=विप्लवेत=विदिशि प्लवेत।
  • ‘मेघो यत्सम्प्लवते’ (छां॰उ॰२.४.१)। इतस्ततश्चलतीत्यर्थः।
  • ‘महोल्कानां च सम्प्लवे’ (मनु॰४.१०३)। इतस्ततः पाते सतीत्याह।
  • ‘हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे’ (भा॰अनु॰२३.५४)। देशसम्प्लवे=राष्ट्रविप्लवे।
  • ‘करुणप्रेक्षणीयेषु सम्प्लवः सुखदुःखयोः। यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः’ (काव्यालं॰सूत्रवृ॰३.१.८ उद्धरणम्)॥ सम्प्लवो मिश्रीभावः।
  • ‘न मही याति सम्प्लवम्’ (वि॰पु॰१.४.४६)। सम्प्लवं न याति=न निमज्जति।
  • ‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते। त्रैलोक्यस्थितिकालोऽयमपुनर्मार उच्यते’ (वि॰पु॰२.५.९६)॥ भूतसम्प्लवः=महाप्रलयः। आभूतसम्प्लवम्=आब्रह्माहपर्यन्तम्।
  • ‘आभूतसम्प्लवात्ते स्वर्गजितः’ (आप॰ध॰२.२४.५)। उक्तोऽर्थः।
  • ‘तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे’ (भा॰सभा॰१७.३८)। गर्भसम्प्लवः=गर्भभ्रंशः।
  • ‘विवृद्धिं निम्नगा याताः प्लवगा सम्प्लवं गताः’ (हरि॰२.१८)। सम्प्लवः प्रवाहः।
  • ‘वारणानां रवो जज्ञे मेघानामिव सम्प्लवे’ (भा॰द्रोण॰२०.४१)। सम्प्लवः=समागमः।
  • ‘स्थापयन्ति ममादेशाद्यावदाभूतसम्प्लवम्’ (कूर्म॰पूर्वा॰१२.२७२)। उक्तोऽर्थः।
  • ‘शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः’ (रा॰१.४३.२३)। हंससम्प्लवैः=कादम्बकदम्बैः।
  • ‘अपस्मारं पुनः स्मृतिबुद्धिसत्त्वसम्प्लवाद् बीभत्सचेष्टमावस्थिकं तमःप्रवेशमात्रमाचक्षते’ (चरके निदा॰८.५)। स्मृतिबुद्धिसत्वानां सम्प्लवात् विकृतिगमनात्।
  • ‘अकान्तिर्व्याघातः पुनरुक्तमपशब्दः सम्प्लव इति लेखदोषाः’ (कौ॰अ॰२.१०.२८)। अवर्गे वर्गकरणं वर्गे चावर्गक्रिया गुणविपर्यासः सम्प्लवः।
  • ‘सम्पूर्णयोजनशतं क्षिप्तः सागरसम्प्लवे’ (रा॰१.३०.१८)। सागरसम्प्लवे=समुद्रमध्ये।
  • ‘मेघो यत्सम्प्लवते’ (छां० उ० २।४।१)। इदं पुस्तके धृतम्। अन्यथाप्यर्थापयन्तीति निदर्शनायेहानूद्यते। वियति मिथः संगत्य प्लवत इत्येवमपि व्याख्यानयन्ति।
  • ‘व्यभ्रेचैवाभ्रसम्प्लवम्’ (सुश्रुत० उत्तर० ७।९)। मेघानां सर्वतो गमनं सम्प्लबः।
  • ‘रसनस्येन्द्रियान्तरस्य विकारो रसानुस्मृतौ रसगर्धिप्रवर्तितो दन्तोदकसम्प्लवभूतो गृह्यते’ (न्याभा० ३।१।१२)। उदकसम्प्लव उदकसंचारः।

बन्ध्

  • {संबन्ध्}
  • बन्ध् (बन्ध-बन्धने)।
  • ‘मनोज्ञगन्धं सहकारभङ्गं पुराणशीधुं नवपाटलं च। सम्बध्नता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः’ (रघु॰१६.५२)॥ सम्बध्नता=समं सन्निधापयता।
  • ‘(तपोवनानि) सम्बद्धवैखानसकन्यकानि’ (रघु॰१४.२८)। सम्बद्धाः कृतसख्या वैखानसानां कन्यका येषु तानि।
  • ‘कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः। येषामर्थाश्च सम्बद्धा दुर्गाण्यतितरन्ति ते’ (भा॰शां॰११०.१२)। सम्बद्धाः=निरन्तराः।
  • ‘अवादयन्त गन्धर्वा वादित्रं सुमनोहरम्। जगुश्चाप्सरसो राज्ञो यशः सम्बद्धमेव च’ (भा॰)। सम्बद्धमिति क्रियाविशेषणम्। अविराममित्यर्थः।
  • ‘सम्बद्धाविमौ दम्यावुच्येते यावन्योन्यं न जहीतः’ (पा॰२.१.१ सूत्रभाष्ये)।

बाध्

  • {संबाध्}
  • बाध् (बाधृ-लोडने, लोडनं प्रतिघातः)।
  • ‘मा त्वा वृक्षः सं बाधिष्ट’ (अथर्व॰१८.२.२५)। मा सम्बाधिष्ट=मा सम्पिपीडत्।
  • ‘पीतमात्रे तु पानीये न मां सम्बाधने क्षुधा’ (६.८२.१५५)।
  • ‘त्रिदण्डतरणसम्बाधम्’ (भा॰वि॰४५.७)। सम्बाधम्=सङ्कटम्=दुष्प्रवेशम्।
  • ‘ससम्बाधेव शिशुता सञ्चुकोच शनैः शनैः’ (शि॰भा॰२.३८)। ससम्बाधा=ससङ्कटा।
  • ‘आकाशवतो वै लोकान्प्रकाशवते ऽसम्बाधान्’ (छां० उ० ७।१२।२)। सम्बाधोऽन्योन्योपमर्दः, तद्रहितान्।
  • ‘सम्बाधमन्ये सम्प्राप्य न शेकुश्चलितुं रथात्’ (मात्स्यपु० १७७।३३)। सम्बाधो जनसंमर्दः। सम्बाधः सङ्घट्टो वराङ्गं चेति हैमः। वराङ्गं भगो योनिः।

बुध्

  • {संबुध्}
  • बुध् (बुधिर्-बोधने, बुध-अवगमने)।
  • ‘न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम्’ (भा॰द्रोण॰२०२.९४)। न सम्बुबुधिरे=न प्रत्यभिजज्ञुः=न परिचिक्युः।
  • ‘लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः’ (योगभाष्ये)। सम्बोधयेत्=जागरयेत्।
  • ‘तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः। रथन्तरेण तं तत्र वसिष्ठः समबोधयत्’ (भा॰शां॰२८१.२१)। प्रबुद्धमकरोदित्याह।
  • ‘निर्वेदादात्मसम्बोधः’ (भा॰शां॰२९५.१२)॥ सम्बोधः=सम्यज्ज्ञानम्।
  • ‘विरुद्धमलसम्बोधात्’ (यो॰वा॰६.३२.३२)। सम्बोधः=प्रकोपः=आरोपः=वृद्धिः।
  • ‘धृतराष्ट्रात्मजेति … सम्बोध्य’ (=आहूय) (भा॰सभा॰५०.३५)।
  • ‘एते सम्बोधयामस्त्वां धर्मं च अनुपालय’ (लिङ्गपु० पू० ६६।८३)। सम्बोधयामः प्रबोधयामः।

बृह्

  • {संबृह्}
  • बृह्, (बृहू-उद्यमने)।
  • ‘स समबृहत् स न कञ्चनाहिनत्’ (श॰ब्रा॰१.७.३.४)। समबृहत्=(शस्त्रम्) उदहरत्=उदयच्छत्=उदगृह्णात्।

बू

  • {संबू}
  • बू (ब्रूञ्-व्यक्तायां वाचि)।
  • ‘यद्ध यन्ति मरुतः सं ह ब्रुवतेऽध्वन्ना’ (ऋ॰१.३७.१३)। सम्ब्रुवते=सम्भाषन्ते=संलपन्ति।
  • ‘वृक्षच्छायोपविष्टास्ते दृष्ट्वाऽन्योन्यं समब्रुवन्’ (रा॰४.५०.४)। उक्तोऽर्थः।
  • ‘समन्येषु ब्रवावहै’ (ऋ॰१.३०.६)। सम्ब्रवावहै (अहं च शतक्रतुश्च) मतसंवादेन ब्रवावहै।
  • ‘सं नु वोचावहै पुनर्यतो मे मध्वाभृतम्’ (ऋ॰१.२५.१७)।

भज्

  • {संभज्}
  • भज् (भज-सेवायाम्)।
  • ‘समभक्त विप्रः सुमतिं नदीनाम्’ (ऋ॰३.३३.१२)। समभक्त=अवृत। सुमतौ भागी बभूवेत्यर्थः।
  • ‘अध्ययनदोषैर्न सम्भक्ष्यामहे’ (नि॰१.२.५ इत्यत्र दुर्गः)। संयोक्ष्यामह इत्यर्थः।
  • ‘यच्च भूतं सम्भजते’ (भा॰शां॰९१.१३)। दुर्बलमन्नादिना सेवत इत्यर्थः।
  • ‘सत्सव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह सम्भजन्ते’ (भा॰शां॰२९९.३७)। (सुखं) विभज्य सेवन्त इत्याह।
  • ‘ऋत्विजो वृणीते’ (आश्व॰गृ॰१.२०.१) इत्यस्य व्याख्यायां वृणीते कर्मार्थं परिगृह्णातीति हरदत्तः।
  • ‘स वै वो वरं वृणा इति’ (ऐ॰ब्रा॰३.३३)। अत्र वृणै सम्भजामीति षड्गुरु॰।

भाष्

  • {संभाष्}
  • भाष् (भाष-व्यक्तायां वाचि)।
  • ‘यथासम्भाषितं च वृत्त्यपक्षमुपग्राहयेत’ (कौ॰अ॰१३.५.१७६)। कृतपूर्वसंविदम् इत्याह।

भिदृ

  • {संभिदृ}
  • भिदृ (भिदिर्-विदारणे)।
  • ‘न हि सा तेन सम्भेदं पत्नी नीता महात्मना’ (भा॰शां॰२६६.६२)।
  • ‘स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः’ (सा॰द॰तृतीये परि॰)। सम्भेदः=स्पर्शः।
  • ‘अनादिकर्मक्लेशवासनाविशयप्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण नृपः सम्भेदमापद्यते’ (यो॰सू॰२.१ भाष्ये)। सम्भेदो विनाशः।
  • ‘य एवं मनुष्यः सम्भिन्नबुद्धिर्भवति स पश्यति नेदं किञ्चिद् धर्मो नाम, नैनं करिष्यामीति’ (योगभाष्ये)। सम्भिन्नबुद्धिः पुण्यापुण्ययोः सम्मिश्रितबुद्धिर्नास्तिकः।
  • ‘यद्वा उर्वरयोरसम्भिन्नं भवति खिलमिति वै तदाचक्षते’ (कौ॰अ॰३०.८)। उर्वराभ्यां भूभागाभ्यामसंयुक्तम् (असम्बद्धम्) इत्याह।
  • ‘तथा सम्भिन्नसर्वाङ्गकूर्मं स्थल इवोद्धृतम्’ (भा॰वि॰२३.२)। सम्भिन्नसर्वाङ्गम्=संलीनसकलगात्रम्, प्रतिसंहृतसर्वावयवम्। अन्योन्यसम्भिन्नदृशां सखीनाम्। परस्परं संसृष्टनेत्राणामित्यर्थः।
  • ‘द्विपाः सम्भिन्नवर्माणो वज्रागनिसमैः शरैः’ (भा॰कर्ण॰१९.१३)। सम्भिन्नानि भिन्नानि विदीर्णानि वर्माणि येषां ते। अत्र सम्शब्दोऽर्थान्तरं न करोति।
  • ‘असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः’ (भा॰उ॰३३.२९)। इहापि पूर्ववत्।
  • ‘असम्भिन्नार्यमर्यादाः साधवः पुरुषोत्तमाः’ (भा॰आश्रम॰१२.२)।
  • ‘तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णाकर्मणि वर्तते’ (रा॰२.४९.५)।
  • ‘असम्भिन्दन् मांससंहिताभ्यामङ्गुष्ठेन च पुरोडाशस्यावद्यति’ (आप॰श्रौ॰२.६.१८.११)।
  • ‘यथा द्वयोरवदानयोरसङ्गमः स्यात्तथाऽवद्यति’ (भा॰)। अवदानदेशावसङ्किरन्निति रुद्रदत्तः।

भिद्

  • {संभिद्}
  • भिद् (भिदिर् विदारणे)।
  • ‘न संभिनति’ (तै० सं० ६।२।११।५७)। न संभिनति नैकीकरोति।
  • ‘यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत्सुखं स्वः पदास्पदम्॥’ संभिन्नं व्यामिश्रम्, सम्पृक्तम्। इदंलक्षणं हि सुखमिष्टं याज्ञिकानाम्।
  • ‘अङ्गानां सम्भेदः’ (सुश्रुत० नि० अ० ५)। संभेदो भङ्गः।
  • ‘सभेदखेदजननी द्युनदी लसच्छ्रीः’ (स्कन्दपु० का० ४।३०।८१)। सम्यग्भेदः स भेदः तस्य खेदः प्रतिघातो नाशः।
  • ‘स (विश्वामित्रः)…विपाट् छतुद्र्योः संभेदमाययौ’ (नि० २।२४)। सम्भेदः सिन्धुसङ्ग्राम इत्यमरः।
  • ‘पुरा संभेदाच्छायानामाहवनीयमुद्धरेत्’ (ऐ० ब्रा० ७।११)। स भेदो मिश्रणं व्यतिकरः।

भुज्

  • {संभुज्}
  • भुज् (भुज-पालनाभ्यवहारयोः)।

‘सम्भोजनी साऽभिहिता पैशाची दक्षिणा द्विजैः’ (मनु॰३.१४१)। सम्भोजनी सह भुज्यते यया, गोष्ठी, बहुभोजनात्मिका।

भू

  • {संभू}
  • भू (भू-सत्तायाम्)।
  • ‘सम्भवत्यव्ययाद् व्ययम्’ (मनु॰१.१९)। सम्भबति=जायते=उत्पद्यते।
  • ‘कुमारस्य रेतः सिक्तं न सम्भवति’ (श॰ब्रा॰११.४.१.७)।
  • ‘आत्मा हि प्रथमः सम्भवतः सम्भवति’ (श॰ब्रा॰१०.१२.४)। आत्मा=शरीरम्। सम्भवतः=उत्पद्यमानस्य। सम्भवति=उत्पद्यते।
  • ‘चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवति’ (ऐ॰ब्रा॰३.२)।
  • ‘स सात्त्वत्यामतिरथः सम्बभूव धनञ्जयात्’ (भा॰आदि॰२२१.८६)। उक्तोऽर्थः।
  • ‘तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः। सम्बभूव समवाप च यौवनम्’ (भा॰भीष्म॰९०.६४-६५)। सम्बभूव=सञ्जिजीव।
  • ‘ता अस्य प्रजाः सृष्टाः स्तनावेवाभिपद्य सम्बभूवुः’ (श॰ब्रा॰२.५.१.३)। अध्रियन्त, जीवा अवतस्थिरे।
  • ‘असदेवेदमग्र आसीत्, तत्सदासीत्, तत्समभवत्’ (छां॰उ॰३.१९.१)। समभवत्=समवर्धत=व्यक्तिमापद्यत।
  • ‘न मे हस्तः समभवद् वसु तत् प्रतिगृह्णतः’ (भा॰सभा॰५०.२४)। समभवत्=प्राभवत्। तथा बृहन्नासीद्यथा वसु गृह्णीयाद् इत्याह।
  • ‘न यन्नियन्तुं समभावि भानुना’ (शिशु॰१.२७)। न समभावि=न शेके। सम्भवतेर्भावे लुङ्।
  • ‘पक्वेन सह सम्भवेम’ (अथर्व॰६.११९.२)। सम्भवेम=सम्बद्धा भवेम।
  • ‘सं ते मज्जा मज्ज्ञा भवतु’ (अथर्व॰४.१२.३)। सम्भवतु=संसृज्यताम्।
  • ‘सम्भूयाम्भोधिमभ्येति महानद्या नगापगा’ (शिशु॰२.१००)। सम्भूय=सङ्गत्य।
  • ‘अधा मृताः पितृषु सम्भवन्तु’ (अथर्व॰१८.४.४८)। पितृभिः सङ्गच्छन्तामित्याह।
  • ‘अथ पुनर्लोष्टं न्यस्यति पृथिव्या सम्भवेति’ (श॰ब्रा॰३.२.२.२१)। पृथिव्या संसृज्यस्वेत्याह।
  • ‘काममा विजनितोः सम्भवाम इति स्त्रीणामिन्द्रदत्तो वरः’ (तै॰सं॰२.५.१.५)। सम्भवनं मिथुनीभावः।
  • ‘ताविह सम्भवाव प्रजामाजनयावहै’ (अथर्व॰१४.२.७१)। उक्तोऽर्थः।
  • ‘स विवस्वानादित्य आश्वमेव रूपं कृत्वा तामनुसृत्य सम्बभूव’ (नि॰१.२.१०.२)।
  • ‘दिवं वा उषसं वा। मिथुन्येनया स्यामिति तां सम्बभूव’ (श॰ब्रा॰१.७.४.१)। अत्र सम्भवतेः प्रयोगे द्वितीयाश्रुत्यामवधातव्यम्। अन्यत्र प्रायेण तृतीया श्रूयते - ‘प्रजावती पत्या सम्भवेह’ (अथर्व॰१४.२.३२)।
  • ‘महर्षिः संविदं कृत्वा सम्बभूव तया सह’ (भा॰आदि॰१७७.४४)।
  • ‘सम्बभूव तया सार्धं मातुः प्रियचिकीर्षया’ (भा॰आदि॰१०६.६)।
  • ‘स तथेति प्रतिज्ञाय तया समभवन्मुनिः’ (भा॰वन॰९९.२३)।
  • ‘सम्भवेद् गर्भं धेहीति’ (द्रा॰गृ॰१.४.१६)। मिथुनी भवेदित्यर्थः।
  • ‘अथ कालेन महता स मत्स्यः सुमहानभूत्। अलिञ्जरे यथा चैव नासौ समभवत् किल’ (भा॰वन॰१८७.१३)॥ न समभवत्=नामात्।
  • ‘प्रस्थं सम्भवति स्थाली प्रास्थिकी’ (पा॰५.१.५२)। सम्भवतिरिहाधारादाधेयस्यानतिरेके वर्तते।
  • ‘खार्यां द्रोणः सम्भवति। द्रोण आढकं सम्भवति। सहस्र शतं सम्भवति’। खार्यां द्रोण इत्यादिषु सम्भवतिः समाविशतीत्यनेन समानाभिधेयः।
  • ‘स (स्तोमः प्रजापतिः) इदं सर्वं युत इदं सर्वं सम्भवति’ (श॰ब्रा॰४.२.५.६)। सम्भवति=स्वस्मिन्नन्तर्धत्ते समावेशयति।
  • ‘सं देवत्रा बभूवथुः’ (ऋ॰१.८३.९)। देवेषु मध्ये स्थान प्राप्नुथेत्याह।
  • ‘वाजस्य नु प्रसवे सम्बभूविमेमा विश्वा भुवनान्यन्तः’ (अथर्व॰३.२०.८)। सम्बभूविम=प्राप्ताः।
  • ‘क्रमात्ते सम्भवन्त्यर्चिरहः शुक्लं तथोत्तरम्’ (याज्ञ॰३.१९३)। सम्भवन्ति=प्राप्नुवन्ति।
  • ‘अस्य द्विषन् भ्रातृव्यो वणिज्यया वा केनचिद्वा सम्भवति’ (श॰ब्रा॰१.६.४.२०)। सम्भवति=समृध्यति। भूतिमान् भवतीति यावत्।
  • ‘वालैः शङ्गेण पादेन सम्भवत्येव गौर्मखम्’ (भा॰शां॰२६८.२८)। सम्भवति=सम्भावयति=वर्धयति।
  • ‘स च तस्मिन्महेष्वासः कृपः समभवत्तदा’ (भा॰आश्रम॰१.१३)। समभवत्=समीपेऽभवत्।
  • ‘त्वरितः काम्यके पार्थान् समभावयदच्युतः’ (भा॰वन॰५१.१६)। समभावयत्=समगच्छत्।
  • ‘वत्स उच्यतां भागुरायणो यथा त्वरितं सम्भावय’ (मुद्रा॰प्रथमेऽङ्के)। सङ्गच्छ, आसादयेत्यर्थः।
  • ‘सम्भावयति चान्नेन स विप्रो गुरुरुच्यते’ (मनु॰२.१४२)। सम्भावयति=संवर्धयति।
  • ‘भक्तिमान् भृशमर्हाभिर्भार्गवं समभावयत्’ (शि॰भा॰२९.७६)। समभावयत्=सदकरोत्।
  • ‘तदेनं पुनः सम्भावयन्ति पुनराप्याययन्त्युपसदां रूपेण’ (ऐ॰ब्रा०.३.३२)। सम्भावनं सजीवत्वं वृद्धिराप्यायनं तथेति षड्गुरु॰।
  • ‘एकाङ्गेनापि सम्भूतः शत्रुर्दुर्गमुपाश्रितः’ (भा॰शां॰५८.१८)। सम्भूतः सम्पन्नः। एकाङ्गेनापि हस्त्यश्वरथपादातानामन्यतमेनापि।
  • ‘गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्। सिंहानां निनदा दुःखाः… (रा॰२.२८.७)॥ सम्भूताः=प्रभूताः=वृद्धिं गताः। समिह प्रेण तुल्यार्थम्।
  • ‘स्वतेजोविषसम्भूतः’ (रा॰४.३१.३०) सम्भूतः=व्याप्तः।
  • ‘यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति’ (भा॰आश्व॰१७.२१)। सम्भूतत्वम्=संहतत्वम्।
  • ‘स चायमभिनिवेशः स्वरसवाही… प्रत्यक्षानुमानागमैरसम्भावितः’ (यो॰सू॰२.९ व्यासभाष्ये)। असम्भावितः=असम्पादितः।
  • ‘तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात्’ (रा॰२.११८.३३)। सम्भाविता=संवर्धिता।
  • ‘बुद्धिमोहं समास्थाय त्वरासम्भावितोऽनघ। गच्छ रुद्रसकाशं त्वम्…’ (भा॰आदि॰२२३.३५)॥ त्वरासम्भावितः=त्वरायुक्तः।
  • ‘सम्भाविता जातबलास्ते दद्युर्यदि नः सुखम्’ (भा॰शां॰७.१५)। सम्भाविताः=पोषिताः, संवर्धिताः।
  • ‘वीराः सम्भावितात्मानो न दैवं पर्युपासते’ (रा॰२.२३.१६)। शौर्यादिगुणैर्लोकस्य वन्दितस्वरूपा इत्याह।
  • ‘सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते’ (गीता॰२.३४)। सम्भावितस्य=महितस्य।
  • ‘बद्धुं न सम्भावितः केशपाशः’ (रघ॰७.६)। सम्भावितः=चिन्तितः।
  • ‘चिरप्रबोधान्न सम्भावितमस्माभिरद्य धर्मासनमध्यासितुम्’ (शा॰६)। धर्मासनाध्यासनस्य मया करिष्यमारणस्य सम्भवो नाभूदित्याह।
  • ‘असम्भावितातिथिसत्कारं लज्जेऽहमार्यं विज्ञापयितुम्’ (शा॰)। असम्भावितोऽकृतोऽतिथिसत्कारो यस्य तम्।
  • ‘अर्थप्रत्ययो हि वर्णैर्नियतक्रमतया परस्परमसम्भवद्भिरशक्यः कर्तुम्’ (३.१७ यो॰भा॰वाचस्पतिः)। असम्भवद्भिः=आयुज्यमानैः।
  • ‘क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन्’ (रा॰१.३७.२३)। क्षीरसम्भावनार्थाय=क्षीरपानप्रयोजनसिद्धये। सम्भावनं संयोजनं प्रापणम्।
  • ‘पितरं कर्कटो हन्ति मातरं हन्ति पुत्तिका। हन्ति सर्वं तु कायस्थः कृतघ्नः प्राप्तसम्भबः’ (राज॰८.८९)। प्राप्तसम्भवः=अवाप्तभूतिकः।
  • ‘निःश्वासायाससम्भवः’ (वियोगाग्निः) (रा॰२.२४.७)। सम्भवः=वृद्धिः।
  • ‘ऊर्ध्वं त्रिरात्रात्सम्भव इत्येके’ (गो॰गृ॰२.५.७,८)। सम्भवः=मिथुनीभावः, मैथुन्यम्।
  • ‘स प्रेत्य पशुतां याति सम्भवानेकविंशतिम्’ (मनु॰५.३५)। सम्भवान् जन्मानि।
  • ‘श्रुतर्षयस्तु भवन्ति केचित् कर्मफलशेषेण पुनः सम्भवे’ (आप॰ध॰१.५.५)। सम्भवो जन्म। पुनः सम्भवः=पुनर्भवः=प्रेत्यभावः।
  • ‘स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयः सम्भूय देवता अप्येति’ (ऐ॰ब्रा॰२.४२)। सम्भूय=सम्यग् भूत्वा।
  • ‘सम्भाव्य चटकान्मूर्ध्नि’ (भा॰शां॰२६१.४१)। सम्भाव्य=वर्धयित्वा।
  • ‘सम्भाव्य पुत्रान् कालेन’ (भा॰शां॰२८८.८)। सम्भाव्य=संवर्ध्य।
  • ‘विलोचनं दक्षिणमञ्जनेन सम्भाव्य’ (कु.॰७.५९, रघु॰७.८)। सम्भाव्य=सत्कृत्य=अलङ्कृत्य।
  • ‘येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो’ (भा॰पु॰३.२५.७)। सम्भाव्यमानेन=पूर्यमाणेन।
  • ‘तानसभाव्यं पराभावयत्’ (ऐ॰ब्रा॰३.३९)। पुनः समृद्धिः सम्भाव्यं तद्रहितं यथा स्यात्तथा।
  • ‘सम्भावना हि लोकस्य मम पार्थस्य चोभयोः’ (भा॰द्रोण॰११०.९६)। सम्भावनाऽस्तिताज्ञानं कुलशीलश्रुतादिषु इति नील॰।
  • ‘सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः सम्भावनागुणमवेहि तमीश्वराणाम्’ (शा॰७.४)। सम्भावना=गौरवम्, समादरः।
  • ‘सम्भावनमथोत्प्रेक्षा प्रकृतस्य परेण यत्’ (सा॰द॰१०.४०)।
  • सम्भूतिं तस्य तां विद्याद् यद्यानावभिजायते’ (मनु॰२.१४७)। सम्भूतिर्जन्म।
  • ‘सं ज्योतिषा ऽभूवम्’ (तै० सं० १।७।६।३)। समभूवम्=समगंसि।
  • ‘सोऽस्यात्माऽमुष्मिन्नादित्ये संभवति’ (जै० ब्रा० १।१७)। संभवति जायते।
  • इन्द्रश्च वृहच्च (साम) समभवताम्’ (पञ्च० ब्रा० १२।१३।१)। समभवतां साकमजायेताम्।
  • ‘देवाश्च वा असुराश्चास्पर्धन्त यं देवानामघ्नन् न स समभवत्, यमसुराणां सं सोऽभवत्’ (पञ्च० ब्रा० १२।५।२३)। समभवत् समजीवत्, पुनर्जीवोऽभवत्।
  • ‘ज्ञातुं देवं संभवन्ति वदन्त्येवं पुरातनाः’ (शिवपु० २।२।३६।२६)। संभवन्ति प्रभवन्ति।
  • ‘क्षिप्र एवं सम्भवति’ (शां० ब्रा० १।१)। संभवति समृध्यति, भूतिमान् भवति। अभ्युदयते।
  • ‘संविदाने रोदसी सं बभूवतुः’ (तै० ब्रा० १।२।१।२३)। सम्बभूवतुः=एकी बभूवतुः।
  • ‘अग्नीषोमौ समभवताम्’ (तै० सं० २।३।३।१)। ऐकमत्यं जग्मतुः।
  • ‘इयं ते शुक्र तनूरिदं वर्चस्तया संभव’ (तै० सं० १।२।४)। संभव सङ्गच्छस्व।
  • ‘वेलानिलः केतकरेणुभिस्ते सम्भावयत्याननमायताक्षि’ (रघु० १३।१६)। सम्भावयति अलंकरोति।
  • ‘अनेनसं विज्ञाय तां त्वाष्ट्रीमश्वरूपिणीम्। स हरिर्हरिरूपेण मुखेन समभावयत्’ (स्कन्दपु० का० ४।१७।११८)॥ समभावयत् मैथुनं चकार। हरिः सूर्यः। हरिरूपेणाश्वरूपेण।
  • ‘यदुक्तमपि च यदेतद् वक्ष्यमाणम् इति उतशब्द एवमुभयं संभावयति’ (नि० ४।१५।२ इत्यत्र दुर्गः)। संभावयति योजयति।
  • ‘रौद्रौ द्वाविव संभूतौ यथा द्वाविव भास्करौ’ (भा० कर्ण० १५।३२)। संभूतौ संगतौ समासन्नौ।
  • ‘अपमानो बधः प्रोक्तः पुत्र संभावितस्य च’ (मात्स्यपु० १४६।५०)। सम्भावितः सम्मानितः सत्कृतः।
  • ‘वीराः संभावितात्मानो न दैवं पर्युपासते’ (रा० २।२३।१६)। इदमुदाहृतचरं पुस्तके। व्याख्यानान्तरं न्यसिष्यामीत्यनुवदामि। इदम् इत्थं व्याख्याति भूषणकारः–सम्भावितः सम्यक् प्रापितः, दृढ इति यावत्। आत्मा मनो येषां ते। धीरा इत्यर्थः। क्लिष्टकल्पनया मुधा क्लिश्यते भूषणकारः।
  • ‘मायासंभावितो वीर कालः सर्व-समाहरः’ (रा० उ० १०४।२)। संभावितः=उत्पादितः। तत्परिणाम इत्यर्थः।
  • ‘सम्भावितस्थितयो धटा व्याख्याताः’ (का० श्रौ० सू० १।४।१८)। देशकालापेक्षया कृतव्यवस्था इत्यर्थः।
  • ‘हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम्’ (रा० ४।१।९१)। पुष्पसम्भवं कुसुमसमृद्धिम्।
  • ‘पर्वताः पतिताश्चैव चक्रुः सङ्ग्राम सम्भवम्’ (शिवपु० २।४।१५।५७)। संभवं संकुलमित्यर्थो भाति।
  • ‘न चेत्तस्य (ज्येष्ठप्राणस्य) तदानीं वृत्तिलाभः स्याद्योनौ निषिक्तं शुक्रं पूयेत न संभवेद्वा’ (ब्र० सू० शां० भा० २।४।८)। न संभवेन्न जीववत्स्यात्।
  • ‘यस्ते अग्नौ महिमा तेन सम्भव’ (पञ्च० ब्रा० ७।७।१९)। समर्थितं प्रवृद्धं भवेति सायणः। सम्भवेति सम्पूर्वाद्भवते र्लोट्।

