[[निरुक्तलोचनम् Source: EB]]
[
[TABLE]
[TABLE]
॥ओ३म्॥
॥प्रकाशकोक्तिः॥
—•—
गोत्रे कश्यपजे कुले सुविदिते गाहीतिचट्टान्वये,
जातश्चावसथः मदाशिवमुनिस्तस्यैव वंश्यो महान्।
बेदाना मधिदैवतार्थकरणे चैकोऽद्य यो भारते,
चातुर्वेद्यविधिज्ञवेदिकगुरूःसत्यव्रतो नः पिता॥१॥
ज्ञात्वा यत्सत्यनिष्ठां प्रमुदितगुरूणाऽऽख्यायि सत्यव्रतो यः,
बुन्दीशोऽप्याह तुष्टः सदसि परिचयाद् यं हि सामश्रमीति।
हारिश्चन्द्रीयपक्षेजयपुरसमितौयेन लब्धाः प्रतिष्ठाः,
माध्यस्थ्यं येन काश्यां कृतमुभयमतं श्रीदयानन्दवादे॥२॥
** शास्त्रीश्रीभक्तरामो लवपुरवसतिर, दाक्षिणात्यश्च शास्ती-
रावः श्रीनारसिंहो, ऽमृतसरनिलयः श्रीजगत्ताथ आर्यः।
काश्यां वङ्गे च गौडे जय-शिव-कनकाः, गुर्ज्जरेऽप्यक्षयाद्याः,
हाराणाद्याः सनीडा हित-शिव-भवका यस्य शिष्याश्च शस्ताः॥३॥**
सामाम्नानभृता मृचाञ्च यजुषां त्रिब्राह्मणाना मपि,
येनाकारि सतां मुदेविवरणं वङ्गानुवादस्तथा।
टीका देवगिरा देशापि रचिता वेदेषु सूत्रेषु च,
त्रय्याद्याः प्रथितास्त्रिवेदमथिता ग्रन्थाश्च यस्याष्टकौ॥४॥
प्राच्यापाच्यबुधा अवाच्यविबुधा औदीच्यविद्याधनाः,
साम्नांशिक्षयितुः प्रशस्तिलिपिभिर्गायन्ति यस्योद्यशः।
सत्यार्थाध्ययनप्रवृत्तिवशगा आयान्ति ते यन्मठे,
तेनेदं रचितं त्रिवेदगमकं नैरुक्तनेत्राञ्जनम्॥५॥
आयान्त्यस्य सामगाचार्यस्य प्राच्योदीच्यापाच्यावाच्यभारतीय-
महामहोपाध्यायादिधीमल्लिखितानि बहूनि
प्रशस्तिपत्राणि, तेषा मेकतमादिह
उद्धरामिश्लोकदयम्—
“आरत्नाकरमेखलावनितले द्वीपे त्वितोऽन्यत्रच,
न स्पर्द्धीन च यत्समोऽपि च बुधो सद्वेदविद्यागुणैः।
अर्थाना मनिशं चमत्कृतिमतां कोशोऽनिशं दर्शकः,
विहन्मूर्द्धकिरीटरत्ननिचये चिन्तामणिश्चाग्रणीः॥
**x x x x **
विद्याविद्युदुदारदीप्तिनिचयैर्भूमण्डलं रोचयन्,
स्वान्तध्वान्तमदान्नशान्तजनुषां सद्यः समुन्मीचयन्।
वेदव्याकृतिजैमिनीयजटिलान् भावान् सदालोचयन,
कोऽप्याम्नाययशा जयत्यतितरां सत्यव्रतः सामगः॥” —इति।
चम्पारण्यवास्तव्य-पण्डितवरस्य “श्रीचन्द्रशेखरधरशर्म्मणः—१८.९.०४.”
कलिकाता, (सामकण्ठेतिलब्धयशोनामा), श्रीहितव्रतशर्म्मा।
वङ्गवेदविद्यालयः।
प्रकाशकः।
संवत् १९६३।
——
[TABLE]
[TABLE]
[TABLE]
[TABLE]
॥अथनिरुक्तालोचनम्॥
— ० —
“साक्षात्कतधर्म्माण ऋषयो बभूवुः। तेऽवरेभ्योऽसाक्षात्कृतधर्म्मभ्यः
उपदेशेन मन्त्रान्तसम्प्रादुः।उपदेशाय ग्लायन्तीऽवरे बिस्मग्रहणायेमं
ग्रन्थंसमाम्ना सषुर्वेदञ्च वेदाङ्गानि च” (१.६.४.)
— • —
अथेद मालोचयामः।—किमिदं निरुक्तम्? तस्यैतस्य वेदाङ्गत्वमस्तिनास्ति वा? एतन्मूलस्य कः प्रणेता, को वैतस्य?कः किल यास्कः? अस्य ऋषित्व मस्ति नास्ति वा? कियांश्चग्रन्थो यास्कीयः?कश्चकालस्तस्ययास्कस्य?कैमर्थिकीतस्यैषा प्रवृत्तिः? कोऽयं वेदः?वेदकालनिर्णयःशक्योऽशक्यो वास्माकम्?के विषयाश्चैतन्निरुक्तप्रतिपाद्याः?प्रसङ्गतो देवराजसायणाचार्यदुर्गाचार्याणाञ्च कालादिकं किञ्चिदालोच्यमिति द्वादश॥
(१)
तत्रादौ किमिदं निरुक्तमिति। ऋग्भाष्यभूमिकायांसायणस्त्वेवमाहु—“अतिगम्भीरस्य वेदस्यार्थमवबोधयितुंशिक्षादीनि षड़ङ्गानि प्रवृत्तानि। अत एव तेषामपरविद्यारूपत्वंमुण्डकोपनिषद्याथर्वणिका आमनन्ति— ‘द्वेविद्ये वेदितव्येइति ह स्म यद् ब्रह्मविदो वदन्ति, पर चैवापरा च।तत्रापरा ऋग्वेदो यजुर्बेदः सामवेदोऽथर्ववेदः शिक्षा कल्पोव्याकरणं निरक्तं छन्दो ज्योतिषमिति; अथपरा यया
तदक्षरमधिगम्यते’—इति। साधनभूतधर्मज्ञानहेतुत्वात् षड़ङ्गसहितानां कर्मकाण्डानामपरविद्यात्वम्; परमपुरुषार्थभूतब्रह्मज्ञानहेतुत्वात् उपनिषदां परविद्यात्वम्।
(१) वर्णस्वराद्युच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षा।तथाच तैत्तिरीया उपनिषदारम्भेसमामनन्ति—‘शिक्षां व्याख्यास्यामः। वर्णःस्वरः मात्रा बलं साम सन्तान इत्युक्तः शिक्षाध्यायः’—इति। ०—०। तस्मात् स्वरवर्णाद्यपराधपरिहारायशिक्षाग्रन्थोऽपेक्षितः।
(२) कल्पस्त्वाश्वलायनापस्तम्बबोधायनादिसूत्रम्; कल्प्यतेसमर्थ्यते यागप्रयोगोऽत्रेति व्युत्पत्तेः। ०—०। अतः कल्पसूत्रं मन्त्रविनियोगेन क्रत्वनुष्ठानमुपदिश्योपकरोति। ०—० । तस्मात्शिक्षेव कल्योऽप्यपेक्षितः।
(३) व्याकरण मपि प्रकृतिप्रत्याद्युपदेशेन पदस्वरूपतदर्थनिश्चयायोपयुज्यते। ०—०। तस्मादियं वाक् इदानीमपिपाणिन्यादिमहर्षिभिर्व्याकृता सर्वैः पठ्यत इत्यर्थः। ०—०।
(४ क) अर्थावबोधेनिरपेक्षतया पदजातं यत्रोक्तं तन्निरूक्तम् “गौः ग्मा ज्माक्ष्मा क्षा क्षमा’—इत्यारभ्य ‘वमवःवाजिनः देवपत्न्योदेवपत्न्यः’—इत्यन्तो यः पदानां समाम्नायःसमाम्नातः, तस्मिन् ग्रन्थेपदार्थावबोधाय परापेक्षान विद्यते;एतावन्ति पृथिवीनामानि, एतावन्ति हिरण्यनामानीत्येवं तत्रतत्र विस्पष्ट मभिहितत्वात्। तदेतन्निरूक्तं त्रिकाण्डम्। ०—०।पञ्चाध्यायरूपे काण्डत्रयात्मके एतस्मिन् ग्रन्थेपरनिरपेक्षितयापदार्थस्योक्तत्वात् तस्य ग्रन्थस्यनिरूक्तत्वम्।
(४ ख) तद्व्याख्यानञ्च ‘समाम्नायः समाम्नातः’—इत्या-
रभ्य ‘तस्यास्तस्यास्ताद्भाव्य मनुभवत्यनुभवति’—इत्यन्तैर्द्वादशभिरध्यायैर्यास्को निर्ममे तदपि निरुक्तमुच्यते;एकैकस्य पदस्यसम्भाविता अवयवार्थास्तत्र निःशेषेणोच्यन्त दति व्युत्पत्तेः। ०—०।तस्माद् वेदार्थावबोधायोपयुक्तंनिरुक्तम्।
(५) तथा छन्दोग्रन्थोऽप्युपयुज्यते, छन्दोविशेषाणां तत्र तत्र विहितत्वात्। ०—०। ‘यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति, वाध्यापयति वा, स्थाणुं वर्च्छति,गर्त्ते वा पद्यति, प्र वा मीयते, पापीयान् भवति, यातयामान्यस्यछन्दांसि भवन्ति; तस्मादेतानि मन्त्रेमन्त्रेविद्यात्”—इति श्रुयते(सा० आ० ब्रा १प्र० १ख०)। तस्मात्तावद्वेदनाय छन्दोग्रन्थउपयुज्यते।
(६) ज्योतिषस्य प्रयोजनं तस्मिन्नेव ग्रन्थे विहितम्—‘यज्ञकालार्थसिद्धये’—इति। कालविशेषविधयश्च श्रुयन्ते— ‘संवत्सरमेतद्ब्रतं चरत्संवत्सरमुख्यंभृत्वेत्येवमादयः संवत्सरविधयः। वसन्तेब्राह्मणोऽग्नि मादधीत, ग्रीष्मेराजन्य आदधीत, शरदिवैश्य आदधीतेत्याद्या ऋतुविधयः। मासिमासि सत्रपृष्टान्युपयन्ति, मासि मास्यतिग्राह्या गृह्यन्तइति मासविधयः। यंकामयेत वसीयाग्त्स्यादिति तं पूर्वपक्षेयाजयेदित्याद्याः पक्षविधयः। एकाष्टकायां दीक्षेरन् फल्गुनीपूर्णमासे दीक्षेरन्नित्याद्यास्तिथिविधयः।प्रातर्जुहोति सायं जुहोतीत्याद्याः प्रातःकालादिविधयः। कृत्तिकास्वग्निमादधीतेत्याद्याः नक्षत्रविधयः। अतःकालविशेषान् अवगमयितुंज्योतिषमुपयुज्यते।
एतेषां वेदार्थोपकारिणां षण्णांग्रन्थानां वेदाङ्गत्वंशिक्षायामेवमुदीरितम्—‘छन्दः पादौ तु बैदस्य हस्तौकल्पोऽथ
पठ्यते। ज्योतिषामयनं चक्षुर्निरुक्तंश्रोत्रमुयते। शिक्षाघ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्गमधीत्यैवब्रह्मलोके महीयते’ –इति” —इति।
अथात्र किञ्चित् प्रासङ्गिकमप्युच्यते। सायणीयभाष्येयदुद्धृतोदृश्यते ‘शिक्षाम्’इति ह्रस्वेकारपाठः, मूलविरूद्धइतिस नूनं लेखकमुद्राकरप्रमादजः; तैत्तिरीयारण्यकोपनिषदिहि ‘शीक्षाम’—इति दीर्घेकारश्रवणात्। किञ्चऔपनिषदःशिक्षाध्यायस्तुशिक्षणीयविद्यानां नामबोधक एव। तथाच शिक्षाग्रन्थेषुवर्णोऽकारादिः, स्वर उदात्तादिः, मात्रा ह्रस्वादिः,वलं स्थानप्रयत्नौ,साम निषादादिः, सन्तानः विकर्षशादिः;एषां बोधनमेव शिक्षाग्रन्थप्रयोजनमित्युपदेशः फलितः। ते तुशिक्षाग्रन्थाःसन्ति वहवः; तत्र त्रिंशत्सङ्ख्याका अस्माभिर्दृशः।तेषां नामानि यधा—
| (१) याज्ञवल्क्यशिक्षा, | (२) वासिष्ठीशिक्षा, |
| (३) कात्यायनीशिक्षा, | (४) पाराशरीशिक्षा, |
| (५) माण्डव्यशिक्षा, | (६) अमोघानन्दिनीशिक्षा, |
| (७) लघ्वमोघानन्दिनीशिक्षा, | (८) माध्यन्दिनीयशिक्षा, |
| (९) लघुमाध्यन्दिनीय शिक्षा, | (१०) अमरेशीशिक्षा, |
| (११) केशवीशिक्षा , | (१२) स्वराङ्कुशशिक्षा, |
| (१३) षोडशश्लोकी शिक्षा, | (१४) अवमाननिर्णयशिक्षा, |
| (१५) स्वरभक्तिलक्षण शिक्षा, | (१६) क्रमसन्धानशिक्षा, |
| (१७) गलदृक्शिक्षा, | (१८) मनःस्वारशिक्षा, |
| (१९) प्रातिशाख्यप्रदीपशिक्षा, | (२०) वेदसूत्रपरिभाषाशिक्षा, |
| (२१) यजुर्विधानशिक्षा, | (२२) स्वराष्टकशिक्षा, |
| (२३) क्रमकारिका शिक्षा | (२४) पाणिनीयशिक्षा |
| (२५) नारदीयशिक्षा | (२६) गौतमीशिक्षा |
| (२७) लोमशीशिक्षा | (२८) माण्डूकीशिक्षा |
| (२९) शौनकीया शिक्षा | (३०) आथर्वणशिक्षाचेति |
नैताः सर्वा एव शिक्षाः सर्वासामेव वेदशाखानाम्, नापिचैकविषयाः; प्रत्युत सर्वाएव मिथोविभिन्नविषयप्रधानाः, अपिविभिन्नवेदशाखीयाः। यथा—सामवेदीयस्वरसामसन्तानादिविज्ञानाय ‘नारदीया’, ‘लोमशी’, “गौतमी’ चेत्येताः, तिस्रः शिक्षाः सामवेदमात्रस्यैव। सर्वासामेवासां शिक्षाणां “तैत्तीरीयाम्नात-वर्णस्वराद्यन्यतमविषयत्वेन शिक्षेत्येकैनेव पदेन ग्रहणीयत्वमिति सर्वासामेव शिक्षानामाङ्गत्वम्। एवं कल्पग्रन्थानामप्यनेकलत्वं शाखाभेदजन्यं नूनं स्वीकार्यम्! तत्राद्याप्यविलुप्ताःएकस्य सामवेदस्यैव त्रयः कल्पग्रन्थाः—लाट्यायनसूत्रम्, द्राह्यायणसूत्रम्, उपग्रन्थसूत्रञ्चेति; तैत्तिरीयकानामपि बोधायनापस्तम्बे।तथा सन्ति व्याकरणान्यपि बहूनि। तत्र पाणिनीयस्यैवैकस्यादिसर्वतोमुखत्वम्, प्रातिशाख्यानान्तु नामत एवावगम्यतेप्रतिशाखमेकैकत्वमिति। विशेषतस्तु सामवेदस्य स्वरस्तोभविकर्षणाद्युपदेशाय बहूनि व्याकरणानि समाम्नातानि।) तेषामिमान्येवास्मदधीतानि—सामतन्त्रम्, अक्षरतन्त्रम्पुष्पसूत्रम्, पञ्चविधसूत्रम्, निदानसूत्रम्, अनुपदसूत्रम्, तण्डालक्षणसूत्रम्, छलसूत्रञ्चेत्यष्टौ। निघण्टुनामा निरुक्तमूलग्रन्थस्त्वेक एव चिरात्सुविदितः। निरुक्तमपीदानीमेकमेव यास्कीयं सुप्रसिद्धमिति॥
अथ सर्ववेदभाष्यकारस्य सायणाचार्यस्य नये तु द्वेनिरुक्ते;तत्र मुलं पञ्चाध्यायी, तद्व्याख्यानं द्वादशाध्यायीति। तत्र निरुक्त-
शब्दव्युत्पत्तिप्रकारश्च द्विविध एव; अर्थावबोधेनिरपेक्षतयापदजातं यत्रोक्तंतन्निरुक्तम्’—इति, “एकैकस्य पदस्य सम्भाविताअवयवार्थायत्र निःशेषेणोच्यन्ते तन्निरुक्तम्’—इति च। तथाचमुण्डकोपनिषदादौयच्छ्रूयते निरुक्तमिति पदम्, सायणमतेतदुभयोरेव बोधकम्; शिक्षावचनतोऽपि यद् ज्ञायते निरुक्तस्य वेदश्रोत्रत्वम्, तन्मतेतदप्युभयविधस्यैव। ततश्चास्य नये द्वयोरेववेदाङ्गत्वंंसमम्; द्वयोरेव निरुक्तमित्येवैकनाम्ना बोधाच्च अङ्गानां, षट्सङ्ख्यात्वमप्यवितथमेवेति।
तदिदानींसायणोक्तंतदेव परीक्षितुमेष प्रबन्धोऽवतार्यते।—
श्रूयते ह्येवंछान्दोग्योपनिषदि—“स वा एष आत्मा हृदि,तस्य तदेव निरुक्तहृदयमिति तस्माद्हृदयम् (८.३.३.)”—इति। तदेतत् हृदयनिर्वचनं क्वास्ति निघण्टौ, यास्कीयेवा? न क्वापि। निघण्टौ तु तादृशनिर्वचनदर्शनस्य सम्भावनैव नास्ति;यास्कीये निघण्टुभाष्यरूपे निरुक्तग्रन्थेऽपि हदयशब्दनिर्वचनावसरस्तु बहुत्र विद्यते (९.३.१२.,१०.३. ११.,१३. १. १३., २.७., ४.४.), परं न क्वापि तन्निर्वचनंकृतमस्ति। ततश्चेमेसुव्यक्ते—नेदं यास्कीयं निरुक्तंप्रादुरभूत् छान्दोग्योपनिषदः पुरस्तात्, ‘अर्थावबोधे निरपेक्षतया। पदजातं यत्रोक्तं तन्निरुक्तम’—इति सायणीय, माद्यं निरुक्तलक्षणं च नाभिमतं छान्दोग्योपनिषत्प्रवक्तुरिति।
श्रूयते चैवं गोपथब्राह्मणे—“ओङ्कारं पृच्छामः ०—०किन्निरुक्तम्?०—० आपेरोङ्कारः सर्वमाप्नोतीत्यर्थः (१.१.१४–३०.)”—इत्यादि। तदेतदोङ्कारनिर्वचनं निघण्टौ,यास्कीये वा क्वास्ति? एतत्प्रश्नस्योत्तरं चेदमेव वक्तव्यं न
क्वापीति।निघण्ठौतु तादृशनिर्वचनदर्शनस्य सम्भावनैव नास्ति;निघण्टुभाष्यात्मके यास्कीये निरुक्तेऽपि ॐ शब्दनिर्वचनावसरस्तुविद्यते (१३. १. १०.) परंन च तत्र तन्निर्वचनं कृतमस्ति। तथाच अत्रापीद मेव द्वंयसुव्यक्म्—नेदं यास्कीयंनिरुक्तमाविरभूत् गोपथब्राह्मणतः पुरस्तात्, न च “अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तंतन्निरुक्तम्’—इति सायणीय माद्यंनिरुक्तलक्षणमभिमतं गोपथब्राह्मणप्रवक्तुरिति।
बह्वृक्प्रातिशाख्यद्वितीयवृत्तिकारःखलु देवमित्रपुत्रोविष्णुमित्रोऽप्येव माह—“निरुक्तंपदविभागमन्त्रार्थदेवतानिरूपणार्थं शास्त्रम् (१ प०)”—इति। अतो ज्ञायते तस्यापि सायणीयःमन्त्यंनिरुक्तलक्षणमेव सम्मतमिति; आद्यलक्षणलक्षिते निघण्टुसमाम्नाये मन्त्रार्थप्रभृतिनिरूपणोपायस्यादर्शदिति।
मनुसंहिताया अन्यतमटीकाकारस्य कुल्लूकभट्टस्य मतेऽपिनिर्वचनमूलक एव निरुक्तशब्दप्रयोग उपलभ्यते। तथाहि—“श्राद्धभुग् वृषलीतल्पम् (३, २५०)—इति श्लोकस्य व्याख्यानावसरे ह्युक्तंतेन “वृषलीशब्दोऽत्र स्त्रीपर इत्याहुः। निरुक्तञ्च कुर्वन्ति—वृषस्यन्ती चपलयति भर्त्तारमिति वृषली। ब्राह्मणस्य परिणीता ब्राह्मण्यपि वृषलीति”—इति। नैतद् यास्कीयंवचनमिहोद्धृतंकुल्लूकेन, नापि मानवम् (८. १६.); अपितु केषाञ्चिदपरटीकाकारादीनां मत मेव मित्येव प्रदर्शितम्।यास्कस्तु—“वृषलो वृषशीलो भवति वृषाशीलो वा (३.३. ४.)”—इत्येव निरवोचत्। अत्र त्वेतदेव समालोच्यं यदनतिप्राचीनस्यपण्डितस्य कुल्लूकस्यापि प्रयोगे निरुक्तंन निघण्टुपरमिति।एव मपरत्रापि तत्रैव। तथाहि—“मांस भक्षयितामुत्र यस्य
मांस मिहाद्म्यहम्। एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः(५.५५.)”—इत्यस्य मानववचनस्यव्याख्यानावसरे ह्युक्तंतेनैवकुल्लूकभट्टेन—“एतत् मांसशब्दस्य निरुक्तंपण्डिताः प्रवदन्ति।इति मांसशब्दस्य निर्वचन मवैधमांसभक्षणपापफलकथनार्थम्”—इति। इहापि कुल्लूकभट्टमतेऽपि निर्वचनपर मेव निरुक्तम्,न तु निघण्टुपाठपरमित्येव प्रदर्शनमस्माकमिष्टम्। प्रदर्शितनिर्वचनन्तु न यास्ककृतम; अपि मनुसंहिताकारकालिकैःकैश्चिद्दिद्वद्भिरतुमोदितं तत्संहिताकृतैव कृतम्। यास्कस्तु मनुसंहिताकृतोऽपि बहुप्राचीनः, तत्काले तु मांसशब्दस्य निर्वचनमन्यथैव प्रचलित मासीदित्यन्यदेतत्। तथाहि—“मांसं माननंवा मानसं वा मनोऽस्मिन् सीदतीति वा (४.१.३.)”—इतियास्कीयं निरुक्तम्। “एतद्वै परम मन्नाद्यं यन्मांसम—इति चशतपथीया श्रुतिर्यास्कीयस्य तन्निर्वचनस्य साधिका भवितुमर्हतिवेति कथान्तरम्। प्रकृते तु कु्ल्लूकस्यापि सायणीयं द्वितीयनिरुक्तलक्षणमेवाभिमतम्; न त्वाद्यलक्षणं निघण्टुपर मित्येवेहास्माभिरित्थंप्रदर्शितम्।
आख्यायते महाभारते चादिपर्वणि—“महत्त्वाद् भारवत्वाच्च महाभारत मु्च्यते। निरुक्तमस्य यो वेद सर्वपापैःस मुच्यते (१. १. २७०.)”—इति। एवञ्चेदमेव प्रदीयते—सायणीयंद्वितीयं निरुक्तलक्षण मेवाभिमतं महाभारतकारस्यापि; नत्वाद्यम्। तत्र मोक्षघर्म्मेऽपि—“अर्जुन उवाच। भगवन् भूतभव्येश सर्वभूतसृगव्यय। लोकधाम जगन्नाथलोकानामभयप्रद।यानि नामानि ते देव कीर्त्तितानि महषिभिः। वेदेषु सपुराणेषुयानि गुह्यानि कर्मभिः। तेषां निरुक्तंत्वत्तोऽहं श्रोतुमिच्छामि केशव। न ह्यन्योवर्णयेन्नाम्नांनिरुक्तंत्वांमृतेप्रभो!। श्रीभगवानुवाच। ०—०। गौणानि तत्र नामानि कर्म्मजानि च कानिचित्। निरक्तं कर्मजानां त्वंशृणुष्व प्रयतोऽनघ!। ०—०।नराणा मयनं ख्यात मह मेकः सनातनः। आपो नारा इतिप्रोक्ताआपो वैनरसूनवः। अयनं ममतत् पूर्वमतो नारायणो ह्यहम्। ०—०। नामानि चैव गुह्यानि निरुक्तानि च भारत!। ऋषिभिः कथितानीह यानि सङ्गीर्त्तितानि ते (३४१, ३४२अ० १–५६, १–१३९श्लो०)”—इति। एव मपीद मेव प्रतीयते—सायणीयं द्वितीयं निरुक्तलक्षणमेवाभिमतं मोक्षधर्म्मलेखकालेऽपि; न त्वाद्यम्। तत्रेव निघण्टुनाम चाख्यातं दृश्यते,परं न तन्निरुक्तपरमपि तु पदपाठात्मकग्रन्थविशेषपरमेव। तथाहि— “निघण्टुकपदाख्याने विद्धिमां वृषम् उत्तमम्। कपिर् वराहः श्रेष्ठश् च धर्मश् च वृष उच्यते। तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः (३४२ अ० ८६, ८७, श्लो०)”—इति। पठितञ् चात्र निघण्टौ “वृषाकपिः” — इति (४.६. १६.)। तदेवं निघण्टोर्निरुक्तत्वं नेष्टं महाभारतकारस्येत्यपि सुवचम्।
यास्कीयेऽत्र निरुक्ते च निरुक्तस्योल्लेखो बहुत्रैवोद्घोषितः,परं न तत्र क्वापि निघण्टोर्ग्रहणं विवक्षितम्। तथाहि—“इतीमानि चत्वारि पदजातान्यनुक्रान्तानि—नामाख्याते चोपसर्गनिपाताश्च।”तत्र नामाख्यातजानीति शाकटायनो नैरुक्तसमयश्च (१. ४. १.)”—इत्येवमादीनि द्रष्टव्यानि। निघण्टोस्तुनिघण्टुनाम्नैव व्यपदेश आदृतः; न क्वापि निरुक्तत्वेन। तथाहिग्रन्थारम्भे एव—(“निगमनान्निघण्टव उच्यन्ते(१. १. १.)”—इति। ग्रन्थभूमिकायां (१.६.५.) निघण्टोः स्वरूपं पारि-
भाषिकलक्षणं च प्रदर्शितम्, तदप्यत्रसमालोचनीय मेव।तथाहि—“एतावन्तः समानकर्माणी धातवः, ०—०, एतावन्त्यस्यसत्त्वस्य नामधेयानि, एतावता मर्थाना मिद मभिधानं नैघण्टुक मिदं देवताना मप्राधान्येनेद मिति; तद्यदन्यदैवते मन्त्रेनिपतति नैघण्टुकं तत्”—इत्यादि। किञ्चात्र द्वितीयाध्याय-प्रथमपादेयन्निरुक्तशास्त्रप्रयोजनं वर्णितम् (२.१.१—७.), तदपि निघण्टुपाठादेव न सम्भवति। अतः सायणीये द्वितीयनिरुक्तलक्षणे एवभगवतो यास्कस्यापि सम्मतिर्ज्ञायते; नत्वाद्ये।
भगवता कात्यायनेनाप्युक्तम् भ्राजानामश्लोकग्रन्थे—
“बाहुलकं प्राकृतेस्तनुदृष्टेर्नैगमरूढिभवंहि सुसाधु।
नाम च धातुज माह निरुक्ते व्याकरणे शकटस्य च तोकम्”—इति।
तदेतच्छ्लोकपर्य्यालोचनेन च वुद्ध्यते सायणीयं द्वितीयं निरुक्तलक्षण मेव भगवतः कात्यायनस्यापि सम्मतम्; न त्वाद्यं लक्षणमिति;—द्वितीयलक्षणलक्षिते यास्कीये (१.४.१.) एव ग्रन्थेतथोक्तदर्शनादिति।
तस्यैव श्लोकस्य व्याख्यानावसरे भगवान् पतञ्जलिश्चाह—“नाम खल्वपि धातुज मेव माहुर्नैरुक्ताः (३अ० २पा० ३आ०)”—इत्यादि। ततश्चावगम्यते तस्य भगवतोऽप्यभिमतं सायणीयं द्वितीयनिरुक्तलक्षणमेव; न त्वाद्यम्;—आद्यलक्षणलक्षितेऽखिलनिघण्टौतथादर्शनादिति।
अस्ति चेयं हरिकारिका—
“वर्णागमो वर्णविपर्ययश्च द्वौचापरौवर्णविकारनाशौ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरक्तम्”–इति।
तदित्थंभगवता खलु माङ्गलिकेनाचार्येण पाणिनिना
“पृषोदरादीनि यथोपदिष्टम् (६.२.१०९.)”—इति सूत्रेणयत्सर्वंसङ्क्षेपेण विहितम्, तदपि निरुक्तेविशदीकृत्य प्रदर्शितमिति फलितम्, तथाचोक्तंतत्रमहाभाष्ये—“पृषोदरादीनीत्युच्यते, कानि पृषोदरादीनि? पृषोदरप्रकाराणि।कानि पुनः एषोदरप्रकाराणि?येषु लोपागमवर्णविकाराःश्रूयन्ते,न चोच्यन्ते (६अ० ३पा० ३आ०)”—इति। लोपागमवर्णविकारादयो बोधिताश्चेह यास्कीय-निरुक्ते।तदत्र “अथ निर्वचनम्”—इत्यारभ्य “एकपदानि निर्ब्रूयात्”— इत्यन्तं(२.१.१—४.)द्रष्टव्यम्। तथा चेदमवश्यं वक्तुं शक्यते यत् श्रीमतो भर्तृहरेरपिसायणीयं द्वितीयं निरुक्तलक्षणमेवाभिमतम्; न त्वाद्यम्;—आद्यलक्षणलक्षिते हि निघण्टौ लोपागमादीनां बोधनादर्शनादिति।
निघण्टुनिर्वचनकारस्य देवराजयज्वनोऽपि सायणीये द्वितीयनिरुक्तलक्षणे एवाभिमतिः प्रतीयते। तथाहि तत्र भूमिकायामेव—“निरुक्तविद्यानिगमप्रतिष्ठाम् अवाप यास्कः”—इति, “प्रणमामि यास्कभास्करं यो हृतमसः प्रकाशितपदार्थः—इति , “भगवता यास्केन ०—० निरुक्तानि”—इति, “तत्रप्रदर्श्यकतिचिदेवनिरुक्तानि”—इति, “स्कन्दस्वामीच तत एव निरुक्तमनुजगाम”—इति, “भाष्यकारेण (यास्केन) बहूवक्तव्यत्वात् प्रकरणश एवनिरुक्तानिः?—इति, “अतोऽन्येषां यथाक्रमेणानिरुक्ते”—इति,“पदानां (निघण्टुस्थितानाम्) भाष्यकारेण (यास्केन) निरुक्तानाम्”—इति, “भाष्यकारेणैव ०—० निरुक्तानिः”—इति, “निर्वचनञ्चनिरुक्तं०—० निरीक्ष्य क्रियते”—इति, “स्कन्दस्वामिकृतां निरक्तटीकाम्”—इति, “निरुक्तकारोक्तनिर्वचनसामान्यलक्षण मनुसृत्यनिरुक्तिःक्रियते”—इति द्वादशवारं प्रयुक्तंनिरुक्तपदम्; परं नैक-
त्रापि सायणीयाद्यलक्षणलक्षितस्यनिघण्टोर्बोध उपयुज्यते। ग्रत्थमध्येऽपि वहुत्रैव निरुक्तस्योल्लेखः कृतः। तथाहि— “तथाचनिरुक्तम्— “योनिरन्तरिक्षं महानवयवः परिवीतो वायुना (१.३.३.)”—इति। दृश्यते चैतत् यास्कीये एव निरुक्तद्वितीयाध्यायीयद्वितीयपादतुर्यखण्डे; न तु निघण्टौ। यत्र यत्र तु निघण्टोर्बोधनमेवाभीप्सितम्, तत्र सर्वत्रैव निघण्टुरिति समाम्नाय इतिच प्रयुक्तम्। तथाहि तत्रैव भूमिकायाम्—“समाम्नायं ०—०निर्ब्रुवता”—इति, “तेन च समाम्नायपठितानां पदानामन्येभ्यः(प्रसङ्गान्निरुक्तेभ्यः) व्यावृत्त्यर्थंकिञ्चिचिह्नंकृतम्”— इति,“क्षीरस्वाम्यनन्ताचार्यादिकृतां निघण्टु-व्याख्याम्”—इति च; एवमन्यत्राप्युह्यमिति।
निरुक्तवृत्तिकारस्य श्रीमद्दुर्गाचार्यस्यापि सायणीयं द्वितीयनिरुक्तलक्षणमेवाभिमतम्; न त्वाद्यम्। तथाहि तदीयमङ्गलाचरणे एव दृश्यते—“पञ्चाध्यायी-निघण्टोश्च निरुक्तमुपरिस्थितम्”—इति। एवञ्चतन्मते खलु पञ्चाध्यायात्मग्रन्थस्य कस्य चित्निघण्टुरिति नाम, तद् व्याख्यानग्रन्थस्यच निरुक्तमिति स्फुटम्।ततश्च भुमिकायामपि अङ्गग्रन्थप्रयोजनकथनावसरे—“अतः०—०निरुक्तं नामेदमङ्गमारभ्यते। ०—०। अथास्यैव मखिलपुरुषार्थोपकारवृत्तिसमर्थस्यसङ्ग्रहः। तद्यधा—नामाख्यातोपसर्गनिपातलक्षणम्, ०—० इत्येष समासतो निरुक्तशास्त्रचिन्ताविषयः”—इत्युक्तमस्ति। एतस्माच्च ज्ञायतेयास्ककृतभाष्यरुपस्यैवग्रन्थस्य निरुक्तत्वंतत्सम्मतम्; नहि पञ्चाध्यायीरूपस्य निघण्टुनामग्रन्थस्यनामाख्यातोपसर्गनिपातलक्षणादयश्चिन्ताविषया दृश्यन्ते।स्पष्टञ्चोक्तंतत्तदनुपदमेव—“तस्य (यास्कीयनिरुक्तस्य) एषा गवाद्या
देवपत्न्यन्ता पञ्चाध्यायी सूत्रसङ्ग्रहः”—इत्यादि नि० टी० भू० द्रष्टव्यम्।
मधुसूदनसरस्वतीकृते प्रस्थानभेदनामग्रन्थे प्रथमन्तुक्तम्—“एवं शिक्षाव्याकरणाभ्यां वर्णोच्चारणपदसाधुत्वे ज्ञाते वैदिकमन्त्रपदानामर्थज्ञानाकाङ्क्षायां तदर्थं भगवता यास्केन ‘समाम्नायःसमाम्नातः स व्याख्यातव्यः’—इत्यादि त्रयोदशाध्यायात्मकं निरुक्तमारचितम्”—इत्यादि। तथा च तस्यापि सायणीये द्वितीयनिरुक्तलक्षणे एव सम्मतिर्बुध्यते; न त्वाद्यलक्षणे। ततउत्तरम्“एवं निघण्टवोऽपि वैदिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मकानिरुक्तान्तर्भूता एव”—इत्युक्तम्। तदेतन्निघण्टोर्वेदाङ्गत्वसाधनायैवानन्यगत्योक्तम्; न तु तत् स्वप्रमासिद्धमिति।
व्यवहारतश्च ज्ञायते सायणीयं द्वितीयं निरुक्तलक्षणमेवसङ्गतम्; न त्वाद्यमिति। तथाहि—बहूनां निघण्टु पुस्तकानांमध्ये “निघण्टो प्रथमाध्यायः’इत्यादि, अन्तेऽपि ‘निघण्टुःसमाप्तः’—इत्येवमादयः पुष्पिका दृश्यन्ते; न क्वचिदपि निघण्टुपुस्तके निरुक्तशब्दोल्लेखो दृष्टः केनचिदद्यापि। एवं निघण्टुनिर्वचनग्रन्थेच ‘निघण्टुनिर्वचने प्रथमोऽध्यायः’इत्यादि,‘निघण्टुनिर्वचनेसमाप्तम्’इत्येवमादयः पुष्पिका एव दृश्यन्ते॥
ननु निरुक्तवृत्तिकृता भगवद्दुर्गाचार्येण तु निरुक्तप्रथमाध्यायीयप्रथमपादव्याख्यानान्ते पुष्पिकायाम् “इति जम्बुमार्गाश्रमवासिन आचार्यभगवद्दुर्गस्य कृतौनिरुक्तव्याख्यायां षष्ठस्याध्यायस्य प्रथमःपादः”— इतियास्कीयप्रथमाध्यायस्यैव निरुक्तषष्ठाध्यायत्वंबोधितम्; एव मुत्तरत्रापि; ग्रन्थान्ते च “इति सपादसप्तदशाध्यायी ऋज्वर्थानाम निरुक्तवृत्तिःसमाप्ता”—इति यास्कीयसपादद्वादशाध्याय्या एव सपादसप्तदशाध्यायीत्वं ज्ञापितम्। ततश्च तन्मते
निघण्टुनिरुक्तयोरैकात्म्यमेव प्रतीयते। तथा सत्युपपन्नमेवनिघण्टोश्चनिरुक्तत्वमिति तन्मते सायणीयमाद्यं निरुक्तलक्षणमपि सुसङ्गतम्?—इति चेन्न; उपक्रमोपसंहारविरोधप्रसङ्गात्। उक्तंह्युपक्रमे “पञ्चाध्यायीनिघण्टोश्चनिरुक्तमुपरि स्थितम्”—इति, “अयञ्च तस्याद्वादशाध्यायीभाष्यविस्तरः (१. १. १. टी.)—इति च; एवञ्च निघण्टोः पञ्चाध्यायीत्वम्, तद्भाष्यात्मकस्यनिरुक्तस्य द्वादशाध्यायीत्वंसुतरां तयोः पार्थक्यञ्चोररीकृतमेवः;प्रतिपादीयवृत्त्युरपसंहरणे ग्रन्थोपसंहरणकाले च उभयोरैकात्म्यमूलकं निरुक्तस्यैव सपादसप्तदशाध्यायीत्वंस्वीकृतमिति स्वीकारे तु उपक्रमोपसंहारयोर्विरोधोऽपरिहार्य एव प्रसज्येत। अतस्तद्विरोधप्रसक्तिभिया इदमेवावधारितमस्माभिः,—सूत्रभाष्यरूपयोः निघण्टु निरुक्तयोःउभयोरेव वृत्तौ कृतेदुर्गाचार्येण;तत्र सूत्रात्मकस्स निघण्टोरेव प्राथम्यात् प्रथमं स एव व्याख्यातः,तत उत्तरञ्च निरुक्तग्रन्थः; निरुक्तावबोधे च क्वचित् क्वचित् निघण्ट्वपेक्षाविद्यत एवेत्यनयोः पूर्वापरीभावेनैकत्र संस्थानञ्चतस्यवृत्तिकृतोऽभीप्सितमिति उभयवृत्त्योरेवैकात्म्यं सत्त्वासपादसप्तदशाध्यायीत्वं व्यपदिष्टमिति भवतु नाम तदीयवृत्तिग्रन्थस्यसपादसप्तदशाध्यायीत्वं तेन किं निरुक्तस्येति।
तथापि “निरुक्तव्याख्यायां षष्ठस्याधायस्य”—इत्याद्युक्तयःकथमुपपद्येयुः?—इति चेदत्र ब्रूमः,—यथा च महामारतादौतथैवात्रापीत्येवंव्यवहारो न शङ्काहेतुरिति। तथाहि महाभारतेआदिपर्वस्यैव—“पौलोमपर्वणि एकादशोऽध्यायः—इति। नतत्र पौलोमस्वैव पर्वणः एकादशोऽध्यायो गत इति बुद्ध्यते;अपि तु तत्रैकाध्यायात्मकमनुक्रमणिकापर्व, तत एका-
ध्यायात्मकंपर्वसङ्ग्रहपर्व, तत एकाध्यायात्मकंपौष्यंपर्वं,ततोऽष्टाध्यात्मकं पौलोमपर्व, तत्सङ्कलनयैवैकादशत्वंसम्पद्यते। एवमुत्तरत्रापि तत्रान्यत्र च सर्वत्रैव।एवमिहापिनिरुक्तवृत्तिग्रन्थस्य निघण्टुव्याख्याने पञ्चमाध्यायेऽतीते निरुक्तप्रथमाध्याय एव षष्ठत्वेन व्यपदिष्ट इति नैव शङ्काप्रसङ्गइति। दृष्टमेव मन्यत्रापि,—अस्ति मगधादिषु सुप्रचलित मेकंव्याकरणम्, तस्य एकार्द्धस्य सारस्वतमिति नाम, अपरार्द्धस्य तु चन्द्रिकेति। नेमौभागौएककालिकौ एककर्तृकौवा, अतो विभिन्नग्रन्थावित्येव प्रसिद्धौ; परं तट्टीकाकृद्भिर्भट्टमाधवप्रभृतिभिः सारस्वतस्य व्याकरणपूर्वार्द्धत्वंचन्द्रिकाया व्याकरणपरार्द्धत्वं च व्यवस्थाप्यउभयोरेवैका टीका सिद्धान्तरत्नावल्यादिकाप्रणीता; परं न हितट्टीकया सारस्वतचन्द्रिकयोरैकात्म्यं सम्पन्नम्,—सारस्वतस्तु सारस्वत इत्येव, चन्द्रिका च चन्द्रिकेत्येवाद्यापि व्यपदिश्यतेलोके; एव मप्युभयोर्यथाकृतपू्र्वापरीभावतोऽधिगमनेनैव व्याकरणबोधो भवेदित्येव बोधितम्। एव मत्रापि उभयवृत्तेरैकात्म्यतयान हि निघण्टुनिरुक्तयोरैकात्म्यतासम्भवो न च तदिष्टं दुर्गाचार्यस्य;परं वृत्तिबोधितपूर्वापरीभावतोऽधिगमनेनैव भवेद् वेदपदार्थबोधइत्येव बोधितमिति।
तदेवं निरुक्तवृत्तिकारस्यापि सायणीये द्वितीयनिरुक्तलक्षणेएवाभिमतिर्नाद्येइति यदुपन्यस्तं पुरस्तादिहः, तत्समीचीनमेवेति वृत्तिकृतो व्यवहारः खलु सायणीयाद्यलक्षणखण्डनेऽननुकूल इति च नाशङ्क्यम्। तद्वृत्तावेव हि पञ्चाध्याय्या निघण्टुरित्येव लोकव्यवहार इति च स्पष्टमेव स्वीकृतम्। तथाहि—“त एते गवादयो देवपत्न्यन्ता निघण्टवः, तदेकदेशो नैघण्टुकं
प्रकरणमिति निघण्टु सञ्ज्ञयाव्यवहारोलोके;—निघण्टुमधीमहेनिघण्टुमध्यामहै इति (१.६.६.टी०)”—इति। एवञ्चलोकव्यवहारादपि सम्यक् ज्ञायते निघण्टुर्निघण्टुरैव, निरुक्तमेवनिरुक्तमिति।
सिद्धमित्थंप्राचीनतमानां प्राचीनाना मनतिप्राचीनानामाधुनिकानाञ्च सर्वेषामेवार्यग्रन्थकाराणाम्, ग्रन्थसमाप्त्यादिलेखसमालोचकानां व्यवहारविदां च सर्वेषां सायणीयं द्वितीयंनिरुक्तलक्षणमेवाभिमतम्; तथाद्यलक्षणन्तु सर्वथानभिमतमिति।तथाच “अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तंतन्निरुक्तम्”—इति सायणस्वकपोलकल्पितं लक्षणं निर्मूलमेवेति निघण्टुभाष्यात्मकस्यास्य यास्कीयस्यैकस्यैव निरुक्तत्वंसर्वसम्मतम्; निघण्टोस्तुनिघण्टुत्वमेवेतिदिक्॥
———
(२)
अथैतर्हिविचार्यते,—निघण्टुनिरुक्तयोरुभयोरेव वेदाङ्गत्वमुतान्यतमस्य? अन्यतमस्यैवैति चेत्, कस्य?इति। वेदाङ्गग्रन्थास्तु षडेव; श्रूयते हि गोपथब्राह्मणे—“षडङ्गविदस्तत्तथाधीमहे(१.१.२७.)”—इति। पातञ्जलमहाभाष्यादौस्मर्यते च “आगमःखल्वपि ब्राह्मणेन निष्कारणो धमेःषड़ङ्गोवेदोऽध्येयोज्ञेयश्च”—इति पस्पशायाम्। एष चागमः कात्यायनानुमत एव;यतोऽस्त्येतद्वार्त्तिकम् “रक्षोहागमलध्वसन्देहाः प्रयोजनम्”— इति।
पाणिनिशिक्षादावपि वेदाङ्गानि षडेवेति निर्णीतं दृश्यते (३ पृ०)।ग्रन्थानभेदेऽप्युक्तम्—“वेदाङ्गानि षट्”—इति। तत्रशिक्षा,कल्पः, व्याकरणम्, छन्दः, ज्योतिषमिति पञ्चाङ्गानि तु सर्वसम्मतान्येव; निघण्टुनिरुक्तयोः उभयोरेव वेदाङ्गत्वेषट्त्वंव्याहन्येत; अन्यतमस्य वेदाङ्गत्वेऽन्यतमस्य तदभावः सुतरां सम्पद्यते;तत् कस्य वेदाङ्गत्व मिष्टं कस्य नेत्ययंविचारः प्रवर्त्तते।
प्रस्थानभेदे उभयोरेव वेदाङ्गत्वंमङ्गीकृतम्। कथं न तथापटत्वं व्याहत मित्यत्राह च तत्र “एवं निघण्टवोऽपि वैदिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मका निरुक्तान्तर्भूता एव”—इति।न च तत्कथनमात्रेणैव उभयोर्वेदाङ्गत्वसाधनायैव वा वादिनस्तथा स्वीकुर्युः; वादीभद्रं न पश्यतीति हि प्रसिद्धमेव।
ऋग्भाष्यभूमिकायां सायणाचार्योऽपीमां विपत्तिं परिलक्ष्यैवनिघण्टोरपि निरुक्तत्वसम्पादकंप्रदर्शितमाद्यलक्षणं(२ पृ०)व्यरचयत्। तथाच निघण्टोश्च निरुक्तत्वेनैव ग्रहणात् सप्तानामप्येषां ग्रन्थानां वेदाङ्गत्वमुपपद्येत, न च वेदाङ्गानां षट्त्वंव्याहन्येतेति। प्रशंसनीयैवैषा तस्य चातुरी! परं किं कुर्मोवयम्,—तदेतन्मतं न सर्ववादिसम्मतं नापि विचारसह मितिप्रतिपादितं पुरस्तादिहैवेति।
पाणिनिशिक्षायान्तु “निरुक्तंश्रोत्रमुच्यते”—इति दर्शनात्निरुक्तस्यैव वेदाङ्गत्वंसिध्यति, न तु निघण्टोः। न चेदं सहसाश्रद्दधामहे; परकालजस्य भाष्यस्य वेदाङ्गत्वमस्ति, अतिपूर्वकालजस्य मूलस्य तन्नास्तीति वदत एवाश्रद्धोत्पादात्।ननु भवान्पाणिनिवचनेऽपि कथमश्रद्दधते? अत्रब्रूमः—न चेदं पाणिनिवचनम्; न हि पाणिनिः स्वयमेव “अथ शिक्षांप्रवक्ष्यामि पाणि-
नीयं मतं यथा”—इत्युपक्रान्तुमर्हेत्, नापि हि “येनाक्षरसभाम्नायमधिगम्य महेश्वरात् कृत्स्नंव्याकरणं प्रोक्तं तस्मै पाणिनयेनमः”—इत्याद्युक्तिभिरुपसंहर्त्तुंवार्हेदिति।
निरुक्तवृत्तिकृन्मते तु निरुक्तस्यैव वेदाङ्गत्वम्, निघण्टोस्तुमाक्षाच्छन्दोधर्मित्वमेवेति किङ्कृतं भवेद्वेदाङ्गत्वेनेति नात्रातिदिष्टछन्दस्त्वेऽस्माकमश्रद्धावसरः। तथाच—“अत; ०—०निरुक्तं नामेद मङ्ग मारभ्यते। प्रधानञ्चेद मितरेभ्योऽङ्गेभ्यः”—इत्याद्युक्तिभिः निरुक्तस्य वेदाङ्गेषु प्राधान्यं स्थापितम्; “तस्यैषागवाद्या देवपत्न्यन्ता पञ्चाध्यायी सूत्रसङ्ग्रहः। सा च पुनरियं०—० श्रुतर्षिभिः ०—० छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाता। सैषा छन्दोऽवयवभूता छन्दोधर्मिण्येव; यथा यथापन्नास्तागौर्गोधर्म्मा”—इत्युक्त्यातु निघण्टोश्छन्दस्त्वमव्याहत मेवेति चवर्णितम्। ‘यथा’ च ‘अयथापन्ना’ अप्रकृतविपन्ना परं सामान्यविपन्ना, ‘अस्ता’यूथपरिभ्रष्टा,‘गौः’‘गोधर्म्मा’ एव; नहितस्या युथपरिभ्रष्टत्वेन गोत्वं नष्टम्; तथैव छन्दोभ्यः समाहृताएषा पञ्चाध्यायी छन्द एव, समाहरणहेतुत एव न ह्यस्या छन्दस्त्वं तिरोभूत मिति भावः (निरु०टी०भू०)। तथाच निघण्टुनामकानिसमाम्नायात्मकानि पदानि तु बहुपूर्वकालत एव विश्रुतानि;तान्येव पदान्यनुसृत्य यास्को द्वादशाध्यायात्मकं निरुक्ताख्यं ग्रन्थं निर्ममे, तस्य च वेदार्थबोधोपयोगितया तदानीन्तनैरार्यैर्वेदाङ्गत्वं स्वीकृतमित्येव निरुक्तवृत्तिकृदाशयः फलितः।
यास्कस्य पूर्वश्रुतिलेखदर्शनात्त्ववगम्यते निघण्टोर्नास्ति वेदाङ्गत्वम्, नापि वेदत्वमिति। तथाहि—“उपदेशाय ग्लायन्तोऽवरे विल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदञ्चवेदाङ्गानि च”—इति
(१.६.५.)। अत्र “इमं ग्रन्थम्”—इत्युक्त्या निघण्टोरेवग्रहण मिष्टम्, न तु निरुक्तस्यास्य; प्रणीयमाने हि निरुक्ते समाम्नासिषुः”—इति परोक्षातीतप्रयोगानुपपत्तेः। अपरञ्च निरुक्तमासीत् शाकपूण्यादिप्रोक्तम्, तदभिलक्ष्यैव तथा क्रिया प्रयुक्तेत्यपीह वक्तुंन युज्यते; अनुपदमेव “एतावन्तः समानकर्माणोधातवः”—इत्याद्युक्त्यानिघण्टुपरिचयस्यैवोपलब्धेः। अतएवात्र वृत्तिः ‘इमं ग्रन्थं’ गवादि देवपत्न्यन्तं समाम्नातवत्तः”—इतिःगवादिः देवपत्न्यन्तश्च निघण्टुग्रन्थएव। किञ्चात्रापरमपि विवेच्यमस्ति—न चेदं वचनमेतस्य हि निरुक्तस्य कर्त्तुर्यास्कस्य, यथाचेममिति एतन्निरुक्तं गृह्येतेति; अपि त्वेतद् वचनं प्राचीनमेव यास्केनेहानूक्तमिति गम्यते।अतएव “बिल्मंभिल्मंभासनमिति वा”—इति बिल्मशब्दस्य निर्वचनप्रदर्शन सङ्गच्छते यास्कस्य;न हि स्वयमेव दुरूहं शब्दं प्रयुज्य तद्व्याख्यानाय च यतितुं प्रवर्त्ततेकश्चिद्। स्वपदवर्णनमेव भाष्यलक्षणम्, निरुक्तस्य च निघण्टु भाष्यत्वं सर्वसम्मतमिति स्वपदव्याख्यानमपीह न दोषायेत्यपिवक्तुंन युज्यते; यदत्र बिल्मशब्दस्य भिल्ममितिप्रतिशब्द मुक्त्वापि अर्थान्तरं वदति भासनमिति, वेति संशयमपि ध्वनयति;तदेवाचार्यप्रवृत्तिर्ज्ञापयति—न ह्येवेदं स्वपदवर्णनमिति; नहि स्वपदव्याख्याने स्वज्ञान-वैकल्पिकत्व-प्रकटनमुपयुञ्यतेक्वचिदपीति। एतस्मिन् खलु वचने बहूनि समालोच्यानि सन्ति,तानि चोपरिष्टाद् वक्ष्यामः; साम्प्रतन्तु बेदाङ्गेम्यः पृथगेवनिघण्टोर्ग्रहणंयास्कस्याप्यभिमतमित्येवेह प्रदर्शनमस्मदिष्टम्।
नन्वत्र वृत्तिग्रन्थे“वेदाङ्गानि च इतराणि (१.६.४.टी०)”—इति लिपिभङ्गितो निघण्टोरपि वेदाङ्गत्वंध्वनितमेवेति
चेत्, ध्वनयतु नाम स तथैव किन्तेन; न हि वृत्तिकारोऽभ्रान्तएतेत्यस्माकम्। वस्तुतो यदि नाम ‘इतराणि’—इति यदप्रयोगात् तथैव ध्वनितं गम्येत, तर्हितादृशवचनस्यैकदेश्युक्तित्वमेवस्वीकार्यम्; प्रदर्शितभूमिकोक्तविरोधात्। महाभाष्ये भगवतोऽशेषशेमुषीसम्पन्नस्य पतञ्जलेरप्येवं बहुत्रैकदेश्युक्तयःप्रदर्शितालघुशब्देन्दुशेखरादौनागेशभट्टप्रभृतिभिः, तत् किमस्य वृत्तिकृतःस्वल्पधियो हि दुर्गाचार्यस्येति। तस्तुतो दुर्गाचार्यस्यनिरुक्तवृत्तिभूमिकायां दृष्टंयास्कीयस्य निरुक्तस्यवेदाङ्गत्वम्,तन्मूलस्य निघण्टोस्तुन तत्त्वमपि छन्दोधर्मित्व मेवेत्येव युक्ततरं प्रतिभात्यस्माकमिति।
अथात्रापरापि च शङ्का समुत्पद्येत नाम। तथाहि—प्रदर्शितयास्कपूर्वश्रुतिसमालोचनादवगतंनास्ति निघण्टोर्वेदाङ्गत्वमिति वाढम्! परं तथैवेदमप्यवगम्यते यास्कप्रणीतैतन्निरुक्तात्बहुपूर्वमेव वेदाङ्गानि निर्वृत्तानीति कथं तत्रवेदाङ्गेषुतदानीं प्रणीयमानस्यैतस्य निरुक्तस्यान्तर्भावः शक्यते वक्तुमपि?वदत एव हि व्याघातः स्फुटमिति। इहास्माक मीदृगस्तिगुरूपदेशः,—प्रदर्शितगोपथश्रुत्यादिभ्योऽवगम्यते षडेव वेदाङ्गानीति; प्रदर्शितिशिक्षावचनादिभ्यश्च ज्ञायते निरुक्तस्य च वेदाङ्गन्यतमत्वम्; यास्कीयेऽत्रैव निरुक्ते “नैरुक्ताः”, “शाकपूणिः”—इत्यादिपर्यालोचनया च बुध्यते तत्पुर्वमपि चासन् बहवोनिरुक्तविदस्तथा बहूनि निर्वचनापरपयर्यायाणि निरुक्तानि चेति;तेषामेव साजात्यहेतुकमस्य यास्कीयस्यापि ग्रन्थस्ययथा निरुक्तत्वं तथैव वेदाङ्गत्वमपीति।
एतदेवाभिप्रेत्याह बह्वृक्प्रातिशाख्यकारः शौनकोऽप्याह
“शास्त्रापवादात् प्रतिपत्तिभेदात् निन्दन्त्यकृत्स्नेति च वर्णशिक्षाम्। नैतेनशास्त्रेण विशिष्यतेऽन्यैः कृत्स्नञ्च वेदाङ्ग मनिन्द्यमार्षम् (१४.१८.१९.)”— इति। तथैतत्तृतीयवृत्तिकृतोब्वटेन च स्वारब्धवृत्त्युपक्रमे शौनकीयस्यास्यप्रातिशाख्यस्यापि वेदाङ्गत्वमिष्यमाणेनैतदुक्तम्— “अड्गता चास्यान्यशास्त्रासव्यपेक्षस्य नैव स्थादकृत्स्नत्वात्?कृत्स्नतां वेदाङ्गता मनिन्द्यता मार्षताञ्चस्वयमेव शौनको दर्शयिष्यति— ‘कृत्स्नञ्चवेदाङ्ग मनिन्द्यमार्षम्’—इति। अनयोःपक्षयोर्यतरः पक्षःश्रेयान्, ततरो गृहीतव्यः”— इति।
अथापरञ्च;—यद्यपि प्रदर्शितयास्कपूर्वश्रुतवचनोत्तरांशे वेदशब्देन ब्राह्मणभाग एवेष्ट इति बुद्ध्यते ब्राह्मणत्वं निघण्टोर्निराकृतम्; तत्पूर्वांशे मन्त्रभागस्यापि पृथक् श्रुतेःमन्त्रत्वमपि वारितम्; तथापि तत्रैव ‘समाम्नासिषुः’— इति क्रियादर्शनात् समाम्नायत्व मव्याहत मेव। अतएव “समाम्नायः समाम्नातः स व्याख्यातव्यः”— इति निरुक्तग्रन्थारम्भवाक्यस्य, तत्रत्य ‘मैषा छन्दोऽवयवभूता छन्दोधर्मिण्येव”— इति दुर्गाचार्यप्रबन्धस्य च नासङ्गतिप्रसङ्गः।
तदित्थमसौ निघण्टुर्न हि मन्त्रग्रन्थः, न च ब्राह्मणग्रन्थः, नापि बेदाङ्गान्यतमः,अपि तु मन्त्रेभ्यः सङ्गृहीतपदसमूहात्मकोऽतिप्राचीनः समाम्नायविशेष एवेति यास्कस्याशयः, तत्पुर्वतनानाञ्च सम्मतः; किञ्चास्यैव निघण्टुभाष्यस्य निरुक्तत्वं तदनुगतं वेदाङ्गत्वञ्चेति शम्।
— — —
(३)
अथैतर्हि विचार्यमेतत्,—निरुक्तमूलसूत्ररूपस्य निघण्टोःकः समाम्नाता को वा प्रणेता तद्भाष्यरूपस्य निरुक्तस्य?—इति।
अनतिप्राचीनाना मार्यकोविदाना मन्यतमः स्वर्गतो विमुक्तोवा ख्यातो मधुसूदनसरस्वतीसञ्जग्राहैकंप्रबन्धं प्रस्थानभेदनामेति। तत्रेदंलिखितं दृश्यते—“भगवता यास्केन समाम्नायः समाम्नातः स व्याख्यातव्य”—इत्यादि o—o निरुक्तमारचितम्" इति। नात्र वादो दृश्यते ऽस्माभिः। तत उत्तरं लिखितमस्ति-“निघण्टुसञ्ज्ञाकः पञ्चाध्यायात्मको ग्रन्थो भगवता यास्केनैव कृतः"-इति। तदेतल्लिखनं तदीय मैतद्विषयकं ध्वान्तमेव प्रकटयति। हन्त भो वेदान्तिन् मधुसूदन! स्वोद्धृतं ‘समाम्नायः समाम्नातः स व्याख्यातव्यः’-इति वचन मपि किं नालोचितम्?-अद्ययुगीयेन कृतस्य ग्रन्थस्य कथं भवेत् समाम्नायत्वम्?अथवा सम्भव एवैवं भवादृशानां सर्वभ्रमवादिनां वेदान्तिनाम्।एवं हि तल्लिखितं निघण्टोर्निरुक्तान्तर्भूतत्वमपि (१७ पृ०) कथं नाम भवेत् श्रद्धेयं तद्विरुद्धबहुप्रमाणदर्शिना मित्यपि ध्येयम्।
सायणाचार्यस्त्वत्र सम्यगेवालेखीत्-“गौः ग्माज्मा क्ष्मा क्षा क्षमेत्यारभ्य ०–० पदानां समाम्नायः समाम्नातः”–इति, “तद्व्याख्यानञ्चसमाम्नायःसमाम्नात इत्यारभ्य ०–० यास्को निर्ममे” इति च (ऋ० सं० भा० भू०)। तदेवं सायणमते हिनिघण्टोः समाम्नायत्वेनानादित्वम्, निरुक्तस्य तु तद्भाष्यरूपत्वं यास्कीयत्वञ्चेति प्रतिपन्नम्।
देवराजयज्वकृत-निघण्टुटीकाया भूमिकायाञ्च तथैव। तथाहि
—“भगवता यास्केन समाम्नायं नैघण्टुक-नैगम-देवताकाण्डरूपेण त्रिविधं गवादि देवपत्न्यान्तं निर्बुवता”— इत्यादि द्रष्टव्यम्।
एवञ्चैतन्नयेऽपि निघण्टोःसमाम्नायत्वेनानादित्वम्, तन्निर्वचनात्मकस्यैतस्य निरुक्तस्य यास्कीयत्वं च स्फुटम्।
निरुक्तवृत्तिकारः खलु दुर्गाचार्यसु यद्यपि स्वग्रन्थभूमिकायांनिरुक्तवर्णनसमये केन कृतं तदिति नोक्तवान्; परमनुपदंप्रथमखण्डव्याख्यानावसरे एवाह—“आचार्यःअयं यास्कोनिरुक्तकारः”—इति; एव मन्यत्रापि। निघण्टुकर्तृनिर्णयविषये तुक्तं तद्भूमिकायामेव। तथाहि—“सा (पञ्चाध्यायीनिघण्टुः)च पुनरियं साक्षात्कृतधर्मभ्यो महर्षिभ्यः उपदेशेन मन्त्रार्थमुपश्रुत्य श्रुतषिभिरवरशक्तिदौर्वल्यमपेक्ष्यतदनुजिघृक्षया वाच्यार्थसामर्थ्यादभिधेयानुन्नीय मन्त्रार्थावबोधाय छन्दोभ्यः समाहृत्य समाहृत्यसमाम्नाता”—इति। एतच्च सर्वं निरुक्तोक्तसारभूतमेव। एवंहि वृत्तिकृतो दुर्गाचार्यस्य मतेऽपि निघण्टोःसमाम्नायत्वेनानादित्म्, निरुक्तस्यैतस्य यास्कीयत्वंच सुव्यक्तम्।
महाभारतीये मोक्षधर्मपर्वणि ‘शिपिविष्ट’-नामनिर्वनप्रसङ्गेये त्रयः श्लोकाः (३४२ अ० ६९,७०,७१ श्लो०) दृश्यन्ते, तैश्चज्ञायते यास्ककृत मेवेतन्निरुक्तम। तथा हि—
“शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्।
तेनाविष्टन्तु यत् किञ्चित् शिपिविष्टेति च स्मृतः।
यास्कोमा मृषिरव्यग्रोऽनेकयज्ञेषु गीतवान्।
शिपिविष्ट इति ह्यस्माद् गुह्यनामधरो ह्यहम्।
स्तुत्वा मां शिपिविष्टेति यास्क ऋषिरुदारधीः।
मत्प्रसादादधोनष्टं निरुक्तमभिजग्मिवान्”— इति।
अस्त्येव ह्यत्रनिघण्टुभाष्ये शिपिविष्ट-निर्वचनञ्चद्विविधम्(५.२.२,३,४,)। तत्रैव किञ्चिदुत्तरं द्वाभ्यां श्लोकाभ्यां(३४२ अ० ८६, ८७ श्लो०) निघण्टु कर्तृनाम च प्रकटितम्।तथाहि—
“वृषोहि भगवान् धर्म्मःख्यातो लोकेषु भारत।
निघण्टुकपदाख्याने विद्धिमां वृषमुत्तमम्।
कपिर्वराहःश्रेष्ठश्च धर्मश्च वृष उच्यते।
तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः”—
इति।
अस्त्येव ह्यत्रनिघण्टौदैवतकाण्डे द्युस्थानदेवतास्थानेषुवृषाकपिरिति पदपाठश्च (५.६. १३.)। इतश्चाप्यधार्य्यतेयस्यखल्वेतप्य निघण्टुग्रन्थस्य कर्तृपदं पाणिनितोऽप्यवरजाय यास्काय दातुमुद्यतः प्रस्थानभेदकारः, स हि वेदाङ्गानामुत्पत्तितोवहु प्रागेव, अपि ब्राह्मणग्रन्थानाञ्चोत्पत्तितोऽपि प्राक् महर्षिणा कश्यपेन समाम्नात इति; तदानीन्तनस्यैव कश्यपस्य प्रजापतित्वश्रवणात्, निघण्टुत्पत्तिज्ञापकस्य यास्कानूक्तवचनस्यापि तत्रैवतात्पर्यावबोधाश्च।
तथा चानुक्तं भगवता यास्केन पुराकल्पश्रुतवचनमिदम्— “साक्षात्कृतधर्माण ऋषयो बभूवुः (मन्त्रद्रष्टारः); तेऽवरेभ्योसाक्षात्कृतधर्मभ्यः (शाखाप्रवक्तृभ्यः) उपदेशेन मन्त्रान् सम्प्रादुः;उपदेशाय ग्लायन्तोऽवरे (निघण्टु-ब्राह्मण-वेदाङ्गकाराः) बिल्मग्रहणायेमं ग्रन्थं (निघण्टुम्) समाम्नासिषुः वेदञ्च (ब्राह्मणञ्च),वेदाङ्गानि च”— इति (१.६.५.)। एतस्माच्चश्रुतेःसमासत इमानि पञ्चज्ञायन्ते; —(१) पुराकल्येऽपि मन्त्राणामुत्पत्तिरनिर्णितेवेति प्रथमम्, (२) पूर्वंमन्त्राविकीर्णा एव स्थिताः,ततो ग्रन्थीभूतानामेव तेषा मध्ययनाध्यापनतः शाखाः समुद्भूताः,
ततः सर्वशाखागतानां नैघण्टुकादिपदानां सुखबोधार्थंनिघण्टुनामको ग्रन्थः समाम्नातः, ततः तम्मात्रेण मन्त्रार्थज्ञानेऽकृतकृत्यतां संलक्ष्यमन्त्रभागीयदुरवबोधपदादीनां तात्पर्यादिवेदनायब्राह्मणग्रन्थाः समाम्नाताः, तत उत्तरं ब्राह्मणग्रन्थैरपि मन्त्रार्थबोधो न पर्याप्त इति निरुक्तादीनि अङ्गानि समाम्नातानीतिद्वितीयम्। एतादृशक्रमोत्पत्तिज्ञाने तादृशक्रमश्रुतिरेव मानम्।किञ्च यतोऽत्र “मन्त्रान् सम्प्रादुः”— इतिकथनानन्तरं पुनरुक्तं ‘वेदञ्च’— इति, अतो ज्ञायते, नेह वेदशब्देन मन्त्राणां बोधोऽपितु तदतिरिक्तभागानां ब्राह्मणानामेव। वेदशब्देन ब्राह्मणग्रन्थमात्राणां ग्रहणाच्च वेदाङ्गत्वंन विलीयते निरुक्तादीनाम्;यदर्थंहि प्रवृत्ता वेदाः (ब्राह्मणग्रन्थाः), तदर्थमेव चेमानिप्रवृत्तान्यङ्गानीत्येवमेषा-मङ्गाङ्गिभावोपपत्तेः। ननु ‘इमं ग्रन्थं’कीदृशम्? तदुत्तरमेव श्रुतं ‘वेदम्’— इति, तथाच निघण्टोर्बेदत्वातिदेशायैव प्रयुक्तमत्रैतद्वेदमिति चैन्न; विशेषफलाभावात् ब्राह्मणग्रन्थोल्लेखाभावापत्तेश्च। तथा हि— समाम्नायत्वंतु सिद्धमेवास्य निघण्टोः, ‘समाम्नासिषुः’— इति क्रियादर्शनात्;बेदतुत्यत्व-समाम्नायत्वयोश्चनास्ति कार्यकृतो विशेषः; किञ्च तथासति श्रुतावत्र मन्त्राणाम्, वेदतुल्यस्यास्य निघण्टोः, वेदाङ्गानाञ्चसर्वेषां श्रवणं सम्पन्नम्; परं ब्राह्मणग्रन्थानान्तुल्लेखो नैव सम्पद्येतेति तादृशवादिनामसमीक्ष्यकारितैव प्रतिपद्येतेति। (३) यथा चेह मन्त्राणां पृथक् श्रुतेःवेदशब्देन मन्त्रातिरिक्तानां ब्राह्मणानां बोधउपलभ्यति, तथैव वेदाङ्गानां पृथक् श्रवणाच्च ब्राह्मणेष्वपि वेदाङ्गेतरवाक्यानामेव ग्रहणीय तेति तृतीयम्। (४) निरुक्तादिवेदाङ्गानां सर्वेषामेवषण्णांवीजादिरूपतयैतन्निरुक्ततोऽपि प्रागस्तित्व
मिति चतुर्थम्। (५) मन्त्राणामर्थज्ञानसौकर्य्यायैव यथाम्नानं निघण्टोः,— यथा च वेदाङ्गानां निरुक्तादीनाम्; तथैव तदानीमपि स्वीकृतमासीद् वेद इति प्रसिद्धानां ब्राह्मणानाञ्च; ततःकालभूयस्त्वानुसारत एव ब्राह्मणानां मन्त्रसमत्वं जातमितिपञ्चमम्।
एवञ्चैतस्माच्छ्रुतेर्निघण्टोः खलु ब्राह्मणग्रन्थेभ्योऽपि प्रागाम्नातत्वं गम्यते;तादृशसमाम्नायत्वमूलकमतिपुराकालिकत्वं चसुव्यक्तमेव; ततः प्रदर्शितमहाभारतात् कश्यपप्रजापतिकृतत्वञ्चतस्य लब्धमिति योगतः सम्पन्नस्तत्कर्तृनिर्णय इत्यस्माकम्।
तस्यैव निघण्टोर्भाष्यरूपस्यैतस्य निरुक्तस्य कर्त्तातु यास्कः। अत्रैतिह्यमेव मानम्, न हि तद्ग्रन्थस्य आरम्भे मध्येऽन्त्येवाक्वचिदपि तथा प्रत्यायकं वाक्यादिकमस्ति। देवताप्रणमादिभिर्मङ्गलाचरणादिकं येषु ग्रन्थेषु दृश्यते, प्रायस्तेषु ग्रन्थकृद्भिःस्वयमेव स्वाख्यान मप्याख्यातमस्ति; बहुत्र तु प्रकरणसमाप्तौग्रन्थसमाप्तौच ग्रन्थकृन्नामोल्लेखो दृश्यत एव; कथाप्रसङ्गतोऽपि ग्रन्थकृन्नामावममो भवत्यनेकत्र। इहतु नास्ति तथा मङ्गलाचरणम्, नास्ति पादादिसमाप्तो च तथोल्लेखः, नास्ति च मन्वादाविव कथाप्रसङ्गः; अतोऽत्रैतिह्यमेव शरणं ग्रन्थकृन्नामविज्ञानाय।टीकाकृत्प्रभृतीनां लेखोऽपि तदनुगत एव। प्रदर्शितमहाभारतवचनान्यप्येतस्यैव ग्रन्थस्य कर्त्तासीद्यास्कःकश्चनेति निःसंशयबोधने नालम्; तत्रैतदीयस्यैकाक्षरस्यापि यथावदुद्भुतिविरहात्;वरं तत्रापि एष एव यास्कः कीर्तित इत्यवगमे, एतस्य यास्ककृत्वप्रवाद एवैकं वीजम्। तदेव मेतादृशग्रन्थकर्तृनिर्णयेऽनन्यगत्या प्रवाद एव शरणम्; तथा च यत एवमस्ति प्रवादश्चिर-
न्ततः,—इदंनिरुक्तंयास्ककृतमिति, अत एव ज्ञायतेऽस्यनिरुक्तग्रन्थस्य प्रणेता भगवान् यास्क इति शम्।
— — —
(४)
अथास्य निरुक्तस्य कर्तृविषये त्वन्यदपि किञ्चिद् विचार्यमस्ति;—कोऽयं यास्कः?इति;कश्चापि परिचयोऽस्य प्राप्यतेन वेति भावः।
एको हि यास्कः श्रुयतेशतपथब्राह्मणे उभयत्र (१४.५.५.२०, २१.—७.३.२६.२७.)। तथा हि— “अथवंशः। तदिदं वयं (शतपथब्राह्मणप्रवक्तारः) शौर्पणार्य्यात्, शौर्पणार्य्योगोतमात्,०—० भारद्वाजो भारद्वाजाच्चासुरायणाच्च यास्काच्च”—इति।“तत्र प्रथमान्तः शिष्यः, पञ्चम्यन्त आचार्यो बोद्धव्यः”—इति च तदीयव्याख्यानं द्विवेदगङ्गकृतम्। एवञ्चशतपथीयो यास्कः शतपथब्राह्मणप्रवक्तुःषड्विंशपुरुषादप्यधिकः पूर्वतनः,किञ्चमधुविद्यायाः सम्प्रवक्ता चाभूदिति सम्पद्यते। नायं निरुक्तकारः; एतस्य निरुक्तकारस्य हि पाणिनेरपि परभवत्वनिर्णयादद्ययुगीयत्वात्, मधुविद्याप्रवक्तृत्वाप्रसिद्धेः,ब्राह्मणकालानन्तरमेव वेदाङ्गकाल इति शास्त्रतो युक्तिबुद्धितश्च सुसिद्धाच्चेति। तदनुपदमेव क्रमात् स्फुटिष्यति।
पिङ्गलोक्ते छन्दोग्रन्थेऽपि स्मर्यते चैकत्र यास्क इति। तथाहि—“उरोबृहती यास्कस्य (५. १०.)”—इति। अयमपि यास्कोनैतन्निरुक्तकारः; अत्र तथाऽदर्शनात्। यस्य खलु यास्कस्य ग्रन्थे
विहिता ‘उरो वृहती’— इति सञ्ज्ञा, स एव यास्कः तत्र पिङ्गलसूत्रे स्मृतः; स च छन्दःसूत्रकारादेतस्माच्चपिङ्गलात् पूर्वतनः,तत्समकालिको वेति विचारविषयश्च। परमत्र निरुक्तेक्वापिनोपलभ्यते उरोवृहतीःव्याख्यानमिति सिद्धमेव नायं सः; अपितु पिङ्गलोक्तोयास्कःखलु कश्चित् भिन्न एवेति। स च छन्दःशास्त्रीयग्रन्थकारोभवितुमर्हतीत्यवि सम्भाव्यते। अत एवबह्वृक्प्रातिशाख्यस्य तृतीयवृत्तौ शास्त्रप्रयोजनश्लोकव्याख्यानावसरे उक्तमुव्वटेन—“तथा सर्वैःछन्दोविचित्यादिभिः पिङ्गल-यास्कसैतवप्रभृतिभिः यत् सामान्येनोक्तंलक्षणम्”— इत्यादि।
कश्चिदाह,— शौनकीये प्रातिशाख्यग्रन्थे चैकत्रदृश्यते यास्कनाम, स एव यास्कोऽस्य निरुक्तस्य प्रणतेति। परं तत्र “वैयास्कः”,“यास्कः”वा इति राजते सन्देहोऽद्यापि। तथाहि— “नदाशतय्येकपदा काचिदस्तीति वैयास्कः। अन्यत्र वैमद्याः सैकादशिनीमुखतो विराट् (१७.२५.)”—इति , “दाशतये भवादाशतयीकाचित् एकपदा नास्ति इति वैयास्क आचर्यो मन्यते”—इत्यादि चोव्वटकृतंतद्व्याख्यानम्। तदेतदुव्वटव्याख्यादर्शनात्तु प्रतीयते तत्रवैयास्कस्यैवोल्लेखः; अन्यथा हि व्याख्याकालेऽपि मूलानुरुप एव वैपूर्वो यास्कःकथंनाम दृश्येत। अस्तु वातत्र यास्कस्येव ग्रहणम्, परं सोऽपि खलु यास्को नैतन्निरुक्तकारोभवितुमर्हति; अत्रापि हि तथाऽदर्शनमेव हेतुः; सपरिशिष्टेऽखिलनिरुक्तेहि न क्वापि वैमद्याऋग्व्यतिरिक्ताकाचिदेकपदादाशतयी नास्तीत्येतदर्थकं वाक्यंध्वननं वा यास्कीयंदृश्यते। एवमपि यद्युच्येत अयमेव यास्कः प्रातिशाख्यकृतः शौनकस्य लिपिविषयताङ्गत इति, तथा च प्रकारान्तरेण शौनकस्यानृतभाषित्व
मुन्मत्तप्रलापित्वंवोक्तंभवेत्; तत्तथाकल्पनातो वरं यास्कान्तरकल्पनैवेत्यस्माकम्।
पाणिनिसूत्रेष्वपि नायं यास्कः परिचितः। यद्यप्यस्त्येकंसूत्रं पाणिनीयं “यास्कादिभ्यो गोत्रे(२.४.६३.)”— इति, परं नतत् निरुक्तकारयास्कपरिचयायालम्; तत्र श्रुतेन यस्केन यास्कस्यबहुपार्थक्यात्। तत्र हि साक्षाद् विश्रुतो यस्कः; न तु यास्कः;यास्कस्तु न यस्कः; अपि तु तद्गोत्रीयः; तादृशयास्केस्त्वद्यतनीयोऽप्यस्त्येव। सूत्रे ‘गोत्रे’— इति दर्शनादिदन्तु प्रतीयत एव,—यस्कगोत्रस्य ज्ञानंपाणिनेरवश्यंस्थितमिति। “अपत्यं पौत्रप्रभृति गोत्रम् (पा० ४.१.१६२.)”— इति शासनाच्च ज्ञायते,यस्कस्योपरितनतृतीयपुरुषतोऽद्यतनीयान्ता; सर्वएवयस्कगोत्राः,तथाच सर्वेषा मेव यास्क इति व्यवहारः पाणिन्यादिसम्मतः;बहुत्वे त्विदमेव सूत्रं लुग् विधन्तेइत्यन्यदेतत्।
ननु चेयं तत्सूत्रवृत्तिः— “एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्कृतेबहुत्वे, न तु स्त्रीयाम् (भ०दी०)”— इति। एवञ्च यस्कस्यानन्तरापत्यस्य यास्कस्यास्यैव तत्र पाणिनेर्बोध उपलभ्यते?—इति चेत्, दृश्यतामिह नागेशभट्टकृतं तद्व्यायाख्यानम्— “अपत्यप्रत्ययस्यः”— इति प्रवराध्यायप्रसिद्धघटकस्येत्यर्थः; अपत्याधिकारादन्यत्र लौकिकं गोत्रमिति भावः”— इति। तथा च दीक्षितवृत्तौअपत्येत्यस्यापि गोत्रेत्यर्थ एव सुतरां सम्पन्नः; वस्तुतो गोत्रोऽप्यपत्यमेव। तदेवं तत्सुत्रस्य यस्कगोत्रएव विषय इतिस्थिरम्; अपि गोत्रज्ञाननिर्णयेऽपि नैव भवेद्व्यक्तिज्ञाननिर्णयःकि मस्त्यत्र विचार्यंनाम।
किञ्च “शिवादिभ्योऽण् (४.१.११२.)”— इति सूत्रीये शिवा-
दिगणेऽपि यस्क एव पठ्यते। तेनैव च सूत्रेण यस्कशब्दात् अपत्येर्थेऽणि यास्कःपदंसिध्यति। तथाच यथा यस्कस्यानन्तरापत्यंयास्कः, तथैव यस्कस्य शततमापत्यं सहस्रतमापत्यंच यास्क एव। लघुशब्देन्दुकार-नागेशभट्टमते तु इहापिगोत्रार्थेएव प्रत्यय इष्टः।तथा हि— “शिवादिभ्योऽणः”—इति (४.१.११२.) पाणिनिसूत्रमस्ति। अत्रेयंदीक्षितकृता वृत्तिः— “गोत्रेइति निवृतम् शिवस्यापत्यं शैवः। गाङ्गः” इति। अत्राह नागेशः—“निवृत्तमितीदं वृत्त्यतुरोधेन; यूनि लुक् सूत्रभाष्ये गोत्रसञ्ज्ञासूत्रपर्यन्तं गोत्राधिकार इति ध्वनितत्वात्। तत्रभाष्ये”— इत्यादि। “शास्त्रीयगोत्रञ्च युवत्वानक्रान्तपौत्रप्रभ्यत्यपत्यरूपम्”—इति, “लोकिकञ्चप्रवराध्यायप्रसिद्धम्; लोके तत्रैव गोत्रव्यवहारात्”— इति द्विविधं गोत्रलक्षणञ्चतत्रैवोक्तम्, तदपीहपर्य्यालोच्यम्।
अतएव च “वान्यस्मिन् (पा० ४. १. १६५.)”—इति सूत्रीयभाष्यव्याख्यानावसरे कैयट आह— ‘यस्कस्यापत्यं गोत्रमिति शिवाद्यण’— इत्यादि। एवञ्चयस्कगोत्रीयः कश्चन यास्कोऽस्ति लोकेइत्येवं ज्ञानमासीदेव पाणिनेरिति स्वीकारेऽपि कथं नामेदंस्वीकृतं भवेत् यस्कगोत्रीयोप्ययं निरुक्तकारः पाणिनेः परिचितएवेति?
