अच्
- {अपाच्}
- अच् (अञ्चु-गतिपूजनयोः)।
- ‘अपामित्रां अपाचितो अचेतः’ (ऋ॰९.९७.५४)। अपाचेतः (=अप अच इतः) इतोऽपगमयेत्यर्थः।
अज्
- {अपाज्}
- अज् (अज-गतिक्षेपणयोः)।
- ‘अप त्यं परिपन्थिनमज’ (ऋ॰१.४२.३)। त्यं परिपन्थिनं तं पर्यवस्थातारमपाज पराणुदेत्याह।
- ‘यद्ध वा अस्य किञ्चन नश्यति यन्म्रियते यदपाजन्ति’ (ऐ॰ब्रा॰२५.२)। अपाजन्ति गवादयोऽपगच्छन्ति। अत्रापपूर्वोऽजिरकर्मकः।
- ‘असिक्नीमेति रुशतीमपाजन्’ (ऋ॰१०.३.१)। अपाजन्=अपगमयन्।
अञ्च्
- {अपाञ्च्}
- अञ्च् (अञ्चु-गतिपूजनयोः)।
- ‘अपाञ्चौ त उभौ बाहू अपिनह्याम्यास्यम्’ (अथर्व॰७.७३.४)। अपाञ्चौ पृष्ठभागसम्बद्धौ।
- ‘अनपाचीनचित्तवृत्तिग्राहिण्यो हि भवन्ति प्रज्ञावतां प्रकृतयः’ (हर्ष॰)। अनपाचीना=अविपरीता।
अन्
- {अपान्}
- अन् (अन-प्राणने)।
- ‘अन्तश्चरति रोचनाऽस्य प्राणादपानती’ (ऋ॰१०.१८९.२)। अपानती=निष्क्रामन्ती। अव्यवहितपूर्वं प्राणादित्युक्तेरत्रानितिः क्रियासामान्यमाह।
- ‘दक्षिणां प्रतिग्रहीष्यन्त्सप्तदशकृत्वोऽपान्यात्’ (तै० सं० २।३।२।१)। वायोरन्तराकर्षणरूपं निश्वासं कुर्यादित्यर्थः।
- ‘प्राण्यादपान्यात्’ (जै० ब्रा० १।१०४)। उक्तोऽर्थः।
अय्
- {अपाय्}
- अय् (अय-गतौ)।
- ‘अत्र वो नृत्यतामिव तीव्रो रेणुरपायत’ (ऋ॰१०.७२.६)। उदतिष्ठत्=उदहन्यत।
अस्
- {अपास्}
- अस् (असु-क्षेपे)।
- ‘अभिमातीरपास्य’ (ऋ॰३.२४.१)। अपास्येति लोण्मध्यमैकवचने रूपम्। दूरमपसारयेत्यर्थः।
- ‘चीराण्यपास्याज्जनकस्य कन्या’ (रा॰२.३८.६)। अपास्यात्=अपास्येत्=जह्यात्।
- ‘अपास्य फलकुद्दालं कुरुष्व वचनं मम’ (रा॰२.३२.३०)। अपास्य=अनादृत्य=उपेक्ष्य।
- ‘सारं ततो ग्राह्यमपास्य फल्गु’ (पञ्चत॰)। उक्तोऽर्थः।
- ‘यदि समरमपास्य नास्ति मृत्योर्भयम्’ (वेणी॰३.५)। अपास्य=परिहृत्य।
- ‘अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम्’ (रा॰२.७५.४८)। उक्तोऽर्थः।
- ‘इत्यादीनामपि काव्यलक्षणत्वमपास्तम्’ (सा॰द॰)। निराकृतं प्रत्युदितमित्यर्थः।
अस्
- {अपास्}
- अस (अस-भुवि)। ‘अभागः सन्नप परेतो अस्मि’ (ऋ॰१०.८३.५)। अपास्मि=दूरे भवामि = न सन्निदधे।
इ
- {अपे}
- इ (इण्-गतौ)।
- ‘अथास्य बह्वपैति लोमानि त्वगसृक्कुष्ठिकाः’ (ऐ॰ब्रा॰२.११)। अपैति=पृथग्भवति।
- ‘स्वपिमि तावदहं किमपैति ते’ (का॰सू॰वृ॰३.२.१२)। किं ते छिद्यत इत्याह।
- ‘अपेतो यन्तु पणयोऽसुम्ना देवपीयवः (वा॰सं॰३५.१)। इतोऽपयन्तु=अस्मात्प्रदेशादपसर्पन्तु।
- ‘इहैवास्त माऽपगात’ (वा॰सं॰३.२१)।
- ‘अपागादग्नेरग्नित्वम्’ (छां॰उ॰६.४.१)।
- ‘अपेत वीत वि च सर्पत’ (ऋ॰१०.१४.९)। अपेत=अपयात।
- ‘अपात इत पणयो वरीयः’ (ऋ॰१०.१०८.१०)। इतोऽपेतेत्याह।
- ‘लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्’ (रा॰२.११२.८)।
- ‘सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते’ (शा॰७.२४)। अपैतु=व्येतु।
- ‘उपयन्नपयन्धर्मो विकरोति हि धर्मिणम्’ (न्यायः)।
- ‘एवं कृतमिदं कार्यमनपायं भविष्यति’ (रा॰३.४४.१९)। अनपायम्=अपायरहितम्। अपायो नाशः।
- ‘उपायं चिन्तयन् प्राज्ञो ह्यपायमपि चिन्तयेत्’ (हितोप॰)। अपायो हानिः।
- ‘यत्र धारा अनपेता मधोर्घृतस्य च याः’ (वा॰सं॰१८.६५)। अनपेता अनुपक्षीणा निरन्तरा अनपगमा अनुपदस्ता उपभुज्यमाना अपीत्यर्थः।
- ‘अपेतयुद्धाभिनिवेशसौम्यः’ (शिशु० ३।१)। अपेतो वोतो युद्धेऽभिनिवेश आग्रहः।
- ‘धर्मपथ्यर्थन्यायादनपेते’ (पा० ४।४।९२)। अनपेतमपृथग्भूतम्।
- ‘उदवहदनवद्यां तामवद्यादपेतः ’ (रघु० ७।७०)। उक्तोऽर्थः।
- ‘सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्’ (उत्तर मेघ० २०)। सूर्यापाये सूर्यस्यापगमे।
- ‘तदनेन पापबुद्धिनोपायश्चिन्तितो नापायः’ (पञ्चत०)। अपायो हानिः क्षतिः।
ईक्ष्
- {अपेक्ष्}
- ईक्ष् (ईक्ष-दर्शने)।
- ‘स्वर्यन्तो नापेक्षन्ते’ (शा॰ब्रा॰९.२.३.२७)। इतस्ततो नेक्षन्ते इत्याह। अविवक्षितकर्मा ईक्षतिरिहाकर्मकः।
- ‘अनपेक्षमाणोऽरण्यमभिप्रेयात्’ (श॰ब्रा॰१३.६.१.२०)। उक्तोऽर्थः।
- सज्जो रथो भर्तुत्विजयप्रस्थानमपेक्षते’ (शा॰)। प्रतीक्षत इत्याह।
- ‘न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते’ (हित॰)।
- ‘पादेन नापैक्षत सुरसुन्दरीणां सम्पर्कमाशिञ्जितनूपुरेण’ (कु॰३.२६)। उक्तोऽर्थः।
- ‘शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते’ ( शिशु॰२.८६)। द्वयेनार्थी भवतीत्याह।
- ‘यतः शब्दो व्यञ्जकत्वेऽर्थान्तरमपेक्षते’ (सा॰द॰)। अर्थान्तरसाकाङ्क्षं भवतीत्यर्थः।
- ‘अपेक्षते प्रत्ययमुत्तमं त्वाम्’ (कु॰३.१८)। प्रत्ययः कारणम्। अपेक्षते आकाङ्क्षति। त्वदायत्तं भवति, त्वदृते तस्य दुर्निर्वहत्वात्।
- ‘प्रभुता रमणेषु योषितां न हि भावस्खलितान्यपेक्षते’ (विक्रम॰४.१२)।
- ‘न शालेः स्तम्बकरिता वप्तुर्गणमपेक्षते’ (मुद्रा॰१.३)। वप्तृगुणाधीना न भवतीत्याह।
- ‘किमपेक्ष्य पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः’ (कि॰२.२१)। किमपेक्ष्य=किमुद्दिश्य।
- ‘स (विष्णुः) हि निर्व्याजभक्तानां नैवापदमपेक्षते’ (कथा॰१७.१२)। द्रष्टुं न सहत इत्यर्थः।
- ‘अपेक्षन्ते हि विपदः किं पेलवमपेलवम्’ (कथा॰)। गणयन्ति, आद्रियन्त इत्याह।
- ‘एतां दिशमनवानन्त्सृत्वा कुम्भं प्रक्षीयानपेक्षमाण एहि’ (श॰ब्रा॰१३.८.३.४)। अनपेक्षमाणः पष्ठतोऽनालोकयन्।
- ‘तदाऽनपेक्ष्य स्वशरीरमार्दवम्’ (कु॰५.१५)। अनपेक्ष्य=अगणयित्वा=अनादृत्य=उपेक्ष्य।
- ‘नूनमस्यायमनपेक्षितास्मदवस्था व्यापारः’ (मालती॰९)।
- ‘उदयापेक्षिणी पत्युः’ (कथा॰१६.८६)। उदयापेक्षिणी उदयप्रतीक्षा।
- ‘दैवेष्वपेक्षका ह्येते शश्वद् भावेषु भारत’ (भा॰उ॰६१.७)। अपेक्षावन्तः, आदरवन्त इत्याह।
- ‘अनपेक्षमेत्याप उपस्पशन्ति’ (श॰ब्रा॰१२.५.२.१५)। अनपेक्षमिति पृष्ठतोऽनालोक्येत्याह। एत्य=आगत्य।
- ‘अवधिष्म रक्षः’ (वा॰सं॰९.३६)।
- ‘इत्यायन्त्यनपेक्षम्’ (का॰श्रौ॰१५.२.८)। उक्तोऽर्थः। सूत्रग्रन्थेष्वत्रार्थे प्रतिर्बहुलं प्रयुज्यते।
- ‘मय्यपेक्षा न कर्तव्या कथञ्चिदपि सात्वत’ (भा॰द्रोण॰८४.३३ )। अपेक्षाऽनुरोध इति नीलकण्ठः।
उच्छ्
- {अपोच्छ्}
- उच्छ् (उच्छी-विवासे)।
- ‘सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोच्छतु’ (अथर्व॰६.८३.१)। अपोच्छतु=अपवासयतु=अपवर्जयतु।
- ‘उषो यस्माद् दुःष्वप्न्यादभैष्माप तदुच्छतु’ (अथर्व॰१६.६.२)। अपोच्छतु=अपैत।
- ‘वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु’ (अथर्व॰२.८.२)। अपोच्छतु=अपगमयतु। इहोच्छिः सकर्मकः।
- ‘अप वास उषसामप क्षेत्रियमुच्छतु’ (अथर्व॰३.७.७)। अपोच्छतु=शाम्यतु।
- ‘अपास्मत्तम उच्छतु’ (अथर्व॰१४.२.४८)। वैमातिकेन प्रकाशेन निरस्तमस्त्वित्याह।
उम्भ्
- {अपोम्भ्}
- उम्भ् (उम्भ पूरणे)।
- ‘तमन्तरेव सन्तं दाम्ना ऽपौम्भन्’ (तै० सं० २।४।१३।१)। अपरुद्धशक्तिकाङ्गमबध्नन्निति भट्टभास्करः।
ऊर्णु
- {अपोर्णु}
- ऊर्ण् (ऊर्णुञ्-आच्छादने)।
- ‘अप ध्वान्तमूर्णुहि’ (ऋ॰१०.७३.११)। प्रकाशय। तमोऽपधानमपनयेत्याह। अपशब्दो धात्वर्थं विपरीतयति।
- ‘अपोर्णुते दीक्षितः शिरः’ (का॰श्रौ॰७.८.२५)। अनावृतं करोति शीर्षमित्याह।
- ‘अपोर्णुते वक्ष उस्रेव वर्जहम्’ (ऋ॰१.९२.४)। उक्तोऽर्थः।
- ‘न पुरा सोमस्य क्रयादपोर्ण्वीत’ (आप॰श्रौ॰१०.३.९.२६)। अपोर्ण्वीत=अपोर्णुवीत= उद्घाटयेत्।
ऊह्
- {अपोह्}
- ऊह् (ऊह-वितर्के)।
- ‘अपाप शक्रस्ततनुष्टिमूहति’ (ऋ॰५.३४.३)। अत्रापशब्दस्य निपातस्य द्विरुक्तिः। द्वितीयोपशब्द आम्रेडितम्। स च सर्वानुदात्तः। अपोहति=दूरं करोति।
- ‘पादेन फलीकरणानपोहति’ (कौ॰सू॰)।
- ‘वाजस्यैनं प्रसवेनापोहामि’ (वा॰सं॰२.१५)।
- ‘एतैर्व्रतैरपोहेयुर्महापातकिनो मलम्’ (मनु॰११.१०७)।
- ‘इति मनसि यः काव्यारम्भे कवेर्भवति श्रमः। सनयनजलो रोमोद्भेदस्तमपोहति’ (पाद॰श्लो॰३)॥ उक्तोऽर्थः।
- ‘अपैतदूह यदिहाबिभः पुरा’ (अथर्व॰१८.२.५७)। अपोह=परित्यज=परिहर=जहाहि।
- ‘स हि विघ्नानपोहति’ (शा॰३.२)। अपाकरोतीत्याह।
- ‘कुसुमानि…प्रभवन्त्यायुरपोहितुं यदि’ (रघु॰८.४४)। अपोहितुम्=क्षपयितुम्।
- ‘पूर्वमुत्सवमपौहदुत्सवः (उत्तरः)’ (रघु॰१९.५)। स्वस्मात्स्थानात्प्राच्यावयदित्यर्थः।
- अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति’ (उत्तर॰२.२९)। अपोहति=अपाकरोति।
- ‘सर्वान् रसानपोहेत कृतान्नं तु तिलैः सह’ (मनु॰१०.८६)। अपोहेत=त्यजेत्। विक्रये वर्जयेदित्यर्थः।
- ‘किं व्याप्तं किमपोहितम्’ (प्र॰च॰)। अपोहितम्=व्यावर्तितम्।
- ‘आरण्यैः स्थण्डिलं प्रताप्यापोह्याङ्गारान्’ (गो॰गृ॰४.८.१२)। अपोह्य=अपनीय=दूरीकृत्य।
- ‘इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः’ (भा॰अनु॰१४५.४३)। अपोहः=पूर्वपक्षोऽपरतर्कनिरासाय कृतो विपरीतस्तर्क इति च। ऊहः सिद्धान्त इति नीलकण्ठः।
- ‘पञ्चवट्यां ततो रामः… अनपोढस्थितिः तस्थौ’ (रघु॰१२.३१)। अपरित्यक्तमर्याद इत्याह। अर्थान्वयवशादपोढमिति ऊहतेर्निष्ठायां रूपमिति शक्यमास्थातुम्। इडभावस्तु दुःसमाधानः।
- ‘ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपौहदुत्सवः’ (रघु० १९।५)। अपौहत्=अपानुदत्। प्रत्यादिशदित्यर्थः।
ऋ
- {अपार्}
- ऋ (ऋ-गतिप्रापणयोः)।
- ‘अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः’ (ऋ॰९.१०.६)। अपऋण्वन्ति=विवृण्वन्ति।
- ‘ऽ प या माताँ ऋणुते व्रजं गोः’ (ऋ० ५।४५।६)। अपार्णुते ऽपावृणोति।
- ‘अरण्यमपार्णं ग्रामात्’ (नि० ९।२९)। अपार्णमपगतम्।
एज्
- {अपेज्}
- एज् (एजृ-कम्पने, एजृ-दीप्तौ)।
- ‘अपो अपाचीरपरा अपेजसे’ (ऋ॰५.४८.२)। अपेजसे=पृष्ठतो गमयसि।
कल्
- {अपकल्}
- कल् (कल-क्षेपे)।
- ‘काकोऽपकालयितव्यो भवति’ (नि॰३.१८.६)। पराणोद्यो भवतीत्यर्थः। उपघातभयादिति शेषः।
कष्
- {अपकष्}
- कष् (कष-हिंसायाम्)।
- अपपूर्वस्य कषेराथर्वणे प्रयोगः- ‘यजुर्यस्मादपाकषन्’ (अथर्व॰१०.७.२०)। अपातक्ष्णुवन्, निरकृन्तन्।
कित्
- {अपकित्}
- कित् (कित-निवासे रोगापनयने च)।
- ‘ततो नापचिकित्सति’ (अथर्व॰१३.२.१५)। नापचिकित्सति=प्रमदितुं नेच्छति।
कृ
- {अपकृ}
- कृ (डुकृञ्-करणे)।
- ‘चतुर्थोपायसाध्ये तु शत्रौ सान्त्वमपक्रिया’ (शिशु॰२.५४)। अपक्रिया दोषो दुर्नयः।
- ‘ऋणविगणनेऽपि यथा याज्ञवल्क्यस्मृतौ’ (३.२३४)। ऋणानां चानपक्रिया।
- ‘मानवे धर्मशास्त्रे’ (११.६५) च-‘अनाहिताग्निता स्तेयमृणानामनपक्रिया इति। योऽपचके वनात् सीताम्’ (भट्टि॰८.२०)। वनमुपगम्य सीतामवाक्षिपत् अभ्यभूदिति जयमङ्गला। अपहरणेनापाकरोद् अपाराध्नोदिति तु शब्दमर्यादया लभ्योऽर्थः।
- ‘दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते’ (भा॰वन॰२८.१५)। अपकुर्वते=क्षिण्वन्ति, परार्थं हिंसन्ति।
- ‘नगरे वा पुरि वाऽपि यदि नापकरोम्यहम्’ (रा॰४.१६.१९)। अनिष्टमाचरामीत्याह।
- ‘किं च राक्षसराजस्य रामेणापकृतं पुरा’ (रा॰५.८०.१३)। उक्तोऽर्थः।
- ‘न पश्यामोऽनपकृतं धनं किञ्चित्क्वचिद्वयम्’ (भा॰शां॰८.३०)। अपकृतमपकारः तद्रहितम्। परार्थहानिपुरस्कारेणैव महतोऽर्थौघस्य समुपार्जनं शक्यक्रियमित्याह।