भृ

  • {संभृ}
  • भृ (भृञ्-भरणे, डुभृञ्-धारणपोषणयोः)।
  • ‘एवं वा एष यज्ञं सम्भरति यो दीक्षते’ (श॰ब्रा॰३.२.२.३)। सम्भरति=सगृह्णाति।
  • ‘एवं देवता अग्रे यज्ञं समभरन्’ (श॰ब्रा॰१२.७.३.६)। यज्ञसम्भारान् कृतवन्त इत्यर्थः।
  • ‘देवा वै प्रथमेनाह्नेन्द्राय वनं समभरन्’ (ऐ॰ब्रा॰४.१)। प्रथमाहसम्पाद्येन। सोमेन वज्रं समभरन् वज्रं कर्तुं प्रकृतिद्रव्यं समानयन् इत्याह।
  • ‘तस्मात्सुभाषितमधूनि च सम्बिभर्मि’ (अवदा॰३१.१७)। सम्बिभर्मि=सङ्गृह्णामि=समाहरामि।
  • ‘वालैः शृङ्गेण पादेन सम्भरत्येव गौर्मखम्’ (भा॰शां॰२६३.३८)। सम्भारान् सम्पादयति।
  • ‘साहित्योदयसम्भृतो विजयते सम्भूय सारस्वतः, सारः (महावीर॰७.२१)। सम्भृतः=सम्पादितः।
  • ‘असम्भृतं मण्डनमङ्गयष्टेः’ (कु॰१.३१)। असम्भृतमसम्पादितमकृतकमित्यर्थः।
  • ‘प्रविश्यैकाकिनैवाथ द्रष्टव्यः सम्भृतो मया’ (सरिदुत्तरणोपायः) (राज॰४.५७२)। सम्भृतः=सज्जीकृतः, निर्मित इति वा।
  • ‘सम्भृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर’ (भा॰आदि॰१०२.१६)। सम्भृत्य एकीकृत्येत्यर्थः।
  • ‘सम्भृता चैव विद्येयं तपसेह मया पुरा’ (भा॰आदि॰१७०.४१)। सम्भृता=अर्जिता।
  • ‘त्यागाय सम्भृतार्थानाम्’ (रघु॰१.७)।
  • ‘सम्भृते शिखिनि गूढमादधुः’ (रघु॰१९.५४)। सम्भृते शिखिनि=समिद्धे हुतवहे।
  • ‘ते च स्युः सम्भृताः सर्वे वसुभिर्भोजनेन च’ (रा॰१.१३.१५)। सम्भृताः=पूर्णाः। ये स्युः सम्पूजिता इति पाठान्तरम्।
  • ‘मधुसम्भृतां कमलिनीम्। मधुना सम्यक् पुष्टाम्।
  • सुवदनावदनासवसम्भृतस्तदनुवादिगुणः कुसुमोद्गमः’ (रघु॰९.३०)। सम्भृतः=जनितः।
  • ‘कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः’ (भर्तृ॰२.९३)। सम्भृतरसाः=उपचितरसाः।
  • ‘पञ्चधा सम्भृतः कायो यदि पञ्चत्वमागतः। कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना’ (याज्ञ॰३.९)॥ सम्भृतो निर्मितः।
  • ‘कच्चित्ते सम्भृता भृत्याः कच्चित्तिष्ठन्ति शासने’ (रा॰१.५२.८)। सम्भृताः=वेतनदानादिना पुष्टाः।
  • ‘नियुङ्क्ष्व मां महातेजस्त्वं ब्रह्मबलसम्भृताम्’ (रा॰१.५५.१६)। उक्तोऽर्थः।
  • ‘तपसा सम्भृते चैते ब्रह्मरूपे भविष्यतः’ (रा॰१.२२.२१)। सम्भृते=पूर्णे।
  • ‘वयं तदस्य सम्भृतं वसु’ (अथर्व॰७.९०.२)। सम्भृतम्=एकत्र सम्पादितम्।
  • ‘…नरपतयः सम्भृताश्चीनहूर्णैः’ (मुद्रा॰५.११)। सम्भृता=परिपुष्टाः।
  • ‘सम्भृत्वा नाम यो देवः’ (अथर्व॰३.२४.२)। सम्भृत्वा=सम्भर्ता। भृञः क्वनिप्। मधुकरवत्सारांशस्य सङ्ग्रहीतेत्यर्थः।
  • ‘सविशेषमद्य पूजासम्भारो मया सन्निधापनीयः’ (मालती॰५)। पूजासम्भारः=पूजायामुपयोक्ष्यमाणमर्थजातम्।
  • ‘बहूपकरणा यज्ञा नानासम्भारविस्तराः’ (भा॰वन॰८२.१४)।
  • ‘पर्यायसेवामुत्सृज्यपुष्पसम्भारतत्पराः’ (कु॰२.३६)। पुष्पसम्भारः=कुसुमसमाचयनम्।
  • ‘उत्सृजेत्कृतार्थान् सम्भारान्’ (गो॰गृ॰३.९.५)। गतप्रयोजनान् सङ्गृहीतार्थांस्त्यजेदित्याह।
  • ‘सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्’ (रा॰१.८.११)। सम्भ्रियन्ताम्=सम्पाद्यन्ताम्।
  • ‘तस्मा एतामासन्दीं समभरन्’ (ऐ० ब्रा० ८।१२)। समभरन् निरमिमत, निर्मितवन्तः।
  • ‘दक्षिणेन पवनेन सम्भृतं प्रेक्ष्य चूतकुसुमं सपल्लवन्’ (रघु० १९।४३)। संभृतं जनितम्।
  • ‘पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः। कर्मभिश्च शरीरस्थैस्तत्र का परिदेवना’ (गो० स्मृ० ३।४२)। संभृतो निर्मितः। कर्मभिः स्वशरीरोत्थैरिति याज्ञवल्क्यस्मृतिपाठो ज्यायान्।
  • ‘प्रतिष्ठत्येषा हि संसारे संभृताघविनाशिनी’ (मार्क० २४५।४२)। संभृतं पुञ्जीकृतम्, राशीकृतम्।
  • ‘संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा’ (का० प्र० ७।२१९)। संभाराः कारणकलापः, उपकरणजातम्।
  • ‘तज्जहीहि रणारम्भदम्भ-संभारमञ्जसा’ (परिजात० १३।२६)। सम्भारो भारो भरो ऽतिशयः। अत्रार्थे सम्शब्दं न प्रयुञ्जते कवय इत्यस्थान एवायम्।
  • तस्मात्सव्यो हस्तयोः संभार्यतरः’ (तै० सं० ५।३।३।५)।
  • ‘यथा मधु मधुकृतः संभरन्ति यथाविधि’ (अथर्व० ९।१।१६)। संभरन्ति संहरन्ति समाहरन्ति।

भ्रम्

  • {संभ्रम्}
  • भ्रम् (भ्रमु-अनवस्थाने)।
  • ‘परावरज्ञास्तु न सम्भ्रमन्ति’ (भा॰शां॰२२६.१४)। सदसद्वस्तुविदो न त्रस्यन्तीत्याह।
  • ‘नासम्भ्रमत्तदा पार्थः’ (भा॰द्रोण॰१००.५)। असम्भ्रमत्=समभ्रमत्=पर्याकुलचित्तोऽभूत्।
  • ‘त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा’ (रा॰२.६०.५)। सम्भ्रमश्चिन्ता।
  • ‘न तौ भयं सम्भ्रममभ्युपेयतः’ (रा॰२.५३.३५)। भयकार्यमितस्तत ईक्षणरूपं सम्भ्रम इति तिलकः।
  • ‘सम्भ्रमेण समुदाचारो विस्मृतः’ (दूत॰१)। सम्भ्रमेण=सम्भ्रान्तेन (त्वया)।
  • ‘गृहमुपगते सम्भ्रमविधिः’ (भर्तृ॰१.५७)। सम्भ्रमः=आदरः=सत्क्रिया।
  • ‘दग्ध्वा सम्भ्रान्तपौरद्विजगणरहितान्नन्दवंशप्ररोहान्’ (मुद्रा॰१.११)। सम्भ्रान्ताः=सम्भाविताः समादृताः।
  • ‘दृष्ट्वा हनूमतो वर्ष्म सम्भ्रान्तः पवनात्मजः’ (भा॰वन॰१५०.१०)। सम्भ्रान्तः=क्षुभितः, सम्मूढः।
  • ‘ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः’ (रा॰१.६०.२४)। परमसम्भ्रान्ताः=अत्यन्तं पर्याकुलचित्ताः।
  • ‘सूचीतोदैः सम्भ्रमश्च शस्तः’ (सश्रुत० उत्तर० ५०।१२)। सम्भ्रमो मनस आकुलीकरणम्।
  • ‘उद्भ्रमः सम्भ्रमश्चैव गणौ ते परिचारकौ। तवाज्ञया करिष्येते लोकस्योद्भ्रमसम्भ्रमौ’ (मात्स्यपु० १८०।९९)।

मद्

  • {संमद्}
  • मद् (मदी-हर्षे)।
  • ‘प्रमदा हतसम्मदाः’ (भट्टि॰१०.६)। सम्मदो हर्षः।
  • ‘प्रमदसम्मदौ हर्षे’ (पा॰३.३.६८)। सम्यङ्मदस्तु सम्मादः।
  • ‘प्रमत्तसम्मत्तक्ष्वेडितोत्कृष्टसङ्कुलः’ (भा॰आश्व॰५९.१०)। सम्मत्तो हृष्टः।

मन्

  • {संमन्}
  • मन् (मन-ज्ञाने)।
  • ‘कच्चिदग्निमिवानाय्यं काले सम्मन्यसेऽतिथिम्’ (भट्टि॰६.६५)। सम्मन्यसे=मानयसि=सम्भावयसि।
  • ‘गुरुरनुगन्तव्योऽभिवादयितव्यश्च। वृद्धवयाः प्रत्युत्थेयः सम्मन्तव्यश्च’ (मी॰६.२.२ सूत्रे शा॰भा॰)।
  • ‘वाहीकः सौमदत्तिश्च ये चान्ये वृद्धसम्मताः’ (भा॰वन॰२४९.१५)। वृद्धा इति मता इत्यर्थः।
  • ‘द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम्’ (रघु॰१.२८)। सम्मतः=प्रियः।
  • ‘प्रणाय्योऽसम्मतौ’ (पा॰३.१.१२८)। सम्मतिः प्रीतिविषयीभवनम्। प्रणाय्यश्चौरः, प्रीत्यनर्हः। अभिलाषोऽपि सम्मतिरुच्यते। प्रणाय्योऽन्तेवासी। निरभिलाषः, निष्कामो विरक्त इत्यर्थः।
  • ‘अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि’ (रा० २।३८।१६)। सम्मन्तुं सम्मानयितुम्।

मन्त्र्

  • {संमन्त्र्}
  • मन्त्र् (मन्त्रि-गुप्तपरिभाषणे)।
  • ‘द्वौ सन्निपद्य यन्मन्त्रयेते’ (अथर्व॰४.१६.२)। सम्मन्त्रयेते=मिथः परिभाषेते।

मा

  • {संमा}
  • मा (मा-माने, माङ्-माने)।
  • ‘एभिरेवैनं (यजमानं) लोकैः सम्मिमीते’ (ताण्ड्य॰७.१.१)। समानं कृतवान् भवतीति सायणः।
  • ‘मृणालसूत्रमपि ते न सम्माति स्तनान्तरे’ (सुभाषितम्)। न सम्माति अवकाशं न लभते।
  • ‘कान्तासम्मिततयोपदेशयुजे’ (का॰प्र॰१)।
  • ‘न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्य विपक्वबुद्धे’ (भा॰पु॰१.१८.४२)। सम्मातुम्=तुलयितुम्=समीकर्तुम्।
  • ‘दर्भसम्मितं ब्रह्मवर्चसकामस्य’ (गो॰गृ॰४.७.७)। दर्भसम्मितं दर्भबहुलम् इति सामश्रमी।
  • ‘पारीन्द्रः शिशुरेष पाणिपुटके संमातु किं तावता’ (सा० द० १०।१३ इत्यत्रोदाहरणम्)। स मातु समाविशतु, संभवतु, अवकाशं लभताम्।
  • चमरी शबरीकेशैः संमिमीते स्ववालधिम्’ (स्कन्दपु० का० ४।३।४७) संमिमीत परिमाति।

मि

  • {संमि}
  • मि (डुमिञ् प्रक्षेपे)।
  • ‘यद्वत्सानपाकरोति सदोहविर्धाने एव संमिनोति’ (तै० सं० २।५।५।५)। संमिनोति प्रक्षिपति।

मूर्च्छ्

  • {संमूर्च्छ्}
  • मूर्च्छ् (मूर्छा-मोहसमुच्छ्राययोः)।
  • ‘सम्मूर्च्छितेव कौरव्य प्रजज्वाल च तेजसा’ (भा॰वि॰१७.१०)। सम्मूर्च्छिता=व्याप्ता। सम्मूर्छनमभिव्याप्तिरिति कोष इत्यर्जुनमिश्रः।

मृज्

  • {संमृज्}
  • मृज् (मृजू-शुद्धौ)।

‘ग्रहं सम्मार्ष्टि’। शोधयतीत्यर्थः।

मृश्

  • {संमृश्}
  • मृश् (मृश-आमर्शने, आमर्शनं स्पर्शः)।
  • ‘सपवित्रेण पाणिना पात्राणि सम्मृश्य’ (आप॰श्रौ॰१.५.१६.१०)। सम्मृश्य=संस्पृश्य।
  • ‘ये तत्र ब्राह्मणाः सम्मर्शिनः’ (तै॰उ॰१.११.४)। सम्मर्शिनः कर्तव्याकर्तव्यविवेकवन्तः।

यज्

  • {संयज्}
  • यज् (यज-देवपूजासङ्गतिकरणदानेषु)।
  • ‘यद् ब्राह्मणाः संयजन्ते सखायः’ (ऋ॰१०.७१.८)। संयजन्ते=सम्भूय यजन्ते।
  • ‘अवप्रुषो विप्रुषः संयजामि’ (तै॰ब्रा॰३.७.६.२१)। साकं जुहोमीत्यर्थः।
  • ‘ते वै पत्नीः संयाजयिष्यन्तः प्रतिपरायन्ति’ (श॰ब्रा॰१.९.२.१)। पत्नीसंयाजं करिष्यन्त इत्याह। प्रतिपरायन्ति=(गार्हपत्यं प्रति) निवर्तन्ते।
  • ‘एते असृग्रमिन्दव इति बहूनां संयजमानानां प्रतिपदं कुर्यात्’ (जै० ब्रा० १।९४ )। संयजमानानां साकं जुह्वताम्।

