इ
- {अपप्रे}
- इ (इण्-गतौ)।
- ‘अपास्मात् प्रेयात्’ (ऋ॰१०.११७.४)। अस्मादपृणतः सख्युरपेयादर्थी। तत्सन्निधिं सन्त्यज्यान्यत्र गच्छेदित्याह।
- ‘तेऽसदमूषिवांसोऽपप्रयन्ति’ (श॰ब्रा॰१२.४.४.७)। दूरं प्रस्थिता भवन्तीत्यर्थः।
- ‘विश्वे देवा अग्निहोत्रं जुह्वतो गृहानागच्छन्ति स यस्यानुद्धृतमागच्छन्ति तस्माद् देवा अपप्रयन्ति’ (श॰ब्रा॰२.३.१.७)। अपहाय प्रतिष्ठन्त इत्याह।
- ‘अप प्रागात्तम आ ज्योतिरेति’ (ऋ० १।११३।१६)। अपप्रागात् दूरमपासरत्।
जन्
- {अपप्रजन्}
- जन् (जनी-प्रादुर्भावे)।
- ‘स्त्रीणामपप्रजातानाम्’ (सुश्रुते उत्तर॰३९.७४)। अपप्रजाता=अवतोका।
- ‘स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितः’ (सुश्रुत० नि० ९।२०)। अपप्रजातानां पतितगर्भाणाम्। प्रजातानां प्रसूतानाम्।
वस्
- {अपप्रवस्}
- वस् (वस निवासे)।
- ‘यदग्नीनाधायाथाप प्रवसति’ (जै० ब्रा० १।२०)। प्रशब्दः प्रागेव विप्रकर्षमाह, तस्य भूयस्त्वविवक्षयाऽपशब्दप्रयोगः। दूरतरं गतो भवतीत्यर्थः।