- ‘दत्तस्यानपकर्म’ (मनु॰८.४)। ध नस्य दत्तस्य क्रोधादिनाऽपात्रबुद्ध्या वा ग्रहरणमपकर्म अपक्रिया, तदभावोऽनपक्रिया।
- ‘अपस्करमधिष्ठाने’ (भा॰कर्ण॰३४.२२)। अपस्करः पश्चात्काष्ठम्।
- ‘विषतां निषेवितमपक्रियया’ (शिशु० ९।६८)। अपक्रिया विपरीतः प्रयोगः।
- ‘पूरा वाराहकल्पे ते यन्मयाऽपकृतं शिरः’ (वामनपु० ४९।२०)। अपकृतमपहृतमपाकृष्टं छिन्नम् इत्यनर्थान्तरम्।
कृत्
- {अपकृत्}
- कृत् (कृती-छेदने)।
- ‘प्राणापानावपकृन्तामि’ (कौ॰सू॰४४)। अपच्छिनद्मि।
कृष्
- {अपकृष्}
- कृष् (कृष-विलेखने)।
- ‘कच्चिदर्थेषु सप्रौढान् हितकामाननुप्रियान्। नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम्’ (भा॰सभा॰५.७३)। अपकर्षसि=पृथक्करोषि।
- ‘यदा च शोचतः शोको व्यसनं नापकर्षति’ (भा॰वन॰२४९.३७) अपकर्षति=अपनयति=अपाकरोति।
- ‘धैर्यं शोकोऽपकर्षति’ (रा॰५.७१.५)।
- ‘एष रोगान्योगोऽपकर्षति’ (सुश्रुते २.१३२.५)। उक्तोऽर्थः।
- ‘अपकर्षेदेवं यावत् पञ्चदश’ (सुश्रुते॰१.४०.८)। अपकर्षेत्=न्यूनीकुर्यात्।
- ‘विदित्वाऽप्यपकर्षेयं शक्यं चेदपकर्षितुम्’ (भ॰आदि॰१६०.१) उक्तोऽर्थः।
- ‘ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः’ (भा॰द्रोण॰९५.१९)। व्यावर्तितवानित्यर्थः।
- ‘अष्टावक्रं पितुरङ्के निषण्णमपाकर्षद् गृह्य पाणौ’ (भा॰वन॰१३२.१८)। आकृष्य पृथगकरोत, उत्सङ्गाद् बलादवारोपयदित्यर्थः।
- ‘अपाकर्षद् वैदेह्याः सकाशाद् राक्षसेश्वरम्’ (रा॰६.७२.६८)। उक्तोऽर्थः।
- ‘तस्य मौर्वीमपाकर्षच्छूरः सङ्क्रन्दनो युधि’ (भा॰वि॰५.२५)। अवातारयदित्यर्थः।
- ‘यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्। बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति’ (भा॰सभा॰८१.८, उ॰३४.८१)। अपकर्षन्ति=विनाशयन्ति।
- ‘अपाकर्षत्स्वकं देहं नियमैर्मानसप्रियैः’ (भा॰द्रोण॰५४.२६)। अपाकर्षत्=अकर्शयत्।
- ‘पीडयन् भृत्यवर्गं हि आत्मानमपकर्षति’ (भा॰अनु॰३७.३)। आत्मानं पातयति, मानाद् भ्रंशयतीत्याह।
- ‘आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता। यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते’ (भा॰उ॰३३.१५)। नापकर्षन्ति=पृथङ् न कुर्वन्ति न भ्रंशयन्ति।
- ‘श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति’ (भा॰शा॰६८.४७)। अपकर्षति=अपहरति।
- ‘वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः’ (भा॰शां॰३३१.३०)। अपकर्षन्ति लघयन्ति, न्यूनी कुर्वन्ति।
- ‘स पश्यति बुद्ध्या आम्रांश्चापकृष्यमाणान्न्यग्रोधांश्चोपधीयमानान्’ (स्थानिवत्सूत्रे भाष्ये)। अपकृष्यमाणान्=अपनीयमानान्।
- ‘अग्रिमसूत्रस्थं सर्वत्र ग्रहणमिहापकृष्यते’ (४.१.१७ सूत्रवृत्तौ)। अपकृष्यते=पृष्ठत आकृष्यते।
- ‘काव्यात्मभूतं रसमपकर्षयन्तः’ (सा॰द॰७.२१)। अपकृष्टं कुर्वन्त इत्याह।
- ‘सर्वस्वमपकृष्टं च तथा धर्मेण बालिश’ (भा॰द्रोण॰१९८.४१)। अपकृष्टमपहृतमाच्छिन्नम्।
- ‘आनायिभिरतामपकृष्टनक्राम्’ (रघु॰१६.५५)। अपनीतग्राहामित्याह।
- ‘चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः’ (रा॰४.३३.२७)। अपकृष्टः=पृष्ठत आकृष्टः=प्रतिषिद्धः।
- ‘अन्तःपुरप्रवेशाद् वारित इत्यर्थः।
- ‘अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा’ (भा॰आदि॰१.१६६.३)। अपकृष्टाम्बराम्=स्रस्तवस्त्राम्।
- ‘अपकृष्य च लज्जां सा स्वयमुक्तवती नृप’ (भा॰वन॰९६.३३)। अपकृष्य=पृष्ठतः कृत्य=अपास्य।
- ‘दन्ताग्रभिन्नमपकृष्य निरीक्षते च’ (ऋतु॰४.१३)। पृष्ठत आकृष्य इत्याह।
- ‘अथ व्युष्टायां जघनार्धादात्मानमपकृष्य तीर्थं गत्वा… (बौ॰ध॰३.४.४.७)।
- ‘न क्त्वा सेडिति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः’ (१.२.७ सूत्रवृत्तौ)। अपकर्षः=अपनयः=दूरीकरणम्। भ्राष्ट्रापकर्षमपूपान् भक्षयति। भ्राष्ट्रापकर्षमिति णमुलन्तम्।
- ‘अपादाने परीप्सायाम्’ (१.४.५२) इति सूवोदाहरणम्। भाष्ट्रादपकृष्य भ्राष्ट्रादपकर्षणसमनन्तरमेव भुक्त इत्याह।
- ‘सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति। इति मामाविशच्चिन्ता तस्य शल्यापकर्षणे’ (रा॰२.६३.४६-४७)॥ शल्यापकर्षणे शल्योद्धरणे।
- ‘एवकारः कर्तुरपकर्षणार्थः’ (३.४.७० सूत्रवृत्तौ)। अपकर्षणार्थः निवृत्त्यर्थः।
- ‘न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्’ (सुश्रुते २.१३९.८)। अपकर्षणं न्यूनीकरणम्।
- ‘सर्वं दैवापकृष्टं मन्यते युधिष्ठिरः’ (वेणी॰५)। अपकृष्टम्=आकृष्टम्।
- ‘अपकृष्टश्चाणक्याच्चन्द्रगुप्तः’ (मुद्रा॰४)। अपरागमापित इत्याह।
- ‘नृपोऽपकृष्टः सचिवात्’ (मुद्रा॰४.१४)। उक्तोऽर्थः।
- ‘न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते’ (शा॰५.१०)।
- ‘पतिं हित्वाऽपकृष्टं स्वमुत्कृष्टं या निषेवते’ (मनु॰५.१६३)। निगदव्याख्यातम्।
- ‘तं दृष्ट्वा प्रमुदितैरश्वैरपकृष्टं रणाजिरात्’ (भा॰द्रोण॰२००.२८)। अपकृष्टमपोढम्, निर्यापितम्।
- ‘सर्वस्वमपकृष्टं च’ (भा॰द्रोण॰१९८.४१)। आच्छिन्नं हतमित्याह।
- ‘चेतसा त्वपकृष्टेन मां त्यजेथा महीपते’ (भा॰वन॰६१.३३)। चेतः=प्रतिसन्धानम्। अपकृष्टम्=हतम् (कलिनेति शेषः)
- ‘अपकृष्टो महाबाहुर्नागराजस्य कन्यया (उलूप्या)। अन्तर्जले महाराज…’ (भा॰आदि॰२१४.१३)॥ अपकृष्टोऽपनीतः।
- ‘ये धनादपकर्षन्ति नरं स्वबलमास्थिताः’ (भा० उ० ७२।२४)। धनाद्विना कुर्वन्ति, पृथक् कुर्वन्ति।
- ‘यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति’ (भा० वन० ७।४)। नापकर्षति न हरति।
- ‘ऋतवः संपलाय्य पद्गृहीतमपकर्षन्ति’ (जै० ब्रा० १।१८)। अपकर्षन्ति अपगच्छन्ति।
- ‘पित्र्यं हि राज्यं विदितं नृपाणां ममापकृष्टं धृतराष्ट्रपुत्रैः’ (भा० उ० १।१५)। अपकृष्टमाच्छिन्नमामृष्टमपहृतम्।
- ‘मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम्’ (सुश्रुत० उत्तर० ६२।४)। अपकर्षणं दुर्बलीभवनम्।
- ‘धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम्। अनादिनिधनः कालो ह्यव्यक्तायापकर्षति’ (भा० पु० ११।३।८)। अव्यक्ताय व्यक्तकारणभूताय अपकर्षति पृष्ठतः कर्षति। हारी खलूपसर्गस्य प्रयोगोऽपस्य।
कर्ण्
- {अपकर्ण्}
- कर्ण् (कर्ण इति धात्वन्तरमित्येकीयं मतम्, अनिर्दिष्टार्थम्)।
- ‘अपकर्ण्य महीपालो मन्त्रिणो मन्त्रकोविदान्’ (बृ० क० को० ८५।४)। अपकर्ण्य= अनाकर्ण्य।
क्रम्
- {अपक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘अपेहि मनसस्पते ऽप क्राम परश्चर’ (ऋ० १०।१६४।१)। अपक्राम देशान्तरं गन्तुं पादौ विक्षिप। श्रुतवन्तं नापक्रमेत्। नातिक्रम्य यायात्। तथा च (शां० गृ० १।२।४) इत्यत्र न श्रुतमतीयादिति स्मर्यते।
- ‘युगापक्रमणे सर्वे भविष्यन्ति द्विजातयः’ (हरि० ३।३।२९)। युगापक्रमणे युगात्यये युगक्षये। कलिप्रारम्भ इत्यर्थः।
क्री
- {अपक्री}
- क्री (डुक्रीञ् द्रव्यविनिमये)।
- ‘अपक्रीताः सहीयसी र्वीरुधो या अभिष्टुताः’ (अथर्व० ८।७।११)। अपक्रीताः=क्रीताः। अपशब्दो नान्तरमर्थे करोति।
क्षिप्
- {अपक्षिप्}
- क्षिप् (क्षिप प्रेरणे )।
- ‘सं ते (यजुः ११।३९) इति वातमपक्षिपति’ (का० श्रौ० १६।३।२)। अपक्षिपति अधः क्षिपति।
- ‘अपक्षिपन्ति स्तुग्भाण्डान्’ (रा० २।११६।१७)। अपक्षिपन्ति विप्रकिरन्ति, दूरे क्षिपन्ति।
- ‘यतो न शक्नुयादाक्षिकवदस्यापक्षेपेण प्रहर्तुम्’ (कौ० अ० १२।२।२१)। अपक्षेपोऽन्याय्यः क्षेपो ऽक्षाणाम्।
गुर्
- {अपगुर्}
- गुर् (गुरी उद्यमने)।
- ‘श्मशानसञ्चयोपि गर्त उच्यते। गुरतेरपगूर्णो भवति’ (नि० ३।५।२)। अपगूर्ण उच्यत उत्थितः।
गुह्
- {अपगुह्}
- गुह् (गुहू संवरणे)।
- ‘अपागूहन्नमृतां मयेभ्यः’ (सरण्यूम्) (ऋ० १०।१७।२)। अपागूहन् संवृतवन्तः।
- ‘मा वर्पो अस्मद् अप गूह एतत्’ (ऋ० ७।१००।६)। मापगूहः संवृतं मा कुरु।
- ‘इन्द्राग्नी वा एतस्य प्रजामप गूहतः’ (सै० सं० २।२।१।१)।
- ‘पदं न गोरपगूढं विविद्वान्’ (ऋ० ४।५।३)। अपगूढमत्यन्तं गूढं तिरस्कृतं तिरोहितम्।
- ‘आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः’ (अथर्व० ४।२०।५)। माऽपगूहथा माऽपगूहिष्ठा मा तिरोधाः, मा संवृथाः, मा संवरिष्ठाः, मा संवरीष्ठाः।
गॄ
- {अपगॄ}
- गॄ (गॄ निगरणे)।
- ‘सुवर्णं खादित्वाऽपगिरति’ (ऐ० आ० ३।२।४)। अपगिरति उद्गिरति वमति।
ग्रह्
- {अपग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘अंशूनप गृह्णाति’ (तै० सं० ६।४।५।१९)। अपगृह्णाति सङ्घातादपादत्ते।
- ‘आहुतिभिरेवैनमप गृह्णाति’ (तै० सं० ५।१।१।२)
चर्
- {अपचर्}
- चर् (चर-गतिभक्षणयोः)।
- ‘यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः’ (भा॰शां॰२६७.८)। तेषामपचरेत् तेषां मध्ये द्विजयचनमतिक्रामेत।
- ‘तदङ्गनास्वपाचरन्नरेन्द्रः’ (दशकु॰१६२)। अपाचरत् प्राकुरुत, अदूषयत्।
- ‘क्षीणलुब्धप्रकृतिमपचरितप्रकृतिं वा (कौ॰अ॰१५.१.१८०)।
- ‘आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम्’ (शा॰५.९)। अपचरितमपराधः, व्यतिक्रमः।
- ‘राजन् प्रजासु ते कश्चिदपचारः प्रवर्तते’ (रघु॰१५.४७)। अपचारो दुर्वृत्तं दुर्व्यवहारः।
- ‘शिष्यो गुराविव कृतप्रथमापचारः’ (महावीर॰४.२०)। अपचारोऽपराधः।
- ‘न राजापचारमन्तरेण प्रजास्वकालमृत्युश्चरति’ (उत्तर॰२)। उक्तोऽर्थः।
- ‘प्रतिषिद्धवाङ्मनसापचारे’ (गौ॰ध॰३.७.८)। अपचारः कुत्सिता प्रवृत्तिः।
- ‘त्वद्गतमपचारं सुहृदो मे वर्णयन्ति’ (तन्त्रा॰१.३)। अपचारं कदाचारम्।
- ‘महाध्वरे विध्यपचारदोषः’ (कि॰१६.४८)। विध्यपचारदोषः कर्मस्खलनदोषः।
- ‘नापचारमगमन् क्वचित्क्रियाः’ (शिशु॰१४.३२)। अ पचारो व्यृद्धिः, वैकल्यम्।
- ‘कृतापचारोऽपि परैरनाविष्कृतविक्रियः। असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा’ (शिशु॰२.८४)॥ अपचारोऽपथ्यम्, अपकारश्च।
- ‘पदार्थानामनपचारो यथाप्राप्तकरणमभ्रेषः’ (३.३.३७ सूत्रे वृत्तौ)।
- ‘प्रोऽयं दृष्टापचार आदिकर्मणि वर्तते’ (१.३.१ सूत्रे भाष्ये)। अपचारो व्यभिचारः।
- ‘रसेन स्वपण्यान्यपचारयेयुः’ (कौ० अ० १२।४।८)। अपचारयेयुः संनयेयुः संगमयेयुः।
- ‘ते ह्येनमपचरन्तमपि न त्यजन्ति सगन्धत्वात्’ (कौ० अ० १।८।१७)। अपचरन्तमपराध्यन्तं दुर्व्यवहरन्तम्।
- ‘यद्यपि तावदयं पराशब्दो दृष्टापचार उपसर्गश्चानुपसर्गश्च’ (पा० १।३।१९ सूत्रे भाष्ये)। अपचारो व्यभिचारः (उपसर्गत्वस्य)।
- ‘पलाशं कुशस्तम्बं वा पलाशापचारे’ (आश्व० गृ० १।२२।१९)। अपचारोऽभावः।
चाय्
- {अपचाय्}
- चाय् (चायृ-पूजानिशामनयोः)।
- ‘गुरुवृद्धापचायिनः’ (भा॰अनु॰१४५.२३)। हीनत्वसम्पादका इति नीलकण्ठः। अत्रापशब्दो नञर्थे। विरलतमोऽयं चायधातुसहचरितस्यापोपसर्गस्य प्रयोगः।
- पूजार्थे त्वस्य प्रसिद्धिः- ‘अपचिकीहि’ (अथर्व॰१.१०.४)। इत्यत्र यथा। अपचिकीहीति यङ्लुकि लोण्मध्यमैकवचने रूपम्।
- ‘तत्र चायः की’ (६.१.२१) इत्यनेन चायः ‘की’ इत्यादेशः।
- ‘नैवोपयान्त्यपचितिं कवयस्तवेश (भा॰पु॰१०.७७.३७)। अपचितिं निष्कृतिम्।
- ‘अक्षरस्यापचित्यै महिम्ना रसेन’ (छां० उ० १।१।९)। अपचित्यै पूजायै।