यत्

  • {संयत्}
  • यत् (यती-प्रयत्ने)।
  • ‘सम्भानुना यतते सूर्यस्य’ (ऋ॰५.३७.१)। संयतते=सङ्गच्छते। सम्पूर्वको यतिरिहाकर्मकः।
  • ‘सं रश्मिभिर्यतते दर्शतो रथः’ (ऋ॰९.१११.३)। संयतते=युज्यते।
  • ‘सं…जनाञ्छ्रुधीयतश्चिद् यतथो महित्वा’ (ऋ॰६.६७.३)। संयतथः=सङ्गमयथः। संयतिरिह सकर्मकः।
  • ‘सं शूरणासो दिव्यासो अत्याः। हंसा इव श्रेणिशो यतन्ते’ (ऋ॰१.१६३.१०)। संयतन्ते=इतरेतरमनुगच्छन्ति।
  • ‘सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते’ (ऋ॰७.९३.५)। संयतैते संयतेते=युध्येते।
  • ‘देवासुराः संयत्ता आसन्’ (तै॰सं॰१.५.१.१)। संयत्ताः=विगृह्णानाः।
  • ‘सङ्ग्रामं संयतिष्यमाणः’ (ऐ॰ब्रा॰८.१०)। युद्धं करिष्यमाण इत्यर्थः।
  • ‘सङ्ग्रामे संयत्त इन्द्रियेण वै मन्युना मनसा सङ्ग्रामं जयति’ (तै॰सं॰२.२.८.२)। संयत्तः=सन्नद्धः।
  • ‘संयत्ताः समरे सर्वे पालयध्वं पितामहम्’ (भा॰भीष्म॰८२.६)। संयत्ताः=प्रयत्ताः।
  • ‘तथा बुध्येत संयत्तो विजयेत रिपून् यथा’ (भा॰७.२००)। संयत्तः सावधानः=जागरूकः=प्रबुद्धः=सावेक्षः।
  • ‘उप प्रेत संयतध्वं मान्तर्गातभागिनं भागधेयात्’ (आप॰श्रौ॰६.८.१)।
  • ‘सञ्जानते न यतन्ते मिथस्ते’ (अ॰७.७५.५)। संयतन्ते=स्पर्धन्ते=विरुध्यन्ते।
  • ‘देवासुरा वा एषु लोकेषु समयतन्त’ (ऐ॰ब्रा॰३.३)। समयतन्त=अस्पर्धन्त।
  • ‘असंयत्तो व्रते ते क्षेति’ (अथर्व॰२०.२५.३)। असंयत्तः=अप्रयत्तः। प्रयत्नमकुर्वाणः।
  • ‘द्रोणकर्णौ तु संयत्तौ पश्य युद्धे महारथौ’ (भा॰द्रोण॰१८३.३५)। संयत्तौ=सन्नद्धौ=सज्जौ।
  • ‘धनुर्भृतः संयति लब्धकीर्तयः’ (कि०१.१९)। संयद्युद्धम्। तथा चामरः- संयत् समित्याजिसमिद्युधः।
  • ‘तया पपस्व धारया इति सङ्ग्रामं संयतिष्यमाणस्य प्रतिपदं कुर्यात्। जन्या वा एष गा आजिहीर्षति यः सङ्ग्रामं संयतते’ (जै० ब्रा० १।९२)। संयतते युध्यते।
  • ‘सं दानुचित्रा उषसो यतन्ताम्’ (ऋ० ५।५९।८)। संयतन्तां स्पर्धन्ताम्। दानेऽन्योन्यसङ्घर्षेण प्रवर्तन्तामित्याह।
  • ‘देवा वै मृत्युना समयतन्त’ (जै० ब्रा० १।१२)। मृत्यौ प्रातिभट्येन प्रावर्तन्त। मृत्युना समं विरोधमाचरन्नित्यर्थः।

यम्

  • {संयम्}
  • यम् (यम-उपरमे)।
  • ‘व्यात्तं न संयमत्’ (अथर्व॰६.५६.१)। न संयमत्=संश्लिष्टं मा भूत्। अत्र संयमिरकर्मकः।
  • ‘वोळ्हुर्न रश्मीन् समयंस्त सारथिः’ (ऋ॰१.१४४.३)। समयंस्त=समधारयत्=करयोरगृह्णात्।
  • ‘संयच्छ मामकानश्वान्’ (भा॰वि॰३८.४६ पाठभेदः)। प्रग्रहेषु गृहीत्वा प्रचोदयेत्याह।
  • ‘देवबर्हिर्मा त्वाऽन्वङ् मा तिर्यगिति संयच्छति’ (आप॰श्रौ॰१.२.३.११)। संयच्छति गृह्णाति सव्येन हस्तेनेति धूर्तस्वामी।
  • ‘संयच्छामि हयानेष युध्यतो वै कपर्दिनः’ (भा॰कर्ण॰३४.७६)। संयच्छामि=सङ्गृह्णामि, क्षत्तृत्वं कुर्वे।
  • ‘स्वं व्रीहिं संयच्छति’ (१.३.७७ सूत्रे प॰म॰)। सङ्क्षिपति=सङ्गृह्णाति।
  • ‘न संयतस्तस्य बभूव कश्चन विसर्जयेद्यं सुतजन्महर्षितः’ (रघु॰३.२०)।
  • ‘अत्र पश्चात् कृता दैत्या वायुना संयतास्तदा’ (भा॰उ॰११०.५)। संयताः सन्नद्धाः सन्तः।
  • ‘दानाध्ययनशीलाश्च संयताश्च परिग्रहे’ (रा॰१.६.१३)। संयताः=सङ्कुचिताः।
  • ‘तेषां संयच्छता सङ्ख्ये परस्परमजिह्मगैः’ (भा॰द्रोण॰९२.५)। संयच्छताम्=विधारयताम्।
  • ‘संयच्छन्दः’ (वा॰सं॰१५.५)। संयच्छति व्यापारान्निवर्तयति जन्तूनिति संयद्रात्रिः।
  • ‘उभे वृतौ संयती सञ्जयाति’ (ऋ॰५.३७.५)। संयच्छब्दो रात्रिवचनो नपुंसकम्। तस्य द्विवचनं संयती, अत एवोभे इति विशेषणान्वयः। द्विवचनान्तेन संयच्छब्देन रात्र्यहनी उच्यते। वृतौ वर्तमाने।
  • ‘यत्संयमो न वियमो वियमो यन्न संयमः’ (अथर्व॰४.३.७)। संयमो मन्त्रेण व्याघ्रादीनां नियमनम्।
  • ‘अमोघक्रोधहर्षश्च त्यागसंयमकालवित्’ (रा॰२.१.२३)। संयमः=न्यायेनार्जनम्।
  • ‘संयमे विश्वमखिलं बीजभूते तथा त्वयि’ (वि.पु॰१.१२.६५)। संयमे=प्रलये।
  • ‘अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः’ (वि॰पु॰१.२.२६)। अन्तसंयमः=महाप्रलयः। जगन्निरोधः, सर्वप्रपञ्चसंहारः।
  • ‘संयम्य गृहीतो मलयकेतुः’ (मुद्रा॰६)। संयम्य=परिवार्य=उपरुध्य।
  • ‘संयम्य ततो राज्ञे दस्यूंश्चैव न्यवेदयन्’ (भा॰आदि॰१०७.११)। संयम्य=बद्ध्वा।
  • ‘किन्तु त्वया न तावद्धि संयम्याः सर्वमानवाः’ (वामन॰६०.५९)। संयम्याः उच्छेद्या नाश्याः।
  • ‘संयमनी यमराजधानी भवति।’

या

  • {संया}
  • या (या-प्रापणे, प्रापणमिह गतिः)।
  • ‘यद् यद् राघव संयाति महाजनसपर्यया दिनम्’ (यो॰वा॰)। संयाति=अत्येति=अतिक्रामति।
  • ‘पापान् संयाति संसारान्’ (मनु॰१२.५२)। संयाति=गच्छति=प्राप्नोति।
  • ‘तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही’ (गीता)। उक्तोऽर्थः
  • ‘नाराजके जनपदे हृष्टः परमवाजिभिः। नराः संयान्ति सहसा रथैश्च प्रतिमण्डितैः’ (रा॰२.६७.२५)॥ संयान्ति=सञ्चरन्ति=परिक्रामन्ति।
  • ‘यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः’ (भा॰पु॰८.३.२३)। संयान्ति=समेता भवन्ति।
  • ‘पश्य मे हयसंयाने शिक्षां केशवनन्दन’ (भा॰वन॰१९.५)। हयसंयानम्=अश्वसंयमनम् (?)।
  • ‘प्राप्तकालं नरपतेः कुरु संयानमुत्तमम्’ (रा॰२.७६.२)। संयानम्=प्रेतनिर्हारम्।
  • ‘अथोत्तरत ऊर्णाविक्रयः शीधुपानम्… समुद्रसंयानमिति’ (बौ॰ध॰१.१.२.४)। समुद्रसंयानम्=नानाद्वीपान्तरगमनम्।
  • ‘सांयात्रिकः पोतवणिक्’ इत्यमरः। सम्पूर्वस्य यातेर्देशान्तरगमने वृत्तिरित्याहुः।
  • ‘एता उ एव संयान्यः’ (श॰ब्रा॰८.७.१.१४)। संयान्यः=निःश्रेणयः।
  • ‘सहदेवस्तु संयाय रथेन गजयोधिनः’ (भा॰वन॰२७१.११)। संयाय=समेत्य=समागम्य।
  • ‘यथाऽप्सु नावा सं यात्येवमेवैताभिर्यजमान इमाँल्लोकान्संयाति’ (तै० सं० ५।३।१०।४०-४१)। संयात्रेति समुद्रयानमाह रूढ्या। अतएव सांयात्रिकः पोतवणिग् भवति।
  • ‘कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्’ (रा० ५।३७।४९)। संयातुं योद्धुम्।
  • ‘यत्त्वं राघवनन्दनम्। वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः’ (रा० ७।४१।८)। पुष्पकं प्रति धनदस्योक्तिः। समीचीनं यानं संयानम्।

यु

  • {संयु}
  • यु (यु-मिश्रणामिश्रणयोः)।
  • ‘जनयत्यै त्वा संयोमि’ (वा॰सं॰१.२२)। मिश्रयामीत्याह।
  • ‘यामेव मृदं तत्र संयौति’ (श॰ब्रा॰६.५.१.३)। उक्तोऽर्थः।
  • ‘जनयत्यै त्वा संयौमीति संयुत्य’ (आप॰श्रौ॰१.८.१४.५)। संयुत्य=पिष्टमपश्च मेलयित्वा।
  • ‘प्रणीताभिर्हवींषि संयौति’ (श॰ब्रा॰)। प्रणीतापात्रस्थाभिरद्धिः पुरोडाशपिष्टं मेलयति।
  • ‘संयदोजो युवते विश्वमाभिः’ (ऋ॰५.३२.१०)। संयुवते=संयुनक्ति।
  • ‘न च काञ्चन काञ्चनसद्मचितिं न कपिः शिखिना शिखिना समयौत्’ (भट्टि॰१०.५)। समयौत्=समयोजयत्=समबध्नात्।
  • ‘मुदा सयुहि काकुत्स्थम्’ (भट्टि॰२०.१६)। उक्तोऽर्थः।
  • अश्वं रथरश्मिसंयुतम् (रघु॰३.४२)। संयुतम्=संयुक्तम्।
  • ‘सं समिद्युवसे वृषन्नग्ने विश्वान्यर्य आ’ (तै० सं० २।६।११।४)। संयुवसे राशी करोषि (भक्तेभ्यः प्रदातुम्)।

युज्

  • {संयुज्}
  • युज् (युजिर्-योगे)।
  • ‘स नो बुद्ध्या शुभया संयुनक्तु’ (श्वे॰उ॰३.४)।
  • ‘रघुनाथोऽप्यगस्त्येन … संयुयुजे शरत्काल इवेन्दुना (रघु॰१५.५४)। स्पष्टोऽर्थः।
  • ‘संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः (भा॰पु॰६.१५.३)।
  • ‘यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि’ (मनु॰९.२२)। विवाहसम्बन्धेन सम्बध्येतेत्याह।
  • ‘अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा (मनु॰९.२३)। उक्तोऽर्थः।
  • ‘वेदये न च संयुक्तान् शब्दस्पर्शरसानहम्’ (रा॰२.६४.६७)। संयुक्तान् समग्रान् इति कश्चित्। इन्द्रियसंयुक्तान् इति तिलकः।
  • ‘संयुक्तांश्च वियुक्तांश्च सर्वोपायान् सृजेद्बुधः’ (मनु॰७.२१४)। संयुक्तान्=समस्तान्। वियुक्तान् व्यस्तान्।
  • ‘संयोगो नाम स भवति इदं कृत्वा इदमवाप्यत’ इति (भाष्ये)।
  • ‘संयोगा विप्रयोगान्ताः’ (भा॰शां॰२७.३१)।
  • ‘इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति’ (भा॰वि॰४८.१२)। संयुगः=समागमः=सम्पातः=सन्निपातः।
  • ‘मा स्मैवं साहसं तात पुनः कार्षीः कथञ्चन। भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः’ (भा॰उ॰१८५.१०)॥ संयुगं गन्तुम्=समासत्तुम्=समागन्तुम्।
  • ‘ज्यामिमां चापि गाण्डीवे समयोजयत्’ (भा॰वन॰१२०.६७)। समयोजयत्=असञ्जयत्।
  • ‘स विप्रो वैष्णवं सत्रं पुत्रार्थं समयोजयत्’ (हरि॰३.१०४.७)। समयोजयत्=प्राकल्पयत्।
  • ‘बुद्ध्या संयोजयन्ति तम्’ (पञ्च॰२)। संयोजयन्ति=सम्पादयन्ति।
  • ‘संयुज्यस्व मया राजन्निति याज्यं सोऽब्रवीत्’ (ब० दे० ५।५५)। विवाहसम्बन्धं कुरु।

युध्

  • {संयुध्}
  • युध् (युध-सम्प्रहारे)।
  • ‘तेन चाहं न शक्तोऽस्मि संयोद्धम्’ (रा॰१.२२.२२)। संयोद्धम्=सह योद्धुम्।
  • ‘यदा प्रहृष्टः सम्राट् त्वां संयोधयति कुञ्जरैः’ (भा॰वि॰१९.५)।

रक्ष्

  • {संरक्ष्}
  • रक्ष् (रक्ष-पालने)।
  • ‘संरक्षामि विलुम्पामि ददाम्यहमथाददे’ (भा॰शां॰२२४.४३)। संरक्षामि=सम्यग् रक्षामि। विलुम्पामि=विशेषेण छिनद्मि।
  • ‘संरक्षतो मुनिगणान् निघ्नतो राक्षसान्मम’ (रा॰३.१०.२५)। उक्तोऽर्थः।
  • ‘भगवञ्छ्रोतुमिच्छावो यस्मिन् काले निशाचरौ। संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम्’ (रा॰१.३०.२)॥ संरक्षरणीयौ यज्ञसंरक्षणाय निवारणीयौ।

रञ्ज्

  • {संरञ्ज्}
  • रञ्ज् (रञ्ज-रागे)।
  • ‘चिताधूमेन नीलेन संरज्यन्ते च पादपाः’ (भा॰शां॰१५३.९९)। संरज्यन्ते=वर्ण्यन्ते। चिताधूमो रागस्तेन तद्वर्णाः क्रियन्ते।
  • ‘संरक्ततरमत्यर्थं मधुरं नावगायताम्’ (रा॰श्लेगल सं॰१.४.१७)। संरक्ततरम्=रञ्जकतरम्, चेतोहरम्।
  • ‘संरक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः’ (मेघ॰५७)। संरक्ताभिः=रक्तकण्ठीभिः, अतिनिर्हारिणीभिः।

रभ्

  • {संरभ्}
  • रभ् (रभ-राभस्ये)।
  • ‘समिन्द्र राया समिषा रभेमहि’ (अथर्व॰२०.२१.५)। संरभेमहि। संयुज्येमहि। रयिमन्त इड्वन्तश्च स्यामेत्याह।
  • ‘क्षत्रेणाग्ने स्वेन संरभस्व’ (अथर्व॰२.६.४)। उक्तोऽर्थः।
  • ‘अग्ने सर्वास्तन्वः संरभस्व’ (अथर्व॰१९.३.२)। संरभस्व=सङ्कलय। तत्र तत्र विभक्तास्तनूरेकत्र सम्मेलयेत्याह।
  • ‘यदा वै द्वौ संरभेते अथ तौ वीर्यं कुरुतः’ (श॰ब्रा॰१४.१.१.३)। संरभेते=इतरेतरमालम्बेते।
  • ‘तद्योक्त्रे भृत्याः संरभन्ते’ (अथर्व॰१४.२.५३)। संरभन्ते=कर्षन्ति। तद्गृहीतये वा संयतन्ते। तद्योक्त्रे=तस्या वध्वा योक्त्रे।
  • ‘इत्युपादेयवर्गेऽस्मिन् यदर्थं प्रतिभा कवेः। सम्यक् संरभते तस्य गुणः सौभाग्यमुच्यते’ (वक्रोक्ति॰१.५५)॥ संरभते सम्यक् सावधानतया व्यवस्यति।
  • ‘मिथिलेश्वर किमिति संरभसे’ (बा॰रा॰१)। अत्यन्तमुत्सहसे।
  • ‘युद्धैकरुचे मा निर्भरं संरभस्व’ (बा॰रा॰२.१६)। मातिमात्रमुत्सहिष्ठाः।
  • ‘रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान्। सीतावचनसंरब्ध आनयामास लक्ष्मणः’ (रा॰२.५३.३०)॥ संरब्धः=त्वर्य्यम्माणः।
  • ‘न मामन्येस संरब्धं प्रमत्तं वेद्धुमर्हसि’ (रा॰४.१७.२१)। अन्येन सरब्धमन्येन संयुक्तम, युध्यमानमित्यर्थः।
  • ‘संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः’ (रा॰१.५३.१७)। संरब्धतरमत्याग्रहयुक्तम्।
  • ‘नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति’ (रघु॰१६.१६)। संरब्धः=कुपितः।
  • ‘कवचोत्सेधसंरब्धकण्ठायास॰’ (राज॰५.३४४)। संरब्धः=समेधितः।
  • ‘संरब्धमानः’ (=वृद्धदर्पः) (भा॰उ॰२.१२)। संरम्भमारण इति पाठान्तरम्। हठं कुर्वाण इति तदर्थः।
  • ‘संरब्धनेत्र॰’ (रा॰गोरे॰सं॰२.७६.३२)। उच्छूननयन॰ इत्यर्थः।
  • ‘संरब्धव्रण’ (सुश्रते २.६.११)। उक्तोऽर्थः।
  • ‘प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम्’ (रघु॰४.६४)। संरम्भः कोपः।
  • ‘संरम्भो हि सपत्नीत्वाद् वक्तुं कुन्तिसुतां प्रति’ (भा॰आदि॰१२४.६)। संरम्भः=अभिमानः, दर्पः।
  • ‘संरम्भभययोगेन विन्दते तत्स्वरूपताम्’ (भा॰पु॰७.१.२८)। संरम्भो द्वेषः। अन्यत्र दुर्लभोऽयमर्थः पुराणकारस्य स्वस्योपज्ञा।
  • ‘त्वयाऽपि तस्मिन् संरम्भो न कार्यः’ (दशकु॰)। तदर्थविघातका उपाया नास्थेया इत्याह।
  • ‘न संरम्भेण सिध्यन्ति सर्वेऽर्थाः सान्त्वया यथा’ (भा॰पु॰८.६.२४)। त्वरया हिंसया वेत्याह। सान्त्वमिति विदितं सान्त्वनेति च। सान्त्वेति स्त्रीलिङ्गं तु परोक्षप्रियस्यास्य कवेरेव।
  • ‘अवृष्टिसंरम्भमिवाम्बुवाहम्’ (कु॰३.४८)। संरम्भः=क्षोभः।
  • ‘अन्योन्यजयसंरम्भो ववृधे वादिनोरिव’ (रघु॰१२.९२)। संरम्भः=औत्सुक्यम्, समुत्साहः।
  • ‘हन्त वर्धते ते संरम्भः’ (शा॰७)।
  • ‘यतश्च जातसंरम्भो न च शत्रुवशं गतः’ (भा॰वि॰३४.१३)। संरम्भो भयम्।
  • ‘तत्र शुश्राव वै शब्दं तोयसंरम्भवर्जितम्’ (रा॰१.२४.५)। तोयसंरम्भेण=तरङ्गसङ्घट्टजन्मना क्षोभेण।
  • ‘संरभमाणो विजितः प्रसह्य’ (भा॰उ॰२.१२)। सरभमाणः=क्रुध्यन्। हठं कुर्वाण इति नील॰।
  • ‘प्रवृतं रज इत्येव तन्न संरभ्य चिन्तयेत्’ (भा॰शां॰१९४.३२)। संरभ्य=भीत्वा।
  • ‘संरब्धाः संसर्पन्ति’ (छां० उ० १।१२।४)। संरब्धाः संलग्नाः।
  • ‘अश्मन्वती रीयते संरभध्वम्’ (ऋ० १०।५३।८)। संरभध्वं त्वरध्वम्।
  • ‘मयि संरभ्य विपुलमदाच्छापं सुदुःसहम्’ (भा० पु० ४।२७।२२)। मयि संरभ्य मह्यं क्रुद्ध्वा।

रम्

  • {संरम्}
  • रम् (रमु-क्रीडायाम्)।
  • ‘भक्तस्य तत्र समरमन्त ममापि वाचः’ (महावीर॰१.७)। समरमन्त=नन्दिमाप्नुवन्।
  • ‘संरंसीष्ठाः सुरमुनिगते वर्त्मनि प्राज्यधर्मे’ (भट्टि॰१९.३०)। उक्तोऽर्थः।

राज्

  • {संराज्}
  • राज् (राजृ-दीप्तौ, छन्दसि तु ऐश्वर्ये)।
  • ‘सम्राजन्तमध्वराणाम्’ (ऋ॰१.२७.१)। सम्राजन्तम्=ईशानम्।

राध्

  • {संराध्}
  • राध् (राध/साध-संसिद्धौ)।
  • ‘संराधयन्तः सधुराश्चरन्तः’ (अथर्व॰३.३०.५)। संराधयन्तः=ऐक्यम् ऐकमत्यं गताः। परस्परमनुकूलाः।
  • ‘तस्यां न समराधयन्’ (तै॰सं॰२.१०.४)। तस्यां तस्या विषये न मतिसंवादमुपायन्नित्याह।