अपरिचित एवायं यास्क इत्यपि कथमिति चेदुपरिष्टात्तत्प्रतिपादयिष्यामः कालनिर्णयप्रसङ्गे; इह तु वचनमात्रेणैव बोधयामो नेति। तत्साम्प्रतमस्मद्वचनादेव स्वीकार्यमेतत्— पाणिनिसुत्रपरिचितोऽपि नायं यास्कः, परं पाणिनिशासनावधारणादेवैतत्तुविज्ञायत एवं यस्कगोत्रीयोऽयमिति। आसीच्च गोत्रकारो यस्कः कश्चनातिप्राचीनतमः प्रायः कश्यपादिसमकालज एव;
आश्वलायनीयश्रौतसूत्रान्तिमेऽध्याये दशम्यादिषु कण्डिकासु गोत्राःप्रवरा निरूपिताः, तत्र दशम्यां (आ० श्रौ० उ० ६.१०.१०.)यस्कस्यापि स्मरणात्। तस्यैव ग्रहणमिह पाणिनिसूत्रेइतितु सुव्यक्तमेव।
तदेवं पाणिन्यादौ खल्वस्य यास्कस्य परिचयमप्राप्य खिद्यमाना वयं ततोऽप्यधिकान्वेषणपराः सन्तो दृष्टवन्त एकंयास्कनिरुक्तकारत्वेन परिचितं महाभारतैककोणे। ततस्तेभ्य एव पूर्वप्रदर्शितमहाभारतश्लोकेभ्योऽनुमीयते यास्कोऽयमेव वा भवेत्तस्यमहाभारतकारस्य परिचित इति।
ततो बहुषु सपरिशिष्टनिरुक्तपुस्तकेषु केषुचित् सर्वान्ते “नमःपारस्कराय नमोयास्काय (१३.४.९.)”—इति पाठोऽपि दृश्यते।तथा च तत्र केनचित् पारस्करायेति यास्कपरिचयायैवोक्तमितिचानुमीयते। सत्येवं पारस्करोऽयं यास्क इत्यपि लब्ध। पर मिहपारस्करज्ञानमपि न सुगमम्।आसीदेकः पारस्करो गृह्यकृत्प्रसिद्धः; आसीच्च पारस्करो धर्मशास्त्रीयान्यविधानकृत् रघुनन्दन-शूलपाणि-प्रमाणभूतोनिर्णयसिन्धादौ कीर्त्तितश्च। तथाहिशुद्धितत्त्वे— “त्र्यहपिण्डदाने आदिपुराणोक्तात् पक्षान्तरमाह पारस्कर—‘प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितैः। द्वितीयेचतुरो दद्यादस्थिसञ्चयनं तथा”—इत्यादि। अथापि पारस्करणशब्देऽत्रास्त्येव सन्देहमावः, पातञ्जलेहि महाभाष्ये “पारस्करो देशः”—इति निर्णयात्। तथा ह्यस्त्येकं सूत्रं पाणिनीयम्—“पारस्करप्रभृतीनि च सञ्ज्ञायाम् (६.१.१५७.)”—इति। तत्रैवं भाष्यमस्ति—“अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः। पारस्करो देशः, कारस्करोवृक्षः, रथस्या नदी, किष्विन्धा गुहा,
किष्कुः”—इति। तत्रेय मस्मदाशङ्का—गृह्यकृत् पारस्कर एवनिरुक्तकृतोऽस्य यास्कस्य पूर्वपुरुष इति चेत् कथं न महाभाष्यकारस्यपतञ्जलेः परिचितः? न हि यास्कस्यास्य ततोऽप्यर्वाचीनत्वसम्भवइति च प्रतिपादयिष्याम उपरिष्टात्; तत्पूर्वपुरुषस्य पारस्करस्यतु का कथा। अथवा देशनामत एव तस्य गृह्यकृतो नाम इतिहेतुत एव मूलपरिचयायैवोक्तं तेन भगवता, पारस्करो देश इति।सत्येव मस्य यास्कस्योभयमेव ज्ञातम्; निवासोऽभिजनो वादेशः, पूर्वपुरुषश्च।
शतपथीयः खलु यास्कीऽप्यस्यातिपूर्वपुरुष इत्यपि भवितुमर्हति; तस्यापि यस्कगोत्रीयत्वेनावगमात्। ततश्चास्य यजुर्वेदित्वमपि सम्पद्यते।
तथाचायम्—यस्कगोत्रः, पारस्करदेशीयः, पारस्करवंशधरः,यजुर्वेदीच निरुक्तकृत् यास्कइत्येतावन्तः परिचयाः यथाकथममि लभ्यन्त इति शम्।
———
(५)
अथ इदानीमिदमपि विचार्यम्,—अस्ययास्कस्यऋषित्वमस्ति नास्ति वेति। अनुभूयते हि त्रिविध मृषित्वम्,— मुख्यमातिदेशिकं तार्त्तीयीकञ्चेति। तदेतत्रिविधानामन्यतममस्यास्त्येव चेत् किंविधमित्येव निर्णेतुमवतार्यतेऽयं प्रबन्धः।
मुख्यर्षिलक्षणन्तु स एव स्वयमेव माह— “ऋषिः, दर्शनात्। स्तोमान् ददर्शेत्यौपमन्यवः। तद्यदेनांस्तपस्यमानान्
ब्रह्म स्वयम्भ्वभ्यानर्षत् तदृषीणामृषित्वमिति विज्ञायते (२.३.२.)”—इति। अत्रोक्तं तद्यदेनानित्यादिकं ब्राह्मणमतमेवेह प्रमाणत्वेनोपन्यस्तम्; तदुक्तंतत्रैव वृत्तिकृता दुर्गाचार्येण—“ब्राह्मणमपि चैतस्मिन्नर्थेदर्शयति ‘तद्यदेनांस्तपस्यमानान्’— इत्यादि।‘तत्’एतत् उच्यते यत्कृतमृषीणामृषित्वम्”—इत्यादि। अपरत्रापि “ऋषिःकुत्सोभवति, कर्त्तास्तोमानाम्—इत्यौपमन्यवः(३.२.१५.)”—इति च तन्निदर्शनं प्रदर्शितमेतेनैव यास्केन।किञ्चतत्पुर्वतनानामपि तथैव व्यवहार इति च प्रदर्शित तेनैव।तथाहि—“साक्षात्कृतधर्माण ऋषयो बभूवुः”—इत्याद्युक्तमालोचनीयम् (२४ ए०)। तत्रैव “ऋषन्ति अमुष्मात् कर्मण एवमर्थवता मन्त्रेण संयुक्तादमुना प्रकारेणैतल्लक्षणं फलविपरिणामोभवतीत्यृषयः”—इति च ऋषिपदनिर्वचनं कृतं दुर्गाचार्येण। एवञ्चमन्त्रद्रष्टॄणामेव मुख्यमृषित्वमिष्टम्; तथा चादि कल्पजानामतिप्राचीनतमानां वसिष्ठ-वामदेवादीनामेव तादृशर्षित्वमुररीकार्यमिति प्रतीयत एव।
द्रष्टृत्वं कर्तृत्वञ्चाभिन्नमेव प्रायः; तत्रअतीवप्राचीनानामज्ञेयकालिकानामेव कृतेदृष्टमिति व्यवहारो नान्यत्रेत्येवविशेषः। तदिमानि “दृष्टं साम (४.२.७.)”—इत्यादि-पाणिनि-सूत्रीयाणि “वसिष्ठेन दृष्टंवासिष्ठं साम”—इत्यादीनि वृत्तिकृदुदाहरणादीनि द्रष्टव्यानि; तथैव “य आङ्गिरसः शौनहोत्रोभूत्वाभार्गव; शौनकोऽभवत्, स गृत्समदोद्वितीयं मण्डलमपश्यत्”—इत्येवमादीन्यनुक्रमणीवचनादीनि च। किञ्चैतन्निरुक्तकारोऽप्याह तथा— “ऋषेरक्षपरिद्यूनस्यैतदार्षम् (९.१.८.)”—इति।“मत्स्यानां जालमापन्नानामेतदार्षम् (६.५.४.)”—इत्यादि च।
दृष्टेतत्रैवार्थेकृत इतिव्यवहारोऽपि नादृष्टचरः। तथाह्यैतरेयके ब्राह्मणे— “देवा ह वैसर्वचरौ सत्रंनिषेदुस्ते हपाप्मांन नापजघ्निरे।तान् होवाचार्वुदः काद्रवेयः सर्प ऋषिमन्त्रकृत् (६.१.१.)—इति। निरुक्तेऽप्येवं दृष्टान्तो नदुलेभः। तथाहि— “इदञ्च मेऽदादिदञ्च मेऽदादित्यृषिः प्रसङ्ख्यायाह सुवास्त्याअधि तुग्वनि (४.२.७.)”—इत्यादि च। यास्कपूर्वप्रवादा अप्यत्रसद्गृहीताःसन्तिः, तत्राप्यस्त्येवकृतकत्वप्रसिद्धिर्मन्त्राणाम्। तथाहि— “तत्रेतिहासमाचक्षते—विश्वामित्रऋषिः सुदासः पैजवनस्य पुरोहितो वभूव। ०—०। स वित्तं गृहीत्वा विपाट्छुतुद्र्योः सम्भेद माययावनुययुरितरे। स विश्वामित्रो नदींतुष्टाव गाधा भवतेत्यपि, द्विवदपि बहुवत् (२.३.२.)—इत्यादि। तथा “धातोः कर्मणः समानकर्तृकादिच्छायां वा(३.१.७.)”—इति पाणिनीयस्य सूत्रस्य व्याख्यानावसरे प्रसङ्गतोभगवता पतञ्जलिनापि भाषितम्— “ऋषिः पठति— ‘शृणोतग्रावाणः’—इति” –इति। स्तवनपठनादिकञ्च कृतिविशेष एव;तदेवं मन्त्रकर्तृत्वंमन्त्रद्रष्टृत्वञ्चवस्तुतोऽभिन्नमिति स्फुटम्।
तदित्थं मन्त्रद्रष्टृत्वंत्वृषीणामेव, तथा ऋषित्वमपि मन्त्रद्रष्टृत्वानुगतमेवेत्यपि स्थिरम्। एव मृषित्व-मन्त्रद्रष्टृत्वयोः सामानाधिकरण्यं सर्वसम्मतमिति मन्त्रद्रष्टृत्वमूलकमेव मुख्यमृषित्वमित्यत्र च न कोऽपि संशयः। अथकस्यामपि संहितायां यास्ककृत एकोऽपि मन्त्रोन दृष्टचरः, न चाद्ययुगीयस्यास्य यास्कस्यमन्त्रकर्तृत्वसम्भवोऽपि;तदेवमस्य यास्कस्य मन्त्रकर्तृत्वाभावात्मुख्यमृषित्वन्तु नास्त्येव।
ब्राह्मणकर्तॄणांताण्ड्यादीनां मन्त्रकर्तृत्वाभावेऽपि मन्त्रकर्तृत्व-
तुल्यतया आतिदेशिकमृषित्वन्तु स्वीकृतमेव यास्कपूर्वतनैरपि।तथाहि—“साक्षात्कृतधर्माण ऋषयो बभूवुः ०—० उपदेशायग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं वेदाङ्गानि च(१.६.५)”—इति। अत्र ‘अवरे’—इति पदात् ऋषय एवगम्यन्ते; तथाच निघण्टुकारस्य, ब्राह्मणापरपर्यायानां वेदानांप्रवक्तॄणाम्, वेदाङ्गानाञ्च कर्तॄणामपि ऋषित्वव्यवहार आर्यसम्मतएवेति तत्रध्वनितम्। तदत्र, यास्कस्य निघण्टुकर्तृत्वं नैवेतिपूर्वमेव प्रतिपादितमस्माभिः; ब्राह्मणप्रवक्तृत्वमपि नास्त्येव;वेदाङ्गकर्तृत्वं त्वस्ति, परं न तद् वेदाङ्गमिदं निरुक्तम्, यत्कृतमृषित्वंस्यादेतत्कर्त्तुर्यास्कस्य; प्रदर्शितयास्कानूक्तश्रुतितोऽपि यास्कपूर्वप्रचलितनिरुक्तादिकर्तॄणामेव ऋषित्वावगमात्। तदेतावतेदमेव निष्पन्नम्, यास्कस्यास्य त्वेव मातिदेशिक मृषित्वमपिनोपयुज्यते इति।
अथप्रदर्शिते शतपथब्राह्मणवचने व्यक्तमेवास्य पुर्वपुरुषस्यमधुविद्याप्रवक्तृत्वम्, मधुविद्या च ब्राह्मणान्तर्गतैव; तथाच तादृशस्य ब्राह्मणप्रवक्तुःवंशधरत्वेनैवास्यापि यास्कस्य मुख्यर्षित्व मापाद्यमेवेत्यपि वक्तुंन युज्यते; लोकवेदव्यवहारविरोधात्; न च लोके नापि वेदे ऋषिवंशप्रभवत्वेनैवर्षित्वं क्वचिदपि हि व्यवहृतं दृश्यते।
लोके तावत्—वयन्तु कश्यपर्षिवंशप्रभवा एव, परं कःखलु भारतेऽस्मान् प्रति ऋषय इमे इति व्यवहरन्ति? किं बहुनायदि हि वंशप्रभवत्वेनैव ऋषित्व माप्यं भवेत्तर्हिअद्यतनीया अप्यार्या; सर्व एव प्राय ऋषय एवोक्ताःस्युः; सर्वेषामेव कश्यप-भरद्वाज-वसिष्ठादि-वंशीयत्वात्; न ह्येवं व्यपदेशो दृश्यते लोके क्वापीति नैवंव्यवहारो लौकिक इति स्फुटम्।
वैदिकव्यवहारतश्चाधिगम्यते नावाप्य मृषित्व मृषिवंशप्रभवत्वेनैवेति। तथा हि—
“अर्चनानाःपुरात्रेयो दाल्म्येनरथवीतिना।
आर्त्विज्याय वृतो यज्ञे वितते हौत्र आस्थितः।
रथवीतिसुतां कन्यां ददर्श पितुरन्तिके।
ययाचे स्वकुमाराय श्यावाश्वाय च तां सुताम्।
स प्रदानमना भार्यामपृच्छत् किं प्रयच्छसि।
इति पृष्टा पुनः प्राह कथमस्मैप्रदास्यसि।
इतः पूर्वं सुता दत्ता नासीदनृषये क्वचित्।
तत्तथैवेति निश्चित्य प्रत्याचष्टार्चनानसम्।
श्यावाश्वःसंंस्थिते यज्ञे तेन राज्ञा निराकृतः।
तत्प्रत्याशान्वितो विप्रस्तपस्तेपे सुदारुणम्।
ब्रह्मचर्यरतः शान्तो भिक्षार्थं पर्यटन द्विजः।
तरन्तमहिषींसाध्वींबिभिक्षेऽसौशशीयसीम्।
सा तम्प्राप्यान्तिक पन्युः प्रोवाचागतवानृषिः।
इत्युक्तोनृपतिर्भार्यां प्रत्याहैनं प्रपूजय।
सानुज्ञाता गवां युथं प्रादादाभरणानि च।
तरन्तोऽपि पुनस्तस्मै प्रादाद्धनमपेक्षितम्।
दत्त्वाच पुरमीढस्यस्वानुजस्यान्तिकं प्रति।
प्रेरयामास त मृषिंसोऽपि त्वां मानयिष्यति।
तथेति राज्ञोवचनं निशम्य तद्भार्यया दर्शितसर्वमार्गः।
गच्छन् शनैरर्द्धपथे मरद्गणान् समानरूपान् स्वदिदृक्षयागतान्।
विलोकय विप्रः सभयःप्रणम्यकृताञ्जलिः कण्टकिताङ्गसङ्घ।
तुष्टाव हृष्टान् मरुतो विशिष्टैरर्थैर्वचोभिः परितुष्टचित्तः।
सम्प्राप्य सर्वं स्वमनीषितं तदा मरुद्गणेभ्यो मुदितात्मवद्भ्यः।
तदाभवदृषिः सुक्तद्रष्टाश्यावाश्वनामकः।
पश्चात् पुनर्गृहं गत्वा भूयो लब्ध्वा गवां शतम्।
दाल्भ्या मन्त्रदृशेराज्ञ्याचोदितः स्वसुतां ददौ।
पुरुमीढस्तरन्तश्च तद्भार्या च शशीयसी।
दाल्भ्यो यो रथवीत्याख्यः सप्त ये मरुतां गणाः।
ते तस्मै यद्ददुस्तुष्टास्तत् केष्ठेत्यत्रवर्ण्यते॥”—
इति शौनकीय-वृहद्देवतोक्तंसायणलिखितं पुरावृत्तं ‘केष्टा’—इति सूक्तीयोपोद्घातम्। तच्च सूक्तमेकोनविंशत्यृच मृकसंहितायाःपञ्चममण्डलीय पञ्चमाध्यायस्य पञ्चमम् एवञ्च यद्यपि अत्रिवंशप्रभवः अर्च्चनानाः, ऋषिरिति प्रसिद्धः, तथापि तत्पुत्रःश्यावाश्वो न ऋषिशब्दव्यपदेशभाक् पितृनामकृत इति सुव्यक्त मत्र।
अर्च्चनानसः ऋषित्वं तु तत्रैवाग्रे स्पष्टमुक्तम्। तथाहि, तत्र सूक्तीयसप्तदशर्ग्व्याख्यानप्रसङ्गे च पुनः—
“सम्पन्नऋषिभावस्य शावाश्वस्यार्चनानसः।
रथवीतिसुतायाश्चविवाहं शैनकोऽब्रवीत्।
कथम्? मरुत्सु तु प्रयातेषु श्यावाश्चः सुमहायशाः।
प्रादुर्भूतार्षमात्मानं ज्ञात्वाऽत्रिकुलनन्दनः।
रथवीतेर्दुहितरमगच्छन्मनसा तदा।
स सत्य मृषि मात्मानं प्रवक्ष्यन्रथवीतये।
‘एतं मे स्तोमम् (५.५.५.१७,१८.)’—इत्याभ्यां दौत्ये रात्रिंन्यवेदयत्।
ऋषेर्नियोग माज्ञाय देव्या रात्र्याप्रचोदितः।
आदाय कन्यकां दातुमुपेपायार्चनानसम्।
पादौतस्योपसङ्गृह्यस्थित्वाप्रह्वः कृताञ्जलिः।
रथवीतिरहं दाल्भ्यइति नाम शशंस सः।
मया संयोग मिच्छन्ततां प्रत्याचक्षियत् पुरा।
तत् क्षमस्व नमस्तेऽस्तुमे मास्वभगवन्! क्रुधीः।
ऋषेःपुत्रः स्वय मृषिः पितासि भगवानृषेः।
हन्त प्रतिगृहाणेमां स्नुषामित्येन मब्रबीत्।
तस्मै ददावश्वशतं स राजा स्वलङ्कृतां चापि सुतां स्नुषार्थम्।
विवाहकालेऽपि ददौ नरेन्द्रः शतं हयानां दुहितुःसहस्रम्।
गवां सहस्रं वसु च प्रभूतं तप्तुं तपोऽन्तेऽथ वनं जगाम”—इति।
एवञ्चश्यावाश्वस्य, पितुः पितामहस्य च ऋषित्वेऽपि नऋषित्वव्यहारोऽभूत्; अपि तुमन्त्रद्रष्टृत्वेनैवेतिसुव्यक्तमेव।
ऋकसंहितायान्तु श्यावाश्वस्य सप्तदश सूक्तानि (५.५२—६१;५.८१; ५.८२; ८.३५—३८; ९.३२.), तत्र च १७७ऋचः श्रूयन्ते; अत एव तस्य ऋषित्वम्। तत्पितुः अर्चनानसतु त्रीणि सूक्तानि (५.६३; ५.६४; ८.४२.), तत्र च २०ऋचः श्रूयन्ते;अत एव तस्यापि ऋषित्वम्। तत्पितुश्चअत्रेर्भौमस्य चतुर्दश सूक्तानि (५.२७; ५.३७—४३; ५.७६;५,७७; ५.८३—८६.) तत्र च १२२ ऋचः; अपरसूक्तेषु चतस्यैवात्रेः खलु नव (९.६७.१०—१२; ९.८६.४१—४५;१०.१२७.४.) ऋचः श्रूयन्ते; अतएव तस्यापि ऋषित्वम्। अत्रिश्च ऋक्संहितायामेको भौमोऽपरः शाङ्खः; तदत्र न ज्ञेयःकतरोऽस्य श्यावाश्वस्यादिपुरषः? परं शाङ्ख्यस्याप्यत्रेरस्ति षडृचमेकंसूक्तम् (९.१४३.); अतस्तस्याप्यृषित्वम्। तदित्थमस्यहि यास्कस्य मुख्यर्षिवंशप्रभवत्वेपि मुख्यर्षित्वं सुदुर्लभमेब।
नन्वेवं महाभारते कथमुक्तं दृश्यते “यास्को मा मृषिरव्यग्रः”
— इति, “यास्कऋषिरुदारधीः”—इति (२३ पृ०) च? अत्र ब्रूमः—तत्तुमहाभारतकारस्य स्वस्य यथा ऋषित्वंतथैव पूजनीयत्वापरपर्यायकमेव; तादृश ऋषिस्त्वद्यापि वर्त्तत एवेति। वस्तुतोमन्त्रद्रष्टृत्वेनैव आदिवसिष्ठादीना मृषित्वंमुख्यम्; तादृशर्षित्वन्तुताण्ड्यादीनां ब्राह्मणप्रवक्तृृणामपि नास्ति; तत् महाभारतरामायणादिकर्त्तृणान्तु कथा दूरपराहतैव। तत्तुल्यत्वेन च ऋषित्वं द्वितीयम्; तदेवाह महाभाष्ये भगवान् पतञ्जलिः—
“न तावदनृषिः कश्चित् स्मर्यते कल्पसूक्तकृत्।
कर्त्तृत्वंयदृषीणान्तु तत् सर्वं मन्त्रकृत्-समम् (१.३.१०.)”—इति।
तदेवं द्वितीय मृषित्वम्, ब्राह्मणभागप्रवक्तॄणाम् अनुब्राह्मणप्रवक्तॄणाम्, ब्राह्मणान्तर्गतानां किञ्च प्रायोलुप्तानां—कल्पादिवेदाङ्गशास्त्राणां प्रवक्तॄणाम्। ईदृशर्षित्वमपि नास्ति तेषामद्यप्रचलितैतन्महाभारतकारादीनाम्। बहुज्ञत्वात्, वहुमानत्वादि—तश्चादरातिशय्यप्रकाशकवचनमिदम् “अय मृषिः”—इति यत्र प्रयुज्यते, तस्य त्वषित्वं पूजनीयत्वापरपर्य्यायकं तृतीयम्। तादृशर्षित्वमेव व्यासबाल्मीक्यादीनाम्। तत् तार्त्तीयीक मृषित्व मेव यास्कस्यास्य स्थितमिति मन्यतेचेन्न तत्रास्माकमसम्मतिः; परं मुख्य मृषित्वं ते तस्य नासीदेव, द्वितीयर्षित्वमपि न सम्भाव्यते।
अपि च गणपाठे शिवादिषु (४.१.११२.) यस्कपाठदर्शनाच्चेदमपि ज्ञायते,—यन्नामतोऽस्य नाम यास्क इति, तस्याप्येतदादिपुरुषस्य नासीत् ऋषित्वमिति; सति हि तस्य ऋषित्वे ऋष्यणा (४.१.११४.) एव यास्केति सिद्धौतत्पाठफलमाकाशकुसुमायितमेव स्यात्। अत एव “यास्कोमुनिः”—इति दृश्यते मुग्धबोधादौ; न तु “यास्कऋषिः”—इति।
यास्कस्य मुख्यर्षित्वविचारस्तुदूरे आस्ताम्,—विकृतिवल्लीकारः खलु यास्कपूर्वजो व्याडिश्चाह स्वगुरोः शौनकस्य प्रातिशाख्यकारस्यापि मुनित्वमेव। तथाहि—“नत्वादौ शौनकाचार्यं गुरुं०—० मुनीन्द्रम्”—इति (वि० १.२.) “पुनः किं विशिष्टम्?‘मुनीन्द्रम्’मननशीला मुनयः, तेषु श्रेष्ठम्”—इतिच तत्र तट्टीकाकारः। तथापाणिनि-कात्यायन-पतञ्जलीनामपि मुनित्वमेव सर्वत्र व्यवहृतं गम्यते, न क्वाप्यृषित्वम्। तथाहि—‘मुनित्रयं नमस्कृत्य”—इत्याह दीक्षितः; किञ्च योगेनचित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन। योऽपाकरोत्तम् प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मिः”—इत्यत्रापि पतञ्जलेर्मुनिप्रवरत्वमेव स्मर्यते। तथा “तच्च वृद्धिरादैजित्याद्यध्यायाष्टकात्मकंमहेश्वरप्रसादेन भगवता पाणिनि नैव प्रकाशितम्। अत्र कात्यायनेन मुनिना पाणिनीयसूत्रेषु वार्त्तिकंविरचितम्,तद्वार्त्तिकस्योपरि च भगवता पतञ्जलिना महाभाष्यमारचितम्।तदेतत् त्रिमुनि व्याकरणं वेदाङ्गं माहेश्वर मित्याख्यायते”—इतिचाह प्रस्थानभेदकृन्मधुसूदनोऽपि।
बेदाङ्गेषु षट्सु, यास्तुशिक्षाः तैत्तिरीयब्राह्मणादौश्रूयन्ते,तासामेव ऋषिकृतत्वम्; छन्दोविधानानि च यानि सामवेदीयानुब्राह्मणादौश्रूयन्ते, तेषामेव ऋषिकृतत्वम्; व्याकरणानि चपदपाठाद्यात्मकानि पुरा स्थितानि, यानि चेदानींपाणिनीयार्कप्रभातोऽदृश्यानि,—अहनि सहस्ररश्मिप्रभातस्तारकामण्डलानीव किञ्च शाकटायनीयर्क्तन्त्रादीनि च यानी दानी मपिज्योतिरिङ्गना इव वरीवर्त्तन्ते, तेषा मृषिकृतत्वमेव; निरुक्तानि च यानि ब्राह्मणेषु दृश्यन्ते, अनुब्राह्मणेषु च स्थितानीत्यनुमीयन्ते,
निदानसूत्रेषु चोपलभ्यन्ते, शाकपूण्यादिकृतान्यासन्निति च यास्कवचनादितोऽवगम्यन्ते, तेषा मृषिकृतत्वमेव; पैङ्ग्यादीना मतिप्राचीनतमकल्पसूत्राणान्तु प्रायो ब्राह्मणसमकालिकत्वमेव पाणिनिशासनादिभिरवगम्यते, तत्तेषा मृषिकृतत्वेतु नास्त्येव सन्देहावसरः। यतश्च पैङ्ग्यादीनि प्राणीनतमानि कल्पसूत्राणि चिरारेवब्राह्मणतः पृथगेव प्रोक्तानि, प्रायस्तत्समकालिकानि चेति तेषामार्षत्वं निर्विवादमेव; अतो भाष्योद्धृतायां सद्ग्रहकृतकारिकायां‘न अनृषिःकल्पकृत्’— इति कल्पकृता मेवानृषित्वशङ्का निवारिता;न हि तत्रोक्तं श्रूयते ‘न अनृषिः वेदाङ्गकृत्’—इति। एवं हिनिष्पन्न मेतत्,—ब्राह्मणानुब्राह्मणान्तर्गतानां निरुक्तादीनां वेदाङ्गानामातिदेशिकार्षत्व मस्त्येव; शाकपूण्यादिकृतानाञ्च स्यात्तथैव, परं यास्कीयस्यास्य ग्रन्थस्यार्षत्वं तु महाभारतादिग्रन्थानामिव तार्त्तीयीक मेवेति।
विकृतिकौमुद्यादौ यत् पाणिनिपरजस्यापि व्याडेः ऋष्याख्यानं दृश्यते—“व्याडिनैव महर्षिणा”— इति (१.४ श्लो०), तदपितथाभिप्रायेणैव; तेषां नुनये मन्त्रादिकर्तृयोग्यतैवर्षित्वे निदानम्। तादृशीयोग्यता तु नूतनवेदाङ्गानां तदङ्गानाञ्चापिकर्त्तॄणां पाणिनि-व्याडि-शौनक-यास्कादीना मासीदेवेति तेषामप्यृषित्वं मन्तव्यमेवेति भवेत्तदपि तार्त्तीयीकमेव; तद् भवतुनामास्यापि न नोऽत्र विवादः।बह्वृक्प्रातिशाख्यकृत् शौनकोऽपितार्त्तीयीक मार्षत्व मेवाभिप्रेत्योक्त मेवम्—“कृत्स्नञ्च वेदाङ्गमनिन्द्यमार्षम्’ इति— (पा०सू० ३.२.६.)। अपि च व्याडेर्मुख्यर्षित्वे तु क्रौड्यादिगणे व्याडिशब्दस्य पाठो वैयर्थ्यमेवापद्येत; “क्रौड्यादिभ्यश्च(पा० ४.१.८०.)”— इति सूत्रस्यह्यनार्षविषयत्वमेव
निर्णयात्; तस्य हि“अणिञोरनार्षयोः० (४.१.७८.)”—इत्येतत्सूत्रीयप्रपञ्चभूतत्वात्। अत एव “गोत्रावयवात् (पा० ४.१. ७८)”—इति सूत्रस्य भाष्ये—“अष्टाशीति सहस्राण्युर्द्धरेतसामृषीणां बभूवुः, तत्रागस्त्याष्टमैः ऋषिभिः प्रजननोऽभ्युपगतः, तत्र भवतां यदपत्यंतानि गोत्राणि, अतोऽन्येगोत्रावयवाः।०—०।कथं येभ्यः अगुरूपोत्तमेभ्य इष्यते? सिद्धन्तु रौढ्यादिषूपसङ्ख्यानात्। ०—०। के पुनरौढ्यादयः? ये क्रौड्यादयः”—इत्याहभगवान् पतञ्जलिः। तदेतत्सार मेवाकृष्योक्तंदीक्षितेन सिद्धान्तकौमुद्याम्— “अगुरूपोत्तमार्थोऽनणिञर्थश्चारम्भः”— इति; न चोक्तं तेन तत्रार्षार्थश्चेति। यद्यप्यृषिरपि कश्चिद् व्याडिः स्यात्, तर्हितदपत्यं न भवेत् ‘व्याड्या’इत्यतोऽत्र क्रौड्यादिगणेऽवश्यंगणपाठकारभाष्यकारादिभिः कश्चन यत्नः कर्त्तव्य एव; न च तथाकृतं दृश्यते। अतो व्याडेरपि मुख्य मृषित्वं नास्त्येवेति किं तत्परजस्यैतस्य यास्कस्यर्षित्वविचारेणेत्यलम्। सङ्ग्रहकारोव्याडिरेव विकृतिवल्लीकारः; स च पाणिनिपरजो यास्कपूर्वजश्चेत्यपि प्रतिपादयिष्यामो वय मुपरिष्टादिहैव।
आश्वलायनगृह्यसूत्रेऽपि मन्त्रकृता मेव गणानां मुख्यमृषित्वमिति तेषां विशेषत उल्लेखो दृश्यते। तथाहि—“अथ ऋषयः,— शतर्च्चिनो माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिर्भरद्वाजोवसिष्ठः प्रगाथाः पावमान्यः क्षुद्रसूक्ताः महासूक्ता इति (३.४.२.) —इति। तत्रैव चेतोऽनन्तरमाचार्यनामान्यपि कानिचित् स्मृतानि— “सुमन्तु-जैमिनि-वैशम्पायन-पैल-सूत्रभाष्यभारतमहाभारतधर्माचार्या जानन्ति बाहवि-गार्ग्य-गौतम-शाकल्य-बाभ्रव्य-माण्डुकेयागार्गी वाचक्नवी वडवा प्राचीथेयी सुलभा मैत्रेयी कहोलं कौषी
तकं पैङ्ग्यंमहापैङ्ग्यंसुयज्ञं साङ्ख्यायन मैतरेयं शाकलं बाष्कलंसुजातवक्त्र मौदवाहिं महौदवाहिं सौजामिं शौनक माश्वलायनंये चान्ये आचार्यास्ते सर्वे तृप्यन्त्वति(३.४.४.)”—इति। इहत्वाचार्यनामसु यद्यपि न दृश्यते यास्कनाम, पाणिन्यादीनाञ्चनाम;तथापि सूत्रकारत्वेनैव पाराशर्यकणभक्षाक्षचरणपाणिनिप्रभृतीनां, निघण्टुसमाम्नायभाष्यकारत्वेन यास्कस्य च ग्रहणमिष्टमिति स्वीकार्यम्।
अद्यप्रचलितमहाभारतस्यवीजमासीत् पुरा किञ्चन भारतंनाम, तदेव क्रमादङ्कुरितं प्रस्फुटतत्त्वाञ्चाभूत् प्रसिद्धंमहाभारतमिति, तन्महाभारतमेव प्रवृद्धंपल्लवितं विस्तृत मिदानीन्तनीयमिदं महाभारतं नामेति चेह गुरुचरणाः। किञ्च अत्र स्मृतः शौनकस्तु न चादिकालिको मण्डलकार ऋक्संहितायाः, तस्य ह्यत्र ऋषिनामसु गृत्समद इत्येव ग्रहणसिद्धेः; नापि बह्वृक्प्रातिशाख्यकारः, अपि तु शाखाविशेषस्य प्रवक्तैव। शाकलादिसाहचर्य मेवात्रनियामकमिति। आश्वलायनोऽप्यत्रन तु गृह्यादिकृत्, अपिशाखाप्रवक्तैव;अत्रापि हि शाकलादिसाहचर्य मस्त्येव नियामकम्;को नु नाम ‘रामकृष्णावमूआसाते’— इत्यत्र दशरथापत्यस्य रामस्य,‘रामलक्ष्मणौ’—इत्यत्रच जामदग्न्यादेर्ग्रहणमिच्छति।वस्तुतस्त्विहाश्वलायनीये अधोऽधःक्रम एव विवक्षित। तथाच—सुमन्त्वादयश्चत्वारो व्यासशिष्याः समकालिकाः, तत्पूर्वजा व्यासादयः सूत्रकाराः, तत्पूर्वकालिका बाहव्यादयः संहितापाठाध्यनभेदोपदेशकाः, तत्पूर्वतनाः गार्गीप्रभृतयो ब्रह्मवादिन्यः, तत्पूर्वतनाः कहोलादयो ब्राह्मणादिप्रवक्तारः, तत्पूर्वतना एव शाकलादयः शाखाकारा इति दिक्।
ततश्चैषा मद्ययुगीयानां तार्त्तीयीकर्षित्वसम्पन्नानांसुमन्तुप्रभृतीनाम्, तत्पूर्वकालिकाना मतिदिष्टर्षिभावापन्नानाञ्चबाहव्यादीना मतिवृद्धाश्वलायनान्तानामाचार्यत्वमेव सम्मतमाश्वलायनस्यापि; न तु मुख्यर्षित्वमिति स्फुटम्।
अप्येवं सामान्यत ऋषिलक्षणं न दुर्लभंसम्भाव्यतेऽद्ययुगीयानांसुमन्त्वादीनामपि। तथा च सूचित मिहैव त्रयोदशाध्वाये,— “मनुष्या वा ऋषीषुत्क्रामत्सुदेवानब्रुवन्,—को न ऋषिर्भविष्यति?इति। तेभ्य एतं तर्कमृषिंप्रायच्छन्,—मन्त्रार्थचिन्ताभ्यूह मभ्युल्हम्। तस्माद् यदेव किञ्चानुचानोऽभ्यूहत्यार्षंतद् भवति (१३.१.१६.)”— इति। एवञ्च‘अनूचानत्वे सति मन्त्रार्थाभ्युहनसमर्थत्वम्, ऋषित्वम्’—इत्येव सामान्यत ऋषिलक्षणं फलितम्। अनूचानस्तुगुरूमुखाल्लव्धवेद एव; तल्लक्षणादिकं तु द्रष्टव्यंमन्वादौ। मन्त्रार्थाभ्यूहनप्रकारस्तुइहैवंविहितः,—“तपसा पार मीप्सितव्यम्”—इत्यादिना (१३.१.१३.); “शाकपूणिः सङ्कल्पयाञ्चक्रे(२.२.४.)”—इत्याद्युदाहृतञ्च तदत्र यास्केन। तदीदृशमृषित्वंत्वस्माक मपि कृतब्रह्मचर्य्याणां मन्त्रार्थाभ्युहनसमर्थानां सम्भवेदेव, तत् किन्नाम भगवतोऽस्य यास्कस्येति।
इत्थंनिष्पन्नमेतत्;—एतन्निरुक्तकारो यास्कः खलु वस्ततो मुनिराचार्य्यश्चेत्येव चिरात् प्रसिद्धः; एव मप्यस्य भगवतः सामान्यत ऋषित्वमव्याहतमेव; तत्रापि विशेषतो विचारिते स्यात् तार्त्तीयीकं तदिति सिद्धमेतस्यापि च ग्रन्थस्यार्षत्वमिति शम्॥
———
(६)
अथेदानी मिद मिह विचार्य्यम्,— कियान् निरुक्तग्रन्थोऽयमिति। अस्माभिस्तु यावन्ति निरूक्तपुस्तकानि दृष्टानि, तेषुसर्वेष्वेवास्य “समाम्नायःसमाम्नातः स व्याख्यातव्यः”— इत्यारम्भवाक्यं दृष्टमेव, च-जातिरिक्तेषु सर्वेष्वेव “ब्रह्म शुक्लमसीय ब्रह्मशुक्लमसीय”—इति परिसमाप्तिवचनञ्च; च-ज-पुस्तकयोस्तु “यएवं वेद”— इत्येव समाप्तिवाक्यम्; तदुत्तरस्थितः “नमो ब्रह्मणेनमो महते भूताय नमः पारस्कराय नमो यास्काय ब्रह्म शुक्लमसीय ब्रह्म शुक्लसमीय”— इत्येवं पाठस्तुतयोर्न दृश्यते; तदिदं नविशेषपार्थक्यम्। द्वि-चतुः-खण्ड-कृतं न्यूनाधिक्यंखण्डभेदकृतमाधिक्यंचाकिञ्चित्कर मेबेदृशे प्राचीनतमे ग्रन्थे। तथाप्यस्तिकिञ्चिदत्रविचारणीयम्। तथाहि—केषुचित् पुस्तकेषु द्वादशाध्यायान्तं निरुक्तम्, तत उत्तर मध्यायहयात्मकं परिशिष्टमितिलिखितं दृश्यते; केषुचित् द्वादशाध्यायान्तमेव निरुक्तम्, परं तत उत्तर मेकध्यायात्मकमेव परिशिष्टमिति लिखितं दृश्यते,अपि तस्मिन्नेकस्मिन्नेवाध्यायेऽपरपुस्तकदृष्टाध्यायद्वयीयाः सर्वएवखण्डा विद्यन्त एव; केषुचित्तु तादृश-त्रयोदशाध्यायस्यान्तेएव“निरुक्तं समाप्तम्”— इति लिखितमस्ति, परिशिष्टशब्दोऽपि नतेषु लक्ष्यते; केषुचित् अन्त्याध्यायद्वयान्ते परिशिष्टं समाप्तं लिखितमस्ति, किन्तु तयोः क्रमात् त्रयोदशचतुर्द्दशाध्यायत्वे च। अत एतर्हि विचार्यते द्वादशाध्यायात्मकं त्रयोदशाध्यायात्मकं चतुर्दशाध्यायात्मकं वेति कत्यध्यायं निरुक्तमिति।
निघण्टुव्याख्यानकारस्य देवराजयज्वनो मते तु “समाम्नायः
समाम्नातः (१.१.१.)”— इत्यादि, “य ऋतुः कालो जायानांय ऋतुः कालो जायानाम् (१२.४.१२.)”—इत्यन्तं द्वादशाध्यायात्मक मेव यास्कीयं निरुक्तम्। तदुक्तं स्वग्रन्थभूमिकायाम्— “भगवता यास्केन समाम्नायं नैघण्टुक-नैगम-दैवताकाण्डरुपेणत्रिविधं गवादि देवपत्न्यन्तं निर्बुवता”—इत्यादि। नात्रातिस्तुतिप्रकरणस्योर्द्धमार्गगतिप्रकरणस्य च नामापि कीर्त्तितम्; सन्ति तुतत्रतत्रापि बहूनि निर्वचनपदानि, येषां च प्रामाण्यरूपेण ग्रहणांयोग्यमेव। अपि हि तेन स्वग्रन्यभूमिकायाम्— “स्कन्दस्वामिनाच निगमव्याख्यानेषु अन्यानि च पदानि शतद्वयमात्राण्युपात्तानि— इति चोल्लिखितं परं त्रयोदशचतुर्द्दशाध्यायीयनिर्वचनानामस्तित्वमपि न स्मृतम्। तथाच तादृशानां स्मर्त्तव्याना मप्यस्मरणात्तेषा मस्तित्वेन निरुक्तत्वेन वा ज्ञानाभाव एव तस्य यज्वनः सुव्यक्तइति किं न स्वीकार्यम्?
निरुक्तवृत्तिकृता दुर्गाचार्येण तु ग्रन्थारण्भेनिरुक्तस्य द्वादशाध्यायीत्व मुक्त्वापि तदन्ते सपादद्वादशाध्यायीत्व मुक्तमिति। त्रयोदशाध्यायीत्वमेव स्वीकृतम्। तथाच प्रथमखण्डव्याख्यानारम्भे— “अयञ्च तस्या द्वादशाध्यायीभाष्यविस्तरः; तस्य इदमादिवाक्यं समाम्नायः समाम्नात इति”— इति, अन्तपुष्पिकायान्तु“ऋज्वर्यायां निरुक्तवृत्तौअष्टादशाध्यायः o (त्रयोदशाध्यायः)समाप्तः”— इति, “इति सपादसप्तदशाध्यायीऋज्वर्था नाम निरुक्तवृत्तिः समाप्ता”— इति च द्रष्टव्यम्। तदेव मेतन्मते अतिस्तुतिरूपत्रयोदशाध्यायस्य च निरुक्तत्वमेव, न तु परिशिष्टत्वम्; ऊर्द्धमार्गगतिरूप-चतुर्द्दशाध्यायस्य (द्वितीयपरिशिष्टस्य) तु सर्वथाऽस्वीकरणमेव सम्पन्नम्। अपरञ्चत्रयोदशस्याध्यायस्य स्वल्पग्रन्थत्वादेक-
चरणत्वमेव मत्त्वा, ग्रन्थान्तेऽस्य विशेषतः सपादद्वादशाध्यायीत्वंस्वीकरिष्यमाणमपि सामान्यत एवोल्लिखितमुपक्रमे द्वादशाध्यायीति। तदेव मतिस्तुतिप्रकरणस्य स्वल्पत्वादध्यायरूपत्वाभावात्सामान्यतो निरुक्तग्रन्थोद्वादशाध्यायीत्येव निर्द्देश्यः; विशेषतस्तुसपादद्वादशाध्यायीति, किञ्च मूलसूत्ररूपनिघण्टुपञ्चाध्याय्या सहसपादसप्तदशाध्यायीति चेत्येवेहवृत्तिकृन्मतमभिव्यक्तम्।
सायणाचार्यस्तुअतिस्तुतिप्रकरणात्मकस्य त्रयोदशस्याध्यायस्यच निरुक्तत्व मभ्युपगम्यापि वचनतो द्वादशाध्यायीएव निरुक्तग्रन्थइति चाभिचख्यौ। तथाहि ऋक्संहिताभाष्यभूमिकायाम्—“तद्व्याख्यानञ्च समाम्नायः समाम्नात इत्यारभ्य तस्यास्तस्यास्ताद्भाव्य मनुभवत्यनुभवतीत्यन्तैर्द्वादशभिरध्यायेर्यास्कोनिर्ममे”—इति।‘तस्यास्तस्यास्ताद्भाव्य मनुभवत्यनुभवतिः”—इति तु त्रयोदशाध्यायान्तेएव विद्यते; न तु द्वादशाध्यायान्ते। तथा चैतन्मतेऽपि त्रयोदशाध्यायस्यातिस्वल्पग्रन्थात् द्वादशाध्यायशेषत्वेनेव ग्रहणं व्यज्यते। किञ्चैतादृशनिरुक्तनिर्द्देशकथनादेतस्यापि नये उर्द्धमार्गगतिप्रकरणात्मकस्य चतुर्द्दशस्याध्यायस्य सत्तापि न लक्ष्यते; परमाश्चर्यमेतत्“द्वा सुपर्णा (ऋ० स० २. ३.१७.५.)”—इति मन्त्रस्य व्याख्यानावसरे प्रमाणत्वेनोपन्यस्तु मेव तच्चतुर्द्दशाध्यायीयमपि निर्वचनंनिरुक्तमिति। तथाहि—“अत्र ‘द्वौद्वौप्रतिष्ठितौसुकृतौधर्मकर्त्तारौ’—इत्यादि (निरु० १४ अ० ३० ख०) निरुक्ते गत मस्यमन्त्रस्य व्याख्यान मनुसन्धेयम्”—इति। तदत्र तत्त्व मुन्नेयं धीभद्भिरेव पूर्वापरदर्शिभिरिति।
अस्मन्मतेतुसमाम्नायःसमाम्नातः”?—इत्यादिः, “य ऋतुःकालो जायानाम”—इत्यन्तो द्वादशाध्यायी-ग्रन्थएव यास्कीयः;
ततोऽधीयमाने अतिस्तुतिप्रकरणोर्द्धमार्ग्रगतिप्रकरणे तु न यास्कीये;समाम्नातानां हि निघण्टुपदानां व्याख्यानानि, तत्प्रसङ्गतो विशेषवक्तव्यानि च द्वादशाध्यायात्मकेनैव ग्रन्थेनवृत्तानीति सिद्धेऽप्युद्देश्ये कथ मन्यत्र यास्कस्य प्रवृत्तिरेवोदियादेति। अत एवसायण-दुर्गाचार्य-देवराजेत्येतेषु विद्वत्सु प्राचीनतमेन देवराजेन तयोःसत्तापि न द्योतिता; ततश्च देवराजकालेन स्त एव त इमे प्रकरणे; स्त एवेति चेन्ननिरुक्तत्वेन प्रसिद्धे इति सुव्यक्त मेव। ततो दुर्गाचार्यसमयेऽपि ऊर्द्धमार्गगतेर्दशा तु तथैव, पर मतिस्तुतेर्निरुक्तत्वे तु संशयएवासीत्तदानीन्तनानाम्। अत एवग्रन्थारम्भकाले अनाकाङ्क्षमतिस्तुतिप्रकरणमिति मत्त्वातस्य निरुक्तत्वपरिहारं मनसि कृत्वैवोक्तं द्वादशाध्यायीत्वं निरुक्तस्य; पश्चाद्ग्रन्थावसानकाले तुष्यतुदुर्जन इति न्यायेन बहुपुस्तकस्थत्वादेव तस्याप्यादरः कृतोऽपि चिरप्रसिद्धोनिरुक्तो द्वादशाध्यायात्मकएवेति संस्मृत्य पुनः सङ्कोचभावेनोक्तंसपादद्वादशाध्यायीति।सायणाचार्यस्तु ततोऽप्यर्वाचीन इति निःसङ्कोचेनैवाभिचख्यौतस्यास्तस्यास्ताद्भाव्यमित्यादि, परं चिरप्रवादानुगतं निरुक्तस्यद्वादशाध्यायीत्वञ्चनोपेक्षितम्। तथा च तस्याप्याचार्यस्य वृत्तिकृदुक्तंसपादद्वादशाध्यायीत्व मेव सम्मत मपि प्रवादविरोधभिया तत्र मौनावलम्बन मेव चातुर्यं प्रतीयते स्फुटम्। ऊर्द्धमार्गगतिप्रकरणंतु तदापि निरुक्ते न प्रवेशमलभत;सति हि प्रवेशेऽवश्य मेवतन्नामापि सायणेन गृहीतंभवेदिति। यच्चावलोक्यते “द्वा सुपर्णा (ऋ० सं० २.३.१७.५.)—इत्यस्यभाष्ये“अत्रद्वौद्वौ०—० निरुक्तेगतम्”—इत्यादि, न तत्सायणीयवचनं मन्यामहे,अपि तु टीप्पनीटीपितमाधुनिक मेव तत् कालाल्लेखकानवधानात्
तदन्तर्भूत मित्थत्र सन्देहाभावः।अन्यथा सायणाचार्यस्योन्मत्तताप्रसज्येतेति सुधीभिरेवाकलय्यम्।
तदेवं निष्पन्नमेतत्,—साम्प्रतं निरुक्तस्य चतुर्दशाध्याय इतिप्रसिद्धम् ऊर्द्धमार्गगतिप्रकरण मनतिप्राचीनैरेव कैश्चित निरुक्ताङ्गीभूतं कृतम्; सायणाचार्यसमयेऽपि न तस्य निरुक्तत्वंनिरुक्तपरिशिष्टत्वं वा स्थितमिति; किञ्च यदेतर्हिनिरुक्तस्य त्रयोदशाध्यायइति प्रसिद्धम्, तदतिस्तुतिप्रकरणं तु सायणकालात् पूर्वमेवनिरुक्तान्तर्गतीभूतम्; तत्पूर्वजस्य टुर्गाचार्यस्य कालेऽप्येतद्विषयेतादृशानामपि धीमतां धियः सन्देहदोलायां दोदुल्यमाना एवस्थिताः,—किमिदं निरुक्तं न वेति। तत्पुर्वकाले ते तयोर्निरुक्तत्वशङ्कापि नासीदेव। अत एव यास्कीयैतन्निरुक्ताद्वहुपरजेऽपि महाभाष्ये व्याकरणाध्ययनप्रयोजनान्वाख्यानावसरे चत्वारिशृङ्गाः(ऋ० सं०३. ८.१०. ३.)’—इति मन्त्रस्य निरुक्त–त्रयोदशाध्यायसम्मतं व्याख्यानं न दृश्यते, दृश्यतेऽपि तु व्याख्यानान्तरमेव तत्प्रकरणानुगतम्। तथाहि— “चत्वारि शृङ्गाणि, चत्वारिपदजातानि; नामाख्यातोपसर्गनिपाताश्च। त्रयो अस्य पादाः,त्रयः कालाः; भूतभविष्यद्वर्त्तमानाः। द्वेशीर्षे, द्वौशब्दात्मानौ;नित्यः कार्यश्च। सप्त हस्तासो अस्य, सप्त विभक्तयः। त्रिधा बद्धः, त्रिषु स्थानेषु बद्धः; उरसि कण्ठे शिरसीति। वृषभः,वर्षणात्। रोरवीति, शब्दं करोति;कुत एतत्? रौतिःशब्दकर्मा। महो देवो मर्त्त्यान् आविवेश इति, महान् देवः शब्दः, मर्त्त्यामरणधर्माणो मनुष्याः;तान् आविवेश! महता देवेन साम्यंयथा स्यादित्यध्येयं व्याकरणम्”— इति। नैरुक्तमिति व्याख्यानन्त्विहैवं (१३.१.७.) द्रष्टव्यम्,—“चत्वारि शृङ्गेति वेदा वा एत
उक्तास्त्रयो अस्य पादा इति सवनानि त्रीणि द्वे शीर्षे प्रायणीयोदयनीये सप्त हस्तासः सप्तच्छन्दांसि त्रिधा बद्धस्त्रेधा बद्धोमन्त्रब्राह्मणकल्पेर्वृषभो रोरवीति रोरवणमस्य सवनक्रमेण ऋग्भिर्यजुर्भिः सामभिर्यदेन मृग्भिः; शंसन्ति यजुभिर्यजन्ति सामभिः स्तुवन्तिमहोदेव इत्येष हि महान् देवो यद्यज्ञोमर्त्त्याआविवेशेत्येषहि मनुष्यानाविशति यजनाय”?—इति। यदि हि नामैतस्यातिस्तुतिप्रकरणस्यापि निरुक्तत्वं भगवतः पतञ्जलेरभिमतं स्यात्तर्ह्येतस्य नुमन्त्रस्य नैरुक्तंव्याख्यानमपहाय व्याख्यानान्तरं कथं प्रतिपिपादयिषितं स्थात्?। किञ्चैवमत्रत्रयोदशेऽध्याये (१३. १. ५.) ‘जर्भरी’–इत्यस्य‘भर्त्तारौ’–इति, ‘तुर्फरीतू’–इत्यस्य‘हन्तारौ’–इति चेतदर्थद्वयं द्रष्ट्वापि महाभाष्यकारः कथं ब्रूयात्— “बहवोऽपि हि शब्दा येषामर्था न विज्ञायन्ते ‘जर्भरी’–‘तूर्फरीतू’(२अ० २पा० १आ०)”—इति?अतः स्पष्टमेवाभिगम्यते—नायमध्यायो भगवत्पतञ्जलिना दृष्ट इति। सिद्ध मित्थंद्वादशानामेवाध्यानां यास्कीयनिरुक्तत्वम्, तस्यैव परिशिष्टरूपयोर्द्वयोस्तु महाभाष्यतोऽप्यर्वाचीनत्वमिति शम्॥
———
(७)
अथेदानी मिदमपीह विचार्यमस्ति;—कः कालोऽस्ययास्कस्य? कस्मिन्नुसमये अय मिमां भुव मलञ्चकारेति विवेचयाम इति यावत्।
अहो वत! सम्प्रति हि दोषशून्यः सर्वावयवशो विश्वासयोग्यो
नैकोऽप्यस्मदेतिहासिकग्रन्थो दृश्यते, पुराप्यासीन्नवेति च को वदेत्?