- ‘इतस्ताः सर्वा नश्यन्तु काका अपचितामिव’ (अथर्व० ६।२५।१)। अपचितां पूजितां पतिव्रतां स्त्रियम् (प्राप्य)।
चि
- {अपचि}
- चि (चिञ्-चयने)।
- ‘प्रकृतिः सूयते तद्वदानन्त्यान्नापचीयते’ (भा॰)। न हीयते नक्षीयत इत्याह।
- ‘राजहंस तव सैव शुभ्रता चीयते नापचीयते’ (का॰प्र॰१०)। नापचीयते=नाल्पी भवति।
- ‘वैचित्योपचयादुच्चैरौचित्यमपचीयते’ (शि॰भा॰१६.३४)। अपकर्षमाप्नोति=ह्रसति।
- ‘तेभ्यः कुमारोऽपि यदूनां नापचीयते’ (वि॰पु॰५.३७.२६)। नापचीयते=अपकृष्टो न भवति।
- ‘अपचितमपि गात्रं व्यायतत्वादलक्ष्यम्’ (शा॰२.४)।
- ‘एष ते विहितो राजन् धात्रा धर्मः सनातनः। तस्मादपचितः पार्थ लोके हास्यं गमिष्यसि’ (भा॰वन॰३३.५६)॥ अपचितो हीनः।
- ‘अपचितां लोहिनीनाम्’ (सुश्रुते)। गलादारभ्याधस्तात् कक्षादिसन्धिस्थानेषु प्रसृता गण्डमाला।
- ‘अगणितपरिखेदा याति षण्णां सुतानाम्। अपचयगमनाथं सप्तमं रक्षमाणा’ (बाल॰१.१०)।
- ‘अहो दुःखमिति ध्यायन् दुःखस्यापचितिं चरेत् (भा॰शां॰२५.१७)। अपचितिं प्रतीकारम्।
- ‘करिष्यति महाभागे ध्रुवं चापचितिं मम’ (भा॰शल्य॰६४.३९)। उक्तोऽर्थः।
- ‘अविन्देथामपचितिं वधत्रैः’ (ऋ॰४.२८.४)। अपचितिं वैरनिर्यातनम्।
- ‘न वैनतेयो गरुडः प्रशंसति महाजनम्। दृष्ट्वा सुपर्णोऽपचितिं महत्या अपि भारत’ (भा॰भीष्म॰३.८४) अपचितिं नाशम्।
- ‘भवेदपचितिः पूजाव्ययनिष्कृतिहानिष्विति मेदिनी।
- मम लुब्धस्य पापस्य तथा धर्मापचायिनः’ (भा॰द्रोण॰१५०.१८)। धर्मापचायिनः=धर्मक्षेपकस्य।
- ‘यश्चापि विधिमुत्सृज्य…। प्राप्नोत्यपचयं घोरम्’ (ना० शा० ५।१७१) अपचयो दृष्टे प्रत्यवायः।
चित्
- {अपचित्}
- चित् (चिती-सञ्ज्ञाने)।
- ‘नेत्त्वदपचेतयातै’ (वा॰सं॰२.१७)। त्वत्तः सकाशाद् वियुक्तः सन्नेष परिधिर्मास्मान् विगतचेतस्कान् करोतु (उवटः)। त्वत्तोऽपगन्तं मा जानातु। त्वदपगतचित्तो मास्तु इत्यर्थ इति महीधरः।
च्यु
- {अपच्यु}
- च्यु (च्युङ्-गतौ)।
- ‘इहैवैधिमापच्योष्ठाः’ (ऋ॰१०.१७३.२)। मा नो हासीरित्याह। अस्मान् हित्वा मान्यत्र यासीरित्यभिप्रेतं मन्त्रकृतः।
- ‘गिरा वज्रो न संभृतः सबलो अनपच्युतः’ (तै० ब्रा० १।५।८।३)। अनपच्युतोऽपलायितः।
- ‘अभ्यर्षाऽनपच्युतो रयिम्’ (ऋ० ९।४।८)। अनपच्युतो ऽनाहतः (शत्रुभिः)।
- ‘बृहत्सुवीरमनपच्युतं सहः’ (ऋ० ५।४४।६)। अनपच्युतमनुपक्षीणम्।
छद्
- {अपच्छद्}
- छद् (छद-अपवारणे)।
- आप॰श्रौ॰१.२.८.२४ इत्यत्रैष प्रयोगो दृश्यते- ‘पुत्रमिवैनमनुकाङ्क्षन् सर्वधर्मेष्वनपच्छादयमानः’। अपरच्छादिरत्र पिधानस्यापाकरणे वर्तते। अनपच्छादयमानः किञ्चिदप्यगूहमानः।
छिद्
- {अपच्छिद्}
- छिद् (छिदिर्-द्वैधीकरणे)।
- ‘स यं प्रथमं शकलमपच्छिनत्ति’ (श॰ब्रा॰३.६.४.११)। अपच्छिनत्ति=छित्त्वा पृथक्करोति।
- ‘दद्भिरपूपस्य नापच्छिन्द्यात्’ (आप॰ध॰१५.१६.१७)। उक्तोऽर्थः। दद्भिर्दशनैः।
- ‘आजरसं हास्मै वाजिनं नापच्छिद्यते’ (ऐ॰ब्रा॰१.१४)। अपच्छेदो निवृत्तिः।
- ‘संयुक्तस्य हि पृथग्भावोऽपच्छेदः’ (मी॰६.५.५० सूत्रे शा॰भा॰)।
- ‘अपच्छिन्नया (भूम्या) शत्रोरुपरुद्धम्’ (उपग्राहयेत्) (को० अ० ७।१६।१६)। अपच्छिन्ना=आच्छिन्ना=अपहृता।
जन्
- {अपजन्}
- जन् (जनी-प्रादुर्भावे)।
- अपजातः (पुत्रः) पितृभ्यां गुणैरपकृष्टः। जातः पुत्रोऽनुजातश्च अतिजातस्तथैव च। अपजातश्च लोकेऽस्मिञ्ज्ञेयं पुत्रचतुष्टयम्॥ मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः। अतिजातोऽधिकस्तस्माद् अपजातोऽधमाधमः॥
जि
- {अपजि}
- जि (जि-जये, जि-अभिभवे)।
- ‘अप ह वै स्नात्वा भिक्षां जयति’ (श॰ब्रा॰११.३.३.७)। अपजयति=पराजयते=हारयति।
- ‘येन मृत्युमपजयति’ (श॰ब्रा॰)।
- ‘चौरहृतमपजित्य यथास्थानं गमयेत्’ (गौ॰ध॰२.१.४६)। जयेनाभिभवेनापहृत्येत्याह।
- ‘आजिपथे वा कुटिं कृत्वा ब्राह्मणगव्योऽपजिगीषमाणो वसेत्’ (आप॰ध॰१.९.२४.२१)। दस्यूनपजित्य प्रत्याहर्तुमिच्छन् इत्यर्थः। ब्राह्मणगव्यः=ब्राह्मरणगवीः।
- ‘वादिनोऽपजयहेतुर्निग्रहस्थानम्’ (तै॰सं॰दी॰)। अपजयः=पराजयः।
- ‘अपाशनायां च पुनर्मृत्युं च जयन्ति’ (शां० ब्रा० २५।१)। अपजयन्ति विजयन्ते प्रसहन्ते।
- ‘एतौ मे पुनर्मृत्युमपजेष्यतः’ (जै० ब्रा० १।२६)। उक्तोऽर्थः।
- ‘तदहः पुनर्मृत्युमपजयति’ (बृह० उ० १।५।२)। अपजयति वारयति।
- ‘देवा वै यज्ञ पराजयन्त तमाग्नीध्रात्पुनरपाजयन्’ (तै० सं० ६।३।१।१)। अपाजयन् अपादाय स्ववशेऽकुर्वन्।
ज्ञा
- {अपज्ञा}
- ज्ञा (ज्ञा-अवबोधने)।
- ‘आत्मानमपजानानः शशमात्रोऽनयद् दिनम्’ (भट्टि॰८.२६)। अपजानानः=गूहमानः, स्वरूपमाच्छादयमानः।
- ‘शतं मे धारयसि, यदि न सहसे दातुं मा दाः, अपजानीषे किम्’ (वा॰मु॰)। अपजानीषेऽपलपसि, अपह्नुषे।
- ‘न जातु चिदपजानीमहे दृष्टमर्थाभिधानस्योपकारकत्वम्’ (मी० शा० भा० १।२।४।३२)। नापजानीमहे नापलपामः।
तक्ष्
- {अपतक्ष्}
- तक्ष् (तक्षू/त्वक्षू-तनूकरणे)।
- ‘तेजो ह वा एतद् वनस्पतीनां यद्बाह्यशकलस्तस्माद्यदा बाह्यशकलमपतक्ष्णुवन्यथ शुष्यन्ति’ (श॰ब्रा॰३.७.१.८)। अपतक्ष्णुवन्ति=तक्षणेन पृथक्कुर्वन्ति।
तन्
- {अपतन्}
- तन् (तनु विस्तारे)।
- ‘अपत्यं कस्मात्। अपततं भवति’ (नि० ४।१)। पितुः सकाशादेत्य पृथगिव भवतीति दुर्गः।
- ‘त्वो ऽपततः’ (नि० ३।२०।५)। अपततः=अपेत्य ततः (दुर्गः)।
तृप्
- {अपतृप्}
- तृप् (तृप-तृप्तौ, तृप-प्रीणने)।
- ‘स्थूलमेदस्विनमपतर्पयामः’ (चरके सूत्र॰१०.६)। उपवासमनशनं कारयाम इत्याह।
- ‘ण्यन्तकस्तर्पिरुपवासने रूढः। अपशब्दोऽत्र धात्वर्थं विपर्यासयति।
- ‘साम्रेडं चाहुरत्र भिषजः- अजीर्णे भोजनं विषमित्ययमपतर्पयितव्यः।
- अपतन्त्रकातुरं नापतर्पयेत्’ (सुश्रुते २.४३.१)।
त्रप्
- {अपत्रप्}
- त्रप् (त्रपूष्-लज्जायाम्)।
- ‘नापत्रपेत प्रश्नेषु नाविभाव्यां गिरं सृजेत्’ (भा॰शां॰९३.१०)। न्यायनिष्ठुरमुत्तरं दद्यादित्यर्थ इति नीलकण्ठः।
- ‘येनापत्रपते साधुरसाधुस्तेन तुष्यति’ (भा॰वन॰२.६४)।
- ‘य आत्मनाऽपत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत’ (भा॰उ॰३३.१२१)।
- ‘तेऽपत्रपन्ति तादृग्भ्यस्तादृग्वृत्ता भवन्ति च’ (भा॰शां॰२६७.२३)।
- ‘क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा’ (भा॰उ॰९.३४)। आसु सर्वत्रोदाहुतिष्वपशब्देन नार्थः कश्चिदुपजन्यते। लज्जा साऽपत्रपान्यत इत्यमरोक्तिरपि सापवादा, इहैव य आत्मनाऽपत्रपत इत्युक्तेः।
त्रस्
- {अपत्रस्}
- त्रस् (त्रसी-उद्वेगे)।
- ‘अप स्म मत् तरसन्ती न भुज्युस्ता अत्रसन् रथस्पृशो नाश्वाः’ (ऋ॰१०.९५.८)। अपात्रसन्=भयाद् व्यद्रवन्।
- ‘अपेतापोढमुदतपतिनापत्रस्तैरल्पशः’ (२.१.३८)। अत्र पाणिनीये तरङ्गापत्रस्त इत्युदाहरणम्। उद्विज्यापगत इत्यर्थः।
दस्
- {अपदस्}
- दस् (दसु-उपक्षये)।
- ‘नापदस्यन्ति धेनवः’ (ऋ॰१.१३५.८)। चोराद्यपहारप्रवीणा न भवन्ति इति सायणः। अपशब्देन नात्र विशेषः कश्चिदुपधीयते। केवलस्य धातोर्दुर्लभः प्रयोग इत्येव द्योत्यते।
दिश्
- {अपदिश्}
- दिश् (दिश-अतिसर्जने)।
- यदि मां रत्नागतित्वेनापदेश्यसि तदा महाननर्थः। मिथ्या मन्नाम निर्देक्ष्यसि इति विवक्षा।
- ‘तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धावेव प्रवर्तमानौ कथं पुरुषेऽपदिश्येते’ (यो॰सू॰२.१८ भाष्ये)। व्यवह्रियेते इत्याह।
- ‘विजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम्’ (शिशु॰२.५९)। आरोपेणोच्यताम्।
- ‘अपदेशो मे जनकान्नोत्पत्तिर्वसुधातलात्’ (रा॰१.११६.१६)। अपदेशो गोत्रनिर्देशः।
- ‘केनापदेशेन पुनराश्रमं गच्छामः (शा॰२)। अपदेशो व्याजः।
- ‘रक्षापदेशान्मुनिहोमधेनोः’ (रघु॰२.४)। उक्तोऽर्थः। हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्। हेत्वपदेशः=हेतूपन्यासः।
- ‘नैष न्यायो वेशकुलस्य यद्दातुरपदेशः’ (मृच्छ॰)। अपदेशः प्रख्यापनम्।
- ‘पदे लक्ष्ये निमित्तेऽपदेश इत्यमरः। पदं स्थानम्।
- ‘त्यक्तापदेशो यतिरित्यमरोद्घाटने स्वामी। अहोरात्रापदेशे गताः संवत्सरा दश’ (रा॰१.६३.११)। अहोरात्रतुल्यमित्यर्थः।
- ‘देहं त्यक्त्वाऽपदेशान्ते परे परिणतिं गतः’ (यो॰वा॰६ (२)।१५८.४)। अपदेशो देवहितमायुः (देवैर्विहितो नियतो जीवनकालः) इति टीका।
- ‘रहसि भर्त्रा मद्गोत्रापदिष्टा’ (दशकु॰१०२)। मन्नाम्ना सम्बोधितेत्याह।
- ‘एकस्मिन्नप्याद्यन्तापदिष्टानि कार्याणि भविष्यन्ति’ (१.१.२१ सूत्रे भाष्ये)। अपदिष्टानि=उपदिष्टानि=विहितानि।
- ‘प्रपदिश्यापदेश्यं च पुनर्यस्त्वपधावति’ (मनु॰८.५४)। कथनीयमपन्यसनीयं कथयित्वा यस्त्वपसरति, अन्यथा भाषत इत्यर्थः।
- ‘मित्रकृत्यमपदिश्य (रघु॰१९.३१)। मित्रकृत्यं निमित्तं मिथ्योदाहृत्येत्याह।
- शिरःशूलस्पर्शमपदिशन्’ (दशकु॰५६)। उक्तोऽर्थः।
- ‘क्रत्वर्थमपदिश्यान्यस्मै’ (का॰श्रौ॰७.२.७)। इहोपदिशिरपदिशिना सङ्कीर्यते। सोऽयं व्यवहारानुगः सङ्करो न व्यावहारातिगः, बहुलं दृष्टेः।
- ‘चोरेणाभिशस्तो वैरद्वेषाभ्यामपदिष्टकः शुद्धः स्यात्’ (कौ० अ० ४।८।७)। अपदिष्टको मिथ्यादूषितः।
- ‘हित्वा नरपतिबन्धनापदेश-व्यापत्ति-व्यसनमहार्णवं महान्तम् (प्रतिज्ञा०)। नरपतिबन्धनमपदेशो निमित्तं यस्या व्यापत्तेः सा, सैव व्यसनमहार्णवः।
- ‘तांश्चापदेशैः प्रतिसमानयेत्’ (कौ० अ० ४।८।२)। अपदेश उपन्यासः प्रतिज्ञानम्।
दॄ
- {अपदॄ}
- दॄ (दॄ-विदारणे)।
- ‘अप दृळ्हानि दर्द्रत्’ (ऋ॰६.१७.५)। भृशं दारयमाण इत्याह। अपशब्दो दारणं विशिनष्टि।
दै
- {अपदै}
- दै (दैय्-शोधने)।
- ‘अपदानान्युदाहृत्य’ (रा॰२.६५.४)। विक्रान्तान्युदात्तानि वा पूर्वकर्माणि।
- ‘शङ्कनीये देशे पूर्वापदाने च गृहीतमनुयुञ्जीत’ (कौ० अ० २।३६।३६)। अपदानमपचारो दुर्वृत्तम्। अवदानं तु सोत्कर्षं चरितं भवति निर्व्यूढम् इत्यपावयोर्भेदः।
द्रा
- {अपद्रा}
- द्रा (द्रा-कुत्सायां गतौ)।
- ‘हायनोप द्राह्यवीरहा’ (अथर्व॰६.१४.३)। अपक्रम्य कुत्सितां गतिं गच्छेत्याह।
- ‘सुगेभिर्दुर्गमतीतामपद्रान्त्वरातयः’ (ऋ॰१०.८५.३२)। अपद्रान्तु=अपद्राणा भवन्तु, विद्रवन्त्वित्याह।
द्रु
- {अपद्रु}
- द्रु (गतौ)।
- ‘परावृत्तमपावृत्तमपद्रुतमवप्लवम्’ (रा॰६.४०.२५)। प्रवणीकृतकायस्य या विद्रुतिस्तदपद्रुतम्।
धा
- {अपधा}
- धा (डुधाञ्-धारणपोषणयोः)।
- ‘अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद् दधातु’ (ऋ॰१०.१६४.३)। अपधातु=दूरे दधातु=अपनयतु=अपाकरोतु।
- ‘महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः’ (ऋ॰६.२०.५) अपधायि=अपाधायि।
- ‘यो गा उदाजदपधा वलस्य’ (ऋ॰२.१२.३)। अपधा=अपधायाः=पिधानात्। अपधा तिरस्कृतस्तिरोहितः परिहितो वा प्रदेशः।
धाव्
- {अपधाव्}
- धाव् (धावु-गतिशुद्धयोः)।
- ‘अप धावतामर्त्या मर्त्यान्मा सचध्वम्’ (अथर्व॰४.३७.१२)। अपधावत त्वरितं दूरं गच्छतेत्यर्थः। अपशब्दो विप्रकर्षवचनः।
- ‘यथा ह वै हन्यमानामपधावेद् एवमेषोऽभिषूयमाणानां स्कन्दति, तथा ह तस्य नैव धावन्नपधावन् शिष्यते’ (श॰ब्रा॰४.१.१.२६)। उक्तोऽर्थः।
ध्मा
- {अपध्मा}
- ध्मा (ध्मा-शब्दाग्निसंयोगयोः)।
- ‘अपाधमदभिशस्तीः’ (ऋ॰८.७८.२)। आध्मानेनापाकरोदित्याह।
