कस्
- {प्रविकस्}
- कस् (कस-गतौ)।
- ‘प्रविकसति चिराय द्योतिताशेषलोके दशशतकरमूर्तौ’ (शिशु॰११.६३)। प्रविकसति प्रोन्मिषति सति।
गाह्
- {प्रविगाह्}
- गाह् (गाहू-विलोडने)।
- ‘प्रविगाह्योदकं तीर्णं वनानि फलवन्ति च’ (रा॰६.१६.२)। प्रशब्देन नार्थः। विगाह्येत्यवगाह्येति वाह। समाने विगाहनावगाहने।
- ‘बहूंश्च दीर्घान् प्रविकीर्य मूर्धजान्’ (भा॰वि॰११.२)। शिरोरुहानुन्मुक्तबन्धनान् कृत्वेत्याह।
- ‘विषं शरीरे प्रविकीर्णमात्रम्’ (सुश्रुते २.२९५.१)। प्रविकीर्णम्=विसृप्तम्।
चर्
- {प्रविचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘द्वादशान्नप्रविचारानेतानेव प्रचक्षते’ (सुश्रुत० उत्तर० ६४।२२)। प्रविचारान् भेदान् विशेषान्।
चल्
- {प्रविचल्}
- चल् (चल-कम्पने)।
- ‘यश्च धर्मात् प्रविचलेल्लोके कश्चन मानवः’ (भा॰शां॰५९.१०५)। प्रविचलेत्=भ्रंशेत=प्रच्यवेत।
- ‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः’ (भर्तृ॰१.८४)। न्यायमार्गं पदमेकमपि यावन्नोच्चरन्त इत्याह। प्रवी समुदितौ विप्रकर्षमाहतुः।
दृ
- {प्रविदृ}
- दृ (दृ-अवदारणे)।
- युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् (अमरः)।
द्रु
- {प्रविद्रु}
- द्रु (द्रु-गतौ)।
- ‘रथाः सर्वे कस्माच्चैते प्रविद्रुताः’ (भा॰द्रोण॰१२२.२)। विद्रुता भग्नाः पलायिताः। प्रविद्रुता इति परस्परं विश्लिष्य पलायिता इत्यर्थमाचष्टे। प्रशब्दः प्रविश्लेषं पार्थक्यमाह।
धा
- {प्रविधा}
- धा (डुधाञ्-धारणपोषणयोः)।
- ‘रन्ध्रं हि तद्विप्रकृता महत्त्वं नयन्ति तस्मात् प्रविधाय यायात्’ (का॰नी॰सा॰१६.१५)। प्रविधाय=प्रतिकृत्य। प्रत्यर्थे प्रशब्दः।
- ‘प्रविधाय च तद्वर्तीं योजयेच्चाञ्जने भिषक्’ (सुश्रुते २.३४७.७)। प्रविधाय=विभज्य।
- ‘ततस्तां लक्ष्मीं प्रविधाय प्रदोषे स्वगृहं निनाय’ (शुक॰)।
- ‘अनागतविधानं च तस्यार्थे प्रविधीयताम्’ (रा॰४.१४.२९)। प्रविधीयतां चिन्त्यतामित्याह।
ध्वंस्
- {प्रविध्वंस्}
- ध्वंस् (ध्वंसु-अवस्रंसने, गतौ च)।
- ‘प्रविध्वस्तशरासनौ’ (रा॰६.२२.२६)।
- ‘वातप्रविध्वस्ततरङ्गसङ्कुलो यथार्णवः’ (हरि॰२.१२४.५५)। वातेन वात्यया प्रविध्वस्ता विक्षिप्तास्तरङ्गा वीचयः। प्रवी विशेषणे। वातप्रवृद्धस्तु तरङ्गसङ्कुल इति पाठान्तरम्।
यु
- {प्रवियु}
- यु (यु-मिश्रणामिश्रणयोः)।
- ‘यमुना प्रयुवती गच्छतीति वा प्रवियुतं गच्छतीति वा’ (नि॰९.२६.१)। प्रयुवती प्रकर्षेण स्वान्युदकान्याभिर्नदीभिर्मिश्रयन्ती। प्रवियुतं स्तिमितं यथा स्यात्तरङ्गस्तथेत्यर्थ इति दुर्गः।
रम्
- {प्रविरम्}
- रम् (रमु-क्रीडायाम्)।
- ‘ततोऽग्रहारहरणादेव प्रविरतोऽभवद्’ (राजत॰४.६३८)। प्रविरतः=विरतः=उपरतः। विशब्दो धात्वर्थं विपरीतयति। रमिश्चेष्टामाह विरमिस्तु चेष्टाविरामम्।
विच्
- {प्रविविच्}
- विच् (विचिर्-पृथग्भावे)।
- ‘प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्’ (रा॰२.१६.१)। प्रविविक्ताम्=जनासम्बाधाम्। जनसम्मर्दरहिताम्। जनौधेन विविक्तां परित्यक्ताम्।
श्लिष्
- {प्रविश्लिष्}
- श्लिष् (श्लिष-आलिङ्गने)
- विधुरं तु प्रविश्लेष इत्यमरः। व्यतिरिक्तोऽत्र प्रशब्दः।