री

  • {संरी}
  • री (री-गतिरेषणयोः)।
  • ‘आपस्त्वा समरिणन्’ (श॰ब्रा॰३.८.३.२०)। समरिणन्=संसृजन्तु।

रुच्

  • {संरुच्}
  • रुच् (रुच-दीप्तावभिप्रीतौ च)।
  • ‘यदुषो यासि भानुना संसूर्येण रोचसे’ (ऋ॰८.८.१८)। संरोचसे=समकालं रोचसे दीप्यसे।

रुध्

  • {संरुध्}
  • रुध् (रुधिर्-आवरणे)।
  • ‘तृणमिव लघुर्लक्ष्मीर्नैव तान् संरुणद्धि’ (भर्तृ॰२.१७)। संरुणद्धि=सन्दानयति।
  • ‘कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा। …आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि वै’ (भा॰सभा॰५.९२)॥ संरुणत्सि=प्रत्याचक्षे।
  • ‘मेघैश्च गगनं नीलः संरुद्धमभवद् घनैः’ (भा॰अनु॰१४८.१)। संरुद्धमावृतम्।
  • ‘यो मोचयति संरुद्धमिदं प्रवहणं मम’ (कथा॰१८.२६६)। संरुद्धम्=उपरुद्धम्।
  • ‘अजाविके तु संरुद्धे वृकः पाले त्वनायति’ (मनु॰८.२३५)। संरुद्धे=परिवृते। आस्कन्ने।
  • ‘खं च भूमिं च संरुद्धां मेनिरे क्षत्रियर्षभाः’ (भा॰द्रोण॰१२९.१६)। संरुद्धामेकतामापन्नाम्।
  • एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटिं ततः (रा॰३.३०.१६)। संरुध्य=सन्निबद्ध्य।
  • ‘संरोधादायुषश्चैव व्यस्यन्ते द्वापरे च ते’ (वेदाः) (मात्स्य० १४२।४८)। संरोधः संकोचः, अपकर्षः।

रुष्

  • {संरुष्}
  • रुष् (रुष रिष हिंसायाम्)।
  • ‘संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः’ (सुश्रुत० उत्तर० १५।२)। संरोषयेत् रक्ततामापादयेत्।

रुह्

  • {संरुह्}
  • रुह्, (रुह-बीजजन्मनि)।
  • ‘प्रेमोद्गमाः संरुरुहुः प्रियाणाम्’ (भट्टि॰११.५)। संरुरुहुः=ववृधिरे=उपचिच्यिरे।
  • ‘तस्माद् विधृता अध्वानोऽभवन्न पन्थानः समरुक्षन्’ (तै॰सं॰२.५.११.२)। समरुक्षन्=प्रकृतिस्था अभूवन्।
  • ‘संरोहतीषुणा विद्धं यथा परशुनाऽग्निना। न तु ज्ञानाग्निनिर्दग्धं प्रबोधविशदं मनः’ (यो॰वा॰६.१२.५०)॥ संरोहति=पुना रोहति=प्रकृतिस्थं भवति। संरूढव्रणः=सञ्जातकिणं क्षतम्।
  • ‘षष्टिवर्षगते काले यद्रोषोऽभून्ममानघ। स संरूढोऽसकृत्…’ (हरि॰१.३९.३७)॥
  • ‘ततो मामतिविश्वस्तं संरूढशरविक्षतम्’ (भा॰वन॰१७४.१)। संरूढा देहे निमग्नाः शराः।
  • ‘संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया’ (शा॰६.२३)। संरोपिते=बीजरूपेणाहिते।
  • ‘संरोहत्पुलका॰’ (सा॰द॰)। उदञ्चद्रोमाञ्चा।

लक्ष्

  • {संलक्ष्}
  • लक्ष् (लक्ष-दर्शने)।
  • ‘हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा’ (रघु॰१.१०)। यो लक्षयतेरर्थः स एव संलक्षयतेः। शब्दोपजनः, नार्थोपजनः।
  • ‘आश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः’ (शा॰७)।
  • ‘संलक्ष्यते न च्छिदुरोऽपि हारः’ (रघु॰१६.६२)। हारश्छिन्न इति न दृक्पथं याति।
  • ‘विद्धेव पुष्पचापेन तत्क्षणं समलक्ष्यत’ (कथा॰१४.२९)। स्फुटोऽर्थः।
  • ‘रिरंसां तस्य संलक्ष्य’ (राज॰३.५०३)। संलक्ष्य=विज्ञाय=अनुमाय=विभाव्य।

लप्

  • {संलप्}
  • लप् (लप-व्यक्तायां वाचि)।
  • ‘वितण्डालापसंलापः’ (भा॰द्रोण॰८५.१३)।
  • ‘संलापो भाषणं मिथः’ (अमरे)। संलापो नाटकेषु सम्भाषणविशेषे पठ्यते यो दर्पणकारेणेत्थं लक्ष्यते— ‘संलापः स्याद्गभीरोक्तिर्नानाभावसमाश्रयेति।

लभ्

  • {संलभ्}
  • लभ् (डुलभष् प्राप्तौ)।
  • ‘तौ (इन्द्रनमुची) समलभेताम्’ (तै० ब्रा० १।७।१)। समलभेताम् परस्परमर्दनपरावभूताम्।
  • ‘ऊषरं कर्मसस्यानां क्षेत्रं वाराणसी पुरी। यत्र संलभ्यते मोक्षः समं चाण्डालपण्डितैः’ (भोज० १०९)॥ सारवद्रम्यं वचः। सम्-शब्दस्तु नार्थस्योपकरोति वैयर्थ्यं चाश्नुते।

लिख्

  • {संलिख्}
  • लिख् (लिख-अक्षरविन्यासे)।
  • ‘अजैषं त्वा संलिखितमजैषमुत संरुधम्’ (अथर्व॰७.५०.५)।

ली

  • {संली}
  • ली (लीङ्-श्लेषणे)।
  • ‘अन्योऽन्यं समलीयन्त पलायनपरायणाः’ (भा॰२२.१५)। इतरेतरं समश्लिष्यन् इत्यर्थः।
  • ‘यथा राजन् हस्तिपदे पदानि संलीयन्ते सर्वसत्त्वोद्भवानि’ (भा॰शां॰६३.२५)। संलीयन्ते=निमज्जन्ति=परिक्षिप्तानि संवृतानि भवन्ति।
  • ‘संलीनमपि दुर्गेषु निन्यतुर्यमसादनम्’ (भा॰आदि॰२१०.२०)। संलीनम्=प्रच्छन्नम्।
  • ‘स यथा दृतिर्निष्पीत एवं संलीनः शिष्ये’ (श॰ब्रा॰१.६.३.१६)। संलीनः=सङ्कुचितः।
  • ‘श्रवणे शिरोधरायां संलीने’ (हरि॰२.३१.८)। उक्तोऽर्थः।

‘संलीय तस्मिन्निषसाद वृक्षे’ (रा॰५.१९.३३)। संलीय=सङ्कोचमापद्य। किसलयसंलयः=पल्लवसङ्कोचः।

  • ‘विश्रान्तः संहत्य पक्षौ संलयायैव ध्रियते’ (वृ॰उ॰४.३.१९)। संलयः=कुलायः।

लुड्

  • {संलुड्}
  • लुड् (लुड-विलोडने)।
  • ‘यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः’ (भा॰शां॰२८७.४४)। संलोडिताः=चालिताः=धुनिताः।

लुभ्

  • {संलुभ्}
  • लुभ् (लुभ-विमोहने, विमोहनमाकुलीकरणम्)।
  • ‘ऐक्षव्यौ विधृती। नेद्बर्हिश्च प्रस्तरश्च संलुभ्यातः’ (श॰ब्रा॰३.४.१.१८)। न संलुभ्यातः=संलुब्धे आकुले व्यामिश्रे न भवतः।
  • ‘संलोभयन्तो दुरिता पदानि’ (अथर्व॰६.२८.१)। दुरितानि पदानि =दुरितनिमित्तानि पदानि (कपोतस्य)। संलोभयन्तः=व्याकुलीकुर्वन्तः प्रमार्जयन्त इत्यर्थः। ऋक्संहितायां तु संयोपयन्त इति पाठः। सञ्ज्यायान्।
  • ‘साधुविभक्ता नो लोकास्तान्न शक्ष्यामः संलोभयितुम्’ (जै० ब्रा० १।१५५)। संलोभयितुमाकुलीकर्तुम्।

लोक्

  • {संलोक्}
  • लोक् (लोकृ-दर्शने)।
  • ‘ते एते ज्योतिषी उभयतः संलोकेते’ (ऐ॰ब्रा॰४.१५)। संलोकेते=परस्परमवलोकयतः।
  • ‘गृहद्वारं (तथा कुर्वीत) यथा न संलोकि स्यात्’ (गो॰गृ॰४.७.१३)। गृहान्तवर्तिजनादिदर्शकं न स्यादित्याह।

वद्

  • {संवद्}
  • वद् (वद-व्यक्तायां वाचि)।
  • ‘उत स्वया तन्वा संवदे तत्’ (ऋ॰७.८६.२)। स्वीयेन शरीरेण सम्भाष इत्यर्थः। तदित्यग्रिमेण चरणेनान्वेति।
  • ‘देवा वै ब्रह्म समवदन्त, तत् पर्ण उपाशृणोत्’ (मै॰सं॰४.१.१)। ब्रह्मविषये संवादमकुर्वतेत्याह।
  • ‘कुमारं जातं संवदन्त उप वै शुश्रूषते’ (ऐ॰ब्रा॰३.२)। कुमारं शिशुं सद्योजातम् अधिकृत्य मिथो भाषन्तेऽयं शृणोतीति।
  • ‘अथाग्नयः समूदिरे’ (छां॰उ॰४.१०.४)। समूदिरे=मिथः सम्बभाषिरे।
  • ‘इन्द्र त्वं मरुद्भिः संवदस्व’ (ऋ॰१.१७००५)। सम्मन्त्रयस्वेत्याह।
  • ‘मा मैतस्मिन् संवदिष्ठाः’ (श॰ब्रा॰१४.५.१.२)। इह समा नार्थः।
  • ‘यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे’ (भा॰अनु॰४.८०)। इहापि।
  • ‘स वै न सर्वेण संवदेत। देवान् वा एष उपावर्तते यो दीक्षते… न वै देवाः सर्वेणेव संवदन्ते’ (श॰ब्रा॰३.१.१.१०)। उक्तोऽर्थः।
  • ‘श्रेयस्सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत्’ (=संवादयेत्) (भा॰वि॰४.४३)। तुल्यं न दर्शयेदित्यर्थः।
  • ‘यत्राघाटाः कर्कर्यः संवदन्ति’ (अथर्व॰४.३७.५)। संवदन्ति समानं ध्वनन्ति।
  • ‘अस्य मुखं सीताया मुखचन्द्रेण संवदति’ (उत्तर॰४)। संवदति=सारूप्यं भजते।
  • ‘अहो संवदन्त्यक्षराणि’ (मुद्रा॰५)। सरूपाणि भवन्ति, तुल्यसन्निवेशानि भवन्ति।
  • ‘दैवं न संवदति किं न कृतं त्वयाद्य (मृच्छ॰१०.३१)। नानुकूलं भवतीत्यर्थः।
  • ‘न संवदत्यश्रु च तच्च कर्म ते’ (बुद्ध॰८.३३)। न संवदति=न सङ्घटते।
  • ‘संवादयैनं देवैः’ (श॰ब्रा॰१.८३.२०)। संवादं सम्भाषां कारयेत्यर्थः।
  • ‘संवादयन्निव’ (कथा॰१०७.७९)। संवादमैकमत्यं ग्राहयन्निव।
  • ‘ते सर्वमविदुस्ते सहैवाविदुस्तेऽग्निहोत्रमेव न समवादयन्त (गो॰ब्रा॰पूर्व॰३.१५)। अग्निहोत्रविषय एव समानाचारा नाभूवन्नित्याह। तेषामेकः सकृदग्निहोत्रमजुहोत् द्विरेकस्त्रिरेक इत्याचारविसंवाद इति सायणः।
  • ‘संवाद्य रूपसङ्ख्यादीन् स्वामी तद्द्रव्यमर्हति’ (मनु॰८.३१)। संवाद्य=रूपसङ्ख्यादिभिः समानं प्रख्याप्य। रूपसङ्ख्यादिविषये संवादमानुरूप्यं दर्शयित्वेत्यर्थः।
  • ‘अस्मदर्थमपत्यमिति संवाद्य’ (गौ॰ध॰३.१०.१६)। संवाद्य=संवादमभ्युपगमं कारयित्वा। दक्षिणास्वेव न संवदितव्यम् संवादेनैवर्त्विजोऽलोका इति। न संवदितव्यम्=नैकमत्यमास्थेयम्।
  • ‘रूपसंवादाच्च संशयादनया पृष्टः’ (दशकु॰)। रूपसंवादः=रूपसादृश्यम्।
  • ‘यदृच्छासंवादः किमु किमु गुणानामतिशयः’ (उत्तर॰५.१६)। संवादः समागमः।
  • ‘(नादः) चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति’ (माल॰५.२०)। श्रवणयोः सुखो भवति। सुश्रवो भवतीति यावत्।
  • ‘अपि च कृतिनमेनं शक्तिदेवं स्वनाम्ना व्यधित समुदितेषु विद्याधरेषु’ (कथा॰२६.२७९)। समुदितेषु=प्रायशः कीर्तितेषु।
  • ‘संवदान्याम्’ (भाष्ये संवदन्याम्) (भा॰गृ॰३.१३)। कवाटदेशे इत्यर्थः।
  • ‘प्रतिप्रस्थातः पशुं संवदस्व’ (मानवश्रौ० २।५।१।२३)। संवदस्व अनुमानय। अनुकूलय। अन्तर्णीतण्यर्थको वदिः।

वन्

  • {संवन्}
  • वन् (वन-षण सम्भक्तौ)।
  • ‘गावो घृतस्य मातरोऽमूं संवानयन्तु’ (अथर्व॰६.९.३)। संवानयन्तु=वशीकुर्वन्तु।
  • ‘कोशसंवनने दाने भृत्यानां चान्ववेक्षणे (भा॰उ॰१४८.९)। कोशसंवनने=कोशस्यात्मीयताकरणे।
  • वशक्रिया संवननम् इत्यमरः।
  • ‘न हीदृशं संवननं त्रिषु लोकेषु विद्यते। दया मैत्री च भूतेषु दानं च मधुरा च वाक्’ (भा॰आदि॰८७.१२)।
  • ‘हृदयानुप्रवेशो हि प्रभोः संवननं परम्’ (कथा० ३४।१६९)। वशक्रिया संवननमित्यमरः।

वप्

  • {संवप्}
  • वप् (डुवप-बीजसन्ताने)।
  • ‘पवित्रवति संवपति’ (श॰ब्रा॰१.२.२.१)। संवपति=निक्षिपति। आवपति। पिष्टं हविरिति शेषः।
  • ‘असंवपन्ती पिषाणूनि कुरुतात्’ (आप॰श्रौ॰१.६.२१.७)। असंवपन्ती=सहवपनमकुर्वती।

वृज्

  • {संवृज्}
  • वृज् (वृजी-वर्जने)।
  • ‘प्राधान्येन हि सर्वत्र सर्वाः संवर्जयेत्प्रजाः’ (का॰नी॰सा॰८.५३)। संवर्जयेत्=संश्लेषं नयेदिति जयमङ्गला। संसर्जयेदित्युपाध्यायनिरपेक्षा।

वर्ण

  • {संवर्ण}
  • वर्ण् (वर्ण-वर्णक्रियाविस्तारगुणवचनेषु)।
  • ‘राजानं राजपुत्रं वा संवर्णयति यः सदा’ (भा॰४.३९)। संवर्णयति=स्तौति। अत्रार्थे समा नार्थः। संवर्तयतीति पाठेऽनुसरतीत्यर्थः।

वर्मय्

  • {संवर्मय्}
  • वर्मय् (वर्मन्+णिच्)।
  • ‘तत्तादृशेन वपुषाङ्गमदङ्गमेतत् संवर्मय स्मरभराः प्रतियान्तु मोघाः’ (रा॰च॰५.६५)। संवर्मय=वर्मणा सन्नह्य=साधु परित्रायस्व।

वल्

  • {संवल्}
  • वल् (वल/वल्ल-संवरणे सञ्चरणे च)।
  • ‘तां वल्लभां रहसि संवलितां स्मरामि’ (चौर॰१३)। संवलिताम्=सङ्गताम्=समापन्नाम्।
  • ‘संवलितं निषादैर्विप्रम्’ (शिशु॰५.६६)। संवलितम्=परिगतम्=परिवेष्टितम्।
  • ‘यथा भूमिरुप्तबीजमात्रा तदैव प्रचुरपचेलिमफलव्रीहिस्तबकसंवलिता न भवति’ (मनु॰४.१७२ इत्यत्र कुल्लूकः)। संवलिता=आकीर्णा।
  • ‘ततिषु संवलिताः खलु भास्वतः’ (पारिजात० १०।१६)। संवलिताः स गताः संमिश्रिताः।

वस्

  • {संवस्}
  • वस् (वस-निवासे, वस-आच्छादने)।
  • ‘आभिः प्रजाभिरिह संवसेय’ (तै॰ब्रा॰१.२१.२.१)। संवसेय=साकं वसेयम्।
  • ‘न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः’ (मनु॰४.७९)। उक्तोऽर्थः।
  • ‘संवसाथां स्वर्विदा समीची’ (वा॰सं॰११.३१)। आच्छादयतमित्याह। समा नार्थः।
  • ‘तथा संवसतस्तस्य मुनीनामाश्रमे सुखम्’ (रा॰३.१५.२८)। संवसतः कञ्चित्कालं स्थितिं कुर्वतः।
  • ‘तां समुष्य निशां कृत्स्नां प्रभाते प्रत्यबुध्यत’ (रा॰३.१२.१)। निशां समुष्य=रात्रिं क्षपयित्वा।
  • ‘प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते’ (पञ्चत॰१.२५०)। संवासः। संसर्गः।
  • ‘शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम्’ (रा॰२.४९.४)। संवासः=सन्निवेशः=निकर्षणः=पुरादेर्बहिर्विहरणभूः।

वस्त्रम्

  • {संवस्त्रम्}
  • वस्त्रय् (वस्त्र+णिच्)।
  • ‘न संवस्त्रयेत’ (लौ॰गृ॰१.१७)। न समानं वस्त्रं कुर्यात्। आचार्यपरिहितं वस्त्रं न परिदधीतेत्याह। मुण्डमिश्रेति सूत्रे वस्त्रात् समाच्छादन इति गणसूत्रम्। वस्त्रं समाच्छादयति स वस्त्रयतीत्युदाहरणं वृत्तौ स्थितम्। विशेषस्तु कोऽपि नोक्तः। न च सम्शब्दस्यार्थवत्ता प्रोक्ता। गृह्यगृहीतोऽर्थस्तु युक्तो भाति। सम्-शब्दश्चार्थवान् भवति।

वह्

  • {संवह्}
  • वह् (वह-प्रापणे)।
  • ‘स्वस्ति मा संवह’ (अथर्व॰६.४८.१)। संवह सम्यक् प्रापय।
  • ‘चत्वारस्त्वां गर्दभाः संवहन्तु’ (भा॰)।
  • ‘तत्सर्वे भरतश्रेष्ठाः समूहुर्योगमुत्तमम्’ (भा॰वन॰१८२.१७)। योगं वाहनाविकमारोपितभारं कृतवन्त इति नील॰। सम्पूर्वो बहिः शकटादौ भाराधाने वर्तते।
  • ‘अङ्के निधाय करभोरु… संवाहयामि चरणावुत पद्मताम्रौ’ (शा॰३.२०)। संवाहयामि=उद्वर्तयामि=मृद्नामि।
  • ‘पृष्ठं दुःखायमानं मे चण्डि संवाह्यतामिति’ (बृ॰श्लो॰सं॰४.१२२)। मृद्यतामित्यर्थः।
  • ‘क्षिप्रं संवाह्यतां व्रजः’ (हरि॰२.८.२१)। संवाह्यताम्=संगृह्यताम् ।
  • ‘सूतः संवाहयामास रथम्’ (रा० ६।७९।७)। संवाहयामास=प्राज=प्रचोदयामास।
  • ‘सोपि संवाह्यते लोके तृष्णया पश्य कौतुकम्’ (पञ्चत० ५।१५) । संवाह्यते=ह्रियते।
  • ‘अमृतस्येव संवाहः प्रभाचन्द्रमसो यथा’ (हरि० ३ ५।२) । संवाहः=प्रवाहः।
  • ‘संस्त्यानविशेषा ह्येते ग्रामो घोषो नगरं संवाह इति’ (पा० ७।३।१४ इत्यत्र भाष्ये)। प्राकारपरिखायुक्तस्तु श्रेणिधर्मान्वितो देशः संवाह इति कैयटः। विपणिरिति मोनियर ।
  • ‘शाखानगरमुख्यानां संवाहानां शतानि च’ (हरि० २।९१।९)। संवाहाः सप्राकाराण्युद्यानानीति नील०।
  • ‘वायुर्घोषवान् भूमौ वा तृणसंवाहः’ (आप० ध० १।३।११।८) । तृणान्युत्क्षिप्य गमयतीति तृणसंवाहः।
  • ‘इत्येष तेन संवाहो गृहकृत्ये प्रवर्तितः’ (राज० ५।१७५) । संवाहः=लुण्ठिः=आमर्शनम्=आच्छेदनम्। बाधो वा।
  • ‘समूढमस्य पांसुरे’ (अथर्व० ७।२७।४)। पांसुमति पदे समूढं सम्यगवस्थितम् इत्यर्थः। समूढमसमूढं
  • ‘वा यत्रामेध्यं न लक्ष्यते’ (बौ० ध० १।५।१०।१) । समूढं सम्मार्जन्या एकत्र राशीकृतम्।
  • ‘नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम्। मञ्जूषामष्टचक्रां तां समूहस्ते कथं चन’ (रा० १६७।४)॥ समूहुः=उन्नमितवन्तः, उत्थापितवन्तः।
  • ‘यथा गोमयान्कुर्विति संवाहे’ (मी० शा० भा० १।१।६।१४)। संवाहः समाहारः।
  • ‘स्वात्मानमैक्षत समूढमुपात्तनिद्रा’ (शं० दिग्० २।६४)। समूढं सम्यगूढम्।

