००२ प्राङ् (प्र+आङ्)

दा

  • {प्रादा}
  • दा (डुदाञ्-दाने)।
  • ‘प्रादातुं तच्च शक्रस्तु कालं चक्रे’ (भा० आदि०)। प्रादातुम् – दातुम्। आङ्पूर्वो ददातिरादाने ग्रहणे रूढः, प्राङ्-प्रर्वस्तु दानमेवार्थमर्पयति, शब्दशक्तिस्वाभाव्यात्। अपि वा प्रशब्दस्यैव च्छन्दोवशाद् दीर्घः।
  • एवमन्यत्रापि भारते- ‘जातमात्रान् पुत्रांश्च दारांश्च भवतामिह। प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः’ (भा० आदि० १२६।३)॥ उपनिधिर्निक्षेपो न्यासः।

भृ

  • {प्राभृ}
  • भृ (भञ्-भरणे, डुभृञ्-धारणपोषणयोः)।
  • ‘चिकित्साप्राभृतो धीमान् शास्त्रवान् कर्मतत्परः’ (चरक० सूत्र० १६।२९)। चिकित्सा प्राभृतमस्य। प्राभृतमित्युपायनं भवति।

रभ्

  • {प्रारभ्}
  • रभ् (रभ-राभस्ये)।
  • ‘प्रारभ्यते न खलु विघ्नभयेन नीचैः’ (भर्तृ० १।२७)। अत्र प्राङ्भ्यां न विशेषः कश्चिज्जन्यते। केवलस्य रभेः प्रयोगो दुर्लभः।

लम्ब्

  • {प्रालम्ब्}
  • लम्ब् (रबि/लबि/अबि- शब्दे, लबि-अवस्रंसने च)।
  • ‘प्रालम्बमुत्कृष्य यथावकाशं निनाय साचीकृतचारुवक्त्रः (रघु० ६।१४)। प्रालम्बमृजुलम्बि (माल्यम्) इत्यमरः। लम्बनं स्याल्ललन्तिका। स्वर्णैः प्रालम्बिका इति चामरः।

विश्

  • {प्राविश्}
  • विश् (विश-प्रवेशने)।
  • ‘अस्मद्राता देवत्रा गच्छत प्रदातारमाविशत’ (वा० सं० ७।७६)। प्रपूर्वस्य विशतेर्योऽर्थः स एव प्राङ्पूर्वस्य। शब्दोपजनो नार्थोपजनः।

वृ

  • {प्रावृ}
  • वृ (वृञ्-वरणे, वरणमावरणमाच्छादनम्)।
  • ‘तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः’ (भा० वन० ७६।४२)। प्रावृरणोत्=आच्छादयत्।
  • ‘वास एव त्यक्तं प्रावृण्वानः’ (भा० उ० १३९।१२)।
  • ‘अयं पटः प्रावरितुं न शक्यते’ (मृच्छ० २।१०)।
  • ‘प्रावृणोतु चीवरे वीरता’ (हर्ष० ५)।
  • ‘विचित्राणि च वासांसि प्रावारावरणानि च’ (भा॰आदि॰१.१३३)। प्रावाराणि उपरिवस्त्राणि। आवरणानि परिधानीयानि। यद्वा वासःशब्देनैव तेषां ग्रहणात् प्रावाराणि शिबिराणि=उपकार्याः, पटभवनानि। आवरणानि जवनिका इति नीलकण्ठः।