सत्यमेवैतत्, वेदानां मन्त्रभागेष्वपि क्वचित्-क्वचिदितिहासाश्च लक्ष्यन्ते; तथा चोक्तं भगवता यास्केन— “त्रितं कूपेऽवहितमेतत्सूक्तंप्रतिबभौ; तत्र ब्रह्म,—इतिहासमिश्रम्, ऋङ्मिश्रम्,गाथामिश्रं भवति (४. १. ६.)”—इत्यादि। परं प्रायस्तेऽपिप्रायश उपमामूलका रूपकवर्णनामका एव। अत एव अतिष्टन्तीनामिति मन्त्रंव्याख्यन्निन्द्रशत्रुपदनिर्वचनावसरे व्यक्तमाहयास्कः—“इन्द्रशत्रुः; इन्द्रोऽस्य शमयिता वा शातयिता वातस्मादिन्द्रशत्रुः। तत्को वृत्र?—मेघ इति नैरुक्ताः, त्वाष्ट्रोऽसुर इत्यैतिहासिकाः1। अथाञ्च ज्योतिषश्च मिश्रीभावकर्मणो वर्षकर्म जायते, तत्रोपमार्थेन युद्धवर्णा भवन्ति (२. ५. २.)”—इत्यादि।
अथापि यदिदं श्रुयते— “प्रजापतिरात्मनो वपा मुदक्खिदत्(तै०सं० २. १. १.)”—इत्यादि। अत्रापि रूपकार्थाएव कृतामीमांसाभाष्यकृच्छवरस्वाम्यादिभिः। तथाहि— “कथं पुनरनुत्खिन्नायां वपायां ‘प्रजापतिरात्मनो वपा मुदक्खिदत्’— इत्याह?उच्यते,—असद्वृत्तान्तान्वाख्यानम्; स्तुत्यर्थेन प्रशंसाया गम्यमानत्वात् । इहान्वाख्याने वर्त्तमाने द्वयं निष्पद्यते,—यच्च वृत्तान्तज्ञानम्, यच्चकस्मिंश्चित् प्ररोचना द्वेषो वा। तत्र वृत्तान्तान्वाख्यानं न प्रवर्त्तकं चेति प्रयोजनाभावादनर्थकमित्यविवक्षितम्;प्ररोचनया तु प्रवर्त्तते, द्वेषान्निवर्त्तते इति तयोविवक्षा। वृत्तान्तान्वाख्यानेऽपि विधीयमाने आदिमत्ता दोषो वेदस्य प्रसज्येत।कथम्पुनरिदं निरालम्बन मन्वाख्यायते? इति, उच्यते— नित्यः
कश्चिदर्थःप्रजापतिः स्यात्,— वायुः, आकाशः, आदित्यो वा।‘स आत्मानो वपा भुदक्खिदत् (तै० सं० २. १. १.)— इति वृष्टिम्,वायुम्, रश्मिं वा। ‘ता मग्नौ प्रागृह्यात् (तै० स० २. १.१.)!—इति वैद्युते, आर्चिषे, लोकिके वा। ‘ततो अजः(तै०सं० २.१.१.)— इति अन्नम्, वीजम्, विरुत् वा। ‘त मालभ्य(त मुपयुज्य) प्रजाः पशूनाप्नोति (तै०स० २.१.१.)”— इतिगौणाः शब्दाः (मी०भा० २.२.१.)’— इति। तथा चैवमादिभ्योमन्त्रभागीयेतिहासेभ्यः कथङ्कार माप्नुयामैतिहासिकं तथ्यम्।
ब्राह्मणभागेषु च बहव एवेतिहासा उपलभ्यन्त इत्यपि सत्यमेव। तथा चैतरेयके— “प्रजापतिर्वैसोमाय राज्ञे दुहितरंप्रायच्छत सूर्यां सावित्रीम् (४. २.१.)”— इत्यादयः। परमेवमादिषु प्रायोऽधिदैवतार्थाख्यंवैज्ञानिकं तत्त्वमेवावगम्यते; तथैवनैरुक्तादिशासनात्। तथाच—“सूर्या, सूर्यस्य पत्नी; एषैवाभिसृष्टकालतमा”— इत्यादि नैरुक्तं(१२.१.७.) द्रष्टव्यम्। “एषैवउषाः, अभिसृष्टकालतमा यथा यथा सूर्यस्योदयकालं प्रत्यभिसृष्टतमा भवति, गततमा भवति, तथा तथा सैषा उषाः सूर्यासम्पद्यते”— इति तत्र दौर्गीवृत्तिः”। “सविता सुर्यांप्रायच्छत्सोमाय राज्ञे, प्रजापतये वेति च ब्राह्मणम्”—इत्यस्य नैरुक्तवचनस्य (१२. १.८.) व्याख्यानायचोक्तंदुर्गाचार्येण— ‘ज्योत्स्नां सोमाय ददाति; यद्रूक्तम्— ‘आदित्यतोऽस्य दीप्तिर्भवति (निरु० २.२.३.) इति”— इति।
एवमपि मन्त्रब्राह्मणयोर्नास्त्येवैतिहासिकं तथ्यमिति च वक्तुंनशक्नुमः, न चास्माकं तथाभिप्रायः; पर मीदृशगूढतत्त्वागाधसलिलादभिमतैतिहासिकतथ्यरत्नोच्चारस्त्वस्माकमतिदुष्कर एवेत्यैव ब्रूमः।
पुराणादिष्वपीतिहासा विद्यन्तएवेति च सत्यम्; तेषांप्राचीनेतिहासवर्णनपूर्वकधर्मोपदेशायैवोत्पत्तेः। परं तेष्वपि रोचनाद्यर्थान्येव बहून्युपाख्यानानि रूपकात्मकेभ्यो वेदशब्देभ्य एवसङ्गृह्योपवृंहितानि गम्यन्ते; अत एव ततच्छास्त्रं वेदार्थोपवृंहनमित्याख्यायते (महा० भा० १.१. १६४.)। तद्यथा—इन्द्रस्याहल्याहरणोपाख्यानं बहुष्वेव काव्येतिहासपुराणेषु समासतोव्यासतो वा वर्णितं विद्यते, “उदीरय पितरा जार आभगम्(ऋ० स० ७.६. १०. १.)— इति मन्त्रे श्रुतंजारपदमेव तादृशसर्वप्रसिद्धश्च अहल्योपाख्यानस्य मूलम्; न च तस्य मूलान्तरमस्ति तस्यच जारशब्दस्य प्रकृतोऽर्थः खल्वेवं भाषितोयास्केन— “अथाप्युपमार्थेदृश्यते— ‘जार आभगम्” जार इवभगम्। आदित्योऽत्र जार उच्यते;रात्रेर्जरयिता स एव(३.१.४.)— इति। एवञ्चैहैवं गम्यते— ‘जार आभगम्’— इत्येतावदेवालम्ब्येव प्रधमं तावत् ब्राह्मणग्रन्थीयमाख्यान माख्यातम्;—“अयल्यायै जार कौशिक ब्राह्मण गौतम ब्रुवाण (तै०आ० १. १२. ४.)”— इति, “अहल्यायैजारेति (श०ब्रा० ३.३.४.१८.)”— इति च। ततस्तदेव मूलीकृत्यातिवृंहितंवाल्मीकीयरामायणेवालकाण्डेऽष्टाचत्तारिंशोनपञ्चाशत्तमयौःसर्गयोः; तदेव नोपसङ्क्रान्तं क्रमान्महाभारतादिष्वपीतिहासपुराणेषु। अपि भट्टकुमारिलस्वामिना ह्येतस्य ब्राह्मणग्रन्थीयेतिहासस्य प्रदर्शितनैरुक्तानुगतमेव व्याख्यानं स्पष्टमभिहितं मीमांसाभाष्यवार्त्तिके। तथाहि—“समस्ततेजाः परमेश्वरत्वनिमित्तेन्द्रशब्दवाच्याः। सवितैवाहनि लीयमानतया रात्रेरहल्याशब्दवाच्यायाःक्षयात्मकजरणहेतुत्वात् जौर्य्यत्यस्मादनेन वोदितेन वेत्य-
हल्याजार इत्युच्यते; न परस्त्रीव्यभिचारात् (९. १.४१.)”—इति। मीमांसायाः सूत्रभाष्यवार्त्तिकन्यायमालादिषु सर्वत्रैव,सुब्रह्मण्याह्वाननिगदे, हरिवच्छब्दस्यानूहाधिकरणे चान्यान्यप्युदाहृतान्यवगन्तव्यानि (९.१.१५. अधि०)।
एवं बहुष्वेव पुराणादिषु “उषो न जारः (ऋ०स०१. ६९. १; ९; ७. १०.१.)”— इत्येतन्मन्त्रमूलकं प्रजापतेः स्वकन्यानुगमनाख्यानञ्चातिवृंहितं गम्यते; वस्तुतस्तदपि रूपकत्वेनैव व्याख्यातंब्राह्मणे। तथाहि— “प्रजापतिर्वैस्वां दुहितर मभ्यध्यायत्;दिवमित्यन्य आहु रुषस मित्यन्ये (ऐ० ब्रा० ३.३.९.)”—इत्यादि। तत्रैव मीमांसावार्त्तिके अस्याप्यौपचारिकमेव व्याख्यानं कृतं दृश्यते।तथाहि—“प्रजापतिस्तावत् प्रजापालनाधिकारादादित्य एवोच्यते। स चारुणोदयवेलाया मुषस मुद्यन्नभ्येति।सा तदागमनादेवोपजायत इति तद्दुहितृत्वेन व्यपदिश्यते। तस्याञ्चारूणकिरणाख्यवीजनिक्षेपात् स्त्रीपुरुषसंयोगवदुपचारः”— इति।तदेव मस्मदितिहासपुराणादिवचनेभ्योऽपि ऐतिहासिकं तथ्यं कथमुपलभेम?उपलब्धेष्वपि कथं न सन्देहो दुर्वार एव?
किमधिकेन यदि हि नाम यौधिष्ठिराब्दः प्रचलितो न स्यात्,यौधिष्ठिरीयस्तम्भादिकं च न दृश्येत, तर्हि को नाममहाभारतवचनादेव विश्वस्यादासीत् पुरा युधिष्टिरो नाम नृपतिरित्यपि?तत्र यौधिष्टिरीयेतिहासेऽपि अर्जुनस्य स्वर्गीयेन्द्रसभायां गमनादीनि (व० प० ३७—५१ अ०) बहून्येव कविकल्पितानि सन्तीतिधीमत्समाजेषु प्रसिद्धान्येव। भारतीयेतिहासग्रन्थेषु हि महाभारतमेव सर्वप्रधानम्; अत एवोक्तं तत्रैवादिपर्वणि— “महत्वात् भारवत्त्वाच्चमहाभारतमुच्यते (१. १.२७.)”—इति।
तादृशभारतेतिहासस्य च वृंहणकल्पनातिरञ्चनादिदोषदुष्टत्वात् ऐतिहासिकतथ्यान्वेषिणामप्रीतिकरत्वं चेत्, पुराणोपपुराणादीनान्तु कथा दुरपराहता एव।
एवं षड्गुरुशिष्यादयोऽपि टीकाकारा ऐतिहासिकांशेऽलीकवक्तार एव; तेषां हि ग्रन्थकर्तृनामविभ्रमहेतुकं पौर्वापर्यज्ञानविरहत्वं व्यज्यत एव सर्वत्र। तथाच ऋग्वेदसर्वानुक्रमणीवृत्तौ—“शुनकाच्छौनकोऽभवत्। एतत्सूक्तयुतं पश्यत् द्वितीयं मण्डलं पुनः। ०—०। यस्मै व्याचष्टे ०—०उग्रश्रवा व्यासशिष्यः ०—०महाभारतमाख्यानं हरिवंशकथान्वितम्?”—इति। इह हिसूक्तद्रष्टृत्व-मण्डलद्रष्टृत्व-व्यासशिष्योक्तभारत-तत्परिशिष्टश्रोतृत्वानामैकाधिकरण्यं प्रदर्शितम्। पुनरित उत्तरमस्यैव शौनकस्यापरदशग्रन्थकर्तृत्वमप्युल्लिखितम्। तदेतत्सर्वंषड़्गुरुशिष्यकथनमस्मान् श्रवणशूलमिव व्यथयति। कथं हि सम्भाव्यते,—प्रदर्शिताश्वलायनीयगृह्येऋषिनामसु गार्त्समद इति गृहीतनाम्नोमण्डलद्रष्टुःअतिवृद्धस्यानिर्द्दिष्टकालिकस्य शौनकस्य, आचार्यनामसुशौनक इति गृहीतनाम्नः शाखाप्रवक्तुःप्राग्युगीयस्य च शौनकस्य, अद्ययुगीयव्यासशिष्योक्तभारतश्रवणम्? अनतिप्राचीनहरिवंशकथाश्रवणं च?—इति सुधीभिरेवैतदाकल्यताम्। वस्तुतस्त्वैतिहासिकांशे षड़्गुरुशिष्योक्तानि खलु उन्मत्तप्रलपितानीवेत्यत्रनास्त्येव संशयः; तद्विशदयिष्यामश्चोपरिष्टादिहैव। तत्कथमेतादृशोऽपि ग्रन्थःप्रामाण्यपद मारोहेदैतिहासिकतथ्यनिर्णयायेति।
अस्त्येवैको ग्रन्थोराजतरङ्गिणीनामेतिहासेषु प्रसिद्धः, भारतैतिहासिकतत्त्वजिज्ञासूनां किञ्चित् प्रीतिपदश्चेति सत्यम्! परं ततश्च खलु आदिगोनर्द्दप्रभृतीनां काश्मीरेन्द्राणामेव वंशावलिः
ज्ञायते, न त्वन्यत् कि मपि विशेषतः। देशावस्थ्यादिनामेतिहासग्रन्थास्तुआधुनिका अपि समग्रा विशुद्धाश्च नैकोऽप्युपलभ्यन्ते,तदलमिह तत्कथयेति। गुणाढ्यकृतं भूतभाषाख्य-वृहत्कथापुस्तकन्तुसप्तलक्षश्लोकात्मकमित्येव श्रुतम्, न च दष्टमद्यापि, तदलंतददुष्टकथान्दोलनेनापीति।
अनन्तपत्न्याःसूर्यवत्याश्चित्तविनोदनाय सोमदेवभट्टेन सम्पादित कथासरित्सागरस्तुस्त्रीजातिचित्तविनोदायैवालम्, न त्वैतिहासिकतथ्यानुसन्धि सूनां तोषाय; वर महो तदुपन्यासपाठादैतिहासिकानां विमलहृत्सरःस्वपि शैवालचया एव समुत्पद्यन्ते। वस्तुतःतद्ग्रन्थपर्यालोचनयेद मेव प्रतीयते सोमदेवस्य तस्य यथाकथमपि अनन्तपत्नी–चित्तविनोदनमेवउद्देश्यमासीत्; न त्वैतिहासिकतथ्यप्रदर्शनमिति; सति हि तत्र पाणिनिनो न्युनाधिकसहस्राब्दीपरजस्यापि कात्यायनस्य पाणिनिसतीर्थत्वंवक्तुंनोत्सहेतःको हि नामैतिशहासिको वृद्धत्वादिहेतुजवाय्वंशहीनः प्रकृततिस्थोऽपि व्याकरणसूत्रकार-पाणिनेःकालान्तरवीजमूलक-भाषा-व्यवहारान्तरगतपदसंस्कारक-कात्यायनस्य च समकालिकत्वं मन्येत।अस्मन्मते त्वीदृशासत्यैतिहासिकज्ञानविकाशसहायस्योपन्यासग्रन्थस्यइतिहासत्वेन ग्रहणमेव नोचितम्। एवमपि यः किल तारानाश्रतर्कवाचस्पतिर्बह्वन्वेषणसमर्थोऽपि हन्त स्वश्रमकातरतयानायासलब्धमेतत्कथनमेव विश्वस्यैतदेव च भित्तीकृत्य सरलापूर्वपीठिकायां किञ्चिदलेखीत, तादृशाविवादिसाधवेतु वयंबहुदूरत एव शतं नमस्कुर्मः।
तदेव मस्मद्देशीयैतिहासिकतथ्याविष्करणाय वहुकालतो बहुश्रमतश्चबहूनां ग्रन्थानां वरिदर्शनम्, मधुलिड़िव यथालब्धमैति-
हासिकमध्वाहरणम्, ऐतिह्याद्यवलम्बनञ्चेत्थेतानि प्रयोजनीयानि। तथा कृत्वाआविष्कृतेच तथ्येन हि सर्वावयवशो विश्वस्थात्; अपि तुकदाचित् खण्डनीय मपीदं भवेदिति चाशङ्कतैव। एतादृशे च दुष्करे प्रवृत्ता वयमवश्यमेव कृतकृत्याः स्यामेत्यपि दुराशैव; परं प्रवृत्ताश्चेत् कथं निर्व्रीड़ाःप्रतिनिवृत्ताभवेम इत्यालोच्यैवेह यथाज्ञानं किञ्चिद् वदामस्तत्र—
“यदन्यैर्बन्यैर्न क्षुण्णंतत्र सञ्चरतां हि नः।
पदेपदे प्रस्खलतां सन्तः सन्त्ववलम्बनम्”
किञ्च,** **
हैमसड्घातगा ये तु नोपहास्याः स्खलत्स्वपि।
अनन्यगतिकानां हि स्खलनं नोपहस्यते॥
अथ प्रदर्शितेषु अद्यप्रचलितमहाभारतश्लोकेषु निरुक्तकर्तृत्वेनयास्कनाम्नः स्मरणात् तन्महाभारतकारात् प्राचीनोऽयं यास्क इति त्वविचारित मपि वाच्य मेव। स च महाभारताख्य इतिहासग्रन्थःपाणिनिभाष्यकारात् पतञ्जलिमुनेः परभवः स्यात्; पतञ्जलिना हि उदाहृतेष्वपि भारतीयप्रसङ्गेषु अद्यप्रचलितैतन्महाभारतीयवचनान्युद्धृतानि नैव गम्यन्ते, प्रत्युतान्यथैव। तद्यथा— “धर्मेण स्म कुरवो युद्ध्यन्ते (३अ० २पा० २आ०)”—इति। नास्त्येतद्वचनमेतन्महाभारते;अतः सम्भाव्यते पतञ्जलिसमये नासीदेत्तन्महाभारतमपि त्वासीदेतन्मुलरूपो युधिष्ठिरादीतिहासाश्रयः कश्चनापरो महाभारतग्रन्थ इति। किञ्चेह ह्युदाहृतमेतत्— “वृद्धकुमारीवाक्यवदिदं द्रष्टव्यम्। तद्यथा। वृद्धकुमारीन्द्रेणोक्ता वरं बृणीष्वेति। सा वर मवृणीत। ‘पुत्त्रामे मधुक्षीरघृतमोदनं कांश्यपात्र्यां भुञ्जीरन्!”—इति। न च तावदस्याः पतिर्भवति; कुतः पुत्त्राः?कुतो गावः?कुत धान्यम्?तत्रानया
एकेन वाक्येन पतिः पुत्त्रा गावः धान्यमिति सर्वंसङ्गृहीतंभवति (८अ०२पा० १आ०)”— इति। एतद्वृद्धकुमार्य्याख्यानन्तु नैवं विद्यतेऽद्यप्रचलितेऽत्र महाभारते (शा० प० ५२ अ०)। इतोऽपि बुद्ध्यतेऽद्यप्रचलितमहाभारतकारात् पूर्वज एवायं महाभाष्यकारः पतञ्जलिरिति।
निरुक्तकारोऽयं यास्कः खलु पाणिनिव्याकरण-महाभाष्यकारस्य भगवतः पतञ्जलेरप्यतिपूर्वजः। पश्यतु तावत्— निरुक्तेऽत्र अर्थज्ञप्रशंसाप्रकरणे योद्धृता ऋक् उत त्वःपश्यन्निति,महाभाष्येऽप्यर्थज्ञप्रशंसने सैव प्रदर्शिता;निरुक्तकारकृता अर्थाएवतत्रयथावदूद्धृता च (निरु० १. ६. ३.; म० भा०१अ० १पा० १आ०)। किञ्च यत् पठ्यतेऽत्रनिरुक्ते “शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते; ०—० विकार मप्यार्येषु भाषन्ते शव इति। दातिर्लवणार्थेषु प्राच्येषु; दात्र मुदीच्येषु”— इत्येव(२. १. ४.)। पातञ्जले तु एतदेवोद्धृत्य किञ्चित् विस्तृतम्—“शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति; विकार एनभार्याभाषन्ते शव इति। हम्मतिः सुराष्ट्रेषु; रंहतिः प्राच्यमनधेषु; गमि मेव त्वार्याःप्रयुज्यन्ते। दातिर्लवणार्थे प्राच्येषु;दात्र मुदीच्येषु(१अ० १पा० आ)”—इति। अपरञ्च—“तितउ परिपवनं भवति; ततवद्वा, तुन्नपद्वा, तिलमात्रतुन्नमिति वा (४.२. १.)— इति नैरुक्तम्। तदेव तिलमात्रेतिपरिहायेहपातञ्जले सक्तुमिव तितउनेतिमन्त्रव्याख्याने प्रमाणत्वेनोपन्यस्तं गम्यते (१अ० १पा० १आ०)। अपि च तत्रैवसक्तुपदनिर्वचनं सचतेरित्यादि;धीरा इत्यस्य, मनसेत्यस्य, अक्रतइत्यस्य च प्रतिवचनानि ध्यानवन्तः, प्रज्ञानेन, अकृषत इत्यपि
निरुक्तत एव लब्धानि (निरु० ४.२.२.)। अपर मपि—“हंसा हन्तेर्घ्नन्त्वध्वानम् (४. २. ५.)”—इति नैरुक्तम्। एतन्नैरुक्तनिर्वचनबलादेवाह पतञ्जलिः—“कः पुनराह हन्मतेर्हंसइति। किन्तर्हि?हन्तेर्हंसः; इन्त्यध्वानमिति (६अ० १पा२आ०)”—इति। व्याख्यातव्यत्वेन प्रसिद्धग्रन्थनामप्रदर्शनायस्वकण्ठरवेण च भाष्यकारेण निरुक्तनामग्रहणं कृतम्। तथाहि—“शब्दग्रन्थेषु चैषा प्रसृततरा गतिर्भवति निरुक्तंव्याख्यायते इति(४अ०१पा०१आ०)”—इति।
नन्वत्रनिरुक्तमिति शाकपूण्याद्यन्यतमकृतो ग्रन्थो ग्राह्यःस्यादिति चेन्न;शाकपूण्याद्यन्यतमकृतो ग्रन्थः खलु महाभाष्यकालेऽपि स्थित इत्यत्रहि न किञ्चिन्मानं पश्यामः; प्रत्युत लुप्तेष्वेवतादृशग्रन्थेषु नूतनस्यैतस्यनिरुक्तस्यप्रचारसम्भवः; प्रचरितेचैतस्मित् महाभारतेयास्कस्यैव निरुक्तकर्तृत्वेन ग्रहणं सङ्गच्छते।न च महाभाष्य-महाभारतयोः एवं कालान्तरालसम्भवः, यत्र शाकपूण्याद्यन्यतमकृतं निरुक्तं लुप्तम् समुत्पन्नञ्चसुप्रचलितमिद मिति।
कचिदत्राहुः—यास्कीयैतन्निरुक्ते“स्याल आसन्नःसंयोगेनेति नैदानाः”—इत्यस्य, “ऋचा समं मेन इति नैदानाः”—इत्यस्यच (६.२. ६; ७.३.६.) दर्शनात् ज्ञायते सामवेदीयस्यनिदानसूत्रस्ययास्कतोऽपि प्राचीनत्वं निरुक्ततुल्यत्त्वञ्चेति। अपिच सामवेदीये बौधायनीयकल्पद्धतावपि बहुत्र निदाननामश्रवणात् ततोऽपि प्राचीनत्वंतस्यावगम्यते। तथाहि— “निदानकारश्चद्वाविंशत्यक्षरप्रभृतयश्चतुरुत्तरास्त्रयः सप्तवर्गाः०—० परमेष्ठ्यन्तस्येति पथ्यस्येति”—इति। किञ्च तत्रैव किञ्चिदुत्तरम्—
“उक्तंहि निदाने ज्योतिष्टोमं षोडशिनं चाधिकृत्य ‘संस्यामप्यस्यैतां विद्यमानानां मन्ये’—इति”—इति च (१प०)। एवमन्यत्रापि तत्र वहुत्र सर्ववेदाङ्गविषयेष्वेव निदाननामोपलभ्यते। तत्तत्रातिप्राचीनेऽपि निदानसूत्रे देवतनिर्णयविषयेऽपि शाकपूणिनामोल्लेखो विद्यते, परं न तु तत्रापि निरुक्तमित्युक्त्या।तद्यथा— “ऐन्द्र्यःप्राजापत्याः सार्पराज्ञाश्चान्द्रमस्य सौर्य इतिशाकपूणिः (४.९.)”—इति। शाकपूणेर्दैवतप्रत्यक्षकारितां चाहयास्कऽपि। तथाहि—“शाकपूणिः सङकल्पयाञ्चक्रेसर्वादेवताजानामीति। तस्मैदेवतोभयलिङ्गा प्रादुर्बभूव। तां न जज्ञे।तां पप्रच्छ विविदिषाणि त्वेति। साम्नाएता मृच मादिदेशैषा मद्देवतेति (२.२.४.)”— इति। तदेतत् सर्वं समालोच्येद मेवप्रतीतं भवति,—शाकपूणिः खलु यास्काच्चास्मात् वहुपूर्वजोब्राह्मणकाले स्थितोऽनुब्राह्मणविशेषस्य कर्त्तासीत्; तत्रानुब्राह्मणे एव मन्त्रार्थपदनिर्वचनानि देवततत्त्वादीनि चोपदिष्टानि। अतएव निदानसूत्रे क्वचिदनुब्राह्मणग्रन्थनामोल्लेखतया क्वचिच्च शाकपूणिनामोल्लेखतया च प्रमाणं प्रदर्शितम्। तदीयः शाकपू्णिनामोल्लेखस्तु दर्शितः, अनुव्राह्मणनामोल्लेखोऽप्यत्रप्रदर्श्यते।तद्यथा— “कि स्तोमाः? अनुब्राह्मणं, स्युरित्येकविंशस्तोमाः”— इत्यादि (८.३.)। तदेवं प्रदर्शितं महाभारतवचनं शाकपू्णिकृत प्राचीननिरुक्तपरमेव किं न गृह्यत इति। अत्र ब्रूमः,—शाकपूणेर्निर्वचनापरपर्यायनिरुक्तकर्तृत्वेऽपि नपुनर्निरुक्तेत्येवप्रसिद्धग्रन्थविशेषकर्तृत्वमिति व्याख्यातव्यत्वेनप्रसिद्धग्रन्थनामप्रदर्शनाययदुक्तंमहाभाष्यकृता निरुक्तंव्याख्यायत इति तन्नूनं यास्कीयमिदं निरुक्तामभिलक्ष्येवेति।
किञ्चदृष्टं वर मदृष्टत इति न्यायात् कि मदृष्टनिरुक्तकल्पनयेत्यतोस्यैवेहभाष्ये ग्रहणं ज्यायः। अपि च भाष्येऽत्र शाकपूणिकृतस्यैव निरुक्तस्यग्रहणमिष्ट मित्यत्र नास्तिकिञ्चिदपिविनिगमकं मतो यास्कीयनिरुक्तस्यापि बोधेन कथं न भवितव्यमिति। वसुतस्तुअद्यप्रचलिता या मनुसंहिता, एतस्या अपिप्राचीनमिदं निरुक्तम्; पातञ्जलं महाभाष्यं तु एतन्मनुतःपराचीनमिति ध्रुवम्।सत्येव मस्य निरुक्तस्य पातञ्जलादस्मात् अतिप्राचीनत्वे कोऽस्ति शङ्कावसरः।
पश्यतु तावत् पातञ्जले खलु महाभाष्ये— “पूर्ववयसःअप्रत्युत्थाने दोष उक्तः, प्रत्युत्थाने च गुणः। कथम्? ‘ऊर्द्धं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युथ्यानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते’ —इति। स च पूर्ववयोमात्रेप्रसक्तः, अतोऽत्राप्यवयवेन शास्त्रार्थःसम्प्रतीयते (६अ० ५पा० ४आ०)”—इति। तदत्रोद्धृतमूर्द्धंप्राणा इति वचनं तु साम्प्रतं समुसंहितेति प्रसिद्धाया भृगुसंहिताया द्वितीयेऽध्याये (१२०श्लो०) दृश्यतएव। एतावतैव पातञ्जलस्यास्य महाभाष्यस्यैतन्मनुपरजत्वंसुव्यक्तम्।
निरुक्तस्यास्य त्वेतन्मनोश्चपूर्वजत्व मेवानुमीयते। तथाहिउक्तानि ह्येतन्निरिरुक्ते—“पुमान्दायादोअदायादा स्त्री”— इति,“स्त्रीणां दानविक्रयातिसर्गा विद्यन्ते, न पुंसः”— इति , “अभ्रातृका इव योषास्तिष्ठन्ति सन्तानकर्मणे”—इति, “गर्त्तारोहिणीव धनलाभाय”— इति, “नाभ्रात्रीमुपयच्छेत”—इति, च(३. १. ४ ५.६.)। एष्वेकत्राप्यद्यप्रचलितमनुसंहिताया नामोल्लेखोऽपि न कृतः;सति ह्यस्याःसंहिताया निरुक्तपूर्वजत्वेऽवश्यमेवैतन्नामकीर्त्तनादिक मिह श्रूयेतैव। किञ्चाद्यतनीय-मनु-
संहितायान्तु पञ्चैवमहापातका निर्द्दिष्टा दृश्यन्ते। तथाहि—“ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुःसंसर्गश्चापि तैःसह (११अ० ५४श्लो०)”— इति। निरुक्ते तु “सप्त मर्यादाः कवयश्चक्रुःतासामेका मप्यधिगच्छन्नंहस्तान् भवति। स्तेयम्, तल्पारोहणम्, ब्रह्महत्याम् , भ्रूणहत्याम्, सुरापानम् , दुष्कृतस्य कर्मणः पुनः पुनः सेवाम्,पातके नृतोद्यम्इति (६. ५.४.)”— इति सप्त महापातकानि परिगणितानि पठ्यन्ते। तत्र मतुमते भ्रूणहत्याया मुख्यं महापातकत्वं नास्त्येव; नापि त्वातिदेशिकम् (११अ० ५५—५८ श्लो०); परं विहितञ्च तत्र व्रह्महत्याप्रायश्चित्तमेव (११अ० ८७ श्लो०); कुल्लुकमते तु तच्च ‘ब्राह्मणगर्भविषयम्। किञ्चकुल्लूकभट्टकृतं तद्व्याख्यानं सङ्ग्रहकारस्य शूलपाणेरपि सम्मतमेव प्रतीयते। तथाहि—“तत्र पुंस्त्वेन ज्ञाते पुम्बधप्रायश्चित्तं स्त्रीत्वेन ज्ञाते स्त्रीबधप्रायश्चित्तम्, अविज्ञाते तु पुम्बधधप्रायश्चित्तमाह मतुः—‘हत्वागर्भमविज्ञातम् (११.८७.)”— इत्यादिःप्रायश्चित्तविवेकः। अपि चात्र समुसंहितायां दुष्कृतकर्म्मणः पुनः पुनः सेवने पातककार्यप्रवर्त्तने चमहापातकं नस्मर्यते; अपिस्मर्यते च मष्टापातकिसंसर्गकारिणोऽपि महापातकित्वम् (११. ५४.)। तद्यदि हि नाम निरुक्तप्रचारात् पूर्वस्मिन्नपि काले खल्वेषासंहिता प्रचलिता स्यात्तर्हिईदृशविरोधपरिहाराय यास्कस्योष्ठाधरेऽवश्यं मनागपि स्फुरिते दृश्येते एव।
अपरञ्चैतदस्ति निरुक्ते (३. १.४.)–“तदेतदृक्श्लोकाभ्यामभ्युक्तम्—
“अङ्गादङ्गात् सम्भवसिहृदयादधिजायसे।
आत्मा बैपुत्रनामासि स जीव शरदः शतम्”—इति।
“अविशेषेण पुत्राणां दायोभवति धर्मतः।
मिथुनानां विसर्गादौमनुःस्वायम्भुवोऽब्रवीत्”— इति।
अत्र ऋक्पदेन न तु ऋग्वेदीयमन्त्र गृह्यते; नास्त्येव हि तत्र अङ्गादङ्गादिति; अपि तु ऋग्लक्षण एव मन्त्रः; ततश्चशतपथीयायाश्चास्याऋचोऽत्र ग्रहणमिष्टम्; अस्तिचैषा ऋक्शतपथब्राह्मणे (१४. ९. ४. २६.)। अपि चेह श्लोकशब्देनयस्यग्रहणमिष्टम् ‘अविशेषेण’— इत्यादेः, तस्य तु दर्शन मद्यप्रचलितायां मनुसंहितायां नास्त्येव; यास्केन तूक्तं स्पष्टमेव ‘मनुः स्वायम्भुवोऽब्रवीत्’—इति। सोऽयं कोऽसौ मनुरित्यवश्यं विचार्यम्।विचारिते च तथा, इद मेव प्रतीयते,— सम्प्रति येयं मनुसंहितेति प्रचलिता, सा नूनं यास्कीयादेतस्मान्निरुक्तात् परं प्रणीता;अपि त्ववश्य मासीत् पुरातनोऽपरः कश्चन मनुप्रणीतः स्मृतिग्रन्थःसुप्रचलितो यास्ककालेऽपीति। वस्तुतस्त्वियं न मनुप्रणीता;अपि भृगुप्रणीता भृगुसंहितैवेति च प्रमाणयिष्याम उपरिष्टात्।अन्यञ्च— “विद्या ह वैब्राह्मण माजगामः”—इति शाखान्तरगताश्चत्वारोये मन्त्रा निरुक्ते उद्धृताः(२.१.७.), त एवमन्त्राःकिञ्चिन्निवेशपरिहाराभ्यां भाषान्तरीकृता इवाद्यतनीयायां मनुसंहितेतिप्रसिद्धायां स्मृतिसंहितायां च लक्ष्यन्तइत्यपि सुवचम् (२अ० ११३—११६ श्लो०)।अत एवऋग्भाष्यभूमिकायामेव मुक्तं सायणाचार्येण—“विद्याया ग्रहणेऽधिकारिविशेषः शाखान्तरगतैश्चतुर्भिमन्त्रैरुपदर्शितः; तांश्च मन्त्रान् यास्कउदाजहार”— इत्यादि; नचोक्तंतत्र मनुरुदाजहारेति। किञ्चैतस्याः स्मृतिसंहिताया द्वादशेऽध्यायेऽक्षरशोऽप्युक्तंदृश्यते “नैरुक्तः”—इति; ‘निरुक्तज्ञः’— इति च तद्व्याख्यानं कुल्लूककृतम् (१११ श्लो०)।
तदित्थंनिरुक्तमिदं पातञ्जलमहाभाष्यतः प्राचीनं न वेति विचारस्तुदूरे आस्ताम्; ततोऽपि पुरातनात्मनुसंहितेतिप्रथितादद्यप्रचलितसर्वप्रधानस्मृतिसंहिताग्रन्थादपि पूर्वं भगवता यास्केनप्रणीतमिति स्यात् सप्रमाणम्।
एवञ्चास्य यास्कीयस्य निरुक्तस्य प्रणयनकालनिर्णयाय प्रवृत्तानां प्रथमं तावत् पातञ्जलस्य, मनुसंहितेत्यद्यप्रसिद्धस्य ग्रन्थस्यचाविःकालनिर्णय एव कर्त्तव्य इति तत्रतत्रैवादौ यतामहे।
(पतञ्जलिः) राजतरङ्गिण्यामवलोक्यते,—यदा काश्मीरप्रदेशस्य शासनदण्डोऽभिमन्युनामनरपतिकरचालित आसीत्,तदैव चन्द्राचार्यादयः दुलभं पातञ्जलं महाभाष्यमलभन्त,नीतवन्तश्च स्वदेशमिति। तथाहि (रा० त० १.१७६.)—
“चन्द्राचार्यादिभिर्लब्ध्वा देशं तस्मात्तदागमत्।
प्रवर्त्तितं महाभाष्यंस्वञ्च व्याकरणं कृतम्॥— इत्यादि।
विशेषतश्चावगम्यते वाक्यपदीयज्ञापनीपाठात्,—विलोपदशाग्रस्तमेवैकं महाभाष्यपुस्तकं दाक्षिणात्येषु पार्वत्यप्रदेशाल्लब्धम्चन्द्राचार्यादिभिरिति।तथाहि—
“प्रायेण सङ्क्षेपरुचीनल्पविद्यापरिग्रहान।
सम्प्राप्य वैयाकरणान् सङ्ग्रहेऽस्तमुपागते।
कृतेऽथ पतञ्जलिना गुरूणा तीर्थदर्शिना।
सर्वेषां न्यायवीजानां महाभाष्ये निवन्धने।
अलङ्क्यगाधेगाम्भीर्य्यादुत्तान इव सौष्ठवात्।
अस्मिन्नकृतवुद्धीनां नैवावास्थितनिश्चयः।
यः पतञ्जलिशिष्येभ्यो भ्रष्टोव्याकरणागमः।
कालेन दाक्षिणात्येषु ग्रन्थमात्रे व्यवस्थितः।
पर्वतादागमं लब्ध्वा भाष्ववीजानुसारिभिः।
स नीतो बहुशाखत्वं चन्द्राचार्य्यादिभिः पुनः”— इति।
वाक्यपदीयग्रन्थश्चैष कारिकावद्धोमहाभाष्यतात्पर्यज्ञापकः; चन्द्राचार्यात्, आचार्यवसुराताच्च परभवेन भर्तृहरिणा प्रणीतः। एतदीयश्लोका एव ‘हरिकारिकाः’उच्यन्ते। एवञ्चाभिमन्युनरपतेर्जम्नतोऽपि बहुपूर्वं विरचितं महाभाष्यमिति गम्यत एव।
पाश्चात्याः किल बहव एव धीरा अभिमन्युकालसमालोचने प्रवृत्ताः; तत्रविल्फर्डमहोदयेन ४२३ख्री० पू० तद्राज्यान्तो निर्णीतः, प्रिन्सिप्महोदयेन तु ७३ ख्री० पू०तद्राज्यान्तः स्वीकृतः, लासेन्-महोदयेन तु ख्रीष्टीयचत्वारिंशाब्दगते एव तद्राज्यारम्भ इति स्थिरीकृतम्, बोथ्लिड्गमहोदयेन हि ख्रीष्टजन्मतःशतवर्षपूर्व मेवाभिमन्युः काश्मीरसिंहासन मलञ्चकारेत्युक्तम्**2*। तदेतन्मतं (बोथ्लिङ्गीयं) प्रिन्सिप्-मतेनैक्यंगच्छति च;राजतरङ्गिण्यांतद्राज्यकालः पञ्चत्रिंशदब्दमित इत्यभ्युपगमात्। तथाच ७३ ख्री०पू० अभिमन्युराज्यान्त इति स्वीकृते स्वीकृत मेव स्यात् १०८ ख्री० पू० अभिमन्युराज्यारभ्यःप्रिन्सिप्महोदयस्यापि। तदेतदैक्यं गतं मतद्वयंमेवावलम्बनीय मिह विभ्रमगतानामस्माक मित्यतः ख्रीष्टजन्मतोऽप्यष्टाधिकशतवर्षपूर्बमपि स्थितं महाभाष्यमिति लब्धम्।
ततः पूर्वप्रदर्शितवाक्यपदीयवचनालोचनादिदमपि प्रतीयत एव तदानींखल्विदं पुनरुद्धृतमिति। तथाचेदं विचार्यं सम्पन्नम्,—एतादृशो महान् ग्रन्थःकियत्सु कालेषु प्रचरद्रूपःसमभवत्?—ततः क्रमात् कियत्सु च कालेषु लुप्तदशां गतः?
इति। एष महाभाष्यकारस्तुगोनर्द्ददेशीयः। तथाह्याह स स्वयमेव परोक्षवृत्त्वा— “गोनर्द्दीयस्त्वाह”—इत्येवमादि (पा० १. १.२१.); व्याख्यातञ्च तत् तट्टीकाकृता कैयटेन— “भाष्यकारस्त्वाह”—इति; कैयटटीकाकृन्नागेशोऽपि तथैव व्याचष्टे— “गोनर्द्दीयपदंव्याचष्टे भाष्यकार इति”—इति। गोनर्द्ददेशवासित्वादेव च पतञ्जलेर्गोनर्द्दीयत्वं स्पष्टम्। स एवगोनर्द्ददेशःसम्प्रति“गोण्डा”— इति प्रसिद्धोऽयोध्याप्रदेशीय इति निर्णीतञ्चास्मद्देशीयाध्यापकविशेषेण रामकृष्णगोपालभण्डारकेण3। एष एव“गोण्डा” गोनर्द्दो भवतु मा भूद् वा, गोनर्द्दस्तु प्रागदेशविशेषस्तत्रनास्त्वेव संशयः; काशिकायाम्—“एङ्प्राचां देशे” (पा १,१, ७५)”— इत्यस्योदाहरणेषु ‘गोनर्द्दीयः’— इतिपदस्यापि दर्शनात्। तदानीं च नासन् खल्विदानीन्तना इव लौहवर्त्मगाअपि धूमयानशकटाः, आमंश्च प्रायः प्रतिनगरान्तेषु दुर्लङ्घ्याःकान्ताराश्च, प्रसङ्गतस्तदप्युक्तंमहाभाष्ये“कश्चित् कान्तारेसमुपस्थिते सार्थमुपादत्ते, स यदा निष्कान्तारीभूतो भवतितदा सार्थंजहाति (१अ २पा० ९आ०)”— इति। प्रदर्शितवाक्यपदीयवचनात्त्ववगम्यत एवैतत्,— चन्द्राचार्यादिभिर्दाक्षिणात्येष्वेकमेव लुप्तावशिष्टंमहाभाष्यपुस्तकमवाप्तमिति।तदद्य विचार्यतां तावत् धीमद्भिः,—तदानींखलु प्राच्यदेशतोदाक्षिणात्यं यावत् भाष्यप्रचलनाय कत्यब्दाःप्रयोजनीयाः भञ्जाताः?कतिष्वब्देषु च तत् प्रचरद्रूपं स्थितम्?कियद्भिश्च कालैःपुनर्लोपदशां गत मलाभि च चन्द्राचार्यादिभिरिति।
अस्मन्मतेत्वभिमन्युराज्यकालतोऽन्युनसार्द्धद्विशतवर्षपूर्वं प्रणीतमेतन्महाभाष्यम्; अन्तरेण हिसार्द्धद्विशताब्दकाल मेतादृशस्यमहतो ग्रन्थस्य आर्यावर्त्तीयप्राच्यदेशाद्दाक्षिणात्यं यावत् प्रचारोलुप्तप्रायता च न सम्भवेदिति। एवञ्च महाप्रभावः खल्वालेग्जण्डारोदिग्विजयाय यदेदं भारतं प्रविष्टः (३२७ ख्री० पू०),तत्पुर्वमेव प्रणीतं महाभाष्य मिति।अत एव दिग्विजयिनातेन ग्रीक्-नृपतिना कृतः साङ्कलनगरध्वंसो नावगतो महाभाष्यकारस्यैतस्य पतञ्जलेः। सति ह्यवगते “सङ्कलादिभ्यश्च (पा०४. २. ७५.)”— इति सूत्रेऽवश्यमेवोच्येत ‘सङ्कलेन निर्वृत्तः साङ्कलोजनपद इदानीं ध्वस्तः”—इति; कस्यहि नाम ग्रन्थकारस्यशताब्दवृत्तं किञ्चिदधिकशताब्दवृत्तं वा जनपदध्वंसनविवरणमपि न श्रुतं स्यात्? नापि स्मृतिपथ मारोहेत्? अथवा सङ्कलेननिर्वृत्तःसाङ्कलो जनपदः क्वासीदित्येव मप्याशङ्केतैव।
यद्युच्येत इरावत्याः पश्चिमोपतटस्थितं शाकलमेव नगरमासीत् पुरा साङ्कलमितिप्रसिद्धम्, तदेव ग्रीक्नृपतिना विध्वस्तमपि पुनः कालात् प्रादुर्भूतं, चैनिकपरिव्राजकेन होयेन्थसाड्गेनापि (६२९–६४५ ख्री०पु०) दृष्टमितिहोयेन्थसाङ्गतोबहुपूर्वजस्य भाष्यकारस्य न तत्र ध्वंसनकथनावसरो नापि सन्देहावसर इति। तत्रब्रूमः,—शाकलसाङ्कलयोरुभयोरेव पाणिनीयेप्रस्थाने पृथक्तेनावस्थानात् नैवास्ति तादृशकथनावसरः। किञ्चतेन हिद्विग्विजयिना इरावतींसमुत्तीर्य्यैव इरावतीपूर्वोपतटस्थमराजकप्रायं साङ्कलं विध्वस्तमित्येवमेवैतिहासिकम्4; चैनिक-
परिव्राजकस्य होयेन्थसाङ्गस्य निर्द्देशतस्त्ववगम्यते तत्तीर्थयात्राकालेशाकलं नाम नगरं त्विरावत्याः पश्चिमोपतटे एव स्थित मिति।तथाच नामभेदात् संस्थानभेदाच्चानयोःपार्थक्यंसुव्यज्यत एवं। तदिहावश्यमेवं स्वीकार्यम्,—पाणिनिकाले योऽसौ साङ्कलोनामासीत् कश्चन महाजनपदः पूर्वोपतटस्थ एवेरावत्याः, स एवकालात् श्रीभ्रष्टः श्रीमता दिग्वजयिना तेन ध्वस्तश्च; शाकलमिति तु तस्माद् विभिन्नमेव स्थान मिरावत्याः पश्चिमोपतटेचिरात् स्थितम्, तदेव दृष्ट्वायथावद् वर्णितं तीर्थयात्रागतेन तेनचैनिकपरिब्राजकेनेति। अपि तेन हि चैनिकपरिब्राजकेन यस्यशाकलस्य नगरत्वं वर्णितम्, तस्यैव “शाकलं नाम वाहीकग्रामः(४अ० २पा०२आ०)”— इति ग्रामत्वेन व्यपदेशो लक्ष्यते महाभाष्ये; ततश्च ज्ञायते,—इह चैनिकपरिव्राजकागमनसमये तस्यस्थितं नगरत्वम्, ततः पुरा भाष्यकारसमये तु ग्रामत्वमेवासीत्तस्येति; ग्राम एवहि नगरत्व माप्नुं युज्यत एव क्रमोन्नत्येति। एवञ्चेह चैनिकपरिव्राजकागमनात् बहुपूर्वम्, तस्य हि ग्रीक्-नरपतेर्विजयागमनाच्च पूर्वमेव सुतरां ख्रीष्टजन्मतःसार्द्धत्रिशतवर्षतोऽपि प्राक् प्रणीतं पातञ्जलं महाभाष्यमिति चावगम्यते।
अन्यच्च। आसन् पुरा केचन मालवाः क्षुदकाश्च(‘माली’,“अक्षिद्रक’) पार्वत्या आयुधजीविनः; दिग्विजयायागतेन हि तन्ग्रीक्नरपतिना प्रायो निर्मुलिता एव त इति च प्रवदन्त्येवैतिहासिकाः4; परं पातञ्जले तु महाभाष्ये असकृदुक्तं श्रूयते—“एकाकिभिः क्षुद्रकैःजितम् (१अ० १पा० ५आ०; ५अ०
३पा० १अ०)”— इति। तदेतद् विचारयन्तु धीमन्तः,—यदि हि नाम भाष्यकृज्जन्मतः पुरैव मालव्यक्षुद्रकजातयो दिग्विजयिना तेनालेग्जण्डरेण विजिता विनष्टाश्च स्युस्तर्हितेषां विजयित्वोल्लेखस्तु दूरे आस्तामस्तित्वोल्लेख एव कथङ्कारद्कृतः स्यादिति? तदेतदपि मान मिहालेग्जण्डरागमनादपि प्राक्तनत्वेऽस्य भाष्यकारस्येति।
कियत्कालकृतं तत् प्राक्तनत्वम्? अत्रब्रूमः,—अस्तीहपातञ्जले महाभाष्ये पाटलीपुत्रनामकीर्त्तन मनेकत्रैव। तथाहि— “साङ्काश्यकेभ्यः पाटलीपुत्रका आढ्यतराः(१अ० ३पा०१आ०)”— इति, पुनस्तथैव “साङ्काश्यकेभ्यः पाटलीपुत्रका अभिरूपतराः (१अ० ४पा० ३आ०)”—इति च; एवमादयो द्रष्टव्याः।महावंशनामकस्य बौद्धग्रन्थस्य द्वितीयपरिच्छेदपर्यालोचनयैतच्चस्थिरीभूतम्,—बौद्धधर्म्मस्य सुप्रचारकः शाक्यमुनिः खल्वजातशत्रोःराज्याभिषेकादतीतेऽष्टमे वर्षे (ख्री०पू० ५४३) निर्वाणं गतइति5। तस्यैवाजातशत्रोः पुत्रःपौत्रो वाभूत् उदयाश्वइतिप्रसिद्धः। तेनैवोदयाश्वेन पाटलीपुत्रंनाम नगरं निर्म्मापितमितिच वायुपुराणादिभ्योऽवगम्यते। तथाहि—
“स वैपुरवरं राजा, पृथिव्यां कुसुमाह्वयम्।
गङ्गाया दक्षिणेकोणे चतुर्थेऽब्देकरिष्यतिः”—इति6।
त्रिकाण्डकोषहेमचन्द्रीयाभिधानादिभ्यश्चावगतम्,—पुष्पपुरंकुसुमपुरञ्च तस्यैव नगरस्य नामद्वयमिति। तदेवं शाक्यबुद्धनिर्वा-
णतोन्यूनपञ्चाशद्वर्षानन्तरमेव प्रादुर्भूतं पाटलीपुत्रंनाम समृद्धंनगरमिति च वक्तुंशक्यते; महाभाष्यं तु तत उत्तरं प्रणीतमिति।
किञ्चास्य पतञ्जलेः शाक्यबुद्धपरभवत्वनिर्णयेऽपरश्च हेतुरयम्;अस्ति सूत्रम् “इतराभ्योऽपि दृश्यन्ते (पा० ५. ३. १४.)— इति,अनेन च तसिलादयो विधीयन्ते; ते खलु भाष्यकृता भवदादिभिर्योगे एवेष्टाः; भवदादिषु च ‘देवानाम्प्रियः”— इत्येतदपिसमस्तं पदं पठितम्।दृश्यते च बौद्धग्रन्थे बौद्धानां देवानाम्प्रियः’—इति प्रशंसाख्यानम्। अतो ज्ञायत एवास्य भाष्यकारस्य शाक्यबुद्धजन्मपरभवत्वम्। तथैवास्ति ‘षष्ठ्याआक्रोशे(६. ३. २१.)”—इतिपाणिनिसूत्रम्। अत्र च सन्तिकात्यायनकृतानि कतिचिद् वार्त्तिकानि; तेषु चैकम् “देवानाम्प्रिय इति च मूर्खे”—इति। भाष्यकारस्तुतत्र‘मूर्खे’— इत्यंशं परित्यज्यैवाब्रवीत्‘देवानाम्प्रिय इति चोपख्यानं कर्त्तव्यम्”— इति। तथाचेद मपि सुव्यक्तम,—कात्यायनकाले मूर्खाभिधान मेवासीत् देवानाम्प्रियइति; ततोऽतीते बहुदिने बौद्धमान्याभिधानमभूसत्तदेव; तत्कालज एवैष पतञ्जलिः सामयिकव्यवहारानुरोधत एव विससर्जततो वार्त्तिकात् ‘मूर्खे’— इति। वस्तुतोयथेह भारते महम्मदीयराज्यस्थापनात् प्रागप्यपरदेशे हिन्दुरिति व्यवहार आसीदेवअधार्मिकेषु; तत उत्तरं सैव समाख्या तदाक्रोशकृतोपचरितैवास्मासुच; ततो वयमपि “हीनञ्च दुषयत्यस्मात् हिन्दुः”—इति (मेरुतन्त्रे)व्युत्पादनमभिमत्यात्मनो हिन्दुनामकथनेऽपि गौरव मेव मन्यामहे; तथैव पुरा खलु पाणिनिकाले ‘देवानां प्रियः’— इति पदद्वयमसमस्त मेवासीद् व्यवहार्यम्; एतेन चासमस्तपदद्वयेन यज्ञीयपशोरेव बोधश्च भवति स्म; तत उत्तरं कात्यायनकाले मुर्खे
एव तत् समस्त मेकपदीभूतं पशुतुल्यताव्यञ्जकंव्यपदिष्टम्; ततोऽनन्तरं बौद्धानां मूर्खत्व मेवाभिमन्वानैरार्यैःप्रयुक्तं तत् तेषु; काले तदेव पदं प्रशंसावचनमिति कृत्वा गृहीतं स्वस्वनामसु तैर्बैद्धैरिति तदानीं तात्कालिकव्यवहारानुरोधत एव परित्यक्तोवार्त्तिकीयो ‘मूर्खे’– इत्यंशो भाष्यकृतेति। एतावता तु सामान्यतः ख्रीष्टजन्मतः सार्द्धत्रिशतवर्षपूर्वम्, शाक्यबुद्धनिर्वाणतश्चान्यूनपञ्चाशद्वर्षोत्तरम् (ख्री० पू० ३५०—५००) प्रणीत मेतत् पातञ्जलं महाभाष्य मित्युपलभ्यते।
परन्त्वत्रापि किञ्चिद् विशेषोऽस्ति विवेच्यम्। महावंशनामबौद्धग्रन्थेत्वेतदपि लिखितमस्ति,—जीवत्येव शाक्यमुनौशोणतीरे पाटलीनामग्रामे अजातशत्रोआज्ञयादुर्गस्यैकस्य निर्म्माण मारब्धम्, तद् दृष्ट्वा कथिता चैषा भविष्यद्वाणीतेनैव शाक्यमुनिना,—“काले एतदेव भविष्यति प्रधानं नगरम्”— इति। तथाच स एव ग्रामो नगरत्वमुपगतइति प्रथमं तावत् शोणतीरस्थंशोणसङ्गमस्थवासीत् पाटलीपुत्रम्; ततः पश्चात् कालचक्रपरिभ्रमणवशात् गङ्गातटे परिशोभित मित्यनुमीयतेऽस्माभिः। यदा तु गङ्गातीरे, तदैवाभूद् वायुपुराणम् (६९पृ० द्र०); तात्कालिकमेव च वर्णनं लक्ष्यते चन्द्रगुप्तसमसामयिकेमुद्राराक्षसे,—“स्वयमेव सुगाङ्गप्रासादशिखरगतेन देवेनावलोकित मप्रवृत्तकौमुदीमहोत्सवं कुसुमपुरम् (३अ०)”— इति। गङ्गातीरस्थमेव तत् पाटलीपुत्रंत्वद्यापि दृश्यते।हितोपदेशादिषु अनतिप्राचीनतमग्रन्थेषुप्रायस्तथैव वर्ण्यते च—“अस्ति भागीरथीतीरे पाटलीपुत्रंनामधेयं नगरम्”— इत्यादि। परं यदा तु शोणतीरे, शोणगङ्गामङ्गमोपतटे वा स्थितम् पाटलीपुत्रम्, तदैव जातोऽयं
गोनर्द्देपतञ्जलिः; अत एव भाषित मत्र महाभाष्ये “अनुशोणंपाटलीपुत्रम् (२ आ० १ पा० २ आ०)”—इति; न त्वनुगङ्गम्। ततश्च वायुपुराणमुद्राराक्षसादिवर्णितपाटलीपुत्त्रात् प्राचीनम्महाभाष्यीयं पाटलीपुत्त्रमिति स्पष्टम्। तदेवंपाटलीपुत्त्रस्यादिमावस्थायामेवेदं भाष्यंप्रणीतमिति यस्यामेव शताब्द्यांशाक्यबुद्धोनिर्वाणं गतः, तच्छताब्द्या मेबैषपतञ्जलिः सञ्जातइत्यपि वक्तुंशक्नुयामैव।
वस्तुतोऽयं भाष्यकारः, शाक्यमुनेर्बुद्धात् न बह्वर्वाचीनः;जीवति हि पतञ्जलौनाभवत् शाक्यमतप्रचारः समन्तात्; सुप्रचरितेहि तत्र बौद्धसम्मतो निर्वाणार्थोऽपि कथं न ज्ञात आसीत् पतञ्जलेः? ज्ञाते च तत्र, “निर्वाणोऽवाते ( पा० ८. २. ५०.)”— इति सूत्रभाष्ये तद्विषयकविचारोऽपि कथं नाकारि तेन?सति हि तदानीं शाक्यमतप्रचारप्रावल्येऽवश्यमेव तत्र तद्विषयकोऽपि विचारो लोक्येतैव। तादृशप्राबल्याभावस्य चाल्पदिनप्रसरतैव निदानमनुमीयते। तदेवं कालाशोककृतात् द्वितीयमहासङ्गमात् पुरैवेदं महाभाष्यं प्रकाशित मित्यप्युक्तं न दोषाय।स च बौद्धानां द्वितीय-महासङ्गमोनूनं ख्रीष्टजन्मतः चतुःशताब्द्या अपि प्रागभूदिति च महावंशग्रन्थीयद्वादशपरिच्छेदालोचनात्निर्णीतमेव। सिद्धमित्थंख्रीष्टजन्मतोऽन्यूनसार्द्धचतुःशताब्दीपूर्वम् (४५० ख्री० पू०) कलेश्च सप्तविंशशताब्द्यांप्रणीतमिदंपातञ्जलं महाभाष्यमिति॥
अथये चात्र वादिनो विप्रवदन्ते, तानपीहकिञ्चित् प्रतिबोधयामः स्वोपलब्ध्यनुसारतः; न चेहास्माकं हठकारिता जिगीषा वा।
अत्र केचिदाहुः।—(क) “सभाराजाऽमनुष्यपूर्वा(पा०२. ४. १३)”— इति– सूत्रीयभाष्ये “तद्विशेषणानाञ्च न भवति।पुष्यमित्रसभा; चन्द्रगुप्तसभा”— इत्युक्तंयतो लभ्यते, ततो गम्यतएवैतत्,—मगधराजविशेषः पुष्पमित्रः, तद्वहुपूर्वभवश्चन्द्रगुप्तश्चेत्येतावपि राजानौ पतञ्जलेर्विज्ञातावेवेति तदेतस्य चन्द्रगुप्तपरभवत्वविचारस्तुदूरेआस्ताम्, तद्वहुपरजात् पुष्यमित्रादप्यवरजत्वं सम्पद्यत एवेति। अत्रवदामः;— पुष्पमित्रराज्यन्तु(ख्री०पुु०१७८—१४२) द्विचत्वारिंशदधिकशतवर्षपूर्वं वृत्तंख्रीष्टजन्मत इति तैरेव निरूपितम्*7; अभिमन्युराजाज्ञयैव लोपदशाग्रस्त भाष्यं पुनरुज्जीवितं चन्द्राचार्यादिभिरिति च सर्ववादिसम्मतम्; तस्याभिमन्योः राज्यकालश्च ख्रीष्टजन्मतो-ऽष्टाधिकशतवर्षपुर्वमित्यपि बोथ्लिङ्गादिसम्मत्या निरूपितमेव (६५ पृ०)।तत् कथयन्तु भवन्त एव,—न्यूनाधिकचतुस्त्रिंशदव्देष्वेव किमेतादृशस्य महाग्रन्थस्य तदानीन्तनीयेकान्तारपूर्णेभारतेआर्यावर्त्तीयप्रदेशात् दाक्षिणात्यंयावत् सुप्रचलनं कालाल्लोपदशाग्रस्तत्वञ्ज सम्भवेत्किमु? येषां सम्भवेत् सम्भवतु नाम! अस्माकन्तु नायं विश्वासविषयः। अस्मन्मते तु चन्द्रगुप्तः पुष्पमित्रश्चेमावुभावेव तादृशनामराजानौभाष्यकारेण कल्पितौ; सन्त्येवैवं हिदेवदत्तयज्ञदत्तविष्णुमित्रादयो बह्व्य एव व्यक्तयो वैयाकरणादिभिःकल्पिताः। महाभाष्ये दृष्ट्वेव च तथाविधं नामकरणं स्वस्वपुत्रस्यकृतं तदुत्तरं तत्तत्पित्रेति च सम्भवपरमेव। अन्यथा हि ‘चन्द्रगुप्तसभा’— इति प्रथमं प्रत्युदाहृत्यैव तत उच्येत पुष्पमित्रसमेति,
तयोस्तथैवपौर्वापर्य्यात्*8; न हि प्रसिद्धपौर्वापर्यक्रमोल्लङ्घनमुचितंतादृशस्याशेषशेमुषीसम्पन्नस्यमहाभाष्यकारस्येति। किञ्च चन्द्रगुप्तकाले तु पाटलीपुत्रंनगर मनुगङ्गमेव वर्णितं मुद्राराक्षसादौ(७२ पृ०), ततोऽद्यापि तथैव; तदद्य विचार्यता मिदमपि,— “यदि नाम चन्द्रगुप्तराज्यकाले पुष्पमित्राराज्यकाले वा महाभाष्यं प्रणीतं स्यात्, तर्हि कथन्नाम तत्र “अनुशोणं पाटलीपुत्रम्”— इति (७२ पृ०) भाष्येतेति? अस्मन्मते तु चन्द्रगुप्तराज्यकालात्पूर्बन्त्वासीदेव पाटलीपुत्र मनुशोण मित्युक्तमतो युक्ततरंचैतत चन्द्रगुप्तादपि प्राचीनत्वंभगवतः पतञ्जलेःकिमु पुष्पमित्रादिति।
(ख) यदप्युच्यते “वर्त्तमाने लट् (पा० ३.२. १२३.)”—इति—सूत्रीयभाष्ये “इह पुष्पमित्रं याजयामः”— इत्युत्तमपुरुषप्रयोगात् पतञ्जलेः पुष्पमित्रार्त्विज्यमपि स्फुटम्, तदलं तत्कालिकत्वातत्कालिकत्वविचारेणेतीति। तदपि न विचारसहम्। यद्येवमुत्तमप्रयोगदर्शनादेव तस्य याजकत्वमङ्गीक्रियेत, तर्हितत्रैव‘इह वसामः’— इति प्रयोगदर्शनात् तस्य पाटलीपुत्रवासित्व मप्यङ्गीकरणीयं भवेत्। न च पुष्पमित्रयामानुरोधेनैव तदानीं तस्यतत्र वासश्चासीदेवेतीष्ट मेवेति वाच्यम्; सति हि तस्य तादृशवक्तव्याभिमतेतिष्ठाम इत्येवमेव क्रिया प्रयुज्येत, न तु वसामइति; गोनर्द्दवासित्वात्तस्य।किञ्च तत्रैव “इहाधीमहे”— इत्यप्युक्तमस्ति; तत् किं तदानीमपि पतञ्जलिःतत्रपाटलीपुत्रेऽध्ययनार्थस्थितः? गुरुमुखादर्थग्रहणमेव ह्यध्ययन मार्याचार्यसम्मतम्;
तत् तदानीं तत्र पतञ्जलेर्न कथमपि सम्भाव्यते केनचिदपि;तथाचावश्यमेव वक्तव्यम्,—एवमादिषूत्तमवदप्रयोगदर्शनं न तु पतञ्जलेः स्वस्य तद्व्यापाराश्रयत्वं गमयति; अपि तु वैयाकरणानामुदाहरणप्रत्युदारणप्रदर्शनायैवं प्रयोगास्त्ववश्यमेव कल्पनीयाःसदैवेति। तदेवं यथैवोक्तम् “इहवसामः”—इति, यथैव च“इह अधीमहे”—इति, तथैव “इहपुष्पमित्रंयाजयामः”— इतिच;न च तेभ्यः कि मप्यैतिशासिकं तथ्यं लभ्यमस्ति। वस्तुतःपाटलीपुत्रःपतञ्जलिना दृष्ट इति तु खलु वक्तुंशक्यते, परं पाटलीपुत्त्रस्थएवेदं भाष्यं व्यरचयदिति तु न कदापि वक्तुं युज्यते। अथैतच्च भाषितं तेनैव—“यया देवदत्त इह भूत्वा पाटलीपुत्रेभवति, सा नुनं क्रिया (१अ० ३पा० १आ०)”— इति,पुनस्तत्रैव किञ्चिदग्रे— “स इहस्थः पाटलीपुत्रस्थं देवदत्तमुपदिशति,— अङ्गदीकुण्डलीव्यूढ़ोरस्को वृत्तवाहुर्लोहिताक्षस्तङ्गनासिको विचित्राभरण ईदृशो देवदत्त इति (१अ३पा० १आ०)”— इति च;एवमादिप्रयोगदर्शनाच्च कः खलु प्रज्ञावान् मनसापिशङ्कितुंसमर्थःपाटलीपुत्रगरे स्थित एव पतञ्जलिः प्रणिनायैतद्भाष्यमिति। किञ्च प्रदर्शितयोरुदाहरणयोर्यथा किल देवदत्तोभाष्यकृत्कल्पित एव जनः, ततः प्रख्याताश्चाद्यापि दृश्यन्त एवबहवो देवदत्ताःयथा च “पश्यदेवदत्त कष्टंश्रितो विष्णुमित्रे गुरुकुलम् (२अ० १पा० १आ०)” इत्यत्रच देवदत्त—विष्णुमित्रौ कल्पितौ, तथैव तत्र पुष्पमित्र-चन्द्रगुप्तावित्यपीत्यत्रचनास्येव सन्देहलेशोऽपीति।
प्रतिपादितञ्च पुरस्तात्,—अद्यप्रचलितमहाभारतात् पूर्वजत्वंत्वेतन्महाभाष्यस्य(५८ पृ०); तस्माच्चैतस्य ख्रीष्टजन्मतो द्विशता-
व्दीपूर्वोद्भुतत्वन्तु पाश्चात्यैरपि स्वीकार्य्यम्; महाभारतस्यास्यहि ख्रीष्टजन्मतो द्विशताब्दीपुर्वप्रणीतत्वे सर्वेषामेव तेषां मतैक्यात्*9। पुष्पमित्रस्य राज्यारम्भकालस्तुतैःख्रीष्टजन्मतःशताब्दीपूर्वमित्येव निर्णीतम्;तथाचस्वकृतसिद्धान्तव्याकोपभियापि तेषां स्वीकार्यमेवास्य पतञ्जलेःतत्पुष्पमित्रतोऽतिपुर्वजत्वम्,तथा तादृशोदाहरणे श्रुतस्य तस्य कल्पितव्यक्तित्वञ्च। स्वीकृते त्वेवंतत्तुल्यतया ‘चन्द्रगुप्तसभा’— इत्यत्र चोदाहरणे चन्द्रगुप्तेत्याख्यव्यक्तेरपिभाष्यकृत्स्वकपोलकल्पितत्वंसुवच मेवेत्यल मतिजल्पनेनेति।
(ग) अस्ति चैकंसूत्रम्— “अनद्यने लङ्(पा० ३.२. १११.)”—इति। तद्भाष्ये च वार्त्तिकोदाहरणतया द्वेवाक्येऽवलोक्येते,—“अरुणद् यवनः साकेतम्, अरुणद् यवनो माध्यमिकान्”—इति। अत्र कश्चित् धीमान् माध्यमिकानिति नागार्ज्जुनमतानुगतबौद्धसम्प्रदायविशेषस्थितानेव मत्वा पतञ्जलिकालनिर्णये यतितवान्, तदपि भ्रमसङ्कुल मिवैवाभाति; राजतरङ्गिणी-पर्यालोचनया हि स्फूटमेवावगम्यते नागार्जुनोऽसावभिमन्युसमकालिक एवेति। तथाहि (१. १७४–१७८.)—
“अथनिष्कण्टको राजा कण्टकौत्साग्रहारदः।
आवीर्बभूवाभिमन्युः शतमन्युरिवापरः।
स्वनामाङ्कशशाङ्काङ्कशेखरंविरचय्य सः।
परार्द्ध्यविभवं श्रीमानभिमन्युपुरंव्यधात्।
चन्द्राचार्यादिभिः ०—० व्याकरणं कृतम्।
तस्मिन्नवसरे वौद्धादेशे प्रबलतां ययुः।
नागार्जुनेन सुधिया बोधिसत्त्वेन पालिताः।
ते वादिनः पराजित्य वादेन निखिलान् बुधान्।
क्रियां नीलपुराणोक्ता मच्छिन्दन्नागमद्विषः”—इति।
अभिमन्युसमये एव च चन्द्राचार्यादिभिर्बह्वन्वेषणतो ह्येकं महाभाष्यपुस्तकंदाक्षिणात्यादानीतमिति तु सर्ववादिसम्मत मवेत्युक्तम् (६४ पृ०)। तत्कथ मभिमन्युतो बह्वग्रजस्य पतञ्जलेःकिलाभिमन्युसमकालोत्पन्नमाध्यमिकज्ञानसम्भवोयतश्च तादृशानां माध्यमिकाना मवरोधदर्शनमपि तस्य सम्माव्येत नामेतिसुधीभिरेव विभाव्यताम्।
अस्मन्मते त्विह भाष्ये माध्यमिकशब्दात् मध्यदेशप्रभवा एवग्रहणीयाः। मध्यदेशस्तुमन्वादौ परिभाषित एव,—
“हिभवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि।
प्रत्यगेवप्रयागाच्च मध्यदेशः प्रकीर्त्तितः (२.२१.)”—इति।
पातञ्जलेश्चैतन्मनूत्तरभवत्वं पुर एव प्रतिपादितम् (६१ पृ०); तथाचेतन्मनूक्तमध्यमदेभवानामेव माध्यमिकत्वं तदभिमतंसम्भाव्यते। वृहत्संहितायाः समालोचनाच्च मध्यदेशजनामपरतयापि भवन्ति माध्यमिका इति बुद्ध्यते।तथाहि—
“भद्रारिमेदमाण्डव्यसाल्वनीपोज्जिहानसङ्ख्याताः।
मरुवत्सघोषयामुनसारस्वतमाध्यमिकाः (१४. २.)”–इति।
वस्तुतो यवनाकरोधानुसारत एवभाष्यकालनिर्णयस्तु सर्वथा असम्भव एव; भारते हि चिरादेव विद्यन्ते यवनोत्पाताः। महाभारतपाठादवगम्यत एवयौधिष्ठिरीयेऽपि काले क्वचित्क्वचित् यवनप्राबल्यसंवादः, हरिवंशपाठात् जरासिन्धुकालेऽपियवनराजस्य कालयवनाभिधस्यातिबलत्वं विज्ञायत एव(हरि०बि०प०१०९—११४ अ०)। एव मन्यत्रान्यत्रापि भारते यवनो-
त्पातवृत्तान्ता बहव एव वर्णिता दृश्यन्ते; तत ग्रीक्भूपत्यादीनामपीह पदार्पण मसकृदेवाभूत्। तदेवं यवनावरोधानुसारतोभाष्यरचनाकालनिर्णये प्रवर्त्तनं नूनंदैवविड़म्बनमिति न तदालोचनेऽप्यस्मन्मतिः प्रसरतीति दिक्।
(घ) यश्च कश्चित् “तथा च सूत्र्यते हि भगवता पिङ्गलेनपाणिन्यनुजेन”— इति षड्गुरुशिष्योक्तं दृष्ट्वैव पाणिनिसमकालिकत्वं पतञ्चलेः स्वीकर्त्तुमिष्टे, पतञ्जलेःपिङ्गल इति नामान्तरश्रवणात्। तस्य स्वल्पनुत्तमधियः शंसावादाः कथन्ननु सम्भवेयुरेकमुखेन? यतोऽनुद्भुतपूर्व मेवैतत्तेन निर्णीतं हिमवद्विन्ध्ययोर्मिलन मिवातीव चित्रम्! पाणिनि-पतञ्जल्योः प्रायोऽष्टादशशताब्द्यन्तरितत्ववगमात्। अत एव भगवता पतञ्जलिनाक्वचित् क्वचित् पाणिनि-काले व्यवहृतं लौकिकं किञ्चिद् बोधयितुं‘पुराकल्पे’— इति तदुल्लेखःकृतः। तथाहि— “पुराकल्पेएतदासीत् ०—० शब्दा उपदिश्यन्ते ०—० एवं विप्रतिपन्नवुद्धिभ्योऽध्येतृभ्य आचार्य इदं शास्त्रमन्वाचष्टे(१अ० १पा० १आ०)”—इति, “पुराकल्पे एतदासीत्— षोड़शभाषाःकार्यापणं षोड़शपलाश्च माषशंवद्यः (१अ० २पा० ३आ०)”— इतिचैवमादि। यद्यपि पाणिन्यनुजश्च पिङ्गलः, महाभाष्यकारस्य च नामान्तरं पिङ्गल इति भवितु मर्हतीति सत्यम्;पर मनयोर्नचैक्यं स्वीकुर्मोवयम्; अपि तु बहुभिन्नकालिकत्व मेव। वस्तुतोऽङ्गवर्णानुसारत एव कृष्ण-पिङ्गल-गौर-श्यामेतिनामानि तदानी माख्यातानि भवन्ति स्म। छान्दोग्येऽपि श्रुयते चैकत्र पिङ्गलः। तथाहि—“अथ या एता हृदयस्य नाड्यस्ताःपिङ्गलस्याणिम्नस्तिष्ठन्ति (८. ६. १.)”— इत्यादि। न चात्रापि
पिङ्गलनाम्नः पाणिन्यनुजस्यान्यस्य वा कस्यचित् मते इत्येवमर्थोगम्यते; ‘शुक्लस्य’—इत्यादेः, ‘आदित्यः पिङ्गलः’—इत्यादेश्चोत्तरत्रतत्रैव श्रवणात्, छान्दोग्यस्यतस्य पाणिनिपूर्वजत्वावधारणाच्च;दृश्यते हि छान्दोग्येऽनेकत्र शौनकः कापेयः (पा० ४. ३. ५, ६, ७.), प्रत्युदाहरणञ्च तदेव पद मनुभूयते“कपिबोधादाङ्गिरसे(४. १. १०७.)”— इति पाणिनिसूत्रस्येतीहदिक्।
(ङ) अपि दृश्यते चात्र महाभाष्ये(पा० ४.२.६०.)आख्यायिकात्वेत वासवदत्ताया ग्रहणम्। “आख्यायिका— वासवदत्तिकः”—इति। सुवन्धुकृतैवाख्यायिका सेति प्रसिद्धास चसुन्धुकविः रामायणस्य, महाभारतस्य, तत्परिशिष्टरूपस्यहरिवंशस्य, विक्रमादित्यस्य च परभव एव। तथाहि— “रामायणेनेव सुन्दरकाण्डचारुणा”—इति, ‘भारतेनेव सुपर्वणा”— इति‘हरिवंशैरिव पुष्करप्रादुर्भावरमणीयैः’— इति, ‘सा रसवत्ताविहतानवका विलसन्ति चरति नो कं कः। सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये”—इति च। तदेवमस्य हि महाभाष्यस्यवासवदत्ता-परभवत्वस्वीकारपूर्वकं रामायणादिपरभवत्वमपि मन्तव्यमित्येव मपि कश्चित् शङ्कितु मुत्सहेतैव। पर मवश्यं तस्येमानि च त्रीणि वितर्क्याणि भवेयुः,—यदिहि स्वर्गते च विक्रमादित्ये स्थितस्य सुबन्धोः समनन्तरमेवप्रणीतं स्यात् पातञ्जलं नाम महाभाष्यम्, तर्हि काश्मीरराजाभिमन्युसमये विक्रमादित्यजन्मतो बहुपूर्वमपि चन्द्राचार्यादिभिः कथं तदभाष्यपुस्तक मवाप्त मिति प्रथमम्। सर्वैरेव पुरातत्त्वानुसन्धित्सुभिर्महाभाष्यस्यास्य ख्रीष्टजन्मपूर्वप्रणीतत्वमेक-
वाक्यतोनिर्णीत मेव; स सर्वसिद्धान्तोऽपिकथं न व्याकुप्येतैवेति द्वितीयम्। अपि यदि हि नाममहाभाष्यकारः खल्विदानींप्रचलितान्महाभारतादपि परभवः स्यात्, तर्हिमहाभाष्येऽत्र प्रदर्शितं वृद्धकुमार्य्युपाख्यानं (५८ पृ०) प्रचलितमहाभारतीयानुरूपमेव कथं न दृश्येतेति तृतीयम्।
अस्मन्मते तु कालान्नष्टाक्षरताङ्गते तन्महाभाष्यपुस्तके सुबन्धुपरजएव कश्चित् तत्र ‘वासवदत्तिकः’प्रभृत्यभिनिवेश्य तस्य नष्टाक्षरत्वमुद्दधारेति। अत एव प्रवादोऽपि ‘यत्र लालायितः फणी”—इति।
महाभाष्यकृतोभगवतः पतञ्जलेः सुबन्ध्वादिबहुपूर्वभवत्वे,अपरा चैषोपपत्तिः समालोच्या,—यो हि नाम वासवदत्ताकृतः सुबन्धोरप्युत्तरभवः, तेन चावश्यं कालिदासस्य कवेरप्युत्तरभवेन भवितव्यम्; स्वीकृते च तथा कालिदासकृतान् प्रयोगानप्यवेक्ष्यावश्यं तत्र भाष्ये तथैवेष्टयः प्रणीतां दृश्येरन्; न चतथा दृश्यन्ते, नापि तेषु भाष्यकृता कश्चन विचारः कृतइति पश्यामः; प्रत्युत सिद्धान्तकौमुद्यादौतादृशप्रयोगानामपप्रयोगत्वमेव निर्णीतमवलोक्यते। तथाहि— ‘अवैहि– इति वृद्धिहिरसाधुरेव’— इति (सि०कौ०अ०पु०); किञ्च— ‘कथन्तर्हिशार्वरस्यतमसो निषिद्धये इति कालिदासः, अनुदितौषसरागा इति भारविः, समानकालीनम्, प्राक्कालीनम्, इत्यादि च? अपभ्रंशा एवैते इति प्रामाणिकाः— इति (तद्धि० शे०)। अपरमप्यत्रेदं विवेच्यम्,—महाभाष्यप्रयुक्तानां पाणिन्यादिविरुद्धानामपि प्रयोगानां साधुत्वंमन्यते; कालिदासादीनां तु तत्पूर्वजत्वेतत्तत्प्रयुक्तानां कथमुच्यतेऽसाधुत्वमिति?यथा दृश्यत एव हिपाणिनीयधातुपाठविरुद्धःप्रयोगोऽसौ भाष्यकारस्य— “आदित्य-
श्चाभिप्राये सज्जते”— इति (३अ०१पा० २आ०)। न चेदृशप्रयोगस्यासाधुत्व माशङ्कितमपि केनचित्;प्रत्युताह हि कैयटः—“सज्जते इति, भाष्यकारवचनादात्मनेपदम्”— इति। ततउत्तर मिदानीं तु भागवतादावपि बहुत्रैव प्रयुक्तंदृश्यते ‘सज्जते’—इति। तद्यथा—“प्रायेण सज्जते भ्रान्त्यापेशलेषु च वाग्मिषु”—इति भाग० पु० ४. १९.२५.। महाभारतीयभीष्मपर्वान्तर्गतगीतापर्वान्तिमाध्यायीयसप्तदशश्लोकव्याख्यानावसरे श्रीधरस्वामिनापि प्रयुक्तम् “यस्य बुद्धिर्नलिप्यते, इष्टानिष्टवुद्ध्या कर्मसुन सज्जते”— इति। ततो वय मपि तथा प्रयोक्तुंसदैव सज्जामहे एव। एव“भाष्यकारस्तु त्वकत्पितृक्तो मकत्पितृक इति रूपेइष्टापत्तिं कृत्वेदं सूत्रं प्रत्याचख्यौ”— इत्येवमादयश्चोक्तादीक्षितादिभिः (वै० सि० कौ०अ० पु०)। अहो मतप्राबल्यं तस्यभगवतो व्याकरणेषु! अस्ति सूत्रंपाणिनीयम्— “अवाद् ग्रः(१.३. ५१.)”— इति, एतेन पाणिनिमतेऽनुभूयत एव ‘अवगृणाते’— इत्येवमादीना मपि प्रयोगानां साधुत्वम्; पर मत्रभाष्यकृता “गृणातिस्त्ववपूर्वोन प्रयुज्यत एव”— इत्युक्तम्; एतस्मादेव शासनादद्य अवगृणाते’— इत्येवमादीन्प्रयोक्तुंन क्षमतेकश्चिदपि। तदेवं कालिदासादीना मपप्रयोगानवेक्ष्य तेषां साधुत्वाख्यापनाय पातञ्जले महाभाष्ये कस्याप्येकस्य यत्रस्यानुपलाभात्, पाणिन्यादिमतविरुद्धानामपि भाष्योक्तानां प्रयोगानांशिष्टगृहीतत्वोपलाभात्, पाणिनिमतसिद्धाना मपि प्रयोगाणां पतञ्जलिवारितानां व्यवहारादर्शनाच्चावश्यमेव महाभाष्यकारस्यभगवतः पतञ्जलेः कालिदासादितो बहुप्राचीनत्वं मन्तव्यमितिकिं तस्यसुबन्धुपूर्वजत्वविचारेणेत्यलम्।
अथपतञ्जलिविषयेऽपर मपि किञ्चिद् समालोचयितव्यमस्ति, तदिदम्— ‘अयमेव पतञ्जलिः वैद्यशास्त्रप्रणेतापि,योगशास्त्रप्रणेतापि— इत्येव मस्तिप्रवादः; वयन्त्वत्र नामैक्यमेववीज मनुगच्छामोनान्यत् किञ्चनेति।
“योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन।
योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि”
—इत्येष श्लोकोऽपि नूनं प्रणीतो नामैक्यहेतुक एवेति।
यद्युच्येत, वैद्यशास्त्रेऽप्यासीदस्य महाभाष्यकारस्यावगम इति तुप्रतीयत एव; भाष्ये बहुत्र तथाविधप्रयोगदर्शनात्। तद्यथा— “वार्तिकम्, पैत्तिकम्, श्लैष्मिकम् ०—० सान्निपातिकम् ( ५अ० १पा० १ आ०)”— इति, “दधित्रपुसम्प्रत्यक्षो ज्वरः ०—०।नड्वलोदकंपादरोगः ०—०। आयुर्घृतम् ०—० \। (६अ० ४पा० २आ०)”— इति, “घृतभोजन मारोग्यस्यादिः (६अ० ४पा०४आ०)”— इत्यादि चेति। अत्र ब्रूमः,— न हि वैद्यकशब्दादि— वित्त्वेनैव वैद्यकसूत्रकर्त्तृत्त्वमुपपद्यते, अपि चेत एव यदिकश्चित् तस्यवैद्यकभाष्यविशेषकर्त्तृतां च स्वीकर्त्तुमुत्सहेत,स्वीकरोतु नाम, तत्र नोन क्षतिः। एवं योगशास्त्रीयमूलसूत्रकर्त्तृत्वमप्यस्य नैव स्वीकार्यम्; नापि ह्यत्र क्वापि योगविषयकोदाहरणानि दृश्यन्ते, येन चास्य योगशास्त्रज्ञत्वस्यापि परिचय उपलभ्येतेति।
एवं षड्गुरुशिष्यलेखोऽपि नामविभ्रममूलक एव। हन्तयदा नु तेनालेखि—
“यत्प्रणीतानि वाक्यानि भगवांस्तु पतञ्जलिः।
व्याख्यायोद्घाटनीयेन महाभाष्येण हर्षितः।
योगाचार्यःस्वयं कर्त्तायोगशास्त्रनिदानयोः”— इति (अ० भा०),
तदैतन्नस्मृतंकि मस्ति व्यासकृतभाष्यं तस्य योगशास्त्रस्येति?पाणिनिसूत्राणां भाष्यस्यकर्तुःपतञ्जलेः पाणिनिपरभवत्वे कास्तिवक्तव्यता!—“पाराशर्य्यशिलालिभ्याम् (पा० ४. ३. ११०.)”—इति सुत्रदर्शनात् पाणिनेश्च पारशर्यव्यासपरजत्वं व्यज्यत एव।तदत्र कथयतु नाम नामैक्यश्रवणादेव व्यक्यभिन्नवादीभवान्योगशास्त्रंखलु पाणिनिपरभवञ्चेत् कथं तद्भाष्यकारत्वमुपपद्येततत्पुर्वजस्यतस्य व्यासस्येति!