- ‘इन्द्रद्विष्टामपधमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि’ (ऋ॰९.७३.५)। तेऽपध्माता महात्मना।
- ‘भस्मराशीकृताः सर्वे समेताः सगरात्मजाः’ (रा॰गोरेसियो-सं॰१.४२.२७)। उक्तोऽर्थः।
ध्यै
- {अपध्यै}
- ध्यै (ध्यै-चिन्तायाम्)।
- ‘नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत्’ (भा॰शां॰२१५.९)। परस्यानिष्टं न चिन्तयेदित्याह।
- ‘अपघ्यास्यन्ति मे देव’ (भा॰द्रोण॰५४.४)।
- ‘अधर्मस्ते न भविता नापघ्यास्याम्यहं शुभे’ (भा॰द्रोण॰५४.३९)।
- ‘तदा भीमं हृदा राजन्नापघ्यास्यति सः’ (भा॰१५.६१)।
- ‘अपघ्याता च विप्रेण न्यपतद् धरणीतले’ (भा॰वन॰२०६.५)।
- ‘अपघ्यातो महेन्द्रो हि मुनिना देवशर्मणा। अस्याकाङ्क्षात्पुरा भार्याम्’ (हरि॰२.७२.६४)।
- ‘अपघ्याता भगवता महादेवेन धीमता (प्रजाः)’ (हरि॰१.३.४)। उक्तचरोऽर्थो न पुनर्वचनमपेक्षते।
‘अपघ्यानेन सा तेन धूमारुणसमप्रभा’ (भा॰आदि॰२३२.२९)।
ध्वंस्
- {अपध्वंस्}
- ध्वंस् (ध्वंसु-अवस्रंसने गतौ च)।
- ‘अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः’ (हरि॰१.१२.१५)। अपध्वंस=अपेहि।
- ‘आ अपध्वंस’ (दूत॰)। उक्तोऽर्थः।
- ‘न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः’ (भा॰आदि॰१४०.५५)। न कुत्सयेदित्याह।
- ‘पांशूनपध्वंसयन्तः’ (तै॰ब्रा॰सा॰भा॰)। अपध्वंसयन्तः=दूरीकुर्वन्तः।
- ‘अपध्वस्तैर्वस्तिवर्णैरिव’ (ते॰आ॰१.४.४)। अपध्वस्तै रजोदूषितैः।
- ‘अपध्वस्तवपुः सोऽपि (वि॰पु॰२.१३.४१)। उक्तोऽर्थः।
- अपध्वस्तस्तु धिक्कृत इत्यमरः। मूर्ख, अपध्वस्तोऽसि।
- ‘अपघ्वस्तस्त्ववमतो दुःखं जीवितमृच्छति’ (भा॰शां॰१२३.१९)।
- ‘अपध्वस्ता दस्युभूता भवन्ति ये ब्राह्मणान् क्षत्रियाः सन्त्यजन्ति’ (भा॰शां॰७३.१०)।
- ‘शरैरपध्वस्तविनीतवेषम्’ (रा॰७.८.५०)। अपध्वस्तः=अपध्वंसितः=अपस्रंसितः=त्याजितः। अपध्वस्तो विनीतो वेषोऽस्य तम्।
- ‘अपध्वंसजाः स्मृताः’ (मनु॰१०.४०)। सङ्कीर्णयोनय इत्युक्तं भवति। अत्र पितरमपेक्ष्य माता प्रकृष्टवर्णतरा भवति।
ध्वन्
- {अपध्वन्}
- ध्वन् (ध्वन-शब्दे)।
- अपपूर्वस्यास्य च्छान्दोग्योपनिषदि प्रयोगः- ‘अपध्वान्तं वरुणस्य’ (२.२२.१)। विस्वरो गानविशेषः।
नम्
- {अपनम्}
- नम् (णम-प्रह्वत्वे शब्दे च)।
‘अथ य एष (यूपः) आनतः। उपरिष्टादपनतो मध्ये सोऽशनायै रूपम्’ (श॰ब्रा॰११.७.३.३)। अपनतः=बहिरावर्जितः। (शां॰ब्रा॰१०.१)। इत्यत्राप्यपनत इति प्रयुक्तं समानार्थकम्।
नश्
- {अपनश्}
- नश् (णश-अदर्शने)।
‘अपनश्य, धिक् त्वा जाल्मास्तु’ (शां॰ब्रा॰३०.५)। अपनश्येति नशेर्लोण्मध्यमैकवचने रूपम्। अपध्वंसेत्याह।
नह्
- {अपनह्}
- नह्, (णह-बन्धने )
- ‘अप नह्यामि ते बाहू अपि नह्याम्यास्यम्’ (अथर्व॰७.७०.५)। पृष्ठतो बध्नामीत्यर्थः।
- ‘अप नह्य वासम्’ (भा॰वन॰१९८.८)। विग्रन्थि करोमीत्याह। पूर्वत्रोदाहरणेऽपशब्दो धात्वर्थानुवादी, इह तु धात्वर्थविपर्यासकृदिति शब्दशक्तिवैचित्र्यम्।
नी
- {अपनी}
- नी (णीञ्-प्रापणे)।
- ‘न कश्चिन्नापनयते पुमानन्यत्र भार्गवात्’ (भा॰उ॰३९.३०)। अ पनयतेऽनीतिं दुर्नयं करोतीत्यर्थः।
- ‘शत्रौ हि साहसं यत्तत्किमिवानापनीयते’ (रा॰६.६४.१०)। अपनीयते=अपनयः क्रियते=असद् व्यवह्रियते।
- ‘निर्दिश्यापह्नुते च यः’ (मनु॰८.५३)। अत्र कुल्लूको व्याचक्षाण आह- न तन्मया निर्दिष्टमित्यपनयति। अपलपतीति च विवक्षति।
- ‘यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्’ (भा॰आदि॰२.५६)। अपनिन्युः=अपवाहितवन्तः।
- ‘जलेन कः शीतमपनयति’ (पञ्चत॰१.३५३)। दूरीकरोतीत्यर्थः।
- ‘अन्धतमसमन्धकारेणापनिनीषति’ (प्र॰च॰)। अपनेतुं दूरीकर्तुमिच्छतीत्याह।
- ‘यदिदं राज्यमपनीतमनार्यया’ (रा॰गोरेसियो-सं॰२.११७.७)। अपहृतम्, मुषितम् इत्यर्थः।
- ‘अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते’ (भा॰उ॰३९.५४)। अपनीतमपनयेन निर्व्यूढम्।
- ‘धर्मापनीतस्य दृश्यते कर्मणः फलम्’ (रा॰३.५५.४०)। धर्मापनीतस्य=धर्मापेतस्य।
- ‘सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः। …नाकरोः शासनं मम’ (रा॰३.५९.२४)॥ अपनीतम्=अपनयः=अनाचारः। नपुंसके भावे क्तः।
- ‘सचिवेनापनीतं ते विदुषा प्राज्ञमानिना’ (भा॰शां॰१११.५०)। अपनीतम्प्रतिकूलमाचरितम्।
- ‘अपनीय शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्’ (रा॰३.५४.२६)। अपनीय=अपहृत्य।
- ‘प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः’ (सुश्रुत० उत्तर० ३९।१३३)। अपनयेत् विश्लेषयेत्, पृथक् कुर्यात्।
नु
- {अपनु}
- नु (णु-स्तुतौ)।
- ‘सव्येन कुशानादाय दक्षिणेनापनौति’ (शां॰गृ॰१.८)। अपनौति=एकतः करोति।
नुद्
- {अपनुद्}
- नुद् (णुद्-प्रेरणे)।
- ‘न रोदसी अपनुदन्त घोराः (मरुतः)’ (ऋ॰१.१६७.४)। अपशब्दो नोदनविषयं वैदूर्यमाह।
- ‘अप मृधो नुदस्व’ (ऋ॰३.४७.२)।
- अपमृत्युं नुदन्तु (अथर्व॰१२.३.४९)।
- ‘जरां रोगमपनुद्य शरीरात्’ (शां॰गृ॰३.८) अपनुद्य=अपाकृत्य=विगमय्य।
- ‘अपनुत्तौ शण्डामर्कौ सहामुना’ (तै० ब्रा० १।१।१।५)। अपनुत्तौ निराकृतौ पराकृतौ।
- ‘यत्पराचीमपनुदन् गायेद् वाचं प्रधमेत्। वागस्मादपक्रामुका स्यात्’ (जै० ब्रा० १।१०२)।
- ‘तुन्दशोकयोः परिमृजापनुदोः’ (पा० ३।२।५)। शोकापनुदः सुतः, शोकमपनुद्य सुखमाहरति यः, सः।
पद्
- {अपपद्}
- पद् (पद-गतौ)।
- ‘ययोर्वधान्नापपद्यते कश्चन’ (अथर्व॰४.२८.५)। वधात् पराङ् न याति, वधविषयं नातिक्रामतीत्याह।
पॄ
- {अपपॄ}
- पॄ (पॄ-पालनपूरणयोः, ह्रस्वान्तोऽयमिति केचित्, पृ-प्रीतौ)।
- ‘विश्वानि पूरोरपपर्षि’ (ऋ॰१.१२९.५)। अपपर्षि=पराणुदसि।
प्रु
- {अपप्रु}
- प्रु (प्रुङ्-गतौ)।
- ‘ततोऽवाङपप्रवते’ (श॰ब्रा॰५.४.३.२३)। अवप्लवत इत्याह।
- ‘ततोऽसुरा अपप्रुप्नुविरे’ (श॰ब्रा॰९.५.१.२७)। अवपुप्लुविरे, अवास्कन्दन्नित्यर्थः।
प्रोथ्
- {अपप्रोथ्}
- प्रोथ् (प्रोथृ-पर्याप्तौ)।
- ‘अप प्रोथ दुन्दुभे दुच्छुना इतः’ (वा॰सं॰२९.५६)। अपकृत्यापकृत्य नाशयेत्युवटः।
प्लु
- {अपप्लु}
- प्लु (प्लुङ्-गतौ)।
- ‘अथ मैत्रावरुणचमसेनैतामाहुतिमपप्लावयति’ (श॰ब्रा॰३.९.३.२६)। आहुतिं तारयतीत्याह।
- ‘पाप्मानमेवास्माच्छमलमपप्लावयति’ (तै० ब्रा० ३।८।४।३)। प्लावनेनापनयतीत्यर्थः।
बाध्
- {अपबाध्}
- बाध् (बाधृ-विलोडने)।
- ‘उषा उच्छन्त्यपबाधतामघम्’ (ऋ॰१०.३५.३)। दूरं नयताम्।
- ‘शल्यं दुरपहरमन्यतोऽपबाध्यमानं पाटयित्वोद्धरेत्’ (सुश्रुते १.१०१.४)।
- ‘तेभ्यो वै (ऋभुभ्यः) देवा अपैवाबीभत्सन्त मनुष्यगन्धात्’ (ऐ॰ब्रा॰३.३०)। जुगुप्समानाः पृथगवातिष्ठन्तेत्याह। अपशब्दः पार्थक्यं वक्ति। मनुष्यगन्धात् ईषन्मनुष्यत्वादिति जुगुप्सायां हेतुरुक्तः।
- ‘अपामीवां बाधमानो मृधश्च’ (ऋ० ९।९७।४३)। अपबाधमानोऽपद्रावयन्।
- ‘बाधमाना अप द्विषः।’ (ऋ० १।९०।३)। उक्तोऽर्थः।
- ‘आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन’ (नि० ५।२४।२)। शम्बो वज्रः। अपबाधस्व नाशय।
- ‘उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी’ (ऋ० ७।७८।२)।
भज्
- {अपभज्}
- भज् (भज-सेवायाम्)।
- ‘अप ते गवां सुभगे भजाम’ (ऋ॰१०.१०८.९)। अपोद्धृत्य भागं गास्ते ददामेत्याह।
- ‘अप ते गवां सुभगे भजाम’ (ऋ० १०।१०८।९)। पुस्तके पठितचर ऋक्चरणः। सायणीयं व्याख्यानमुपन्यसितुमिहानुवादः। आह च भाष्यकारः–पर्वतादपगमय्य भजाम विभजाम त्वं च वयं चेति।
भाष्
- {अपभाष्}
- भाष् (भाष-व्यक्तायां वाचि)।
- ‘न केवलं यो महतोऽपभाषते’ (कु॰५.८३)। अपभाषते=अपवदति=अधिक्षिपति=आक्रोशति।
भिद्
- {अपभिद्}
- भिद् (भिदिर्-विदारणे)।
- ‘भिन्द्धि विश्वा अप द्विषः’ (ऋ॰८.४५.४०)। भित्त्वाऽपध्वंसयेत्यर्थः।
भू
- {अपभू}
- भू (भू-सत्तायाम्)।
- ‘माकिर्देवानामपभूरिह स्याः’ (ऋ॰१०.११.९ ;१.१३१.७)। अपभूः=अस्मद्यज्ञाद् अपभविता अपगन्ता मा भूदित्यर्थः।
- ‘अपभूतु दुर्मतिः’ (ऋ॰१.१३१.७)। इतो दूरेऽवतिष्ठतामित्याह।
- ‘सपत्ना ये मेऽप ते भवन्तु’ (अथर्व॰४.३४.७)। अपहता भवन्त्विति सायणः।
- ‘गृहमेधास आगत मरुतो मापभूतन’ (ऋ॰७.५९.१०)। माऽपेतेत्याह।
- ‘पश्चा मृधो अप भवन्तु विश्वाः’ (अथर्व॰२०.९१.११)। अपहता भवन्त्वित्यर्थः।
- ‘सौधन्वना ऋभवो मापभूत’ (ऋ॰४.३५.१)। दूरे मा स्म भवतेत्याह।
- ‘यो ज्येष्ठबन्धुरपभूतः स्यात्’ (तै० सं० ३।४।८।२८)। अपभूतो न्यक्कृतः।
- ‘इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत’ (ऋ० ४।३।५।१)। मापभूत=दूरे मास्म भवत।
भ्रंश्
- {अपभ्रंश्}
- भ्रंश् (भ्रंशु अवस्रंसने)।
- ‘देवाः स्वर्गं लोकमायन्नपासुरा अभ्रंशन्त’ (मै० सं० ४।६।४)। अपाभ्रंशन्त प्राच्यवन्त।
मा
- {अपमा}
- मा (माङ्-माने)।
- ‘अपेमां मात्रां मिमीहे’ (अथर्व॰१८.२.४०)। अप इत्युपसर्गेणापगतदोषता मानस्य प्रतिपाद्यत इति सायणः। तेन साधु मिमीह इत्यर्थः फलति। अन्यत्र दुर्लभोऽयमर्थोऽपस्य, प्रायेण दुरोऽर्थे पृथग्भावे वा प्रयोगदर्शनात्।
मृज्
- {अपमृज्}
- मृज् (मृजू-शुद्धौ)।
- ‘अपामार्ग त्वया वयं सर्वं तदपमृज्महे (अथर्व॰४.१७.६)। अपमृज्महे=अपमृज्मः=नाशयामः।
- ‘बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते’ (मनु॰२.२७)। शोध्यते, पूयत इत्यर्थः।
मृद्
- {अपमृद्}
- मृद् (मृद-क्षोदे)।
- ‘हस्तिहस्तकरीषाभ्यामपमर्दः कृतो महान्’ (रा॰)। अपमर्दः=रजः=धूलिः पङ्को वा।
- ‘अपमृद्य पतिं हरामि सीताम्’ (आश्चर्य० ३।१६)। अपमृद्य निहत्य।
मृष्
- {अपमृष्}
- मृष् (मृष-तितिक्षायाम्)। ‘मृषस्तितिक्षायाम्’ इति सूत्रे (१.२.२०) अपमृषितं वाक्यमाहेत्युदाहरणं वृत्तौ। अविस्पष्टमिति तदर्थ इति हरदत्तः पदमञ्जर्याम्।
- ‘विहितं मयाऽद्य सदसीदमपमृषितमच्युतार्चनम्’ (शिशु॰१५.४६) इत्यत्र अपमृषितमसोढमित्यर्थ इति मल्लिः। उपसर्गवशाद् विपरीतार्थतेति च सः।
मे
- {अपमे}
- मे (मेङ्-प्रणिदाने)।
- ‘अपमित्यमप्रतीत्तं यदस्मि’ (अथर्व॰६.११७.१)। अपमातव्यमपाकर्तव्यं धान्यादिकमृणम् इत्येवमर्थापयते सायणः। अपमयतेरेवायं रूपनिष्पादः, मिञोऽपपूर्वस्यादर्शनात्। प्रणिदानं तु नार्थः, धातूनामनेकार्थत्वात्। अपमित्य याचते।
- ‘अपमाय याचत इति उदीचां माङो व्यतीहारे’ (३.४.१९) इति सूत्रे वृत्तावुदाहरणम्। कश्चिदाह अपमयतिरत्र ऋणविगणने वर्तते। तन्न। स्यान्नाम ऋणविगणनमार्थिकोऽर्थः, न तु धातुवाच्यः सः। धातुवाच्यत्वे हि व्यतीहारो न प्रतीयेत। नागेशोऽप्युद्द्योतेऽपमयते वस्त्रादिकं परिवर्तयतीति स्माह।
म्लुच्
- {अपम्लुच्}
- म्लुच् (म्लुचु गतौ)।
- ‘मां देवा दधिरे हव्यवाहम् अप म्लुक्तं बहु कृच्छ्रा चरन्तम्’ (ऋ० १०।५२।४)। अपम्लुक्तमपक्रम्यागतम्।
यज्
- {अपयज्}
- यज् (यज-देवपूजासङ्गतिकरणदानेषु)।
‘तांस्ते यज्ञस्य मायया सर्वानप यजामसि’ (कौ॰सू॰९७)। अपयजामसि=यज्ञेनावगमयामः।
या
- {अपया}
- या (या-प्रापणे, प्रापणमिह गतिः)।
- ‘सोऽपयामि शनैर्वीर बलवानेष पापकृत्’ (भा॰वन॰१८.८)। अपयामि=अपक्रामामि=पलाये। अपक्रमोऽपयानम्।
- अपयानं पलायनमित्यमरः।
- ‘मिथ्याज्ञानापाये दोषा अपयान्ति’ (सर्व॰सं॰)। अपयान्ति=अपयन्ति =नश्यन्ति।
- अपयानेऽपि च भवान् समर्थो लबुविक्रमः’ (रा॰)। उक्तोऽर्थः।