विज्

  • {संविज्}
  • विज् (ओविजी भयचलनयोः)।
  • ‘उद्वेपय सं विजन्ताम्’ (अथर्व० ११।९। १२)। स्वस्थानाद् विचलिता भवन्त्वित्याह।
  • ‘यथा श्येनात् पतत्त्रिणः संविजन्ते’ (अथर्व ० ५।२१।६)। संविजन्ते=उद्विजन्ते=त्रस्यन्ति।
  • ‘मा भेर्मा संविक्थाः’ (वा० सं० ६।३५)। मा संविक्थाः=मा संविजिष्ठाः=मा विचालीः।
  • ‘यथा मृगाः संविजन्त आरण्या पुरुषादधि’ (अथर्व ० ५।२१।४)। संविजन्ते=अपधावन्ति, आत्मपरीप्सया त्वरन्ते।
  • ‘श्रुत्वा जरां संविविजे महात्मा’ (बुद्ध० ३।३४)। संविविजे=विव्यथे=विचचाल=व्याकुलो बभूव।
  • ‘विसृज्य सशरं चापं शोकसंविग्नमानसः’ (गीता १।४७)। शोकव्याकुलितचेताः ।
  • ‘किर्मीरवधसंविग्नो बहिर्दुर्योधनो ययौ’ (भा० वन० १०।३९)। उक्तोऽर्थः ।
  • ‘हृन्मर्मेभेदिपतदुत्कटकङ्कपत्रसंवेगतत्क्षणकृतस्फुटदङ्गभङ्गा’ (ताटका) (महावीर० १।३९)। संवेगः=वेगः।
  • ‘पूररेचकसंविग्नवलिवल्गुदलोदरम्’ (रूपम्) (भा० पु० ४२।४।५०) । संविग्ना इतस्ततश्चलिता वलयः। प्रायेण संविजिस्त्रासकृतमपसरणमाह न तु चेष्टामात्रम्।

विद्

  • {संविद्}
  • विद् (विद ज्ञाने)।
  • ‘समु वा इमे प्राणा बिद्रे ये चेभे ये चेमे’ (ऐ० ब्रा० ३।६)। संविद्रे=संविद्रते=संगच्छन्ते। शिरस्याः सप्त ये प्राणा ये त्रयोऽपाञ्च एव ते। स्वस्थानस्थाः संगताश्च भवेयुर्देहपोषदाः॥ इति तत्र षड् गुरुशिष्यवचनम्।
  • ‘यो वा रसान्न संवेत्ति’ (सुश्रुते १।११३।११)। संवेत्ति=अनुभवति।
  • ‘इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्राः संविदध्वं यथावत्’ (भा० आदि० ५६।१)। अनुमन्यध्वमित्याह।
  • ‘ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम्’ (भा० शा० २८०।२८)। संविदन्ति=अभ्युपगच्छन्ति।
  • ‘अम्ब निष्पर समरीर्विदाम्’ (श० ब्रा० ३।९।४।२१)।
  • ‘एष याजुषो मन्त्रः’ (वा० सं० ६।३६)। अरीः प्रजाः संजानताम् ऐकमत्यमधिगच्छन्त्वित्याह।
  • ‘अप शत्रून् विध्यतां संविदाने आर्त्नी इमे’ (वा० सं० २९।४१) । संविदाने=परस्परं संकेतं कुर्वाणे।
  • ‘यमेन त्वं यम्या संविदाना’ (वा० सं० १२।६३)। संविदाना=ऐकमत्यं गता।
  • ‘वर्षति हैव तत्र यत्रैवमृत्विजः संविदाना यज्ञेन चरन्ति’ (श० ब्रा० १।५।२।१९)। संविदानाः संजानानाः।
  • ‘अङ्गिरोभिः पितृभिः संविदानः’ (ऋ० १०।१४।४)। संजानानः=ऐकमत्यं गतः।
  • ‘त्वं सोम पितृभिः संविदानः’ (ऋ० ८।४८।१३)।
  • ‘तन्मृत्युना निर्ऋतिः संविदाना’ (अथर्व ७।७३।१)। उक्तोऽर्थः।
  • ‘तौ हाऽसंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः’ (छां० उ० ८।७।२)। विप्रतिपद्यमानावेवेत्याह।
  • ‘असंविदानस्य ममेश संविदाम्’ (कि० १८।४२)। असंविदानः=अज्ञः।
  • ‘तत् किमित्यसंविदानेव जामात्रे कुप्यसि’ (उत्तर० ७)। उक्तोऽर्थः।
  • ‘संवित्तः सहयुध्वानौ तच्छक्तिं खरदूषणौ’ (भट्टि० ५।३७)। संवित्तः सम्यग्जानीतः।
  • ‘कृत्वा कुशलसंयुक्तां संविदं च यथावयः’ (भा० शल्य० ३४।१६)। संवित्=परिचयः।
  • ‘अकरोत्संविदं तेन पाण्डवेन महात्मना’ (भा० उ० १६७।३७)। संवित्=मैत्री।
  • ‘रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम्’ (भा० शां० ५३।२०) । संवित्… प्रतिष्ठित आचारः शास्त्रदृष्टो विधिर्वा।
  • ‘प्रसादिनोऽनुज्झितगोत्रसंविदः’ (शिशु० १२।३५)। गोत्रसंवित्=कुलाचारः।
  • ‘रहसि सविदो या हृदिस्पृशः’ ( )। संविदः संलापाः।
  • ‘कृत्वा स्त्रीभिस्तु संविदम्’ (भा० सभा० ५८।३४)। उक्तोऽर्थः।
  • ‘यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा’ (भा० पु० १।३।३३)। स्वसंविदा=आत्मानुभवेन।
  • ‘त्वत्स्नेहसंविदवलम्बितजीवितानि’ (मालती० ६।१३)। संवित्=ज्ञानम्।
  • ‘स राजलोकः कृतपूर्वसंवित्’ (रघु० ७।३१) । संवित् संकेतः।
  • ‘स्तुतीरलभमानानां संविदं वेदनिश्चितान्’ (भा० शां० १५१।६)। संविद्=दर्शनैक्यम्।
  • ‘सनेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम्’ (भा० द्रोण० १२७।२)। संविद्=ज्ञप्तिः=ज्ञापनम्।
  • ‘ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित्’ (हरि० १।३०।१२)। संविदम्=स्वास्थ्यज्ञानोपायम् (नील०)।
  • ‘यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम्’ । (भा० वि० २२।५)। संविदम्=संकेतम्।
  • ‘संवित् क्रियाप्रतिज्ञायामाचारे ज्ञानगह्वरे। संभाषणे क्रियाकारे संकेते नाम्नि भाष्यते’ (मेदिनी)॥
  • ‘श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी’ (कि० ११।३४)। सुखसंवित्तिः=सौख्यानुभवः=सुखास्वादः।**
  • ‘पश्चाच्छिष्यसकाशात्तु कालः संविदितो मया’ (हरि० १।१९।२२)। संविदितो विदितः। नार्थः समा।
  • ‘वाग्घ्यष्टमी ब्रह्मणा संवित्ते’ (बृह० उ० २।२।३)। संवित्ते संवादं करोति।
  • ‘न चायं स्मर्ता सर्वं स्मृतिहेतुं संवेदयते’ (न्याभा० ३।२।३४)। संवेदयते चेतयतेऽनुभवति।
  • ‘यो अनूचानो ब्राह्मणो युक्त आसीत् का स्वित् तत्र यजमानस्य संवित्’ (ऋ० ८।५८।१ वालखिल्ये)। संवित् प्रज्ञा। तत्र यजमानस्य प्रज्ञापाटवेन नार्थ इति भावः।
  • ‘कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम्’ (दुर्गा० १।२८)। संविदं संभाषाम्।
  • ‘अबुधैः कृतमानसंविदस्तव पार्थैः कुत एव योग्यता’ (शिशु० १६।४७)।** संवित् तोषणम्। संवित् स्त्रियां प्रतिज्ञायां सङ्केताचारनामसु। संभाषणे तोषणे चेति विश्वः।**
  • ‘संविदा देयम्’ (तै० उ० १।११।३)। संविन्मैत्री।

विश्

  • {संविश्}
  • विश् (विश प्रवेशने)।
  • ‘इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु’ (ऋ० १०।१८।७)। संविशन्तु=अनुपदमागच्छन्तु।
  • ‘सं त्वा विशन्त्वोषधीरुतापः’ (वा० सं० ८।२५)। प्राप्नुवन्त्वित्यर्थः ।
  • ‘समाप्तायां संविशन्ति दक्षिणैः पार्श्वैः’ (गो० गृ० ३।९।१८)। संविशन्ति=प्रविशन्ति। अग्निपरिजनयोर्मध्य आगच्छन्तीति सामश्रमी।
  • ‘जघनार्धन च पशुरुच्च तिष्ठति सं च विशति’ (श० ब्रा० ८।२।४।२०) । संविशति=निषीदति।
  • ‘तदाऽग्निमिद्धं भगवान् संविवेश महावने’ (भा० आदि० १७६।४६)। संविवेश प्रविवेश।
  • ‘तृतीयेन ज्योतिषा संविशस्व’ (ऋ० १०।५६।१)। संगतो भवेत्याह।
  • ‘पर्यंटेत्कीटवद् भूमिं वर्षास्वेकत्र संविशेत्’ (लघु वि० स्मृ० ४।५)। संविशेत्=तिष्ठेत्=वसेत्।
  • ‘पश्चादग्नेरुदगग्रेषु दर्भेषु प्राक्शिराः संविशति’ (गो० गृ० २।६।१०)। संविशति=स्वपिति्।
  • ‘क्रमेण सुप्तामनु संविवेश’ (रघु० २।२४)।
  • ‘चरमं संविशति या प्रथमं प्रतिबुध्यते’ (भा० सभा० २१७७)। उक्तोऽर्थः।
  • ‘तस्माद्युग्मासु पुत्त्रार्थी संविशेदार्तवे स्त्रियम्’ (मनु० ३।४८)। संविशेत्=गच्छेत्। स्त्रिया मिथुनी भवेदिति यावत्।
  • ‘षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत्’ (याज्ञ० १।७९)।
  • ‘स तत्र संविवेश केदारखण्डे, शयाने च तथा तस्मिंस्तदुदकं तस्थौ’ (भा० आदि० ३।२४)। संविवेश=शिश्ये=निपेदे । इह स्वापो नार्थः, किन्तर्हि स्वापार्थं विश्रमार्थं वा यथा कायप्रणिधानम् भवति तथा कायं प्रणिदध इति विवक्षितम्।
  • ‘विधिं ह्याद्यं विधयः संविशन्ति’ (भा० अनु० ७२।५५)। समाविशन्तीत्यर्थः।
  • ‘दृष्टं श्रुतमसद् बुद्ध्वा नानुध्यायेन्न संविशेत्’ (भा० पु० ९।१९।२०)। संविशेत्=निर्विशेत्=भुञ्जीत । अपूर्वोऽन्यत्रादृष्टपूर्वः कविकल्पितोऽर्थः। अनुध्यायेदित्यत्रानुरप्यस्थाने।
  • ‘अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी’ (वि० पु० ६।५।३३)। संवेश्यते=उपवेश्यते।
  • ‘आ न्याय्यादुत्थानादा न्याय्याच्च संवेशनात् । एषोऽद्यतनः कालः’ (पा० १।२।५७ सूत्रे वृत्तौ)। संवेशनं स्वापः शयनम्।
  • ‘गृहसंवेशको दूतो वृक्षारोपक एव च’ (मनु० ३।१६३)। गृहसंनिवेशोपदेशको वास्तुविद्योपजीवी (कुल्लूकः) ।
  • ‘वाग्यतो नैकवस्त्रश्च नासंविष्टः कदा चन । भूमौ सदैव नाश्नीयात्…’ (भा० अनु० १०४।९६)॥ असंविष्टोऽशयानोऽनिपद्यमानः। नासंविष्ट इति सुप्सुपासमासः। अनिपद्यमान इत्यर्थः। (अश्नीयादित्यध्याहारः)।
  • ‘न चास्य (गुरोः) सकाशे संविष्टो भाषेत।’ उक्तोऽर्थः।
  • ‘अनिपद्यमानमिति न ह्येष कदाचन संविशति’ (ऐ० आ० २।१।६)। संवेशनं व्यापारोपरमः। एष प्राणः।
  • ‘नार्द्रपादस्तु संविशेत्’ (मनु० ४।७६)। संवेशनं शयने गात्रसंयोजनमिति मेधातिथिः।
  • ‘संवेशाय त्वोपवेशाय त्वा’ (तै० ब्रा० १।४।६।४)। सम्प्राप्यावस्थितिः संवेशः।
  • ‘यावद् वस्त्रं च वेणीं च विस्रस्तां संवृणोम्यहम्’ (कथा० ६४।३८)। संवृणोमि व्यवस्थापयामि, समादधामि।
  • ‘ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा’ (सुश्रुत० शारीर० ३।७)। संव्रियते संकुचति। योनिर्गर्भाशयः।
  • ‘मुहुरङ्गुलिसंवृताधरोष्ठम्’ (शा० ३।२५)। संवृतं पिहितमाच्छादितम्।
  • ‘तस्य संवृतमन्त्रस्य’ (रघु० १।२०)। संवृतो गोपितः।
  • ‘ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः। संवृतं समरे भीष्मं देवैरपि दुरासदम्’ (भा० भीष्म० ८४।४३)॥ संवृतं वेष्टितं परिक्षिप्तम्।
  • ‘दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् संवरणस्रजेव’ (रघु० ६।८०)। संवरणमित्यत्र सम्शब्दो विरुद्धमतिकृदिति सुत्यजः।
  • ‘अहो महाकवयोपि च्छन्दोवशगा वाचमाकुलयन्ति। संवरणं हि तत्’ (मालती० १)। संवरणं गोपनम्।
  • ‘याति विकृतिमपि संवृतिमत् किमु यन्निसर्ग-निरवग्रहं मनः’ (शिशु० १५।११)। संवृतिर्विकारगुप्तिः, तद्वत्। धीरमित्यर्थः।
  • ‘प्राणेनोदीर्य तत्राथ पुनः संवेशयेत्स्वरम्’ (भा० पु० ११।१४।३३)। संवेशयेत् स्थिरी कुर्यात्, व्यवस्थापयेत्।

वृ

  • {संवृ}
  • वृ (वृञ् वरणे, वृङ् संभक्तौ)।
  • ‘राज्ञो लोचने संवृणोति’ (विक्रम०)। आच्छादयति।
  • ‘संवरिषीष्ठास्त्वं गच्छ शत्रोः पराक्रमम्’ (भट्टि० ९।२७)। संवरिषीष्ठाः=उपरुध्याः।
  • ‘यावद् वस्त्रं च वेणीं च विस्रस्तां संवृणोम्यहम्’ (कथा० ६४।३८)। संवृणोमि=व्यवस्थापयामि।
  • ‘अश्मसहिता धाराः संवृण्वत्यः समन्ततः (भा० वन० १०९८१)। आच्छादयन्त्य इत्यर्थः।
  • ‘अयमु त्वा विचर्षणे जनीरिवाभिसंवृतः। प्र सोम इन्द्र सर्पतु’ (ऋ० ८।१७।७)। अभिसंवृतः=समन्तादाच्छादितः।
  • ‘न मदनो विवृतो न च संवृतः’ (शा० २।१२)।
  • ‘रजसा संवृतं तेन नष्टज्योतिरभून्नभः’ (भा० वन० ११।१३)।
  • ‘असंवृतायां भूमौ’ (रा० ५।२१।४)। अनन्तर्हितायाम् अव्यवहितायां शय्याद्यनुपहितायामित्यर्थः।
  • ‘अयं पट: संवृत एव शोभते’ (मृच्छ० २।१०)। मञ्जूषादिषु गोपित इत्यर्थः।
  • ‘युद्धाद् ब्राह्मणसंवृतात्’ (भा० आदि० १६०।३५)। ब्राह्मणैः संव्रियत इति ब्राह्मणसंवृतम्। यत्र ब्राह्मण अपि क्षत्रियैः समं युध्यन्ते, तस्मात्। समानार्थः। वरणेर्थे समोऽप्रसिद्धेश्च।
  • ‘ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ’ (भा० वि० ५२)। संवर्तुम्=संवरीतुम्=गोपायितुम्।
  • ‘धृतराष्ट्रोपि राजेन्द्र संवृतः सर्वकौरवैः’ (भा० वन २५६।२१)। संवृतः=परिवृतः=परिगतः=परिक्षिप्तः=परिवेष्टितः।
  • ‘ब्रह्मवादी पुण्यमतिः काम्यः संवृतमैथुनः’ (हरि० १।२६।३)। निरुद्धमैथुन इत्याह।
  • ‘यज्ञे संवृतश्चेत्’ (गौ० ध० १।५।४०)। संवृतः=वृतः=आहूतः।
  • ‘ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामादधामि’ (अथर्व० १८।३।३४)।
  • ‘अन्यदसंवृतम्’ (बौ० ध० २।१०।१७।२० इत्यत्र गोविन्दस्वामिविवरणम्)। असंवृतम्=उत्तानम्=स्पष्टम्।
  • ‘वर्षतां जलदानां च तोयमत्युल्बणं निशि । संवृत्यानुययौ शेषः फणैरानकदुन्दुभिम्’ (वि० पु० ५।३।१७)। संवृत्य=निवार्य।
  • ‘वदति संवृतिरेव कामितानि’ (कि० १०।४४)। संवृतिः=गोपनं निह्नव इत्यर्थः।
  • ‘प्रत्यग्रापनीतसंयमनस्य भवतोऽलघुसंवारा गतिः’ (मच्छ० ७।६)। संवारो विघ्नः।

वृज्

  • {संवृज्}
  • वृज् (वृजि वृजी वर्जने)।
  • ‘ते सर्वं यज्ञं समवृञ्जत’ (श० ब्रा० (११।५।९।४)। आच्छिद्य स्ववशेऽकुर्वन्नित्याह।
  • ‘ते देवा अकामयन्त। कथं न्विममपि (भागं) संवृञ्जीमहि योऽसुराणाम्’ (श० ब्रा० १।७।२।२३)। वशे कुर्वीमहि, विन्देमहि। - ‘स इदं सर्वं संवृङ्क्ते’ (श० ब्रा० ५।१।१।१४)। उक्तोऽर्थः।
  • ‘अथो ह यो द्विषतो भ्रातृब्यात् संविवृक्षेत… हैवास्माद् वृङ्क्ते’ (श० ब्रा० १२।४।४।३)। वृजिरिहाकर्मकः।
  • ‘यदाप उच्छुष्यन्ति वायुमेवापियन्ति। वायुर्ह्येवैतान् सर्वान् संवृङ्क्ते’ (छां० उ० ४।३।२)। अपियत एतानग्न्यादीन्संकलय्य स्वयं धत्त इत्यर्थः।
  • ‘ततो देवाः सर्वं यज्ञं संवृज्याथ यत्पापिष्ठं ’ (श ब्रा० १।९।२।२५)। उक्तार्थः।
  • ‘कथं न्वहमेषामिमाः क्षियः संवृञ्जीयेति’ (जै० ब्रा० २।१३९)। संवृञ्जीय आच्छिन्द्यां संविभजेय।