अस्मन्नये तु,—योगशास्त्रस्य पातञ्जलस्य भाष्यकारो व्यासः,भिक्षुसूत्रकृतो व्यासाद् विभिन्नो बहुपरभवश्चेति; “भुवनज्ञानं सूर्ये संयमात् (पात० ३. २४.)”—इति सूत्रीयभाष्येऽनतिप्राचीनपुराणादिसम्मतभुवनवर्णनदर्शनात् तस्य अद्यप्रचलितमहाभारतकारादेरिवानतिप्राचीनत्वावगतेः, लिपेरार्षत्वानवगमादिभ्यश्च। एवंबभूव च कश्चिदपरः पतञ्जलिर्योगसूत्रकृत् दर्शनशास्त्राविर्भावकालिकः, पाणिनितोऽपि प्राचीनः। तथाच पातञ्जलं नामयोगशास्त्रंपाणिनितो बहु प्रागेव प्रणीतम्; प्राचीनतमे भिक्षुसूत्रेऽपि “एतेन योगः प्रत्युक्तः(२.१.३.)”— इत्येवमादिदर्शनात्। अत एव सम्पृचानुरुधा० (३.२.१४२.)— इति पाणिनीयसूत्रेणपातञ्जलशास्त्रविहितयोगाभ्यासकारिण्येवार्थे साध्यते‘योगी’— पदम्; न हि पातञ्जलात् पुरातनं किमप्यस्ति आसीद्वा योगशास्त्रम्। अत एव व्यक्तिविशेषनामत्वादव्युत्पन्नप्रातिपदिकमिति पाणिनिना उपेक्षितस्यापि पतञ्जलिशब्दस्य कात्यायनकृतेन “शकन्धादिषु पररूपम् (पा० ६.१.९४.)”— इतिवार्त्तिकेन व्युत्पादनं सङ्गच्छते; न हि परजस्य पतञ्जलेर्ज्ञानं तत्पूर्वजस्य कात्यायनस्य सम्भवेन्नामेनि। गणपाठोऽपि पाणिने-
रिति ध्वनितं पूर्वापरेति (पा० २.१. ५८.) सूत्रभाष्ये। अपिवा येन केनचित् कृतः स्यात् गणपाठः, परमस्मान्महाभाष्यकारात् प्राचीनतरेणैव केनचित् कृतःएवेत्यत्र तु नैवास्तिसंशयः; तत एवोक्तम्— “सिद्धन्तुरौढ्यादिषूपसङ्ख्यानात्। ०—०।के पुनरौढ्यादयः? ये क्रौड्यादयः (पा० ४.१. ७९सू० भा०)”—इत्येवमादि।
आदिमीमांसाचार्यात् काशकृत्स्नेश्चाप्ययं परभव एव, इहापिनास्ति संशयः। अत एवोक्तमिह— “काशकृत्स्निना प्रोक्ता मीमांसाकाशकृत्स्नी(४अ० १अ० १आ० पुनः ३पा० २आ०)”— इति। इहप्रोक्तत्वोल्लेखदर्शनादस्य च काशकृत्स्नेःपाणिनितोबहु पूर्वजत्वमपि ध्वन्यते; तत्पूर्वजस्यैव हि तेन प्रोक्तत्वेन ग्रहणोपदेशात्। अद्यप्रचलितमीमांसाशास्त्रसूत्राणां कर्त्ताखलु जैमिनिस्तु स्यात्पाणिनिसमकालिकः;व्यासशिष्यत्वात्, वेशम्पायनादिवत्। अतोजैमिनेश्चार्वाचानोऽयं पतञ्जलिरिति च सुवचम्।
वेदान्तसूत्राणां प्रणेतुर्व्यासाच्चायं परभवः। यदस्त्येतत् सूत्र पाणिनीयम्—“पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः (४.३. ११०)”— इति, अत्र पाराशर्यशब्देन वेदान्तसूत्रकृतो व्यासस्यैव बोधात्; अद्यवेदान्तेतिप्रसिद्धाना मेव हि सूत्राणां पाणिनिकाले भिक्षुसूत्रेति व्यपदेश आसीत्, न चान्यत् किञ्चन भिक्षुसूत्रं नामेति।अत एव वेदान्तसूत्रभाष्यवार्त्तिककृत्वालकृष्णानन्दोऽपि सर्वेष्वधिकरणेषु भिक्षुसुत्रकृत मित्याद्युक्त्यापाराशर्यं व्यासमेव प्रणनाम विविधप्रकारेण वर्णयन्। तथाहि, आत्माधिकरणभाष्यवार्त्तिकारम्भे(सू० ४.१.२.)—
“पाराशर्यःप्रथयतु परं भाव मव्याहतं स्वम्,
सूत्रे स्वीये सकलविदुषां मोदमूलस्वभावम्।
शिष्यैर्विश्वैरपि परिवृतः पैलपूर्वैःप्रतीतेः,
आचूड़ं मे सजलजलदाकारदायादमूर्त्तिः”— इति**।**
तथाध्यक्षाधिकरणभाष्यवार्त्तिकारम्भेच (सू० ४. २. ३) —
“भिक्षुयोगकृतं व्यासं शङ्करञ्च गुरुं परम्।
स्मृत्वा व्याकुर्महेऽध्यक्षपूत्रभाष्यस्य वार्तिकम्”—इति**।**
एवञ्च यान्यखिलसूत्राणि भिक्षुसूत्राणीति पाणिनिकालेप्रथितानि, तान्येवेदानीं ब्रह्मसूत्राणीति वेदान्तसूत्राणीतिच कथ्यन्त इति स्फुटम्। सङ्ग्रहकारस्तु व्याड़िःपतञ्जलेरस्मात् पूर्वतन इति तु “सङ्ग्रहेरस्तमुपागते (६४ पृ०)”— इतिवाक्यपदीयवचनादिभ्यश्च सिद्धमेव; तस्मिन् व्याड़िकालेऽप्यस्य वेदान्तदर्शनस्य ब्रह्मविद्येति प्रसिद्धिरासीत्। तथाहिविकृतिवल्ल्यारम्भे श्लोकित मेतत् स्वयमेव व्याड़िना,— “ब्रह्मविद्यागुरुं श्रेष्ठंभारद्वाजं बृहस्पतिम् (१. ३.)”—इति। तदेतस्य ग्रन्थस्य पातञ्जलात् प्राक्तनत्वस्य तु का कथा? व्याडितः,पाणिनितश्चापि प्राक्तनत्वमेवेति।
न्यायवैशेषिककाराभ्यामप्ययंपतञ्जलिः परभव एव। दृश्यतएवहि नैयायिकाद्यनुमानप्रणाल्यादिकं तत्कृते महाभाष्ये।तथाहि— “धूमं दृष्ट्वाअग्निरत्रेति गम्यते (२अ० १पा० १आ०)”— इत्यादि। वैशेषिक-न्यायकारयोः कणभक्षाक्षचरणयोश्च वेदान्तसूत्रकार-पाराशर्य्य-समकालिकत्वञ्चहैवानुपदं प्रतिपादयिष्यामः।
साङ्ख्याचार्यात् कपिलाच्चायं परभवः। अत एवात्रोक्तंगम्यतेकापिलमतम्— “अथवा भवति वै कश्चित् जाग्रदपि वर्त्तमानं कालं नोपलभते। तद्यथा। वैयाकरणानां शाकटायनः
रथमार्ग आसीनःशकटसार्थं यान्तं नोपलेभे। किं पुनः कारणंजाग्रदपि वर्त्तमानं कालं नोपलभते? मनसा संयुक्तानीन्द्रियाण्युपलब्धौ कारणानि भवन्ति, मनसोऽसान्निध्यात् (३अ० २पा० २आ०)”—इति। अपरत्र चैवम् “षड़्भिः प्रकारैःसतांभावाना मनुपलब्धिर्भवति। अतिसन्निकर्षात्, अतिविप्रकर्षात्,मूर्त्त्यन्तरव्यवधानात्, तमसावृतत्वात्, इन्द्रियदौर्बल्यात्. अतिप्रमादादिति (४अ०१पा० १आ०)”— इति। तदेव मादीनांदर्शनात् कापिलशास्त्रप्रचारात्परभवत्वंचास्य पतञ्जलेः सुव्यक्तम्।अपि वास्य कपिलपरभवत्वत्रविचारस्तुदूरे आस्ताम्, तत्सम्प्रदायीयद्वितीयपुरुषादासुरेश्चायं पतञ्जलिर्बह्वर्वाचीन एव; एतत्पूर्वजेनापि हि वार्त्तिककारेण कात्यायनेन “आसुरेरुपसङ्ख्यानम्(पा० ४.१.२९.)”— इत्युक्तत्वात्। आसुरिर्हिसाङ्ख्याचार्येषुद्वितीय इति दृश्यते। तथाह्युक्तमीश्वरकृष्णेन—“पुरुषार्थज्ञान मिदं गुह्यंपरमर्षिणा समाख्यातम्। ०—०। एतत्पवित्र मग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ (सा० त० कौ०६९, ७०)”— इति। ‘परमर्षिणा कपिलेन’— इति च तत्र वाचस्पतिमिश्रकृता टीका। प्रवचनभाष्येऽप्युक्तम्— “आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद् भगवान् परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाच (१.२५.)”— इति।
पाशुपतदर्शनकाराच्चासौ भाष्यकारः कनीयान्। अत एवतत्कृतेऽत्र महाभाष्ये दृश्यते—“शिवभागवतः (५अ० २पा० १आ०)”—इति पदम्। “भगवान् भक्तिरस्य भागवतः, शिवस्यभागवतः इति पष्ठीसमासः”— इतिच तत्र व्याख्यातं कैयटेन।एष मिह “सौर्यभगवता उक्तम् (८अ०२षा०२आ०)”—इति
दर्शनाच्चावगम्यतेऽस्य पतञ्जलेःसौरसम्प्रदायारम्भाच्चपरभवत्वमेव;सैर-सौर्ययोर्नह्येव भेदः। वस्तुतः सौरसम्प्रदायः खलु शैवसम्प्रदायादपि बहुपुरातन एवेति प्रामाणिकाः।
चार्वाकादिनास्तिकदर्शनशास्त्राणि तु बहुपुरातनान्येव न वेत्यत्र स्थात् विचार्यम्, परं नास्तिकभावः खलु पाणिनिकालेऽपिस्थित एव। अत एव स हि सूत्रयामास— “अस्तिनास्तिदिष्टंमतिः (४. ४. ६०.)”— इति। मनुसंहितायामपि नास्तिकशासनवचनानि सन्त्येव, तानि चानुपदं प्रदर्शयिष्यामः। पतञ्जतिनापि स्वस्य नास्तिकमतज्ञता प्रकाशितैव। तथाहि— “किञ्च भोः श्लोका अपि प्रमाणम्? किञ्चातः? यदि प्रमाणम्,अय मपि प्रमाणं भवितुमर्हति—
“यदुदुम्बरवर्णानां घटीनां मण्डलं महत्।
पीतं न गमयेत् स्वर्गं किन्तु क्रतुगतं नयेत्”— इति।
प्रमत्तगीत एषः। भवतो यस्त्वप्रमत्तगीतः तत् प्रमाणम् (१अ० १पा० १आ०)”— इति। “यदुदुम्बरेति। अयंश्लोकःसौत्रामणीयागेसुरापानस्य दुष्टत्वमुद्भावयति। प्रमत्तगीत इति। प्रमादेन विप्रतिपन्नत्त्वेन गीत इत्यर्थः”— इतिच तत्र कैयटः। अस्मन्मते तु ‘उदुम्बरवर्णानाम्’उदुम्बरकाष्ठनिर्मितानाम्, ‘घटीनाम्’ग्रहेतिप्रसिद्धानां सोमपात्राणां ‘यत्महत् मण्डलम्’शुक्र-मन्थादिसमूहमाध्वर्यवे प्रसिद्धम्, तत्‘पीतं’सत् पानकारिणं “स्वर्गं न गमयेत्” किन्तु क्रतुगतंनयेत्ः क्रत्वनुष्ठानस्यैव पूर्णतां प्रापयेदिति तदर्थः। तदिदंश्लोकवचनं वक्तुंप्रमत्तता मेवावेदयति; अनुष्ठान सिद्धित एव स्वर्गसिद्धेः। एवञ्चेहत्यः प्रमत्तशब्दोनास्तिकपर एवभाष्यकाराभिप्रेतः।
काश्मीरेन्द्रात् जलुकाच्चाय मर्वाचीनः। यतोह्युक्तम्“यत्तेन कृतं न च प्रोक्तम्— वाररुचं काव्यम्, जालुकाःश्लोकाः (४अ० ३पा० १आ०)”— इति। एष च वररुचिःकात्यायन एव; स एव व्याकरणस्य वार्त्तिककारः;पतञ्जलेरस्यतत्परभवत्वे कोऽस्ति विचारः; परं जलुकेन राज्ञाकृताःश्लोका अप्यस्य महाभाष्यकारस्य पतञ्जलेरासीद् विदिता इतीत्थं ततोऽपि पराचीनत्वं व्यक्तम्।
वार्त्तिककार-कात्यायनात् परभवत्वन्त्वस्याविचारित मपि सिद्ध मेव, परं ततो बहुकालकृतावरजत्व मस्येत्यपि प्रतीयत इतितुप्रदर्शनीयम्। तथाहि पठितञ्चेदं वार्त्तिकम्,—‘ढ-ग्रहणेसानुवन्धस्योपसङ्ख्यानम्” (पा० ४. १.१५.)”— इति;“कथंस्त्री नाम सभायां साध्वीस्थात्”—इत्युक्ताच (४अ०१पा०२आ०) खण्डितं तद्वार्त्तिकम्। “यज्ञसभायां विदुषामेवपुरुषाणां साधुत्वाधिकारादिति भावः”— इति च तत्राह तट्टीकाकारःकैयटः। तथाचेदं सुव्यक्तमेव,—काव्यायनकाले यज्ञसभादौस्त्रीणां गमनं न दोषावह मासीदिति तेन पठितं तथावार्त्तिकम्; पतञ्जलिसमये तु यज्ञसभादौस्त्रीणां गमनं दोषावह मेवेति परिहृतं तदिति। न चाल्पेनैव कालेन सामाजिकव्यवहारान्यत्वं सम्भवतीत्थंसिद्धमेव वार्त्तिककाराद् वह्वर्वाचीनोऽयं पतञ्जलिरिति।
(मनुसंहिता) मनुसंहिता तु या खलु सूत्रनिबद्धा, सैवातिप्राचीना, मानवकल्पसूत्रादिभिः; समानवयस्का, ममानमानाच। महाभाष्ये (१अ० १पा० ७आ०) यदुक्तं “नैव ईश्वरआज्ञापयति, नापि धर्म्मसूत्रकाराः पठन्ति”— इति, तत्तादृश-
मन्वाद्यभिप्रायेणैव। इदानींप्रचलितो मनुसंहितेति प्रसिद्धोग्रन्थस्तुभृगुप्रोक्तइति भृगुसंहितेत्येव व्यवहार्यः; परं ज्योतिषशास्त्रेभृगुसंहितेति ग्रन्थविशेषस्य, इतोऽपि प्राचीनस्य दृष्टचरत्वात् न तथा व्यवहृतोऽयं लोकैः। एतस्य ह्युपक्रमे प्रत्यध्यायावसाने चास्य भृगुप्रोक्तत्वंस्पष्ट मेवेति न च तत्रास्ति प्रमाणप्रदर्शनापेक्षेति। तदुक्तं साङ्खीयकौमुदीप्रभायां स्वप्नेश्वरेणैतत्,“पञ्चशिखः सूत्रकारः आसुरिशिष्यः; कापिलमिति प्रसिद्धिस्तुसम्प्रदायप्रवृत्तेः; भृगुप्रोक्तासंहिताया मिव मनुसमाख्या”— इ्ति।
तस्यैतस्य मनुसंहितेतीदानीम्प्रसिद्धस्य भृगुसंहिताग्रन्थस्य विशेषतः प्रणयनकालनिर्णयोऽपि दुष्कर एव; सामान्यतस्त्वेषसंहिताकारः वौद्धधर्म्मप्रचारकात् शाक्यमुनेः, रामायणप्रणेतुरादिकवेर्वाल्मीकाश्च प्राचीनतमः, वार्त्तिककारकात्यायनात्तु, पराचीन इत्येव वक्तुं शक्यते। यतश्चात्र संहितायां महाभारते इवाहिंसाधर्म्मोविशेषतो नोपदिष्टः, न च बौद्धधर्म्मप्रकाशितनिर्वाणमुक्तिप्रसङ्गश्च, अत एवास्याः बौद्धधर्म्मप्रचारात् प्राचीनत्वमवगम्यते। बौद्धधर्म्मसुप्रचारोत्तरप्रकाशिते हि महाभारतेऽत्राहिंसाधर्म्मोनिर्वाणमोक्षश्चेत्येतावप्युक्तौस्याताम्। तदत्र—
**“बहूनां यज्ञतपसामेकार्थानां पितामह!
धर्म्मार्थंन सुखार्थार्थंकथं यज्ञःसमाहितः?”—**इत्यादिः,
अहिंसा सकलो धर्म्मोहिंसाधर्मस्तथाहितः।
सत्यस्तेऽहं प्रवक्ष्यामि यो धर्म्मःसत्यवादिनाम”— इत्यन्तश्चद्रष्टव्यः।
(महा० भा० शा० प०२७१ अ० १-२० श्लो०)।
अस्मिन्नध्याये यज्ञगतवधस्यापि दुष्कृतत्वंवधत्वञ्चवर्णितम्। तदेतन्महाभारतकारस्यबौद्धसंसर्गजफलमेवावबुद्ध्यते।
मनौ तु—“मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने”—इत्युपक्रम्य त्रिंशच्छ्लोकेषु मांसस्य भक्षणवर्जने विहिते (५अ०२६-५६ श्लो०)। तत्र वृथामांसभक्षणे प्रवृत्तिश्चेत्भक्षयतु,निवृत्तिश्चेत् महाफलमित्येव प्रतिपादितम् (५६)। देवपितृकृत्यादौतु मांसभक्षणे न कोऽपि दोष उक्तः(३२); मधुपर्क्कादौतु विहितमेव मांसभक्षणम् (४१), यज्ञादौतु कृता हिंसा, अहिंसैबेत्यपि कथितम्। अत्रएव ब्रूमः,—अहिंसाविधेः प्रशंसनान्महाभारतस्यशाक्यबुद्धपरजत्वम्, तथैव हिंसाविधेर्विधानाच्चमनोस्तत्पुर्वजत्व मपीति। एवं भीष्मपर्वणि (२९ अ० २६ श्लो०)—
“कामक्रोधविमुक्तानां यतीनां यतचेतसाम्।
अभितो ब्रह्म निर्वाणं वर्तते विदितात्मनाम्”—इत्यादि।
मनौतु प्रधमाध्याये त्रिषु श्लोकेषु (१०४-१०६) यानिफलान्युक्तानि, न तत्रास्ति निर्वाणं नाम; तत्रैव द्वादशाध्यायेऽपि “प्राप्यते ह्यमृतंततः (८५)”— इत्येव, “स्वाराज्यमधिगच्छति (९१)”—इति। “नैःश्रेयसमिदम् (१०७)”— इत्यादीन्येव च दृश्यन्ते, परं न क्वापि बौद्धप्रचारितं निर्वाणपदमिति। तदेवं शाक्यस्य ज्ञानलाभात् पूर्वमेवेदं शास्त्रमिह प्रथित मित्यत्र नैव संशयः। शाक्यज्ञानलाभस्तुख्री०पू० ५८८ वर्षेऽभूदित्येव निर्णीतम्। न खलु कस्य चिदपिधर्म्मशास्त्रस्यशतवर्षान्न्यूनकाले एव भवेदभ्युदयः, नापि तन्न्यूनतो वा भवेत् प्रभावाल्पत्वम्, न च तत्प्रभावाल्पत्वमन्तरा अन्यधर्मे मतिर्भवति कस्यचिदपीत्यन्यधर्म्मशास्त्रोत्थानसम्भवः। अतः शाक्यमुनिकालादन्यूनशताब्दीद्वयपूर्वमेवेदंमानवं धर्म्मशास्त्रंसमुत्पन्नमिति सुतरां सम्पद्यते।
अपि नाम रामायणलिपिस्तुशाक्यमुनेर्जन्मतः पुरैवेति अध्यापक-लासेनादीना मपि सम्म्मतम्। तत्र मनुवचनोद्धृतिदर्शनात्मनुसंहितायाश्चास्यास्तय्पूर्वकालिकत्वञ्चसुव्यक्तम्। तद्यथा तत्रकिष्किन्धाकाण्डे(१८, ३०-३२.)—
“श्रूयते मनुना गीतौश्लोकौचारित्रवत्सलौ।
गृहीतौधर्म्मकुशलैस्तथा तच्चरितं मया,।
राजभिर्धृतदण्डाश्चकृत्वापापानि मानवाः।
निर्म्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा।
शासनाद्वापि मोक्षाद्वास्तेनः पापात्प्रमुच्यते।
राजा त्वशासन् पापस्य तदवाप्रोति किल्विषम्”—इति,
राजभिर्धृतदण्डाश्चेत्यादी श्लोकौतु मनुसंहिताया अष्टमाध्याये(३१६. ३१८.) दृश्येते एव। तदेव मपि प्रतीयते मनुसंहितायाः समुत्पत्तिर्नूनंशाक्यबुद्धजन्मतो बहुपूर्वमेवेति।
किञ्चH.H.उइल्शन्-महोदयस्य विचारतो ज्ञायत एवैतत्,—जलूकाख्यो नरपतिरासीत् ख्रीष्टजन्मतःपूर्वंसप्तमशताब्द्या मितिःराजतरङ्गिणी-प्रथमतरङ्गीयत्रयोदशश्लोकदर्शनाच्चावगम्यते आसीत् स शैव इति, तथाहि—
**“विजयेश्वरनन्दीशक्षेत्रज्येष्ठेशपूजने।
तस्य सत्यगिरो राज्ञः प्रतिज्ञासर्वदाभवत्—**इति।
तदेवं जलूककाले विजयेश्वरादिलिङ्गनामस्मरणात् ततः पूरैव शैवधर्म्मः; सुप्रचलित आसीदित्यपि व्यक्तम्। एवं हि शैवधर्म्मप्रचारोऽवश्यं ख्रीष्टजन्मतोऽन्यूनाष्टशताब्दीतोऽपि पूर्व मभवदित्यप्युक्ते न क्वश्चिद्दोषोलक्ष्यते। मनुसंहिताकालं यावत् नैव शिवोपासनोद्भूता; सत्यां हि तस्यामवश्यमेवमनौशिवपूजाप्रका—
रादिकमुपदिष्टंदृश्येतैव;नात्र तु क्वचित् प्रसङ्गतोऽपि शिवपूजाविधिराख्यातः; “मनसीन्दुः दिशः श्रोत्रे क्रान्तेविष्णुं बलेहरम्। वाच्याग्निंमित्रमुत्सर्गेप्रजने च प्रजापतिम्(१२०,१२१.)”—इतिदर्शनात्तुबलाधिष्ठातृत्वंहरस्येति मनुसंहिताकारसम्मत मित्येव बुद्ध्यते, तथा चन्द्रादेश्च मनोऽधिष्ठातृत्वादिकम्; परं नेत्थंशिवलिङ्गस्थापनपूजनादीनि तत्समयं यावत्प्रचलितानि ज्ञायन्ते। तथाच शैवधर्माविर्भावाश्चप्रागेव प्रणीतैषां संहिता भृगुणा मनुप्रणीतधर्म्मसूत्रानुसारत इति स्फुटम्। एवं हि कलेरत्यधिकत्रयोविंशशताब्द्याम्, ख्रीष्टजन्मतोऽन्यूननवमशताब्द्यां मनुसंहितायाःप्रणयनं सम्पन्नमिति।
यद्युच्येत,—मनुसंहितायाम् “पाषण्डिनो विकर्म्मस्थान्(४अ० ३०श्लो०)”—इत्यस्य व्याख्यानावसरेऽवदत्तट्टीकाकारः कुल्लूकः—‘पाषण्डिनो वेदशास्त्रव्रतलिङ्गधारिणःशाक्यभिक्षक्षपणकादयः’—इति; तथाच बौद्धधर्म्मप्रादुर्भावकालजत्व मेवास्याः संहितायाः सम्पद्यते? इति। अत्रब्रूमः;—तथोक्त्यातस्यैवकुल्लूकस्याधुनिकत्वंप्रकटितम्; किं तेन मूलकारस्य? मूलेहि न क्वचिदपि तादृश आभाषोऽपि दृश्यते। वस्तुतः कुल्लूकभट्टकृतामनुटीका नातिप्राचीना, नैव समीचीना; ततः क्वचित् क्वचित् तत्र व्याख्यादोषोऽपि लक्ष्यत एवं। तथाहि—मनुसंहितायाः सृष्टिप्रकरणे “मध्ये व्योम दिशश्चाष्टावपांस्थानञ्चशाश्वतम् (१.१३.)”—इतिव्याख्यानावसरे तूक्तंतेन ‘समुद्राख्यमपां स्थानम्’—इति, पुनश्चाग्रे “सरितः सागरान्(१.२४.)”—इति व्याख्यानावसरेऽप्युक्तम् “सागरान् समुद्रान्”—इत्येव। तदेवं कथिते पुनरुक्तिदोषो भवति; अपि पूर्वत्र‘मध्ये’
—इत्यक्तम्,दिग्व्योम्नोःसाहचर्यञ्चास्ति; तदेतानि तेन नैवालोचितानि। अस्मन्मते तु पूर्वत्रमाध्यमिकं जलस्थान मेवेष्टम्। मेधातिधिनाप्युक्तं तथैव “अपांस्थानम्=अन्तरिक्षेसमुद्रम्”—इ्ति (१.१३.) इतोऽप्याश्चर्यमेतत्,—प्रथमेऽध्याये “पाषाण्डगणधर्म्माश्च(११८.)—इतिव्याख्याने सः स्वयमेवोक्तवान् कुल्लूकः—“पाषण्डिनः=विकर्मस्थान्—इत्यादयः(४.३०.) ,तेषां पृथग्धर्म्मानभिधानात्’—इति; चतुर्थाध्यायेतु पूर्वमुक्तं विस्मत्यैव किं व्याचष्टे ‘पाषण्डिनः= वेदवाह्यव्रतलिङ्गधारिणः शाक्यभिक्षुक्षपणकादयः, विकर्म्मस्थाः=प्रतिषिद्धवृत्तिजीविनः’—इति।
अपि नाम कुल्लूकभट्टकृत-प्रथमाध्यायीय-व्याख्यानानुसारतएवास्य चतुर्थाध्यायीयवचनस्य व्याख्यानं भवेच्चेत्, तथापि विकर्मस्यादीनां तच्छ्लोकाभिहिताना मेवात्रपाषण्डित्वेन ग्रहणं व्यज्येत?न तु शाक्यादीनाम्। तत् तेनैवात्रकथ मुक्तमेव मिति च नूनंविचार्यम्। विचारिते चास्मिन् मेधातिथिकृतव्याख्यानानुसारित्व मेवात्र कुल्लूकस्येद्दशे स्वोक्तविस्मरणेनिदान मुपलभ्यते। मेधातिथिर्नाम मनुटीकाकारस्तु नूनं भागवतपुराणप्रचारादुत्तरभवः; भागवतमपि तत् शाक्यबुद्धधर्म्मप्रचारात् पराचीन मेव। श्रीधरस्वामिना चबोधितं तत्र भागवते शाक्यादिमतानुगाना मेव पाषण्डित्वम्। तथाहि (भाग० पु० ४.१९.२३-२५.)—
“यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया।
नानि पापस्य षण्डानि लिङ्गं षण्ड मिहोच्यते।
एव मिन्द्रेहरत्यश्वं वैण्ययज्ञजिघांसया।
तद्गृहीतविसृष्टेषु पाषण्डेषुमतिर्नृणाम्।
“धर्म्मइत्युपधर्मेषुनग्नरक्तपटादिषु।
प्रायेण सज्जते भ्रान्त्यापेशलेषु च वाग्मिषु”—इति।
“नग्नाः=जैनाः, रक्तपटाः=बौद्धाः, आदिशब्देन कापालिकादयश्च”—इतिच तत्राह श्रीधरः। तदेतत् पाषण्डलक्षणमेवानुलक्ष्यभाषित मिह तेन मेधातिथिना—“पाषण्डिनो वाह्यलिङ्गिनो रक्तपटनग्नचरकादयः"—इति। कुल्लूकस्तुश्रीधरकृतां तां भागवतटीकां संस्मृत्य मेधातिधिकृता मेताञ्च मनुटीकां संलक्ष्यैव विसस्मार मनुप्रथमाध्यायीयं स्वकृत मपि व्याख्यानम् ,—तत एवोक्तम् ‘पाषण्डिनो वेदवाह्यव्रतलिङ्गधारिणः शाक्यभिक्षुक्षपणकादयः’—इति।
वस्तुतो ये खलु लोकविमोहनार्थंयथासमयं यथेच्छधर्म्मचिह्नानिधारयन्ति, त एव पाषण्डाः; अत एवोक्तममरसिंहेन— “पाषण्डाः सर्वलिङ्गिनः (२.७.२५.)”—इति। एवञ्चपाषाण्डाःखलु नास्तिका एव गम्यन्ते ते तु चिरमेव स्थिताः; ततश्चैतन्मनुसंहिताकालेऽपि तादृशनास्तिकाना मस्तित्वेकोऽस्ति शङ्कावसरः? नास्तिकानां ग्रन्थाश्चपुरा बहव आसन्नित्यपि प्रतीयते।अत एवोक्त मेवम्—“योऽनधीत्य द्विजोवेदमन्यत्रकुरुते श्रमम् (म०सं० २.१६८.)”—इत्यादि। ‘अन्यत्र=नास्तिकादिशास्त्रे’—इत्येव मेवात्रास्मद्गुरूपदेशः। पातञ्जले महाभाष्येऽपि दृष्टंप्रदर्शितञ्च पुरस्तात् “यदुदुम्बरवर्णानाम् (८७ पृ०)”—इत्यादि। स श्लोकोऽवश्यं कुतश्चिन्नास्तिकागमादेव पतञ्जलिना स्यादुद्धृतः। सर्वदर्शनकारसङ्गृहीताःचार्वाकदर्शनमिति प्रदर्शिताः “न स्वर्गोनापवर्गोवा”—इत्यादयः श्लोकाअपि नास्तिकागमनिदर्शनभूता एव। तादृशानां नास्तिकाना
मेव पाषण्डिन इति पदेन तत्रमनुश्लोकेग्रहण मिष्टम्; अतिथिभावापन्नानाञ्चतेषां वाङ्मात्रालापेनाप्यर्च्चनं न कार्य्यमित्येव तद्विधेराशयः। ये तु न नास्तिकाः पर संसर्गदोषादिभिः विकर्म्मस्थाः, किञ्च ये केचित् आस्तिका अपि उदरपूरणाद्यर्थं वैडालव्रतिकादयः सम्पन्नाः; तैश्चसम्बन्धः परित्याज्य एवेति च तच्छ्लोकाशयः। तदेव मत्र श्लोके शाक्यबुद्धगन्धोऽपि न लभ्यतेऽस्माभिस्तत्किंकुर्मोवदाम एवैतर्ह्यपि शाक्यजन्मतो बहुपूर्वमेव जातोऽयं मनुसंहिताकार इति॥
एतत्संहितासमालोचनादेतदप्यवगम्यते,—सोऽयं भृगुः, योग-सूत्रकृतः आदिपतञ्जलेः, वेदान्तमतपोषकभिक्षुसूत्रकृतः पाराशर्याद् व्यासात्, मीमांसादर्शनीयादिसूत्रकृतः काशकृत्स्नेरपि जैमिनेश्च, वैशेषिकसूत्रकृतः कणादात्, न्यायसूत्रकृतो गौतमात्, साङ्ख्यसूत्रकृतःकपिलात्तच्छिष्यादासुरेश्चावरज एवेति। समासतः प्रदर्श्ययामश्चैतत् क्रमेण।—
षष्टेऽध्याये यतिधर्म्मप्रकरणे—‘अह्नारात्र्या’—इत्यादिचतुर्द्दशश्लोकानाम् (६९-८२), विशेषतश्च तेष्वेव ‘प्राणायामैर्दहेद्दोषान् धारणाभिश्चकिल्वित्रम्। प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान्।(७२’)—इत्यस्य, पुनः सप्तमेऽपि“इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् (४४)”—इत्यस्यच दर्शनात् ज्ञायत एव,—आदिपतञ्जलिकृताद्योगशास्त्रात् परस्तात्प्रणीतेयं संहितेति।
तत्रैवाग्रे “अध्यात्मिकश्च सततं वेदान्ताभिहितं च यत्(८३)”—इति, ‘वेदान्तं विधिवच्छ्रुत्वा(९४)’—इति, पुनः सप्तमेऽपि— ‘आत्मविद्याम् (४३)’—इति, पुनर्द्वादशेऽपि ‘सर्व मात्मनि
सम्पश्येत् सच्चासच्चसमाहितः। सर्वंह्यात्मनि सम्पश्यन् नाधर्म्मेकुरते मनः। आत्मैवदेवताः सर्वासर्वमात्मन्यवस्थितम्। ‘आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम्’—इति (११८,११९) च। तदेवमादीनां दर्शनात् ज्ञायतएव,— पाराशर्यव्यासकृताद् वेदान्तशास्त्राच्चपरस्तात् प्रणीतेयं संहितेति।
मीमांसामूलिकाया एवास्या धर्मसंहिताया मीमांसापरजत्वप्रमाणाय त्वल मायासेनेति।
अस्ति सप्तमेऽध्याये ‘आन्वीक्षिकोञ्च(४३)’—इति, द्वादशे’तर्को((१११)’—इति च। एवमादीनां दर्शनात् ज्ञायते बैशेषिकसूत्रेभ्यो न्यायसूत्रेभ्यश्चपरस्तात् प्रणीतेयं संहितेति।
प्रथमेऽध्याये षष्ठ-चतुर्द्दश-पश्चदश-षोड़शश्लोकानां दर्शनात्, द्वादशाध्याये पुनः साङ्ख्योक्तप्रमाणत्रयाणा मेव स्मरणाच्चावगम्यतेसंहितेय मवश्यं साङ्ख्यशास्त्रात् परं प्रणीतेति च। इह च द्वादशाध्याये दशावरापरिषद्विधौ(१११ श्लो०) यद् दृश्यते ‘हैतुकः’—इतिपदम्, तत् साङ्ख्यविद एव बोधकम्; साङ्ख्यस्यैव हेतुशास्त्रत्वात्। दृश्यते हि—“मूले मूलाभावादमूलं मूलम् (सा० प्र० १.६७)”—इति (१.६१) साङ्ख्यसूत्रम्, ‘प्रकृतिरिह मूलकारणस्य सञ्ज्ञामात्रम्’—इति चविज्ञानभिक्षुकृतं तत्सूत्रीयम् भाष्यम्, “मूलंप्रकृतिरविकृतिः”—इतीश्वरकृष्णवचनञ्च;एवमादीनां दर्शनात् साङ्ख्यशास्त्रस्यमौलिकत्वंप्रतीयते सम्यगेव। अत्रैवैकंसूत्रम्“ईश्वरासिद्धेः (१.८२)”—इति; तदेवमादीनां पर्य्यालोचनयानास्तिक्यसम्पादन मपि सुकर मिति मत्त्वैवोक्तमिह भृगुप्रोक्तायां मनुसंहितायाम्— “योऽवमन्येत तेमूल हेतुशास्त्राश्रयाद् द्विजः। स साधुभिर्बहिष्कार्योनास्तिको वेदनिन्दकः; (२.११)”
—इति। अपरञ्चेकं सूत्रं साङ्ख्यस्य—‘सिद्धरूपबोद्धृत्वाद्वाक्यार्थोपदेशः (१.९८.)’—इति, ‘तस्मादपि चासिद्धंपरोक्षमाप्तागमात् सिद्धम्’—इति च तदनुगता ऐश्वरकृष्णीयकारिकाः;तदेवमादिभ्यः प्रतीयत एव साङख्यदर्शनस्य वेदानुगतत्वञ्च। अतएव मनुसंहितायां दशावरायां साङ्ख्यविदोऽपि नियोगो विहितो“हैतुकः”—इति (१२.१११)। पाणिनिवार्त्तिककाराच्चकात्यायनात् परभवत्व मस्या अनुपदमेव प्रतिपादयिष्यामः; तेन चकात्यायनेनोक्तं वार्त्तिकम्—‘आसुरेरूपसङख्यानम्’—इति (पा० ४.१.१९.वा०)’—इति;ततश्चास्यासुरिपरभवत्व मविचारित मपि सम्पद्यते। तदेवं प्रदर्शितनामभ्यःषड्भ्योऽपि दर्शनशास्त्रेभ्योऽर्वाचीनैषांमनुसंहितेति स्फुट मवगम्यत एवेति॥
एषाञ्च षण्णांदर्शनानां पौर्वापर्यविषये बहव एव वादा उपलभ्यन्ते।अस्मम्मते तु साङ्ख्यदर्शनस्यैवास्तिकदर्शनेषु प्राथम्यम्; साङ्ख्यप्रथमाचार्यस्य कपिलस्यैव “आदिविद्वान्”—इति प्रसिद्धेः। तादृशप्रसिद्धौचाय मेव हि हेतुरुपलभ्यते,—यद्यपि सर्वविद्यानिधानेषुवेदेषु दार्शनिकभावा अपि चिरादेव स्थिताः, परं पृथत्वेन दर्शनशास्त्रस्यप्रचारस्तु तेनैव विदुषा प्रथमं प्रारब्ध इति। भागवतादौ भगवदवतारेषु वर्णितक्रमदर्शनाच्चावगम्यते—“आन्वीक्षिकी”-नाम-पदार्थविद्यायाःप्रथमोपदेशकात् आत्रेयाच्चाग्रजोऽयं हि कपिल इति। तथाहि भाग० पु० १.३. १०, ११—
“पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्।
प्रोवाचासुरये साङ्ख्यंतत्वग्रामविनिर्णयम्।
षष्ठ मत्रेरप्रत्यत्वं वृतः प्राप्तोऽनसूयया।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान्”—इति।
सैषान्वीक्षिकीविद्यैव इदानीं प्रचलितानां न्यायवैशेषिकवेदान्तसूत्राणांवीज मिवेत्यनुमीयते; स्मर्यतेहि जैमिनीयमीमांसायां वादरायणनामकीर्तनात्पुर एवात्रेयनाम। तथाहि—
“मुख्यानन्तर्यमात्रेयः०—०।
अन्ते तुवादरायणः०—०”—इति मी० द० ४.२. १८, १९।
वादरायणस्तु वेदान्तसूत्रकृदित्येवप्रसिद्धः। वेदान्त-न्याय–वैशेषिक-जैमिनीय-मीमांसासूत्राणाञ्च समकालिकत्वञ्चभ्युपगम्यते। अतो निरवद्य मेवैतदुक्तंसाङ्ख्यदर्शनमेव सर्वप्रथम मिति।
अत एव श्लोकेच श्वेताश्वेतरोपनिषदि(५.२; ६.१३.)—“ऋषि प्रमूतं कपिलं यस्त मग्रे, ज्ञानैर्बिभर्त्ति ०”—इत्यादि,
“नित्योऽनित्यानां चेतनश्चेतनाना मेको बहुनां यो विदधाति कामान्।
तत् कारणं साङ्ख्ययोगाधिगम्यं ज्ञात्वादेवं मुच्यते सर्वपाशैः”— इति,
“न वयं षट्पदार्थवादिनो बैशेषिकादिवत् (१अ० २५सू०)”—इति साङ्ख्यसूत्रस्तुद्वितीयकपिलस्यवा पञ्चशिखाचार्यस्य वांभवितुमर्हति। तथा चैतत्सूत्रदर्शनात् साङ्ख्यशास्त्रीयषड़ध्याय्या।एव वैशेषिकादि परजत्वंसिध्यति, न तु साङ्ख्यदर्शन तत्पूर्वजस्य। उक्तं हि कौमुदीप्रभायाम्—“पञ्चशिखः सूत्रकारआसुरिशिष्यः। कपिल मिति प्रसिद्धिस्तुसम्प्रदायप्रवृत्तेः भृगुप्रोक्तसंहिताया मिव मनुसमाख्या”—इति। किञ्च “यमाहःकपिलं साङ्ख्याः; परमर्षिंप्रजापतिम्।स मन्ये तेनरुपेणविस्मापयति हि स्वयम् (शा० मो० प० २१८अ० ९श्लो०)”—इतिमहाभारतीयश्लोकव्याख्याने नीलकण्ठोऽप्याह—“स कपिलः, तेन पञ्चशिखसञ्ज्ञेन तत्पशिष्यत्वात् तत्तुल्यत्वम्”—इति।तत्वसमासव्याख्यायां सर्वोपकारिण्यांतु सुस्पष्ट मेवोक्तं कपिल—
द्विकादिकम्। तथाहि—“अथान्नानादिक्लेशकर्मवासनासमुद्रनिपतितानाथदीनानुद्दिधीर्षुः परमकृपालुः स्वतःसिद्धतत्वज्ञानो महर्षिर्भगवान् कपिलो द्वाविंशति सूत्राणि उपादिक्षत् ०—०। सूत्रषड़ध्यायितु वैश्वानरावतारभगवत्कपिलप्रणीता; इयन्तु द्वाविंशतिसूत्रोतस्याअपि वीजभूता नारायणावतारमहर्षिभगवत्कपिलप्रणीतेति वृद्धाः”—इति। विज्ञानभिक्षुकृतसाङ्ख्यप्रवचनभाष्याच्चैव मेवावगम्यते। तथाहि—“तत्वसमासाख्यं हि यत् सङ्क्षिप्तं साङ्ख्यदर्शनम्, तस्यैव प्रकर्षेणास्यां निर्वचनम्" —इत्यादि।
आदिपतञ्जलिनापि कृतं योगाशास्त्रमादिसाङ्ख्यपरज मेव। अत एवोक्तंदृश्यते साङ्ख्यप्रवचनभाष्ये—“तत्वसमासाख्यं हियत्सङ्क्षिप्तंसाङ्ख्यदर्शनम्, ०—०, षड़ध्याय्यां तत्वसमासाख्योक्तार्थ विस्तरमात्रम्; योगदर्शने त्वाभ्या मभ्युपगमवादप्रतिषिद्धस्यैवेश्वरस्यनिरूपणेन न्यूनतापरिहारोऽपीति”।–इति। वेदान्तदर्शने तु “एतेन योगः प्रत्युक्तः (२.१.३.)”—“योगिनः प्रति च स्मर्यते(४,२,२१.)”–इत्यादिदर्शनात्, तस्य योगशास्त्रादप्यवरजत्वं सुव्यक्त मेव।
कणादगौतमकृतयोः सूत्रात्मकयोर्वैशेषिकन्यायशास्त्रयोःसमानतन्त्रत्वन्तु सर्वसम्मत मेव। तत्त्वतो न्यायशास्त्रे २.६९; ४.२५; ९७सूत्रेषु वेदान्तमतपरिदर्शनात् वेदान्ते च २.२.११, १३, १४सूत्रेषु न्यायवैशेषिकमतदर्शनात्,—तथा वेदान्ते “साक्षादप्यविरोधंजैमिनिः(१.२.२८.)”–इत्यादिषु जैमिनेर्नामकीर्तनात्, मीमांसायाञ्चाद्यप्रचलितायां “औत्पत्तिकस्तुशब्दत्यार्थेन सम्बन्धः ०—० वादरायणस्यानपेक्षत्वात्(१.१.५.)”–इत्यादिषु वादरायणस्यानपेक्षत्वात् न्यायवैशेषिक-वेदान्त-मीमांसा-
सूत्रकाराणां सनकालिकत्व मेव गम्यते। तत्रापि आत्रेयकृता आन्वीक्षिकी, काशकृत्सिकृता मीमांसा च एभ्यो बहुप्राचीनैव; तयोर्विरलप्रचारकाले एवाद्यप्रचलितानां वेदान्तादीनां जैमिनीयमीमांसायाश्च प्रयोजनीयत्वात्।
सिद्धमित्थम् साङ्ख्यदर्शनाविष्कर्तुः कपिलस्यैव दर्शनकारेषुप्राचीनतमत्वम्; आदिपतञ्जलेस्तत्परजत्वम्; आत्रेयस्य, काशकृत्स्नेश्चततोऽवरजत्वम्; कणभक्षाक्षचरणपाराशर्य्यजैमिनीनां ततोऽप्यर्वाचीनत्वमिति॥
(कात्यायनः) सैषा शैवमतप्रभवात् पाशुपतदर्शनादग्रजा, प्रदर्शितसाङ्ख्यादिदर्शनेभ्यश्चानुजा, मनुसहिंतेति प्रथिता, भृगुसंहिता, कात्यायनकृताद् वार्त्तिकसूत्राच्चावरजैवेत्यसकृदुक्तं पुरस्तात्, क्रमप्राप्तं तदवेहोपपादयामः।
तथाहि—“शूद्राणा मनिरवसितानाम्”–इति (२.४.१०.) सूत्रस्य भाष्ये, “ पृषोदरादीनि यथोपदिष्टं तथैव साधूनि”–इति (६.३.१०९.) सूत्रीयभाष्ये च दृश्यते तावदेतदार्यावर्त्तलक्षणम्—“प्राक् आदर्शात्, प्रत्यक् कालकवनात्, उत्तरेण हिमवन्तम्, दक्षिणेन पारिपात्रम्”–इति। एतच्च लक्षणम्, सङ्ग्रहग्रन्थकारेण भगवता व्याडिनोपदिष्टम्, वार्त्तिककारकात्यायनसम्मतञ्च पतञ्जलिनोद्धृतमिति वृद्धोपदेशः। एतल्लक्षणे विन्ध्यगिरेःपश्चिमस्थः पारिपात्रएवार्यावर्त्त दक्षिणसीमेति गम्यते, अपि च सिन्धुसङ्गमात् पश्चिमसमुद्राद् बहुवश्चिमस्थ आदर्शएव पश्चिमसीमेति गम्यते, मगधराज्यस्य प्रत्यक् स्थितं वकासुरनिलयमद्य ‘वक्सर्’–इति प्रसिद्धंकालयवनाश्रितंकालकवन मेव पूर्वसीमेत्यपि गम्यते। मनूक्त्तार्यावर्त्तलक्षणेतु सिन्धुसङ्गमपश्चिमेन आर्या-
वर्त्तः; अपि गङ्गासागर सङ्गमान्तश्चार्यावर्त्तः; सत्येवं मनुकालेमगधापर पर्यायः कीकटोऽप्यार्यावर्तान्तर्गत एव। तथाहि—“आसमुद्रात् तु वैपूर्वादासमुद्राच्चपश्चिमात्। तयोरेवान्तरं गिर्योः (विन्ध्यहिमागमयोः) आर्यावर्त्तंविदुर्बुधाः (२.२२.)”–इति मनुः। तथाचेद मेवावधार्यते यावन्नामार्यावर्त्तोऽयं न हि पूर्वस्यां विस्तृतोनापि पश्चिमतः सङ्कुचितः, तावदेव जातः कात्यायनः, तदुत्तरभवश्चमनुसंहिताकारः स्वानुभूतानुरूप मेवार्यावर्त्तलक्षणञ्चकार पूर्वोक्त मिति।
शिष्टलक्षणद्वयदर्शनाच्चानयोस्तथैव पौर्वापर्यमवगम्यते।तथाहि—“धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः। ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः (१२.१०९.)”–इति मनुः। सङ्ग्रकारलिखितं कात्यायनसम्मतन्त्वेवं दृश्यते शिष्टलक्षणम्—“एतस्मिन्नार्यावर्त्तेनिवासे ये ब्राह्मणाः, कुम्भीधान्याः, अलोलुपाः, अगृह्यमाणकारणाः किञ्चिदन्तरेण, कस्याश्चिद् विद्यायाः पारङ्गताः, तत्र भवन्तः शिष्टाः (६अ० ३पा० ३आ०)”–इति। एवञ्चकात्यायनकाले आर्यावर्त्तवासादेव शिष्टत्वमपि तदानीन्तनानां ब्राहणानां कुम्भीधान्यादित्वञ्चसाधारणो धर्मइति गम्यते; मनुकाले तु विशेषतोऽध्ययनेनैव शिष्टत्व माप्यं स्थित मिति। तदेतल्लक्षणद्वयपर्यालोचनया चावगम्यते कात्यायनस्यैतन्मनुसंहिताकारात् पूर्वजत्वम्,—तत्रापि बहपूर्वजत्वम्; न ह्यल्पपौर्वापर्यतएव एतादृशीसाधारणाचारभिन्नता सम्भवेन्नामेति।
नास्तिकलक्षणद्वयालोचनेनाप्येव मेवावबुद्ध्यते पौर्वापर्यम्। तथाहि—अस्त्येकं पाणिनिसूत्रम्-—“अस्ति- नस्ति-दिष्टंमतिः”–इति (४.४.६०.)। “अस्तीत्यस्यमतिः—आस्तिकः,
नास्तीत्यस्य मतिः–नास्तिकः, दिष्टमित्यस्यमतिः—दैष्टिकः”–इति च तद्भाष्यम् (४अ० ४पा० ४आ०)। दिष्टम् = भाग्यम्। एतदेव साधारणं लक्षणं कात्यायनकालेऽपि स्थितंसर्शसम्मतम्। ततः परं क्रमात् शिथिलिते वेदविश्वासे पुनस्तद्दार्ढ्यायैवेदंसमुद्भूतं लक्षणान्तरम्—“योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः। स साधुभिर्वहिष्कार्यो नास्तिको वेदनिन्दकः (म० सं० २.११.)”–इति। यदि हि नाम कात्यायनोऽयं मनुसंहिताकाराच्चास्मादवरजः स्यात्, तर्हिएतदनुगतं वार्तिकञ्च नास्तिकादिविधायकसूत्रे उच्येतैव; नच तथोक्तम्; तदेव मप्यगम्यतेवार्त्तिकारकात्यायनस्यैतन्मनुसंहिताकारात्प्राचीनत्व मिति।
एव मिह मनौआचारपर्यायो वृत्तशब्दः(५.१६६.); पूर्वं मृतेत्यर्थे‘पूर्वमारिणी’(५.१६७, १६८.)–इति; एवमादयश्चदृश्यन्ते, परं नैवमादिषु वार्त्तिककारस्यैतस्य कानिचिन्नूतनशासनान्युपलभ्यन्ते; यदि हि नामैतन्मनुसंहितातः परभवः स्यात्कात्यायनः, तर्ह्यवश्य मवक्ष्यदेव तथैव वार्त्तिकानि यथा सिध्येयुरेव वृत्तादीनि आचारादर्थेष्वपीति।अतश्चसिध्यत्येवैतन्मनुपूर्वजत्वंकात्यायनस्य।
एवं “वृषो हि भगवान् धर्मः, तस्य यः कुरते ह्यलम्। वृषलं तं विदुर्देवास्तस्माद्धर्मं नलोपयेत् (८. १६.)”–इत्येतच्चमनूक्तंनिर्वचनं यास्कस्यत्वविदित मेव, कात्यायनवार्त्तिकपाठादपिपरस्तादुत्पन्नम्; अन्यथाहि नैवं ब्रूयाद् यास्कः,—“वृषलो वृषशीलो भवति,वृषशीलोवा (३.३.४.)”–इति; न चेह मौनमाचरेत् कात्यायनो ऽपिति। तदेवं मनुसंहितेतिप्रथितायाःकिल भृगुसंहिताया अन्यूनशताब्दीत्रयपूर्व मेवा-
भवत् कात्यायनीयोवार्त्तिकपाठइति सुवचम्; न हि ततो न्यूनेन कालेन देशसीमपरिवर्त्तनमाचारपरिवर्त्तनं नास्तिकलक्षणपरिवर्त्तनादिकञ्चसम्भाव्य मिति। सिद्धमिथ्यम्—कलेर्विंशशताब्द्याम्, ख्रीष्टजन्मतः पूर्व मन्यूनद्वादशशताब्द्याश्चाभवत्व्याकरणवार्त्तिककारो भगवान् कात्यायन इति॥
अपर मप्यस्तीह तावत् किञ्चिद्विचारयितव्यम्।—कैश्चित् पुरातत्त्वानुसन्धित्सुभिः दाक्षिणात्येषु पाण्ड्यराज्यस्थापनं ख्रीष्टजन्मतः पुरा षष्ठ्यामेव शताब्द्यां बभूवेति निर्णीतम्; अस्ति च कात्यायनवचनम्—“पाण्ड्योर्द्ध्यन्”–इति (पा० ४.१.१६८. वा०); तथाचैतस्यकात्यायनस्य ख्रीष्टजन्मतोऽत्यधिकपञ्चशताब्दीपूर्वजत्व मेव सम्पद्यते। नेतच्चतुरस्रम्; ख्रीष्टपूर्वाष्टमशताब्द्यां शैवमतं प्रचरित मित्यत्र तेषा मपि सम्मतिदर्शनात्। तादृशशैवमतप्रचारतोऽपि प्राचीनात् किल मनुसंहिताकारात् प्राचीनोऽयं वार्त्तिककारः कात्यायनः, कथङ्कारं स्यात् ख्रीष्टपूर्वाषष्ठशताब्दीतोऽपि परज इति? अतः पाण्ड्यराज्यस्थापन मवश्यं बभूव ख्रीष्टजन्मतो द्वादशीब्दीतोऽपि प्रागेव; अथ वा “पाण्डोर्द्ध्यण्”–इत्यादिवचनानि नैव कात्यायनीयानि, अपि भाष्यकाराद्युक्तान्यनतिप्राचीनान्येवेति सर्वैर्मन्तव्यम्; अन्यथा हि सर्वमते एव सर्वंभवेत् पिण्डीभूतमिति धीमद्भिरेव विचार्यंपूर्वापरदर्शिभिः समन्तादिति॥
(यास्कः) तस्मादेतस्माच्च कात्यायनात् प्राचीनोऽयं यास्कः। तदत्र चत्वारो हेतवः।—“अरण्यानी अरण्यस्य पत्नी”–इत्युक्तमिह निरुक्ते(९.३.८.); यदि हि नाम वार्त्तिकग्रन्थात् पुरातनंन स्यादेतन्निरुक्तम्, तर्ह्यवश्य मेवैवं निरुच्येत
“अरण्यानी महदरण्यम्”–इति; “हिमारण्ययोर्महत्वे”–इति (४.१.४९. पा० वा०) वार्त्तिकानुरोधात्। एवञ्च ज्ञायत एवनिरुक्तप्रणयनकालं यावत् नाभवद्वार्त्तिकग्रन्थइति।यदा चाभूत् वार्त्तिकग्रन्थः, तदा तु अरण्यपत्नीत्यर्थेअरण्यानीति व्यवहारो दूरङ्गतः, समुत्पन्नश्चमहदरण्य मित्यर्थेअरण्यानीति; तत एव प्रणीतं तत्कालानुगतं लक्षण मिदं ‘हिमारण्ययोर्महत्वे’–इतीति प्रथमः।
वेदे“सुकिंशुकम्(ऋ० सं० ८.३.१३.५.)”–इत्येवमादौश्रुतस्य ‘सूर्या’–इति पदस्य पुंयोगानुगता सूर्यस्य पत्नीतिव्याख्या नासीत् पाणिनिकाले प्रचलिता, ततो बहुकालेऽतीतेतादृशव्याख्याने प्रचलिते जातोऽयं यास्कोवेदे सर्वविधेर्बाहुल्यंपाणिनेरपि सम्मत मेवेत्यालोच्यनिरवोचत् “सूर्या = सूर्यस्यपत्नी”–इति (१२. १. ७.); तद्दृष्टैवेदंवार्त्तिक मारचितम् “सूर्याद् देवतायाम् चाप् (पा० ४.१.४८. वा०)”–इति। इतश्चोभयं गम्यते—अस्यापाणिनितो बह्वर्वाचीनत्वम्, कात्यायनात् प्राचीनत्वञ्चेतीति द्वितीयः।
अस्त्येव मत्रनिरुक्तेजरयितेत्यर्थकं जारशब्दव्युत्पादनम्—“आदित्योऽत्र जार उच्यते, रात्रेर्जरयिता”–इति (३.३.४.)। नून मेतद् दृष्ट्वैवेदं वार्त्तिक मारब्धम्—“दारजारौ कर्त्तरि णिलुक् च”–इति (पा० ३.३.२०. वा०)। एवमादिभ्योऽपिप्रतीयते यास्कस्य कात्यायनपूर्वजत्व मिति तृतीयः।
चतुर्थस्त्वयमतिप्रबलः—पाणिनिसूत्रेषु ऋणशब्देपरे वृद्धिविधानं न विद्यते, ततश्च पाणिनिकाले ‘प्रर्णम्’, अपर्णम्”—इत्यादयः प्रयोगा एवेष्टा इति गम्यते। ततो बहुकालान्तरे
जातोऽयंयास्कः, तदानीं क्वचित् क्वचिद् वृद्धियुक्तःप्रयोगोऽपि ऋणशब्देऽवश्यं प्रचलित इत्येवास्मिन् निरुक्तेलक्ष्यते “अपार्णम्”–इति (९. १. ८. ) प्रयोगः। ततोऽतीतेबहुकाले जातः कात्यायनः, तदानींतेन हि षट्स्वेव स्थानेषुऋणशब्दे वृद्धिःप्रचलिता दृष्टा, तथैवेमेवार्त्तिके पठिते—“प्रवत्सतरकम्बलवसनानां चर्णे”–इति, “ऋणदशभ्यां च”–इति च (पा० ६. १. ८९. वा० )। एताभ्या मेव वार्त्तिकाभ्यां सिद्ध्यन्त्येव प्रार्ण मित्यादीनि; परमपार्णमितिपदस्य साधनाय न कश्चिद्यत्नस्तेन कृतो दृश्यते, ततोऽवगम्यते तदानीं तथा व्यवहारो लुप्त एवेति। अतएवावश्य मेवंमन्तव्यम्—यास्कोऽयं पाणिनितो बह्वर्वाचीनः, कात्यायनतस्तु बहुप्राचीन इति; नान्यथा ह्यपार्णमिति नैरुक्तमुपपद्यते। यदि ह्ययं यास्कःकात्यायनतोऽप्यर्वाचीनः स्यात्, तर्ह्यवश्यं वदेदर्पणमिति, सूत्रवार्त्तिककारयोस्तथैवानुशासनात्; यदि ह्ययं पाणिनितोऽपि प्राचीनः स्यात्, तर्ह्यवश्य मेव पाणिनिस्तथैव सूत्रंविदध्यात्, यथा च सिद्धं भवेदपार्णमिति। तदेतदेक मेव पदम् यास्कसमयनिर्णये बहु मन्यतेऽस्माभिः “अपार्णम्—अपार्णम्—अपार्णम्”—इति॥
(पाणिनिः) यास्कस्य पाणिनिपरजत्वे त्वन्येऽपि हेतवः समुपलभ्यन्ते। तथाहि—(१) निरुक्तस्यास्य प्रथमेऽध्याये एव(१.६ .१.) “परः सन्निकर्षःसंहिता (पा० १. ४. १०९.)–इति पाणिनीयं संहितालक्षण मुद्धृतं दृश्यत इति प्रथमः। (२) पाणिनिपरजन्मनो बह्वृक्प्रातिशाख्यकृतः शौनकाच्चायंयास्कः पराचीनः सुतरां पाणीनितो बह्वर्वाचीन इति द्वितीयः। यथाचस शौनको यास्कात् पूर्वभवः, पाणिनिः खलुततोऽपि