- ‘अपयाने मनः कृत्वा फाल्गुनं वाक्यमब्रवीत्’ (भा॰द्रोण॰१७३.२४)।
- आचार्यमातृपितृहन्तारस्तत्प्रसादादपयाप्याद्वा। एषा तेषां प्रत्यापत्तिः’ (व॰धर्म॰१५.१९)।
- ‘रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं वैदेहराजदुहितर्यपयापितायाम्’ (भा॰पु॰९.१०.११)। अपयापिता=अपोढा, अपहृता।
यु
- {अपयु}
- यु (यु-मिश्रणामिश्रणयोः)।
- ‘अप स्वसारं सनुतर्युयोति’ (ऋ॰१.९२.११)। अपयुयोति=वियौति=वियुङ्क्ते। स्वसारमुषसम्।
युज्
- {अपयुज्}
- युज् (युजिर्-योगे)।
- ‘एष एवैकविंशो य एष तपति। स एतस्मादेकविंशादपयुङ्क्ते’ (श॰ब्रा॰५.५.३.४)। अपयुङ्क्त=पृथग्भवति। आत्मानं ततो निष्क्रीणाति। अपशब्दो वेरर्थे। अकर्मक इह धातुः।
रञ्ज्
- {अपरञ्ज्}
- रञ्ज् (रञ्ज-रागे)।
- ‘श्वासापरक्ताधरः’ (शा॰)। अपरक्तः=अपगतरागः=अपगतलौहित्यः, विवर्णः।
- ‘नूनं मित्राणि ते रक्षः साधूपचरितान्यपि। स्वदोषादपरज्यन्ते’ (रा॰)। अनुरागं त्यजन्तीत्याह।
- पित्राऽपरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः’ (हरि॰१.५.३०, वि॰पु॰१.१३.४८)। अपरञ्जिताः=अपरागं गमिता उद्वेजिताः।
रम्
- {अपरम्}
- रम् (रमु-क्रीडायाम्)
- (इरिणम्) अपरता अस्मादोषधय इति वा’ (नि॰६.८.१)। अपरताः=अपगताः, अवस्थानमकुर्वाणाः।
- ‘प्रेक्ष्याद्रिसान्वपरतान्यसमस्तसत्त्वम्’ (भा॰पु॰१०.२१.१०)। अपरतम्= निश्चेष्टम्=कर्मान्तरविरतम्। अपशब्दो वेरर्थे। लौकिके साहित्येऽपपूर्वस्य रमेर्लभः प्रयोगोऽन्यत्र श्रीमद्भागवतात्। तत्र च्छन्दोऽनुकरणं बहुलम्।
राध्
- {अपराध्}
- राध् (राध/साध-संसिद्धौ)।
- ‘अपैतेनारात्सीरसौ स्वाहा’ (अथर्व॰५.६.७)। अपारात्सीः=अपराधमचारीः। दुष्कृतमकार्षीः। अपाचारीः। अपशब्दो धात्वर्थं विपरीतयति।
- ‘अन्त्यजातिद्विजातिं तु येनाङ्गेनापराध्नुयात्। तत्तदेव च्छेदयेत्तस्य’ (अग्निपु॰)। अत्रापराधिर्हिंसायां वर्तते।
- ‘राधो हिंसायाम्’ (६.४.१२३) सूत्रे वृत्तौ अपरेधतुः, अपरेधुरिति हिंसाद्योतनायापपूर्वस्य राधेरेत्वाभ्यासलोपौ दर्शितौ।
- ‘येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः’ (भा॰वि॰५२.६)। अपचरेयुरित्यर्थः।
- ‘धर्मे च नापराध्नोति’ (भा॰शां॰७१.१)। उभयत्र सौवादिकोऽपि राधिरकर्मकः। अन्यत्रापि तथा।
- ‘यदि बीभत्सुरायातस्तदा कस्यापराध्नुमः’ (भा॰वि॰४७.८)।
- ‘यया(इप्वा)ऽपैव राघ्नोति’ (श॰ब्रा॰५.३.५.२९)। याऽस्येषुरपराध्यतीत्याह।
- ‘यथा गत्वा काष्ठामपराध्नुयात् तादृक्तत्’ (ऐ॰ब्रा॰४.९)। स्खलनपतनादिरूपमपराधं कुर्यादित्याह।
- ‘ममापि सोऽपराध्नोति यो युष्माकमसौम्यकृत्’ (भा॰कर्ण॰३३.४१)। मय्यप्यपचरति, मय्यप्यपराद्धो भवति।
- ‘एवं स्त्री नापराध्नोति नर एवापराध्यति’ (भा॰शां॰२६६.३८)। अपराध्नोति=दोषभाग्भवति। श्यन्विकरणस्तु दिवादी राधिर्नैयत्येनाकर्मकः।
- ‘कच्चिन्नु राजपुत्रि ते सपत्नी चैत्रवाहनी। चित्राङ्गदा वरारोहा नापराध्यति किञ्चन’ (भा॰आश्व॰८१.४)। ‘ते’ इति चतुर्थ्यन्तम्। उक्तोऽर्थः।
- ‘दैवं तत्रापराध्यति’ (रा॰६.१०१.९)। विधेरयं दोष इत्याह।
- ‘यौवनमत्रापराध्यति न चारित्र्यम्’ (मृच्छ॰९)। यौवनमत्रार्थे दोषभाजनं भवतीत्यर्थः।
- ‘सैषा किं चापराध्यति’ (कथा॰२१.८०)। कमाचारमुच्चरते? केनापराधेन तद्वती भवति।
- ‘कः कस्येहापराध्यति’ (भा॰शां॰१३९.४९)। इत्यादिषूदाहृतिष्वकर्मकता राध्यते राधा भवति।
- ‘न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति’ (शिशु॰२.११)। शिशुपालो मे द्रुह्यतीत्याह।
- ‘तथा नस्त्वं गौतम माऽपराधास्तव च पितामहा यथा’ (श॰ब्रा॰१४.९.१.११)। अवश्यमुपेहि नः, असन्निधानेनापराद्धो मा भूरित्याह। प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः।
- ‘वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते’ (प्र॰च॰२.४)॥ कोऽपराधः क्रिपते, किं विघटयते, किं विक्रियत इत्याह।
- ‘सर्वकार्येष्वपराध्यत्वान्नापराध्यन्ति चाङ्गनाः’ (भा॰शां॰२६६.४०)। सर्वकार्येष्वपराध्यत्वादनुरोध्यत्वावल्पबलत्वेन सर्वथा पुरुषाधीनत्वान्नापराध्यन्ति (दोषभाजो न भवन्ति) इति नीलकण्ठः।
- ‘प्रोवाच कोसलपतिः प्रथमापराद्धः’ (रघु॰९.७९)। प्रथममपराधं कृतवान्। कर्तरि क्तः। अकर्मकत्वात्।
- ‘किं पुनरसुरावलेपेन भवतीनामपराद्धम्’ (विक्रम॰१)। भावे क्तः। अकर्मकत्वात्। कोऽपराधः कृतः, को व्यतिक्रमोऽनुष्ठित इत्यर्थः।
- ‘निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम्’ (शिशु॰२.२७)। निमित्तम्=लक्ष्यम्। अपराद्धेषुः=च्युतसायकः।
- अपराद्धाऽभिषेकवेलोपाध्यायस्य (विद्ध॰३)। अपराद्धा=अतिक्रान्ता। सकर्मकोऽत्र राधिः सौवादिको वेद्यः। कर्मणि क्तः।
- ‘एतद्वा अनपराद्धं नक्षत्रं यत्सूर्यः (श॰ब्रा॰२.१.२.१९)। अकर्मको दिवादिर्धातुः, कर्तरि क्तः।
- ‘एवं को वाऽपराध्नोत्यमुमविगणयन् बाहुमत्रेति घुष्यम्’ (चम्पू० भा० २।५०)। अत्र मयि कोऽपराध्नोत्यपराध्यति। अपराधमाचरति। श्नुविकरणोपि राधिरत्राकर्मकः।
रुध्
- {अपरुध्}
- रुध् (रुधिर्-आवरणे)।
- ‘अनुव्रतामप जायामरोधम्’ (ऋ॰१०.३४.२)। अपरोधम्=अपारोधम्=अपारुधम्=अवारयम्=स्वस्माद् दूरेऽपास्यम्=पराणुदं गृहात्।
- ‘सायमागतमतिथिं नापरुन्ध्यात्’ (व॰धर्म॰८.४)। न पराणुदेत।
- ‘द्वैष्टि श्वश्रूरप जाया रुणद्धि’ (ऋ॰१०.३४.२)। गृहप्रवेशाद् वारयति। न मे त्वया कश्चिदर्थ इति प्रत्याचष्टे।
- ‘योऽवगतः सोऽपरुध्यतां योऽपरुद्धः सोऽवगच्छतु’ (तै॰सं॰६.६.५.३)। अपरुध्यताम्=वार्यताम्।
- ‘दुष्टरीतुर्ह पौसायनः। दशपुरुषं राज्यादपरुद्ध आस’ (श॰ब्रा॰१२.९.३.१)। अपरुद्धः=निरस्तः=बहिष्कृतः। दशपुरुषम् राज्यात्=आ दशभ्यः पुरुषेभ्यः स्ववंशजेषु स्थिताद्राज्यात्।
- ‘अन्यक्षेत्रेऽपरुद्ध चरन्तम्’ (अथर्व॰३.३.४)। अपरुद्धः सन्, अवरुद्धं प्रच्छन्नं यथा स्यात्तथा। लोके यमर्थमवरुद्धशब्द आह तमिह च्छन्दस्यपरुद्धशब्दः। उपसर्गभेदो नार्थभेदः।
- ‘सिन्धुक्षिद्राजर्षिर्योगपरुद्धश्चरन्’ (पञ्चविंश॰१२.१२.६)। उक्तोऽर्थः।
- ‘यस्य व्रत्येऽहनि पत्न्यनालम्भुका स्यात् तामपरुध्य यजेत’ (याज्ञ॰३.४५ मिताक्षरायामुद्धृतम्)। अपरुध्य=परिहृत्य।
- ‘तस्मादाहुर्न सायमतिथिरपरुध्य इति’ (ऐ॰ब्रा॰५.३०)। अपरुध्यः=अपरोध्यः=अपनोद्यः=निराकरणीयः।
- ‘एतां वाव स देवतामपरुणद्धि योऽलमग्निहोत्रः सन्नाग्निहोत्रं जुहोति’ (ऐ० ब्रा० ५।३०)। अपरुणद्धि निः सारयति।
- ‘अपेमं जीवा अरुधन् गृहेभ्यः’ (अथर्व० १८।२।२७)। अपारुधन् बहिरकुर्वन्। व्यपावर्तयन्।
- ‘आदित्येभ्यो धारयद् दद्भ्यश्चरुं निर्वपेदपरुद्धो वाऽपरुध्यमानो वा’ (तै० सं० २।३।१।१)। अपरुद्धो वैरिणा स्वराष्ट्रान्निःसारितः। राजान्तरेणापहृतराष्ट्र इति यावत्।
- ‘यद्यु वा एनमुपधावेद्राष्ट्रादपरुध्यमानः’ (ऐ० ब्रा० ८।१०)। राष्ट्रादपरुध्यमानः=राष्ट्रान्निर्वासितः, भ्रंशितः,।
- ‘द्यावापृथिव्यां धेनुमालभेत ज्योगपरुद्धः’ (तै० सं० २।१।४)। अपरुद्धश्चिरं दुर्गतः।
- ‘अपरुद्धं तु मुख्यपुत्रापसर्पाः प्रतिपाद्यानयेयुः’ (कौ० अ० १।१८।१३)। अपरुद्धमप्रियं राजकुमारम्।
लप्
- {अपलप्}
- लप् (लप-व्यक्तायां वाचि)।
- ‘संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम्। तां चापलपताम् पापः’ (रा०२.७५.२६)। अपलपताम्=अपलपतु। निह्नुताम्=उक्तं नाङ्गीकरोतु।
- ‘राजदेयमपलपितम्’ इति मनु॰८.४०० इत्यत्र कुल्लूकः।
- ‘तदनुभवसिद्धमपलपतो गजनिमीलिकैव (सा॰द॰)। अपलपतोऽनभ्युपगच्छतः=अप्रतिपद्यमानस्य।
- ‘अपलापयमानस्य शत्रूंस्तस्याभवन्मतिः’ (भट्टि॰८.४४)। वञ्चयमानस्य। लियः सम्माननशालीनीकरणयोश्चेति सूत्रे वृत्तौ तत्पूर्वस्य लापेरात्मनेपदं दर्शितम्, नापपूर्वस्य। भट्टिप्रयोगः किम्प्रमाणक इति सुधीभिर्विचार्यम्।
- ‘जयन्ति महतां संस्तुतापलापिन्यः कल्याणिन्यो नीतयः’ (मालती॰१०)। अपलापो निह्नवः।
- ‘दैन्याद् उन्मुखदर्शनापलपनैः पिण्डार्थमायस्यतः’ (मुद्रा॰३.१४)। अपलपनमिहादरो वा स्यात् प्रियोक्तिश्चाटूक्तिर्वा। अत्रार्थे प्रमाणं तु नोपलभामहे, न चार्थान्तरं प्रतिभाति। न चापि पाठान्तरमस्ति।
लष्
- {अपलष्}
- लष् (लष-कान्तौ, कान्तिरिच्छा)।
- प्रलापिनो भविष्यन्ति कदान्वेतेऽपलाषुकाः। अपलाषुकाः=अपगताभिलाषाः।
- ‘लषपतपद..’ (३.२.१५४) सूत्रे वृत्तौ अपलाषुकं वृषलसङ्गतम् इत्युदाहरणं स्थितम्। तत्रापलषति नामिलषतीत्येवार्थः सन्देहानास्कन्नः। इदं तु सन्दिह्यते कर्तरि ताच्छील्ये उकञि वृषलसङ्गतमपलाषुकमिति कथं सङ्गच्छेत। अत एवास्माभिः स्वकृतौ व्याकरणचन्द्रोदयेऽपलाषुको वृषलसङ्गतमिति पाठ ऊहितः।
लिख्
- {अपलिख्}
- लिख् (लिख-अक्षरविन्यासे)।
- ‘अपास्याः केश्यं मलमप शीर्षण्यं लिखात्’ (अथर्व॰१४.२.६८)। अप लिखात्= उल्लिख्यापाकुर्यात्।
लुप्
- {अपलुप्}
- लुप् (लुप्लृ-छेदने)।
- ‘तस्माद् देवास्तमोऽपालुम्पन्’ (का॰सं॰१२.१३)। अपालुम्पन्=अपाच्छिन्दन्।
वच्
- {अपवच्}
- वच् (वच-परिभाषणे)।
- ‘एका च मे दश च मेऽपवक्तार ओषधे’ (अथर्व॰५.१५.१)। निन्दितार इत्याह।
- ‘अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित्’ (ऋ॰१.२४.८)। अपवक्ता=वचनेन वारयिता।
वद्
- {अपवद्}
- वद् (वद-व्यक्तायां वाचि)।
- ‘उत मेऽपवदेयुः’ (तै॰ब्रा॰२.३.९.९)। मां निन्देयुरित्यर्थः।
- ‘नार्तोऽप्यपवदेद् विप्रान्’ (मनु॰४.२३६)। उक्तोऽर्थः।
- ‘स्नातान् अपवदेयुस्तान् इतिहासः पुरातनैः’ (याज्ञ॰३.७)। शोकनिरसनसमर्थैर्वचोभिर्बोधयेयुरिति मिताक्षरा। अपगतदुःखान् कुर्युरित्यपरार्कः।
- तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता’ (भा॰वन॰२८.८)। अपवादिता=अनभिनन्दिता। अब्राह्मणवध उक्तः।
- ‘अत्रापवदति’ (बौ॰ध॰२.२.४.३ सूत्रे गोविन्दस्वामिविवरणम्)। अत्रापवादमाहेत्यर्थः।
- ‘धनकामो न्यायमपवदते’ (पा॰१.३.७३ सूत्रे वृत्तिः)। न्यायापवादेन (न्यायानभ्युपगमेन) धनमर्जयिष्यामीति मन्यत इत्यर्थ इति च वृत्तिः।
- ‘नृभ्योऽपवदमानस्य रावणस्य गृहं ययौ’ (भट्टि॰८.४७)। क्रुध्यतोऽसूयतो वेति जयमङ्गला। अन्यत्र दुर्लभोऽयमर्थ इत्यस्य स्वीकारे सङ्कुचामः।
- ‘अध्यारोपापवादाभ्यां वस्तुतत्त्वविनिर्णयः’ (वेदान्ते)। अपवादः=प्रतिवादः=निराकरणम्।
- ‘गुणापवादेन तदन्यरोपणात्’ (कि॰१४.१२)। गुणापह्नवेन, गुणानस्वीकृत्य। उत्सर्गाणां सामान्यशास्त्राणां स्वस्माद् विषयाद्व्यावर्तकं विशेषशास्त्रमपवादः।
- ‘अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः’ (कु॰२.२७)।
- ‘नहीश्वर आज्ञापयति अपवादैरुत्सर्गा बाध्यन्तामिति भाष्ये। ततोऽपवादेन पताकिनीपतेश्चचाल निर्ह्रादवती महाचसूः’ (कि॰१४.२७)। अपवादः=आदेशः।
- अपवादौ निन्दाज्ञे इति चामरः।
- अपवादोऽप्यथावेश इति सज्जन इति मल्लिः।
- ‘मधुकरैरपवादकरैरिव’ (शिशु॰६.९)। अपवादकरैर्व्याधैः।
- अपवादं मृगवञ्चनाय घण्टादि कुत्सितं वाद्यं कुर्वन्ति तैरिति मल्लिः।
- ‘प्रातिलोम्यापवादेषु’ (याज्ञ॰२.२०७)। निकृष्टवर्णकृता उत्कृष्टवर्णस्य निन्दा। प्रातिलोम्यापवादः।
- ‘उत्तीर्णाञ्शुचौ देशे शाद्वलवत्युपविष्टांस्तत्रैतानपवदेयुः’ (पा० गृ० ३।२२)। प्रेतगुणकथनेन संसारासारताख्यापनेन शोकरहितान्कुर्युरिति हरिहरः।
