००८ प्रसम् (प्र+सम्)

ईक्ष्

  • {प्रसमीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम्। प्रसमीक्ष्य…’ (मनु॰५.४९)। सुनिपुणं चिन्तयित्वेत्याह। प्रसमयोरन्यतरः शक्यस्त्यक्तुम्।

ख्या

  • {प्रसंख्या}
  • ख्या (ख्या-प्रकथने)।
  • ‘परिपृष्टिका वैघसिकाः प्रसङ्ख्यानास्तथैव च’ (भा॰आश्व॰९२.७)। प्रसङ्ख्यानास्तत्कालमात्रसङ्ग्रहाः।
  • ‘हरः प्रसङ्ख्यानपरो बभूव’ (कु॰३.४०)। प्रसङ्ख्यानपरः=आत्मानुसन्धानपरः। ध्याने जपे प्रसङ्ख्यानं नित्यानित्यविचारणे इति शाश्वतः। ‘गुणानेतान् प्रसङ्ख्याय’ (भा॰शां॰१००.२५)। प्रसङ्ख्याय=सम्यग्विचार्य।
  • ‘यो न याति प्रसङ्ख्यानमस्पष्टो भूमिवर्धनः’ (भा॰वन॰३५.७)। प्रसङ्ख्यानं प्रकृष्टां कीर्तिम्। गुणिगणगणनागोचरो न भवतीति धात्वर्थस्य सन्निकृष्टोऽर्थः। अस्पष्टः=अविदितः। भूमिवर्धनः=भूमेर्हिंसको भारभूतत्वात्।

चक्ष्

  • {प्रसंचक्ष्}
  • चक्ष् (चक्षिङ्-व्यक्तायां वाचि)।
  • ‘पृष्ठस्थानि सर्वाण्येव प्रसञ्चक्षीत’ (लाट्य॰श्रौ॰२.९.७)। कार्त्स्न्येन गणयेदित्याह।
  • ‘तान् (रागद्वषमोहान्) पूर्वं प्रसंचक्षीत’ (न्या० ४।२।२ सूत्रभाष्ये)। प्रसंचक्षीत तत्त्वतो जानीयात्।