पूर्वभवः, तदनुपद मेव स्फुटीभविष्यति। (३) उक्तञ्चनिरुक्ते—“नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च; न सर्वाणीति गार्ग्योवैयाकरणानाञ्च”–इति (१. ४. १.)। इह, वैयाकरणशब्देन पाणिनीयविदा मेव ग्रहणं भवितु मर्हति; पाणिन्यष्टके एव हि तादृशमतनिदानसूत्रद्वयदर्शनात्। तथाहि—“अर्थवदधातुरप्रत्ययः प्रातिपदिकम्, कृत्तद्धितसमासाश्च”–इति (१. २. ४५, ४६.)। एतेएव सूत्रे अवलम्ब्य ‘प्रातिपदिका व्युत्पन्नाअव्युत्पन्नाश्च’–इति पाणिनिमतं वर्णितं महाभाष्यादौ; न त्वन्यत्र (प्रातिशाख्यादौ) नाम्नां तादृशोभयविधत्व मुपदिष्टं क्वचिदपीति। एवञ्चेह पाणिनीयविदा मेव मतमुपन्यस्तं यास्केन “वैयाकरणानाम्”–इतीदं सुवच मिति तृतीयः। नन्वेवं पाणिनीयः प्रातिपदिकशब्दःकुतो न व्यवहृतो यास्केनेति चेदत्रवक्तव्यं स्यादेतत् पाणिनिपूर्वजानां शाकटायनादीनांव्यवहारानुरोधप्राधान्यादेव नामशब्दव्यवहारतस्तस्य बाध इति।(४) निरुक्तेऽत्र (४.४.४.) यद् दृश्यते ‘अस्याः’, ‘अस्य’–इत्यनयोर्निवचनादिकम्, तत्तु“इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (२.४.३२.)”–इत्यस्यैव पाणिनीयसूत्रस्य व्याख्यानपर मिति चतुर्थः। (५) अयञ्च हेतुः, पञ्चमः,—उक्त मिह“आपनीफणदिति फणतेश्चर्करीतवृत्तम”–इति (२.७.६,); “चर्करीतम् = अभ्यस्तम्”–इतिमहाभाष्यम् (७ अ० १ पा० १ आ०); न हि चर्करीतवृत्तस्य ज्ञानं भवितु मर्हति शाकटायनीयादिभ्य ऋक्ततन्त्रादिभ्य इति। (६) तत्रैवाध्याये (२.१.४) “तद्धितसमासेषु”–इति च दृश्यते; महाभाष्यकारेण तूक्तंपस्पशायाम्—“न चान्तरेण व्याकरणं कृतस्तद्धिता वा
शक्या विज्ञातुम्”–इति; इह महाभाष्यवाक्येव्याकरणपदेनपाणिनीयस्यैव ग्रहण मन्यथा तत्प्रयोजनान्वाख्यान मेव व्याकुप्येतेतिसोऽयं षष्ठः। (७) तथैवाग्रे—“निर्ब्रूयान्नावैयाकरणाय (२.१.६.)”–इति, इतश्च ज्ञायते निरुक्तादस्मात् पूर्वमेव व्याकरणम्; व्याकरणज्ञानपूर्वक मेव निरुक्तज्ञानं यास्काचार्यस्याभिमत मिति। न हितद् व्याकरणं सर्वतोमुखं पाणिनीय मन्तरेणान्यत् कि मप्यासीदादिम मित्यवश्य मेवैवमादिषु सर्वत्रैव निरुक्तेपाणिनीय मेवेष्टं यास्कस्येति सप्तमः। (८) अपि चाय मष्टमः—निरुक्तप्रयोजनकथनावसरे यास्कः स्वय माह—“व्याकरणस्य कार्त्स्न्यं स्वार्थसाधनञ्च”–इति(१.५.१.)। ततः सिद्ध मस्य निरुक्तस्य व्याकरणपरिशिष्टरूपत्वम्; यतश्चायं ग्रन्थोव्याकरणपरिशिष्टरूपः, अतो व्याकरणपरभव एव; तच्च व्याकरण मिहपाणिनीय मेवेत्यप्यस्माकम्; दृश्यते ह्यत्र “पृषोदरादीनि यथोपदिष्टम्”–इ्ति (६.३.१०६.) पाणिनिसूत्र मेव प्रपञ्चितं लोपागमवर्णविकारादिप्रदर्शनपरेण नैरुक्तभागेन (२.१. १–६.)। अत एव तत्र महाभाष्ये उक्तम्—“पृषोदरादीनीत्युच्यते, कानिपृषोदरादीनि? पृषोदरप्रकाराणि। कानि पुनः पृषोदरप्रकाराणि? येषु लोपागमवर्णविकाराः श्रूयन्ते, न चोच्यते”–इति (६ अ० ३ पा० ३ आ०)। अत एवेहैव चैषा हरिकारिका—
“वर्णागमो वर्णविपर्ययश्च द्वौचापरौ वर्णविकारनाशौ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्”–इति॥
अपि नाम व्याकरणं तु सर्वतोमुखं पाणिनिनैव प्रथमं प्रणीत मिति वैयाकरणानां सिद्धान्तः। अत्र च बहूनि प्रमाणानि देदीप्यन्ते; किञ्चिदिहोपवर्णयामः।—
प्रथमं तावत्, नन्दिकेश्वरकारिकायाम्—“नृत्तावसानेनटराजराजो ननाद ढक्कां नवपञ्चवारम्। उद्धर्तुकामः सनकादिसिद्धामेतद्विमर्शेशिवसूत्रजालम्॥ अत्र सर्वत्र सूत्रेषु अन्त्यवर्णचतुर्द्दशम्। धात्वर्थं समुपादिष्टं पाणिन्यादीष्टसिद्धये”–इति। “धात्वर्थंधातुमूलकशब्दशास्त्रप्रवृत्त्यर्थम्”–इत्यादि च तत्र नागेशभट्टः। तदेवमादीनां समालोचनयोपलभ्यत एव पाणिनेरादिव्याकरणकर्तृत्वम्।
द्वितीयन्त्विमानि पाणिनीयशिक्षावचनानि—“शङ्करः शाङ्करींप्रादात् दाक्षीपुत्राय धीमते। वाङ्मयेभ्यः समाहृत्य दैवीं वाच मिति स्थितिः॥ येनाक्षरसमाम्नायमधिगम्य महेश्वरात्। कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः॥ अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया। चक्षुरुन्मीलितं येन तस्मैपाणिनये नमः॥”–इति। पाणिनेरादिव्याकरणकर्तृत्वेइतोऽपि स्फुटतरं मानं किं भवितु मर्हतीति।
तथैव फणिभाषितभाष्याब्धेःपस्पशाह्निकं प्रायः सर्वमेवात्र मतेऽनुकूलम्। तथाहि—“अथ शब्दानुशासनम्”–इति प्रतिज्ञालक्षणाधिकारवचनपर्यालोचनेनैव प्रतीयते,—इतः पूर्वंनासीदेवं लौकिकवैदेकोभयविधसर्वशब्दानां लघुनोपायेनानुशासन मपरंकिञ्चिच्छास्त्रंव्याकरणं नामेति। अन्यच्च—“अनभ्युपाय एषशब्दानां प्रतिपत्तौप्रतिपदपाठः। एवं हि श्रूयते—‘बृहस्पतिरिन्द्रायदिव्यं वर्षसहस्रं’प्रतिपदोक्तानां शब्दानां शब्दपारायणंप्रोवाच, न चान्तं जगाम’।बृहस्पतिश्चवक्ता, इन्द्रश्चाध्येता, दिव्यं वर्षसहस्रमध्ययनकालः, न चान्तं जगाम; किम्पुनरद्यत्वे?यः सर्वथा चिरञ्जीवति, स वर्षशतं जीवति। चतु-
र्भिश्च प्रकारैर्विद्योपयुक्ता भवन्ति—आगमकालेन, स्वाध्यायकालेन, प्रवचनकालेन, व्यवहारकालेनेति। तत्र चागमकालेनैव कृत्स्नमायुः पर्युपभुक्तं स्यात्। तस्मादनभ्युपाय एष शब्दानांप्रतिपत्तौप्रतिपदपाठः। कथं तर्हीमे प्रतिपत्तव्याः?किञ्चित्सामान्यविशेषवल्लक्षणं प्रवर्त्त्यम्; येनाल्पेन यत्नेन महतो महतःशब्दौघान् प्रतिपद्येरन्”–इत्यादेःभगवत्पतञ्जलिविरचितायाः पाणिनीयव्याकरणवतरणिकायाः पाठादेवावगम्यते नैतत्पूर्व मेवं सर्वतोमुखं सर्वावयवसम्पन्नं कि मपि व्याकरणंस्थित मिति तृतीयम्।
श्रूयन्ते च सर्वेष्वेव वेदेषु पदसंहिताः। “अग्रिम्। ईले। पुरः ऽहितम्”–इत्येवं मन्त्रश्रुतपदविभागादिकं कुर्वन्त एव ता अध्यापयन्त्याचार्याः। तादृशपदपाठग्रन्थाएव महाभाष्योक्तप्रतिपदपाठश्रेणीगताःस्युरिति च सम्भाव्यते। तादृशप्रतिपदपाठाश्चतदैव शोभन्ते स्म, यदा नासीत् सामान्यविशेषवल्लक्षणात्मकं किञ्चिदपि सर्वतोमुखं व्याकरणम्। ईदृशपदपाठानां चाविष्कर्त्तारः शाकल्यादय एव। “वायः ०—०वेति च य इतिच चकार शाकल्यः”—इति (६. ५. ५.) यास्कोक्तेः। एका मेवेमा मृक्पदसंहिता मभिलक्ष्याह महाभाष्यकारः—“शाकल्यस्य संहितामनु प्रावर्षत्”–इति (१ अ० ४ पा० ४ आ०)। स एष हि शाकल्यो नाम ऋषिः, पाणिनितः पुरातन एव; तदीयाष्टाध्याय्याम् “सम्बुद्धौशाकल्यस्येतावनार्षे(पा० १. १. १६.)”—इत्यादौ शाकल्यनामस्मरणात्। तदेवं ज्ञायतेनासीदेव पाणिनेःपूर्वंशाकल्यसमयेऽपि पाणिनीयसदृशं सर्वतोमुखं व्याकरणं कि मपीति चतुर्थम्।
एव मस्ति च सर्वेषां वेदानां क्रमपाठो नाम ग्रन्थएकैकः; त एव क्रमसंहिता उच्यन्ते। एतत्क्रमपाठनियमस्तु यद्यपिशाकल्यस्यपदपाठप्रवृत्तेः परकालभव एव, सति कुले चित्रमिति न्यायात्; परं पाणिन्यष्टकात् पुरैवाविरासीदित्यपि सत्यम्; तत्रहि क्रमाध्येत्रर्थेक्रमक इति पदसाधनायैव “क्रमादिभ्यो वुन्”—इति(पा० ४. २. ६१.) सूत्रस्य दर्शनात्। क्रमस्यैतस्यादिप्रवक्ता, एतादृशाध्ययनविधेः प्रवर्त्तकःखलु बाभ्रव्य ऋषिः। तच्चोक्तमृक्प्रातिशाख्ये—“इति प्र बाभ्रव्य उवाच च क्रमम्, क्रमप्रवक्ता प्रथमं शशंसच”–इति (११.६१.)। “इत्येवं बभ्रुपुत्रःभगवान् पाञ्चालः, क्रमस्य वक्ता शिष्येभ्यः, क्रमं प्रथमंप्रोवाच प्रशंशस च हिताय”–इत्यादि च तत्र तद्व्याख्यान मुव्वटकृतम्। महाभारतेऽपि शान्तिपर्वान्तर्गतमोक्षधर्म्मणि तथैवोक्तम्—“पाञ्चालेन क्रमप्राप्तस्तस्माद् भूतात् सनातनात्। बाभ्रव्यगोत्रः स बभौप्रथमं क्रमपारगः”–इति (३४२ अ० १०० श्लो०)। एष बाभ्रव्योऽपि, पाणिनेःपूर्वभवः; अष्टके “मधुबभ्रोर्ब्राह्मणकौशिकयोः”–इति (पा ४.१.१०६.) सूत्रस्य दर्शनात्। एतस्य च क्रमाध्ययनस्य प्रयोजनकथनावसरे चोक्त मिदं बह्वृक्प्रातिशाख्यभाष्ये“भवति चात्रश्लोकः—‘शरदुज्वलो वितिमिरो विभाति भगवान् यथांशुमान्। सत्यवचनवित्तमः क्रमकः क्रमते हि संशयं तमस्तथात्मवान्”–इति (११.२७.)। एवञ्चवेदसहिंतासु श्रुतानां मन्त्राणा मर्थबोधोपयोगिपदच्छेदादिविषयकसंशयनाशायैव क्रमग्रन्थाः प्रादुर्भूताः पुरा इत्येव क्रमहेतुसारम्। तादृशसंशयस्तु भवेन्नामेदृशसर्वतोमुखव्याकरणाविर्भावात् प्रागेव; आविष्कृते ह्येतादृशे व्याकरणेनैव तादृशसंशयस्य प्रसर-
तेति। इतश्च ज्ञायते पाणिनेः पूर्वंबाभ्रव्यकालेऽपि नासीदेवंसर्वतोमुखं सर्वाङ्गसम्पन्नं व्याकरणं नाम कि मपीति पञ्चमम्।
बाभ्रव्यः खलु ऋग्वेदस्य क्रमकारः; अतो बह्वृक्प्रातिशाख्ये तस्यैव नामग्रहणम्; तथा हयग्रीवो यजुर्वेदस्य। सएव चैतस्याःपद्धतेः प्रथमोद्भावकः। अत एवोक्तं महाभारते तत्पूर्वमेव— “यत्तद्धयशिरः पार्थसमुदेति वरप्रदम्। सोऽहमेवोत्तरेभागे क्रमाक्षरविभागकृत्। वामादेशितमार्गेण मत्प्रसादान्महात्मना”–इति; एवदुत्तर मुक्तं तु प्रदर्शितं पुरस्तादिहैव “पाञ्चालेन ०—० क्रमपारगः”–इति (११० पृ०)। एवं कण्डरीकोगालवर्षिः सामसंहितायाः छन्दोविभागस्य क्रमकृत्, ब्रह्मदत्तश्चाथर्वसंहितायाः। ताविमौ बाभ्रव्यस्यावरजाविति चास्ति तत्रैवमहाभारते तदुत्तरम्— “नारायणाद्वरं लब्ध्वा प्राप्य योग मनुत्तमम्। क्रमं प्रणीय शिक्षाञ्चप्रणयित्वा स गालवः। कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् (महाभा०शा० मो० प० ३४२ अ०१०१, १०२ श्लो०)”–इति। अपि च गालवश्चायं बाभ्रव्यपरजोऽपि पाणिनितः पूर्वज एव; तदीयाष्टके हि “इको ह्रस्वो ऽद्ध्यो गालवस्य (पा० ६.३.६१.)”—इत्यादौगालवनामस्मरणात्। तथाच गालवकालेऽपि नाविष्कृत मेवं सर्वतोमुखं व्याकरण मन्यथा कृतंनाम सामयोनिक्रमपाठेनेति षष्ठम्।
अस्ति चैको ग्रन्थो वैदिकानां “चातुर्ज्ञानम्”–इति।ततश्चऋक्संहिताग्रन्थे विसर्गसन्धीनां, सन्ध्यक्षरसन्धीनाम्, नान्तपदानाम्, समस्तासमस्तानां च बोधो भवति। तथाहि—ऋग्वेदसंहितायाः प्रथमेऽष्टके अग्निमीले–इति वर्गे—“सुता विश्वा दधाना अजोषा इद्रताः सोमपा इमा जुष्टा मत्सरा द्रष्ट्वा घृत-
पृष्ठा यजत्रा द्रविणोदा धानाः शुभ्राःपञ्चदश। तुविजातौदधानाइन्द्रेयोगे चक्षसे महाधने ये बृहते हूमहे यज्ञेसुजिह्वौ भ्रियतएकादश; य एकश्चर्षणीनां कक्षीवन्तंय इति वर्जयित्वा। अवीवृधन् द्रुहन् आदित्यान् विश्वान् पर्वतान्पञ्च। पावकासने तदिमं द्वैपदम्, द्रुहन्रोहयज्जेष आश्रुत्कर्णैकपदम्,सहस्रसातमंद्वितीयंनेष्टरिति दीद्यग्नी इति दीद्यग्नी ऋतेन द्वैपदम्”–इति (१.१.१.)। पदगाढ़ादयोवैदिकग्रन्थाअप्येवमेव। एतादृशाश्चग्रन्थाः स्युस्तावदेव कृतार्थाः यावन्नैवाविर्भूतं पाणिनीयसदृशं कि मपि सर्वतोमुखं व्याकरणम्; प्रचलिते ह्यतादृशे व्याकरणे विसर्गसन्ध्यादिसंशयानां प्रसरतैव कथ मिति सुधीभिरेवाकल्यतां समन्तादिति सप्तमम्।
एव मस्ति चापरो ग्रन्थो वैदिकानांयत्रवेदसंहितायाःप्रतिवर्गस्य पदानाम्, इतिकरणानाम्, द्विःखण्डानाम्, विसर्गाणाम्, मकारान्तानाम्, नकारान्तानाम्, तकारान्तानाञ्चेतिसप्तविधसङ्ख्याः अङ्काक्षरैर्निर्द्दिष्टाः। तथाहि—“अयं देवाय”–इति-प्रथमाष्टकीयद्वितीयाध्यायीयाद्यवर्गे“४३।२।८।१४।९।२।०।”–इति (२.१.१.)एतेन तु निःसंशयं विज्ञायत एतत्;—तत्र वर्गेत्रिचत्वारिंशदेव, पदानि; द्वेएव इति करणे (‘हरीइति’, ‘पुनरिति’); अष्टौएव द्विःखण्डानि (‘रत्नऽधातमः’, ‘वचःऽयुजा’, ‘परिऽज्मानम्’, ‘सुऽखम्’, ‘सवःऽदुघाम्’, ‘सत्यऽमन्त्राः’, ‘ऋजुऽयवः’, ‘राजऽभिः’)। द्विःखण्ड मित्युक्ते समस्तस्यासमस्तस्य चावगृह्यस्यान्तःपदस्य पदस्य बोधो भवति। तथाहि—“अन्तः पदं येषां स्याद् विकारोऽनन्यकारितः। एतानि परिगृह्णीयाद् बहुमध्यगतानि च (ऋ०प्रा० १०.९८)”
–इत्याह शौनकः। ‘अवगृह्याणिद्विःखण्डानि पूर्वोत्तरपद्यभूतानि’–इत्यादि च तत्रोव्वटः। प्रदर्शितेष्विहतु ‘रत्नऽधातमः’–इत्यत्र’रत्नानां धातमः’–इत्येवं समास इष्टः पदकारस्यशाकल्यस्य, तथैवान्येषा मपि पाणिनिपूर्वजानाम्; किञ्च राजभिरित्यत्र, अन्तःपदकार्यस्य न-लोपस्य कर्त्तव्यत्वात्तस्यापि द्विःखण्डत्व मन्तःपदत्व मिति। एवं तत्र वर्गेसन्ति चतुर्द्दशैव विसर्गाः;नवैव मकारान्तानि पदानि; द्वेएव स्तो नकारान्तेपदे;तकारान्तं पदन्तु नास्त्येक मपीति। तदेवमादीनां ग्रन्थानाञ्च प्रादुर्भावदर्शनात् गम्यत एवास्मात् पाणिनीयाष्टकात्पूर्वंनासीदेव कि मपि व्याकरणं सर्वतोमुखं सर्वाङ्गसम्पन्नमीदृशम्, यथा चैवमादीनां ग्रन्थानां प्रादुर्भाव एव न स्यादिति; कोहि नामाधीतपाणिनीयः पदच्छेदप्रभृतिज्ञानाय, विशेषतो द्विःखण्डज्ञानाय चैतादृशस्यापि ग्रन्थस्याध्ययने यतते साम्प्रत मित्यष्टमम्।
एवं सन्ति च विविध–‘लक्षण’–ग्रन्थाः प्राचीनतमाः। तत्तदनुगतान्येव सङ्केताक्षराणि दृश्यन्ते वर्गादिना मन्तेषु। तादृशाक्षरसन्निवेशैश्चतत्तद्वर्गादिषु प्रगृह्यसङ्ख्यादीनांनिश्चयतावगम्यते। तथाहि—अध्येतारश्चाद्यापि अग्निमीले(ऋ० स० १.१.१.)”–इत्यस्य वर्गस्यान्तेऽधीयत एव “ङै”–इति सङ्केताक्षरम्। एतेनहि ज्ञायते—तत्र वर्गेनान्त-विसर्गान्त-पदानां विषमत्वम्, द्विःखण्डानां तु समत्वम्, प्रगृह्याभावः, स्यन्तवैषम्यञ्चेति। वस्तुतः सन्ति तत्र वर्गेविसर्गान्तानि सप्तदश, द्विःखण्डान्यष्टौ; अस्तिच एक मेव नान्तम्, स्यन्तञ्चैकम्, प्रगृह्याभावश्चेति। एवं“घृतवती(ऋ० स० ५.१.१४.)”–इत्यस्यवर्गस्यान्तेऽधीयतएव खलु ‘ध्म’–इति सङ्केताक्षरम्। एतेन च तत्र वर्गेनान्त-
स्यन्त द्विःखण्डानां वैषम्यम्, विसर्गान्तानां साम्यम्, प्रगृह्याश्चैकत्रिंशत्,—इत्येवं बोधितं भवति; किञ्च नास्ति तत्र नान्तंस्यन्तं वा पद मेक मपि; सन्तिच द्विःखण्डानि सप्तविंशतिः, विसर्गान्तानि च प्रदानि चतुर्द्दश, प्रगृह्याख्यपदानि चैकत्रिंशदेवेति। तदेवमादीनां ग्रन्थानां तदैवोपयोगो विशेषत आसीत्, यदा नासीत् पाणिनीयसमानं सर्वतोमुखंव्याकरणं किमपि; सति हि पाणिनीये व्याकरणे, पाणिनीयसमानापरव्याकरणे वा तत्रव्युत्पन्नानां कि मेतादृशसङ्केताक्षराभ्यसेन; ननु ते हि मन्त्रान्प्रपठ्येव किमु नावगच्छेयुः प्रगृह्यादीनि? अवगच्छेयुरिति चेदवश्यंमन्तव्यं नासीत् पाणिनीयात् पूर्वंपाणिनीयसमानं कि मपि सर्वतोमुखं व्याकरण मित्यत एवैवंविधसङ्केतोपदेशाःसमुद्भाविताः, समादृताश्च ते तदानीन्तनैरिति नवमम्।
यश्चैष वोपदेवकृतस्य कविकल्पद्रुमस्य भूमिकाया मिन्द्रादीनांशाब्दीकाना मुल्लेखोविद्यते—“इन्द्रश्चन्द्रः काशकृत्स्नापिशलीशाकटायनः। पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः॥ मतानि तेषा मालोच्य सर्वसाधारणः स्फुटः।०—०। कविकल्पद्रुमो नाम पद्यैर्निष्पाद्यतेऽत्रच॥”–इति, तेनापि व्याकरणेषुपाणिनीयस्यादिमत्तान विहन्यते; शाब्दिकत्वव्याकरणकर्तृत्त्वयोः सामानाधिकरण्यनियमाभावात्;—न ह्येवंकश्चिन्नियम उपलभ्यते, ये ये शाब्दिकाः, स्युरेव ते ते व्याकरणकर्त्तारइति; व्याकरणकर्तृत्वाभावे हि शाब्दिकत्वंन भवतीत्येवं नियमो नैव विचारसहः। तदेव मस्मन्मते,—अत्रोक्तेषु शाब्दिकेषु इन्द्रस्य प्रतिपदपाठाध्येतृत्वेन शाब्दिकत्वं महाभाष्ये वर्णितम्, प्रदर्शितञ्चतत् पुरस्तादिहैव(१०८ पृ०)। चन्द्रस्तु व्याकरणकर्त्तेति मयम्,
परं न स पाणिनितः प्राचीनः; पाणिनिभाष्यानुसारत एव तेनव्याकरणान्तरं प्रणीतं यतः।तथाहि राजतरङ्गिण्याम्—“चन्द्राचार्यादिभिर्लब्ध्वा देशं तस्मात्तदागमम्। प्रवर्त्तितंमहाभाष्यंस्वञ्चव्याकरणं कृतम् (१.१.७६.)”–इत्युक्तंपुरस्तात् प्रदर्शित मेव।काशकृत्स्निस्तुशाब्दिक इति सत्यम्, परं न वैयाकरणः; अपि तु मीमांसकः। तथाहि महाभाष्ये—“काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी”–इति(४ अ० १पा० १आ०)। शाब्दिकाना मन्यतमः खल्वापिशलिर्यतो “वा सुप्यापिशलेः (६.१.९२.)”–इत्युक्त्या पाणिनिना सम्मानितोदृश्यते, अतः पाणिनिसमकालिकः तत्पूर्वकालिको वेति प्रतीयते च, परं नैतावता तस्य व्याकरणकर्तृत्वमप्यङ्गीकर्तव्यम्; न ह्युपलभ्यते इदानीम् नापि प्रतीयते कदाप्यासीत् तद्व्याकरणस्य सत्तेति;सामतन्त्रस्यप्रणेता आपिशलिरिति प्रवादोऽपि क्वाचित्कः। शाकटायनस्य तु ऋक्तन्त्रंव्याकरण मद्यापि विद्यते, परं न ततः समासतद्धितादीनां सर्वथा बोधः समुत्पद्यते; नापिततः सुद्ध्युपास्य इत्यादिपदानां साधनिका ज्ञायन्ते; न चतस्यात्र निरुक्तेव्याकरणत्वेन ग्रहण मिष्टं गम्यते; यास्केन हिप्रायः सर्वत्रैव वैयाकरणेभ्यःपृथक् कृत्वैव तन्नामग्रहणंकृत मिति। तथाहि—“नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च; न सर्वाणीति गार्ग्यो वैयाकरणानां च”–इति(१.४.१.)। अमरोऽपि न व्याकरणकृत्, नापि पाणिनेःपूर्वभव इति तु सुप्रसिद्धमेव। जैनेन्द्रस्तुसत्व मभवत् सर्वतोमुखस्यैकस्य व्याकरणस्य प्रणितेति; दृश्यत एव हि तद्व्याकरण मद्यापि, परं तस्यपाणिनिपरजत्वंतु सर्वसम्मत मेवेति दिक्॥
यश्चैष प्रवादः,—आसीत् पुरा माहेशंनाम व्याकरणं पाणिनीयतोऽपि बृहत्तरं पुरातनञ्चेत्ति तथाचाय मुद्भटश्लोकः—
“यान्युज्जहार माहेशाद् व्यासो व्याकरणार्णवात्।
किं तानि पदरञ्जानि सन्ति पाणिनिगोष्पदे”–इति।
तदेतस्यमातृपितृनिर्णयहीनत्वादप्रामाण्यमेवेति विदुषाम्परामर्शः। मधुसूदन-सरस्वती-नामा भिक्षुःप्रस्थानभेदे पाणिनीय मेव माहेश्वर मित्याह। तथाहि—“तच्च वृद्धिरादैजित्याद्यष्टाध्यायात्मकं महेश्वरप्रसादेन भगवता पाणिनिनैव प्रकाशितम्; अत्र कात्यायनेन मुनिना पाणिनीयसूत्रेषुवार्त्तिकं विरचितम्; तद्वार्त्तिकस्योपरि च भगवता मुनिना पतञ्जलिना महाभाष्य मारचितम्। तदेतत् त्रिमुनि व्याकरणं वेदाङ्गं माहेश्वर मित्याचक्षतै”–इति। “अइउण”–इत्यादिषुचतुर्द्दशसुसूत्रेषु पुरासीत् बृहद् व्याख्यानं नन्दिकेश्वरकृतम्, तदेव माहेश मिति व्यपदिष्ट मितिच वृद्धाः।अस्मन्मते तु केनचिदतिक्षुद्रव्याकरणाध्यायिना पाणिनीयद्वेषिणैवैष श्लोकः प्रणीतः, आसीन्माहेशंनाम अतिबृहद् व्याकरण मिति प्रवादोऽप्येतदनुगत एव; माहेशन्नु वस्तुतः खपुष्प मिव त्रैकालिकाभावसम्पन्न मेवेति॥
किञ्चेह पाणिनीये अत्रि—शाकल्य—काश्यप—भृगु—कुत्स—वसिष्ठ—गौतम—कौण्डिन्य—जावाल—वडवा—यस्क—शाकटायन—कौरव्य—मण्डूक—मधु—बभ्रु—पैल—कलापि—वैशम्पायन—तित्तिरि—वरतन्तु—कौशिक—शौनक—गालव—भारद्वाज—चाक्रवर्म—स्फोटायन—आपिशलि—आङ्गिरस—छागलि—कठ-चरक—पाराशर्य्य—शिलालि—प्रभृतिबह्वाचार्यनामस्मरणात् तेभ्यो ह्यवरजत्व मस्य पाणिनेः स्फुट मेवेत्यवश्यं स्वीकार्यम्; परं न तथास्वीकारे स्वीकृतंभवेत्,—एतस्मात्
पूर्वमपि कश्चिदासीद् व्याकरणग्रन्थःसर्वतोमुख इति। एवञ्चैषु ये केचिदाचार्याः पाणिनिसमकालाः, तेषां भाषाव्यवहारतो ज्ञातानितेन भगवता तेषां शाब्दमतानि; ये केचन तत्पूर्वभवाः, तेषा मपरशास्त्रीयग्रन्थादिदर्शनादपि सम्भवेन्नाम तदीयशाब्दमतज्ञानम्; ये तु व्याकरणकर्त्तारोऽपि, तेषां तान्यपि व्याकरणानि, न ह्येतादृशानि सर्वतोमुखानि सर्ववेद-लोक-विषयाणीति चावश्यमुररीकर्त्तव्य मस्मत्प्रदर्शितहेतुभिरिति।
गरुडपुराणोक्तस्य कुमारव्याकरणस्य तु वोपदेवकृतात् मुग्धबोधादप्याधुनिकत्वम् “तिप्तसन्ति प्रथमो मध्यमः सिप्थस्थोत्तमपूरुषः। मिब्वस्मसः परस्मैतु पदानाञ्चात्मनेपदम्”–इत्यादिपाठादेव सुव्यक्तम्। अग्निपुराणाद्युक्तानि व्याकरणानि तु बालक्रीड़नानीव। कार्त्तिकेयोक्त-व्याकरणादीन्यपि पाणिनीयप्रवेशाय कृतान्येवेत्यल मिहानल्पजल्पनेनेति।
तदेवं पाणिनीयस्यैवादिव्याकरणत्वात् यास्कीयेऽत्रनिरुक्तेयत्र क्वचित् व्याकरणनामोल्लोखोविद्यते, तत्सर्वमेव यास्कस्यपाणीनीयपरभवत्वे विनिगमकम्; न हि यास्कीयनिरुक्तात्पूर्वंकिञ्चन सर्वतोमुखं व्याकरणं पाणिनीय मन्तरेण स्थितमिति पाणीनेर्यास्कपूर्वजत्वं सुवचम्॥
यत्तूक्तं केन चित् पाटलाविजय-जम्बूवतीविजय-काव्ययोः प्रणेताऽप्यय मेव पाणिनिरिति, तदप्यश्रद्धेय मेव सर्वेषाम्; न हिव्यकरणाचार्यस्यपाणिनेः रचनायां व्याकरणाशुद्धिःसम्भवेन्नाम, नापि हि महाभाष्यकृत्पतञ्जलिकालपर्यन्ताविर्भूतेनकेनचिद् वैयाकरणेन प्रयुक्तं कि मपि पद मशुद्धमिति गणयितुं शक्यतेतत्परजातैःकालिदासादिभिश्च प्रयोगपटुभिः। अस्ति च व्याक-
रणाशुद्धिदोषःपाटलाविजये; उदाहृतश्चस रुद्रटकृतकाव्यालङ्कारटीकाकृता नेमिसाधुना च्युतसंस्कृतिदोषोदाहरणप्रसङ्गे“सन्ध्यावधूं गृह्य करेण”–इति। तत्र गृहीत्वेति वक्तव्ये गृह्येतिप्रयोग एवाशुद्धः। अत्रेदं विचार्यम्;—अशेषशेमुषीसम्पन्नस्य, महेश्वरवरप्रसादाल्लब्धव्याकरणविद्यस्य, सिद्धवाग्विभवस्य, व्याकरणस्रष्टुस्तस्य पाणीनेर्व्याकरणाशुद्धिःकदापि सम्भवेत् किमु? इति। यदि नाम गृह्येति पदं तेनैव पाणिनिना प्रयुक्तंस्यात्, तर्हितत्प्रयोगबलादेव साध्विति कथं न मन्येतेति च्;प्रयोगा अपि हिपाणिनि-कात्यायन-पतञ्जलिनांसाधुत्वनियामका भवन्त्येवेत्युररीक्रियत एव सर्वैः। तदेवं, यत इदं गृह्येतिपदं न कोऽपि साधु मन्यते;अतोऽपि ज्ञायते नेदं व्याकरणाचार्य्येण तेनपाणिनिना प्रयुक्तम्, न च पतञ्जलिपूर्वकालीनेनापि केनचिदिति। केचिदाहुः,—व्याकरणकृदेष पाणिनिः महाकवेर्बाल्मीकेश्च बहुपूर्वभवः; बाल्मीकीयाद्रामायणात् पूर्वमेव सूत्रकालोगत इति। तेषां नये तदोपजात्यादिवृत्तानां कथा तु स्याद् दूरपराहता, आनुष्टुभेनापि छन्दसा कश्चिल्लौकिको ग्रन्थो रचितोन वेति महान् संशय एवेति।
सोऽयं भगवान् पाणिनिः खलु युधिष्ठिरवासुदेवार्जुनेभ्यःपरभव एव; तदीयेऽष्टके“गवियुधिभ्यां स्थिरः (८.३.९५.)”–इत्यस्य, “वासुदेवार्जुनाभ्यां वुन् (४.३.९८.)”–इत्यस्यच सूत्रस्य विद्यमानत्वात्। पारिक्षिताद् जनमेजयाच्चायं किञ्चिदुत्तरभवः; एतदीये ह्यष्टकेजनमेजयपदसाधनायैव “एजेः खश् (३.२.२८.)”–विधानदर्शनात्। जनमेजयस्तुयुधिष्ठिर-तृतीयभ्रातुरर्जुनस्यैव पौत्रः। स च अर्जुनः “शतेषु षट्सुसार्द्धेषु
त्र्यधिकेषुच भूतले। कलेर्गतेषुवर्षाणा मभवन् कुरुपाण्डवाः (१.५०)”–इति राजतरङ्गिणीलेखदर्शनात् कलेः सप्तमशताब्द्यांस्थितः। ततो जनमेजयः कलेरष्टमशताब्दीज इत्येव सम्भाव्यते। व्यासोऽपि कश्चित् तदानीमासीदिति च महाभारताख्यानादिभिर्ज्ञायत एव; तस्य व्यासस्य पुत्रः शुकोऽपि तच्छताब्दीज एव भवितु मर्हति, परं यतश्च व्यासपुत्रशुकवाचकवैयासकि-पदसाधनाय न कश्चिद् योगोऽस्तिपाणिनीयः, अस्तितु “व्यासवरुण० (पा० ४.३.९७ वा०)”–इति वार्त्तिकम्, अतोऽवगम्यते वैयासकिपरिचयो नैव विदित आसीत् पाणिनेरिति। तदित्थंव्यासपुत्रस्य शुकस्य लोके ख्यातिप्रतिपत्तिलाभात् पूव मेव प्रणीत मिद मष्टकम्पाणिनीय मिति कलेरष्टम्या मेव शताब्द्यां ख्रीष्टजन्मतश्चप्राक्चतुर्विंशशताब्द्यामिम मार्यावर्त्तं भूषयामास स पाणिनिरिति ध्रुवम्॥
[व्याड़िः] उक्तंपुरस्तात् (१०५ पृ०) बह्वृक्प्रातिशाख्यकृतः शोनकस्य पाणिनिपरजत्वम्, यास्कस्य तु ततोऽपि परजत्व मिति; तदेवावसरप्राप्त मिदानीं निर्णेतु मिह व्याडिविषयेऽपि किञ्चिद् ब्रूमः। तथाहि—अस्तिपाणिनेरष्टके स्वरप्रकरणे “आचार्योपसजनश्चान्तेवासी(६.२.३६.)"–इतिसूत्रम्; अत्र च कृतः सन्देहो वार्त्तिककारेण—“आचार्योपसर्जनेऽनेकस्यापि पूर्वपदत्वात् सन्देहः”–इति; “आपिशल-पाणिनीय-व्याड़ीय-गौतमीयाः, एकं पदं वर्जयित्वा सर्वाणि पूर्वपदानि, तत्र न ज्ञायते कस्य पूर्वपदस्य स्वरेण भवितव्यमिति"–इत्येवं च तद्भाष्येतत्सन्देहोपपादनम्। अत्रहि सन्देहोदाहरणे आपिशलादीनांनूनम् “अभ्यर्हितञ्च”–इति (पा० २.२.३४ वा०) शासनात्
अभ्यर्हितक्रमेणैवास्ति सन्निवेशः; अभ्यर्हितत्वञ्च स्यात् तेषां स्वस्वाचार्यपौर्वापर्यमूलक मेवेति। तथा च आपिशलितः पराचीनः पाणिनिः, पाणिनितश्च पराचीनोऽयं व्याड़िरिति तु व्यज्यत एव; अपीह कात्यायनीयोदाहरणे व्याड़ीयशब्ददर्शनात् कात्यायनात् खलुप्राचीनोऽयं व्याड़िरित्यत्रच कास्ति वक्तव्यता? तदेतस्मादेकस्मादेवोदाहरणविन्यासाद्द्वेएव विज्ञाते,—व्याड़ेः पाणिनितोऽवरजत्वं कात्यायनतः पूर्वजत्वञ्चेति।
स एव व्याड़िः, ‘सङ्ग्रह’–नामकस्य पाणिनीयव्याख्यानविशेषस्य प्रणेता। तत एवोक्तं महाभाष्ये पस्पशायाम्—“सङ्ग्रहेएतत् प्राधान्येन परीक्षितम्,—नित्यो वा स्यात् कार्योवेति। तत्रोक्तादोषाः, प्रयोजनान्यप्युक्तानि। तत्र त्वेष निर्णयः—यद्येव नित्यः अथापि कार्यःउभयथापि लक्षणं प्रवर्त्त्य मिति”–इति। “सङ्ग्रहे= ग्रन्थविशेषे”–इति चतद्व्याख्यायां कैयटः। “सङ्ग्रहो व्याड़िकृतो लक्षश्लोकसङ्ख्यो ग्रन्थ इति प्रसिद्धः”—इति च तद्विवरणे नागेशभट्टः। तदेतस्मादेकस्माच्चेमे विदिते—व्याड़िरेवसङ्ग्रहस्य कर्त्तेति, सहि पाणिनितोऽवरजश्चेति।
सएव दाक्षायण इत्यप्युक्तः। अस्ति पाणिनिसूत्रम्—“उभयप्राप्तौकर्मणि”–इति(२.३.६६.)। “शेषे विभाषा”–इति च तत्र कात्यायनस्य वार्त्तिकम्। “शोभना खलु पाणिनेःसूत्रस्य कृतिः, शोभना खलु पाणिनिना सूत्रस्य कृतिः; शोभनाखलु दाक्षायणस्य सङ्ग्रहस्य कृतिः, शोभना खलु दाक्षायणेन सङ्ग्रहस्य कृतिः”–इतिच तदुदाहरणानि। तदेतदामूलसमालोचनया च त्रीणि विज्ञातानि भवन्ति,—दाक्षायण इति सङ्ग्रहकर्त्तुर्व्याडेरेवनामान्तरम्, म च पाणिनितोऽवरजः, कात्यायनतोऽग्रजश्चेति।
ये केचिदाहुः,—दाक्षायण इति युवप्रत्ययदर्शनात् तस्य हि व्याडेः दाक्षिपुत्र-(पाणिनि)-समकालिकत्वम्, तदसङ्गत मेव; न हि समकालिकग्रन्थे कस्यापीदृशी श्रद्धा समुत्पद्येत, यत् तत्र लक्षश्लोकात्मकं व्याख्यान मारचयेदिति। नापि हि पाणिनिकाले एव पाणिनीयसूत्राणा मेवं व्याख्यानं प्रयोजनीयं भवितु मर्हति; तदानीन्तनानां सर्वेषा मेवातिबुद्धित्वात्; किञ्च सूत्रकाले एवैवं व्याख्यानं प्रयोजनीयं चेत्, तादृशसूत्रप्रणयनं सूत्रकाराणा मसङ्गत मेव स्यात्; न हि लोकहितचिकीर्षुभिः पाणिन्यादिभिः लोकविड़म्बनायैव दुर्बोधसूत्ररचनं सम्भाव्यते। अतोऽस्मन्मते तु पाणिनिजन्मतोऽन्यूनद्विशताब्द्यन्तरे जातोऽयं व्याड़िः, तदानीन्तनानां पाणिनीयावगमे कष्ट मेवानुभूय सुहृद्भूत्वैवान्वाचचक्षे तद्व्याख्यानं सङ्ग्रहं नाम; न हि द्विशताब्दी मन्तरा तथा मन्दबुद्धित्वं सम्भाव्यते, यथा च सूत्रबोधाय तादृश मतिबृहद् व्याख्यान मपि प्रयोजनीयं भवेदिति।
आदिदक्षस्यैवापत्यं युवा स्याद् दाक्षायणो नान्यः, एव मपिन नियमः; दक्षगोत्रीयस्य शततमस्यापियस्य कस्याप्यपत्यंयुवा भवितु मर्हत्येव दाक्षायण इति; तत्रवाधादर्शनात्, जीवद्वंश्यत्वमात्रस्यैव युवसञ्ज्ञानिदानत्वाच्च। जीवद्वंश्यत्वन्तु शततमस्याप्युपलभ्येत चेत्, तत्रापि युवसञ्ज्ञया भवितव्य मेवेति।
किञ्च युवप्रत्ययस्तु जीवद्वंश्यादावेव भवति नान्यत्रेति ननियमः, अपि जीवद्वंश्यादौभवत्येवेति च नियमः; वार्त्तिककार-कात्यायनेन हि “वृद्धस्यच पूजायाम्” युवसञ्ज्ञाविहिता, “यूनश्चकुत्सायां गोत्रसञ्ज्ञा” कृतैवेति युवसञ्ज्ञामधिकृत्यमहाभाष्येसिद्धान्तितम्, लघुशब्देन्दुशेखरे चैतत् सुव्यक्तम्।
तदेवं दक्षगोत्रजो मान्यःकश्चिदद्यतनीयोऽपि दाक्षायण इत्युच्येतैव, किं सङ्ग्रहकारस्य व्याडेः दक्षगोत्रविभूषणस्य? इति।
अन्यच्च; यदि हि नाम स व्याड़िः पाणिनेःसमकालिको मातुलपौत्रश्चस्यात्, तर्ह्यवश्यं दृश्येत सूत्रं तदष्टके’व्याड्यादयः शालायाम्’–इत्येव;—न च “छात्र्यादयःशालायाम्”–इ्ति(६.२.८६.); व्याडिशालाया एव पाणिनेर्मनसि पूर्वोदयसम्भवात्। तत्रछात्र्यादिगणे व्याडिशब्दस्यपाठ एव व्याडेःपाणिनिसमकालिकत्वंबोधयतीत्यपि वक्तुंन युज्यते; गणपाठे हि काले काले शब्दाः सन्निवेश्यन्ते,–इतितु सर्वैरुररीकर्त्तव्यमेवेति। सिद्धमित्थंसङ्ग्रहकृतो व्याडेराचार्यस्य व्याकरणाचार्यात् पाणिनितो बहुकालपरजत्वं वार्त्तिककाराच्च कात्यायनात् बहुपूर्वजत्वमपीति॥
[शौनकः]प्रातिशाख्यकृत्-सङ्ग्रहकृतोःशौनक-व्याड्योश्चसमकालिकत्व मवगम्यते। अस्ति हि शौनकीये ऋक्प्रातिशाख्येऽसकृद् व्याडेरुल्लेखः, अस्ति च व्याडिकृतायां विकृतिवल्ल्या मसकृतच्छौनकस्यावगमश्च। तद्यथा, प्रातिशास्ये व्याडेरुल्लेखः(३.८)—
“परिग्रहे त्वनार्षान्तात्तेन वैकाक्षरीकृतात्।
परेषां न्यास माचारं व्याडिस्तौ चेत् स्वरीपरौ”–इति।
“अनार्षादितिकरणात् परेषा मक्षराणांन्यास मनुदात्तत्वमाचारंमन्यते व्याडिराचार्यः”—इत्येवमादिकञ्च तत्रोव्वटकृतं भाष्यम्।
तथा“उभे व्याडिःसमस्वरे”–इति (३. १३.)।
“व्याडिस्त्वाचार्यः”—इत्यादि च तद्भाष्यम्।
“व्याडेःसर्वत्राभिनिधानलोपः”–इति (६. २१.)।
“व्याडेराचार्यस्य”–इत्यादि च भाष्यम्। अपरञ्च(१३. ३८.)—
“समापाद्यंनाम वदन्ति षत्वंतथा णत्वंसामवशांश्चसन्धीन्।
उपाचारं लक्षणतश्च सिद्ध माचार्याव्याडिशाकल्यगार्ग्याः”–इति।
“तथा वदन्ति के? आचार्याः,—व्याडिशाकल्य-गार्ग्याः”?–इत्यादि च तद्भाष्यम्। अपर मपि (१३ प० ४४.)—
“व्याडिर्नासिक्यमनुनासिकं वा”–इति।
“व्याड़िराचार्यः”–इत्यादि च तत्रभाष्यम्। तान्येवमादीनि व्याडिमतानि तु पाणिनीयव्याख्यानरूपात् सङ्ग्रहग्रन्थादेव शौनकेनसङ्गृहीतानीत्यपीह ध्येयानीति।
एवं व्याडिकृतायां विकृतवल्ल्याञ्च शौनकस्यावगमः—“अनुलोमे यथाक्रमम् (वि० व० १.८.)”–इत्यत्र “यथाक्रमशब्देन प्रातिशाख्योक्ताअन्वक्षरक्षैप्रादयो द्रष्टव्याः”–इत्याहविकृतिकौमुदीकृत्। तथा “व्युत्क्रमे क्रमवत् सन्धिः (१. ११.)”–इत्यत्रच “विपर्ययक्रमसन्धौ शौनकोक्ताः क्षैप्रादिसन्धयो भवन्तीत्यन्वयः”–इत्यादि चाह स एव कौमुदीकृद्भट्टाचार्यः। तत्रैव“डकारादिविधानम्”–इत्यस्य व्याख्यायमुक्तम्—“डकारस्य ल्हकारादेशः शौनकोक्त एव”—इत्यादि। तथाग्रेऽपि “एकारौकारपरस्तु अकारोऽभिनिहन्यते (१. १३.)”–इत्यस्य कौमुद्याम् “उद्ग्राहसन्धौ शौनकाचार्यैः प्रकृतिभावनिमित्तं प्रापितः ‘प्रकृत्यान्तः(पा० ६.१.११५.)’–इत्यनेन सूत्रेण”–इत्यादि। स्पष्टं चास्ति तत्र शौनकनामोल्लेखः “उदात्तादिविधानं तच्छौनकोक्तंभवेदिह”–इति(वि० व० १ प० १५श्लो०)।
अतोमन्यते सुष्ठ्वनुमितं शौनकव्याड्योःसमकालिकत्व मिति। तत्रच प्रथमं तावत् व्याडिराचार्यः पाणिनेरष्टक मवलम्ब्य सङ्ग्रह मारचितवान्; ततः शौनकाचार्यःशाकलसंहितायां विशे-
षाख्यापनाय प्रातिशाख्यं प्रणीतवान्; ततश्चतत्परिशिष्टस्थानीयाअष्टप्रकरणा विकृतिवल्ली कृता पुनस्तेनैव व्याडिनेत्यपि प्रतीयतेतत्तद्ग्रन्थसमालोचनादिभिरिति॥
अप्येतौशौनक-व्याडीगुरुशिष्यौ,—इत्येतदपि विज्ञायते,तत एव विकृतिवल्लीग्रन्थात्। तथाहि तन्मङ्गलाचरणे—
“नत्वादौशौनकाचार्यंगुरुं वेदमहानिधिम्।
मुनीन्द्रं सर्ववेदज्ञंब्रह्मज्ञं लोकविश्रुतम्”–इति (२)।
एव मपि सिद्धमेतयोः शौनकव्याड्योःसमकालिकत्वम्।सिद्धञ्चा स्मान्नून मसौ प्रातिशाख्यकृच्छौनकः पाणिनेः परभव इति॥
ननु शौनकस्य पाणिनिपरभवत्वं सत्य मेवेति चेत्, कथंन तत्कृते बह्वृक्प्रातिशाख्ये पाणिनेर्नामोल्लेखः? अत्रेदं सम्भाव्यते,—यथाच सम्प्रति भट्टोजिदीक्षितकृता वैयाकरणसिद्धान्तकौमुदी नाम वृत्तिः प्रचलिता, अत एवाविशेषेण ‘पाणिनीयव्याकरण मधीते’–इत्युक्ते तद्वृत्तिसमन्वितस्यैवाध्ययनस्य बोधोभवति, ‘कौमुदी मधीते’–इत्युक्तेचपाणिन्यष्टकान्विताया एव तस्यावृत्तेरध्ययनंप्रतीयते, अपि च व्याकरणकारोल्लेखप्रसङ्गेतद्वृत्तिकर्त्तुःदीक्षितस्यापिनामोल्लेखः क्रियत एव; तथैव शौनककाले अपि ससूत्रसङ्ग्रहस्यैव व्याकरणत्वेनप्रसिद्धिरासीत्, सङ्ग्रहकारस्य च तस्य व्याडेर्व्याकरणकर्तृत्वेनेति। तदुक्तमस्ति हेमचन्द्रीये चाभिधानचिन्तामणौ—“ससूत्रवृत्त्यर्थपदं महार्थम्”–इत्यादि (१२. २८.) सङ्ग्रह-विवरणम्। एवञ्चव्याडेरुल्लेखादेव पाणिनेरुल्लेखःसिद्धः। सत्येवं शौनकीयप्रातिशाख्यादौयत्र क्वच व्याकृतिविषये व्याडेराचार्यस्य नामोरुल्लेखो दृश्यते, तत्सर्व मेव पाणिनिमतस्मरकम्; व्याडेःखलु
पाणिनीयव्याख्यातृत्वेनैव वैयाकरणत्वसिद्धेः; न हि व्याड़िर्व्याकरणसूत्रकारः। तथाच—यद् दृश्यतेऽत्र “व्याड़िर्नासिक्यमनुनासिकं वा”–इति (ब०प्रा० १३प० ४४.), तदिदं “मुखनासिकावचनोऽनुनासिकः (१. १. ८.)”–इत्यस्यपाणिनीयस्य सूत्रस्यैव व्याड़िकृतं व्याख्यानं शौनकेन संस्मत्योल्लिखित मित्येवगम्यते। एव मन्यत्रापि। भाष्यकृताप्युक्तंपस्पशायाम्—“अथ व्याकरण मित्यस्य शब्दस्यकः पदार्थः?सूत्रम्। ०—०। नहि सूत्रत एव शब्दान् प्रतिपद्यन्ते। किन्तर्हि? व्याख्यानतश्च। ननु च तदेव सूत्रं विगृहीतं व्याख्यानं भवति, नकेवलानि चर्च्चापदानि व्याख्यानम्—‘वृद्धिः, आत्, ऐच्’–इति। किन्तर्हि? उदाहरणम्, प्रत्युदाहरणम्, वाक्याध्याहारः, इत्येतत्समुदितंव्याख्यानं भवति”–इति। अत एव चोक्तं दृश्यते वृत्तौ—“ससङ्ग्रहं व्याकरण मधीते”–इति (पा० ६.३.७९.)। अपि च शौनकीये हि तत्र प्रातिशाख्ये आचार्यपदेनापि पाणिनेः स्मरणं बहुत्रलक्ष्यते। तथाहि (१.४.१.)—
“अष्टावाद्यानवसानेऽप्रगृह्यानाचार्याआहुरनुनासिकान् स्वरान्।
तन्त्रिमात्रेशाकला दर्शयन्त्याचार्यशास्त्रापरिलोपहेतवः”–इति।
अत्रावश्यं पाणिनिकृतम् “अणोऽप्रगृह्यस्यानुनासिकः (८.४.५७.)”–इत्येव सूत्रंलक्षीभूतं तस्येति स्वीकार्य मिति॥
किञ्च पाणिनीयप्रणयनात् पूर्वंकस्यापि प्रातिशाख्यग्रन्थस्य प्रचारः समभवदित्यपि नप्रतीयते; क्वचिदपि पाणिनीयसूत्रेप्रातिशाख्यशब्दादर्शनात्, प्रातिशाख्यशब्दव्युत्पत्तये वार्त्तिककृत्कृतयत्नस्योपलाभाच्च। तथाहि—“गम्भीराञ्ज्यः”–इति (४.३.५८.) सूत्रे उक्तंकात्यायनेन “ञ्यप्रकरणे परिमुखादिभ्य उपसङ्ख्यानम्”
–इति; तत्र परिमुखादिगणे च दृश्यते “प्रतिशाख”–इति। परिषच्छब्दस्तुद्विः दृश्यते पाणिनीयेऽपि, परं न तत्रैकत्रापि प्रातिशाख्यार्थोऽवगम्यते; अपि तु गाथकाद्यर्त्थएव। तथा “पार्षकृतिरेषा तत्र भवतां नैव लोके नान्यस्मिन्वेदे अर्द्धएकारोऽर्द्ध ओकारो वास्ति”–इति (१ अ० १ पा० ७ आ०) महाभाष्यवचनस्य नागेशादिकृतं व्याख्यानं चेहालोच्यम्।
वस्तुतस्तुशाखाविशेषेषु व्याकृत्यादिविशेषबोधनपरा एव प्रातिशाख्यग्रन्थाः, सामान्यतः सर्वशब्दानुशासनाय प्रवृत्तात् पाणिनीयाद्व्याकरणादवरजा एव भवितु मर्हन्ति। अतस्तथैवोक्तं बह्वृक्प्रातिशाख्यशास्त्रप्रयोजनश्लोकव्याख्यानावसरे तत्तृतीयवृत्तिकृतोव्वटेन, कृतञ्च तत्र पाणिनिसूत्रोद्धरणम्। तथाहि—“तथा व्याकरणे यत् सामान्येन, यथा—‘ऋचि तु-नु-ध-मक्षु-तङ-कु-त्रोरुष्याणाम्’–इति (पा० ६.३.१३३.), तद् व्यवस्थापयितुमिद मारभ्यते; न सर्वत्रैतानि पदानि अस्यां शाखायां दीर्घाभवन्ति। यथा—”–इत्यादि। एव माथर्वणप्रातिशाख्येऽप्युक्तंस्वयं सूत्रकृतैव—“एव मिहेति च विभाषाप्राप्तं सामान्येन”–इ्ति। सामान्येन लक्षणेन पाणिनीयेन यद् विकल्पेन प्राप्तम, तदेव मस्यां शाखायां व्यवस्थितं भवतीति च तदर्थः। अत एवोक्तं महाभाष्यकारेण च—“अवश्यं खल्वप्यस्माभिरिदं वक्तव्यम्, बहुल मन्यतरस्या मुभयथा वा एकेषा मिति। सर्ववेदपारिषदं हीदं शास्त्रम्, तत्रनैकः पन्थाः शक्य आस्थातुम्”–इति (२ अ० १ पा०३ आ०)।
अथ केषाञ्चिन्नये प्रातिशाख्यकृच्छौनक एवैकः सूत्रद्रष्टा, मण्डलद्रष्टा, कल्पकृत्, शाखाप्रवक्ताचेति।पूर्वप्रदर्शितानि षड़्-
गुरुश्ष्यिवचनान्येवात्रैकं प्रमाण मुपलभ्यते; तत्रापि नामैक्यमेव बीजम्, नान्यत् किञ्चनेत्यस्माकम्। समासतः खण्डितञ्चैतत्पुरस्तादेव (५५ पृ०)। वस्तुतस्तु शुनकवंशीयाः अद्यतनीया अपि शौनका एव; तस्मान्नामैक्यबीजकंतादृशमद्भुतमतं त्वतिभ्रमविजृम्भित मिवैव प्रतिभाति; न हि तत्र किमपि मानं लक्ष्यते, प्रत्युत लक्ष्यन्तएव वादा बहवः। तेषां कतिचित्पुरस्तादेव ध्वनिताः प्रदर्शयिष्यामश्चोपरिष्टादपि (वेदसमालोचने) कतिचिद्। इह च किञ्चित् प्रकटयामः।—
प्रातिशाख्यकारस्य शौनकस्य तु मुनित्वेन व्यवहारदर्शनात्ऋषिकालात् परभवत्व मद्ययुगीयत्वञ्च। तथाहि—“नत्वादौ शौनकाचार्यंगुरुं वन्देमहानिधिम्। मुनीन्द्रं सर्ववेदज्ञंब्रह्मज्ञंलोकविश्रुतम्”–इति विकृतिवल्ल्यां व्याड़िवचनम् (२); न हि तेन तत्रोक्तम् ऋषीन्द्रमिति। पाणिन्यादीनां पतञ्जल्यन्ताना मद्ययुगीयाना मेव हि मुनित्वेनैव व्यवहारो दृश्यतेप्रधानतः सर्वत्र, ऋषित्वेनापि व्यवहारस्त्वौपचारिकः; पाणिनिपूर्वजाना मापिशलि-शाकटायन-गार्ग्य-शाकल्य-कल्पकृच्छौनक-माण्डव्य-पाराशर्यप्रभृतीनां त्वाचार्यत्वेनैव व्यवहारो दृश्यते प्रधानतः सर्वत्र, ऋषित्वेन व्यवहारस्त्वातिदेशिकः; तेभ्योऽपिप्राचीनतमानां पुराकल्पश्रुतानां वसिष्ठ-वामदेव-सूक्तमण्डलदृक्-शौनकादीनां मन्त्रद्रष्टृृणा मेव ऋषित्वं मुख्य मिति तु प्रतिपादितंपुरस्तादेव (३२–४४ पृ०)। तदेवं प्रातिशाख्यकृच्छौनको नूनमद्ययुगीयः; तत्रापि व्याड़िसमकालिक इति पाणिनिपरजश्चातो नास्य कथ मपि युज्यते सूत्रद्रष्टृत्वादिक मितोऽप्यपास्तं षड़्गुरुशिष्यस्याभिमत मिति॥
एवञ्चयद्यपि बहूना मेव वैदिकग्रन्थानांप्रणेतृनाम शौनक इत्येवं श्रूयत एव, परं न हि तन्मात्रेणैव तेषां सर्वेषा मेक एवप्रणेतेति प्रामाण्य मुपगन्तु मर्हतीति शौनकानां विभिन्नव्यक्तित्वमसमकालिकत्वञ्च सुतरां सम्पद्यत एव। वर मनुमीयते,—शिक्षाविशेषकृत् शौनकाचार्यःपाणिनेः पूर्वजः; प्रोक्ताधिकारे “शौनकादिभ्यश्छन्दसि(४.३.१०६.)”–इतिसूत्रीयशेखरे “छन्दसि किम्? शौनकीया शिक्षा”–इतिप्रत्युदाहरणदर्शनात्। कल्पकृत् शौनकाचार्यस्तुततोऽपि पुरातनः; तत्रैव तद्ग्रन्थस्यैवोदाहरणत्वेन बोधनात्; छन्दस्त्वसामानाधिकरण्येन प्रोक्तृत्वमेव हि तादृशोदाहरणत्वेबीजम्।यस्तुकल्पकृत्, स एव कर्त्ताशाखाप्रवचनस्यापि। तथा ह्युद्धृतं विकृतिकौमुद्यां गङ्गाधरभट्टाचार्येण—“शाकलाःशौनकाः सर्वे कल्पं शाखां प्रवक्षते”–इति(१.४.)। तत्त्वतः पाठभेदकल्पभेदावेव शाखाभेदहेतू। मण्डलद्रष्टुःशौनकर्षेस्तु द्रष्टृत्वेन व्यवहारात् ततोऽपि प्राचीनत्व मन्ययुगीयत्वञ्च; न हि एतद्युगीयस्य कस्यापि दृष्टृत्वेन परिचयः क्वाप्युपलभ्यते; अस्तिचैतस्य शौनकस्य द्रष्टृत्वेनैव व्यपदेशः,—“द्वितीयंमण्डल मपश्यत्”–इति (३३ पृ०)। मण्डलशब्दस्तु वैदिकमन्त्रसूक्तानां सङ्ग्रहविशेषस्यैव वाचकः; तदाह सर्वानुक्रमणीकृच्छौनकोऽपि—“तत्तदृषिदृष्टानां बहूनां सूक्ताना मेकर्षिकर्तृकः सङ्ग्रहो मण्डलम्”–इति, “सम्पूर्णमृषिवाक्यन्तुसूक्तमित्यभिधीयते”–इत्यादि च। ततस्तस्माच्चतादृसङ्ग्रहकारात् शौनकात् प्राचीनोऽन्य एव शौनकर्षिःसूत्रकारः,—इत्याप्यविचारित मेवसिद्धम्। तत्त्वतः सर्वत्रैव ग्रन्थकालनिर्णये स्मर्त्तव्य मेतत्,—प्राचीनार्याणां गोत्रनाम्नामेव व्यवहार आसीन्न पुनर्व्यक्तिनाम्ना
मिति्;यथाद्यापि दृश्यते सपितृनामनामव्यवहारो्दाक्षिणात्यानां भारतीयानां तथा इलण्डीयादीना मपि। अतएवव्यासाश्वलायनपाणिनिशौनकयास्कादीनां बहुत्वात् तत्तत्कृतेष्ववश्यम्भावीपौर्वापर्यविभ्रमो भवत्येव?
