१ र्पास्ताविकम्

[[TODO: proofread??]]

किञ्चित्प्रास्ताविकम्

अद्य वर्षपूगमुपसर्गार्थं चन्द्रिकायाः प्रकृतायाः कृतेः प्ररणीत्यां व्यापृतस्य मे । याऽस्य राष्ट्रस्य सप्तचत्वारिंशदुत्तर नवशत्यधिकसहस्रत मे ख्रिस्तसंवत्सरे विभक्ति- रजनि ततः प्रागेव लवपुरस्थे श्रीदयानन्दकालेजे विधिवदोपाध्यायकं कुर्वाण- स्य मे मनस्यभूदुपसर्गार्थविषयिणी काचित्पुस्तिका प्रणेयेति । नाहं तदाऽस्फुटा- वभासमपि समबीभवम् इदमियत्ताक एवंबृहन्नेष ग्रन्थो भवितेति । तत्र तत्रार्थे प्रयुक्तपूर्वाशिष्टः शीलितानुपसर्गान्पर्येषितुं प्रवृत्तो वैदिकं लौकिकं च वाङ्मय- मवहितचेताः प्राधीतोऽहमद्योपपञ्चदशान्हायनांस्तत्रानारतं रमे रंस्ये च कृते रस्याः प्रकाशनादा । तैस्तैष्टी काकृद्भिः कृतै विवरणः सहायैरुपसर्गकृत्यमञ्जसा व्यवासा- सिषमुपसर्गार्थाश्च साधीयो व्यज्ञासिषम् । परं तेषु बह्वाद्द्तोप्यहं न तत्कृतानि विवरणान्यनतिशङ्क्य श्रद्धाजाडयेन पर्यग्रहीषम् । यथापेक्षं निपुणं तानि परीक्ष्यासाधूनि कानि चिदिति निराकार्षम्। युक्तीश्च पुष्कलास्तत्र तत्र निरा- क्रियायां न्यास्थम् । क्वचित्क्वचित्प्रचरतो मूलपाठानपि यथामनीषमशुशुधम् ।

यद्यपि दुर्भरोऽयं भरः कार्त्स्न्येनोपसर्गार्थगवेषणं नाम तथापि नायं मे खेदाय कनीयसे वा क्लमायाऽभूत् । नाहं क्षरणमपि तस्मै पर्यग्लासिषम् । श्रत्यन्ताय रुचिकरमिदं कृत्यमित्येवान्वभूवम् । यत्सत्यं यथा यथोपसर्गार्थान्पर्यैक्षिषि तथा तथा प्राकृष्यत तत्राभिरुचि । इमानि हायनानि विशेषादाभोगवति वैदिक- साहित्यारामे तत्तदुपसर्गार्थ सुमन सामवचायेऽविश्रान्तं व्यापृषि । अत्र साहित्ये यदुपसर्गप्राचुर्यं यच्चोपसर्गं कृतमर्थनानात्वं तदन्यत्र सुदुर्लभम् । ऋषयः किलोप- सर्ग प्रिया इत्यवितथं वचः । तत्तदर्थविवक्षया प्रणुन्नास्ते यं कमप्येक धातु- मुपाश्रित्य नानोपसर्गासञ्जनेन वक्तुं प्रक्रमन्ते । अर्थाभ्युच्चयायोपसर्गाभ्युच्चयं कामयन्ते । आविकाक्षं पञ्चषैरप्युपसर्गैर्धातुं सम्पादयन्ते । न तावत्येवोप- रमन्ते । तत्तन्नामधेय प्रकल्पनायामपि तथा प्रवर्तन्ते । ततोऽर्वाचीने लौकिके साहित्ये तु नेत्थम्भूतं किञ्चिदस्ति । सुदूरं सान्तरे अत्र विषये लोकवेदयोः प्रचरन्त्यौ वाचो । सन्त्यत्रोपसर्गा नाम, परं विरलास्ते विप्रकृष्टान्तराश्च । विच्छिन्ना सम्प्रत्युपसर्गकृतार्थ विच्छित्तिरर्थ विविधता च ।