वप्
- {अपवप्}
- वप् (डुवप-बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च। अयं छेदनेऽपि)।
- ‘यासां तिस्रः पञ्चाशतोऽभिव्लङ्गैरपावपः’ (ऋ॰१.१३३.४)।
- ‘यो वर्चिनः शतमिन्द्रः सहस्रमपावपत्’ (ऋ॰२.१४.६)। अपावपत्=व्यकिरत्=व्यघटयत्। अपपूर्वो वपिर्नाशार्थ इति तु सायणः।
- ‘तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्’ (अथर्व० ८।८।५)। सेनामपावपत् शत्रुबलं परास्थत्, व्यनीनशत्।
- ‘सो (क्षुरपविः) ऽसुरानपोप्य देवानभ्यावर्तत’ (जै० ब्रा० १।१२९)। अपोप्य परिहृत्य।
वस्
- {अपवस्}
- वस् (वस-निवासे)।
- ‘अपवासे नक्षत्राणाम्’ (अथर्व॰३.८.७)। अपवासे=अपगमनकाले।
वह्
- {अपवह्}
- वह् (वह-प्रापणे)।
- ‘अपोवाह च वासोऽस्या मारुतः शशिसन्निभम्’ (भा॰आदि॰७२.३)। अपोवाह=अपोढवान्। वान्वातस्तदुड्डाय्यापनिनायेत्याह।
- ‘अपो वाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता’ (भा॰शल्य॰४२.३६)। पराचकर्षेत्याह। ऊढ्वाऽपनिनायेत्यर्थः।
- ‘स (राक्षसः) कीचकमपोवाह वातवेगेन भारत’ (भा॰वि॰१६.११)। उक्तोऽर्थः।
- ‘आर्य लेखः खलु मामपवहति’ (प्रतिज्ञा॰१)। इतस्त्वरयतीत्यर्थः।
- ‘मिथ उद्वहत्यथापवहति (भा॰उ॰१४.३७)। अपवहति=सम्बन्धं निराकरोति।
- ‘ममापवाहितो भर्ता मृगरूपेण मायया’ (रा॰३.५३.४)। दूरं नीत इत्याह।
- ‘त्रिगर्तसेनापतिना स्वरथेनापवाहितः’ (भा॰द्रोण॰१२२.३५)। अपवाहितो रणाजिराद् बहिर्गमित इति यावत्।
- ‘नरैरिवोल्काभिरपोह्यमानो महागजः’ (रा॰२.२१.५३)। दूरं प्रस्थाप्यमान इत्याह।
- ‘अपेतापोढमुक्तपतितापत्रस्तैरल्पशः’ (२.१.३८) इति सूत्रे कल्पनापोढ इत्युदाहरणम्। कल्पनाया अपोढोऽपेत इत्यर्थः।
- ‘ततो योद्धुमपोढानां बाणेयानाम्’ (हरि॰२.११९.९३)। अपोढानां निर्गतानाम्। वहिरत्राकर्मकः।
- ‘सम्भ्रमोऽभवदपोढकर्मणाम्’ (ऋत्विजाम्)। (रघु॰११.२५)। त्यक्तकर्मणामित्यर्थः।
- ‘अमी जनस्थानमपोढविघ्नं …मत्वा’ (रघु॰१३.२२)। उपप्लवरहितम् अन्तरायवर्जितमित्याह।
- ‘भूतकृतः स्थोऽपोढं जन्यं भयम्’ (भा॰श्रौ॰६.१०.५)।
- ‘दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श’ (रघु॰१६.७३)। अपोढनेपथ्यविधिरित्यनारब्धाकल्पकल्पन इत्याह।
- ‘अपोह्य वसनं स्वकम्’ (भा॰सभा॰८१.१०)। अपोह्य अवक्षिप्य।
- ‘अपवाह्य तु दृष्टात्मा भरतं तव बन्धुषु’ (रा॰२.७.२६)। अपवाह्य उद्वास्येति तिलकः।
- ‘निष्पत्तौ निक्षिपेद्वादमात्मानं वाऽपवाहयेत्’ (कौ० अ० २।८।३२)। आत्मानमपवाहयेत् अपयायातु, अपेयात्।
- ‘अथानपोढार्गलमप्यगारम्’ (रघु० १६।६)। अनपोढार्गलमनुद्घाटितविष्कम्भम्।
वा
- {अपवा}
- वा (वा-गतिगन्धनयोः)।
- ‘यदूवध्यमुदरस्यापवाति’ (वा॰सं॰२५.३४)। भ क्षितमपरिणतमामाशयस्थमूवध्यमुच्यते। अपवाति गन्धायत इत्युवटः। अपगच्छतीति महीधरः। गन्धायते गन्धमुद्वमतीत्येव युक्तं भाति। इहैवोत्तरत्र तस्य सुकृतीकरणस्य सुरभीकरणस्य श्रवरणात्।
विच्
- {अपविच्}
- विच् (विचिर्-पृथग्भावे)।
- ‘अथापविनक्ति’ (श॰ब्रा॰१.१.४.२२) इति।
- ‘वायुर्वो विविनक्तु’ (वा॰सं॰१.१६) इत्यस्य मन्त्रस्य ब्राह्मणम्। व्यक्तं ब्राह्मणस्थोऽपशब्दः श्रौतस्य वेरर्थे। पृथक् करोतीत्येवार्थः।
विज्
- {अपविज्}
- विज् (ओविजी-भयचलनयोः)।
- ‘अभिप्रेहि माऽपविक्थाः’ (अथर्व॰पि॰१.४७.२)। अपविक्था इत्यत्रेडभावश्छान्दसः। लोके प्रायेण विजिरुत्पूर्वो दृष्टः क्वचिदेव केवलः सम्पूर्वश्च।
- ‘याप सर्पं विजमाना विमृग्वरी (पृथिवी)’ (अथर्व॰१२.१.३७)। अ पविजमाना। उद्वेजयमानेत्यर्थः।
विश्
- {अपविश्}
- विश् (विश प्रवेशने)।
- ‘अन्यत्र पापीरप वेशया धियः’ (अथर्व॰९.२.२५)। अन्यत्र प्रेषय=अन्यत्र प्रस्थापय=अन्यत्र प्रेरय।
वी
- {अपवी}
- वी (वी-गतिव्याप्तिप्रजनकान्त्यसनखादनेषु)।
- ‘न घा त्वद्रिगपवेति मे मनः’ (अथर्व॰२०.१७.२)। अपवेति=अपगच्छति।
- ‘उत मे वोचतादिति सुतसोमे रथवीतौ न कामो अप वेति मे’ (ऋ॰५.६१.१८)। उक्तोऽर्थः।
वृ
- {अपवृ}
- वृ (वृञ्-वरणे)।
- ‘उद्गातर् अप त्वा वृणे शतेन च निष्केण चाश्वो म उद्गास्यति’ (लाट्या॰श्रौ॰९.९.१९)।
- ‘स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि’ (ऋ॰१.७.६)। अपशब्दस्य च्छान्दसो दीर्घः।
- ‘अप कृष्णां निर्णिजं देव्यावः’ (ऋ॰१.११३.१४)। अपावः=अपावृणोः।
- ‘वृत्रं जघन्वाँ अप तद्ववार’ (ऋ॰१.३२.११)। उक्तोऽर्थः। ववारेति वृञो लिटि।
- ‘अपवृतोऽपवेष्टित आस्ते’ (जै॰उ॰३.८.४)। अपवृतः=विवस्त्रः।
- ‘बाहुबन्धनापवारितपयोधरोदगमाम्’ (मालती॰७)। अपवारितः=आच्छादितः।
- ‘विटपेनापवारितशरीरा भूत्वा’ (रत्ना॰१)। अपवारितम्=तिरस्कृतम्।
- ‘पत्न्यै शिरोऽपवृत्य’ (श॰ब्रा॰१४.१.४.१६)। अनावरणं कृत्वेत्याह।
- ‘उत व्रजमपवर्तासि गोनाम्’ (ऋ॰४.२०.८)। अपवर्ता=उद्घाटयिता। वृञस्तृचि रूपम्। इडभावश्छान्दसः लोकेऽपवरिताऽपवरीतेति रूपद्वयम्। इड्दैर्घ्यविकल्पात्। अपवरकोऽन्तर्गृहं भवति यद् गर्भागारमुच्यते। वातगतये छिद्रमप्यपवरक उच्यते तथा च (मुद्रा॰१) प्रयोगः- ‘ततश्चैकस्मादपवरकात्’।
- ‘गवामप व्रजं वृधि’ (ऋ० १।१०।७)। अपवृधि अपावृणु।
- ‘अपवारितं पक्षद्वारके सज्जं प्रवहणं तिष्ठति’ (मृच्छ० ६)। अपवारितं परिवृतं परिवेष्टितम्।
वृज्
- {अपवृज्}
- वृज् (वृजी-वर्जने, वृजि इत्येके)।
- ‘अपवृङ्क्ष्व शत्रून्’ (अथर्व॰३.१२.६)। पराणुद, भीषयित्वा पलाययेत्यर्थः। प्रान्या तन्तूंस्तिरते धत्ते अन्या।
- ‘नापवृञ्जाते न गमातो अन्तम्’ (अथर्व॰१०.७.४२)। नापवृञ्जाते=विच्छिन्तः।
- ‘यन्नध्वानमपवृङ्क्ते चरित्रैः’ (ऋ॰१०.११७.७)। अपवृङ्क्ते=समाप्नोति=अध्वनोऽपवर्गमवसानं याति।
- ‘कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय’ (रा॰१.४४.७)। अपवर्जय=पूरय।
- ‘समानजातीयेन कर्मणैकैकमपवर्जयति’ (आप॰श्रौ॰१.८.२५.१)। अपवर्जयति=समाप्नोति=अवसाययति।
- ‘वेदानधीत्य नियतो दक्षिरणामपवर्ज्य च’ (भा॰शां॰३२६.१६)। अपवर्ज्य=प्रदाय।
- ‘पुरस्तादेव भगवन् मयैतदपवर्जितम्’ (भा॰शां॰१०६.२)। अपवर्जितम्=परित्यक्तम्=परिहॄतम्।
- ‘दूरापवर्जितच्छत्रैः शिरोभिः’ (रघु॰१७.७९)। दूरात्परिहृतातपत्रैरित्याह।
- ‘षड्भिरपजिताऽशीतिः’ (व॰ब॰सं॰५३.७)। षड्भिस्त्यक्ता षड्भिर्विकलाऽशीतिरित्याह। घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम्।
- ‘प्रदद्यात्…’ (याज्ञ॰३.२९९)॥ वारां पूर्ण घटेऽवनिनीते आवर्जिते सतीत्यर्थः।
- ‘यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम्’ (भा॰शां॰१८८.१०७)। अपवर्जितम् प्राभृतीकृतमुपायनीकृतम्।
- ‘श्राद्धमपवर्जयन्’ (भा॰अनु॰८९.९)। अपवर्जयन्=ददत्।
- ‘यद्यनपवृक्तार्थो यूपो विरोहेत्’ (आप॰श्रौ॰९.५.१९.१५)। नियोजनरूपोऽर्थो यद्यपवृक्तो न भवति सम्पूर्णो नास्तीत्याह।
- ‘आदिरापवृक्तः’ (निष्ठा॰३.२.१०२ सूत्रे भाष्ये)। परिसमाप्त इत्यर्थः।
- ‘पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः’ (भा॰पु॰३.२४.७)। मुक्ता इत्यर्थः। अन्यत्र दुर्लभोऽयमर्थः। विरलतमेष्वर्थेषु शब्दान् प्रयुञ्जानो विशिष्यते भागवतकारः।
- ‘त्वया कालोपसृष्टेन लोभतो नापवर्जिताः’ (भा॰शल्य॰६३.४६)। नापवर्जिताः=न दत्ताः।
- ‘पञ्च ग्रामा वृता यत्नान्नास्माभिरपवर्जिताः’ (भा॰उ॰१६०.४७)। उक्तोऽर्थः।
- ‘आहिच्छत्रं सकाम्पिल्यं द्रोणायाथापवर्जितम् (हरि॰१.२०.७४)।
- ‘अपवर्गेऽभिरूपभोजनं यथाशक्ति’ (गो॰गृ॰१.१.६)। अपवर्गे=कर्मसमाप्तौ। अभिरूपभोजनं विद्वद्भोजनम्।
- ‘उपक्रमप्रभृत्यपवर्गपर्यन्तम्’ (नि॰१.१)। अपवर्गः=परिसमाप्तिः।
- ‘आ क्रतोरपवर्गात्’ (आश्व॰गृ॰१.२३)।
- ‘अपवर्गे यथोत्साहं ब्राह्मणानाशयेत्’ (खा॰गृ॰१.१.३)। अपवर्गे कर्मणोऽन्ते।
- ‘अभिप्लुप्तव्यपकर्षणमपवर्गः’ (कौ॰अ॰१५.१.१८०)। अभिप्लुतस्य अभितः प्रसरतो व्यपकर्षणम्।
- ‘अभिव्याप्यापकर्षणमपवर्गः’ (सुश्रुते २.५५८.५)। इहापवर्गोऽपवाद उक्तः।
- ‘न तेऽपवर्गः सुकृताद्विना कृतः तथा यथाऽन्येषु वरेषु’ (भा॰वन॰२९७.५२ सावित्र्युपाख्याने)। ते=त्वत्तः। अपवर्गः=पुत्रफलप्राप्तिः।
- ‘कृत्वापवर्गं गुरवे चरिष्यति महत् तपः’ (भा॰उ॰११४.१७)। गुरुदक्षिणां धनं दत्त्वेत्याह।
- ‘आत्मदोषापवर्गेण तद्वाच्या जनमोहिनी’ (भा॰पु॰१०.२३.४६)। स्वदोषपरित्यागेनेति विवक्षति।
- ‘मुष्टेरसम्भेद इवापवर्गे’ (कि॰१६.२०)। अपवर्गो बाणमोक्षः।
- ‘तथाऽपवर्गः’ (बौ॰ध॰१.७.१५.७)। अपवर्गो निर्गम इति गोविन्दस्वामी।
- ‘गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम्’ (वैशेषिक॰२.२.२५)। अपवर्ग आशुनाश इति सङ्केतकृच्छङ्करः।
- ‘क्रियाणामर्थशेषत्वात् प्रत्यक्षतस्तन्निवृत्त्याऽपवर्गः स्यात्’ (मी॰सू॰११.१.२७)। अपवर्गः समाप्तिः।
- ‘अपवर्गे सन्त्यागे बुद्धौ च कृतनिश्चयाः’ (भा॰शां॰२६९.३)।
- ‘अपवर्गमहोदयार्थयोः’ (रघु॰८.१६)। अपवर्गो मोक्षः।
- ‘तपती योषितां श्रेष्ठा किमन्यदपवर्जनात्’ (भा॰आदि॰१७३.२५)। दानादन्यत् किं श्रेय इत्याह।
- ‘भल्लापवर्जितैः’ (शिरोभिः) (रघु० ४।६३)। अपवर्जितैः=छिन्नैः, कृत्तैः।
- ‘अभिव्याप्यापकर्षणमपवर्गः’ (सुश्रुत० उत्तर० ६५।१४-१५)। इदं पुस्तके धृतपूर्वम्। व्याख्यावैशद्यायेहानुवादः। गणक्रियादिभिः सर्वतो वा ऽभिव्याप्य कस्यचित्पदार्थस्य तेभ्यो गुणक्रियादिभ्यः पृथक्करणमपवर्ग इति डल्लनः।
- ‘सर्वत्र पुरस्तादुपक्रमः प्रदक्षिणमुत्तरतोऽपवर्गः’ (सत्या० श्रौ० २३।३।६)। अपवर्गः परिसमाप्तिः।
- ‘उदगपवर्गा यूपा दक्षिणापवर्गाः पशवः’ (वाराह श्रौ० ३।२।६।११)।
- ‘किमुत्पन्नापवर्गिणी बुद्धिः शब्दवत्’ (न्या भा० ३।२।४३)। अपवर्गिणी ध्वंसयोगिनी।
- ‘सोऽयमुभयथा वर्तमानो गृह्यते–अपवृक्तो व्यपवृक्तश्च अतीतानागताभ्याम्’ (न्याभा० २।१।४३)। अपवृक्तः सम्बद्धः। व्यपवृक्तोऽसम्बद्धः। विर्नञर्थे।
वृत्
- {अपवृत्}
- वृत् (वृतु-वर्तने)।
- ‘यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु’ (मनु॰८.२९३)। अपवर्तते=अन्यथा व्रजति, अपथा याति।
- ‘अपवर्तामहे भूमावास्तीर्य स्वयमर्जितैः’ (रा॰२.५३.४)। अपवर्तामहे=यथा कथञ्चिच्छयनं कुर्मः।
- ‘रक्षांसि चापवर्तन्ते स्थिते देवे हुताशने’ (भा॰अनु॰९२.१३)। अपवर्तन्ते=अपक्रामन्ति=अपयान्ति।
- ‘तस्मादपावर्तत दूरकृष्टा’ (रघु॰६.५८)। अपावर्तत=प्रतिन्यवर्तत।
- ‘तस्मादपावर्तत कुण्डिनेशः’ (रघु॰७.३३)। उक्तोऽर्थः।
- ‘बृहस्पते अप तं वर्तया पथः’ (ऋ॰२.२३.७)। अपवर्तय=निवर्तय।
- ‘मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्’ (रा॰५.१०.२५)। अपवृत्तेन=(निद्रावशात्) पर्यस्तेन।
- ‘अपवृत्तजठरशफरीकुलाकुलाः (सरितः)’ (कि॰१२.४९)। अपवृत्तजठरैः=लुठितोदरैः (शफरीकुलैः)। अपवृत्तम्=तत्क्षणक्षोभाल्लुठितम्।
- ‘व्याकीर्णस्फुरदपवृत्तरुण्डखण्डः’ (मालती॰३.१७)। अपवृत्ताः=अधोमुखाः।
- ‘आसक्ततिर्यगपवर्तितदृष्टिवक्त्रं (वहन्ती)’ (मालती॰१.४०)। अपवर्तिता=साचिकृता।
- ‘स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः’ (भा॰उ॰१८०.२)। अपवृत्तैः परावृत्तैः।