यच्च ‘आर्ष्यनुक्रमणी’–प्रभृतीनां दशाना मेवर्ग्वेदीयग्रन्थानां प्रणेताबभूव चैकः शौनक इत्याह सर्वानुक्रमणीवृत्तौ षड्गुरुशिष्यः—
“शौनकीया दशग्रन्थास्त ऋग्वेदस्य गुप्तये।
आर्ष्यनुक्रमणीत्याद्या छान्दसी दैवती तथा।
अनुवाकानुक्रमणी सूक्तानुक्रमणी तथा।
ऋक्पादयोर्विधाने च बार्हद्दैवत मेव च।
प्रातिशाख्यंशौनकीयं स्मार्त्तंदशम मुच्यते”–इति।
एतदपि तादृशभ्रमादेव। तत्त्वतो बृहद्देवताकृच्छौनकस्तुप्रातिशाख्यकृतः शौनकात्, निरुक्तकृतो यास्काच्च बह्ववरः; तत्रबहूत्रैव तयोर्नामोल्लेखदर्शनात्। तथाहि बृ० दे० २ ११३—
“पद मेकं समादाय द्विधा कृत्वानिरुक्तवान्।
पुरुषादः पदं यास्को वृक्षे-वृक्षे इति त्वृचि॥”–इति।
दृश्यते चात्र निरुक्ते’पुरुषानदनाय’–इति(२.२.२.)।
“काक्षीवतं सर्वमिति भगवानाह शौनकः।”–इति च बृ० दे० ३.१५२। लभ्यते चैवं शौनकीयानुक्रमणिकातोऽपि। न हि कोऽपि विज्ञः स्वंभगवानिति वक्तु मुत्सहेतेति नून मनुक्रमणीकृच्छौनको बृहद्देवताकृच्छौनकात् प्राचीन इत्येवावगम्यते। तथा च षड्गुरुशिष्यकृतः ‘शौनकीया दश ग्रन्थाः’–इति सिद्धान्तः कथं न विलीनो जलमध्यस्थमसीक्षोदवदितिसुधीभिर्विभाव्य मेव। एवञ्चय एव प्रातिशाख्यकृत्स एव
आर्ष्यनुक्रमण्यादीना मपि नवानां प्रणेतेति कथं स्वीकुर्महे वयम्? पर मेतावत्त्वस्माकं भवेत् स्वीकार्यम्,—सर्वएवैते ग्रन्थाःपाणिनीयतो बहूत्तरभवाः; प्रातिशाख्यकृत्सङ्ग्रहकृतोर्गुरुशिष्यत्वेन समकालिकत्वप्रतीतेरिति (१२४ पृ०)।
यच्चाह षड़्गुरुशिष्यः—“आसीद् गृहपतिर्यो वै नैमिषारण्यवासिनाम्। शतानीकाय राज्ञे वै जनमेजयसूनवे”–इत्यादि। तदपि न; बह्वृक्प्रातिशाख्यकृतः शौनकस्यव्याड़िसमकालिकत्वात्, व्याड़ेर्हिपाणिनितोऽन्यूनद्विशताब्दीपरजत्वं प्रतिपादितं चेतः पुर एवेति (१२१ पृ०)। तदेवम् सर्वानुक्रमणीभाष्ये दृष्टानि षड्गुरुशिष्योक्तानि शौनकपरिचायकवचनानि सर्वाण्येवास्मान् विस्मापयन्ते एव। तत्त्वतो सर्वएवैते शौनका नूनंविभिन्नकालजा इति बहुपूर्वापरीभावान्विताः; तत्रायं बह्वृक्प्रातिशाख्यकारः खल्वेष शौनको यतो व्याड़िसमकालिकः, तत एव कलेरन्यूनैकादशशताब्द्यां ख्रीष्टजन्मतश्चद्विसहस्राब्दीतःप्रागिहाक्रीड़दित्येवोपलभ्यत इति॥
[यास्कः] निरुक्तकारोऽयं यास्कस्तुतस्मादस्माच्च शौनकात्पराचीनः। दृश्यते ह्यत्र निरुक्ते(१.६.१.) शौनकीयप्रातिशाख्यसूत्र मुद्धृतम्—“पदप्रकृतिः संहिता (ऋ० प्रा० २.१.)”–इति। उक्तञ्चेह—“पदप्रकृतीनि सर्वचरणानां पार्षदानि”–इति (१.६.१.)। अतोऽस्मान्निरुक्तात् पूर्वमेव प्रणीताः प्रायः सर्व एव प्रातिशाख्यग्रन्था इत्यप्यनुभवामः॥
यत्तुकेन चित् “न दाशतय्येकपदा काचिदस्तीतिसैयास्कः”–इतिप्रातिशाख्योक्तिदर्शनात् यास्कस्यैतस्य शौनकाग्रजत्वं निर्णीतम्; तस्य तन्निर्णयस्य तुमूले एव कुठाराघातः कृतःपुरस्तात् (२८ पृ०)॥
एवं हि निरुक्तकारोऽयं यास्काचार्यःशौनकपरशताब्दीज इत्यपिवक्तुंशक्यते, सम्पद्यते च तथा पाणिनितः त्रिशताब्दीपरजत्व मस्य; नापि हि त्रि-चतुः-शताब्दीमन्तरा मनुजानामेतादृशंबुद्धिवैजात्यं सम्भाव्यते,—यत्रैकेनैव सूत्रेण कृतार्थोमुनिः, तदर्थएवैवं बृहद्ग्रन्थःप्रयोजनीयो भवेत्;—पृषोदरादीनीति सूत्रेणैव साधितं पाणिनिमुनिना प्रायः सर्वनैरुक्तकार्यमिति तु बोधितमेव पुरस्तात् (१०,११ पृ०)।एवञ्चेद मेव स्फुटं प्रतीयते पाणिनिकाले शिष्टानां भाषाव्यवहारत एवपदाना मर्थाःप्रतीयन्ते स्म, अत एव सूत्रयामास पृषोदरादीनीति; तत उत्तरकालम् जाते हि शिष्टाना मपभाषाव्यवहारबाहुल्ये, सञ्जातेच बुद्धिमालिन्ये ऽवश्य मेव विशेषतो निर्वचनादेर्वक्तव्य मुपगत मत एव प्रवृत्त मिदं निरुक्तं यास्कीयमिति। तदेवं कलेर्द्वादशशताब्द्यां ख्रीष्टजन्मतश्चोनविंशशताब्दीतोऽपि प्राक् समभवदयं यास्क इति सिद्धम्॥
पाश्चात्याध्यापकगोल्ड्ष्टूकरोद्भावितप्रणालीतो बोथ्लिङ्गीयं प्लव मारुह्य च अपारकालपारावारेविचरन्तो वय मिमं यास्क मपश्याम;—कस्यांनुवेलाया मासीनः स प्रणिनायेदं निरुक्त मिति।
साधवो येन गच्छन्ति तेन गच्छन् न दोषभाक्।
निन्दा वा यदि वा शंसा नानुगानां हियुज्यत इति शम्॥
————
(८)
अथेदानीं विचार्य मस्ति,—कैमर्थिक्येषाप्रवृत्तिस्तस्ययास्कस्येति; “प्रयोजन मनुद्दिश्य नमन्दो हि प्रवर्तते”।किञ्च,
“सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्।
यावत् प्रयोजनं नोक्तंतावत् तत्केन गृह्यते?”–इति।
नकेनापीति भावः। अतोऽस्य च यास्कस्यात्रप्रवृत्तेःप्रयोजनं वक्तव्य मेव। नचात्र साङ्ख्यकर्तुः सृष्टिविषयकःप्रश्न इवायं विचारः स्वार्थःपरार्थोवास्यारम्भइति निर्णयायेति; न ह्यन्धप्रकृतिरिव कोऽपि केवलंपरार्थंकि मपि कर्त्तुमुत्सहतेऽत्रेति धीमतां सिद्धान्तएव। अत एवाहभगवान् पतञ्चलिः—“नेह कश्चित् परोऽनुगृहीतव्य इति प्रवर्त्तते, सर्वइमे स्वभूत्यर्थंप्रवर्त्तन्ते। ये तावदेते गुरुशुश्रूषवोनाम, तेऽपि स्वभूत्यर्थं प्रवर्त्तन्ते;—पारलौकिकञ्चनो भविष्यति, इह नः प्रीतो गुरुरध्यापयिष्यतीति। तथा य एते दासाः कर्मकरा नाम, एतेऽपि स्वभूत्यर्थंप्रवर्त्तन्ते;भक्तं चैलञ्चलप्स्यामहे, परिभाषाश्च न नो भविष्यन्तीति (“परिभाषाः = दण्डनादिकाः” कै०) तथा य एते शिल्पिनो नाम, एते च स्वभूत्यर्थं प्रवर्त्तन्ते; वेतनञ्च लप्स्यामहे, मित्राणि च नो भविष्यन्तीति”–इति (३ अ० १ पा० २ आ०)। हरिणाप्युक्तमेव मेव—
“निमित्तेभ्यः प्रवर्त्तन्ते सर्वएव स्वभूतये।
अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये”–इति।
एष च विशेषाशयोऽस्य प्रश्नस्य—यथाच खलु ऋक्तन्त्र-व्याकरणस्य ऋग्वेद एव विषयः, सामतन्त्र-व्याकरणस्य सामवेद
एव; तथैवास्यापि शास्त्रस्यकश्चिद्वेद एवैको विषयतया निर्द्दिष्टउत यथा पाणिनीयं नाम व्याकरणं लौकिकानां सर्ववेदगतानांच सर्वविधसाधुशब्दाना मविशेषेण व्युत्पादनाय प्रवृत्तम्, तथैवेद मपि?–इति। अत्र ब्रूमः,—नेद मृक्तन्त्रादिवदेकवेदविषयम्, इह सर्ववेदीयाना मेवनिगमानां दर्शनात्; नापिपाणिनीय मिवेदं लोकवेदयोरविशेषेण शासनम्, इह केवललोकविदितानां केवलब्राह्मणगतानाञ्च पदानां निर्वचनाना मनालोचनात्;ततोऽयं ग्रन्थःतृतीयश्रेणीकः सर्ववेदमन्त्रव्याख्यामार्गबोधनायैव प्रणीतः। अत एवाह यास्कः स्वय मेव—“अथापीद मन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यतेऽर्थमप्रतीयतो नात्यन्तंस्यरसंस्कारोद्देशस्तदिदं विद्यास्थानं व्याकरणस्य कात्स्न्यं स्वार्थसाधकञ्च”–इति (१.५.१.)। प्रपञ्चितञ्चैतत्तत्रैव तदुत्तरत्र।
अपरञ्चास्य विशेषतः समालोचनयेद मपि लक्ष्यते,—यथामन्त्राणा मर्थादिज्ञापनाय च प्रवृत्ता ब्राह्मणग्रन्थाः, तथैवेद मपीति। प्रथमं ब्राह्मणग्रन्थेष्वेव निर्वचनानि च समाम्नातानि, ततोऽनुब्राह्मणग्रन्थेषु तन्निर्वचनादिकम्, ततो निदानसूत्रादिग्रन्थेषुबहुलीलायितं तद् भगवता यास्केनाबद्धंपृथग् ग्रन्थरूपेणेति। ततश्च नेदं शास्त्रंब्राह्मणग्रन्थीयपदादिव्याख्यामार्गबोधनाय प्रवृत्तम्; अपि नाम यदर्थंप्रवृत्तं ब्राह्मणम्, तदर्थ मेवेद मपीतिसर्वेषां वेदानां मन्त्रगतपदादीना मेव व्याख्यानप्रकारबोधनायास्यप्रवृत्तिरिति। अतएव स स्वय मेवोक्तवान् ग्रन्थोपक्रमे—“छन्दोभ्यः समाहृत्य”–इत्यादि; छन्दस्त्वन्तुमन्त्राणा मेव मुख्य मिति सङ्क्षेपः॥
————
(९)
अथकोऽयं वेदः?—वेदशब्दस्य कीदृशी व्युत्पत्तिरिष्टा आर्याणाम्, तथा वेदस्य किं लक्षणम्, स्वरूपञ्च तस्य कि मिति त्रयः प्रश्नाः स्वत एव सर्वमनःसु समुत्पद्यन्त एव; तत्समालोचनायैवैतर्हिकिञ्चिदिह यतामह इति यावत्।
[वेदः]“विद्यन्ते ज्ञायन्ते लभ्यन्ते वा एभिर्धर्म्मादिपुरुषार्था इति वेदाः”–इत्येतद् वेदशब्द-व्युत्पादनं कृतंदृश्यते देवमित्रपुत्रेणविष्णुमित्रेण बह्वृक्प्रातिशाख्यवृत्त्युपक्रमे। अन्यान्यविधानि च सन्ति बहूनि वेदशब्दव्युत्पादनानि, तानि चान्यत्रान्यत्र द्रष्टव्यानि।
“प्रत्यक्षानुमानागमेषु (प्रमाणेषु) अन्तिमो वेदः”–इति, “समयबलेन सम्यक् परोक्षानुभवसाधनं वेदः”–इति, “अपौरुषेयं वाक्यं वेदः”–इत्यादीनि च वेदलक्षणानि सायणीये ऋग्भाष्यादौ द्रष्टव्यानि। “इष्टप्राप्त्यनिष्टपरिहारयोरलौकिक मुपायंयो वेदयति स वेदः”–इत्येकेनैव वाक्येन चवेदस्य व्युत्पादन-लक्षणेऽप्युक्तेकृष्णयजुर्भाष्यभूमिकायां सायणेनैव। “प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते। एतं विदन्ति वेदेन तस्माद्वेदस्य वेदता”–इति वचनञ्च तत्र मानत्वेनोपन्यस्योक्तं च “स एवोपायो वेदस्य विषयः, तद्बोध एव प्रयोजनम्, तद्बोधार्थो चाधिकारी; तेन सहोपकार्योपकारकभावश्चसम्बन्धः”–इति।
वेदस्वरूपञ्चोक्त मेवं बौधायनेन—“मन्त्रब्राह्मण मित्याहुः”–इति। आपस्तम्बेन च यज्ञपरिभाषायां स्फुट मुक्तम्—“मन्त्रब्राह्मणयोर्वेदनामधेयम्”–इति। सर्ववेदभाष्यकारेण सायणाचार्येणापि तदेवापस्तम्बीयलक्षण मवलम्ब्यप्रपञ्चित मृग्भाष्यभूमि-
कायां बहुधैव; सिद्धान्तितञ्चैतत् तत्र“मन्त्रब्राह्मणात्मकः शब्दराशिर्वेदः”–इति। उक्तञ्चभगवता जैमिनिमुनिनापितथैव; तदनुश्लोकितञ्च सर्वानुक्रमणीवृत्तिभूमिकायां षड़्गुरुशिष्येण। तथाहि—
“मन्त्रब्राह्मणयोराहुर्वेदशब्दंमहर्षयः॥
विनियोक्तव्यरूपो यःस मन्त्र इति चक्षते।
विधिस्तुतिकरं शेषं ब्राह्मणं कथयन्ति हि॥
विनियोक्तव्यरूपश्च त्रिविधः सम्प्रदर्श्यते।
ऋग्यजुःसामरूपेण मन्त्रोवेदचतुष्टये॥
अहेबुध्नीय मन्त्रंमे गोपायेत्यभिधीयते।
ऋक् पादबद्धा, गीतन्तु साम, गद्यं यजुर्मन्त्रः॥
चतुर्ष्वपि हि वेदेषु त्रिधैव विनियुज्जते।
वेदैरशून्य इत्यादौमन्त्रेत्रैविध्य मुच्यते॥
प्रस्तुतर्त्त्विग्विनियोग ऋचान्त्वोमन्त्रेयज्ञकारणे।
‘सर्वैर्ब्रह्मा’–निरुक्तेऽपि चतुर्भिरिति निर्णयः॥
ऋग्रूपमन्त्रबाहुल्यादृग्वेदः स्यात् तथेतरौ।
शान्तिपुष्ट्यादिकब्रह्मवर्गप्रणवविद्यया।
ऋचाञ्चयजुषांतुर्य्योबाहुल्येन विधायकः॥
एकविंशत्यध्वयुक्त मृग्वेद मृषयो विदुः।
सहस्राध्वा सामवेदो यजुरेकशताध्वकम्।
नवाध्वाथर्वणोऽन्ये तु प्राहुःपञ्चदशाध्वकम्॥”–इति।
एतेन खलु सर्वेषा मेव वेदानां सर्वविधस्वरूपाण्युक्तान्येव समासतस्तेन धीमतैवेत्यत्रास्माकंनैव किञ्चिद्वक्तव्य मस्त्यवशिष्टम्;
शास्त्रं जैमिन्यादिभिर्महात्मभिःप्रपञ्चितं मीमांसासूत्रादिक मेव सुधीभिर्द्रष्टव्य मित्यलं चर्वितचर्वणेन वेदस्य पौरुषेयत्वापौरुषेयत्वादिकविचारेणेति॥
परन्त्वस्त्यत्रैतदालोच्यम्,—आपस्तम्बादिमतानुगाः सायणाचार्यादयस्तुमन्त्राणां ब्राह्मणानाञ्चवेदत्वं चिरात् सिद्धमिति मन्यन्ते। केचित्त्वद्यतना ब्राह्मणग्रन्थेषु बहुत्र ‘य एवं वेद’–इति दर्शनादेव प्रथमं तावत् ब्राह्मणग्रन्थाना मेव वेदाख्या प्रचलिता, ततः कालक्रमेण मन्त्रेष्वपि सा उपचरितेत्याहुः। वयन्तुतदुभरोरेव विपरीतं ब्रूमः;—पुरासीत् विद्यापरपर्याय एवायंवेदशब्दः; तथा यतश्च सर्वासा मेव विद्यानां निधानानीमे मन्त्राःप्रदृष्टाः, अतो मन्त्रकाले एव त्रिविधानां मन्त्राणांवाचकः सम्पन्नोवेदइति; ततो ब्राह्मणकाले ब्राह्मणेष्वपि ग्रन्थेषुमन्त्रमात्रपर एव व्यवहृतोवेदशब्दः; पश्चात् सूत्रकालेतु मन्त्रब्राह्मणयोरुभयोरेव विद्यानिधानत्वेनादरातिशयस्थितेरुभयोरेव बोधकःसञ्जातोवेद इति। तदत्र त्रयः पक्षाःसम्पद्यन्ते;—(१) मन्त्रब्राह्मणयोर्वेदत्वम्, (२) ब्राह्मणग्रन्थाना मेव मुख्यं वेदत्वम्, (३) सर्वविद्यानिधानानां हि मन्त्राणा मेव वेद इतिव्यवहारो मुख्योऽतिपूर्वककालिकश्चेति। अथैषांकतमः पक्षोज्यायान् इति पूर्वापरदर्शिभिर्माध्यस्थधिषणावद्भिःसूरिभिरेवालोच्यताम्।
श्रूयते हि शुक्लयजुषि मन्त्रेएव त्रयीपरो वेदशब्दः—“वेदेन रूपे व्यपिबत् सुतासुतौप्रजापतिः”–इति (१९. ७८.)। “प्रजापतिः ‘सुतासुतौ’ सुतासुतयोःरूपे ‘वेदेन’ ज्ञानेन, त्रय्या विद्यया वा ‘व्यपिबत्’ विविच्य पीतवान्। सुतः= सोमः, असुतः = पयः परिमुच्च”–इति च तस्य व्याख्यानं भाषितं मही-
धरेण। तदत्रवेदेनेत्यस्य द्विविधोऽर्थःकृतो दृश्यते—‘ज्ञानेन त्रय्या विद्यया वा’–इति। तत्र द्वितीयोऽर्थ एव युक्ततरोऽस्माकम्; मन्त्रे‘वेदेन’–इत्याद्युदात्तश्रवणात्। अस्ति हि वेदशब्दः उञ्छादिगणे(६.१.१६०.पा० सू०) पठितः करणव्युत्पाद्योयौगिकोऽन्तोदात्तः; अस्ति चापरो वृषादिगणे (६.१.२०३.) पठितस्त्रय्यांरूढः आद्युदात्तो वेद इति। अत एव ऋक्संहितायां श्रुतस्य“यः समिधा”–इति (६.१.५.) मन्त्रस्य व्याख्याने भाषितंसायणाचार्येण ‘वेदेन=वेदाध्ययनेन’–इति। तैत्तिरीयसंहिताया मप्येव मस्ति त्रयीपरो वेदशब्द आद्युदात्तः(७.५.११.२.)।तथैवाथर्वणिका अप्यसकृदामनन्ति संहिताया मेव त्रयीपरं वेदशब्दम्। तथाहि—“यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनातितराणि मृत्युम्”–इति (४.७.५.६); बुद्ध्यत एवात्र हिवेदा इत्यस्यार्थ ऋगादय इति। तथा तत्रैवोनविंशकाण्डेऽपि त्रिशः श्रुतो वेदशब्दस्त्रयीपरएव। तदेवं सर्वसंहितास्वेव त्रयीपरो वेदशब्दः श्रूयत एवेति मन्त्राणा मेव वेदत्वंसिद्धम्।
एवंब्राह्मणेष्वपि सर्वत्रश्रूयत एव वेदस्त्रयीपरः। तथाहि, बह्वृग्ब्राह्मणे—“त्रयोवेदा अजायन्त ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात्; तान् वेदानभ्यतपत्”–इति(ऐ० ब्रा० ५.५.६.); एव मन्यत्रान्यत्र च तत्रैव (६.१५; ७.१८.)। तैत्तिरीयब्राह्मणेऽपि तृतीयकाण्डे (१०. ११. ४.) श्रूयत एव त्रयीपरो वेदशब्दः। तथा छान्दोग्यब्राह्मणे च—“स होवाचर्ग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेद माथर्वणं चतुर्थम्”– इत्यादि (९.१.२.)। अथर्वब्राह्मणेऽपि—“इमे सर्वेवेदाः”–इत्यादि (गो०ब्रा० १.२.९.)। तदेवंसर्वब्राह्मणेषु
च त्रयीपरो वेदशब्दः श्रूयत एवेत्यस्माच्चसिध्यति मन्त्रमात्राणांवेदत्वम्।
किञ्च सर्वसंहितासु त्रयीपरवेदशब्ददर्शन मेव प्रमाणयति, आसीन्मन्त्रकालेऽपि मन्त्राणा मेव वेद इति व्यपदेशः; तदापिमन्त्रव्याख्यानार्थकानां ब्राह्मणग्रन्थानामनार्विभावात्। प्रदर्शितब्राह्मणवाक्यानि च तदेव दृढयन्ति;ऋगादिशब्दानां मन्त्रेष्वेवमुख्यशक्तेः। अत एवोपपद्यन्तेतत्र गोपथे—“इमे सर्वेवेदाः”–इत्यत्र विशेषणानि “सब्राह्मणाः”–प्रभृतीनि। निरुक्तेये चार्थज्ञप्रशंसनाय शाखान्तरीयमन्त्राउद्धृता यास्केन, तत्र चश्रूयते त्रयीपर एवाद्युदात्तो वेदशब्दः—“अधीत्य वेदम्”–इति (१.६.२.)। तदेतस्माच्चविज्ञायते मन्त्रकाले मन्त्रार्थक एव वेदशब्दः प्रसिद्धआसीदिति। यास्कोऽप्याह—“कर्मसम्पत्तिर्मन्त्रोवेदे”–इति (१.१.२.)। स हि कर्मसम्पत्तिर्मन्त्रःक्वास्ति ब्राह्मणेषुसंहितासु वा? संहितास्वेवेति चेदितोऽपि स्फुटं व्यज्यते संहितार्थ एव वेदशब्दोऽभिमतः खलु निरुक्तकारस्यैतस्य यास्कस्यापीति॥
एव मपि ज्ञानार्थस्य विदधातो रूपं वेद इति विद्यैव तस्य यौगिकार्थः फलति। अनन्ताश्च विद्या इहजनति सन्तिचिररात्राय; तत एव वेदस्य सनातणत्वमनन्तत्वञ्चमन्यन्तेसर्व आर्याः। आदिसभ्यकालेऽत्रभारते ये ऋषयः प्रादुर्बभूवुः, आसन्नेव ते विविधविद्याविभूषणाः साक्षात्कृतधर्म्माणः, अत एव तैर्दृष्टा मन्त्रास्तत्कालादेवोच्यन्ते वेदा इति। तथापि मन्त्रेष्वेववेदशब्दस्य मुख्या शक्तिः। तथा ह्यामनन्ति—
“भरद्वाजो हत्रिभिरायुर्भिर्बह्मचर्यमुवास। तᳪ᳭ हजीर्णिᳪ᳭ स्थविरᳪ᳭ शयानम्, इन्द्र उपव्रज्योवाच।भरद्वाज! यत्ते चतुर्थ
मायुर्दद्याम्, कि मेनेन कुर्य्याइति। ब्रह्मचर्य मेवैनेनचरेयमिति होवाच। तᳪ᳭ ह त्रीन् गिरिरूपानविज्ञातानिव दर्शयाञ्चकार; तेषाᳪ᳭ हैकैकस्मान्मुष्टि माददे। स होवाच भरद्वाजेत्यामन्त्र्य। वेदा वा एते, अनन्ता वै वेदाः, एतद्वाएतैस्त्रिभिरायुर्भिरन्ववोचथाः; अथ त इतरदननूक्तमेव”–इति (तै० ब्रा० ३.१०.११.३.४.)।
छान्दोग्येऽपि श्रूयते वेदपर्यायो विद्याशब्दः। तथाहि—“प्रजापतिर्लोकानभ्यतपत् ०—० अग्नेर्ऋचो वायोर्यजूंषि सामान्यादित्यात्। स एतां त्रयीं विद्या मभ्यतपत्”–इत्यादि (१.१७.१—१०.)। एवं तत्रैवान्यत्रान्यात्रपि(४.२१.१; २३.२.)।
अतःसुष्ठूक्तमस्माभिः ‘पुरासीत् विद्यापरपर्याय एवायं वेदशब्दः’–इत्यादि (१३६ पृ०); तथा सम्भाव्यते चैष पक्षोयुक्ततमएवोपन्यस्तो मन्त्रेष्वेव वेदशब्दस्य मुख्यावृत्तिरिति॥
आपस्तम्बादिसूत्रप्रणयनकाले तु ब्राह्मणग्रन्थाना मपि वेदत्वंव्यपदिष्टम्; ततः प्रभृति सिद्धमेव “मन्त्रब्राह्मणयोर्वेदनामधेयम्”–इति। अत एव मनुसंहितादावपि “वेदः कृत्स्नोऽधिगन्तव्यः (२.१६५.)”–इत्यादिषु वचनेषूभयोरेव ग्रहण मवगम्यते। अतएवैषा सङ्गच्छते (म० सं०२.१५.)—
“उदितेऽनुदिते चैव समयाध्युषिते तथा।
सर्वथावर्त्तते यज्ञइतीयं वैदिकीश्रुतिः”–इति)
“उदिते जुहोति”–इत्यादिविधयस्तु ऐतरेयादिब्राह्मणेष्वेवविश्रुताः। तथाहि—“वृषशुष्मोह वातावत उवाच जातूकर्ण्योवक्तास्मोवा इदं वेदेभ्यो यद्वैतदग्निहोत्र मुभयेद्युरहूयतान्येद्युर्वावतदेतर्हि हूयत इत्येतदुहैवोवाच कुमारीगन्धर्वगृहीता वक्तास्मो
वा इह पितृभ्योयद्वैतदग्निहोत्र मुभयेद्युरहूयताऽन्येद्युर्वावतदेतर्हिहूयत इत्येतद्वाअग्निहोत्र मन्येद्युर्हूयते; तदस्तमिते सायं जुहोत्यनुदिते प्रातरथैतदग्निहोत्र मुभयेद्युर्हूयते; यदस्तमिते सायंजुहोत्युदिते प्रातस्तस्मादुदिते होतव्यम्। ०—०। उद्यन्नुखलु वाआदित्य आहवनीयेन रश्मीन्त्सन्दधाति। स योऽनुदिते जुहोति, यथा कुमाराय वा वत्साय वाऽजाताय स्तनं प्रतिदध्यात् तादृक्; तद्; अथय उदितेजुहोति, यथा कुमाराय वा वत्साय वा जातायस्तनं प्रतिदध्यात्तादृक् ०—०। तदेषाभियज्ञगाथा गीयते—
“प्रातः-प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वतियेऽग्निहोत्रम्।
दिवाकीर्त्त्यमदिवा कीर्त्तयन्तः सूर्यो ज्योतिर्नतदा ज्योतिरेषा मिति”।
–इति (ऐ० ब्रा० ५.५.४, ५, ६.)। तथा “श्रुतिस्तु वेदो विज्ञेयः (म० सं० २.१०.)”–इत्यत्र च श्रुतिलक्षणे मन्त्राणां ब्राह्मणानाञ्चग्रहण मिष्टंतस्येत्यपि प्रतीयत एव। ज्ञायते च तथा श्रुतिरितिवेदस्यैव नामान्तर मिति॥
[श्रुतिः] श्रवणात् श्रुतिरित्याख्या। “श्रुयजीषिस्तुभ्यः करणे”–इति(पा० ३.३.९५. वा० २.) निष्पादितः श्रुतिशष्दस्तु श्रवणेन्द्रियपरः; इहतु “स्त्रियां क्तिन्”–इति (पा० ३.३.९४) भावार्थएव क्तिनिष्टः। एष हि वेदश्चिर मेव श्रूयते गुरुपरम्परानुसारेण;—केनापि कदापि एकस्यापि मन्त्रस्य प्रणयनकालनिर्णये कथ मपि न समर्थः! अत एववाय्वादिवद् अनादिरपौरुषेयश्चेति स्तूयत एवाय मिति वृद्धाः।
स एषः श्रुतिशब्दोवेदपरो व्यवहृतोनासीत् मन्त्रकाले; मन्त्रसंहितासु क्वचिदपि वेदार्थश्रुतिशब्दस्य दर्शनाभावात्।अपितु ऐतरेयादिब्राह्मणप्रचारात् पुरैव गाथाकाले व्यवहृतोभावसाधनः
प्रवादपरः। तथा ह्येतरेयकम्— “तस्मादपत्नीको ऽप्यग्निहोत्रमाहरेत्। तदेषाभियज्ञगाथा गीयते—
‘यजेत् सौत्रामन्यामपत्नीकोऽप्यसोमपः।
मातापितृभ्या मनृणाद्यजेति वचनाच्छ्रुतिः’— इति।
तस्मात् सौम्यं याजयेत् (७.१.९)”— इति। ता मिमामवलम्ब्येवाख्यातं ब्राह्मणम् “तदाहुर्वाचाऽपत्नीकोऽग्निहोत्रं०—० स्वर्गाल्लोकान् जयन्तीति” —इति (७.१.१०.)। तदेवमादीनां दर्शनादिदमपि व्यक्तम्— आदौमन्त्रकालः, ततस्तेषां यज्ञादिषु व्यवहारकालः, ततस्तादृशप्रवादश्रुतिकालः, ततो गाथाकालः, ततश्च ब्राह्मणकालः; गाथामूलान्येव हि बहूनि ब्राह्मणवचनानि इति॥
स एषः प्रवादार्थः श्रुतिशब्दो ब्राह्मणकालादुत्तरं मन्त्रब्राह्मणयोरुभयोरपि वाचकः सम्पन्नः। तत एवैतन्निरुक्तत्रयोदशाध्यायान्ते दृश्यते— “सेयं विद्या श्रुतिमतिबुद्धिः”— इति (१३.१.१३.)। तथा स्मर्यते च मन्वादिभिः—
“श्रुतिस्मृत्युदितं धर्म मनुतिष्ठन् हि मानवः”— इति (२.९.),
“उदितेऽनुदिते चैव समयाध्युषिते तथा।
सर्वथा वर्त्तते यज्ञइतीयं वैदेकी श्रुतिः (२.१५)”— इत्यादि च।
वेदास्यानुश्रवनामापि श्रुतिमूलकमेव। तथाद्युक्तम्— “दृष्टवदानुश्रविकः”—इतीश्वरकृष्णीयसाङ्ख्यकारिकाव्याख्यानावसरेवाचस्पतिना— “गुरुमुखादनुश्रूयते इत्यनुश्रवो वेदः”— इति॥
लौकिकप्रवादवाक्यानामपि श्रुतिरितिव्यवहारो दृश्यते बहुत्र। तदेवंयस्य कस्यचिद् वचनस्य प्रचारकालस्यादिर्न निर्णीयते,— कदा कैन कथितमिदमिति, अपि च प्रामाणिकतया गुरुपरम्परयोपदेशो लभ्यते, तत् किल वैदिकं वा लौकिकं वा वचनं श्रुति–
रित्युच्यते। कल्पयन्ति चानुमितश्रुतीःमन्वादिभिर्वेदविद्भिर्विहितानां विधीनां मूलानि स्मार्त्तग्रन्थेषु; वेदार्थस्मरणमूलकत्वादेव च तेषां स्मृतित्वाख्यानात्। तदेवं यस्य च प्रामाणिकस्मृतिवचनस्य मूलं वैदिकवचनं साक्षान्नोपलभ्यते, तस्य मूलं तादृशवैदिकवचनं कल्यनीयं भवति, तत् कल्पितवचनमपि श्रुतिरिति व्यवहृतं रघुनन्दनादिभिः। परे तु श्रुतिकल्पनारीतिस्त्वयुक्तैवेत्याहुः; मीमांसाधिकरणमालायाम् ‘औदुम्बरींस्पृष्ट्वोद्गायेत्’— इतिविधान मनुसृत्य‘औदुम्बरीं सर्वा वेष्टयितव्या’— इतिविधेर्लोभमूलकत्वेनाप्रामाण्याख्यापनात्। तदेवं मन्त्रभागानां श्रुतित्वं तु सर्ववादिसम्मतम्; ब्राह्मणभागानां श्रुतित्वंच मन्वादिभिः स्वीकृतमेव; प्रवादवाक्यानां लौकिकानाञ्च श्रुतित्वं व्यावहारिकं दुर्बलम्; कल्पितश्रुतयोऽपि सन्ति रघुनन्दनादीनामिति श्रुतिचातुर्विध्यंसुस्थिरमिति॥
[आम्नायः] “श्रुतिस्त्री वेद आम्नायस्त्रयी”— इति। नामलिङ्गानुशासनात् श्रुतिः, वेदः, आम्नायः, त्रयी, इत्येतान्येकार्थान्येव पदानि। आम्नायसमाम्नायौचाभिन्नार्थौ। अतएव “इति माहेश्वराणि सूत्राणि”— इति भट्टोजिदीक्षितप्रथमवचनव्याख्यानावसरे ह्युक्तंनागेशेन लघुशब्देन्दुशेखरे— “आम्नायसमाम्नायशब्दोवेदे एव रुढो”— इति। वेदशब्देन तु आ सूत्रकालात् मन्त्राब्राह्मणवचनानि च गृह्यन्त इत्युक्त मेवानुपदम्। अत एव भगवता जैमिनिना कृते इदानीं प्रचलिते मीमांसादर्शने चवहुत्रैव मन्त्रब्राह्मणार्थपरो ह्याम्नायशब्दो दृश्यते। तथाहि
—“आम्नायस्य क्रियार्थत्वादानर्थक्य मतदर्थानाम् (१.२.१.)”
— “उक्तंसमाम्नायेदमर्थं०(१.४.१.)”—इत्येवमादयो द्रष्टव्याः।
“स्याद्वाम्नायधर्मित्वाच्छन्दसि नियमः (१.४.)”— इत्येतस्य वाजसनेयिप्रातिशाख्यसूत्रस्य व्याख्यानावसरे च “आाम्नायो वेदः”— इत्यारभ्य ‘ब्राह्मणं विध्यर्थवादरूपम, मन्त्रस्तुकर्माङ्गभूतद्रव्यदेवतास्मारकः’— इत्याद्युक्तंतद्भाष्यकृदुव्वटेनापि। तथा स्पष्टञ्चोक्तमथर्ववेदीये कौशिकसूत्रे— “आम्नायःपुनर्मन्त्राश्चब्राह्मणाणि च”— इति।
यास्कीयेऽत्र निरुक्तेऽप्युभयोरेवाम्नायत्वंस्वीकार्यं गम्यते। तथाहि— “अथाप्यनुपपन्नार्था भवन्ति— ‘ओषधे त्रायस्वैनम्’, ‘स्वधिते मैनं हिंसीः’— इत्याह (य० वा० सं० ४.१; ६.१५.) हिंसन्”— इत्याशङ्क्य (१.५.१.), समाहितं तत्तत उत्तरम् “यथो एतदनुपन्नार्थाभवन्तीत्याम्नायवचनादहिंसाप्रतीयेत”— इति(१.५.२.)। तदत्रमन्त्राणामाम्नायत्वेन ग्रहणं दृष्टम्। अन्यत्र तु “एषां लोकानां रोहेण सवनानां रोह आम्नातः(७.६.४.)”— इत्यत्र, इत उत्तर मेतत्सिद्धान्ते “यथो एतद्रोहात्प्रत्यवरोहश्चिकीर्षित इति, आम्नायवचनादेतद् भवति (७.७.१.)”— इत्यत्रब्राह्मणानामाम्नायत्वेन ग्रहणंदृष्टम्। एवञ्चसुव्यक्तंनिरुक्तकृन्मयेऽप्युभयोरेवमन्त्रब्राह्मणयोराम्नायत्वमिति।
मन्त्राणामाम्नायत्वं, मत्त्वैव ततः सङ्गृहीतस्य निघण्टोश्चसमाम्नायत्व मुक्तमादौ तेनैव निरुक्तकृता— “समाम्नायःसमाम्नातः, स व्याख्यातव्यः”— इ्ति (१.१.१.)। अत एव तद्वृत्तिकृता दुर्गाचार्येणोक्तंभूमिकायाम्— “छन्दोभ्यः समाहृत्यसमाहृत्य समाम्नाता, सैषा छन्दोऽवयवभूता छन्दोधर्मिण्येव यथायथापन्नास्ता गौर्गोधर्म्माइति”— इति॥
वेदाङ्गाना मप्याम्नायत्वंनिरुक्तकृत्सम्मतमेव; तत एवोक्तम्
— “समाम्नासिषुर्वेदञ्चवेदाङ्गानि च”— इति (१.६.५.)। तदत्र मन्त्राणाम्, मन्त्रेभ्यः सङ्गृहीतानां नैघण्टुकपदानाम्, वेदानाम् (मन्त्रातिरिक्तानाम्) = ब्राह्मणानाम्, वेदाङ्गानाञ्चाम्नायत्वमुररीकृतं यास्केनेति स्फुटम्।
तथा लघुशब्देन्दुशेखरेऽपि प्रत्याहारव्याख्यानावसरे “ननु चतुर्द्दशसूत्र्यामक्षरसमाम्नाय इति व्यवहारानुपपत्तिः?”— इत्यादिकं विचारमवतार्य पाणिनिव्याकरणादीनां वेदाङ्गाना मप्याम्नायत्वं प्रमाणीकृतं नागेशेनेति।
“तस्येदम्”— इति (४.३.१२०.) पाणिनीयसूत्रे यदुक्तंवार्त्तिकम्— “चरणाद्धर्माम्नानयोः (२)”—इति, तदनुसृत्यैव “छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ज्यः”— इति (पा० ४.३.१२९.) सूत्रतो नाष्ट्यस्याप्याम्नायत्वमुररीकृतं दीक्षितेन। तथा ह्युक्तम्— “चरणाद् धर्माम्नानयोरित्युक्तं तत्साहचर्यान्नटशब्दादपितयोरेव”— इति। एवञ्चशिलालिप्रभृतिकृतानां प्राचीनतमानां नटसूत्रादीना मप्याम्नायत्वं दीक्षितादिसम्मतमिति॥
वृद्धास्त्वाहुः— यतो हि ‘म्नाअभ्यासे’— इति धातुत आम्नायपदं निष्पन्नम्, अतो यः कश्चन ग्रन्थोऽभ्यस्त उक्तः, स एवाम्नायः। एकस्यैव पुनःपुनरुच्चारणादिना स्मृत्यनुगतकरण मेवाभ्यसनम्। युगावसानकाले प्रायः सर्वेष्वेव प्राण्यादिष्ववसन्नेषुये केचिच्छिष्टा अवशिष्टा बभूवुः, तैःस्वस्वस्मृत्यनुरूपः साङ्गो वेदः प्रोक्तः स्वस्वान्तेवासिभ्यः, तैश्चबहुभ्य इत्येवंपुनर्विस्तृतः सः; पुनर्युगान्तेचोपगते पुनः सर्व एव ते ऽन्तर्हिताः, पुनर्नवयुगारम्भे लयावशिष्टैःशिष्टैःस्वस्वस्मृत्यनुरूपत एव प्रोक्तः स्वस्वान्तेवासिभ्यः। एव मेवाभ्यासः सम्पद्यते साङ्गस्य वेदस्य सदैवेति स साङ्गो वेदः
सर्व एवसमाम्नाय इत्याख्यायते। अत एव ज्योतिषविषये सूर्यसिद्धान्ते ज्योतिषोपनिषदध्यायेऽप्युक्तमेव मेव (१९श्लो०)—
“युगे-युगे समुच्छिन्ना रचनेयंविवस्वतः।
प्रसादात् कस्यविद्भूयः प्रादुर्भवति कामतः”— इति।
तत्र चायं विशेष उपलभ्यते,— मन्त्राणामेव यथावत् स्वरवर्णमात्रादियुतानां यथाश्रुतानामभ्यासः क्रियते; सएव मन्त्रभागो दृष्ट इत्युच्यते। तत्रापि स्मृतिच्युत्यादिहेतुभिः पाठन्यूनाधिक्यंपाठान्तरत्वं क्रमान्यत्वञ्चानिवार्यमिति शाखान्तरत्वं सम्पद्यते। ब्राह्मणानान्तु तदर्थाद्यभिधानोपयोगित्वात्तच्चान्यथाप्युपपद्येतेति न तत्र यथावत्पाठाभ्यासःस्वीकृतःप्रत्युत तदर्थाभ्यास एवं कृतोऽपरग्रन्थप्रवचनेनेति; स एवब्राह्मणभागः प्रोक्त इत्युच्यते। एवं वेदाङ्गग्रन्थानामपि मूलतत्त्वाना मभ्यसनीयत्वेऽपि ततत्प्रयोगस्थानाना मस्ति देशकालाद्यपेक्षेति देशकालाद्यनुसारेणैव विधानमुचितमिति प्रतिनवयुगे नवकल्पनैव कृता; स एव वेदाङ्गभागः कल्पइति चोच्यते। तदेवंसर्वे एव वेदाङ्गाः तत्त्वतोऽभ्यस्ता अपि अक्षरशः प्रतियुगेनूतनाः कल्प्यन्ते— इति कल्पनामभाजः स्युः, परं शिक्षाप्रभृतीनां पञ्चानां कल्पनामतो व्यवहारो न दृश्यतेऽपि तु यागादिविधायकानां पैङ्गीप्रभृतीनामेव ग्रन्थाना श्रौतसूत्राणांकल्पइति प्रसिद्धिः; व्यवहार एवात्र निदानम्। तथाच वेदाङ्गग्रन्थेषु तेषामेव श्रौतसूत्रग्रन्थानां प्राथम्यमनुमीयते; यथा हि शैशिरीयाणां पञ्चानामेव शाकलत्वेऽपि आद्याया एव शाखायाः शाकल इति प्रसिद्धिः, यथा च सर्वेषां सामवेदीयार्च्चिकानां छन्दस्त्वेऽपि पूर्वभागस्यैव छन्द इति।
अत एव ब्राह्मणग्रन्थेष्वपि निरुक्तादिनामदर्शनं न विस्मयकरं
भवत्यार्याणाम्। नाट्यादिग्रन्थोऽपि नासीत् पुराकल्पे इति को वदितुं क्षमते? परं मन्त्रातिरिक्तानां केषामपि प्रबन्धानां न हियथावदक्षरशोऽभ्यसनं सप्रयोजनमित्यतिप्राचीननटसूत्रादीनां कृतकत्वेऽप्याम्नायत्व मव्याहतमेव।तदेवंनटशब्देनापि कात्यायनोक्तधर्माम्नानयोरभिसम्बन्धे को दोषः पाणिनिवृत्तिकृतः खलुभट्टोजिदीक्षितस्य।
परमत्र चेदमवश्यं धार्यम्, यद् भवतु नाम मन्त्रब्राह्मणात्मकस्य वेदस्य, मन्त्रोद्धृतपदसङ्घात्मकस्य निघण्टोः, षड्विभागोपेतस्यवेदाङ्गस्य, अन्येषाञ्च नटसूत्रादीनां सर्वेषामेव प्राचीनतमानामार्य्यशास्त्राणामाम्नायत्वम्; परं मन्त्रभागस्यैवाम्नायत्वं मुख्यम्, प्रतिकल्पेमन्त्राणामेवाक्षरश आम्नानात्; तथैव नैघण्टुकपदानाम्; तदनु ब्राह्मणभागस्य, तस्यापि तथा व्यवहारात्; तदनु वेदाङ्गानाम्, यास्कादिभिः स्वीकारात्; नटशास्त्रारादीनान्तुतथात्वे प्रामाण्यं विप्रकृच्छ्रत इतीति॥
[त्रयी] अमरसिंहोक्तेषु वेदनामसु त्रयीत्येवावशिष्टमालोचयितुम्; तदप्यालोच्यते यथाज्ञानम्।—रचनायास्त्रैविध्यमेव मन्त्राणां त्रयीत्वे वीजम्। अस्ति हि काचिद्रचना पद्यं नाम, सैव पुरा ऋगिति श्रुता; अस्ति काचिद्रचना गद्यं नाम, सैव पुरा यजुरिति श्रुता; अस्ति काचिद्रचना गानं नाम, सैव पुरा सामेति श्रुता। यतो हि गद्यपद्यगानातिरिक्तोनास्तिरचनाप्रकारः, अत एव ऋक्संहितासु, यजुःसंहितासु, सामसंहितासु, अथर्वसंहितासु वा ऋग्यजुःसामभ्योऽन्यो नैव दृश्यते कोऽपि वेदमन्त्रः। पद्यगद्यगानातिरिक्ताहि रचना कदापि नासीत्, इदानीमपि नावलोक्यते लोके, तत् कथन्नामऋग्यजुः—
सामलक्षणातिरिक्तापि मन्त्ररचना भवेद् वैदिकीति।तदाह भगवान् जैमिनिः— “तेषा मृग् यत्रार्थवशेन पादव्यवस्था। गीतिषु सामाख्या। शेषे यजुःशब्दः’— इति (मी० द० २.१. ३२, ३३, ३४.)। तदेतन्न्यायविस्तरे स्पष्टीकृतञ्च माधवेन, द्रष्टव्यं तत् तत्रैव। एवञ्च त्रयी नाम त्रिविधरचनामयी आप्तवाणी;सैव वेदः, सैव आम्नायः, सैव श्रुतिरित्यादि।
यद्यपि मन्त्राणामेवरचनानियमाधीनमेतत्त्रयीनाम, अतो मन्त्रभागस्यैव त्रयीत्व मङ्गीकर्त्तव्यम्, न तु ब्राह्मणभागस्येति वक्तुं युज्यते; “अहेबुध्नीय मन्त्रंमे गोपाय य मृषयस्त्रैविदा विदुः। ऋचः सामानि यजूंषि”— इति (तै०ब्रा० १.२.२६.) श्रुतिश्चात्रसाधिकैव। अत्रहि “त्रीन् वेदान् विदन्तीति त्रिविदः। त्रिविदां सम्बन्धिनोऽध्येतारस्त्रैविदाः, ते च यंमन्त्रभागम् ऋगादिरुपेण त्रिविध माहुः, तं गोपायेति योजना”— इत्यधिकरणमालाकारो माधवश्चोक्तवान् तथैव।तथापि मन्त्रभागानुगतब्राह्मणग्रन्थानामपि त्रयीत्वं व्यावहारिकमिदानींमन्तव्यमेव; सञ्ज्ञायाः खलु व्यवहाराधीनत्वात्। परं यथोक्तंपुरस्तात् मन्त्रभागस्यैव वेदत्वं,श्रुतित्वं, समाम्नायत्वंच मुख्यम्; ब्राह्मणभागस्यत्वप्रधानमिति; तथैवात्रापिबोध्यमिति॥
इहकेचिदन्यथैवाहुरन्यदेशीयाः। तद्यथा— पुरा किल यदा ऋग्वेदो यजुर्वेदःसामवेद इति त्रय एववेदा आसन्, नासीदथर्ववेदः; तदैव वेदस्य त्रयीत्याख्या व्यवहृतेति। अत एव प्राचीनतमेष्वेव ग्रन्थेषुत्रयीति वेदस्योल्लेखोदृश्यते; नानतिप्राचीनेषु। यथा च छान्दोग्यब्राह्मणे— “अग्नेर्ऋचो वायोर्यजूंषि सामान्यादित्यात्। स एतां त्रयीं विद्या मभ्यतपत् (६.१७.)”