वृत्

  • {संवृत्}
  • वृत् (वृतु वर्तने) ।
  • ‘हिरण्यगर्भः समवर्तताग्रे’ (ऋ० १०।१२२।१)। अजायतेत्यर्थः।
  • ‘शीर्ष्णो द्यौः समवर्तत’ (ऋ० १०।९०।१४)। उक्तोऽर्थः।
  • ‘तच्छश्वत्संवर्तते’ (छां० उ० ८।१३।२)। संवर्तते=विद्यते।
  • ‘लवणमिश्रितं तिष्ठत्येवेत्याह । तत्र संवर्तते रात्रिः’ (हरि० १।८।२)। अवतरति रजनीत्यर्थः।
  • ‘सस्वेदा भ्रकुटी चोग्रा ललाटे समवर्तत’ (भा० वि० १६।१५)। अजायतेत्यर्थः।
  • ‘काः कथाः समवर्तन्त तस्मिन्वीरसमागमे’ (भा० शां० ५४।३)। समवर्तन्त=प्रावर्तन्त।
  • ‘शनकैर्मध्याह्नः समवर्तत’ (कथा० १०४।२०२)।
  • ‘प्राप्ते च प्रहरेत्काले न च संवर्तते पुनः। हन्तुकामस्य देवेन्द्र पुरुषस्य रिपून्प्रति’ (भा० शां० १०३।२०)॥ न संवर्तते (कालः)=नोपसम्पद्यते।
  • ‘कौरवाः समवर्तन्त जिगीषन्तो महाबलाः’ (भा० भीष्म० १।३)। समवर्तन्त=समवायन्।
  • ‘युद्धाय समवर्तन्त समाहूयेतरेतरम्’ (भा० भीष्म० ८७।२५)।
  • ‘तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ’ (भा० उ० १९।२७)। संवर्तते जनपदः (वा० प० वृषभ० टी०)। सर्वत्र समवाय एकीभावगमनमर्थः।
  • ‘यत्संवर्तते साऽऽमिक्षा यदन्यत्तद् वाजिनम्’ (आप० श्रौ० ८।१।२।६)अ। संवर्तते=घनी भवति।
  • ‘संवर्तते च भैषज्यमङ्गुलिभ्यां मृद्यमानम्’ (चरके वि० ७।३०)। संवर्तते=वर्तिवद् भवति।
  • ‘सं ते वज्रो वर्ततामिन्द्र गव्युः’ (ऋ० ६।४१।२)। संवर्तताम्=इतोऽभिवर्तताम्।
  • ‘मा संवृतो मोपसृपः’ (अथर्व० ८।६।२) मा संवृतः=माऽभिवर्तस्व। संवृतः इति सम्पूर्वस्य वृतेर्लुङि रूपं माङ्युपपदेऽनागमकम। अतो यथोक्तमर्थः, न तु संवृतिं संकोचं मा कार्षीरिति।
  • ‘सोऽयं विधिर्विहितः कर्मणैव संवर्तते तत्र कर्म (भा० उ० २९।८)। संवर्तते=उच्छिद्यते। संपूर्वो वृत्तिरुच्छेदेपि वर्तते । संवर्तः प्रलयो भवति।
  • ‘नत्वेव मन्ये पुरुषस्य कर्म संवर्तते सुप्रयुक्तं यथावत्’ (भा० उ० ३२।२६)। संवर्तते=फलवज्जायते। फलेन सम्पद्यत इत्यर्थः।
  • ‘मिथः कामात् सांवर्तेते स गान्धर्वः’ (आप० ध० २।५। ११।२०)। सांवर्तेते=संवर्तेते (छान्दसो दीर्घः)=मिथुनी भवतः।
  • ‘यथाऽयं वाहो अश्विना समैति सं च वर्तते’ (अथर्व० ६।१०२।१)। संवर्तते सम्यक् तदधीनं वर्तते।
  • ‘संवर्तयति मुष्टिम्।’ संगृह्णातीत्यर्थः। मुष्टिं बध्नातीति वा। मुष्टिसङ्ग्राहो मुष्टिबन्धो भवति।
  • ‘ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः। मुष्टिनाभिजघानैनाम्…’ (रा० ५।३।४०)। मुष्टिं संवर्तयासास वज्रकल्पं महाबलः (रा० ६।७६।२५)।
  • ‘यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः। तथा कालवशं यान्ति भूतानि भरतर्षभ’ (भा० स्त्री० २।९)॥ संवर्तयति, उत्सादयति, उच्छिनत्ति, भनक्ति।
  • ‘उभे यत्समवर्तयद् इन्द्रश्चर्मेव रोदसी’ (ऋ० ८।६।५)। समवर्तयत्=सममेलयत्।
  • ‘उषा अप स्वसुस्तमः संवर्तयति वर्तनिं सुजातता’ (अथर्व० १९।१२।१)। संवर्तयति=सम्यङ् निवर्तयति।
  • ‘इन्द्रासोमा वर्तयतं दिबो वधं सम्’ (अथर्व० ८।४।४)। संवर्तयतम्=एकधैव प्रवर्तयतम्।
  • ‘पश्येयमिति तस्याश्च कामः संवर्त्यतामिति’ (रा० ७।४६।२३)। संवर्त्यताम्=निर्वर्त्यताम्=साध्यताम्=पूर्यताम्।
  • ‘इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम्’ (अथर्व० ८।६।१६)। संविवृत्सति=संवर्तनं मैथुन्यं कर्तुमिच्छति॥
  • ‘सोऽन्तरोरू असंवर्तमानः शेते’ (श० ब्रा० १३।४।१।९)। असंवर्तमानः=असंलग्नः=असम्पृक्तः।
  • ‘अधः संवेशनौ असंवर्तमानौ सह शयाताम्’ (जै० गृ० २०।६)। अमिथुनी भवन्तौ।
  • ‘संवर्तमानं हृदयं समाविशति यत्पुरा’ (चरके सूत्र० ३०।९)। संवर्तमानं जायमानम्।
  • ‘अर्को वृक्षो भवति संवृत्तः कटुकिम्ना’ (नि० ५।४।६)। संवृत्तः=संगतः संव्याप्तः।
  • ‘त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम’ (रा० ३।१५।२९)। संवृत्तः=मृतः। न संवृत्तः=न संस्कृत इति तु कतकः। नैष शब्दमर्यादालभ्योर्थः।
  • ‘ते तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ’ (भा० वन० १८५।१९)। संवृत्ताः समवेताः।
  • ‘क्षणभूतेव नौ रात्रिः संवृत्तेयं महातपः’ (रा० १।४५।३)। संवृत्ता=गता=समाप्ता।
  • ‘संवृत्तं शोणितं तत्र मारुतो विषमं गतः’ (का० सं० खिल० रक्तगुल्म० श्लो० २८)।
  • ‘मर्त्या अमर्त्याः संवृत्ताः’ (भा० आदि० १९७।६)। अमर्त्यभावं प्राप्ता इत्यर्थः
  • ‘दृष्टदोषापि स्वामिनि मृगया केवलं गुणायैव संवृत्ता’ (शा० २)। संवृत्ता=परिणता।
  • ‘संवृत्तो मनोरथः।’ फलित इत्यर्थः।
  • ‘अपूरयन्नभः शब्दो बलसंवर्तसंभवः’ (भट्टि० १७।५६)। सैन्यैकीभावोत्पन्न इत्यर्थः।
  • ‘अपरेद्युस्त्रींस्त्रीन् पुरोडाशसंवर्तांश्चतुष्पथेप्यवचरति’ (कौ० सू० ३०।१८)। संवर्त्ताः=पिण्डाः।
  • संवर्तम् (भा० शल्य० ५७।१९)। संवर्तः शत्रुप्रसरणस्यावरोधनं भवति।
  • ‘पर्यायात् क्षणदृष्टनष्टककुभः संवर्तविस्तारयोः’ (महावीर० ५।१)। संवर्तः=संकोचः, आकुञ्चनम्।
  • ‘संवर्ताग्निः सन्दिधक्षुर्यथैव’ (अभि० १।१३)। संवर्तः=प्रलयः।
  • ‘मत्स्यबन्धैरन्तः स्रोतो निरुध्य प्रक्षिप्तं संवर्तजालम्’ (तन्त्रा० १।१२)। संवर्तः संग्रहः।
  • ‘अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च। अप्रयत्नेन पश्यामः’ (भा० शां० २२२।२०)। संवृत्तिः=तिरोधानं नाशः।
  • ‘अदृच्छायामसंवृत्तौ गतिरेव तस्मिन्’ (आप ध० १।४।१४।५)। असंवृत्तिः=असिद्धिः।
  • ‘गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति’ (आप० ध० १।२।५।९)। अध्ययनसंवृत्तिः=अधीतस्य वेदस्याभ्यासः।
  • ‘संवर्त्तिका नवदलम् इत्यमरः।’ संवर्तयति वेष्टयतीति संवर्तिकेति स्वामी।
  • ‘स्मरेन्धने वक्षसि तेन दत्ता संवर्तिका शैवलवल्लिचित्रा’ (नै० ८।७६)।
  • ‘अनुष्ठितं च संवृत्त्य विशेषेणोपपादयेत्’ (का० नी० सा० १२।३६)। संवृत्त्य=साधु वर्तित्वेति जयमङ्गला। कुशलैः संवाद्येत्युपाध्यायनिरपेक्षा।
  • ‘चित्रतन्तुविरचितः संवर्तनविवर्तनसहिष्णुः’ (ध्वन्य० लो०)।
  • ‘संवर्तयंस्तमः सूर्यात्’ (बृ० दे० २।६३)।
  • ‘संवर्तयन्तो वि च वर्तयन्नहा’ (ऋ० ५।४८।३)।
  • ‘संवर्तयन्’ (रा० ४।२७।४८)। संवर्तयन्=क्षपयन् (उक्तकालं चतुरो मासान्)।
  • ‘संवर्तयन्तः शैलेषु वानरा विविधांस्तरून्’ (रा० ४।४७।६)। संवर्तयन्तः=भञ्जन्तः=उद्वर्तयन्तः=ध्वंसयन्तः।
  • ‘स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव सर्वलोकान्’ (भा० भीष्म० ५९।९४)। **संवर्तयिष्यन्=संहरिष्यन्।
  • ‘संवर्तयितुमर्हसि। यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः’ (रा० १।६९।१२-१३)। संवर्तयितुम्=निर्वर्तयितुम्।
  • ‘संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत’ (रा० १।१६।२४)। संवर्तयित्वा=समाप्य।
  • ‘चिताग्निरिव जज्वाल कोपसंवर्तितेक्षणः’ (रा० ५।४२।२२)। कोपेन संवर्तिते विवर्तिते ईक्षणे यस्य सः।
  • ‘तच्छश्वत् संवर्तते’ (छां० ६।१३।३)। तदुदकेऽभिप्रास्तं लवणमद्यापि सुष्ठु वर्तत इत्याह।
  • ‘सं ते वज्रो वर्ततामिन्द्र गव्युः’ (तै० ब्रा० २।४।३।१३)। संवर्ततां सम्यग् वर्तताम्।
  • ‘ओजस्तदस्य तित्विष उभे यत् समवर्तयदिन्द्रश्चर्मेव रोदसी’ (अथर्व० २०।१०७।२)। समवर्तयत् संयुते अकरोत्।
  • ‘अङ्गदो मुष्टिमात्मनः। संवर्तयत्सुसङ्क्रुद्धः’ (रा० ६।९८।२०)॥ संवर्तयत् समवर्तयत् समगृह्णात्, अबध्नात्।
  • ‘तेषां कोटिसहस्राणां सहस्रं समवर्तत’ (रा० ४।३७।२३)। समवर्तत समवैत्।
  • ‘चितां चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः। ब्राह्म्या संवर्तयामासू राङ्कवास्तरसंवृताम्’ (रा० ६।१११।११३)। संवर्तयामासुः=निर्वर्तयामासुः=सम्पादयामासुः=रचयामासुः।
  • ‘संवर्तमानाः समरे सन्दष्टोष्ठपुटा जनाः’ (मात्स्य० १७७।३०)। संवर्तमानाः समासीदन्तः।
  • ‘संवर्तयन् शत्रुवधे समुद्यतः’ (रा० ४।२७।४८)। मृगराजादीन् नाशयन्। संवर्धयन् शत्रुवधे समुद्यममिति पाठान्तरमिति भूषणकारः।
  • ‘अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्य इतस्ततः’ (रा० ६।८३।३२)। संवृत्तेभ्यः समुदितेभ्यः समाहृतेभ्यः।
  • ‘कोपसंवर्तितेक्षणः’ (रा० ५।३८।२९)। कोपेन संवर्तिते विवर्तिते ईक्षणे यस्य सः।
  • ‘उदरे संवर्तधानीं …उपनिदधाति’ (जै० ब्रा० १।४८)। संवर्ताः पुरोडाशपिण्डाः।

वृध्

  • {संवृध्}
  • वृधु (वृधु वृद्धौ) ।
  • ‘संवर्धता गोपकुले बालेनैव महात्मना’ (भा० द्रोण ११।२)। संवर्धता=संवर्धमानेन शरीरपोषमाप्नुवता।

वृह्

  • {संवृह्}
  • वृह् (वृह वृहि वृद्धौ, वृहू उद्यमने)।
  • ‘आ ययाम संववर्ह ग्रन्थींश्चकार ते दृढान्’ (अथर्व० ९।३।३)। संववर्ह=संयोजयामास, संश्लिष्टांश्चकार।
  • ‘व्यूढप्रहरणोरस्कं सैन्यं तत् समवृंहयत्’ (भा० द्रोण० ४।१६)। समवृंहयत्=अद्रढयत्=सम्प्राहर्षयत्।
  • ‘यथा महासुहयः सैन्धवपड्वीशशङ्कून्संवृहेदेवं हैवेमान् प्राणान्संववर्ह’ (श० ब्रा० १४।९।२।१३)। संवृहेत्=आवृहेत्=उद्धरेत्=समुद्धरेत्।

वेष्ट्

  • {संवेष्ट्}
  • वेष्ट् (वेष्ट वेष्टने)।
  • ‘स्वं ह्यैव कोपात्पृथिवीमपीमां सं वेष्टयेः’ (भा० वन० १०२६४)। संवेष्टयेः=संकोचयेः।
  • ‘दिवं देवेन्द्र पृथिवीं च सर्वां संवेष्टयेस्त्वं स्वबलेनैव शक्र’ (भा० आश्व० ९।२८)।

व्यध्

  • {संव्यध्}
  • व्यध् (व्यध ताडने)।
  • ‘संव्याधे यूपेन च स्फ्येन च ब्राह्मणा रथेन च शरेण च राजन्यबन्धवः’ (श० ब्रा० १।२।४।२)। संव्याधे सम्प्रहारे।

व्ये

  • {संव्ये}
  • व्ये (व्येञ् संवरणे)।
  • ‘वासो अग्ने विश्वरूपं संव्ययस्व विभावसो’ (वा० सं० ११।४०)। संव्ययस्व=परिधत्स्व।
  • ‘त्वक्त्रैः संविव्ययुर्देहान्’ (भट्टि० १४।७४)। आच्छादयामासुरित्याह।
  • ‘तस्मै देवा अमृतं संव्ययन्तु’ (अथर्व० ७।१८।३)। संव्ययन्तु संवृण्वन्तु प्रयच्छन्तु इति सायणः। संव्यानमुत्तरीयं चेत्यमरः।
  • ‘संव्यानानामन्तकान्तः पुरस्य’ (शिशु० १८।६९)। उक्तोऽर्थः।
  • ‘पाण्डुरांशुकसंवीतां शयानां प्रमदामिव’ (बुद्ध० ४।४९)। पाण्डुरांशुकं परिदधानामित्यर्थः।
  • ‘येनैवाम्बरखण्डेन संवीतो निशि चन्द्रमाः’ (बुद्ध० ३।१५)। संवीत=अन्तरितः
  • ‘स्वर्णप्राकारसंवीता’ (लङ्का) (रा० ७।२।५)। संवीता=वेष्टिता=परिगता=परिक्षिप्ता।
  • ‘तस्मै देवा अमृतास् संव्ययन्ताम्’ (तै० सं० ३।३।११।३)। संव्ययन्ताम् वसूनि संहत्य ददत्वित्यर्थः।
  • ‘संवीतासितवाससम्’ (कथा० ७३।२८३)। सितसिचयाच्छन्नम्।
  • पुनरुत्स्यूतो जरत्संव्यायः’ (शां० ब्रा० १।५)। जरत्संव्यायः पुराणं संव्यानं प्रावरणम्।

व्ली

  • {संव्ली}
  • व्ली (व्ली वरणे)।
  • ‘देवानां वै सुवर्गं लोकं यतां दिशः समव्लीयन्त’ (तै० सं० ५।३।२।७)। समव्लीयन्त वृताश्छन्नास्तिरोहिता अभूवन्।

व्रज्

  • {संव्रज्}
  • व्रज् (व्रज गतौ)।
  • ‘यत्रैव संव्रजन्नन्वाहार्यपचनमनुस्मरेत्’ (श० ब्रा० २।३।२।४)। संव्रजन्=विचरन्=पर्यटन्।

व्रश्च

  • {संव्रश्च}
  • व्रश्च (ओव्रश्चू छेदने)।
  • ‘पर्वाण्येषां पर्वशः संव्रश्चम्’ (श० ब्रा० ११।६।१।३)।
  • ‘संव्रश्चमिति णमुलन्तम्। संवृश्च्य खण्डशः कर्तित्वा।**
  • ‘संव्रश्चमोषधिवनस्पतीनां प्रकिरति’ (श० ब्रा० १३।७।१।९)।

शक्

  • {संशक्}
  • शक् (शक विभाषितो मर्षणे, शक्लृ शक्तौ)।
  • ‘न पिशाचैः संशक्नोमि’ (अथर्व० ४।३६।७)। संशक्तोऽनुप्रविष्टो भवामीति सायणः।
  • ‘न बहवः समशकम्’ (अथर्व० १।२७।३)।

शङ्क्

  • {संशङ्क्}
  • शङ्क् (शकि शङ्कायाम्)।
  • ‘क्रुध्यन्तीं मां च सम्प्रेक्ष्य समशङ्कत मां त्वयि’ (भा० वि० १९।१२)।

शप्

  • {संशप्}
  • शप् (शप आक्रोशे)।
  • ‘संशप्तकास्तु समयात्सङ्ग्रामादनिवर्तिनः’ (अमर)।
  • ‘यदाश्रौषं… संशप्तकान्निहतानर्जुनेन तदा नाशंस विजयाय संजय’ (भा० आदि० १।१८९)॥

शम्

  • {संशम्}
  • शम् (शमु उपशमे)।
  • ‘तावत् संशाम्य पाण्डवैः’ (भा० द्रोण० १२२।१९)। शमं गच्छ, सन्धत्स्वेत्यर्थः।
  • ‘वासूदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः’ (भा० द्रोण० ८५।२३)। शमं गच्छ, सन्धत्स्व।
  • ‘सत्त्वं संशाम्यतीव मे’ (भट्टि० १८।२८)। संशाम्यति=नश्यति।
  • ‘बुद्ध्या संशमयन्ति नीतिकुशलाः साम्नैव ते मन्त्रिणः’ (पञ्चत० १।३७६)। विरोधम् इत्यध्याहार्यम्।

शास्

  • {संशास्}
  • शास् (शासु अनुशिष्टौ)।
  • ‘आशिषश्च प्रशिषश्च सशिषो विशिषश्च याः’ (अथर्व० ११।१०।२७)। संशिषः संशासनानि। अत्राह सायण उपसर्गवशाद् धात्वर्थस्य भेदोऽवगन्तव्य इति। हन्त सोऽयमर्थभेदस्तस्यापि चतुर्वेदभाष्यकारस्यानवगतः।
  • ‘ये चैव देवानां शमितारो ये च मनुष्याणां तानेव तत् संशास्ति’ (ऐ० ब्रा० ६।६)। संशासनं प्रेषणम्।
  • ‘पूषा सन्या इति सनीहारान् संशास्ति’ (आप० श्रौ० १०।६।१८।५)। संशास्ति=सम्प्रेष्यति। सनिशब्देनात्र हिरण्यगोवस्त्रादीनि देयद्रव्याण्युच्यन्ते। सनीन् हरन्तीति सनिहाराः। छान्दसो दीर्घः।
  • ‘वीणागाथिनौ संशास्ति’ (आश्व० गृ० १।१४।६)। संशास्ति सम्प्रेष्यति।

शिञ्ज्

  • {संशिञ्ज्}
  • शिञ्ज् (शिजि अव्यक्ते शब्दे)।
  • ‘ते (जुहूपभृतौ) असञ्शिञ्जयन्नाददीत’ (श० ब्रा० ११।४।२।२)। परस्परमसङ्घट्टयन्नित्याह।

शी

  • {संशी}
  • शी (शीङ् स्वप्ने)।
  • ‘यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः’ (अथर्व० २०।१५।२)।
  • ‘सक्तो न बभूव, सङ्गं नापेत्याह।**
  • मा संशयिष्ठा न गदेव वज्रं स्यान्निष्फलम्…’ (भा० पु० ६।११।१९)। संशयं मा कार्षीरित्याह।
  • ‘तमेव स्थाणुं ज्ञातुं संशयितुं वा नेच्छति’ (साङ्ख्यका० ४६ अत्र गौडपादभाष्यम्)। अत्र संशीङ् सकर्मकः प्रयुक्तः।
  • ‘संशय्य कर्णादिषु तिष्ठते यः’ (कि० ३।१४)। क्वचिदर्थे निश्चयमनधिगम्येत्यर्थः। भावाभावप्रकारकं ज्ञानं संशयः।
  • ‘न संशयमनारुह्य नरो भद्राणि पश्यति’ (हित० २।७)। संशयं कृच्छ्रम्, भयम्, संकटम्।
  • ‘अग्निहोत्रादहमभ्यागतास्मि विप्रर्षभाणां संशयच्छेदनाय’ (भा० वन० १८६।२२)। संशयच्छेदनाय=विवादपदनिर्णयाय।
  • ‘आपत्संशयिता श्रेयः’ (रा० ६।५७।११)। संशयिता सांशयिकी।

शॄ

  • {संशॄ}
  • शॄ (शॄञ् हिंसायाम्)।
  • ‘स ᳫ हैन ᳫ शृणाति’ (श० ब्रा० १।१।१।१८)। सम्यग् हिनस्तीत्यर्थः।
  • ‘तमभिपद्य त्रेधा समशृणन्’ (जै० ब्रा० १।९७)। समशृणन् व्यशसन्, व्यकृन्तन्।
  • ‘सं वै गुरुर्भाः शृणाति’ (ऐ० ब्रा० ४।१३)। संशृणाति हिनस्ति। क्षिणोति।

शो

  • {संशो}
  • शो (शो तनूकरणे)।
  • ‘संशितो रश्मिना रथः’ (वा० सं० २३।१४)। सम्पूर्वः श्यतिः शोभने वर्तत इत्युवटमहीधरौ।
  • ‘समहमेषां राष्ट्रं श्यामि’ (अथर्व० ३।१९।२)। संश्यामि तीक्ष्णी करोमि।
  • ‘संशित मे ब्रह्म संशितं वीर्यं बलम्’ (वा० सं० ११।८१)।
  • ‘ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः’ (भा० उ० १८०।२२)। उक्तोऽर्थः।
  • ‘उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः’ (भा० शा० २६५।७)। संशितस्तीक्ष्णव्रत इत्यनर्थान्तरम्। संशितं व्रतम्। सम्यक् सम्पादितमित्यर्थ इति दीक्षितः। संशितो ब्राह्मणः। व्रतविषयकयत्नवान् इति च सः। संशितात्मा । परिणतयज्ञः संयतमना इति वा।
  • ‘सृकं संशाय पविमिन्द्र तिग्मम्।’ (अथर्व० ७।८४।३)। संशाय=सम्यक् तीक्ष्णीकृत्य। संशायेति सम्पूर्वस्य श्यतेर्ल्यपि रूपम्।
  • ‘सैवास्य सेनां संश्यति’ (तै० सं० २।२।८)। संश्यति उत्साहवतीं करोति, उत्तेजयति।

श्रि

  • {संश्रि}
  • (श्रिञ् सेवायाम्)।
  • ‘न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते’ (उत्तर० ६।१२)। संश्रयन्ते=आलम्बन्ते।
  • ‘संश्रयत्येव तच्छीलं नरोऽल्पमपि वा वहु’ (मनु० १०।६०)। संश्रयति=प्राप्नोति।
  • ‘तस्मिन्पुत्रैर्जरसि संश्रयेथाम्’ (अथर्व० १२।३।६)। अकर्मकोऽत्र धातुः।
  • ‘चूतेन संश्रितवती नवमालिकेयम्’ (शा० ४। १२)। संश्रितवती=संगतवती। अत्राप्यकर्मको धातुः।
  • ‘नक्तमासीत संश्रितः’ (लौ० गृ०)। संश्रितः=अपाश्रितः। (इत्यादित्यदर्शनः)।
  • ‘पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा (भा० शां० ८७।२४)। संश्रिताः=साक्षादाश्रिताः।

श्री

  • {संश्री}
  • श्री (श्रीञ् पाके)।
  • ‘तैरात्मानं समश्रीणात्’ (पञ्च० ब्रा० ९।३।७)। समश्रीणात् समस्करोत्। समगमयत्।

श्रु

  • {संश्रु}
  • श्रु (श्रु श्रवणे)।
  • ‘अयाच्यमर्थं न च संशृणोमि’ (भा० वन० १९५।४)। संशृणोमि=प्रतिशृणोमि।
  • ‘त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः’ (भा० भीष्म० १०५।२८)। संश्रूयसे=विश्रूयसे=प्रख्यायसे।**
  • ‘द्विजस्य संश्रुतोर्थो मे जीवयिष्यामि ते सुतम्’ (रा० ७।७६।१२)। संश्रुतः=प्रतिज्ञातः।
  • ‘यत्त्वया संश्रुतं मह्यम्’ (रा० २।१२।४६)। उक्तोऽर्थः।
  • ‘देवानां समयस्त्वेष वसूनां संश्रुतो मया’ (भा० आदि० ९७।२२)।
  • ‘एतत्कार्यममराः संश्रुतं मे’ (भा० उ० ३६।४)। संश्रुतम्=श्रुतम्। अनर्थकः सम्शब्दः।
  • ‘वाच वा को विजानाति पुनः संश्रुत्य संश्रुताम्’ (याज्ञ० ३।१५०)। इहापि समा नार्थः। श्रवणमात्रमर्थः, न प्रतिज्ञानम्। विजानाति=प्रत्यभिजानति।
  • ‘न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः’ (रा० ३।१०।१९)। प्रतिज्ञां जहामीत्यनुषङ्गः। संश्रुत्य=प्रतिज्ञाय। संगीर्य।
  • ‘दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रवः। जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः (रा० ३।५०।३)। सत्यसंश्रवः=सत्यसङ्गरः।
  • ‘असंश्रवे चैव गुरोर्न किञ्चिदपि कीर्तयेत् (मनु० २।२०३) यत्र गुरुर्न शृणोति तत्रासंश्रवे।