- ‘अनिमित्तापवृत्तप्रहर्षम् …विद्रवतीव मे हृदयम्’ (अवदा॰जा॰९)। अपवृत्तः=अपकृष्टः=ह्रसितः।
- ‘अपवृत्ते कर्मणि वामदेव्यगानम्’ (गो॰गृ॰१.९.२९)। अपवृत्ते=समाप्ते।
- ‘अपवृत्तकर्मा लौकिकोऽर्थसंयोगात्’ (का॰श्रौ॰१.३.२८)। अपवृत्तं समाप्तं कर्म यस्मिन् सः। सोऽग्निः समाप्ते कर्मणि लौकिकः सम्पद्यते।
- ‘अथ भैक्षचर्या। ब्राह्मणानां शालीनयायावराणामपवृत्ते वैश्वदेवे भिक्षां लिप्सेत’ (बौ॰ध॰२.१०.१८.४)। अपवृत्ते=निर्वृत्ते=समाप्ते।
- ‘उर्वशी राजानमपगताम्बरं दृष्ट्वाऽपवृत्तसमया तत्क्षणादेवापक्रान्ता…’ (वि॰पु॰४.६.५९)। अपवृत्तसमया=अतिक्रान्तसंवित्का।
- ‘नानिर्विधित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन’ (भा॰शां॰२६९.४६)। अपवत्तो निष्कर्मेति नीलकण्ठः।
- ‘सव्यापवृत्तं विपुलं जटामण्डलमुद्वहन्’ (हरि॰१.५४.७)। सव्यापवृत्तम्=अप्रदक्षिणवेष्टितम्।
- ‘पितृपैतामहं राज्यमपवृत्तं तदाऽनघ’ (भा॰द्रोण॰८६.१४)। अपवृत्तं सांशयिकं जातम्।
- ‘कुदिनानि द्वादशभिरपवर्तितानि’ (लीला॰४.८.१५)। विभक्तानीत्याह।
- अक्षमालापवृत्तिज्ञा दुःशासनपरिग्रहा। ब्राह्मीव दौर्जनी संसद् वन्दनीया समेखला॥ अपवत्तिः=भ्रमणम्=आवर्तनम्।
- ‘न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम् (मनु॰९.७९)। दायस्य हरणाल्यस्यांशस्यापवर्तनं ध्यावर्तनम्।
- ‘स्थानापवर्तनम्’ (सुश्रुते २.९१.१४)। स्थानाद् अपवर्तनं विचालनम्।
- ‘गौरिति वाऽश्व इति वा सामान्यवाचिनः पदात् सर्वगवीषु सर्वाश्वेषु च बुद्धिरुपसर्पन्ती श्रुतिजनितवाक्यानुरोधेन कुतश्चिद् विशेषादपवर्तेत’ (मी० शा० भा० १।१।७।२३)। अपवर्तेत व्यपवर्तेत व्यावर्तेत।
- ‘अपवृत्तं त्वया संख्ये राम रावणजं भयम्’ (रा० ६।११९।३)। अपवृत्तं निवर्तितं निवारितम्।
- ‘मुकुटेनापवृत्तेन भास्कराकारवर्चसा’ (रा० ६।१०९।३)। अपवृत्तेनावस्रस्तेन, अधः पातितेन। रामबाणैस्त्याजितेनेति यावत्।
- ‘उद्वृत्तापवृत्तफलयोनयः’ (सुश्रुत० सूत्र० ११।१७)। अपवृत्तफलः स्थानान्तरस्रस्ताण्डः।
- ‘बहूनि दुःखान्यपवर्तितानि’ (सौन्दर० १७।६३)। अपवर्तितानि विभक्तानि अपकृष्टानि।
- ‘समेन केनाप्यपवर्त्य’ (लीला० १८)। निःशेषभजनमपवर्तनम्।
- ‘सूर्यापवृत्तौ विनिवर्तते’ (रुक्) (सुश्रुत० उत्तर० २५।१२)। अपवृत्तिः परावृत्ति, पश्चिमाशावलम्बित्वम्।
वे
- {अपवे}
- वे (वेञ्-तन्तुसन्ताने)।
- ‘इमे वयन्ति पितरो य आययुः। प्र वयापवयेत्यासते तते’ (ऋ॰१०.१३०.१)। इहापवयतिरुतस्यानुतीकरणे वर्तते। अपशब्दो धात्वर्थं विपरीतयति।
वेष्ट्
- {अपवेष्ट्}
- वेष्ट् (वेष्ट-वेष्टने)।
- ‘अपवृत्तोऽपवेष्टित आस्ते’ (जै॰उ॰३.९.४)।
वल्ग्
- {अपवल्ग्}
- वल्ग् (वल्ग गतौ)।
- ‘अपवल्गिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गर्यः’ (मृच्छ० ४)। अपवल्गिता अधोमुख्यो ऽवलम्बिताः।
व्यध्
- {अपव्यध्}
- व्यध् (व्यध-ताडने)।
- ‘अप शत्रून् विध्यतां सं विदाने’ (ऋ॰६.७५.४)। (आर्त्नी) शत्रून् परास्यताम् इत्याह।
- ‘अपविध्यन्ति पापानि दानयज्ञतपो बलैः’ (भा॰शां॰९७.५)। क्षिपन्ति दूरीकुर्वन्तीत्यर्थः।
- ‘यश्चाग्नीनपविध्येत (भा॰शां॰३४.६)। अपविध्येत=अपविध्येत्=सन्न्यस्येत्=हापयेत् (स्वार्थे णिच्)।
- ‘योऽग्नीनपविध्यात्कृच्छ्रं द्वादशरात्रं चरित्वा पुनरादधीत’ (व॰ध॰१.२३)। अपविध्येत् इति पाठान्तरम्। उत्सृजेदित्यर्थः।
- ‘पुरा श्मशाने स्रगिवापविध्यते’ (भा॰वन॰२६९.२०)। क्षिप्यत इत्यर्थः।
- ‘अब्रवीदत्तरः पार्थमपविद्धः शरैर्भृशम्’ (भा॰वि॰६१.३)। अपविद्धः=विद्धः। अपशब्द इह विशेषकृन्न। भृशम् इत्यनेन गतार्थत्वात्।
- ‘ताः स्वमङ्गमधिरोप्य दोलया प्रेङ्खयन् परिजनापविद्धया’ (रघु॰१९२.८)। परिजनेनापविद्धया परिचारकैः सम्प्रेषितया। सम्प्रेष्य प्रेर्य त्यक्तयेत्यर्थः।
- ‘भजस्तम्भापविद्धः (परशुः)’ (महावीर॰२.३३)। क्षिप्त इत्यर्थः।
- ‘महानिलेनाद्रिमिवापविद्धम्’ (भा॰कर्ण॰९१.६०)। अपविद्धम्=अवकीर्णम्, भ्रंशितम्। -‘तार्क्ष्यस्य पक्षपवनोग्रजवापविद्धं शृङ्गं गिरेरिव च तस्य हिमोत्तरीयम्’ (अवदा॰जा॰३०.२३)। अपविद्धं क्षिप्तम्। ‘येनापविद्धसलिलः स्फुटनागसद्मा’ (अम्बुधिः)’ (कि॰५.३०)। अपविद्धसलिलः=क्षिप्तजलः। आलोडितोदकः। ‘मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः’ (रा॰२.९४.२४)। उक्तोऽर्थः।
- ‘छत्राणां चापविद्धानां चामराणां च सञ्चयः’ (भा॰द्रोण॰१९२.८)। त्यक्तानां विकीर्णानाम् इत्याह।
- ‘स प्रविश्याश्रमपदमपविद्धवृसीमठम्’ (भा॰वन॰२१७.४८)। अपविद्धा इतस्ततो विशीर्णा वृस्यो मठाश्च यत्र।
- ‘वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान्’ (भा॰शां॰१२.५)।
- ‘वेदवादोऽपविद्दस्त्यक्तो यैस्तान्।
- ‘रक्षोविप्रकृतावास्तामपविद्धशुचाविव’ (रघु॰१०.७४)। अपविद्धशुचौ=निरस्तशोकौ।
- ‘अपविद्धगदो बाहुः’ (कु॰२.२२)।
- ‘श्रुतापविद्धैरेतैर्वा वृथा किं शुकभाषितैः’ (तन्त्रा॰उपक्रमे ३.३४)। उक्तोऽर्थः।
- गतिं मुनेर्याम्यपविद्धलोकः’ (भा॰पु॰६.११.२१)।
- ‘हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं वा’ (मालती॰१.२८)। अपविद्धम्=विक्षतम्। अत्रापशब्दो व्यधनक्रियागर्हामाह।
- ‘यदा हि गर्गाणां वाहनमपविद्धं तिष्ठति’ (८.४.८ सूत्रे भाष्ये)।
- ‘मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा। यं पुत्रं परिगृह्णीयापविद्धः स उच्यते’ (मनु॰९.१७१)॥
- ‘षण्ढापविद्धचाण्डालपापिपाषण्डिरोगिभिः’ (वीक्षिते) (वि॰पु॰३.१३.१२)। अपविद्धः सद्भिर्बहिष्कृतः।
- ‘अव मा पाप्मन् सृज’ (अथर्व॰६.२६.१)
- इति तितउनि पूल्यान्यवसिच्य अपविध्यापरेद्युस्त्रींस्त्रीन् पूरोडाशसंवर्ताश्चतुष्पथेऽप्यवचरति’ (कौ॰सू॰३०.१८)।
- ‘अपविध्य वैदिकानि कर्माणि… ‘(बौ॰ध॰२.६.११.२८)। अपविध्य=परित्यज्य।
- ‘मणीनामपवेधे च दण्डः प्रथमसाहसः’ (मनु॰९.२८६)। अपवेधो मौक्तिकारस्थाने वेधो, येन तद्वैकृतमापद्यते।
- ‘अप शत्रुन् विध्यतां संविदाने आर्त्नी इमे’ (ऋ० ६।७५।४)। पुस्तके धृतमिदम्। उक्तपूर्वस्याभिव्यक्तये चेहानुवादः। अपपूर्वो व्यधिरपनये वर्तते।
- ‘अपविद्धो निरस्त उच्यत इति महेश्वरो निरुक्तटीकाकारः’ (नि० ९।४०)।
- ‘भूषणान्यपविध्यन्ती गात्राणि च विधून्वती’ (रा० ४।५८।१६)। अपविध्यन्ती विकिरन्ती।
- ‘अनयैवापविद्धानि स्वनवन्ति महान्ति च’ (आभरणानि) (रा० ५।१५।४६)। अपविद्धानि विकीर्णानि पातितानि।
व्ये
- {अपव्ये}
- व्ये (व्येञ्-संवरणे)।
- ‘अपो महि व्ययति चक्षसे तमः’ (ऋ॰७.८१.१)। अपावृणोति, अपगतावरणं करोतीत्यर्थः। इहापशब्दो धात्वर्थं विपरीतयति।
- ‘तन्वोरपोऽपाचीनमपव्यये’ (अथर्व॰६.९१.१)। प्रच्छन्नं शरीरदोषं विवृणोम्याविष्करोमीत्याह।
- ‘हत्वाऽपव्ययते’ (मनु॰८.३३२)। अपव्ययते=अपह्नुते=नाङ्गीकरोति।
- ‘अनेकेषु चाभियोगेष्वपव्ययमानः सकृदेव परोक्तः सर्वं भजेत’ (कौ॰अ॰२.८.२६)। अपव्ययमानः=प्रच्छादयन्=अनभ्युपगच्छन्नित्यर्थः।
- ‘अप्वा यदेनया विद्धोऽपवीयते’ (नि॰६.१२.४)। अपवीयते=अपवेष्ट्यते। प्राणैरिति शेषः।
व्रज्
- {अपव्रज्}
- व्रज् (वज-गतौ)।
- ‘रात्स्याम इत्यपव्रजत्यध्वर्युः’ (आश्व॰श्रौ॰८.१३.१०)। अपव्रजति=अपगच्छति। रात्स्याम इति साधयाम इत्यर्थे प्रयोगः।
शुष्
- {अपशुष्}
- शुष् (शुष-शोषणे)।
- ‘यथोदकमपपुषोऽपशुष्यत्यास्यम्’ (अथर्व॰६.१३९.४)। अपशुष्यति=सुष्ठु शुष्यति।
- ‘इमे वा एतस्मै लोका अपशुष्काः’ (तै० सं० २।१।४।८)। अपशुष्का अपरक्ता इति भट्टभास्करः।
श्रि
- {अपश्रि}
- श्रि (श्रिञ्-सेवायाम्)।
- ‘अनपश्रितः’ (आप॰ध॰१.२.६.१७)। कुड्याद्यनाश्रित इत्याह।
- ‘नक्तमासीत संश्रितः’ (लौ॰गृ॰५.४) इत्यपश्रित इत्येवमर्थापयत आदित्यदर्शनः।
- ‘इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम्’ (अथर्व॰२०.४१.२)। निलीनम् इत्यर्थः।
- ‘स एतस्मिन्नन्नेऽपश्रितो भाति’ (श॰ब्रा॰१.५.२.१९)। अपश्रितो निलीनः (?)।
- ‘एषो अपश्रितो वलो गोमतीमव तिष्ठति’ (ऋ० ८।२४।३०)। अपश्रितः कृतप्रस्थानः, अन्यत्र दूरे संश्रयं गतः, निलीन इति वा। सायणस्तु अपश्रितः सर्वैराश्रितः, विवृतद्वारो वेत्याह। इयं चासति कुड्ये चित्रमिवानालम्बना समुत्प्रेक्षा भाष्यकारस्य। सर्वाश्रितत्वमपशब्दो विरुन्धे, विवृतद्वारतां च न समर्थयते। विपूर्वः श्रयति र्विवरणे श्रूयते नापपूर्वः।
- ‘इच्छन्नश्वस्य यच्छिरः। पर्वतेष्वपश्रितम्’ (तै० ब्रा० १।५।८।१)। अपश्रितं निलीनम्।
सच्
- {अपसच्}
- सच् (षच-समवाये)।
- ‘अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे’ (ऋ॰५.२०.२)। ते वृद्धा अन्यव्रतस्य द्वेषं कौटिल्यं चापसचन्ते, ततोऽपेता भवन्ति न ताभ्यां समवेता भवन्तीत्याह। अत्रापशब्दो धात्वर्थं विपरीतयति।
सद्
- {अपसद्}
- सद् (षद्लृ-विशरणगत्यवसादनेषु)।
- ‘रे क्षत्रियापसदाः (वेणी॰३)। परवर्णासु अनुलोमजाः षड् अपध्वंसजाः, विलोमजा अपसदाः षड इत्यापटेकोष उद्धारः। अपसदः, अपसीदति, अपकृष्टः पृथग्भूतः सीदतीति। निहीनोऽपसदो जाल्म इत्यमरः।
- ‘अलब्धपूर्वोऽपसदेऽसुरेऽर्पितः’ (भा॰पु॰८.२३.२)। अपसदोऽधमः।
- ‘विप्रस्य त्रिषु वर्णेषु नृपतेर्वणयोर्द्वयोः। वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः॥’ (मनु० १०।१०)। अपसदा अवसन्ना निकृष्टाः (सवर्णपुत्रकार्यापेक्षया)।
सिध्
- {अपसिध्}
- सिध् (षिध-गत्याम्)। – ‘दूराद् दवीयोऽपसेध शत्रून्’ (ऋ॰६.४७.२९)। अपसेध=पराणुद=दूरं गमय। – ‘संवत्सरं यवाहारस्तत्पापमपसेधति’ (मनु॰१.१९८)। अपनुदतीत्यर्थः। – ‘पृष्टतः के पराग्वीरानपासेधन् यतव्रताः’ (भा॰भीष्म॰१४.३४)। उक्तोऽर्थः।
- ‘अपसिध्य दुरितं धत्तमायुः’ (अथर्व॰८.२.७)। अपसिध्य=निराकृत्य।
- ‘दण्डीव यूथादपसेधसि (नागम्) त्वं यो जेतुमाशंससि धर्मराजम्’ (भा॰वन॰२६८.५)। अपसेधसि पराणुदसि, व्याकरोषि।
सू
- {अपसू}
- सू (षू-प्रेरणे)।
- ‘तत्रैनो अप तत् सुवामि’ (अथर्व॰६.११८.३)। अपसुवामि=परासुवामि=अपगमयामि।
- ‘अपामार्ग त्वमस्मदप दुःष्वप्न्यं सुव’ (वा॰सं॰३५.११)।
- ‘अपामीवामप दुःष्वप्न्यं सुव’ (ऋ॰१०.३७.४)। उक्तोऽर्थः।
- ‘अपास्य ये सिनाः पाशा मृत्योरेकशतं सुवे’ (काठक० ३८।१३)। अपसुवे विकिरामि विसिनोमि विषितान्करोमि।
सर्पय्
- {अपसर्पय्}
- सर्पय् (सर्पय नामधातुः)।
- ‘तान्राजा स्वविषये मन्त्रिपुरोहित… दुर्गान्तपालाटविकेषु… भक्तितः सामर्थ्ययोगाच्चापसर्पयेत्’ (कौ० अ० १।१२।६)। अपसर्पयेत् अपसर्पान्कुर्यात्, चरान् प्रणिदध्यात्।
सृ
- {अपसृ}
- सृ (सृ-गतौ)।
- ‘यदपसरति मेषः कारणं तत्प्रहर्तुम्’ (पञ्चत॰३.४३)। अपसरति पराचीनं याति, आत्मानमपकर्षति।
- ‘अपसृतपाण्डुपुत्रा मुञ्चन्त्यश्रूणीव लताः’ (शा॰४.२५)। अपसृतानि=अधः पतितानि। अपसृतावयवः समूहः सङ्घातः। अपसृता उद्भूता अवयवा यस्य सः।
- ‘किमर्थमपसारणा क्रियते’ (मुद्रा॰४)। अपसारणा=उत्सारणा।
- ‘निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम्’ (मनु॰८.१९८)। अर्थागमे क्रयादिः सद्धेतुरपसरः। अपसरत्यनेनास्माद् धनमित्यपसरः प्रतिग्रहक्रयादिः। स यस्य नास्ति सोऽनपसरः।
- ‘अपोषा अनसः सरत् सम्पिष्टादह बिभ्युषी’ (ऋ० ४।३०।१०)। अपासरत् अपागमत्, अवातरत्, अवाप्लवत।