— इत्यादि। एवं मनुसंहितायामपि— “अग्निवायुरविभ्यस्तु त्रयं ब्रह्मसनातनम्। दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम्”— इति(१, २३.)। छान्दोग्यादिभ्योऽर्वाचीना ये ग्रन्थाः, तेषु तु वेदस्य चतुष्ट्वमेव, न त्रयीत्वम्; तदानीमथर्ववेदोऽपि सम्भूत इत्येव तथात्वे वीजम्। तथा हि बृहदारण्यकं— “अरे अस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदोयजुर्वेदः सामवेदोऽथर्वाङ्गिरसः (४.४.१०.)”— इत्यादि। किञ्च महाभारतेऽपि— “एकतश्चतुरो वेदान् भारतञ्चैतदेकतः। पुरा किल सुरैःसर्व्वैःसमेत्य तुलया धृतम्॥ चतुर्भ्यः सरहस्येभ्योवेदेभ्यो ह्यधिकं यदा। तदा प्रभृति लोकेऽस्मिन् महाभारतमुच्यते”— इति। (१प० २६८, २६९ श्लो०)। पुनस्तत्रैव “योविद्याच्चतुरोवेदान् साङ्गोपनिषदो द्विजः। न चाख्यान मिदं विद्यात् नैव स स्याद् विचक्षणः”— इ्ति (१प० ३६८श्लो०)। एवञ्च ऋग्यजुःसाम इत्येव त्रयो वेदाः त्रयीशब्दवाच्याः, अथर्ववेदस्तु न त्रयीशब्दस्य शक्त्याबुद्ध्यते, अपि तु गौण्येति। तथा च ऋगादयस्त्रयएव प्राचीनतमाः, अथर्ववेदस्तु तदपेक्षयार्वाचीनस्तेषामेव परिशिष्ट इति।
नैतन्मतमस्मन्मनोहरम्, नापि विचारसहम्; निर्म्मूलत्वात् एकदेशदर्शित्वदोषग्राहग्रस्तत्वाच्च। तथाहि— न क्वापि वेदे लोके वा तादृशमतस्य किञ्चिदपि मूलं कथमपि दृश्यतेऽनुमातुंवा शक्यते। त्रयीतिनाम्ना वेदस्य व्यवहार एवात्र निदानमिति चेत्, अस्मदुक्तत्रयीनामकारणमेव तत्संहारकतया सदेव जागर्त्ति; सत्स्वपि हि चतुर्ष्वपि वेदेषु रचनात्रयभेदनिबन्धनं तेषु त्रयित्वमव्याहतमेव। अत एव, सामवेदे ऋचां यजुषां चपाठा विद्यन्त एव, एवंयजुर्वेदेऽपि ऋचां पाठा दरीदृश्यन्त
एव, कथ मसाङ्कर्यंसामादिलक्षणानामित्याशङ्क्य सिद्धान्तितं माधवाचार्येण,— अस्तु सामादिनामतः सम्प्रति प्रसिद्धेषु ग्रन्थेषु यजुरादीनां साङ्कर्यम्, परं न हि तेन सामादिलक्षणानां माङ्कर्यं सम्पद्यते; ऋगादिलक्षणानि तु सर्वथा अव्याप्त्यतिव्याप्तिदोषशून्यान्येवेति। तथाहि— “नर्क्-सामयजुषां लक्ष्मसाङ्कर्यादिति शङ्किते। पादश्च गीतिःप्रश्लिष्टपाठ इत्यस्त्यसङ्करः॥ ०—०। तत्र त्रिविधानामृक्सामयजुषां व्यवस्थितं लक्षणं नास्ति। कुतः? साङ्कर्यस्य दुष्परिहरत्वात्। ‘अध्यापकप्रसिद्धेषु ऋग्वेदादिषु पठितोमन्त्रः’— इति हि लक्षणं वक्तव्यम्, तच्च सङ्कीर्णम्। ‘देवो वःसवितोत्पुनात्वच्छिद्रेण वसोः सूर्यस्य रश्मिभिः’—इत्ययं मन्त्रोयजुर्वेदेसम्प्रतिप्रन्नो यजुषां मध्ये पठितः; न च तस्य यजुष्ट्वमस्ति, तद्ब्राह्मणे सावित्र्यर्च्चे त्यक्त्वेनव्यवहृतत्वात्। ‘एतत् साम गायन्नास्ते’— इति प्रतिज्ञाय किञ्चित् साम यजुर्वेदेऽङ्गीकृतम् (तै० स० १.६.५.१)। ‘अक्षितमसि। अच्युत मसि। प्राणसंशित मसि’— इति त्रीणि यजुंषि सामवेदे समाम्नातानि (छा० ब्रा० ३.१७.)। तथा गीयमानस्य साम्न आश्रयभूता ऋचः सामवेदे समाम्नायन्ते। तस्मान्नास्ति लक्षणमिति चेत्, न; पादादीनामसङ्कीर्णलक्षणत्वात्। ‘पादबन्धेनार्थेन चोपेता वृत्तवद्धा मन्त्राःऋचः”, ‘गीतिरुपा मन्त्राःसामानि’, ‘वृत्तगीतिवर्जितत्त्वेन प्रश्लिष्टपठिता मन्त्रायजूंषि’— इत्युक्तेन क्वापि सङ्करः”—इति (अधि० मा० २.१.५०.)।
एवञ्च इदानीन्तनाध्यापकप्रसिद्धितो वेदनामग्रहो मुग्धकर एव; वस्तुतो यत्र क्वच ग्रन्थेऽग्रन्थेवा यस्य कस्यचिन्मन्त्रस्य पादबन्धेनार्थेनोपेतत्त्वंवृत्तवद्धत्वञ्च दृश्यते, सोऽवश्यमेव ऋङ्मन्त्रः;
एवं यत्र क्व च ग्रन्थेऽग्रन्थेवा यस्य कस्यचिन्मन्त्रस्य गीत्यात्मकत्वं दृश्यतेसोऽवश्यमेव साममन्त्रः; तथैव यत्र क्वच ग्रन्थेऽग्रन्थे वा यस्य कस्यचिन्मन्त्रस्य गद्यात्मकत्व दृश्यते, सोऽवश्यं यजुर्मन्त्रः। एतदेवाङ्गीकृत्योक्तंबह्वृक्प्रातिशाख्यव्याख्याने विष्णुमित्रेण— “तथाचोक्तम्— ‘यः कश्चित् पादवान् मन्त्रोयुक्तश्चाक्षरसम्पदा। स्वरयुक्तोऽवसाने च ता मृचं परिजानते’— इति”— इत्यादि। अत एव चात्रैव निरुक्तेऋगिति प्रदर्शितं शतपथब्राह्मणीयवचनम् ‘अङ्गादङ्गात् सम्भवति”— इति। न ह्येतद्द्वचनमस्ति क्वचिदपि ऋक्संहितायाम्, प्रत्युत अस्त्येव शतपथब्राह्मणे (१४.९.४.२६.); यदि नाम ऋक्संहितावचनानामेव ऋक्त्वमाचार्यसम्मतं स्यात्, तर्हि कथमुच्येतात्र भगवता यास्केन “तदेतदृक्श्लोकाभ्यामभ्युक्तम् (३.१.४.)”— इ्त्यादि। सामवेदीयमन्त्रब्राह्मणेऽपि चैष मन्त्रोविद्यतेअऽङ्गादङ्गादिति (१.५.१७.), तदेवमिह ऋगिति शतपथीयं मन्त्रब्राह्मणीयं च वचनमभिप्रेतम्, श्लोक इति तदानीं प्रचलिताया मनुसंहिताया वचनञ्च प्रदर्शितम्। तदेव मेवैषाचार्यप्रवृत्तिर्ज्ञापयतियत्र क्वच वेदे स्यात् ऋग्लक्षणो मन्त्रः, भवत्येव ग्रहणं तस्य ऋगिति; एवं यजुरपीत्यादि। एवञ्च ग्रन्थानां कालकृतबहुत्वेऽपि वेदस्य त्रैविध्यं तदनु त्रयीत्वञ्च यथा पुरा तथाद्यापि सुस्थितमित्यथर्ववेदोऽपि नास्माद् भिन्नः; तस्यापि ऋग्यजुर्मयत्वात्। अपि च यथा सामबहुले सामवेद इति प्रसिद्धेऽपि ग्रन्थेपठिताना मृचा मृक्त्वं यजुषां यजुष्ट्व मुररीकार्यमेव, न च तत्स्वीकारात् तस्य सामवेदत्वं विहन्यते; तथैव अथर्वकृत्याबहुले अथर्ववेद इति प्रसिद्धेऽपि ग्रन्थेपठिताना मृचा मृक्त्वंयजुषाञ्च यजुष्ट्वं कथं न स्वीका—
र्य्यम्? तथा स्वीकृते च तस्य अथर्ववेदत्वं कथंवा विहन्येत? एवं हि अस्त्वथर्ववेदस्य स्वातन्त्र्यम्, तदीयमन्त्राणां केषाञ्चिदृक्त्वं केषाञ्चिच्च यजुष्ट्वंन केनापि कदापि कथ मपि वारितुं शक्यते। तत् सिद्धमेतत्,— वेदानां ग्रन्थभेदकृतचतुष्ट्वेऽपि रचनाभेदकृतत्रयीत्वेन कोऽप्यस्ति संशयः। उक्तमप्येतत् सर्वानुक्रमणीवृन्तौ—
“विनियोक्तव्यरूपश्च त्रिविधः सम्प्रदर्श्यते।
ऋग्यजुःसामरूपेण मन्त्रोवेदचतुष्टये।
अहेबुध्नीय मन्त्रंमे गोपायेत्यभिधीयते।
ऋक् पादवद्धा, गीतन्तु माम, गद्यं यजुर्मन्त्रः।
चतुर्ष्वपि हि वेदेषुत्रिधैव विनियुज्यते”— इति**।**
यच्चोक्तम्,— प्राचीनतमेष्वेव ग्रन्थेषु छान्दोग्यादिषु त्रयीव्यवहारः;तदपेक्षयार्वाचीनेषु बृहदारण्यकादिष्वेवाथर्वनामेति। तदिदं तेषामेकदेशदर्शित्वमेवावेदयति; सर्वत्र सर्वविधदर्शनात्। तथाहि, तत्रैव छान्दोग्ये— “ऋग्वेदं विजानाति यजुर्वेदं सामवेदमाथर्वणञ्चतुर्थम्”— इति (७.७.) च; तत्रैव मनुसंहितायामपि— (९.२९.) “अभिचारेषु”, “कृत्यासु”— इति। तत्रैव शतपथब्राह्मणेऽपि— “त्रयो वेदा अजायन्त (११.५. ८.)”— इत्यादि च; तत्रैवमहाभारतेऽपि— “अग्निहोत्रं त्रयीविद्या (१. १००. ६६.)”, “कच्चिद्धर्मेत्रयीमूले (२.५.९८.)”, “न सामऋग्यजुर्वर्णाः(३.१५०.१३.)”— इत्यादि च। किम्बहुना यत्र क्वचग्रन्थे वेदस्य त्रित्वंदृश्यते, तत्र सर्वत्रैव चतुष्ट्वमपि। तदेवं ग्रन्थानां प्राचीनत्वार्वाचीनत्वभेद एव वेदस्य त्रित्वचतुष्ट्ववर्णने वीज मिति मतं सर्वथैवापास्तम्॥
अथर्ववेदस्याधुनिकत्वे पाणिनेरस्मरणमपि मानान्तरमित्यु-
क्तिश्च तेषां तथैव। तथाहि— ऋक्, यजुः, साम— इमानि तुमन्त्रलक्षणानि; ऋग्लक्षणो मन्त्रः, यजुर्लक्षणो मन्त्रः, सामलक्षणो मन्त्र इति; तादृशमन्त्रास्तुसर्वेष्वेव वेदेषु राजन्तेइति तेषां ग्रहणेनैव सर्ववेदानां ग्रहणं सम्पन्नम्; सूत्राणामेव ग्रहणेनैवयथा सर्वेषामेव पदानामिति। अथर्वेति तु न किंविधस्यापि मन्त्रस्य लक्षणम्;अपि तु यथा शाकलादिशाखानां साधारणं नाम ऋग्वेद इति, यथा च कठादिशाखानां साधारणं नाम यजुर्वेद इति, यथा च कौथुमादिशाखानां साधारणं नाम सामवेद इति;तथैव शौनकादिशाखानां साधारणं नाम अथर्ववेद इति। शाकलादिसंहिताग्रन्थानान्तु दृष्टत्वाभावः; अपि तु पाणिनेरतिपूर्वतनीयत्वादार्षत्वाच्च प्रोक्तत्वंपाणिनिसम्मतम्। अत एव यथाप्रयोजनं प्रोक्ताधिकारे एव शाकलादीनामुल्लेखः कृतः पाणिनिना— “शाकलाद्वा(४.३.१२८.)”—इत्यादिभिःसूत्रैः; तत्राथर्ववेदीयशौनकसंहिता– प्रोक्तुरप्यस्त्येवोल्लेखः—“शौनकादिभ्यश्छन्दसि”—इति (४.३.१०६.)।तस्मिंश्च सूत्रे छन्दसि इति दर्शनादिदञ्च ज्ञायतेयत् प्रोक्तत्वेनैव ग्राह्योऽपि न छान्दसः, एव मप्यस्त्येव कश्चन ग्रन्थःपाणिनेर्विदित इति। स च ग्रन्थः खल्वथर्ववेदीयशिक्षेव; तत एव तत्र प्रत्युदाहृतं नागेशेन “शौनकीया शिक्षा”— इति। अथर्ववेदीयकल्पस्यापि ग्रहणंकृतमेव तत्र प्रोक्ताधिकारे “काश्यपकौशिकाभ्यामृषिभ्यां णिनिः”— इति (४.३.१०३.)। चतुरध्यायिकौशिकसूत्रस्याथर्ववेदीयत्वन्तु सुप्रसिद्धमेव। किञ्चतत्रैव प्रोक्ताधिकारे यथैव “छन्दोगौक्थयाज्ञिकबहुवचनटाञ्ज्यः”— इति (४.३.१२९) सूत्रितम्; तथैव “आथर्वणिकस्यैकलोपश्च(४.३.१३३.)”—
इत्यपि सूत्रितमेव। तथाच यथैव छन्दोगानां धर्म आम्नायो वाइत्यर्थेसाधितं छान्दोग्यमिति, तथैव आथर्वणिकानां धर्मआम्नायो वा इत्यर्थेसाधितमेव आथर्वण इति पदम्। “चरणाद्धर्म्माम्नानयोः”—इति (४.१.१२६.) वार्त्तिकञ्चपाणिनितात्पर्याख्यानपर मेव न तु वाचनिकमित्यपि तत्रैव भाष्येस्फुटम्। तथाहि— “न चेदानीमन्यदाथर्वणिकानां स्वंभवितुमर्हति, अन्यदतो धर्म्माद्वाआम्नायाद्वा”— इति।तस्तुतःसर्वत्रैव “व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्”— इत्येव भाष्यसम्मतम्। तदित्थमथर्ववेदास्तित्वज्ञानं पाणिनेरासीन्नवेति विचारस्तु दूरे आस्ताम्; प्रत्युत अथर्ववेदीया शौनकसंहिता, अथर्ववेदीयकल्पसूत्रंचतुरध्यायात्मकं कौशिकं नाम, अथर्ववेदीया शिक्षा, अथर्ववेदीयानां पाठप्रकाराद्यात्मको धर्मश्चेति सर्वाण्येतानि आसन्नेवतस्यपाणिनेः सुविदितानीति सुव्यक्तम्।
निरुक्तकारो यास्कःपाणिनेरपि पूर्वतनः,— इतिवादिनां नये तु निरुक्तेऽसकृदेवाथर्ववेदीयनिगमोद्धृतिदर्शनात् तस्य यास्कबहुपूर्वदृष्टत्वनिर्णयेनैव पाणिनिविदितत्वं सुवचम्। तदथर्ववेदस्य पाणिनिविदितत्वविचारस्त्वस्तु पेटिकाबद्धः; तन्मते हि तत्पूर्जस्ययास्कस्यापिविदित आसीदथर्ववेद इत्युपपद्यते। तद्यथा— “तथापि निगमो भवति— ‘यमक्षिति मक्षितयः पिबन्ति’— इति।०—०।तथापि निममो भवति— ‘यथा देवा अंशु माप्यायन्ति’— इति”— इति निरु० ५.२.६। तावेतौ द्वावेव निगमौ अथर्ववेदीयावेव(अथ० सं० ७.७.८.६.)। अन्यत्र च “एकं पादं नोत्स्विदतीत्यपिनिगमो भवति”— इति (१२.३.१०.)।एषोऽपि निगमोऽथर्वसंहितात एव लव्धस्तेन; श्रूयते हि तत्रैवैका—
दशकाण्डीयद्वितीयानुवाकान्त्यसूक्ताद्याऋक् “एकं पादंनोत्स्विदति सलिलाहंसमुच्चरन्”—इत्यादि। किञ्चात्रनिघण्टुस्थितस्यैकपादित्यस्यैष एव निगमोऽन्यत्र वेस्वदेव्याद्यृक्षु तु निपात एवेति निर्णयात् निघण्टुसमाम्नायश्रवणात् पुराप्यासीदथर्ववेद इति यास्कसम्मतमेवेत्युपलभ्यते; निघण्टोर्हि यास्कादिबहुपूर्वश्रुतत्वं प्रतिपादितमेव पूर्वम् (२२-२७ पृ०)। तस्मात् ऋग्यजुस्सामवेदसमकालिकत्व मेवाथर्ववेदस्येत्यत्र सन्देहलेशोऽप्ययुक्त एवेत्यस्माकमिति॥
वस्तुत एक एव वेदः, त्रिविधरचनात्मकस्त्रयीति प्रसिद्धोऽपि ऋक्संहिता यजुस्संहिता, सामसंहिता, अथर्वसंहितेति चतुः- संहिताभिश्चतुःस्सङ्ख्यान्वितः। संहितालक्षणं तु प्रातिशाख्यादौप्रसिद्धम्— “पदप्रकृतिः संहिता”— इति (ऋ० प्रा० २.१.), “वर्णाना मेकप्राणयोगःसंहिता”— इति (य० वा० प्रा० १.१५८.), “परः सन्निकर्षः संहिता”— इति (पा० १.४.१०९.); एवमादि।तत्र,— ऋग्लक्षणानां (पद्यात्मकानां) मन्त्राणां चतुर्विधास्वपि संहितासु विद्यमानत्वेऽपि यत्र ग्रन्थेऋग्लक्षण मन्त्रभूयिष्ठं, (कुन्तापादीनां) यजुर्लक्षणमन्त्राणा मल्पत्वम्, तस्यैव ऋक्संहितात्वम्। एव मन्यासु त्रिविधास्वपि संहितासु यजुर्लक्षणानां (गद्यात्मकानां) मन्त्राणां विद्यमानत्वेऽपि यत्र ग्रन्थे यजुषा मेवाधिक्यम, ऋचा मपि यजुष्ट्वेनैव पाठो विनियोगश्च, तस्यैव यजुस्संहितात्वम्। अतएवोक्त मध्वर्युब्राह्मणभाष्यभूमिकायां सायणाचार्येणापि— “तत्र यजुषा मध्वर्युवेदेऽतिबहुलत्वात् क्वचित् क्वचित् ऋचां सद्भावेऽपि यजुर्वेद इत्येवाख्यायते”— इति। सामसंहितायास्तुस्तोमानां गानानाञ्च मूलीभूतानां कासाञ्चिदृचाम्, स्तोभलक्षणानां कतिपयानां यजुषां चाश्रयत्वेऽपि प्रधानतया साम्ना मेवाधारभूमित्वं
स्पष्टम्। तदेवंपद्यगद्यगीतिभेदात् या त्रिविधा रचना भवति; तादृशरचनात्रैविध्याबलम्बनेनैतानि त्रीणिनामानि सम्पन्नानि,—ऋक्, यजुः, साम इति; ततश्चतुर्थसंहितायाःकिं नाम भवितव्यमिति चिन्तायामेवं विभागकारिणोनाम्नैवैतस्या नामकरणमुचितमिति सिद्धं तन्नामथर्वसंहितेति॥
अथर्वानामर्षिरेव हि यज्ञप्रक्रियायाःप्रथमप्रकाशकः; अतः स एवस्वाद्धोत्रादिकार्यसौकर्यायैव मृगादिनाम्नावेदविभाजकश्चेत्यपिनासङ्गतम्। तथा हि— “यज्ञैरतर्वा प्रथमःपथस्तते”— इति (ऋ०सं० १.६.४.५.), “अग्निर्जातो अथर्वणा”— इति (ऋ० सं० ७.७.४.५.), “त्वा मग्ने पुष्करादध्यथर्वानिरमन्थत”— इति (ऋ०सं० ४.५.२३.३.), “अथर्वाणं पितरं देवबन्धुंंमातुर्गर्भं पितुरसुं युवानम्। य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः”— इति (अ० सं० ७. १. २.) चैवमादिमन्त्रालिङ्गात् प्रतीयत एवाथर्वणो यज्ञाविष्कर्त्तृतम्।
“यदृचैव होत्रं क्रियते यजुषाध्वर्यवं साम्नोद्गीथं व्यारब्धा त्रयी विद्या भवत्यथ केन ब्रह्मत्वं क्रियते इति त्रय्या विद्ययेति ब्रूयात् (ऐ०ब्रा० ५.५.८.)”— इत्यादिश्रुतेश्च स्फूटमिव प्रतीयते यज्ञकार्यनिर्वाहसौकर्यार्थमेव च ऋगादिसंहिताविभाग इति। किञ्चात्रैव च “अथ केन ब्रह्मत्वं क्रियते? त्रय्या विद्यया”— इत्यतः समग्रा एव त्रयी विद्या ब्रह्मत्वकरणे साधिकेति स्पष्टम्। न चाथर्वसंहिताध्ययन मन्तरा समग्रायास्त्रय्याः ज्ञानं भवितुमर्हति; होत्रध्वर्यूद्गातृव्यवहार्यातिरिक्तानामप्यृग्यजुर्मन्त्राणां तत्र सद्भावात्। अतएव “ऋचान्त्वः पोष मास्ते”— इति (ऋ० सं० १०. ७१. ११.) मन्त्रस्य निर्वचनावसरे यास्कोऽप्याह— “ब्रह्मा सर्वविद्यः सर्वं वेदितुमर्हति”
–इति (१.३.३.)। अप्यथर्ववेदी एव ब्रह्मा भवति, स एव च यज्ञं समन्तात् रक्षति। तथाहि— “ब्रह्मैव विद्वान् यद् भृग्वङ्गिरोवित् सम्यगधीयानश्चरितब्रह्मचर्योऽन्यूनातिरिक्ताङ्गोऽप्रमत्तो यज्ञं रक्षति, तस्य प्रमादाद् यदि वाप्यसान्नैध्याद् यथा भिन्ना नौरगाधे महत्युदके सम्प्लवेत्”— इ्त्यादिः, “तस्माद् यजमानो भृग्वङ्गिरोविदमेव तत्र ब्रह्माणं वृणीयात्; स हि यज्ञं तारयतीति ब्राह्मणम्”—इत्यन्तो गोपथग्रन्थो द्रष्टव्यः (गो० ब्रा० २. २. ५)। छन्दोगा अपि ब्रह्मणो भिषक्त्व मामनन्त्येव— “भेषजकृतो ह वा एष यज्ञो यत्रैवंविद् ब्रह्मा भवति (छा० ब्रा० ५. १७. ८.)”— इत्यादि। सामवेदभाष्यावतरणिकादौ सायणाचार्योऽप्यवोचत्—
“त्रयाणामपराधन्तु ब्रह्मा परिहरेत् सदा”—इति**।**
युक्ततरञ्चेतद् तदैव ब्रह्मर्त्विजि, यदा खलु तस्य चतुर्वेदवित्त्वेन समग्रत्रयीवेत्तृत्वं स्यात्; सर्ववेदवेत्तृन्नैव च तस्य विश्वव्यचा इति समुद्र इति चाख्यानं सङ्गच्छते। श्रुयते हि— “समुद्रोऽसि विश्वव्यचा”— इति (य० वा० सं० ५. ३३.) यजुर्मन्त्रः। स्फुटतरञ्चैतदाम्नातं दृश्यते गोपथपूर्वार्द्धे एव। तथाहि— “तस्मादृग्विदमेव होतारं वृणीष्व, यजुर्विदमध्वर्युम्, सामविदमुद्गातारम्, अथर्वाङ्गिरोविदं ब्रह्माणम्”— इति, “प्रजापतिर्यज्ञमकरोत्; स ऋचैव होत्रमकरोत्, यजुषाध्वर्यवम्, साम्नोद्गात्रम्, अथर्वाङ्गिरोभिः ब्रह्मत्वम्”— इति (गो० ब्रा० १. ३. १. २.) च।
एवञ्च यज्ञीयहौत्रादिकार्यानुसारत एव चतस्रः संहिताः सम्पन्नाः; यत्र च यदीयं विधानादिकं श्रूयते, तदेव तस्य ब्राह्मणमिति च। तदुक्तं सर्वानुक्रमणीवृत्तिभूमिकायाम्—
“विनियोक्तव्यरूपो यः स मन्त्र इति चक्षते।
विधिस्तुतिकरं शेषं ब्राह्मणं कथयन्ति हि”— इति**।**
एवं ह्येकस्यैव वेदस्य चतुर्द्धा विभागः सम्पन्नस्तत्र कः संशयः। सामवेदीयोहोह्यग्रन्थयोः प्रकरणसन्निवेशदर्शनेन च यज्ञकार्यसौकर्यायैवैकस्य वेदस्य चतुर्भेदाः कृता इत्याभाति स्फुटम्; दृश्यते हि तयोरुभयोरेव ग्रन्थयोः क्रमात् दशरात्र-संवत्सर-एकाह-अहीन-सत्र-प्रायश्चित्त-क्षुद्रेतिसप्तपर्वात्मकत्वम्। एव मेव अध्वर्युवेदसंहिताभाष्ये प्रथमानुवाकव्याख्यावतरणिकायां यदाह सायणाचार्यः— “अस्मिन् वेदे समाख्याता दर्शपूर्णमासेष्टिमन्त्रास्त्रिविधाः, आध्वर्यवा याजमाना हौत्रकाश्चेति। ०—०। एतेषां मध्ये याजमानानां हौत्राणाञ्च चित्रस्थानीयत्वात् भित्तिस्थानीयाना माध्वर्यवाणामेवादौ पाठो युज्यते”— इत्यादि, तदपि सङ्गच्छते; यदि ताश्चतस्र एव संहिता यज्ञकार्यानुक्रमेणैह्येव ग्रथिता न स्युस्तर्हि तस्य तथोक्तिरसङ्गतित्वमेवोपगच्छेन्नामेति। अपिवा यजुर्वेदीयमैत्रायणीयशाखायाः परिच्छेदविन्यासानां प्रत्यक्षसन्दर्शनेनैवास्तङ्गच्छेदेवैषसंशयस्तत् कि मत्र प्रमाणपारायणेनेति।
तथाच निष्पन्न मेतत्;— होतृव्यवहार्यमन्त्रास्तु सर्व एव ऋचः; तासामृचां संहननेनोपनिबद्धो ग्रन्थ एव सम्पन्न ऋक् संहितेति; तदर्थविनियोगाद्यभिधायकश्च ग्रन्थ ऋग्ब्राह्मणमिति। तावेव ग्रन्थावधुना ऋग्वेद इति प्रसिद्धौ। अध्वर्युव्यवहार्यमन्त्रास्तु ऋचोऽपि सन्ति परं प्रधानतो यजूंष्येव; तादृशर्ग्यजुःसंहननेनोपनिबद्धो ग्रन्थ एव सम्पन्नो यजुःसंहितेति; तदर्थविनियोगाद्यभिधायकश्च ग्रन्थो यजुर्ब्राह्मणमिति। तावेव ग्रन्थावधुना यजुर्वेद इति प्रसिद्धौ। उद्गातृव्यवहार्यमन्त्राः खलु ऋचो, यजूंष्यपि, सन्ति, परं
प्रधानतः सामान्येव; तादृशर्ग्यजुःसाम्नां संहननेनोपनिबद्धोग्रन्थः सम्पन्नो सामसंहितेति; तदर्थविनियोगाद्यभिधायकश्च ग्रन्थः सामब्राह्मणमिति। तावेव ग्रन्थावधुना सामवेद इति प्रसिद्धौ। एवं ये, नाम ऋग्वेदमात्रे कृतश्रमाः, अध्यापयन्ति व्यवहरन्ति च ऋग्वेदमात्रम्, त एव ख्यायन्ते ऋग्वेदीति। तेषां ब्रह्मयज्ञादिसिद्धये ये केचन मन्त्राः प्रयोजनीयाः, तेऽपि तदीयसंहिताया मन्तर्निविष्टाः। ये तु यजुर्वेदमात्रे कृतश्रमाः अध्यापयन्ति व्यवहरन्ति च यजुर्वेदमात्रम्, त एव ख्यायन्ते यजुर्वेदिन इति; किञ्च यजुःसंहिताया मृचा मपि सद्भावात् यजुर्वेदिना किञ्चिदृग्बोधोऽपि सुतरां सम्पद्यते, अतस्ते “द्विवेदी”— इत्यप्युच्यन्ते; देशभाषया ‘दुवे’— इति। तेषां ब्रह्मयज्ञादिसिद्धये ये केचन मन्त्राः प्रयोजनीयाः, तेऽपि तदीयसंहिताया मन्त्रर्निविष्टाः। ये खलु सामवेदमात्रे कृतश्रमाः अध्यापयन्ति व्यवहरन्ति च सामवेदमात्रम्, त एवाख्यायन्ते सामवेदीति; किञ्च सामसंहितायामृचां यजुषाञ्चाप्राधान्यतया विद्यमानत्वात् सामवेदिनामृग्यजुषोर्बोधोऽपि सुतरां सम्पद्यते, अतस्ते “त्रिवेदी”— इत्यप्युच्यन्ते; भाषायां ‘त्रिवाडी’— इति ‘तिवारी’— इति च। तेषां ब्रह्मयज्ञादिसिद्धये ये केचन मन्त्राः प्रयोजनीयाः, तेऽपि तदीयसंहितायां ब्राह्मणे चान्तर्निविष्टाः। एभ्योऽवशिष्टमन्त्राणां पेटिकारूपा संहत्यैव निबद्धा या चतुर्थसंहिता सम्पन्ना। तत्र ऋचोऽपि सन्ति यजूंषि अपि। सौवाथर्वसंहितेति प्रसिद्धा। तदर्थविनियोगाद्यभिधायकश्च ग्रन्थोऽथर्वब्राह्मणमिति। तावेव ग्रन्थावधुना अथर्ववेद इति प्रसिद्धौ। क्रतौ ब्रह्मत्वकार्ये कर्त्तव्ये सर्वासामेवर्चांसर्वेषामेव यजुषां सर्वेषाञ्चैव साम्नां बोधः प्रयोजनीयः; तादृशसर्वमन्त्रवेत्तृत्वञ्च ऋग्यजुस्सामसंहिताध्ययन-
वतामपि अथर्वसंहिताध्ययनमन्तरा न सम्भवेत्, अतो यथा हौत्रेऋग्वेदः, यथा च आध्वर्यवे यजुर्वेदः, यथैव औद्गात्रेसामवेदः; तथैव ब्रह्मत्वे अथर्ववेदः। किञ्च यथा ऋग्वेदस्य होतृवेद इत्यपरं नाम, यथा च यजुर्वेदस्य अध्वर्युवेद इत्यपरं नाम, यथैव सामवेदस्य उद्गातृवेद इत्यपरं नाम; तथैवाथर्ववेदस्य ब्रह्मवेद इत्यपरं नाम। अपि च ब्रह्मत्वकरणायैवाथर्ववेदाध्ययनं विशेषतः सप्रयोजनम्, तच्च ऋगाद्यध्ययन मृते न सम्भवति, अतोऽथर्ववेदाध्ययनेच्छूना मृग्वेदाद्यध्ययनमप्यवश्यं कर्त्तव्यमित्यतो ये त्वथर्ववेदिनस्त एव प्रायश्चतुर्वेदाध्यायिनो भवन्ति, ततः “चतुर्वेदी”— इत्याख्यायन्ते, भाषायां ‘चौबे’— इति च।
तदेवं मूलत एकस्यैव वेदस्य रचनाभेदमूलकत्रयीत्वेऽपि हौत्रादिकार्यसौकर्यार्थं कृतं चतुष्ट्वमप्यवश्यमादरणीयम्। अतएव दृश्यतेऽत्र निरुक्तेऽपि— “चत्वारि शृङ्गेति, वेदा वा एत उक्ताः”— इति (१३.१.७.)। सिद्धमित्थमेक एक वेदो रचनाप्रकारभेदतस्त्रयीशब्दवाच्योऽपिहौत्रादिकार्यानुसारतः संहिताग्रन्थनभेदात् चत्वार इति॥
[छन्दः] “छन्दः”— इत्यपि वेदस्यैवान्यतममतिप्राचीनं नाम।
(१) छन्दः शब्देन प्रथमं तावत् ऐशप्रबन्धानामेषां वाय्वादीनां सर्वेषामेव बोधो भवति स्म। तत एवैवमाथर्वणिका आमनन्ति— “त्रीणिच्छन्दांसि कवयो ०—०आपो वाता ओषधयः”— इति (१८.१.२.७.)। तत्र छन्दांसि बन्धनानीत्यर्थः। अत्राप्युपपद्यत एतन्निरुक्तम्— ‘छन्दांसि छादनात्’— इति (७.३.६.); छादनं नाम बन्धनमेव; बन्धनान्येव हीमाःसर्वे विषयाः; तदुक्तंसाङ्ख्यतत्त्वकौमुद्याम्— “विषण्वन्ति विषयिण मनुबध्नन्ति
स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत्, विषयाः पृथिव्यादयः सुखादयश्चास्मदादीनाम् (५ श्लो० कौ०)”— इत्यादि।
(२) तत उत्तरं सर्वेषामपि अक्षरसमाम्नायानां तत्त्वतस्तु येनकेनापि प्रकाशितानां सर्वेषां शब्दानामकारादीनां छन्दःशब्देन व्यपदेशो भवति स्म। तत एवैवं तैत्तिरीया आमनन्ति— “छन्दः पुरुष इति यमवोचाम, अक्षरसमाम्नाय एव; तस्यैतस्याकारो रसः”— इति (३.२.३.४.)। तत्राप्युपपद्यत एवैतन्निरुक्तम्— ‘छन्दांसि छादनात्’— इति; छादनान्येव हि शब्दा अकारादयोऽर्थानाम्।
(३) ततः पश्चादाप्तर्षीणां प्रबन्धेषु ऋगादि-त्रिविधेषु मन्त्रेष्वपि व्यवहृतं छन्द इति। तत एवैवमप्याथर्वणिका आमनन्त्युच्छिष्टसूक्ते— “अग्न्याधेय मथो दीक्षाकामप्रच्छन्दसा सह। उत्सन्नयज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः”— इति (११.४.१.८.)। अन्यत्र च “दिवो नुमां वृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन। समिन्द्रियेण पयसाह मग्ने छन्दोभिर्यज्ञैःसुकृतां कृतेन”—इति (६.१२.११.१.)। तत्राप्युपपद्यत एतदेव निरुक्तं‘छन्दांसि छादनात्’— इति; छादनान्येव हि ते मन्त्रा मनोभावादीनाम्। निरुक्तारम्भेऽपि यद् भाषितम्— “छन्दोभ्यः समाहृत्यसमाहृत्य समाम्नाताः (१.१.१.)”— इत्यादि, तत्रापि मन्त्रेभ्य इत्येव तस्यार्थः; तत्र हि निघण्टौ मन्त्रमात्रत एवोद्धृतानां पदानां दर्शनात्। अत एव तस्य वृत्तौ‘छन्दांसि=मन्त्राः’— इत्येवोक्तं दुर्गाचार्येणापि।
श्रूयते चेदं तैत्तिरीयारण्यके— “यश्छन्दसामृषभो विश्वरूपः०—० भूर्भुवः सुवश्छन्द ओम्”—इति (१०.६.)। “ ‘यः’प्रणवः
‘छन्दसां’वेदानां मध्ये ‘ऋषभः’श्रेष्ठः”— इत्यादि च तद्भाष्यं सायणीयम्। तथैव छान्दोग्यब्राह्मणेऽपि— “देवा वैमृत्योर्बिभ्यतस्त्रयींविद्यां प्राविशँस्ते छन्दोभिरच्छादयन्; यदेभिरच्छादयँस्तच्छन्दसां छन्दस्त्वम्”— इति(३.४.२.)। शतपथेऽप्येवमेव— “यदेभिरात्मानमाच्छादयत्, देवामृत्योर्बिभ्यत, तच्छन्दसां छन्दस्त्वम्”— इति (४.५.१.१.)।
निघण्टुश्रुतस्य (२.७.१४.) कान्तिकर्मणोऽपि, धातोर्निष्पद्यतेछन्द इत्येके। तथाच सर्व एव वेदाः काम्यमानाश्चास्माकं सर्वकामपूरकाःकमनीया वा। अर्च्चतिकर्मण एव (३.१४.२०,२१.) भवति छन्द इति च केचित्। तथाच सर्वेषामेव वेदमन्त्राणा मर्च्चायां गतिरिति छन्दस्त्वम्; अर्च्चनीया वा सर्वेवेदा अस्माकमिति। तदेवं पुरा सर्वेषां मन्त्राणां साधारणं नामासीच्छन्द इति सर्वसम्मतम्। अतएव निघण्टोस्तोतृनामसु (३.१६.१०.) ‘छन्दः’— इति पदञ्चाम्नातम्। पाणिनीयसूत्रेषु, कात्यायनीयवार्त्तिकेषु, पतञ्जलेरिष्टिषु अन्यत्रान्यत्रचैवमादिषु ग्रन्थेषु सर्ववेदपरं छन्दोवचनं सर्व्ववादिसम्मतं सुप्रसिद्धञ्चेत्यतः सर्व एव वैदिकाश्छान्दसा इत्यभिधीयन्तेऽपीति।
(४) अस्तीहापर मपि ज्ञेयम्;— “ऋचः सामानि छन्दांसि पुराणं यजुषा सह। उच्छिष्टाज्जज्ञिरे० (अ० सं० ११.४.२.४.)”— इत्याथर्वणे, “तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे। छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत (ऋ० सं १०.९.)”— इत्युचि च “छन्दांसि”— इति पदेन सामवेदीयच्छन्दोनामग्रन्थीयमन्त्राणामेव ग्रहणमिष्यते छान्दसैरेकमत्येति। सामवेदीयानां हि संहिता, छन्दो गान मिति द्विधा भिन्ना। गानं तत्र
गेयारण्योहोह्येति चतुर्विधम्; छन्दस्तु योनिरुतरेति द्विविधम् तयोश्छन्दोग्रन्थयोर्द्वयोश्चार्च्चिक इत्यपि व्यवहारोऽनतिप्राचीनो वैयाकरणतोषकरः। एवं हि यथैव ‘तस्मात् सर्वहुतःयज्ञात्’‘ऋचः’ ऋग्वेदीयाः, यजुर्वेदीयाः, अथर्ववेदीयाश्च;‘यजुः’यजूंषि यजुर्वेदीयानि सामवेदीयानि अथर्ववेदीयानि च वृत्तगीतिवर्जिताप्त वाक्यानि; ‘सामानि’सामवेदीयानि यजुर्वेदीयानि च ‘जज्ञिरे’तथैव ‘तस्मात्’तत एव यज्ञात् ‘छन्दांसि’सामवेदीयगानमूलीभूताश्छन्दोनामकमन्त्राश्च जज्ञिरे इति तदर्थः। नन्वेवं तेषु छन्दःसु च ऋग्लक्षणं विद्यत एवेति पुनश्छन्दोग्रहणमानर्थक्य भजेतेति चेत्, न तेषां प्राधान्यख्यापनाय ब्राह्मणवसिष्ठन्यायेन पृथग्ग्रहणस्येष्टत्वात्; अन्यथा हि ऋग्वेद एवोद्धृतास्ते मन्त्रा इति भ्रममूलकमप्राधान्यं स्यात्तेषामिति।
एतेन ऋग्वेदत एव साममूलीभूतास्ता ऋचस्तत्र सङ्गृहीता इति मतं नुदूरोत्सारितम्। पुनर्विशदयिष्यामश्चैतदिहैवोपरिष्टान्मन्त्रनिरुक्तिप्रकरणे। वस्तुतो यज्ञार्थमेव हौत्रम्, यज्ञार्थमेवौद्गात्रम्; तत्र होतृकार्यनिर्वाहाय ये मन्त्राश्चिताः, ते हि सर्व एव ऋक्संहितायां दृश्यन्ते; उद्गातृकार्यनिर्वाहाय ये तु मन्त्राश्चिताः, ते सामरूपा ऋग्रूपाश्च; त एव दृश्यन्ते सामसंहितायाम्। तत्र च सामसङ्घातात्मग्रन्थानां सामेत्येव प्रसिद्धिश्चिरन्तनी, इदानीन्तु गानमित्यपि; ऋक्सङ्घात्मग्रन्थयोस्तु छन्द-इत्येव प्रसिद्धिःपुरातनी, आर्च्चिक इति तु पाणिनीयानामिति विशेषः। इत्थं त्वत्र पश्यतु तावत्— ऋक्संहितातःसामवेदीयर्गुद्धरणस्य कोऽवसरः? यदैव यथैव यतएव येनैव ऋक्संहिताया ऋचां सङ्ग्रहः सम्पन्नः, तदैव तथैव ततएव तेनैव सामसंहिताया-
श्छन्दसाञ्च सङ्ग्रहः; तत्येतत्ख्यापनायैव “छन्दांसि जज्ञिरे तस्मात्”— इति कृतः पृथगुपन्यास इति।
(५) गायत्र्यादीनामपि छन्दस्त्वं व्यवहृतं पुरैव; “छन्दांसि च दधतो अध्वरेषु (ऋ० स० ८.१६.५.)”— इत्यादि मन्त्रेष्वपि तथा प्रतीतेः। अत्रापि छादनमेव वीजम्; भवति हि शब्दानां छादनं गायत्र्यादिभिः। किञ्च यथा खलु पद्यैर्भवति शब्दानां छादनम्, तथैव गद्यैर्गानैरपीति सर्वविधरचनानामेव छन्दस्वं चिरात्प्रतिष्ठितम्; कालभेदाल्लौकिकव्यवहारो विभिन्न इत्यन्यदेतत्। अत एव “छन्दांसि=छादनात्”— इति व्याख्यानावसरे ह्युक्तं दुर्गाचार्येण— “ते (मन्त्राः) छन्दोमयाः; नाच्छन्दसि वागुच्चरति”— इत्यादि। अतएव च गद्यात्मकस्य यजुर्मन्त्रस्यापि छन्दोनिर्णयं कुर्वन्ति वैदिकाः, याजुषीति गायत्र्यादिभेदोऽपि वर्णितः पिङ्गलाचार्येण (३.३-८ सू०)। एवञ्च निश्छन्दो यजुरिति चापेक्षिकं वचः; कात्यायनेन सर्वेषामेव हि यजुर्वेदीयमन्त्राणां छन्दोज्ञानस्य विधानात् (अनु० १.१.)। माध्यन्दिनीभाष्योप्रक्रमे महीधरेणाप्युक्तम्— ‘तत्र यजुर्वेदमन्त्रेषु कानिचिद् यजूंषि काश्चन ऋचः; तत्र ऋचां नियताक्षरपादावसानानामावश्यकं छन्दः कात्यायनेनोक्तम्, यजुषां षडुत्तरशताक्षरावसानानामेकाक्षरादीनां पिङ्गलेन दैव्येकमित्यादिनोक्तं छन्दो बोद्धव्यम्’— इति।
(६) यतः प्रभृति ‘मन्त्रब्राह्मणयोर्वेदनामधेयम्’— इत्यभूत् सुदृढ़म्, ततः प्रभृत्येव ब्राह्मणग्रन्थानामपि छन्दःशब्देन च ग्रहणीयता सुतरां सम्पन्ना; एव मपि मन्त्रभागाना मेव मुख्यं छन्दस्त्वमिति तु न ततोऽपि विलय मुपगतम्। अतएव यास्को मन्त्रार्थेमात्रे एवछन्दः शब्दं प्रायुङ्क्त (१.१.१.) मन्त्रब्राह्मणयो—
रुभयोरेवाविशेषेण छन्दःशब्दव्यवहारं कृतवता भगवता पाणिनिनापि क्वचित् प्रायोजिमन्त्रेष्वेव च छन्द इति। तथाहि—“छन्दोब्राह्मणानि च तद्विषयाणि (४.२.६६.)”— इत्येवमादीनि समालोच्यानि; न हि तत्र छन्दःशब्दस्योभयपरत्वे ब्राह्मणानां पृथक् ग्रहणमुपपद्यते।
(७) ततो वेदाङ्गानामपि वेदत्वातिदेशात् छन्दस्त्वमप्यनिवार्यमेव। तदुक्तं भगवता पतञ्जलिना— “छन्दोवत् सूत्राणि भवन्ति”— इति (१ अ० ४ पा० २ आ०), परं तत्रापि ये केचित् शौनकीयशिक्षादयः, तेषां वेदाङ्गत्वमस्तु मास्तु वा छन्दस्त्वं तु नास्त्येव। तथा च दर्शितं प्रत्युदारहणम्— “शौनकादिभ्यच्छन्दासि”— इति—(४.३.१०६)— सूत्रीयशेखरे ‘छन्दसि किम्? शौनकीया शिक्षा’—इति। अपि वा तत्र सूत्रे मुख्यछन्दस्त्वमेवापेक्षितम्, न च तद्वेदाङ्गानामित्येव तथोक्तं नागेशेनेति। प्रातिशाख्यादावपि व्यवहृत एव छन्दःशब्दः पतञ्जलिना— “छन्दःशास्त्रेषु”— इति (१अ० २पा०१आ०); प्रातिशाख्यादिष्वेव तदर्थो गम्यते; अपि वा छन्दसां शास्त्रेषु इत्येव तदर्थः।
(८) नागेशादिभिस्तु भिक्षुसूत्रनटसूत्रयोरपि छन्दस्त्वं स्वीकृतम्। तथाहि— “तित्तिरि०। इत आरभ्य वक्ष्यमाणाः प्रत्ययास्तेनैकदगित्येतत्पर्यन्तं छन्दसि वाच्ये इष्यन्ते। शौनकादिभ्यच्छन्दसीत्यतश्छन्दोग्रहणस्य पूर्वमपकर्षादुत्तरत्रानुवृत्तेश्च”— इति लघुशब्देन्दुशेखरे द्रष्टव्यम्। तित्तिर्यादिषु तेनैकदिगिति सूत्रतःपूर्वेषां (४.३.१०२—१११.) दशानां सूत्राणां नवमे एव “भिक्षुनटसूत्रयोः” ग्रहणं दृश्यते। तदेवं क्रमादिदानीमार्षेतिसिद्धग्रन्थ मात्रस्यैव छन्दस्त्वमुररीकुर्वन्ति विपश्चित इत्यलम्॥
[स्वाध्यायः] स्वाध्याय इति च तस्यैव वेदस्य नामान्तरम्; “स्वाध्यायोऽध्येतव्यः (तै० आ० २.१५.७.)”— इत्यातिश्रुतिषु “यः स्वाध्यायमधीतेऽब्दम् (२.१०७.)”— इत्यादिस्मृतिषु च तथैव व्यवहारात्। द्विजातिभिः सम्यगध्येय एष इत्येवायं स्वाध्याय इति कथ्यते। अतएवाह भगवान् मनुः (२.१६८.)—
“योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम्।
सजीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः”—इतीति**॥ **
[आगमः] आगम इति च वेदस्यैव नामान्तरम्; “रक्षोहागमलघ्वसन्देहाः प्रयोजनम्”— इति पाणिनीयवार्त्तिककारकात्यायनाद्युक्तेः। “आगमः,— खल्वपि ब्राह्मणेन षड़ङ्गो वेदोऽध्येयो ज्ञेयश्च”— इति च तत्र पातञ्जलम्। भट्टकुमारिलेनाप्युक्तं स्वश्लोकवार्त्तिकभूमिकायाम्— “आगमप्रवणश्चाहं नापवाद्यःस्खलन्नपि”— इति। साङ्ख्यकारिकायामीश्वरकृष्णेनापि यदुक्तम् “तस्मादपि चासिद्धंपरोक्षमाप्तागमात् सिद्धम्”— इति, तदप्येतदभिप्रायेणैवेति॥
[निगमः] निगम इति च आगम इति चानर्थान्तरम्। यास्कीयेऽत्र निरुक्ते यावन्ति खलूदाहरणानि दर्शितानि, प्रायस्तावतां सर्वेषामेव निगम इत्युपन्यासो दृश्यते। तथाहि— “तत्र खलु इत्येतस्य निगमा भवन्ति—”—इत्यादि (३.२.३.)। “अथापि भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यन्ते, दमूनाःक्षेत्रसाधा इति; अथापि नैगमेभ्यो भाषिकाःउष्णं घृतमिति”— इति(२.१.३.) चाह स एव यास्कः। “निगमाः ०—० निगमनात्”— इति (१.१.१.) च नैरुक्तमिति॥
अत्र चेदं तत्त्वम्— आदौ तु निगम इति मन्त्रभागस्यैवाभि-
धान मासीन्न ब्राह्मणभागस्यापि; निरुक्तग्रन्थेसर्वत्रैव मन्त्राणां मन्त्रांशानाञ्चेव निगमत्वेनोपन्यासात, “अथापि भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यन्ते, दमूनाः क्षेत्रसाधा इति (२.१.३.)”— इति तत्प्रदर्शितयोः ‘दमूनाः’— ‘क्षोत्रसाधाः’— इत्यनयोः पदयोः मन्त्रभागे एव विद्यमानत्वाच्च। मन्त्रभागत उद्धृतानां पदानाम्, तदाश्रयग्रन्थानां चास्ति निगम इति व्यवहारः। तथाहि मनुसंहितायाम्— “नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान्”— इति (४.१९.)। अत्र चोक्त मिदं कुल्लूकेन— “तथा पर्यायकथनेन वेदार्थावबोधकान् निगमाख्यांश्च ग्रन्थान्”— इति। मेधातिथिना तु व्याख्यातम्— “वैदिका निगमाः = वेदार्थज्ञानहेतवो निगम निरुक्तव्याकरणमीमांसाः”— इति। अत्र निगम इति निघण्टोरेव ग्रहणं तस्याभिप्रेतं गम्यते। ततः कालप्रभावाद्ब्राह्मणग्रन्थेष्वप्युपसङ्क्रान्तं निगमाभिधानम्। अत एव भागवतादौ निगमपदेन मन्त्रब्राह्मणोभयात्मकस्य वेदस्यैव बोधो गम्यते। तथाहि (१.१.३.)—
“निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम्।
पिवत भागबतं रस मालयं मुहुरहो रसिका भुवि भावुकाः”—इति**।**
“निगमो वेदः, स एव कल्पतरुः सर्वपुरुषार्थोपायत्वात्; तस्य फल मिदं भागवतं नाम”— इति तत्र श्रीधरस्वामी, “निगमकल्पतरोः सर्वफलोत्पत्तिभुवः शाखोपशाखाभिर्वैकुण्ठ मप्यध्यारूढ़स्य वेदरूपतरोः”— इति तु तत्र क्रमसन्दर्भः, “निगमो वेदःस एव कल्पतरुः”— इत्यादि च तत्रैव विश्वनाथः।
वस्तुतो मन्त्रभागस्य निगमत्वं चिरादेव व्यवहृयते, ब्राह्मणभागस्य तथा व्यवहारस्त्वनतिप्राचीनः ऐतरेयादिभिः प्रोक्ताः प्रसिद्धा ब्राह्मणग्रन्थास्तु तन्निगमव्याख्यानादिपरा एवेति। यदा हि
बहु कालपार्थक्यात् मन्त्रार्थाणां दुर्बोधतोपपन्ना, तदैव यज्ञानुष्ठानतत्परैःतदानीन्तनैर्ब्राह्मणैःतेषां मन्त्राणां विधानादिव्यवस्थया सह मन्त्रान्तर्गतदुर्बोधपदानामर्था अपि भाषिताः; अतोब्राह्मणान्येव आदिवेदभाष्याणीतिसुवचम्। तद्यथा श्रुयतेऽयमृग्मन्त्रः(ऋ० स० २.३.२३.४; ८.४.१९.६.)—
“यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः”— इति**।**
तद्विधिव्याख्यानपरञ्चैतदैतरेयकं ब्राह्मणम्— “यज्ञेन यज्ञमयजन्त देवा इत्युत्तमया परिदधाति। ०—०। छन्दांसि वै साध्या देवाः,तेऽग्रेऽग्निनाग्नि मयजन्त। ‘ते स्वर्गं लोकमायन्’ आदित्याश्चैवेहासन्नङ्गिरसश्च (१.३.५.)”— इत्यादि। तत एष निरुक्तेऽपि व्याख्यातः(१२.४.७.)।
तथैव योऽयं शुक्लकृष्णयोरुभयोरेव यजुषोरारम्भमन्त्रः— “इषे त्वोर्जेत्वा वायव स्थदेवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे”— इति। तस्यैतस्य विधानैः सह दुर्गमपदव्याख्यानानि च कृतानि दृश्यन्ते शुक्लकृष्णयोरुभयोरेव ब्राह्मणयोः। तथाहि शतपथब्राह्मणे— “वृष्ट्यैतदाह यदाह इषे त्वेति”— इति, “यो वृष्टादूर्ग्रसोजायते तस्मै तदाह”— इति, ‘यज्ञो वै श्रेष्ठतमं कर्म”—इति च (१.७.१.१–५)। तैत्तिरीये “तृतीयस्या मितो दिवि सोम आसीत्”— इत्यारभ्य “श्रेष्ठतमाय कर्म्मणइत्याह यज्ञो हि श्रेष्ठतमं कर्म्मतस्मादेव माह”— इति यावत् (तै० वा० ३.२.१. १-४.) ग्रन्थसन्दर्भोद्रष्टव्यः।
तथा श्रूयन्ते सामवेदे सर्वसामस्वेव ये स्तोभाः, ते खलु व्याख्याता दृश्यन्त एव तद्ब्राह्मणे— “अयं वाव लोको हाउ-
कारो वायुर्हायिकारश्चन्द्रमा अथकारः आत्मेहकारोऽग्निरीकारः अदित्य उकारो निहव एकारो विश्वेदेवा औहोइकारः प्रजापतिर्हिङ्कारः प्राणः स्वरोऽन्नंया वाग् विराट् अनिरुक्तस्त्रयोदश स्तोभः सञ्चारो हुप्पकारः (छा० ब्रा० ३.१३.१—३.)”— इति।
वज्रलेपायितश्चायमर्थो मीमांसादर्शने। तथाह्यस्ति तत्र मन्त्रलिङ्गाधिकरणे सूत्रम्— “विधिशब्दाच्च”— इति (१.२.५३.)। विधिशब्दाश्च विवक्षितार्थानेव मन्त्राननुवदन्ति,— ‘शतं हिमाःशतं वर्षाणि जीव्यास्मेत्येतदेवाह’— इति”— इति तद्भाष्यं शवरस्वामिकृतम्। “मन्त्रव्याख्यानरूपो ब्राह्मणगतः शब्दो विधिशब्द इत्युच्यते”इति च तत्राह सायणाचार्योऽपि। तत्रैवोदाहृत्य व्याख्यातञ्च तेनापि तथैव ब्राह्मणम्। तथाहि— “स चैव माम्नायते— ‘शतं हिमाः शतं वर्षाणि जीव्यास्मेत्येवेतदाह’— इति। तत्र ‘शतं हिमाः(ऋ० स० १.५.८.४.)’— इत्येतद् व्याख्येयमन्त्रस्य प्रतीकम्, अवशिष्टं तु तस्यतात्पर्यव्याख्यानम्”— इत्यादि। तद्भाष्येऽप्युक्तम्— ‘अत्र हिमशब्देन तद्युक्ता हेमन्तर्त्तवोऽभिधीयन्ते; तथाच ब्राह्मणम्’— इत्यादि।
भगवता कात्यायनेनापि यजुःप्रातिशाख्ये निगमापरपर्य्यायस्य मन्त्रभागस्यैव वेदत्वं तद्याख्यापरस्य ब्राह्मणभागस्य भाष्यत्वमिति मन्त्रब्राह्मणयोः पार्थक्यं स्फुटं सूचितम्। तथाहि— “ॐकारं वेदेषु (१.१८.)। अथकारं भाष्येषु”— इति (१.१९.)। यदि च तत्र तद्भाष्यकारः खलु उव्वटो वेदशब्देन मन्त्रब्राह्मणयोरुभयोरेव ग्रहणं स्वीचकार, भाष्यशब्देन च कल्पाद्यङ्गानाम्; परं तत्रैवानुपद मेव “सप्त। त्रीन्। द्वौ। एकम्”— इति स्वरविधायकेषु सूत्रेषु (१.१२७-१३०) सामस्वर- नैगमस्वर भाषिक-
स्वर-यज्ञकर्म्मस्वराणां विधानस्य पर्य्यालोचनयेहश्रुतभाष्यशब्देन ब्राह्मणानामेव बोधतेकात्यायनाभिप्रायोऽनुभूयते; “अथ ब्राह्मणस्वरसंस्कारनियमः”— इत्यारभ्य “तान एवाङ्गोपाङ्गानाम्”— इत्यन्तेन परिशिष्टग्रन्थेन भाषिकादिस्वराणां सुष्ठु परिचायितत्वात्। ब्राह्मणग्रन्थानां हि भाष्यत्वेनैव तदीयस्वराणां भाषिकत्वसिद्धिः। ब्राह्मण-स्वर एव भाषिकस्वर इत्युच्यते इति तु सर्वसम्मतम्। अतएवोक्तम् “एकम्”— इति सूत्रस्योव्वटभाष्यस्य टीप्पत्याम्— “मन्त्रकाण्डपठितानामपि ब्राह्मणभागानामश्वस्तूपर इत्यादीनां त्रैस्वर्यम् (निगमस्वरत्वम् एव; ब्राह्मणकाण्डपठितानां विश्वेदेवाः गोस्तनमपथेहेत्यादीनां भाषिकस्वर एवेति”— इति। मन्त्रकाण्डेब्राह्मणवचनानाम्, ब्राह्मणकाण्डे च मन्त्राणां पाठस्तु कृष्णयजुर्वेदे एवाम्नातो नान्यत्रेति च स्मर्त्तव्यम्।
तथा तैतिरीयसंहिताभाष्यभूमिकायामपि स्पष्टमेवाभिचख्यौ सायणाचार्य्योब्राह्मणानां मन्त्रव्याख्याग्रन्थत्वम्— “यद्यपि मन्त्रब्राह्मणात्मको वेदः, तथापि ब्राह्मणस्य मन्त्रव्याख्यानरूपत्वात् मन्त्रा एवादौसमाम्नात्ताः”— इति।
तदित्थंसिद्धमेव सर्वेषां हि मन्त्रग्रन्थानामसाधारणं नाम मन्त्र इति निगम इति च; एवं सर्वेषामेव ब्राह्मणग्रन्थानामसाधारणं नाम ब्राह्मणमिति भाष्यमिति च; तथा मन्त्रग्रन्थेषु श्रुतानां पदानां वाक्यानां स्वराणाञ्च नैगमत्वम्; ब्राह्मणग्रन्थश्रुतानां पदानां वाक्यानां स्वराणाञ्च भाषिकत्व मिति। प्रत व “प्रोक्षयन्तु हिरण्यवता पाणिना दर्भपिञ्जूलवता वेति भाषिकम् (६.२.)”— इत्युक्तं सङ्गच्छते साङ्ख्यायनगृह्यकारस्येति।
“अथापि भाषिकेभ्यो धातुभ्यो नैगमाः ०—०; अथापि
नैगमेभ्यो भाषिकाः (२.१.१.)— इत्यादौनिरुक्ते श्रुतं भाषिकपदं यदि भाषाशब्दमूलकमेव, तथापि न क्षतिः; भाषाभाष्ययोरेकधातुजत्वात्। किञ्च भाषयोपनिवद्धमेव भाष्यं भवति; मूलार्थबोधने एव हि सर्वभाष्यस्य तात्पर्यम्; न च चलितभाषया कथन मन्तरा मूलस्य स्पष्टतया बोधः सञ्जायते। तदेवं वेदस्य दुर्बोधत्वपरिहाराय यदा ब्राह्मणग्रन्था विरचिताः, तदा तादृश्या एवभाषाया व्यवहार आसीत् यादृश्या रचितानि वेदभाष्यरूपाणि ब्राह्मणानि। एवञ्च तदानीं ब्राह्मणग्रन्थीयानां वाक्यादीनां यथासीद् भाषिकत्वम्, तथैवाद्यतनीयाना मस्माद्वाक्यादीनामपीति सममेवेति नन्नैरूक्तञ्चन विरुद्धाते। वस्तुतस्तु पुराकल्पे ब्राह्मणग्रन्थरचनाकाले मन्त्राणा मेव वैदिकत्वेन ग्रहण मासीद्योग्यम्; ब्राह्मणानान्त्ववश्यं लौकिकत्वेनैव; पर मिदानीन्तु मन्त्रब्राह्मणयोरुभयोरेव वैदिकत्वेनाभ्यर्च्चनं सम्पद्यते सौत्रिकाणामपि वचनानां वैदिकवत्त्वम्; ततः परस्त्यानामेव लौकिकत्वमिति। शास्त्रकृतां व्यवहार एवात्र निदानम्; तत्रापि कालस्यैव प्राधान्यमित्युभ्युपगन्तव्य मत एव आसूत्रकालात् सिद्धमविशेषेण “मन्त्रब्राह्मणयोर्वेदनामधेयम्”— इति॥
[मन्त्रः] तत्र, तयोर्मन्त्रब्राह्मणयोरादौतावत् मन्त्रस्य लक्षण मनुसन्धेयम्,— किन्नाम मन्त्रत्वम्? इति; लक्षणस्योपयोगो हि पूर्वाचार्यैः प्रदर्शित एव— “ऋषयोऽपि पदार्थानां नान्तंयान्ति पृथक्तशः। लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः”— इति। तयोऽनुसन्धीयमानञ्च दृश्यते— उक्तं खलु भगवता यास्केनैव “मन्त्राः मननात्”— इति (७.३.६.) मन्त्रनिर्वचनम्; ततएव सिद्धञ्च मन्त्रलक्षणम्— ‘मननहेतुर्मन्त्रः’— इति। तथाच तत्र
वृत्तिः— “तेभ्यः (मन्त्रेभ्यः) हि अध्यात्माधिदैवाधियज्ञादिमन्तारो मन्यन्ते तदेषां मन्त्रत्वम्”— इति।
‘मननहेतुर्मन्त्र इत्युक्ते ब्राह्मणेऽतिव्याप्तिः’— इति ब्रुवता सायणेनदूषितञ्चैतल्लक्षणं ऋग्भाष्यभूमिकायाम्; परं न तत्रोदाहृतंतादृशं ब्राह्मणवाक्यमेकमपि। तथाचावगम्यते— “तच्चोदकेषु मन्त्राख्या (जै० सू० २.१.३२.)”— इतिसूत्रानुगतम् “अभियुक्तानां मन्त्रोऽयमिति समाख्यानं लक्षणम्”— इति विवक्षया,— ‘विहितार्थाभिधायको मन्त्रः’— इत्यस्य पूर्वाचार्यविहितस्य, असिपदान्तादीनां पञ्चदशानां च मीमांसावृत्तिऋदुदाहृतानां, मन्त्रलक्षणानां मीमांसाभाष्यकारकृतखण्डनेभ्यः सोदाहरणेभ्यः कतिचिदुद्धृत्य दिदर्शविषया चोद्विग्नचित्तस्तत्रैवैकाग्रमना यास्कोक्तेविचारावसरं नालभत स इति। प्रतिपादितञ्चास्माभिर्मीमांसाकारस्य जैमिनेः यास्काग्रजत्वम् (८४ पृ०); तथाच जागरितेऽपि हि तादृशे लक्षणे यदुक्तंयास्केन “मननान्मन्त्रः”— इति, ततः सम्भाव्यमेवैतल्लक्षणमदुष्टमिति। अपि च सायणतःप्राचीनेन, उद्धृतासिनापि हि शवरस्वामिना तत्सूत्रस्य भाष्ये विहितार्थाभिधायकत्वादीनि मन्त्रलक्षणानि खण्डखण्डीक्कतानि; परं न तस्मिन्निहवेऽप्यस्ययास्कीयलक्षणस्यावतरणमपीष्टं तेन; इतश्च ज्ञायते नैतल्लक्षणं दुष्टमिति। “अविशिष्टस्तु वाक्यार्थः(जै सू० १.२.४०.) इति सूत्रस्य, “विधिशब्दाच्च”— इति (जैसू० १.२.५३.) सूत्रस्य च व्याख्यानावसरे, मन्त्राणां मननसाधनत्वं च स स्वयं व्यनक्ति— “तु–शब्देन मन्त्राणा मदृष्टार्थ मुच्चारणमात्रं वारयति ०—० तस्मान्मन्त्रोच्चारणस्य अर्थप्रकाशनरूपं दृष्टमेव प्रयोजनम्”— इति, “तस्माद्विवक्षितार्था मन्त्राः प्रयोगकाले स्वार्थ-
प्रकाशनायैवोच्चारयितव्याः”— इति च। मन्त्राणां मननहेतुत्वलक्षणमनुलक्ष्यैवोक्तिरेषा भगवतो यास्कस्य— “यत्काम ऋषिर्यस्यांदेवतायामार्थपत्यमिच्छन् स्तुतिं प्रयुङ्क्ते तद्दैवतः स मन्त्रो भवति”— इति (७.१.१.)। तदेवं ‘मननहेतुर्मन्त्रः’— इति, ‘मन्त्रोऽयमित्यभि युक्तोपदिष्टो मन्त्रः’—इति च द्वे एव मन्त्रलक्षणे निर्द्दुष्टे इति गम्यते; तद् यस्मैयद्रोचेत, तदेव स गृह्णात्वित्यलमिह नीरसविवादेनेति।
अथवात्रैतत् सुष्ठु समाधानम्— “जैमिनिकृतं मन्त्रलक्षणं ग्रन्थपरम्, यास्ककृतलक्षणं तु वाक्यपरमिति। तथाच जैमिनिनये वैदिकसमाख्यासिद्धानां मन्त्रेतिप्रसिद्धानां संहिताग्रन्थानामैव मन्त्रग्रन्थत्वम्; न त्वन्येषां ताण्ड्यादीनाम्; यास्कमते तु ग्रन्थानां तथा लक्षणेऽपि न क्षतिः; परं ताण्ड्यब्राह्मणाद्याध्यायगतानां ‘महन्मे वोचः’— इत्यादीनाम्, छान्दोग्यब्राह्मणाद्याध्यायद्वयगतानाञ्च ‘देव सवितः प्रसुव’— इत्यादीनाम् तथा तैत्तिरीयारण्यकादिपठितानाञ्चोद्धृतासीत्यादीनां वाक्यानां मन्त्रत्वसिद्धये खल्विदमवश्यं वक्तव्यम्— ‘मननहेतुर्मन्त्रः’— इति। तदेदमुभयलक्षणयोर्विषयभेदात् नैवास्ति विवादविषय इत्यस्माकमिति॥
“आनन्दपुरवास्तव्य-वज्रटाख्यस्य सूनुना। मन्त्रभाष्यमिदं क्लृप्तं भोजे पृथ्वीं प्रशासति”—इत्युक्त्यास्वपरिचयमुक्तवताखिलयजुर्मन्त्रभाष्यं कृतवता उव्वटेन तत्रैव भूमिकायां प्रदर्शिताश्चैते मन्त्रभेदाः;—
“न्यायविदः पठन्ति—
‘विध्यर्थवादयाच्ञाशीः स्तुतिप्रैषप्रवह्निकाः।
प्रश्नोव्याकरणं तर्कः पूर्ववृतानुकीर्त्तनम्।
अवधारणं चोपनिषत् वाक्यार्थास्तु त्रयोदश।
मन्त्रेषु ये प्रदृश्यन्ते व्याख्यातृश्रुतिचोदिताः।’— इति**।**
अथ तेषामुदाहरणानि। तत्र,—
परमेष्ठ्यभिहितः— “अश्वस्तूपरो गोमृगस्ते (य० वा० स० २४.१)”।
अर्थवादः— “देवा यज्ञ मतन्वत (य० वा० स० १९.१२)”— इति।
याच्ञा— “तनूपा अग्नेऽसि तन्वं मे पाहि (वा० स० ३.१७)”— इति।
आशीः— “आ वो देवास ईमहे (य० वा० स० ४.५)"— इति।
स्तुतिः— “अग्निर्मूर्द्धादिवः ककुत् (य० वा० स०३.१२)”— इति।
प्रैषः— “होता यक्षत् समिधाग्निम् (य० वा० स० २१.२९)”— इति।
प्रवह्निका— “इन्द्राग्नी अपादियम् (वा० स० ३३.९३)”— इति।
प्रश्नः—“कः स्विदेकाकीचरति (य० वा० स० २३.९)”— इति।
व्याकरणम्—“सूर्य एकाकी चरति (य० वा० स० ३३.१०)”— इति।
तर्कः— “मा गृधाः कस्य सिद्धनम् (वा० स० ४०.१)”— इति।
पूर्ववृत्तानुकीर्त्तनम्— “ओषधयः समवन्त (य० वा० स० १२.९६)”।
अवधारणम्— “तमेव विदित्वातिमृत्युमेति (श्वे० उ० ६.१५)”।
उपनिषत्— “ईशावास्यमिदं सर्वम् (य० वा० स० ४०. १.)”—इति।
शवरभाष्येऽपि आशीरादयस्त्रयोदशैव मन्त्रभेदाः प्रदर्शिताःपरं तत्त्वन्यथैव; द्रष्टव्याश्च ते तत्रैव (जै० सू० २.१.३२ भा०)। ऋग्भाष्यभूमिकायाञ्च सायणेन तत एव कतिचिदुद्धृत्य प्रदर्शिताः।
उव्वटेन ह्येतानि सर्वाण्येव यजुरेवाधिकृत्योदाहृतानि; निरुक्तकारेण भगवता यास्केन त्वेव मृग्वेदेऽपि दर्शितानि बहून्युदाहरणानि। तथाहि— “तास्त्रिविधा ऋचः;— परोक्षकृताः प्रत्यक्षकृताः आध्यात्मिक्यश्च”— इत्युपक्रम्य, “परोक्षकृताः प्रत्यक्षकृताश्च मन्त्रा भूयिष्ठा अल्पश आध्यात्मिक्यः”—इत्युक्त्वा, “अथापि स्तुतिरेव भवति नाशीर्वादः०—०; अथाप्याशीरेव न स्तुतिः; तदेतद्बहुल माध्वर्यवे याज्ञेषु च मन्त्रेषु”— इति प्रदर्श्य, उदाहृता-
नीमानि— “अथापि शपथाभिशापौ ०—०; अथापि कस्यचिद्भावस्याचिख्यासा ०—०; अथापि परिदेवना कस्माच्चिद् भावात् ०—०; अथापि निन्दाप्रशंसे ०—० “अक्षसूत्रे द्यूतनिन्दा च कृषिप्रशंसा च एव मुच्चावचैरभिप्रायैर्ऋषीणां मन्त्रदृष्टयो भवन्ति”— इति। (७.१.३.)॥
स चैष एव मन्त्रभागः संहितेत्युच्यते। तल्लक्षणं चोक्तं पुरस्तात् समासतः (१५४ पृ०)। सा पाठतो द्विविधा;— निर्भुजसंहिता, प्रतृण्णसंहिता चेति। “अग्निमीले पुरोहितम् (ऋ० स० १.१.१.१.)”—इत्यादयः पाठा एव निर्भुजसंहिताया उदाहरणानि। यैव निर्भुजसंहिता, सैव आर्षी संहितेत्यप्युच्यते। प्रतृण्णसंहितापि द्विविधा,— पदसंहिता क्रमसंहिता चेति नाम। तत्र, अग्निम्, ईडे, पुरःऽहितम्”—इत्येवं पठ्यते पदसंहिता; “अग्निम्, ईडे; ईडे, पुरोहितम्; पुरोहितमिति पुरःऽहितम्”— इत्येवं क्रमसंहितेत्युच्यते। इमा मेव क्रमसंहितामवलम्ब्य जटाद्या अष्टविधा विकृतयः पठ्यन्ते। तदुक्तं विकृतवल्ल्याम्— “जटा, माला, शिखा, लेखा, ध्वजो, दण्डो, रथो घनः। अष्टौविकृतयः प्रोक्ताः क्रमपूर्वा मनीषिभिः”— इति (१.५.)। तदेषां जटादीनामपि क्रममूलात्मकत्वेन प्रतृण्णसंहितात्वमेव। तदेवमेकैकमन्त्रस्य एकादशप्रकाराः संहितापाठा भवन्ति। तत्त्वतस्तु पाठप्रकारभेदात् बहुग्रन्थापि सार्षीसंहिता प्रतिवेदमेकैकैवेति॥
तासाञ्च सर्वासामेव संहितानां बहुप्राचीनत्वात् कालभेददेशभेदव्यक्तिभेदादिभिरध्ययनाध्यापनयोरुच्चारणादिभेदाः पाठभेदाश्च सम्पन्नाः, पाठन्यूनातिरिक्तता च किञ्चित् सञ्जाता, आचार्याणां प्रकृतिवैषम्यात् स्व-स्व-देशकालाद्यनुरोधाच्च अनुष्ठेयभेदाः प्रयोग-
भेदाश्च सम्पन्नाः; अत एवैकैकापि सा बहुशाखत्वमापन्ना। तदेवोदाहृतञ्च प्राचीनभाषितं चरणषट्कं षड्गुरुशिष्येण—
“एकविंशत्यध्वयुक्तमृग्वेदमृषयो विदुः।
सहस्राध्वासामवेदो यजुरेकशताध्वकम्।
नवाध्वाथर्वणोऽन्ये तु प्राहुः पञ्चदशाध्वकम्”— इति**।**
“अध्वा, देवता, गतिः, शाखा इति पर्यायवाचकाः”— इति च तत्रोक्तं तेनैव। पातञ्जले महाभाष्येऽप्युक्तं पस्पशायाम्— “एक विंशतिधा बाह्वृच्यम्, एकशतमध्वर्युशाखाः, सहस्रवर्त्मासामवेदः, नवधाथर्वणो वेदः”— इत्येव।
वेदव्यासीये शौनकीये वा चरणव्यूहे तु ऋग्वेदस्य पञ्चैव शाखाःसमुल्लिखिताः— “शाखाःपञ्चविधा भवन्ति, शाकला बाष्कला आश्वलायनाः शाङ्ख्यायना माण्डूकायनाश्चेति”—इति। तथाच तदानीमेवान्याःषोडश शाखा विलुप्ता इति गम्यते। तदिद मृग्वेदशाखानिरूपणमस्मत्कृते ऐतरेयालोचने (११९–१४४ पृ०) द्रष्टव्यम्।
ततस्तत्रैव “यजुर्वेदस्य षडशीतिर्भेदा भवन्ति”— इत्युक्तम्। तथाच तदायजुषोऽपि पञ्चदश शाखाःप्रविलुप्ता इति स्फुटम्; नान्यथा प्रदर्शितेषड्गुरुशिष्यधृतप्राचीनवचनपस्पशावचने चोपपद्येते इति। यदप्युक्तं षडशीतिरिति, तत्र च “कठानान्तूपग्रन्थविशेषाश्चतुश्चत्वारिंशत्”—इत्युक्तेर्द्विचत्वारिंशदेवावशिष्यन्त इति चरणव्यूहकाले ता एव शाखा आसन् प्रचलिता इत्येव तत्वम्। तासाद्विचत्वारिंशच्छाखानां नामानि यथा— चरकी, आह्वरकी, कठी, प्राच्यकठी, कपिष्ठलकठी, आष्ठलकठी, औपमन्यवी, चारायणीया, पारायणीया, वार्त्तान्तवेया, श्वेताश्वतरा, मैत्रायणी चेति
द्वादश चरकाध्वर्युभेदाः। मैत्रायणीभेदाश्च मानवी, दुन्दुभी, छागलेया, हारिद्रवेया, वाराही, श्यामी, श्यामायनीया चेति सप्त। ता ता मैत्रायण्योऽपि चरकाध्वर्युर्ध्वेवगण्यन्त इत्यूनविंशतिः। जावाली, माध्यन्दिनी, काण्वी, कापाली, गालवी, वैजवापी, औधेया, वैनेया, वैरेया, बौधेया, पाराशरीया, शातातपीया, तापायनीया, कात्यायनीया पौण्ड्रवत्सी आवटिकी, परमाबौधेया, चेति सप्तदश वाजसनेयशाखाः शुक्लयजुर्वेद इत्युच्यन्ते। औख्या, खाण्डिकेया चेति द्वेतैत्तिरीयशाखे। खाण्डिकेया च पुनः पञ्चभेदाः सञ्जाताः— आपस्तम्बी, बौधायनी, सत्याषाठी, हिरण्यकेशी, शाट्यायनी चेति। द्विविधैवैषा तैत्तिरीया कृष्णयजुर्वेद इत्युच्यते। तदेवं चरकाध्वर्युः, वाजसनेयी, तैत्तिरीयेति तिस्रएव मूलशाखाः, आसामेवानुशाखा अन्याः। ता इमाः सङ्कलनया (१९+१७+६=४२) द्विचत्वारिंशच्छाखा यजुर्वेदीया इति। एषु मैत्रायणीया, माध्यन्दिनी, काण्वी, तैत्तिरीयेति प्रसिद्धा औख्या, आपस्तम्बी च पञ्चशाखा अद्यापि सन्ति।
ततस्तत्र तदुत्तरम्— सामवेदस्य किल सहस्रभेद आसीत्, अनध्यायेष्वधीयानास्ते शतक्रतुवज्रेणाभिहताः प्रनष्टाः। तेषाम् प्रवक्ष्यामि— आसुरायणीया, वासुरायणीया, वार्त्तान्तवेया, प्राञ्जलाः, ऋग्वर्णभेदाः, प्राचीनयोग्याः, ज्ञानयोग्याः, राणायनीयाश्चेति। तत्रराणायनीयानां नव भेदा भवन्ति— राणायनीयाः, शाट्यायनीयाः, पारायणीयाः, सात्वन्ताः, स्वल्वलाः, महाखल्वलाः, लाङ्गलाः, कौथुमाः, जैमिनीयाश्चेति”— इति। तदिदं चरणव्यूहोक्तं सर्वमेवावैदिककालप्रसूतंपौराणिकमिति नादरणीयं वेदविदुषां सात्यव्रतानाम्। तत्त्वतस्त्रयोदशैव शाखाः
सामवेदस्य; सहस्रशाखत्वप्रवादस्तु बहुविधस्वरादिसंयोगादेकस्यापि मन्त्रस्य बहुविधसामश्रुतेरित्येव। अतएव तर्पणविध्यादौ त्रयोदशानामेव सामगाचार्याणां नामोल्लेखो भवति यथा— “राणायणः, शाट्यमुग्न्यः, व्यासः, भागुरिःऔल्गुण्डिः, गौल्गुलविः,भानुमानौपमन्यवः, काराटिः, मशको गार्ग्यः, वार्षगण्यः, कुथुमः, शालिहोत्रः, जैमिनिः। त्रयोदशैते मेसामगाचार्याः स्वस्ति कुर्वन्तु तर्पिताः स्वस्ति कुर्वन्तु तर्पिताः”— इति। एतदीयशाखासु राणायणी, कौथुमी, जेमिनिश्चेति तिस्रोऽद्यापि सन्ति।
ततस्तत्रचरणव्यूहे उक्तं ह्येतत्— “अथर्ववेदस्य नव भेदा भवन्ति। पैप्पलाः, दान्ताः, प्रदान्ताः, स्नाताः, स्रोताः, ब्रह्मदाबलाः, शौनकी, देवदर्शती, चरणविद्याश्वेति”— इति। अस्ति चैषां नाम्नां पाठान्तरतापि। आसां नवशाखानामेकैव मुद्रितेति सङ्क्षेपः॥
इत्थं बहुशाखत्वेऽप्येकैकस्य वेदस्य, एकैकस्याः शाखाया अध्ययनेनैव भवेदेवाधीत एकैको वेदः; सर्वास्वेव शाखासु संहितायाः प्रायोऽभेदात्। किञ्चित्पाठन्यूनातिरिक्तेन, किञ्चिदुच्चारणभेदेन, किञ्चिदनुष्ठानपद्धतिपार्थक्येन च न ह्येव भवेत् संहितायाः स्वरूपतो विभिन्नत्वम्; जागर्त्त्येव ह्येष न्यायः‘एकदेशविकृत मनन्यवत्’— इति (पा० सू० १.१.७२ भा०), भवत्येव हि छिन्नपुच्छे शुनि श्वत्वव्यवहारः, तथा श्लीपदरोगिण्यपि देवदत्तादौदेवदत्तादिव्यवहारश्च लोके। अत एव सायणाचार्यादय आचार्या एकैका मेव शाखां व्याख्याय एकैकवेदव्याख्यानेऽलभन् स्व-स्व-कृत-कृत्यतामिति। अत एव च “वेदः कृत्स्नोऽधिगन्तव्य”— इति (२.१६५.), “षट्त्रिंशदाब्दिकं चर्यंगुरौ त्रैवैदिकं व्रतम् (३.१.)—”—
इति, “वेदानधीत्य वेदौवा वेदं वापि यथाक्रमम्”— इति(२.२.) चमनुवचनानि सङ्गच्छन्ते; शाखानां मूलतःप्रकृतपार्थक्येहि कथं सम्भवेन्नामाध्ययनं द्वादशस्वेवाब्देषु सहस्रशाखस्य सामवेदस्येति तादृशस्मृतिवचनानामुन्मत्तप्रलपितत्वमेव प्रसज्येतेति। अतोऽत्रत्वेव मेवावधार्यम्,— एष खलु वेदशाखाभेदो न मन्वाद्यध्यायभेदतुल्यः, प्रत्युत भिन्नकाललिखितानां भिन्नदेशीयाना मेकग्रन्थीयानामपि बहुतरादर्शपुस्तकानां यथा भवत्येव पाठादिभेदः, तथैवेति। अथाप्यत्र संशयश्चेत् कस्याप्येकस्य वेदस्य कयोरपि शाखयोराद्यन्तपाठसन्दर्शनेनैव तद्दूरोत्सारणंसुकर मेवेति।
परन्त्वेवमपि यजुषस्तु कतिपयशाखाभिः कतिपयशाखानामेवमस्ति भेदः, यत्तयोरुभयोः शाखासमूहयोः शुक्लकृष्णत्वे एवामंसत प्राचीनाः। तथाच माध्यन्दिनीप्रभृतीनां यजुःशाखानां शुक्लयजुरिति ख्यातिः, तैत्तिरीयादीनान्तु यजुःशाखानां कृष्णयजुरिति समाख्याचेति। ईदृशासदृशभेदकारणन्तु उक्तं बहुषु पुराणेषु बहुविधमपि मूलतःप्रायोऽविभिन्नमेव। तन्निष्कर्ष एष उक्तो महीधराचार्येण शुक्लयजुर्भाष्यभूमिकायाम्— “व्यासशिष्यो वैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशिष्येभ्यो यजुर्वेद मध्यापयत्। तत्र दैवात् केनापि कारणेन क्रुद्धोवैशम्पायनो याज्ञवल्क्यं प्रत्युवाच ‘मदधीतं त्यज’— इति। स योगसामर्थ्यान्मूर्त्तांविद्यां विधायोन्ववाम। ‘वान्तानि यजूंषि गृह्णीत’—इति गुरुणोक्ता अन्ये वैशम्पायनशिष्यास्तित्तिरयो भूत्वा यजूंष्यभक्षयन्। तानि यजूंषि बुद्धिमालिन्यात् कृष्णानि जातानि। ततो दुःखितो याज्ञवल्क्यःसूर्यमाराध्यान्यानि शुक्लानि यजूंषि प्राप्तवान्। तानि च जाबालगौधेयकाण्वमध्यन्दिनादिभ्यः सप्त-
दशशिष्येभ्यः पाठितवान् [‘पञ्चदशशिष्येभ्यः’— इत्यपपाठः]। एतस्मादितिहासात्, मैत्रायणी-माध्यन्दिनी-तैत्तिरीयशाखानां पाठप्रकारदर्शनाच्च प्रतीयते चैतत्,— चरकाध्वर्युयजुःशाखापाठाः यज्ञक्रमाननुसारिण इति याज्ञवल्क्येन स्वमनीषया दर्शपूर्णमासयज्ञाद्यनुसारिणी संहिता ग्रथिता, पाठिता च सा सप्तदशशिष्येभ्यः; सैव यज्ञोपयोगिनीति वाजाना मन्नानां सनये लाभायसम्पन्नेति वाजसनेयीत्याख्याता, क्रमसौष्ठवसम्पन्नेति शुक्ला (शुद्धा) इति च। गुरुमुखतोऽधीतापि तत्परित्यक्ता प्राचीनतमा चरकाध्वर्युसंहितैव अन्यैः आन्ध्रादिदेशीयैस्तित्तिर्य्यादिसञ्ज्ञकैर्गृहीता, तस्या वाजसनेयीतोऽप्यौत्कर्षंचिकीर्षुभिःयत्प्रकरणे ये मन्त्रा पठितास्तत्रैव तदुत्तरं तत्तद्विधायकादिब्राह्मणवचनानि च सङ्गृहीतानि। तथा च, यथा पृथक्-पृथक् भुक्तानि चअन्नव्यञ्जनानि छर्द्दितानि चेद् वान्तं तत् विमिश्रान्नव्यञ्जनमेव भवति, एवं तित्तिर्यादिभिर्मन्त्राः ब्राह्मणश्रुतयश्च पृथक्-पृथक् अधीता अपि यज्ञकार्येषु तद्व्यहारसौष्ठवं साधयितुं विमिश्रीकृता इति द्वावेव मन्त्रब्राह्मणग्रन्थौवान्तपूर्णाविव सम्पन्नौ, अतएव कृष्णेतिव्यपदेशभागिनौ च। इत एवावकाशादेतयोः शुक्लकृष्णयोर्यजुःशाखयोरनतिप्राचीनानामपि केषाञ्चिद्वचनानां प्रवेशः सम्भाव्यते, तत एवैतयोर्मन्त्रन्यूनातिरिक्तत्वादितो मिथो विभिन्नत्वं च सुव्यक्तमेवेति।
एवञ्चायं मन्त्रभागः ऋग्-यजुःसामेतित्रिविधरचनात्मकोऽपि हौत्राध्वर्यवौद्गात्रब्राह्मेति चतुःसंहितात्मकः, कालेन शुक्लकृष्णेति द्वैविध्यं गते च यजुषि सम्प्रति राजते पञ्चसंहितात्मक एव;— ऋग्वेदसंहिता, शुक्लयजुर्वेदसंहिता, कृष्णयजुर्वेदसंहिता, सामवेदसंहिता, अथर्ववेदसंहितेति॥
अथासु च पञ्चसु वेदसंहितासु बहुधैव पौवापर्यं केचिदाहुः। तथाहि— ‘ऋक्संहितायाःसर्वत एव प्राथम्यम्; तत्रापि द्वितीयमण्डलस्यापेक्षिकनूतनत्वम्, दशममण्डलस्य तु ऋक्संहितापरिशिष्टरूपत्वञ्च; सामसंहिताया तत एवोद्धृतार्च्चिकमूलकत्वम्; शुक्लयजुःसंहितायाः तदपेक्षयाप्यर्वाचीनत्वम्; अथर्वसंहितायास्तु सर्ववेदपरिशिष्टत्वेन ततोऽप्यर्वाचीनत्वम्’— इति। वेदतत्त्वानुसन्धित्सुभिः प्राज्ञतमैरेवेदं तत्त्वमुद्भावितमित्यत्र विश्वास एवोचितः सर्वेषाम्; परं किं कुर्प्तोवयं नात्रास्माकं बुद्धिः प्रसरति; एकस्मिन्नेव हि काले, एकस्यैवाचार्यस्य, एकेनैव चयनयत्नेन त्रतुष्ट्वमापन्नानां पौर्वापर्यं कथङ्कारं स्यादिति। यदि कश्चित् फलविक्रयी,— आम्नार्थीआम्नमेव गृह्णातु, जम्बर्थीजम्बूमेव, पनसार्थी पनस मेव, राजादनार्थी राजादनमेवेति क्रयविक्रयसौकर्यार्थमेकदैवैकेनैव यत्नेनैकमेव फलराशिं विभज्य चयनेन चतुरः स्तूपान् विदध्यात्; तत्र कः खलु धीर एवं वदितुमुत्सहेत,— अयं स्तूपः पूर्वं कृतः, अत्राप्यंशशो नूतन इत्यादि? तथैवात्रापि। किञ्च यथास्त्येव तत्र फलानामुत्पत्तौ कालपौर्वापर्यम्, न त्वेककालजातान्येव तानि सर्वाणि; एव मत्रापि अस्तु मन्त्राणामुत्पत्तौ कालपौर्वापर्यम्, न त्वेककालोत्पन्नास्ते इति स्यात् कृतकवादिनाम्; परं न हि तेन स्तूपानां संहितानां वा प्राचीनाप्राचीनत्वविचारः सङ्गच्छते; तत्त्वतो फलानां मन्त्राणाञ्चोत्पत्तिकालविचारस्तु स्तूपानां संहितानामुत्पत्तिकालविचारतः सर्वथा स्वतन्त्र एवेति बहुशास्त्रपारावारदृश्वनां विश्वविख्यातकीर्त्तीनामपि तेषामत्र तद्वचो न प्रमाणकोटिं प्रवेष्टुमिष्ट इत्यस्माकम्॥
तथापीदं विचार्यते कथङ्कारमृक्संहितायाः प्राथम्यमिति?—
स्मर्यते हि मनुसंहितायाम्— “ऋग्यजुस्सामलक्षणम्”— इति (२.११.)। एवमादौऋग्वेदस्य प्रथमप्रयोगदर्शनात् तस्यैव वेदेषु प्राथम्यं गम्यत इति चेन्न; तादृशसमस्तप्रयोगे हि शब्दानुशासनादेव ऋक्शब्दस्य पूर्वनिपातो भवति। तथा हि पाणिनिसूत्रम्— “अल्पाच्तरम्”— इति (२.२.३४.)। यद्येवम्प्रयोगादेव प्राथम्यं गम्येत, तर्हि“विन्ध्यकिस्किन्धहिमालयाः”— इत्युक्ते विन्ध्यस्यैव प्राथम्य मुररीकार्यंस्यात्। असमस्तप्रयोगेषु च यत्र ऋक्शब्दस्य प्रथमतः प्रयोगो दृश्यते, तत्र प्रयोक्तुःयादृच्छिकत्वमेव वीजम्। अपि वा पद्यगद्यगानात्मिकासु त्रिविधरचनासु तत्त्वतो गानरचनाया एव ज्यायस्त्वेऽपि पद्यरचनायास्तदस्थिरूपत्वेन ततोऽपि गरीयस्त्वमवश्य मभ्युपगन्तव्यमिति रचनानियमाधीनमेव प्राधान्य मृचां बहुत्र आद्युल्लेखे निदानम्। तदेवं सर्वत्रैवर्क्-शब्दस्य प्रथमप्रयोग एव ऋग्वेदस्य सर्ववेदप्राथम्ये विनिगमकमिति तेषां मनोराज्यविजृम्भणमात्रम्।
श्रूयते च कौषीतकीब्राह्मणे— “तत्परिचरणावितरौ वेदौ”— इति। एतेन यज्ञकाण्डे होतृकर्मण एव प्राधान्यम्, होत्रर्थमेव अध्वर्युकृत्यमुद्गातृकृत्यञ्चेत्येव बोधितम्; एतस्माच्चर्चां प्रथमोत्पन्नत्वं न कथ मपि बुद्ध्यते। एवञ्चास्य तद्विषयकमानत्वेनोपन्यासोऽपि वृथैव।
सर्ववेदभाष्यकारस्य श्रीमतःसायणाचार्यस्य ऋग्वेदभाष्यभूमिकायाम्— “मन्त्रकाण्डेष्वपि यजुर्वेदगतेषु तत्र-तत्राध्वर्युणा प्रयोज्या ऋचो बहव आम्नाताः। साम्नान्तु सर्वेषा मृगाश्रितत्त्वं प्रसिद्धम्। आथर्वणिकैरपि स्वकीयसंहिताया मृच एव बाहुल्येनाधीयन्ते”— इत्युक्तिः दृश्यते सत्यम्; पर मेतस्मादपि ऋग्वेदस्य
प्राथम्ये सायणसम्मतिर्न बुद्ध्यते; अपि तु मन्त्रेषु ऋचां बाहुल्यमित्येव ध्वन्यते। किञ्चर्च्चां प्राधान्याख्याने च ऋक्संहितायाः प्राधान्यंमेव गम्यते; ततोऽन्यत्रापि ऋचां सद्भावात्। अत एव ऋचां हि रचनानियमाधीनं बाहुल्यमूलकं वा प्राधान्य मुररीकुर्वतोऽपि सायणस्य मते ऋग्वेदस्य त्वप्राधान्यमेव। तथा ह्युक्तमध्वर्युभाष्यभूमिकायाम्— “आनुपूर्व्याकर्मणां स्वरूपं यजुर्वेदे समाम्नातम्। तत्र विशेषापेक्षायामपेक्षितायां वाज्यापुरोऽनुवाक्यादय ऋग्वेदे समाम्नायन्ते, स्तोत्रादीनि तु सामवेदे। तथा सति भित्तिस्थानीयो यजुर्वेदः, चित्रस्थानीयावितरौ। तस्मात् कर्मसु यजुर्वेदस्य प्राधान्यम्”— इति। सामभाष्यभूमिकायाञ्च— “अध्वर्युमुख्यैर्ऋत्विग्भिश्चतुर्भिर्यज्ञसम्पदः। निर्म्मिमीते क्रियासङ्गैरध्वर्युर्यज्ञियं वपुः। तदलङ्कुरुते होता ब्रह्मोद्गातेत्यमीत्रयः। ०—०। यज्ञं यजुर्भिरध्वर्युर्निर्म्मिमीते ततो यजुः। व्याख्यातं प्रथमं पश्चादृचां व्याख्यानमीरितम्। साम्नामृगाश्रितत्वेन सामव्याख्याथ वर्ण्यते”— इति। वस्तुतो जगत्सृष्टेः पुरैव ब्रह्मणश्चतुभ्यों वदनेभ्यश्चत्वारो वेदा युगपत् समुत्पन्ना इत्येवं वादिनां पौराणिककालप्रभवाणां श्रीमत्सायणादीनां तथाविधविचारे मनोनिवेशोऽप्यसम्भव एव; तेषां तादृशाशिरस्कविचारप्रवृत्तौ भवेदेव हि स्वसिद्धान्तव्याकोपः।
किञ्च ऋक्संहितायाः प्राथम्येऽभ्युपगते ऋक्संहिताप्रणयनकाले यजुस्साम्नोरसद्भावात् तत्रैव ऋक्संहितायां यजुस्साम्नोरुल्लेखः कथङ्कारं श्रूयत इत्येवं तादृशचतुरचेतसां चेतःसु कथन्न चमत्कारमाविष्कृतम्? पश्यन्तु तावत् धीमन्तः— “यजुस्तस्मादजायत”— इति (ऋ० स० १०.९०.९.), “तमेव मृचि तमु
ब्रह्मणमाहुर्यज्ञन्यं सामगा मुक्थशासम्”— इति (ऋ० स० १०.१०७.६.), “ऋक्सामाभ्यामभिहितौ(ऋ० स० १०.८५.३१.)”— इत्येवमादीनि। इमानि तु निदर्शनानि दशममण्डलादाहृतानि, दशममण्डलस्यानतिप्राचीनत्वमेव तेषामिति चेत्, ततोऽन्यतोऽपि दर्शयामः। तथाहि— “बर्हिरिव यजुषा रक्षमाणः”— इति पञ्चममण्डलीयम् (६२.५.), “उभे वाचौ वदति सामगा इव”— इति च द्वितीयमण्डलीयम् (४३.१.)। सामविशेषनामान्यपि श्रूयन्त एव ऋक्संहितायाम्। तथाहि— “रथन्तर मा जभारा वसिष्ठः”— इति (१०.१८१.१.), “भरद्वाजो बृहदाचक्रे अग्नेः”— इति च (१०.१८१.२.)। एते च निदर्शने दशममण्डलीये इत्येवाग्राह्ये तेषामिति चेत्, अन्यत्राप्यस्त्येवं तथैव। तद्यथा— “रथन्तरे सूर्यम्पर्यपश्यत्”— इति प्रथममण्डलीयम् (१६४.२५.), “प्र गायत्रेण गायत”— इति च नवममण्डलीयम् (६०.१.) इति दिक्। तदेव मृक्संहितायाः ऋङ्लक्षणमन्त्राणां वा प्रथमरचितत्वमिति तेषां स्वकपोलकल्पितमिवाभाति स्फुटम्।
यदप्युक्तं तद्द्वितीयमण्डलस्य अपेक्षाकृतमर्वाचीनत्वमिति, तदप्येवमेव; मानाभावात्। को नाम धीमान् शुष्कतृणसहाय एव बटविटपिदुर्गच्छेदने समर्थो भवेत्? अस्ति खलु ऋक्संहिताया द्वितीयमण्डलीयसायणभाष्यारम्भे “य आङ्गिरसः शौनहोत्रो भूत्वा भार्गवः शौनकोऽभवत् स गृत्समदो द्वितीयं मण्डलमपश्यत्”— इत्यनुक्रमणीवचनमुद्धृतम्। तथाच द्वितीयमण्डलस्य शौनकीयत्वं सुव्यक्तम्; शौनकीयग्रन्थस्य च पाणिनिना “शौनकादिभ्यश्छन्दसि”— इति (४.३.१०६.) सूत्रे प्रोक्तत्वस्वीकारात् प्राचीनतमत्वाभावः सुतरां स्फुटमित्येवैकैषा युक्तिर्द्वितीयमण्डलस्य
चिरात्सिद्धप्राचीनतमत्वखण्डने शुष्कतृणमयी कर्त्तनी। इहपश्यन्तु तावच्चक्षुष्मन्तः—एकवंशीयाश्चान्यवंशप्रभवाश्च शौनकाः खलु बहव एव;— मन्त्राणां द्रष्टारः आसन् शौनकाः; तेभ्योऽन्ये सूक्तानाञ्च द्रष्टारः स्थिता एव शौनकाः; द्वितीयमण्डलस्यद्रष्टा च शौनकस्ततोऽप्यन्यएव;अथर्वशाखाविशेषस्य च प्रवक्ता शौनकोऽप्यन्य एव; तत्तद्वंशप्रभवाह्यद्यापि बहुत्र बहवःशौनका राजन्त एव। “शौनकादिभ्यश्छन्दसि”— इति (४.३.१०६.) पाणिनिसूत्रस्य शौनकप्रोक्तग्रन्थएव विषयः, तथाच शौनकप्रोक्तं अथर्ववेदीयसंहिताग्रन्थं येऽधीयते त एव शौनकिन; शौनकदृष्टग्रन्थस्तु न चास्य सूत्रस्य विषयः; अनुक्रमण्यान्तु “द्वितीयमण्डलमपश्यत्”—इत्युक्तम्, न तु द्वितीयं मण्डलमवोचदिति। शौनकविषये त्विह पुरस्तादप्यसकृदुक्तानि। ततश्च शौनकदृष्टत्वमेव द्वितीय मण्डलस्येति शौनकदृष्टं द्वितीयं मण्डलं येऽधीयते इति विग्रहे तत्सूत्रस्य प्रवृत्तिरेव नास्तीति तस्य द्वितीयमण्डलस्य प्रोक्तत्वमूलकापेक्षिकार्वाचीनत्वकल्पनंभ्रमविजृम्भितमेवेति।
वस्तुतः पाणिनिसूत्राणां समालोचनयेदमेव ज्ञायते;— तस्य भगवतः पाणिनेः शाखानामेव प्रोक्तत्वेन ग्रहणमीप्सितम्, तदध्येत्रर्थे एव च प्रत्ययादयो विहिताः; मन्त्रसूक्तमण्डलादीनान्तु दृष्टत्वेनैव ग्रहणमिति दृश्यतेऽनुक्रमणिकादावपि। न च क्वचिदपि पाणिनीये मण्डलाध्येत्रर्थे तादृशप्रत्ययविधिः दृश्यते प्रत्युत शाखाद्यध्येत्रर्थे एव; सन्ति यथैव ऋग्वेदादीनां शाकलादयः शाखाः, तथैबास्ति शौनकसंहितेत्यथर्ववेदस्यापि चिरादेव; एवं यथैव शाकलादिशाखानां प्रोक्तत्वमेव पाणिनिसम्मतम्, तथैव शौनकशाखाया अपि। तत्कथमत्र द्वितीयमण्डलाध्येतरि तादृशप्रत्ययप्रसङ्गः?