श्लिष्

  • {संश्लिष्}
  • श्लिष् (श्लिष आलिङ्गने)।
  • ‘यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम्। एवं कर्म च कर्ता च संश्लिष्टावितरेतरम्’ (पञ्चत० २।१२७)॥
  • ‘वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः’ (शा० ५।२०)। संश्लेषः=आश्लेषः।
  • ‘अपत्यमित्यन्योन्यसंश्लेषणं पित्रोः’ (उत्तर० ३)। संश्लेषणं बन्धनम्।

सञ्ज्

  • {संसञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘प्रान्तेषु संसक्तनमेरुशाखम्’ (कु० ३।४३)। संसक्ताः=सम्पृक्ता नमेरुशाखा यत्र।
  • ‘संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिन्दम्’ (भा० द्रोण० १३२।४१)। **सूतपुत्रेण कर्णेनायोधने व्यापृतमित्याह। संसक्त वदनाश्वासाः=अविरतमुखोच्छ्वासाः। श्रेष्ठिनो वसुरक्षितस्य हर्म्येण संसक्तं देवदत्तस्य गेहकम्। तस्यानन्तरं स्थितमित्यर्थः। तेनाव्यवहितमिति वा।

सद्

  • {संसद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘विमना विफलारम्भः संसीदत्यनिमित्ततः’ (याज्ञ० १।२७४)। संसीदति=दीनमनस्को भवति।
  • ‘न चापि संसीदति न प्रहृष्यति’ (भा० शां० २२६।१५)। संसीदति=विषीदति।
  • ‘द्विशः पात्राणि संसादयति’ (का० श्रौ० २।३।६)। सहैव निदधातीत्याह।
  • ‘गार्हपत्ये तस्य पात्राणि संसादयन्ति’ (श० ब्रा० १।१।२।२३)। उक्तीर्थः।
  • ‘संसाद्यमानोपि नरेण तेन’ (अवदा० जा० २६।६)। संसाद्यमानः=आरुह्यमाणः।
  • ‘संसदमुपयायात्’ (आश्व० गृ० २।६।११)। संसदिति व्यवहारस्थानमुच्यते।
  • ‘एताभिर्वै देवाः स्वर्गे लोके समसीदन् स्वर्गे लोके सीदामेत्येताः’ (पञ्च० ब्रा० २३।१९।२)। समसीदन् आस्पदं लेभिरे।
  • ‘संसादय सुहृज्जनम्’ (रा० ४।११।३४)। संसादय संगच्छ। स्वार्थे णिच्।
  • ‘देवता एवास्मै संसादयति’ (तै० सं० ५।१।४।२०)। संसादयति संगताः स्थापयति।

सन्

  • {संसन्}
  • सन् (वन षण संभक्तौ)।
  • ‘देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये। तुजयेऽ पत्यजननाय चान्नसंसननाय’ (नि० १२।४५।१)। अन्नसंसननायान्नलाभाय।

सस्ज्

  • {संसस्ज्}
  • सस्ज् (षस्ज सङ्गे)।
  • ‘यद्वैकर्तनः कर्णो राक्षसश्च घटोत्कचः। निशीथे समसज्जेतां तद्युद्धमभवत्कथम्’ (भा० द्रोण० १७५।१)। समसज्जेताम्=समागच्छताम्=समासीदताम्।
  • ‘पूर्वापरार्णवनिभे पृतने समसज्जताम्’ (शि० भा० २४।५७)। संसक्ते अभूतामित्यर्थः।
  • ‘उवाचापि प्रहृष्टेव …वाचा संसज्जमानया’ (रा० २।२५।३९)। संसज्जमानया=सगद्गदया।

सह्

  • {संसह्}
  • सह् (षह मर्षणे)।
  • ‘न मानिनी संसहतेऽन्यसङ्गमम्’ (भट्टि० २।६)। अत्र समित्यनर्थकश्छन्दोनुरोधादाश्रितः।

साध्

  • {संसाध्}
  • साध् (राध साध संसिद्धौ)। ‘यत्संसाधयति ते विष्णुक्रमाः’ (आप० ध० २।६।७।९)। संसाधयति=गच्छति।
  • ‘सर्वान्संसाधयेदर्थानक्षिण्वन्योगतस्तनुम्’ (मनु० २।१००)। संसाधयेत्=घटयेत्।
  • ‘यः स्वयं साधयेदर्थमुत्तर्णोधर्मिणकात्’ (मनु० ८।५०)। प्रतिलभेतेत्याह।
  • ‘क्षिप्रं संसाध्यतां कंस: केशो च तुरगाधमः’ (हरि० २।१९।७२)। संसाध्यताम्=हन्यताम्।
  • ‘अयमात्मभवः शोको मामनाथमचेतनम्। संसाधयति वेगेन यथा कूलं नदीरयः’ (रा० २।६४।७४)॥ संसाधयति=नाशयति।
  • ‘केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः। भक्षयन्ति स्म मांसानि’ (भा० आदि० ६९।२८)॥ अग्निना संसाध्य=अग्निना संस्कृत्य।
  • ‘रामः संसाध्य ऋषिगणमनुगमनाद् देशात्तस्मात्…’ (रा० २।११६।२५) संसाध्य=प्रस्धाप्य।

सिध्

  • {संसिध्}
  • सिध् (षिधु संराद्धौ)।
  • ‘जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः’ (मनु० २।८७)। संसिध्येत्=अपवर्गमाप्नुयात्। परमानन्दं विन्देत्।
  • ‘संसिध्यस्व महाबाहो कुरु कार्यमनन्तरम्’ (भा० वन० ३६८।३४)। कृती भव, कृतार्थः स्या इत्याह।
  • ‘संसाधय सुहृज्जनम्’ (रा० ४।११।३४)। आमन्त्रयस्वेत्यर्थः।
  • ‘संसिद्धिं परमां गताः’ (गीता ८।१५)। परर्द्धिर्मोक्षः संसिद्धिः।
  • ‘संसिद्धिः स्वभावे सिद्धौ’ (अजयः)
  • ‘आबालमेव संसिद्धं कर्तुं शक्नोति कोऽन्यथा’ (यो० वा० ६ (उ०) १५६।३१) संसिद्धं स्वभावजम्, सांसिद्धिकम्।
  • ‘यत्संसाधयति ते विष्णुक्रमाः’ (सत्या० श्रौ० २७।२।३०)। संसाधयति अनुव्रजति।
  • ‘…संसिद्धं प्रियराघवम्। सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्’ (रा० २।४०८)। संसिद्धं गमनोद्युक्तम् इति गोविन्दराजः।

सिव्

  • {संसिव्}
  • सिव् (षिवु तन्तुसन्ताने)
  • ‘व्यभ्राजेतां यथा मेघौ संस्यूतौ सूर्यरश्मिभिः’ (भा० द्रोण० १३६।२५)। संस्यूतौ सम्बद्धौ।

सु

  • {संसु}
  • सु (षुञ् अभिषवे)।
  • ‘न पूर्वदीक्षिणः संसवोऽस्ति।’ द्वयोर्बहूनां वा यजमानानां स्पर्धमानानां सम्भूय सोमाभिषवः संसवः।
  • ‘न पूर्वदीक्षिणः संसवोऽस्ति’ (ऐ० ब्रा० १।३)।
  • ‘द्वयो र्बहूनां वा यजमानानां स्पर्धमानानां सम्भूय सोमाभिषवः संसवः’ (आश्व० श्रौ० ६।६।११)।

सूच्

  • {संसूच्}
  • सूच् (सूच पैशुन्ये)।
  • ‘संयोगो हि वियोगस्य संसूचयति स भवम्’ (सुभाषितम्)।

सूद्

  • {संसूद्}
  • सूद् (षूद क्षरणे)।
  • ‘ऊर्जं संसूदेन’ (तै० सं० ५।७।१२।४३)। संसूदः सततक्षरणो नासिकादिः।

सृ

  • {संसृ}
  • सृ (सृ गतौ)।
  • ‘संसरन्ति दिशः सर्वा यशसोऽस्य इवांशवः’ (भा० उ०) ७।१७)। संसरन्ति=व्याप्नुवन्ति।
  • ‘संसारयति कृत्यानि सर्वत्र विचिकित्सते’ (भा० उ० ३३।३४)। संसारयति=(भृत्यादिद्वारा) प्रवर्तयति।
  • ‘सूच्या सूत्र यथा वस्त्रे संसारयति वायकः’ (भा० शां० २१।३६)।
  • ‘आत्मन्यविद्यया क्लुप्तः संसारयति देहिनम्’ (भा० पु० १०।५४।४५)। योनिषु संक्रमयतीत्याह।
  • ‘जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत्’ (मनु० १२।१२४)। संसारयति=भ्रमयति।
  • ‘पापान् संसृत्य संसारान् प्रेष्यतां यान्ति शत्रुषु’ (मनु० १२।७०)। पापान् संसारान्=कुत्सिता गतीः।
  • ‘दर्शनेन विहीनस्तु संसारं प्रतिपद्यते’ (मनु० ६।७४)। संसारं जन्म-मरणप्रबन्धम्।
  • ‘प्राण्युत्पादे संसरणमसम्बाधचमूगतौ। घण्टापथे… (अमरः)॥

सृज्

  • {संसृज्}
  • सृज् (सृज् विसर्गे)।
  • ‘तं मा संसृज वर्चसा’ (ऋ० १०।९।९)। संसृज=संयोजय।
  • ‘सं नः सृज सुमत्या वाजवत्या’ (ऋ० १।३१।१८)।
  • ‘सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन्’ (ऋ० ५।३०।१०)।
  • ‘असृजन्मधुना संमधूनि’ (ऋ० १०।५४।६)।
  • ‘सं वत्सेनासृजता मातरं पुनः’ (ऋ० ११०।८)।
  • ‘तेनेवैनं संसृजति शान्त्यै’ (तै० सं०)। संसृजति युक्ते।
  • ‘शूद्रोप्येवंविधः कार्यो विना मन्त्रेण संस्कृतः। न केन चित् समसृजच्छन्दसा तं प्रजापतिः’ (यमस्मृतौ)॥ समसृजत्=सम्बद्धमसृजत्।
  • ‘संसृज्यते सरसिजैररुणांशुभिन्नैः’ (रघु० ५।६।९)। संसृज्यते-सम्पृच्यते।
  • ‘सौमित्रिणा तदनु संससृजे’ (रघु० १३।७३)। संजग्मे इत्यर्थः।
  • ‘अत्यल्पं चेदमुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति’ (ब्रह्मसू० २।१९ शां० भा०)। संसृजेत् युञ्जीत।
  • ‘मद्रकेषु च संसृष्टं शौचं गान्धारकेषु च’ (भा० कर्ण० ४०।३०)। संसृष्टं सङ्कीर्णं नष्टम्।
  • ‘संसृष्टं चात्र कारणम्’ (भा० सभा० ५।३२)। संसृष्टम्=सङ्गतम्।
  • ‘संसृष्टं त्रिषु संगतम् इति मेदिनी।’
  • ‘संसृज्य विश्वा भुवनानि गोप्ता’ (नि० १।१५।७)। संसृज्य=सृष्ट्वा।
  • ‘न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः’ (मनु० ११।४७)। संसर्गः=सङ्गः, संस्पर्शः, उपश्लेषः, संगमः।
  • ‘प्रत्याहारेण संसर्गान्’ (मनु० ६।७२)। संसर्गः=विषयसम्पर्कः, इन्द्रियार्थसङ्गः।
  • ‘भियाऽमित्रान् संसृज’ (अथर्व० ११।९।१२)। संसृज युङ्ग्धि।
  • ‘पुनर्विश्वं संसृजति बिभर्ति च पुनर्हरिः।’ सम्शब्दोऽस्थाने।**
  • ‘अमृतं विषसंसृष्टं त्वया वानर भाषितम्’ (रा० ५।३७।२)। विषसंसृष्टं गरलसम्पृक्तम्।

सृप्

  • {संसृप्}
  • सृप् (सृप्लृ गतौ)।
  • ‘संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययाऽसौ’ (मेघ० ५३)। संसर्पन्त्या=सङ्क्रामन्त्या।
  • ‘संसर्पोऽसि’ (तै० सं० १।४।१४)। संसर्प इति त्रयोदशो मास उच्यते। स हि द्वादशेन मासेन सह संसर्पति सङ्गच्छते।

स्कृ

  • {संस्कृ}
  • स्कृ (सुट्+डुकृञ् करणे)।
  • ‘ककुभं समस्कुरुत माघवनीम्’ (शिशु० ६।२५)। **ऐन्द्रीं दिशमलमकुरुतेत्याह।
  • ‘वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते’ (भर्तृ० २।१९)। संस्कृता परिष्कृता, संस्कारवती, परिशोधिता, निर्दूषणा।
  • ‘मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः’ (मनु० ५।३६)। संस्कृतान्=पूतान्।
  • ‘संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि’ (रघु० १५।३१)। जातकर्मादिभिः संस्कारैस्तौ मैथिलीसुतावपावयद् इत्यर्थः।
  • ‘जीवां भूयो रघुपतिवृषा स्पर्शतः संस्करोति’ (महावीर० ६।३७)।
  • ‘ये पक्षापरपक्षदोषसहिताः पापानि संस्कुर्वते’ (मृच्छ० ९।४ पाठान्तरम्)। संस्कुर्वते=समुच्चिन्वन्ति।
  • ‘समवाये च’ (पा० ६।१।१३८)। तत्र नः संस्कृतं तत्र नः समुदितम् इति वृत्तौ।

स्तम्भ्

  • {संस्तम्भ्}
  • स्तम्भ् (स्तम्भु धारणे रोधने वा, सौत्रो धातुः)।
  • ‘संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम’ (रा० ४।१।११५)। समाश्वसिहि, धैर्यं धेहीत्याह।
  • ‘देवि संस्तम्भयात्मानम्’ (उत्तर० ४)। उक्तोऽर्थः।
  • ‘एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना’ (गीता० ३।४३)। निश्चलं कृत्वेत्यर्थः।

स्तु

  • {संस्तु}
  • स्तु (ष्टुञ् स्तुतौ)।
  • ‘अथापि मित्रो वरुणेन संस्तूयते’ (नि० ७।३।१०)। सह स्तूयते इत्यर्थः।
  • ‘ते ब्रह्मसंस्तुताः’ (आप० ध० १।१।१।३२)। संस्तुताः=कीर्तिताः। - ‘धावति पश्चादसंस्तुतं चेतः’ (शा० १।३३)। असंस्तुतमननुरोधि विसंवादि।
  • ‘संस्तुतानाचष्टे’ (का० श्रौ० ५।५।६)। संस्तुताः संगताः (जाराः)।
  • ‘नैयमिकं ह्येतद् ऋणसंस्तुतम्’ (आप० ध० १।१।१) इत्यत्र धूर्तस्वाम्युद्धृतं वसिष्ठवचनम्)।
  • ‘अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति’ (शिशु० ३।३१)। संस्तुतः=परिचितः।
  • ‘जयन्ति महतां संस्तुतापलापिन्यः कल्याणिन्यो नीतयः’ (मालती० १०।२३)। संस्तुतम्=अभिप्रेतम्, विवक्षितम्।
  • ‘न वशं योषितो यान्ति न दानैर्न च संस्तवैः’ (पञ्चत० ४।८९)। संस्तवः=स्तुतिः।
  • ‘गुणाः प्रियत्वेधिकृता न संस्तवः’ (कि० ४।२५)। संस्तवः परिचयः।
  • ‘नवैर्गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम धनागमश्रियः’ (कि० ४।२५)। संस्तवः परिचयः। उक्तोऽर्थः।
  • ‘कामं नैतत् प्रशंसन्ति सन्तः स्वबलसंस्तवम्’ (भा० उ० १६८।३४)। संस्तवः=स्तुतिः।
  • ‘श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः’ (भा० महाप्र० ३।१७)।
  • ‘तमिमं ज्ञानवृद्धः सन् गोपं संस्तोतुमिच्छसि’ (भा० सभा० ४१।६)। संस्तोतुम्=स्तुतम्।
  • ‘स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम्’ (अमर:)।
  • ‘अथास्य संस्तविका देवा इन्द्रः सोमो वरुणः पर्जन्य ऋभवः’ (नि० ७।८।४)। समानः साधारणः स्तवः संस्तवः।
  • ‘न त्वृक् संस्तविकी दशतयीषु विद्यते’ (नि० ७।८।२०)।
  • ‘ते श्मशानसंस्तुताः’ (सत्या० श्रौ० २६।१।३८)। श्मशानमिति कीर्तिताः, तत्तुल्या इत्यर्थः।
  • ‘चकार। समुद्रसेननाम्ना सा वणिजा सह संस्तवम्’ (कथा० २९।१०१)॥ संस्तवः परिचयः।

स्तृ

  • {संस्तृ}
  • स्तृ (स्तृञ् आच्छादने)।
  • ‘आ वेदेः संस्तृणाति’ (श० ब्रा० १।९।२।२४)। वेदिमभिव्याप्य प्रथयतीत्याह।
  • ‘प्रान्तसंस्तीर्णदर्भाः’ (शा० ४।८)।
  • ‘नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ’ (कु० ४।३४)। संस्तरः शय्या।
  • ‘प्रच्छन्नं क्रियतां गजाजिनमिदं वैरस्य संस्तारकम्’ (त्रिपुर० १।१६)। संस्तारकं विस्तारकम्।

स्त्यै

  • {संस्त्यै}
  • स्त्यै (स्त्यै ष्ट्यै शब्दसङ्घातयोः)।
  • ‘संस्त्यायविशेषा ह्येते ग्रामो घोषो नगरं संवाह इति’ (पा० ७।३।१४ सूत्रभाष्ये)। संस्त्यायो निवास इति कैयटः।

स्था

  • {संस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘सन्तिष्ठस्व महाबाहो मुहूर्तमपि भारत’ (भा० स्वर्गा० २।३५)। सन्तिष्ठस्व=तिष्ठ।
  • ‘तीक्ष्णादुद्विजते मृदौ परिभवत्रासान्न सन्तिष्ठते’ (मुद्रा० ३।५)।
  • ‘क्षणं न सन्तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः’ (हरि०)। अत्र तिसृषूदाहृतिषु समुपसर्गो विशेषकृन्न।
  • ‘सद्यः सन्तिष्टते यज्ञः’ (मनु० ५।९७)। सन्तिष्ठते समाप्तिमेति तत्पुण्येन युज्यते (यजमान:) इति कुल्लूकः।
  • ‘न तत्संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया’ (भट्टि० ८।११)। न मध्ये विरंस्यति, न प्रतिहनिष्यते। न प्रतिघानिष्यते।
  • ‘तस्य यत्कालमेवेन्द्रियाणि सन्तिष्ठन्ते’ (चरके शरीर० ४।१५)। अभिनिवर्तन्ते इत्यर्थः।
  • ‘तेऽब्रुवन्। संस्थापयामेमं यज्ञम्’ (ऐ० ब्रा० २।३१)। समाप्तं करवामेत्याह।
  • ‘साध्वसंस्थितं वा एष पितृयज्ञं संस्थापयति’ (ऐ० ब्रा० ३।३७)। उक्तोऽर्थः।
  • ‘एष वै प्रजनयिता यन्मुष्करः, तस्मान्मुष्करो भवति तं न संस्थापयेत् पर्यग्निकृतमेवोत्सृजेत्’ (श० ब्रा० ३।७।२।८)। न संस्थापयेत्=नालभेत=न हन्यात्।
  • ‘देहं संस्थापयिष्यामि निर्भयं मार्गमाश्रितः।’ (भा० आदि० ११९।२०)। संस्थापयिष्यामि=अवसाययिष्यामि।
  • ‘धर्मसंस्थापनार्थाय सम्भवामि युने यूगे’ (गीता०)। संस्थापनं प्रतिष्ठापनम्।
  • ‘असंस्थितान्प्राणान् संस्थापयेत्’ (ऐ० ब्रा० २।२८)। चलानसूनचलान्कुर्यादित्यर्थः।
  • ‘केयमवस्था संस्थापनानाम्’ (हर्ष० अष्टम उच्छ्वासे)। संस्थापनाः=सान्त्वनाः।
  • ‘संस्थापना प्रियतरा विरहातुराणाम्’ (मृच्छ० ३।३)।
  • ‘संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः’ (भा० आश्व० ८९।६)। संस्थाप्य=परिसमाप्य।
  • ‘संस्थाप्य पौर्णमासीं वैमृधमनु निर्वपति’ (बौ० श्रौ० १७।४७।२)। उक्तोऽर्थः।
  • ‘यदत ऊर्ध्वमसंस्थितं यज्ञस्य तत्तनवामहै’ (श० ब्रा० १।८।१।४३। असंस्थितम्=समाप्तम्।
  • ‘ब्रह्मेवासंस्थितं हविः’ (अथर्व० ६।५०।२)। उक्तोऽर्थः।
  • ‘संस्थिते च संचरोऽनूत्करदेशात्’ (बौ० ध० १।७।१५।१९)। संस्थिते=समाप्ते।
  • ‘असंस्थितो वा एष यज्ञो यदग्निहोत्रम्’ (तै० ब्रा० २।१।४।९)। असमाप्तः=अविरतः। अत एव जरामर्यमित्यन्यत्रोक्तम्।
  • ‘दारुभारेण जीवामो विक्रीतेनेति संस्थिताः’ (यो० वा० ६ (२) १९६।१५)। संस्थिताः=निश्चिताः।
  • ‘न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः’ (याज्ञ० १।१३१)। संस्थितः=उत्थितः।
  • ‘प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ’ (रा० १।४।२०)।
  • ‘संस्थितदोर्विषाणः’ (रा० ३।३१।४६)। सम्यगवस्थितौ दोषौ बाहू एव विषाणे दन्तौ यस्य स (राघवगन्धहस्ती)।
  • ‘संस्थितो यदि सङ्कल्पो दुश्चिकित्स्यः स्वतो भवेत्’ (यो० वा० ४।५४।३३)। संस्थितः परमार्थभूतः।
  • ‘संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरति स्फुटः’ (सुभाषितम्)। संस्थितस्योपरतस्य।
  • ‘वराहसंस्थितं भूतं मत्समीपं समागमत्’ (भा० वन ० १६७।१८)। ** वराहवत् संस्थितमाकारो यस्य तत्।**
  • ‘प्रसुप्तं भोजनव्यग्रमभूमिष्ठमसंस्थितम्’ (का० नी० सा० १९।५२)। असंस्थितम्=अनिविष्टम्। इह बलमिति विशेष्यम्।
  • ‘नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः’ (मनु० ९।१४)। संस्थितिः समादरः।
  • ‘अहो इमां को नु लभेत सस्थितिम्’ (भा० पु० ३।१९।२७)। संस्थितिः=मृत्युः।
  • ‘नाङ्गस्य वंशो राजर्षिरेष संस्थातुमर्हति’ (भा० बि० १४।४२)। संस्थातुम्=समाप्तुम्।
  • ‘वणिकु कृषी तथा लिङ्गी भिक्षकोऽध्यापकस्तथा। संस्थाः स्युश्चारसंस्थित्यै’ (का० नी० सा० १३।३६)। संस्था रूपं व्यञ्जनं वा।
  • ‘वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे’ (मनु० १।२१)। संस्थाः=व्यवस्थाः। व्यवसाया इत्यर्थः।
  • ‘लोकस्य संस्था न भवेत् सर्वं च व्याकुली भवेत्’ (भा० शां० ५६।६)। संस्था व्यवस्था मर्यादा।
  • ‘विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम्’ (भा० शां० २६६।४५)। संस्थाव्यतिक्रमम्=मरणानौचित्यम् मर्यादाभङ्गमिति वा।
  • ‘कृतां संस्थामतिक्रान्ता भयात्प्रायमुपासिताः’ (रा० ४।५७।१८)। संस्था=समयः, सङ्केतः, प्रतिज्ञा।
  • ‘संस्था हि क्रियां प्रत्यौदासीन्यं व्यापारान्तरकरणं वा पूर्वस्मात्कर्मणः’ (मी० १०।६।३० सू० शा० भा०)। संस्थाः समाप्तिः।
  • ‘पुरा यज्ञस्य संस्थायाः’ (श० ब्रा० ३।१।३।६)। संस्था=सम्पूर्णता।
  • ‘सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थाम्’ (भा० उ० ३८।२)। आत्मसंस्थाम्=स्वस्थितिम्।
  • ‘श्रोत्रियसंस्थायामपरिसंवत्सरायाम्’ (आप० ध० १।३।१०।१०)। संस्था=मृतिः।
  • ‘संस्थां च पाण्डुपुत्राणां वक्ष्ये’ (भा० पु० १।७।१२)। उक्तोऽर्थः।
  • ‘फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्’ (भा० आदि० १५९।१३)। फलसंस्था=सफलमरणा।
  • ‘ब्राह्मणानामसाध्यं च नृषु संस्थानचारिषु’ (भा० आदि० १८८।१२)। संस्थानचारिषु देवासुराद्याकारैश्चरत्सु।
  • ‘अथ चतुष्पथे सन्निवेशे च संस्थानम्’ (अमर:)।
  • ‘स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम’ (शा० ५।३०)। स्त्रीसंस्थानं स्त्र्याकृति।
  • ‘प्रक्षेप्स्यन्त्यन्तरिक्षे च संस्थानं त्वमवाप्स्यसि’ (वि० पु० ५।१।८०)। संस्थानं स्थितम्।
  • ‘शेषं तु बद्धसंस्थानस्तिष्ठाम्यचलशृङ्गवत्’ (यो० वा० ५।८६।४)। बद्धसंस्थानो बद्धासन इत्याह।
  • ‘भासमानासनसंस्थानाः कुसुमस्थलीः’ (यो वा० ६ (२)। १४५। १६)। संस्थानमवयवसन्निवेशः।
  • ‘विद्युन्नीचकुलोद्गतेव युवति र्नैकत्र सन्तिष्ठते’ (मृच्छ० ५।१४)। सन्तिष्ठते अवतिष्ठते।
  • ‘असंस्थितं वै रेतसः समृद्धम्’ (ऐ० ब्रा० ६।३)। असंस्थितमसमाप्तमनुपरतं रेतसः सेचनम्।
  • ‘त्वां संस्थाप्य’ (मित्रमौपयिकं कर्तुम् रा० ५।२१।१९ इत्यस्य विवरणे गोविन्दराजवचनम्)। संस्थाप्य हत्वा।
  • ‘यो भ्रातृव्यवान्त्स्यात् स पौर्णमासं संस्थाप्यैतामिष्टिमनुनिर्वपेत्’ (तै० सं० २।५।४)। संस्थाप्य समापय्य।
  • ‘श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च’ (रा० ५।१५।४३)। संस्थानं सन्निवेशः। आभरणानीति विशेष्यम्।
  • ‘तस्य संस्था कृतमिदं कालस्य परमेष्ठिनः’ (हरि० ३।२।३१)। तस्य क्रतोः संस्था निष्ठा समाप्तिः।
  • ‘अपरो ब्राह्मणस्तेषां चतुर्णामपि सर्वदा। संस्थामेकां ददात्येष चारुनादेन सर्वदा’ (बृ० क० को० १५७।२१)॥ संस्था सम्यगाचारः समाचारः समुदाचारः।
  • ‘यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः’ (ऋ० १।५।४)। **संस्थे रथे। **