श्रीरामायणमहाभारतयोस्तु च्छन्दोवत्कवयः कुर्वन्तीति भाष्योक्तिमन्व- र्थयन्नुपसर्ग उपसर्गार्थं च चित्रीयाकरः संवादरछान्दसं । सैवेह प्रायतो-

vii

पसर्गारिणां सैव चार्थरुचिरता चकास्ति । शब्दवित्तमो व्यास इति भण्यते, वागृषभश्च वाल्मीकिरिति तयोः कृती अध्येतुं शब्दतोऽर्थतश्च ग्रहीतुं तास्ताष्टीका आमूलचूलमालुलोचमुपसर्गे च सविशेषमवहितोऽभूवम् ।

अत्रोपोदघातेऽमुपसर्गा द्योतका इत्यादीन् प्रथितान्परम्परीणान्वादान् वितत्य गुणदोषत: पर्यच्छित्सि । श्रत्रानासादितचरं नवनवोन्मेषकरं पक्षविपक्षयोः प्रकर्षापकर्ष प्रदर्शक प्रमाणजातं समग्रहीषि नवां च वर्तनीं पर्यग्रहीषि । यत्सत्य- महत एष पन्था यो मयाऽऽस्थितः । उपसर्गकृत्यमधिकृत्य यावद् वक्तव्यं भवति तावदखिलेनेह चत्वारिंशता पत्रपार्श्वे रुक्तमिति नन्दिष्यन्ति कृतिनः ।

येsa पूर्विरणस्तेभ्यो बहु धारयामि । विश्वस्मिन्नस्मिन् प्रथामितस्यानतिशयि- तस्य संस्कृतशार्मण्यकोषस्य प्ररणाय कयोविद्वच्छेख रायमाणयोर्मुनिशार्द लयोर्मर्त्य- योरप्य मर्त्ययोः श्रीरोथबोत्लिङ्गयोविशिष्याधमर्णोस्मि । तदिदं कोषरत्नमत्र कृत्यां बहुलमुपयुक्तवानस्मि । परं नाहं तावन्तमेव ग्रन्थराशिभुपायुक्षि, ततो भूयांसमुपादिषीति नाधिकार्थवचनम् । एतत्कोषप्रणयनादृध्वं भूयस्य ऋषिकृतयः कविकृतयश्चास्तंगताश्चिरमविदिता वा मातृकासु वा स्थिता इदम्प्रथमं प्राकाश्य- मयु: । जैमिनीयब्राह्मणं कौटलीयमर्थ शास्त्रं भासनाटकचक्रं तत्त्वसङ्ग्रहः काश्यप- संहितेतिप्रभृतयः प्रभूता ग्रन्थोद्धाः कालान्तरे प्रादुरभवन् । ततः सर्वत उपा- देयार्थमुपादिषीत्यनेनापि कृतार्थता में क्रियायाः ।

इयं मे कृतिर्यथोपपादं बह्वर्थव्यापिनी सर्वाङ्गीणा स्यादिति प्रायसम् । प्रत्येक द्वे शते पृष्ठानि व्यश्नुवानः पञ्चभिः खण्डैः कृतिरेषा क्रमशः प्रकाश- यिष्यत इति प्राचिक्लृपम् । प्रथम एष खण्डः सम्प्रति प्राकाश्यमेति ।

इहोपसर्गाणां परा अपेत्यादिः साम्प्रदायिकः क्रम प्रास्थितः । धातवस्त्व- कारादिक्रमेणानुकान्ताः ।

सदसद्विवेचनचणाः परिणतप्रज्ञाः शास्त्रपरपारश्वानोऽत्र कमपि गुणं चेत् पश्येयुः कृतिनमात्मानं कलयेय । उपसर्गार्थविषयमनुसन्धातृन् समुद्धर्षयिष्यति व्यवसाययिष्यति चेयं कृतिरिति बलवदाशासे ।

श्रद्याहमे काशीतितमं वत्सरं वयसोऽनुभवामि । इदञ्चाभ्यर्थये भगवन्तमीशं शास्त्रशीलने नव्यभव्यार्थोन्नयनेऽमन्दमेधोऽप्र हीरणशक्तिर्यथापुरमनन्तरायं प्रवर्तय यावद धिये । नातः परं मे काम्यमस्ति । एतदर्थाभिवादिनम् इममधंचंमभ्युच्य विरमाम्यहं विदुषामाश्रवश्चारुदेवः शास्त्री ।

मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः (ऋ० २२२६५) ।