- ‘स चेदपसारमधिगच्छेत्, अपसरेदपसारक्षयात्’ (कौ० अ० ३।१६।१५)। अपसरेत् दोषादात्मानं मोक्षयेत्। अपसारोऽनपराद्धतायाः प्रसाधकं प्रमाणं निर्दोषीकरणे सहायो वा।
- ‘अपसारतः सुगुप्तकक्षं बन्धनागारं कारयेत्’ (कौ० अ० २।५।५)। अपसारः पलायनम्।
- ‘सुषिरस्तम्भप्रवेशापसारं वा वासगृहं… कारयेत्’ (कौ० अ० १।२०।२)। अपसारो निर्गमद्वारम्।
- ‘कर्तुर्द्विगुणः सापसारश्चेत्’ (कौ० अ० २।१४।१२)।
- ‘अनपसारः कण्टकशोधनाय नीयेत’ (कौ० अ० २।१४।१३)। अपसारो दोषलाघवकरो निर्दोषत्वसाधको वाऽर्थः।
- ‘अपसरणतो ह वा अग्रे देवा जयन्तो ऽजयन्’ (श० ब्रा० १।९।३।११)। अपसरणे पलायने सति शत्रूणाम्।
सृज्
- {अपसृज्}
- सृज् (सृज-विसर्गे)।
- ‘समहोदग्धूम्राक्षा अपसृष्टा रणाजिरात्’ (रा॰७.३२.४८)। अपसृष्टाः प्रयाताः। सृजिरिहाकर्मकः।
सृप्
- {अपसृप्}
- सृप् (सृप्लृ-गतौ)।
- ‘न हि तत्तस्य वीरस्य हृदयादपसर्पति। धृतराष्ट्रस्य दुर्बुद्ध्या यद् वृत्तं द्यूतकारितम्’ (भा॰आश्रम॰१.२७)॥ अपसर्पति=अपैति। अपगच्छति।
- ‘अथवा जायमानस्य यच्छीलमनु जायते। श्रूयते तन्महाराज नामृतस्यापसर्पति’ (भा॰वन॰८.११)॥ नापसर्पति=नापैति=न प्रलीयते, न विनश्यति।
- ‘उत्प्रेक्षितविकारोऽपसर्पेत् (महावीर॰४)। अपसर्पेत्=राज्यकार्यं सन्न्यस्य स्ववशाद् वनं प्रवजेदित्यर्थः।
- ‘अपासर्पद् द्वित्रिपदं किञ्चित् त्वरितविक्रमः’ (रा॰३.३०.२३)। अपासर्पत्=अपाक्रामत्।
- तान् (सञ्चारान्) मन्त्रिपुरोहित… दुर्गान्तपालाटविकेषु …भक्तितः सामर्थ्ययोगाच्चापसर्पयेत्’ (कौ॰अ॰१.१२.८)। अपसर्पयेत्=चारयेत्।
- ‘अपसर्पणमुत्सर्पणमशितपीतसंयोगाः’ (वै॰सू॰५.१.१७)। अपसर्पणमात्मादीनामुत्क्रमणम्।
- ‘अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज’ (वि॰पु॰२.४.१३)। अपसर्पिणी=अपकर्षशीला (युगावस्था)। अपसर्पश्चरः स्पशः (अमरः)। नायं मेऽपसर्पं ददाति=अपसर्तुं नानुजानाति।
- ‘शुद्धान्तचारी दुर्मुखः, समया पौरजानपदानपसर्पितुं प्रयुक्तः’ (उत्तर॰१)। पौरजानपदवृत्तमुपसृप्य निरीक्षितं प्रणिहित इत्याह। अपसर्पितुमित्यपभ्रंशः। अपसर्प इवाचरितुमित्याचारक्विबन्तादपसर्पशब्दात्तुमुंश्चेत् पौरजानपदानिति द्वितीया नोपपद्यते। तत्र सप्तम्या भाव्यम्। उपमानात्कर्तुः प्रातिपदिकादाचारे क्विब्विहितः। अपसर्प इवाचरतीत्यपसर्पति। केदलात्सृपेस्तु तुमुनीड् दुर्लभः।
- ‘तुल्यशील पुंश्चली-प्रापाविक-कथावकाश-भोजन-दातृभिरपसर्पयेत्’ (कौ० अ० ४।८।१५)। एभिरपसर्पैरवेक्षेतेत्यर्थः।
स्कॄ
- {अपस्कॄ}
- स्कॄ (कॄ-विक्षेपे)।
- अपस्किरते वृषभो हृष्टः। हृष्टः सन् भुवमुत्किरति। आलिखति। अपपूर्वतालेखने वर्तमानात्किरतेर्हर्षादिषु विषयभूतेष्वात्मनेपदं भवति, धातोश्च सुडागमः। सदपि स्वादिकर्म शब्दतो नोपादीयत इति व्यवहारः प्रायिकः।
- ‘रोधांसि धीरमपचस्करिरे महोक्षाः’ (शिशु॰५.६३)। आलिलिखुः। हर्षाद्रुरुजुरित्यर्थः।
- ‘अपस्करो रथाङ्गम्’ (पा॰६.१.१४९)। अत्र चक्रभिन्नं रथस्याङ्गं ग्राह्यम् इति स्वामी। मुकुटस्तु विप्रतिपद्यते। आह च- सामान्येन रथस्याङ्गमक्षयुगचक्रादिकमुच्यतेऽपस्कर इति। मोनियर् अप्येतन्मतमनुप्रविष्टः।
स्खल्
- {अपस्खल्}
- स्खल् (स्खल-सञ्चलने)।
- ‘अपस्खल इव ह स हविषां यद् गार्हपत्ये श्रपयेयुः’ (श॰ब्रा॰१.७.३.२६)। अपस्खलः खलादपभ्रष्टः कण्डनीयोंऽशः।
स्तु
- {अपस्तु}
- स्तु (ष्टुञ्-स्तुतौ)।
- ‘नोत्सहन्ते महात्मानो ह्यात्मानमपस्तोतुम्’ (पञ्च॰१)। अपस्तोतुम् इत्यपपाठो भाति। उपस्तोतुमिति तु युज्यते। उपपूर्वस्य ष्टुञो बहुलं प्रयोगश्छन्दसि।
स्था
- {अपस्था}
- स्था (ष्ठा-गतिनिवृत्तौ)।
- ‘माप स्थातं महिषेवावपानात्’ (ऋ॰१०.१०६.२)। माऽपस्थातम्=दूरे मा स्थातम्।
- ‘यक्ष्मा अपतिष्ठन्तु’ (अथर्व॰पि॰१.४६.६)। उक्तोऽर्थः।
- ‘अप त्या अस्थरनिरा अमीवाः’ (ऋ॰८.४८.११)। अपाभूवन्नित्यर्थः।
- अपसव्यमपष्ठु च इत्यमरः। अपतिष्ठतीत्यपष्ठु।
स्ना
- {अपस्ना}
- स्ना (ष्णा-शौचे)।
- ‘अपस्नात इवारिष्टं प्रविवेश गृहोत्तमम्’ (रा॰२.४२.२२)। प्रियस्य बन्धोर्निधने सति और्ध्वदेहिकीः क्रियाः कर्तुं स्नातोऽपस्नात उच्यते।
- ‘उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च’ (मनु॰४.१३२)। अपस्नानं स्नानोदकं स्नानशिष्टं जलम्।
स्फुर्
- {अपस्फुर्}
- स्फुर् (स्फुर-सञ्चलने)। ‘माप स्फरीः पयसा मा न आधक्’ (ऋ॰६.६१.१४)। स्फुरतिरेवात्र धातुः स्वरभेदेन। मा विचालीः, मा परागाः।
- ‘सहस्रं धारा द्रविरणस्य में दुहां ध्रुवेव धेनुरनपस्फुरन्ती (अथर्व॰१२.१.४५)। अपस्फुरन्ती=सहसोद्विजमाना दोग्धुः सकाशादेकपदे प्रविचलन्ती।
- ‘आ यत् पतन्त्येऽन्यः सुदुधा अनपस्फुराः (अथर्व॰२०.९२.७)। उक्तोऽर्थः।
- ‘अपस्फुरं गृभायत सोममिन्द्राय पातवे’ (ऋ० ९।६९।१०)। अपस्फुरमुच्छलन्तम्, उत्सिच्यमानं निष्पतन्तम्। अतिवृद्धमिति तु सायणः। स च शब्दमयदिया दुर्लभोऽर्थः।
स्मृ
- {अपस्मृ}
- स्मृ (स्मृ-चिन्तायाम्)।
- ‘मुखाद् वमन् रुधिरमपस्मृतोऽसुरः’ (भा॰पु॰१०.१८.२९)। अपस्मृतः=अन्यमनस्को मोहं गतो वा। अपस्मारः=भूतावेशः, उन्मादः, मूर्छा।
- ‘स्मृतेरपगमं प्राहुरपस्मारं भिषग्विदः’ (चरक० चि० १०।१)। निगदव्याख्यातम्।
- ‘स्मृति र्भूतार्थविज्ञानमपस्तत्परिवर्जने। अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत्’ (सुश्रुत० उत्तर० ६१।३)॥ स्पष्टम्।
- ‘बहुशो ऽपस्मरन्तं तु प्रक्षीणं चलितभ्रुवम्’ (सुश्रुत० सूत्र० ३३।२४)। अपस्मरन्तपस्मारवेगवन्तम्।
हन्
- {अपहन्}
- हन् (हन-हिंसागत्योः)।
- ‘रक्षो यत्सर्वं दुर्भूतं तत् तम इवापहन्मसि’ (अथर्व॰८.२.१२)। दूरे कुर्मः।
- ‘अयं वामाद् येनेदं मनुष्याः पक्त्वाऽश्नन्त्यथ येन पुरुषं दहन्ति स (अग्निः) क्रव्याद्। एतावेवैतदुभावतोऽपहन्ति’ (श॰ब्रा॰१.२.१.४)। अपहन्ति=पृथक्करोति।
- ‘ब्रह्मास्मदपहन्तु शमलं तमश्च’ (कौ॰सू॰९७.८)। उक्तोऽर्थः।
- ‘न तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा’ (उत्तर॰२.४)। अपहन्ति=नाशयति।
- ‘रक्षांस्यपहन्त्वधिदूरमस्मत्’ (अथर्व॰८.७.१४)। वैयाघ्रो मणिः प्रथमचरणोक्तोऽपहनः कर्ता। दूरमपहन्तु=दूरमपनयतु।
- ‘अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु’ (शा॰४.८)। अपघ्नन्तः=नाशयन्तः=वारयन्तः।
- ‘न वै सगरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ (छां॰उ॰८.१२.१)। अपहतिर्वारणं निवृत्तिर्वा।
- ‘अपहता असुरा रक्षांसि वेदिषदः (वा॰सं॰२.२९)। अपहता दूरं गमिताः।
- ‘यः पाप्मानमपजिघांसुः स्यात्’ (ऐ॰ब्रा॰४.४)। अपजिघांसुः=अपनुनुत्सुः।
- ‘अर्बुदः सर्प एताभिर्मृतां त्वचमपाहत’ (पञ्च० ब्रा० ४।९।५)। अपाहत=अपाहन्=अपागमयत्।
- ‘यज्ञाद्रक्षांस्यपहन्ति’ (तै० ब्रा० ३।८।१५।१)। अपहन्ति हननेनापकर्षति, अपगमयति।
- ‘अप सोम मृधो जहि’ (ऋ० ९।४।३)। उक्तोऽर्थः।
- ‘तानश्वा भूत्वा पद्भिरपाध्नत’ (ऐ० ब्रा० ५।१)। अपाध्नत=अपाध्नन्=अवाताडयन्।
- ‘अपजहि परिधिम्’ (छां० उ० २।२४।६)। अपसारयार्गलम्, उद्घाटय विष्कम्भम् इत्याह।
- ‘तेऽत्रिमब्रुवन्नृषे त्वमिदमपजहीति’ (जै० ब्रा० १।८०)। इदं (तमः) अपनयेत्यर्थः।
- ‘अमेध्यमपहन्ति’ (तै० ब्रा० १।१।३।१)। अपहन्ति अपसारयति दूरी करोति।
- ‘अपघ्नन्नेषि पवमान शत्रून्’ (ऋ० ९।९६।२३)। विनाशयन्नित्यर्थः।
हस्
- {अपहस्}
- हस् (हसे-हसने)।
- ‘अवसराद्यनपेक्षो हासोऽपहासो भवति। त्वया यदपहास्यं मे श्रुत्वा’ (रा॰२.२७.२)।
हा
- {अपहा}
- हा (ओहाक्-त्यागे)।
- ‘यावद्ग्रासं सन्नयन्नस्कन्दयन्नापजिहीताऽपजिहीत वा’ (आप॰ध॰२.१९.५)। नापजिहीत सव्येन पाणिना न मुञ्चेद् इत्युज्ज्वला। छान्दसमात्मनेपदम्। नेह ओहाङः प्रयोगः, अर्थासङ्गतेः।
- ‘स विललाप सगद्गदं सहजामप्यपहाय धीरताम्’ (रघु॰८.४३)। अत्रापशब्दो विशेषकृन्न।
हि
- {अपहि}
- हि (हि-गतौ वृद्धौ च)।
- ‘भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः’ (भा॰पु॰१०.३३.४०)। अपहिनोति=अपगमयति। अपपूर्वस्य हिनोतेरत्रैव प्रयोगः। ऋषिरिव नियोगपर्यनुयोगानर्हः स्वतन्त्र एष कविः।
हृ
- {अपहृ}
- हृ (हृञ्-हरणे)।
- ‘छायामपहरति कविरर्थं चौरः पदं कुकविः’। अपहरति=आदत्ते। स्तेनयति।
- ‘सूतस्य नुदतो वाहान् क्षुरेणापाहरच्छिरः’ (भा॰वन॰२७१.२४)। अपाहरत्=अच्छिनत्।
- ‘रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना। शितेनोरगसङ्काशां पत्त्रिणापजहार ताम्’ (भा॰भीष्म॰६१.९)। अपजहार=चिच्छेद, चकर्त।
- ‘शिरः कायादपाहरत्’ (भा॰द्रोण॰१९०.३०)। उक्तोऽर्थः।
- ‘अपह्रिये खलु परिश्रमजनितया निद्रया’ (उत्तर॰१)। विधेयीक्रिये=विवशीक्रिये।
- ‘यथा नापहियसे सुखेन’ (का॰शुकनासोपदेशे)। अपह्रियसे=प्रलोभ्यसे=विचाल्यसे।
- ‘योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते। स पापकृत्तमो लोके स्तेन आत्मापहारकः’ (मनु॰४.२५५)॥ आत्मापहारकः=स्वरूपप्रच्छादकः।
- ‘कथं वात्मापहारं करोमि’ (शा॰१)। उक्तोऽर्थः।
- ‘समित्कुशकुसुमापहारसम्मार्जनलब्धविश्रमा। अपहारः=आहरणम्। अस्थानेऽपशब्दप्रयोगः।
- ‘वदनमपहरन्तीं (गौरीम्)’ (कु॰७.९५)। साचि कुर्वतीं तिरश्चीनं कुर्वाणमित्याह।
- ‘कर्णनासापहारेण भगिनी मे विरूपिता’ (रा०३.३६.१३)। अपहारेण=छेदेन।
- ‘अपहारस्त्वपादानम्’ (वैजयन्ती)।
- ‘अपहारस्त्वपचयः’ (अमरः)। अपचयो हानिरिति स्वामी।
- ‘अन्नहर्ताऽऽमयावित्वं मौक्यं वागपहारकः’ (मनु॰११.५१)। वागपहारकः=वाचमपहरति स्तेनयति=अननुज्ञाताध्यायी, अध्ययनेऽनधिकृतः सन्यः शास्त्रं शृणोति।
- ‘अन्नमपहर्तार आह्वरका भवन्ति श्राद्धे सिद्धे’ (पा॰तृन् ३.२.१३५ सूत्रे वृत्तौ)। अपहर्तारः=आच्छेत्तारः=अपलोप्तारः।
- ‘पूर्वकृतापदानं प्रतिज्ञायापहरन्तम्’ (कौ० अ० ४।८।२६)। स्वीकृत्योक्तं प्रतिसंहरन्तमित्यर्थः।
ह्नु
- {अपह्नु}
- ह्नु (ह्नुङ्-अपनयने)।
- ‘न ते सख्यमपह्नुवे’ (ऋ॰१.१३०.४)। अपह्नुवे=अपनयामि=पराकरोमि।
- ‘तेनाहिंसिषम्, इयं सुकन्या तया तेऽपह्नुवे’ (श॰ब्रा॰४.१.५.७)। अपह्नुवे निष्कृतिं करोमीत्यर्थः।
- ‘येन वाहनेन धावयेत् तद्विमुच्य ब्रूयात् पाययतैनत् सुहितं कुरुतेत्येष उ वाहनस्यापह्नवः’ (श॰ब्रा॰१.८.२.९)। अत्रापह्नवेन तर्पणं प्रहर्षणमनुनयनं विवक्ष्यते।
- ‘ज्ञातं मया ते हृदयं सखे माऽपह्नवं कृथाः’ (कथा॰१०.९२)। माऽपलपीरित्याह। आत्मानं निर्वेदाय मा दा इत्येवं कथासरित्सागरस्यानुवादकोऽनुवदति।
- ‘अहं हि मात्रा जनितो भवान् स्वयं ममायुधं वृत्तिरपह्नवस्तव’ (पञ्च॰१.२५)। अपह्नवः प्रेमा।
- ‘सापह्नवाः सदैवासन् पाण्डवाः पाण्डुपूर्वज’ (भा॰भीष्म॰६५.२२)। सापह्नवाः=प्रच्छन्नपापाः=अप्रख्यातकिल्बिषाः।
- ‘तत्र तावदपह्नुते (सति) होतुरपचारादिला नाम कन्या बभूव’ (वि॰पु॰४.१.९)। अपह्नुते=विपरीते सङ्कल्पे।
- ‘कामदेवव्यपदेशेन सखीपुरतोऽपह्नुतः’ (रत्ना॰२)। कामोऽयमित्युक्त्वा स्वरूपापनयपुरःसरं सख्याः पुरः सन्निधापित इत्यर्थः।
- ‘अङ्गैरपह्नुतोप्यन्यै र्यस्या दिव्यानुकारिभिः। चक्षुषा चपलेनोक्तो मर्त्यभावो निमेषतः’ (कथा० ७४।२१६)॥ अपह्नुतो गोपितः, संवृतः।