स्पश्

  • {संस्पश्}
  • स्पश् (स्पश ग्रहणसंश्लेषणयोः)।
  • ‘गार्ग्यो ह वै बालाकिरनूचानः संस्पष्ट आस’ (कौ० ब्रा० उ० ४।१)। संस्पष्टः सर्वत्र प्रसिद्धः।

स्पृश्

  • {संस्पृश्}
  • स्पृश् (स्पृश संस्पर्शने)।
  • ‘अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे’ (रा० ७।७७।१६)। संस्प्रष्टुम्=उपस्प्रष्टुम्=आचमितुम्। अन्यत्र दुर्लभोऽत्रार्थे समः प्रयोगः।
  • ‘यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया’ (शा० ४।५)। संस्पृष्टम् अभिभूतम्।

स्मृ

  • {संस्मृ}
  • स्मृ (स्मृ चिन्तायाम्)।
  • ‘स्मर संस्मृत्य न शान्तिरस्ति मे’ (कु० ४।१७)।
  • ‘राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्’ (गीता १८।२७)।
  • ‘रागिणापि विहिता तव भक्त्या संस्मृतिर्भवति मङ्श्वभवाय’ (कि० १८।२७)।

स्रु

  • {संस्रु}
  • स्रु (गतौ)।
  • ‘ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः’ (अथर्व १।१५।३)। संस्रवन्ति=स्यन्दन्ते।
  • ‘इमं गोष्ठं पशवः संस्रवन्तु’ (अथर्व० २।२६।२)। संस्रवन्तु=प्राप्नुवन्तु।
  • ‘संस्रवान् समवनीय’ (आश्व० गृ० ४।८।६)। अर्घ्यदानावशिष्टा आपः संस्रवाः।
  • ‘संस्रवभागा: स्थ’ (वा० सं० २।१८)। विलीनमाज्यं संस्रवः।
  • ‘…तेषां संस्राववच्छुचिरिति’ (बौ० ध० १।५।८।१९)। संत्रावः=लाला।
  • ‘संस्राव्येण हविषा जुहोमि’ (अथर्व० १९।११)। सम्यक् स्रावः संस्रावः, तमर्हतीति संस्राव्यं (हविः)। आज्यपय आदि।

स्वृ

  • {संस्वृ}
  • स्वृ (स्वृ शब्दोपतापयोः)।
  • ‘समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये’ (ऋ० ८।८३।११)। समस्वरन् अशब्दयन्, आकारयन्।

हन्

  • {संहन्}
  • (हन् हिंसागत्योः)।
  • ‘सं ते हन्मि दता दतः’ (अथर्व० ६।५॥३)। संहन्मि संश्लिष्टान्करोमि।
  • ‘सिंहः संहननात् …संहाय हन्तीति वा’ (नि० ३।१८)।
  • ‘संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः’ (भा० आश्व० ३९।४)। संहत्य=मिश्रीभूय।
  • ‘विनाशितानि संहत्य नित्यशः पिशिताशनैः’ (रा० ३।११।६०)। संहत्य=समेत्य=एकीभूय।
  • ‘प्रधानभूत आख्यातार्थे संहत्य विशेषणं भवति परार्थे पुनर्वियुज्येति’ (मी० ६।४।२३ शा० भा०)। संहत्य=युगपदन्वित्य।
  • ‘संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः’ (मनु० २।७१)। संहत्य=संश्लेष्य।
  • ‘संहत्य भीमसेनाय व्याक्षिपत्सहसा करम्’ (भा० वन० १२।१०६)। संहत्य=संगृह्य=मुष्टीकृत्य।
  • ‘उद्वासनकाल आमिक्षां संहत्य’ (आप० श्रौ० ८।१।२।९)। तयोः पात्रयोरुद्धृत्य।
  • ‘शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः’ (ऊरु० १।१५)। संहत्य, आहत्य, अभिहत्य।
  • ‘पयोधरोत्सेधविशीर्णसंहतिः’ (कु० ५।८)।
  • ‘गुरुतां नयन्ति हि गुणा न संहतिः’ (कि० १२।१०)। संहतिः सङ्घातः। मूर्त्तिरिति यावत्।
  • ‘तद्यथाऽस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियते’ (श० ब्रा० १४।७।१।१९)। संहत्य संगृह्य सङ्कोच्य।
  • ‘संहननवत्कायोपपन्नः’ (अवदा० जा० २५)। संहननं काठिन्यं तद्वान् कायः=संहननवत्कायः, तेनोपपन्नो युक्तः।
  • ‘रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्’ (रा० ३।१।१३)। रूपयुक्तं संहननम् आपादकेशं संश्लिष्टसन्धिबन्धः।
  • ‘तत्कार्मुकं संहननोपपन्नम्’ (भा० आदि० १८७।१८)। संहननम् काठिन्यम्।
  • ‘मन्त्रसंहननो राजा मन्त्राङ्गानीतरे जनाः’ (भा० शां० ८३।५०) । मन्त्र संहननः=मन्त्रकवचः।
  • ‘गात्रं वपुः संहननं शरीरम् (अमरः)**
  • ‘अमृताध्मातजीमूतस्निग्धस हननस्य ते’ (उत्तर० ६।२१)। संहननं शरीरम्।
  • ‘द्रवः सङ्घातकठिनः ’ (कु० २।११)।
  • ‘पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत्’ (वाग्भट० नि० अ० ९)। संहन्येते स्त्यानी क्रियते।
  • ‘संहन्त्यपो दिव्या मारुतोग्निश्च वैद्युतः’ (सुश्रुत० वि० ३।१७)। संहन्ति कठिनाः करोति।
  • ‘कुमारं चापि संक्रुद्धः स्वशक्त्या संजघान सः’ (शि० पु० २।४।१०।१७)। अस्थाने सम्शब्दः। जघानेत्येव साधु।
  • ‘विष्णुरग्रस्थितो याति सबलः संहताञ्जलिः’ (हरि० ३।३२।३९)। संहताञ्जलिः समानीतकरपुटः।
  • ‘अयं ममाशां संहत्य शेते भूमौ धनञ्जयः’ (भा० वन० ३१३।१०)। संहत्य निहत्य, प्रणाश्य।
  • ‘पाषाणवत् संहननोपपन्नः’ (माधव० ३८।१४)। संहननं काठिन्यम्।
  • ‘ससङ्घातादीन् वाक्’ (शु० य० प्रा० १।९)। सङ्घातः पुरुषप्रयत्न इत्युवटः।

हा

  • {संहा}
  • हा (ओहाक् त्यागे, ओहाङ् गतौ)।
  • ‘सं सहसे पुरुमायो जिहीते’ (ऋ० ३।५१।४)। संजिहीते=गमनोद्यमं करोति।
  • ‘यदा वै तान्तः प्राणं लभतेऽथ संजिहीते’ (कौ० उ०)। संजिहीते=उत्तिष्ठति।
  • ‘सैतेन प्राणेन समजिहीत’ (श० ब्रा० ४।२।२।११)। समजिहीत=उदस्थात्=समजीवीत्।
  • ‘तत: पुनर्नसहास्यन्ते’ (श० ब्रा० १।२।४।११)। नोत्थास्यन्ति, न शिर उन्नमयिष्यन्तीत्याह।
  • ‘यथा जले सञ्जिहते जलौकसः’ (भा० पु० १०।४०।१५)। संजिहते प्रचरन्तीति श्रीधरः। यथान्यत्र तथेहापि कवे रूढिं प्रत्यनादरः।
  • ‘स ह प्रातः संजिहान उवाच’ (छां० उ० ५।११।५)। संजिहानः शय्यां परित्यजन्।
  • सम्पूर्वो जहातिः शय्यापरित्यागे वर्तते तथा च ब्राह्मणे प्रयोगः- ‘कलिः शयानो भवति संजिहानस्तु द्वापरः’ (ऐ० ब्रा० ७।१५) इति सायणः। अत्र सायणीये वचने जहातिरित्यनेन ओहाङो ग्रहणं वेदितव्यं न त्वोहाकः।
  • ‘स विस्रस्तैः पर्वभिः न शशाक संहातुम्’ (श० ब्रा० १।३।३६)। संहातुम्=उत्थातुम्।
  • ‘उत्संहायास्थात्’ (ऋ० २।३८।४)। सर्वो लोकः शय्यां विहाय उदस्थाद् अवशिष्टं कर्म कर्तुं पुनरुत्तिष्ठतीति सायणः।
  • ‘संहाय अतो देवा अवन्तु नः’ (ऋ० २।२।१६) इति त्रिरेतम् आश्व० गृ० २।२।९) सहाय=शयित्वोत्थाय।
  • ‘अस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहाय पक्षौ संलयायैव ध्रियते।’ (बृ० उ० ४।३।१९)। संहाय सश्लेष्य संकोच्य।
  • ‘विद्युतो ज्योतिः परिसंजिहानं मित्रावरुणा यदपश्यतां त्वा’ (ऋ० ७।३३।१०)। सञ्जिहानमुत्थितम्।
  • ‘संहाय सौर्याणि स्वस्त्ययनानि च जपित्वा’ (आश्व० गृ० २।३।१२)। संहाय संशस्येति नारायणो वृत्तिकारः। सम्पूर्व ओहाङ् शय्यात उत्थाने रूढ इति प्रस्मरणप्रत्ययमेतत्। पूर्वसूत्रे संहाय अतो देवा ब्रुवन्तु न इत्यत्र संहायेत्युत्थायेत्येवं स्वेनैवार्थाभिधानात्।

हि

  • {संहि}
  • हि (हि गतौ वृद्धौ च)।
  • ‘अस्मा इदु स्तोमं संहिनोमि’ (ऋ० १।६१।४, अथर्व० २०।३५।४)।

हृ

  • {संहृ}
  • हृ (हृञ् हरणे)।
  • ‘सन्तरां पादुकौ हर’ (ऋ० ८।३३।१९)। लघू ते पादौ संनिकर्षतराम्।
  • ‘एकं वृषभमुद्धारं संहरेत स पूर्वजः’ (मनु० ९।१२३)। संहरेत=गृह्णीयात्।
  • ‘ते यज्ञं सञ्जह्रुस्ते यज्ञं सम्भृत्योचुः’ (श० ब्रा० ३।५।१।१५)। सञ्जह्रुः=समाजह्रुः=संबिभरामासुः।
  • ‘अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः’ (भा० आदि० १४३।१)। सञ्जहार=सञ्जग्राह=वशे चकार।
  • ‘एवमुक्त्वा महर्षयः सञ्जह्रुस्ताः क्रियास्तदा’ (भा० आश्व०)।
  • ‘न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः’ (हितोप०)। संहरते=प्रत्याहरति।
  • ‘संजहार बहिश्चित्तं सायमर्को रुचिं यथा’ (यो० वा० ६ (२)। १३८।१५)।
  • ‘शङ्के संहरति स्मरोपि चकितस्तूणार्धकृष्टं शरम्’ (शा० ६।४)। उक्तोऽर्थः।
  • ‘क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति’ (कु० ४।७२)। क्रोधं संयच्छेत्याह।
  • ‘महिमानं यदुत्कीर्त्य तव संह्रियते वचः’ (रघु० १०।३२)। संह्रियते=समाप्तिं विरामं नीयते।
  • ‘यज्ञं सम्भरति सं च जिहीर्षति यो दीक्षते’ (श० ब्रा० ३।८।१।२)।
  • ‘चरीकर्ति बरीभर्ति संजरीहर्ति लीलया’ (कौस्तुभे)। पुनः पुनः संहरति संजरीहर्ति।
  • ‘नृपदीपो धनस्नेहं प्रजाभ्यः संहरन्नपि’ (पञ्चत० १।) संहरन्=आकर्षन्।
  • ‘संहरन्प्रस्तुतं वस्तु’ (यो० वा० ६(१)।१।२२)। अवसाययन्नित्याह।
  • ‘स यत्र पुनर्न संहरिष्यन्त्स्यात्’ (श० ब्रा० १।२।२।४)। हविषोर्यदि मिश्रीभावं नेच्छेद् इत्याह।
  • ‘चिन्तयित्वा ततो वह्निश्चन्द्रे संहारमात्मनः’ (भा० आदि० ७।१२)। संहारं तिरोभावम्।
  • ‘संहारविक्षेपसहस्रकोटीः’ (भा० शां० २८०।३०)। संहरत्यस्मिन्निति संहारशब्देन संहारकालः (जगल्लयकालः) उच्यते। विक्षेपशब्देन चोदयकाल:। ऋतुसंहारः=ऋतूनां समाहारः। ऋतुवर्णनपरायाः कालिदासकृतेः समाख्या। वेणीसंहारः=वेणीबन्धः। भट्टनारायणस्य कृतेर्नामधेयम्।
  • ‘इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम्। केशपाशं वरारोहा गृह्य…(भा० उ० २।३३-३४)। वेणीरूपेण समाहृतमपि मृदुम् इत्यर्थः।**
  • वर्णसंहारः=ब्राह्मणादीनां वर्णनामेकत्र संग्रहः’ (भरत नाटय० १९।८१)।
  • ‘ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम। भूयो भूयोपि संहार्यः पितृवित्ताद् युधिष्ठिर’ (भा० अनु० ४७।३८-३९)॥ संहार्यः=संविभजनीयः।
  • ‘उपस्थितमसंहार्यैर्हयैः’ (रा० ५।६।५)। असंहार्याः=अनुपरोध्याः=अवार्याः=दुर्निवाराः।
  • ‘विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम’ (रा० ५।३७।४)। उक्तोऽर्थः।
  • ‘शूरान्भक्तानसंहार्यान् (सहायान्)’ (भा० शां० ५७।२३)। असंहार्यान्=अभेद्यान्।
  • ‘अनुरक्तोऽसंहार्यः पार्थान्प्रति जनार्दनः’ (भा० उ० ८८।१)। असंहार्यः=पृथक् कर्तुं न शक्यः।
  • ‘मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः’ (भा० शां० ११५।१५)। उत्कोचादिनाऽभेद्याः।
  • ‘कृच्छ्रां वृत्तिमसंहार्यां सामात्यां मृगपक्षिभिः’ (बौ० ध० ३।३।३।२१)। असंहार्यां दुर्भराम्।
  • ‘अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषोऽधिशेते’ (रघु० १३।६)। संहृत्य=उच्छिद्य।
  • ‘अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण’ (रा० २।२२।११)। संहृत्य=विरमय्य, समापय्य।
  • ‘संहृत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत’ (भा० शां० २६८।९)। संहृत्य=एकीकृत्य।
  • ‘पादान् संहृत्य’ (का० श्रौ० ६।६।३)। संहृत्य=समाहृत्य, एकीकृत्य।
  • ‘नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः’ (रा० ४।२६।३१)। संहृत्य=आहृत्य। संमिश्रीकृत्येति तु भूषणकारः।
  • ‘सिक्ता रुधिरधाराभिः संहृत्य परमद्विपाः’ (रा० ३।७३।३६)। संहृत्य अन्योन्यं प्रहृत्य।
  • ‘संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः’ (रा० ३।६४।५९)। संहृत्य अभिभूय।
  • ‘एको वेदश्चतुष्पादः संहृत्य पुनः पुनः’ (मात्स्य पु० १४४।१०)। संहृत्य संक्षिप्य।
  • ‘…यज्ञं प्रावर्तयत प्रभुः। दैवतैः सह संहृत्य सर्वसाधनसंवृतः’ (मात्स्य पु० १४३।५-६)। संहृत्य संगत्य समेत्य।
  • ‘संहारो जयता दिशोश मया स्त्रीणां कृतः पुष्पके’ (आश्चर्य० । ३।२०)। संहारः संभूय हरणम्, आहरणमिति यावदिति शङ्करष्टीकाकारः।
  • ‘धेनूः कृत्वा यजमानः संहारविहाराभ्यामुपतिष्ठते’ (सत्या० श्रौ० २३।२।३४)। संहारः समाहारः।

हृष्

  • {संहृष्}
  • हृष् (हृषु अलीके)।
  • ‘अस्थिविवरगते ऽस्थिपूर्णताऽस्थितोदः संहर्षो बलवांश्च’ (सुश्रुत० १।२६।६)। मारुतोपद्रवो रोमाञ्चप्रायो वेदनाविषः संहर्षः। सङ्घट्टनमित्येक इति डल्लनः।

हृष्

  • {संहृष्}
  • हृष् (हृष तुष्टौ)
  • ‘निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः (भा० उ० १५१।७०)। रोमाञ्चितान्यभवन्नित्याह।
  • ‘उभौ परमसंहृष्टौ मत्ताविव महागजौ’ (भा० वि० १३।२७)। हृष्टलोमानौ, कण्टकितगात्रौ।
  • ‘तस्मिंस्त्रिवर्गानुगुणा गुणौघाः संहर्षयोगादिव सन्निविष्टाः’ (अवदा० जात० २-१)। संहर्षः स्पर्धा संघर्षः।
  • ‘बाल्यात्कामाच्च मोहाच्च संहर्षाच्चापलेन च’ (हरि० १।१२।१३)। अभिनिवेशादित्यर्थः।
  • ‘ते वाहयन्तस्त्वन्योन्यं संहर्षात्सहसा द्रुताः’ (हरि० २।१४।२२)। अत्र संहर्षः स्पर्धेति भाति।

ह्लाद्

  • {संह्लाद्}
  • ह्लाद् (ह्लाद अव्यक्ते शब्दे)।
  • ‘श्वशृगालगर्दभसंह्रादे’ (गौ० ध० २।७।८)। संह्लादः सहशब्दनम्।

ह्लाद्

  • {संह्लाद्}
  • ह्लाद् (ह्लादी सुखे च, चादव्यक्ते शब्दे च)।
  • ‘एकैकमस्थ्यसंह्लादयन्तोऽवदध्युः’ (आश्व० गृ० ४।६।६)। अस्थ्नां सङ्घट्टनेन शब्दो यथा न स्यात्तथाऽवदध्युरित्याह।

ह्वे

  • {संह्वे}
  • ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
  • ‘संह्वयस्व विवक्षितम्’ (भट्टि० ८।१७)। ब्रूहीत्याह। शङ्के कवेरयं स्वकपोलकल्पितेर्थे प्रयोगः।
  • ‘हूतिराकारणाऽऽह्वानं संहूतिर्बहुभिः कृता’ (अमरः)।