कुतो वा अनुक्रमण्यां यस्य द्रष्टृत्वं भासते, तस्यैवेह बलात् प्रोक्तृत्वेन ग्रहणं भवेत् स्वीकार्यमिति?
यच्चाप्युक्तम्— ऋग्वेदद्वितीयमण्डलस्य प्रथमसूक्तीयद्वितीयस्याम्—
“तवाग्ने होत्रंतव पोत्र मृत्वियं तव नेष्ट्रं त्व मग्निदृतायतः।
तव प्रशास्तृत्व मध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे”
—इत्यस्या मृचि यत् होत्रादीनि याज्ञिकाभिधानानि श्रूयन्ते, ततश्च ज्ञायते तन्मण्डलं यज्ञकालभवम्, एतदेव मानान्तरं तस्यापेक्षाकृताधुनिकत्वस्येति। इतश्च वक्तुरेकदेशदर्शित्वमेव विशदीभवति। यतः खलु यज्ञकाले एव सर्वासां संहितानां ग्रथनं सम्पन्न मतः संहितासु सर्वत्रैव विद्यन्ते तथाविधा मन्त्राः; न द्वितीयमण्डले एव। तथाहि तत्— प्रदर्शितमन्त्रश्रुतानि पदानि अन्यत्रापि यथाक्रमेण दर्शयामः— १.७६.४ होत्रम्, तत्रैव पोत्रम्, ८.४०.११ ऋत्वियम्, १.१५.३ नेष्टः, १०.१४.१३ अग्निध्रम्, १.९४.६ प्रशास्ता, १.२३.१६ अध्वरीयताम्, १.८०.१ ब्रह्मा, १.१३.६ गृहपतिः,१.१.७ दमे इति। एवं हि होत्रादिपददर्शनात् तत्तन्मन्त्राणां यज्ञकालजत्वसिद्धेऽपि प्रथममण्डलादिभ्यो द्वितीयं मण्डलमाधुनिकमिति वक्तुं कथमपि न युज्यत इति सुव्यक्तम्॥
एवं दशममण्डलस्य ऋक्परिशिष्टरूपत्वं कल्पयितुञ्चैका आकाशवल्लीअवलम्बिता तैर्भाषापार्थक्यादिर्नाम; दशममण्डलस्य हि भाषा मन्त्रार्थगततात्पर्याणि च प्रथममण्डलादिभ्यः सर्वथा पृथगेवेत्यस्य परिशिष्टरूपत्वं स्वीकार्यमिति तदाशयः। कि मत्रब्रूमो वयम्? अस्मच्छुतिषु हि दशममण्डलस्य मण्डलान्तराणाञ्च एकविधेवभाषा प्रतीयते, अस्मद्वुद्धिषु च तथैकविध
मेव तात्पर्यमिति न जानीमहे केषां बुद्धिमालिन्यं केषां वा श्रवणेन्द्रियदुष्टत्वमिति।
वस्तुतो वेदानां कृतकत्वपक्षेमन्त्राणां बहुकर्तृकत्वात् अनेककालजत्वाच्च भाषातात्पर्ययोः पार्थक्यन्तु प्रतिमन्त्रगतमेवेत्यन्यदेतत्; मण्डलगतपार्थक्यन्तु असम्भवमेव मण्डलरूपेण ग्रन्थाविर्भावाभावात्। न च सर्वास्वेव शाखासु एकविधपरिच्छेदविभागोऽपि विद्यते; तथाच या नाम शाखा अष्टपरिच्छेदपरिच्छिन्ना, तत्रैव सर्वे मन्त्राः, तस्यां कथं दशममण्डलस्य परिशिष्टत्वं परिरक्ष्येत? इदानीम्प्रचलितेयं हि संहिता, शाकलबाष्कलेतिशाखाद्वयमिलितेत्येव बुद्ध्यते; एतस्यां द्विविधपरिच्छेदविभागदर्शनात्। तदत्राष्टकाध्यायवर्गैर्विभागो नूनमेकशाखाकृतः मण्डलानुवाकसूक्तैर्विभागस्त्वपरशाखाकृतः स्फुटमेव प्रतीयते। अष्टकाध्यायवर्गविभक्तसंहितायां किञ्चित् पाठाधिक्यमपि श्रूयते। वालखिल्यमन्त्रा अपि तस्यामेवाधीयन्ते। न च ते मन्त्राः खिलात्मिकाः; तेषामपि पदपाठाद्यध्ययनाध्यापनश्रवणात्, “अथ वालखिल्या विहरेत् (उ० २.२.३-२२.)”— इत्याद्याश्वलायनीयश्रौतविधानादिस्मरणात्, निरुक्तेनिगमत्वेन व्यपदेशाच्च। अतएवाह च षड्गुरुशिष्यः— ‘बाष्कलके संहितापाठे अतः शाकलात् अधिकान्यष्टौ सूक्तानि’— इति। भगवता सायणाचार्येण तु शाकलसंहितामधिकृत्यैव व्याख्यात ऋग्वेद इति नैव व्याख्यातानि वालखिल्यानि; परं स्वीकृतान्येवैतरेयकभाष्ये तान्यष्टाविति। अपि यथैवान्यत्रान्यत्र,तथैवेहापि वालखिल्यानामष्टसूक्तात्मकत्वमेकादशसूक्तात्मकत्वञ्चेति सूक्तसङ्ख्याविषयकोऽप्यस्ति पाठभेदः। तदेवमष्टकविभागे बाष्कलके दशममण्डलमेव नास्तीति कथङ्कारं
भसेत् तस्य परिशिष्टत्वमिति विचार्य सुधीभिरेव [शाकलबाष्कल-वालखिल्यादीनां वर्णनमस्माभिः कृत मैतरेयालोचने, करिष्यमाणञ्चपुनर्ब्राह्मणालोचने, तत् तत्र-तत्रैव द्रष्टव्यं विशेषतः]।
एवञ्च ऋक्संहिताया नवमण्डलात्मकत्व मेवासीत्, ततोऽभवद् दशमण्डलात्मकत्वमिति कथनं यथा सुकरम्; तथा नेदम्— पुरा सप्तमाष्टकीयपञ्चमाध्यायाष्टाविंशतिवर्गान्तमेव ऋक्संहितायाः समाम्नानमासीत्, ततस्तदष्टकीयतदध्यायस्योनविंशतितमादयो वर्गाः प्रणीताः, अष्टमाष्टकश्च समग्रः प्रणीत इति। न च निरुक्ते दाशतयीति व्यपदेशाद् दशममण्डलात्मकत्व मेव सर्वर्क्शाखासंहितानामिति वाच्यम्; तत्र सर्वत्र दाशतयीति शाकलशाखासंहिताया एव ग्रहणे बाधाभावात्। किञ्च प्रथमादिमण्डलेषु श्रुतानां बहूनां सूक्तानाम्, दशममण्डलस्थितानाञ्च बहूनां सूक्तानाम्, द्रष्टारोऽभिन्ना एवावगम्यन्ते; परिशिष्टत्ववादिनां मते तत् कथमुपपद्येतेत्यपि विचारयन्त्वत्र माध्यस्थ्यपदमादधाना एवेति॥
एवं सामवेदीयर्ङ्मन्त्राणा मृक्संहितात उद्धृतत्वकथनमपि प्रौढ़िवादमात्रम्; ऋक्संहितायामपि छन्द इति श्रवणात्। तथाहि (१०.८०.९) —
“तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे।
छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत”— इति**। **
अस्या मृचि छन्दांसीतिपदेन सामवेदीयर्च्चामेव ग्रहणमिष्टम्; तथैव सर्ववैदिकप्रसिद्धेरिति प्रतिपादितं पुरस्तादपि (१६१ पृ०); छन्द इति हि सामवेदीयार्च्चिकग्रन्थानां तथा तत्तद्ग्रन्थोयमन्त्राणां च नाम इति केऽधीतवेदा न जानन्ति?
पाणिनिना च विशेषतः सामवेदीयच्छन्दोग्रन्थस्थमन्त्रा एव छन्दस्त्वेनलक्षिताः। तथाहि— “सोऽस्यादिरिति छन्दमः प्रगाथेषु”— इति (४.२.५५.) तत्सूत्रम्; “पङ्क्तिरादिरस्येति पाङ्क्तः प्रगाथः”— इत्यादीनि च तदुदाहरणानि। प्रगाथास्तु सामवेदे एव दृश्यन्ते, नान्यत्र; विहिताश्च ते सामवेदीयताण्ड्यमहाब्राह्मणे एव।
किञ्च यतश्चसाममूलमन्त्राणां सर्वेषामेव छन्द इति चिरात्समाख्या, अत एव तेषां गानकारिणः सामवेदिनश्छन्दोगा एवेत्युच्यन्ते, न तु ते क्वचित् कैश्चिदपि ऋग्गा इति। यतश्चसामवेदिन एव छन्दोगा इत्युच्यन्ते, तत एव सामवेदीयब्राह्मण- ग्रन्थाना मुपनिषदाञ्च छान्दोग्यमिति समाख्या प्रसिद्धैव। विहिता च सा पाणिनिना “छन्दोगौक्थिक”— इति (४.३.१२९)। एवञ्च यच्च केनचिदुक्तम् ‘वेदसंहितासु ये केचन प्राचीनतमश्लोकाः, त एवछन्दांसि इत्यभिधीयन्ते; ततोऽप्राचीना एव मन्त्राः’— इति तदिदमपि जलमध्यगतमसीक्षोदवद्विलीनमेव न वेत्यपि विचारयन्तु त एव।
नन्वेवमपि ऋक्साम्नोरुत्पत्त्यनन्तरमेव छन्दसामुत्पत्तिश्रवणात् सामवेदीयर्च्चामृक्तोऽवरजत्वं यथावत् स्थितमेवातः‘स्वादितेऽपि लशुने न शान्तो व्याधिः’— इति चेदत्र ब्रूमः,— तस्माद्यज्ञादिति मन्त्रे नैव क्रमोत्पत्तिशर्णनमिष्टम्; अन्यथा हि ऋगुत्पत्त्यनन्तरं सामोत्पत्तिः, तदनन्तरञ्च छन्दउत्पत्तिः इत्येवं मन्तव्यं स्यात्, तच्चाप्रसिद्ध्यसम्भवदोषग्रस्तं भवेदेव। तथाहि— ऋग्वेदीयर्चोऽवलम्ब्येव सामानि गीतानि इति चेत् ते नून मृग्गा इत्येव प्रसिद्धाः स्युः, न च तथा प्रसिद्धिः दृश्यते क्वचिदपि लोके वेदे वा; प्रत्युत छन्दोनामतः प्रसिद्धानामेव सामवेदीर्च्चां गातृत्वा-
देव सामवेदीयाःछन्दोगा एवोच्यन्ते; एवं साम्नां प्रथममुत्पत्तिस्ततस्तन्मूलानाञ्छन्दसामित्यप्यसम्भव एव। तस्मात् यदैव यतश्च ऋचः प्रादुरभूवन् तदैव ततश्च सामानि च, साममूलच्छन्दांसि च, यजूंषि चेत्येव तन्मन्त्राशयस्तथा च सहोत्पत्तिरेव। एतएवाथर्ववेदीयेऽत्र मन्त्रे सहशब्दश्च श्रूयते (१७.७.२८)—
“ऋचः सामानि छन्दांसि पुराणं यजुषा सह।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रिताः”— इति**।**
अत्र श्रुतः पुराणशब्दःप्राचीनेतिवृत्तान्वाख्यानपरमन्त्रवाचकः। तदेतस्मान्मन्त्राम्नानाच्चसर्वविधमन्त्राणां सहोत्पत्तिः सुव्यक्तैव।
किञ्च यदि नाम ऋक्संहितात एव सामयोनिमन्त्रा उद्धृताःस्युः, तर्हि उद्धृतिक्रमत एवेह सामवेदे मन्त्रा दृश्येरन्; न च तथा दृश्यन्ते। अपरञ्च, एवमपि बहवो मन्त्राः सामवेदे सन्ति, येषामृकसंहितायां श्रवणं नास्त्येव। अथापरमपि, यथेवर्क्संहितायां सूक्तानि, तथैवेह दशदादीनि; ततश्च कुतः कस्योद्धरणं किन्मानकं भवेदिति च स्याद् विचार्यमेव, विचारकाले तु विनिगमकाभाव एव मूर्तिमान् दरीदृश्येतेत्यत्र च कः संशयः। वस्तुतः पुरा ऋगादिलक्षणाः सर्व एव मन्त्रा विकीर्णा एव आसन्, ततो यदैव ऋक्चयनेन ऋग्वेदीयसुक्तानि सङ्गृहीतानि, तदैव तथैव सामवेदीयान्यपि दशदादीनीति किं चित्रम्? एकस्या एव हि ऋचश्चयनमुभयत्रैककालेऽपि सम्भवत्येवेत्यपास्येतैवोद्धृतिमतमिति दिक्॥
अथर्वविचारस्तु प्रदर्शित एव पुरस्तात्(१४७-१५९पृ०)॥
[ब्राह्मणम्] ततो ब्राह्मणस्यास्ति किं लक्षणमित्यन्विच्छन्तः पश्याम इद मापस्तम्बसूत्रम्— “कर्मचोदना ब्राह्मणानि”— इति।
कर्मचोदना विधिरिति त्वनर्थान्तरम्। विधिश्चैष द्विविध इत्याह सायणः। तथाहि— “विधिरपि द्विविध; अप्रवृत्तप्रवर्त्तनम्, अज्ञातज्ञापनञ्चेति। ‘आग्नावैष्णवं पुरोडाशं निर्वपति दीक्षणीयायाम्’—इत्याद्याः कर्मकाण्डगता विधयः अप्रवृत्तप्रवर्त्तकाः; ‘आत्मा वा इदमेक एवाग्र आसीत्’— इत्यादयो ब्रह्मकाण्डगताअज्ञातज्ञापका”— इति (ऋ० सं० भा० भू०)।
एतस्यैव ब्राह्मणस्य शेषरूपवाक्यान्येवार्थवादा उच्यन्ते इत्याह चापस्तम्बः। तथाच तत्सूत्रम्— “ब्राह्मणशेषोऽर्थवादः”— इति। शेषशेषिभावः अङ्गाङ्गिभावश्चेत्यनर्थान्तरं मीमांसकानाम्। तच्चप्रतिपादितम् “अथातः शेषलक्षणम् (३.१.१.)”— इत्यधिकृत्य “शेषः परार्थत्वात्, द्रव्यगुणसंस्कारेषु वादरिः कर्माण्यपि जैमिनिः, फलञ्च पुरुषार्थत्वात्, पुरुषश्च कर्मार्थत्वात्”— इति (३.१.२-६.)। विधिभिरङ्गाङ्गिभावञ्चार्थवादानां ते मन्यन्त एव। तथाहि— “आम्नायस्य क्रियार्थत्वादानर्थक्य मतदर्थानां तस्मादनित्यमुच्यते”— इत्यादिभिःषड्भिः सूत्रैः (१.२.१-६.) अतदर्थानाम् = अक्रियार्थानाम् = अर्थवादानाम् अनर्थक्यम्, तस्मात्तेषामनित्यत्व माशङ्का “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थत्वेन विधीनां स्युः”— इत्यादिभिःषड्भिः सूत्रैः (१२.७–१२.) विधीनाम् = ‘वायव्यां श्वेतमालभेत’— इत्यादीनाम् ब्राह्मणवाक्यानां स्तुत्यर्थत्वेनैव “वायुर्वैक्षेपिष्ठा देवता”—इत्येवमादीनामर्थवादवाक्यानां सार्थकता, तस्मान्नित्यता च सिद्धान्तिता। एतदेवाभिप्रेत्याह सायणाचार्यः— “द्विविधं ब्राह्मणम्— विधिः, अर्थवादश्च”— इति।
अर्थवादाना मपि ब्राह्मणत्वं स्वीकृतंनिरुक्ते च। तथाहि—
“प्राशित्रमस्याक्षिणी निर्जघानेति च ब्राह्मणम् (१२.२.३.)”— इत्येवमादीनि द्रष्टव्यानि। अपि चार्थवादानां ब्राह्मणत्व मुररीकुर्वतैव तेन तेषां तत्त्वख्यापनेऽप्रामाण्यञ्च ध्वनितं तत्रैव। तथाहि— “बहुभक्तिवादीनि हि ब्राह्मणानि भवन्ति (७.७.२.)”— इत्यादि॥
अत्रत्वेतदपि ज्ञातव्यमस्ति,— सायणस्य प्रदर्शितप्रकारं विधिद्वैधन्तु वैदान्तिकानामनुरोधतःप्रौढिवादमात्रमिति; कर्मचोदनैव विधिरिति आपस्तम्बादियाज्ञिकानां जैमिन्यादिमीमांसकानाञ्च सम्मतत्वात्। न हि केऽपि याज्ञिकाः“आत्मा वा इदमेक एवाग्र आसीत्”— इत्यादीनां विधित्वं मन्यन्ते; अपि त्वर्थवादत्वमेव। अतएवोक्तं मीमांसा शालिकनाथीयप्रकरणपञ्चिकायाम्— “केवलवस्तुवादी वेदभागो नास्ति”— इत्येवमादि, मन्यन्ते चात एव साङ्ख्याः— “द्रष्टवदानुश्रविकः”— इति॥
विध्यर्थवादयोः प्रकारभेदादीनि जैमिनीयादौबाहुल्येन वर्णितानि; लौगाक्षिभास्करेणार्थसङ्ग्रहे, कृष्णयज्वना च मीमांसापरिभाषायां सङ्क्षेपेण निर्णीतानि; विधिविचारादिप्रकरणेषु प्रपञ्चितानि च; तेभ्य एव विशेषतोऽवगन्तव्यानि॥
मीमांसावृत्तिकारेण तु ब्राह्मणलक्षणान्येवमुदाहृतानि— ‘इतिकरणबहुलम्’, ‘इत्याहोपनिबद्धम्’, ‘आख्यायिकास्वरूपम्’— इति च। इमानि लक्षणानि प्रायिकाभिप्रायेणोक्तानि; मन्त्रेष्वपि तथादर्शनात्, ब्राह्मणेष्वपि क्वचित्तदभावदर्शनाच्चातिव्याप्त्यव्याप्तिदोषापत्तेरित्याहतुः शवरस्वामिसायणौ। जैमिनिस्तु सूत्रयामास “शेषे ब्राह्मणशब्दः”— इत्येव (२.१.३३.)। “मन्त्राश्च ब्राह्मणानि वेदः, तत्र मन्त्रलक्षणे उक्ते परिशेषसिद्धत्वात् ब्राह्मणलक्षणमवचनीयम्, मन्त्रलक्षणेनैव सिद्धम्,— यस्यैतल्लक्षणं न
भवति, तद् ब्राह्मणमिति परिशेषसिद्धं ब्राह्मणम्”— इति च तद्भाष्यम्। तदेवं निष्पन्नमेतत् अभियुक्तानां समाख्यात एव ज्ञेयम्— एष मन्त्रः, एतद् ब्राह्मणमिति; अपि च नैव मन्तरेण; सम्भवेतां तयोर्लक्षणे; इतिकरणबहुलादिषु सर्वत्रैवाव्याप्त्यतिव्याप्तिदोषयोरनिवार्यत्वात्। अतः सुष्ठूक्तंसायणेन— “ईदृशेष्यत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मोऽस्ति यस्य लक्षणत्व मुच्येत”— इति। स्तश्चात्राप्युदाहरणपरे प्राचीनपद्ये अपि। तथाहि—
“हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः।
परक्रिया पुराकल्पो व्यवधारणकल्पना॥
उपमानं दशैवैते विधयो ब्राह्मणस्य तु।
एतद्वै सर्ववेदेषु नियतं विधिलक्षणम्॥”—इति**।**
तत्र,(१) हेतुः— “सूर्पेण जुहोति, तेन ह्यन्नं क्रियते”— इति।
(२) निर्वचनम्—“तद्दध्नो दधित्वम्”— इति।
(३) निन्दा—“उपावीता वा एतस्याग्नयः”—इति।
(४) प्रशंसा—“वायुर्वैक्षेपिष्ठा देवता”—इति।
(५) संशयः—“तद्विचिकित्सन् जुहवानी३मा हौषा३म्”।
(६) विधिः— “यजमानसम्मिता, औदुम्बरी भवति”— इति।
(७) परकृतिः—“माषानेव मह्यंपचति”— इति।
(८) पुराकल्पः—“पुरा ब्राह्मणा अभैषुः”— इति।
(९) व्यवधारणकल्पना— “यावतोऽश्वान् प्रतिगृह्नीयात्,
तावतो वारुणांश्चतुष्कपालान् निर्वपेत्”— इति।
दशममुदाहरणन्तु शवरस्वामिना नैव प्रदर्शितम्; तत एव सब्धविद्येन सायणेनापि कथङ्कारं भवेद् दर्शितम्? अथवा लेखक-
प्रमाद एवात्र निदानम्। यद्यप्येतादृशेऽस्मादृशानां लेखनीचालनमुपहासास्पदमेव सम्भवेन्नाम, तथापि कर्तव्यपरवशैःकथनुपेक्षणीयं स्यादिदमिति यथाज्ञानं तत् प्रदर्श्यते— “स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत, एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राण मेवोपश्रयते; प्राणवन्धनं हि मन इति (छा० ब्रा० ८.८.२.)” —इत्येवमादिकमेवोपमानोदाहरणं भवेद्दशममिति॥
अथात्रेदमप्यालोचनीयम्— ब्राह्मणग्रन्थेषु खल्वेतत्पद्यद्वयोक्तातिरिक्तानामितिहासादीनामपि कतिविधानां वाक्यानामस्तित्वमुपलभ्यते। तथाहि छान्दोग्ये— “स होवाच ऋग्वेदं भगवोऽध्येमि०—० इतिहासपुराणम् (९.१.३.)”— इत्यादि। शतपथेऽप्यश्वमेधप्रकरणे— “अथाष्टमेऽहन्०—० तानुपदिशतीतिहासो वेदः, सोऽयमिति किञ्चिदितिहासमाचक्षीतैवमेवाध्वर्युः सम्प्रेष्यति (१२.)”— इति, “अथ नवमेऽहन् ०—०तानुपदिशति पुराणं वेदः, सोऽयमिति किञ्चित् पुराणमाचक्षीतैव मेवाध्वर्युः सम्प्रेष्यति (१३.)”— इत्येवमादि। तैत्तिरीयेऽपि— “यद्ब्राह्मणानीतिहासान् पुराणानि कल्पान् गाथा नाराशंसीर्मेदाहहुतयः (आ० २.९.२.)”— इति। “ब्राह्मणानि कर्मचोदनाः— ‘वायव्याँश्वेत मालभेत’— इत्यादयः। इतिहासाःब्रह्माण्डादिनियमाः;‘देवाः सुराः संयत्ता आसन्’— इत्यादयः। ‘आत्मा वा इदमेक एवाग्रआसीन्नेवेह किञ्चानाग्रे’— इत्यादीनि सृष्ट्यादिप्रतिपादकानि पुराणानि। कल्पाः कल्पसूत्राणि— प्रयोगप्रतिपादकानि। गाथाः गायन्ति– चोदिता मन्त्रविशेषाः;— ‘योऽस्य
कोष्ठ्या’— इत्यादयः; यमगाथाभिः परिगायतीति विधानात्। नाराशंसीःनाराशंस्यः ‘होतायक्ष्यन्नराशंसम्’— इत्याद्याः। ब्राह्मणान्तः पठितानामपि पुनरुक्तिः फलातिशयद्योतनार्थम्”— इति च तद्भाष्यं सायणीयम्। तत्त्वतस्त्विह कल्पाः कल्पसूत्रवीजानीत्येव वक्तुमुचितम्; अस्ति वात्र पाठान्तरता? गाथाः खलु श्लोकबद्धाःप्रवादवाक्यरूरा ब्राह्मणग्रन्थेभ्योऽपि प्राचीना एव; ता एव च श्लोका इत्यप्युच्यन्ते; तद्यथा— “तदेषाभियज्ञगाथा गीयन्ते— ‘यजेत्सौत्रामण्या सपत्नीकोऽप्यसोमपः। मातापितृभ्यामतृणार्थाद्यजेतिवचनाच्छ्रुतिः’— इति (ऐ० ब्रा० ७.२.९.)”— इति। नाराशंस्यस्तु नरस्तुतिश्रुतयः; तास्तु मन्त्रात्मिकाः, गाथात्मिकाः, ब्राह्मणात्मिकाश्च भवन्ति। तद्यथा— “अधि बृबुःपणीनां वर्षिष्ठे मूर्द्धन्नस्थात् (ऋ० सं० ४.७.२६.६, ७, ८.)”— इत्येवमादयो मन्त्रात्मिकाः; हिरन्येन परीवृतान् कृष्णान् शुक्लदतो मृगान्। मष्णारे भरतो ददाच्छतं बद्धानि सप्त च (ऐ० ब्रा० ८.४.९.)”— इत्येवमादयो गाथात्मिकाः; “एतेन ह वा ऐन्द्रेण महाभिषेकेणोदमय आत्रेयोऽङ्गमभिषिषेच तस्मादङ्गः समन्तं सर्वतः पृथिवींजयन् परीयायाश्वेन च मेध्येनेजे (ऐ० ब्रा० ८.४.७.)”— इत्येवमादयश्च ब्राह्मणात्मिकाः। अथर्ववेदीयगोपथब्राह्मणे तु तत्पद्यप्रकाशितातिरिक्ता बहुविधा एव श्रुतयःसंलक्ष्यन्ते। तथाहि— “इमे सर्वे वेदा निर्मिताः; सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काःसेतिहासाःसान्वाख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताःसानुशासनाः सानुमार्जनाः सवाकोवाक्याः (१.२.९.)”— इति। तत्र कल्पाः खल्विदानीम्प्रचबितकल्पसूत्राणां मूलान्येवोपलभ्यन्ते; रहस्यानित्वारण्यकानि; स्वरा इति तु
इदानीम्प्रचलितशिक्षाग्रन्थानां मूलानि; निरुक्तानि चाद्यप्रचलितनिरुक्तमूलान्येव; अनुशासनान्यपि अद्यप्रचलितछन्दोऽनुशासनमूलानि; संस्काराः खलु पदसंस्कारकशास्त्राणां पाणिन्यादीनांमूलान्येव; अनुमार्जनानि चाद्यस्थितक्षुद्रतमवेदाङ्गज्योतिषस्यमूलानि; वाकोवाक्यानि तु प्रश्नोत्तररूपाणीति शङ्कराचार्यः, ऊहापोहादितर्कप्रतिपादकमीमांसाशास्त्रमूलान्येवेत्यपि केचित्। तदेतेषामिह प्रदर्शितपद्योक्तेषु दशसु कथं भवेत् समावेशः? तदत्र बहुयत्नोऽपि द्वयोस्तिसृणां वा समावेशानुभवेऽपि न तु सर्वेषां समावेशःसिद्ध्यतीति कथं स्यादेवंविधानां ब्राह्मणत्वम्?
अतोऽत्रैवं ब्रूमः।— आसीत् पुरा सर्वा एवेमाःश्रुतयो विकीर्णा इति। तत्र, विधायकवाक्यानाम्,— ‘वायव्यां श्वेत मालभेत’— इत्येवमादीनाम्, तथा प्रवर्त्तकत्वेन (निषेधविध्यादौ निवर्त्तकत्वेन च) ‘वायुर्वैक्षेपिष्ठा देवता’— इत्येवमादीनाञ्च कर्मचोदनापरत्वेनैव ब्राह्मणत्वम्; तदतिरिक्तानामर्थतात्पर्यादिनिर्णायकानांनिरुक्तादीनामेव वेदार्थवादोपयोगित्वेनार्थवादत्वम्। तयोस्तु प्राचीनपद्ययोः ब्राह्मणभेदा एबनिर्दिष्टाः, न त्वर्थवादभेदाः“दशैवैते विधयो ब्राह्मणस्य तु। एतद्वैसर्ववेदेषु नियतं विधिलक्षणम्”— इत्युक्तेः। विधिः, कर्मचोदना इत्यनर्थाम्परम्; “कर्मचोदना ब्राह्मणानि”— इति हि आपस्तम्बसूत्रम्। अर्थवादशास्त्राणि खलु निरुक्तादीनि ब्राह्मणतो विभिन्नान्येव; अतएवोक्तं द्वितीयं सूत्रमापस्तम्बेन— “ब्राह्मणशेषोऽर्थवादः”— इति। ब्राह्मणेभ्योऽवशिष्टोवेदार्थप्रसवकृद् विधिवाक्यसङ्घ एवार्थवाद इत्युच्यते इत्येव च तस्यार्थः। यथा चाह जैमिनिः— “शेषे ब्राह्मणशब्दः (८.१.३३.)”— इति। न च तत्रावगम्यते मन्त्रस्यैव भागविशेषो
ब्राह्मणमिति, अपि तु गम्यत एव मन्त्रातिरिक्तो वेदभागो ब्राह्मणमिति; तथैवेहापि गम्येतैव ब्राह्मणातिरिक्तो मन्त्रलक्षणविधुरो वेदभागोऽर्थवाद इति। सिद्धमित्थं वेदत्रैबिध्यम्;— मन्त्रः, ब्राह्मणम्, अर्थवादः इति। अत एव वाभवद्वेदस्त्रयीतिव्यपदेशभाक्। सायणीय मेतद्वचनञ्चास्माकमनुकूलमेव— “तदेवं वेदे विद्यमानानां त्रयाणां मन्त्रविध्यर्थवादभागानामप्रामाण्यकारणाभावाद् बोधकानां तेषां प्रामाण्यस्य स्वतस्त्वाङ्गीकारात् कृत्स्नस्यापि वेदस्य प्रामाण्यं सिद्धम्”— इति (ऋ० सं० भा० भू०)।
यद्यप्यैतरेयादिग्रन्थेषु विध्यर्थवादावुभावेव स्तः; परं विधीनां बाहुल्यादेव ब्राह्मणमित्येव ते व्यपदिश्यन्ते; यथाच यजुःसंहितायां ऋग्यजुषोरुभयोरपि विद्यमानत्वेऽप्याख्यायत एव यजुरिति यजुषां बाहुल्यात्। तथा ह्यैतरेये बह्व्यएव गाथाःप्रमाणत्वेनोल्लिखिता दृश्यन्ते, तैत्तिरीये च शिक्षादयो बहवः श्रूयन्ते, तथा छान्दोग्येऽपि छन्दोऽनुकीर्त्तनानि च, गोपथे तु “ओङ्कारं पृच्छामः को धातुः”— इत्यारभ्य, “किं ज्योतिषं किं निरुक्तं किं स्थानं का प्रकृतिःकिं मध्यात्ममिति षट्त्रिंशत् प्रश्नाः(१.१.२४.)— इत्यन्तग्रन्थसन्दर्भेण षडङ्गपरिचया व्यज्यन्त एव; तत्तृतीये तु खण्डे “षडङ्गविदस्तत्तथाधीमहे”— इति चाम्नातं स्फुटम्।
तस्मादिदमेव युक्तमिवाभाति,— ऐतरेयादिग्रन्थाविर्भावात् प्रागेव ब्राह्मणार्थवादेतिश्रेणीद्वयगतानि सर्वाण्येव वाक्यान्यासन् विकीर्णानि तदनुस्मृत्यैव कृत मुक्तलक्षणद्वयमापस्तम्बेन तत उत्तरं विकीर्णामि तान्येव सङ्गृह्य यागकर्मणां पौर्वापर्य मनुसृत्यैव ग्रन्थीकृतानि महीदासदिभिः; तत्प्रभृत्येव सर्वेषामेव निर्वचनादीनामभवद् ब्राह्मणान्तर्गतत्वं तथा तन्नाम्नैव व्यपदेशभाक्तञ्च;
तत एव जैमिनिर्विध्यर्थवादयोरुभयोरेव ब्राह्मणत्व मुररीकृत्य तथैव सूत्रयामास तल्लक्षणमिति॥
न चैष ब्राह्मणभागः शाखा भेदानुगतोऽपि विभिन्नत्वमागतः, प्रत्युतः द्वयोर्बह्णीनांवा शाखानामेकमेवब्राह्मणम्। एकस्या अपि शाखाय दृश्यते चैकं ब्राह्मणम्। एवञ्चेदानीं सर्व्वशाखा ब्राह्मणसङ्ख्यातन्नामानि च सुदुर्ज्ञेयानि साम्प्रतं हि ऋग्वेदस्य ऐतरेयकं कौशीतकञ्च द्वेएव ब्राह्मणे अस्माभिर्दृष्टे।
यजुर्वेदस्यतु शुक्लयजुषो काण्वमाध्यन्दिन्योर्द्वेशतपथब्राह्मणे दृष्टे। कृष्णयजुषः खलु तैत्तिरीयमेवैकं दृश्यते। आपस्तम्ब ब्राह्मणस्यापि विद्यमानता गम्यते। चरकाध्वर्य्युसु मैत्र्यायन्या शाखायाश्चब्राह्मणमस्तीति श्रुतम्।
सामवेदीयत्रयोदशाखानान्तु दशैव ब्राह्मणग्रन्था इति गम्यते। अतएवतर्पणविध्यादौ तेषाम् प्रवक्तृणां नामान्येवमभिगीयन्ते—
शटिः, भाल्लवी, काल्ववी, ताण्ड्यः, वृषाणकः, रुरुः, शमवाहुः, अगस्त्यः, वष्कशिराः, हुहुः, —दशैते मे प्रवचनकर्त्तारः स्वस्ति कुर्व्वन्तु तर्पिताः स्वस्ति कुर्व्वन्तु तर्पिताः इति। तत्र च कौथुमशाखिभिस्ताण्ड्यमेवाधीयते, ताण्ड्यांशभूतानि ताण्ड्यपरिशिष्टभूतानि वा अनुब्राह्मणानि वा अपराण्यपि सप्ताधीयन्तेच; तेषाम्नामानि यथा,— षड्विंशब्राह्मणम्, सामविधिब्राह्मणम्, आर्षेयब्राह्मणम् वंशब्राह्मणम्, देवताध्यायब्राह्मणम्, संहितोपनिषद्ब्राह्मणम्, छान्दोग्यब्राह्मणञ्चेति। अत्र च षड़विंशब्राह्मणस्यान्तप्रपाठकः अद्भुतब्राह्मणोच्यतेतया छान्दोग्यब्राह्मणस्य आद्यप्रपाठकद्वयम् मन्त्रब्राह्मणञ्चाभिधीयते। विशेषतस्तुमहकृते “मन्त्रसञ्जीवनी” नाम मन्त्रब्राह्मणटीकायां द्रष्टव्यम्।
अथर्ववेदस्य त्वेकमेव गोपथं नाम ब्राह्मणमद्य यावदस्माभिर्दृष्टमिति दिक्॥
अथ दृश्यते चैको ग्रन्थो निदानसूत्राभिधः सामवेदीयो दशप्रपाठकः। तत्रादौ‘अथातश्छन्दसां विषयं व्याख्यास्यामः’— इत्यादिभिः सामवेदच्छन्दोग्रन्थान्तर्गतानामृचां छन्दोविषया निर्णीताः, ततः ‘अथातः स्तोभान् व्याख्यास्यामः (१.८.)’— इत्यारभ्य सामवेदीयस्तोभग्रन्थगतस्तोभा निर्णीताः, ततः ‘अथातः सामान्तानां चत्वारो भागाः (१.१२.)’— इत्यारभ्य सामान्तापरपर्यायाणि सामनिधनानि निर्णीतानि, ततो द्वितीयाध्यायारम्भेसामवेदीयोहग्रन्थादिविषया अप्यत्र चिन्तिताः, तत्रैव पञ्चमखण्डादौ ‘अथातो यज्ञस्थानानि (२.५.)’— इत्यारभ्य सामवेदीयकल्पशास्त्राण्युक्तानि, ततस्तृतीये ‘अथायँसन्धिरन्तर्भागं भवति’— इति (३.६.) सामवेदीयमन्त्रेषु व्याकरणविधयश्च सूचिताः, ततः पुनरेव क्रतुविधयो महानाम्न्यादिविधयश्चप्रपञ्चिताः, ततः पञ्चमाध्यायान्तखण्डत्रये “अथातः संवत्सरवर्गाणां पञ्चसंवत्सरवर्गाः”— इति (५. ११-१३) ज्योतिषग्रन्थविषयाःकालादयोऽपि निर्णीताः। ततश्चपुनरासमाप्तिं सामग्रन्थीयव्रतद्वन्द्वादिपर्वविषयाः, बृहद्रथन्तरादिसामविषयाः, सत्राहीनैकाहादिक्रतुसम्पादकबिविधसामादिविषयाश्च विधयः प्रपञ्चिताः। अत्रैव यथाप्रयोजनं निरुक्तं स्वरादिशिक्षाविधानं च क्वचित् क्वचिदुपदिष्टञ्च, परं न तथापि सर्वत्र तत् कृतकृत्यतां प्रतिभाति। नापि निरुक्तोक्तं श्यालशब्दनिर्वचनं सामशब्दनिर्वचनञ्चात्र यथोक्तं पश्यामः; अत इदानीं प्रसङ्गसङ्गत्येदमपि ब्रूमः,— सर्वेषामेव वेदानामेकैकं निदानसूत्रमासीदेवैतर्हि तानि लुपानीव, सन्त्येव वास्मदगोचराणीति।
दितेभ्य एव निरुक्तादीनि वेदाङ्गशास्त्राणि समुद्भूतानि; दृश्यन्ते हे क्षुद्रतमन्यग्रोधवीजादिभ्यः प्ररोहन्तो न्यग्रोधादिमहामहीरुहा मपि; अतएव चास्य शास्त्रस्य प्रथितं नाम निदानसूत्रमिति। निरुक्तकृताप्यसकृदेव प्रमाणत्वेनोपन्यस्तं (६.२.६; ७.३.६.) नैदानाः’— इति। एवं निदानसूत्रे बहुत्रैव अनुब्राह्मणनामकीर्त्तनं च श्रूयते। यथाष्टमप्रपाठकीयतृतीयखण्डे— “षोड़शिनोऽनुब्राह्मणम्”— इति, तत्रैव पुनः “अनुब्राह्मणम्— ‘स्युरेकविंश स्तोमाः’— इति”— इति। पाणिनिश्च सूत्रयामास— “अनुब्राह्मणादेनिः”— इति (४.२.६२.) “तदधीते तद्वेद (पा० ४.२.६९.)”— इत्यधिकारेऽस्य सूत्रस्य पाठादवगम्यत चैष ग्रन्थो वैदिक एवेति। ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम्, तदधीतेऽनुब्राह्मणी’— इति च तत्र दीक्षितवृत्तिः। ब्राह्मणसादृश्याच्चास्य चतुर्वेदीयत्वमपि प्रतीयते, ततस्तत्सङ्ख्याबाहुल्यञ्च सुतरां स्वीकार्यमेव। तत् कि मेतदनुब्राह्मणम्? केन चित् क्वचिदपि दृष्टमेकमपि किं न वेति वर्वर्त्ति महान् संशयः।
अस्मद्गुरुचरणास्त्वत्रैवमुपादिशन्,— ब्राह्मणोक्तानां छन्दोवेध्यादीनां वैशद्याय, तदनूक्तानां दैवतादीनाञ्च कथनायैव तेषामभवदाविर्भावः। ततस्ततोऽपि प्रकृष्टतमेषु समुत्पन्नेषु निदानसूत्रेषु तेषामादराल्पत्वं सञ्जातम्। ततस्ततोऽपि प्रकृष्टतमेषु निरुक्तादिषड़ङ्गग्रन्थेषु ऋष्यनुक्रमण्यादिषु ऋषिनैगेयादिषु चप्रकटितेषु प्रायोऽद्य विलोपदशां गतानि तानि; साम्नां देवतादिख्यापनाय सामवेदीयं निदानसूत्रं सर्वतो नालम्, नाप्यद्यापीतोऽप्युत्कृष्टतरः कश्चन ग्रन्थ आविर्भूतः सामवेदीय इति तद्विषयकान्येव तानि लुप्तावशिष्टानि सन्ति देवताध्यायादीनि
पञ्चेवेति। तत्र देवताध्यायनामानुब्राह्मणे साम्नादेवताःश्रूयन्ते, आर्षेयनामानुब्राह्मणे ऋषयः, वंशनामानुब्राह्मणेसामवेदीयाचार्यवंशाः,संहितोपनिषन्नामानुब्राह्मणे संहितादिविधयः, सामविधिनामानुब्राह्मणे नित्याग्निहोत्राणांरहस्यप्रायश्चित्तादिसाम्नांकाम्येषु प्रयोज्यानां साम्नांच विधानानीति।
सायणाचार्येण तु देवताध्यायादीनामपि ब्राह्मणत्वमेवाख्यातम्। तथाहि ताण्ड्यब्राह्मणादिभाष्यभूमिकादौ— “अष्टौ हि ब्राह्मणग्रन्थाः प्रौढ़ं ब्राह्मणमादिमम्। षड्विंशाख्यं द्वितीयं स्यात् ततः सामविधिर्भवेत्। आर्षेयं देवताध्यायं भवेदुपनिषत्ततः। संहितोपनिषद् वंशो ग्रन्थाअष्टावितीरिताः”— इति। अत्र यदुच्यते प्रौढ़मिति, तदेव ताण्ड्यमिति सामगप्रसिद्धम्; यच्चोच्यते षड्विंशमिति, तस्यैवान्ताध्यायोऽद्भुतमिति कथ्यते; यदुच्यते उपनिषदिति, तदेव छान्दोग्यमिति सामगैर्व्यपदिश्यते। तत्रचाद्यद्वितीयाध्याययोर्मन्त्र इति समाख्याविशेषः तृतीयाद्यासमाप्तानामष्टानाञ्चाध्यायानामुपनिषदिति चेति॥
अत्रास्मद्विश्वासस्त्येवम्,— सायणाचार्यस्तु नासीद् गुरुमुखा दधीतसामविद्यः, ततोऽत्र नैव तद्वचनं प्रमाणं भवितु मर्हतीति; अनुभूयत एव हि सामवेदे तस्यापूर्णाधिगतत्वं प्रतिपदमेव। तथाहि प्रथमं तावत्— सामवेदीयार्च्चिकग्रन्थमात्राणां व्याख्यानेनैन समग्रसामसंहिता व्याख्याता भविष्यतीति विचारयतैव तेनोक्त नेतत् सामभाष्यावतरणिकावसानकाले— “नन्वस्मिन् सामवेदे ब्राह्मणभागस्य व्याख्यातुं योग्यत्वेऽपि मन्त्रभागस्य न व्याख्यानयोग्यतानि”— इत्यारभ्य“ऋचः संहिताग्रन्थेछन्दोनामके समाम्नाताः, ताः सर्वा ऋच आम्नातक्रमेणेह व्याख्यायन्ते”—
इत्यन्तम्। न च तदनुमोदन्ते सामगाः; पदवाक्यस्तोभादियुक्तानां हि साम्नांभवत्येवार्थान्तरता, तदर्थज्ञानाय च सामग्रन्थव्याख्यानस्याप्यतितरां कर्त्तव्यत्वात्। सामातिरिक्ताश्चमन्त्रा न हि सर्व एव निःशेषेण छन्दोग्रन्थे श्रुताः, यत् तेषामेव व्याख्यानेन भवेयुर्व्याख्याताः सर्व एव ते; गानग्रन्थेष्वप्यारण्यके आक्रन्दयेत्यस्या ऋचः, स्तोभग्रन्थे आयुर्विश्वायुरित्यादीनां यजुषां च श्रूयमाणत्वात्। तदेतस्माच्च स्फुट मवगम्यते, नाधिगतास्तेन गानस्तोभादिसामग्रन्थाः; अपि तु मीमांसादिशास्त्रत एवावगता तेषां विद्यमानतेति द्वितीयम्। तत्रैवोक्तमपरमपि— “न च तासां (ऋचाम्) क्रतुषु स्वातन्त्र्येण विनियोगोऽस्ति”— इति। तदपि भ्रमविजृम्भितमेव; ऋङ्मयानामपि तृवृदादिस्तोमानां क्रतुषु विनियोगदर्शनादिति तृतीयम्। यच्चोक्तम्— “तासा मृचां क्रमव्यत्यासेन बह्वृचैरप्यधीयमानत्वात्तदीयानुक्रमणिकोक्तानि ऋष्यादीनेवात्रानुसन्धेयानि”— इति, तदपि तस्यैकदेशदर्शित्वमेवावेदयति; बह्वृगनधीतानामप्यृचामिह विद्यमानत्वात्, सामवेदीयर्च्चा मृष्यादिपरिज्ञानाय नैगेयनामग्रन्थानां प्रामाण्यतरत्वाच्च; सन्ति चानेकत्र मतभेदाः अनुक्रमणीनैगेयशास्त्रयोरिति चतुर्थम्।
तत्रैवानुपदमुक्तम्— “काण्डत्रयात्मको योयं छन्दोनामकः संहिताग्रन्थः”— इति, तदप्यसङ्गतमेव; सामवेदे— सामसंहितासु, आर्चिकसंहितासु, ब्राह्मणेषु वा न क्वापि हि तैत्तिरीयादाविव काण्डविभागो दृश्यते; अपि तु सर्वास्वेव संहितासु पर्वेति, ब्राह्मणेषु तु पञ्चिकेति च। तदत्र पर्वत्रयात्मक इति वक्तव्ये यदुक्तंकाण्डत्रयात्मक इति, तेन व्यज्यते तस्य तैत्तिरीयादावेव कृतबहुश्रमत्वमिति पञ्चमम्। एवं तत्रैवोत्तरत्र सर्वत्रैव ‘प्रथमे
दशति’— इत्यादि वक्तव्ये“प्रथमे खण्डे”— इत्याद्युक्तमिति षष्ठम्।
किं बहुना एतस्माच्च भाष्यसमालोचनादिदमेव प्रतीयते,— स ह्यात्मनः खलु सर्ववेदभाष्यकर्तृत्वप्रतिपादनायैव अनधीताया अपि सामसंहिताया व्याख्याने प्रवृत्तःप्रायःस्वकृतात् ऋग्वेदभाष्यादेव यथायथं व्याख्यानान्युद्धृत्य प्रथमेनैव अमंस्त सम्पन्नंसामभाष्यञ्चेति। वस्तुतो नैव तदेतद् वालक्रीड़नमिव भाष्यं सामभाष्यमिति मन्यते सामगः कोऽपि। यच्च तस्माद्गम्यते, तत्तु लभ्यत एव हि ऋग्भाष्यत एव; यत्तु न लभ्यते ऋग्भाष्ये, तत्तावन्नास्ति च तत्रापीति किङ्कृत मेतेन सामभाष्येणेति।
तत्त्वतः खलु श्रीमान् सायणाचार्यों ह्यासीदधीततैत्तिरीयः, ततस्तद्विषयकज्ञानमेव तस्य सञ्जातमुपदेशानुरूपम्, वर्द्धितञ्च, तत् स्वातिबुद्ध्यनुगतविशेषपरिशीलनादिभिः; अत एव तद्भाष्यं नूनमादरणीयतमंसम्पन्नम्; अध्वर्युवेदविदामृग्वेदवित्त्वमपि न दुरापमिति ऋग्भाष्यमपि सम्पन्नमेवादरणीयतरम्; ऋग्यजुषोर्व्याख्यातुस्तु ऋग्यजुमयस्यैवाथर्ववेदस्यापि व्याख्यानं न सुदुष्करमिति तस्यापि भाष्यस्य सम्भवत्येवादरणीयता; परं सामवेदस्तु गुरुमुखादनधीतो नैव भवेदुच्चार्य्योऽपि तद्वोधस्तु दूरपराहत एव। सामसंहिताया भाष्ये कर्त्तव्ये— ‘हुप् हुप्’, ‘वि वि’, ‘वं वम्’— इत्यादिपदस्तोभयुक्तानां साम्नांव्याख्यानानि कर्त्तव्यानि; “आयुर्विश्वायुर्विश्वम्”— इत्यादियजुर्मात्राश्रितानां साम्नाञ्च व्याख्यानानि प्रदर्शयितव्यानि; सर्वत्रैव सामसु मूलतःस्वरवर्णमात्रादिपरिवर्त्तनकारणानि यथायथं प्रदर्शयितव्यानि; कस्यांयोनौकति सामानि किंस्वरूपाणि च तानि परिचाय्यानि; साम्नां सर्वेषामेव यथायथं नामानि सप्रमाणानि दर्शयितव्यानि;
तद्योनीनाञ्चनामानि छन्दआदीनि चोपदेष्टव्यानि; साम्नांदेवतादय यथायथंविज्ञाप्याः; यत्र यत्र सामसु स्तोभोऽपि गीयते, तत्र तत्र ऋक्स्तोभयोः समावेशनियमादिकञ्च ज्ञाप्यं तत्तद्विधानानुसारतः; प्रगाथग्रथनमपि यथास्थानं वर्णयितव्यम्; ऋचाम् स्तोमानाम्, स्तोभानाम्, साम्नाञ्चविनियोगादयः सर्वत्र ब्राह्मणंसूत्रञ्च प्रदर्श्यैव वक्तव्याः; साम्नांप्रतिहारादिभागोपदेशाश्चसर्वत्रवर्णयितव्याः; तत्रस्तोत्रियानुरूपाणां निधनविचाराश्च विशेषतः प्रदर्शनीयाः; १, २, ३, ४, ५, ६, ७, ८, र, उ, स्व, क, ्र,—,ऽ, इमानि च व्याख्येयानि; मन्त्रमध्यगतानाञ्च२३४५, २३२, १२१, ११११/२३४५— इत्यादीनामर्थाश्चबोधयितव्याः; प्रतिसामान्ते च यदस्ति कु धू ध्म इत्यादयः, तेषामर्थाश्चविज्ञाप्या एव; अपरयोनिषु चापरसामोत्पत्तिप्रभृतयश्चोदाहार्य्याः; सामोपासनादयप्रश्च भाषितव्या इत्यलं प्रासङ्गिकेनेति।
प्रकृतेत्विदमेव वक्तव्यम्— आर्षेयादिग्रन्थानां ब्राह्मणत्वमनुब्राह्मणत्वं वास्तु, गृह्यन्त एवाद्यतान्यपि ब्राह्मणमित्येव; मन्त्रब्राह्मणयोरेव वेदनामधेयत्वपर्यवसानात्;अस्ति च तेषां वेद इति व्यवहारोऽद्यतानां वैदिकानामिति। तदेवं ब्राह्मणानाम् (विधायकतदुपयोजकानाम्), अर्थवादानाम् (वेदाङ्गमीमांसा-पुराणेतिहासवीजरूपाणाम्), अनुब्राह्मणारनां(ब्राह्मणसदृशानाम्) चेति त्रयाणामेवेदानीं साधारणं नाम सम्पन्नंब्राह्मणमिति॥
अथात्रमन्त्रब्राह्मणनिर्णयप्रसङ्गादारण्यकोपनिषदोरपि किञ्चिद् ब्रूमः;— श्रूयते ह्यारण्यकनामा च वेदभागः। सचैकाध्यायात्मक एवेति केचित्। ब्राह्मणभागपरिशिष्टरूपमेव तदारण्यकमिति च केचित्। पाणिनीयतः पुरा नैवासीत् किञ्चिदारण्य-
कन्नामेत्यपि केचित्। तदेतत् सर्वमेव वेदानां मुमूर्षुदशात्वमेवावेदयति। हन्त! यदि ह्यद्य“स्वाध्यायोऽध्येतव्यः”— इत्यादिश्रुतेरादरः कार्यतो दृश्येत, यदि ह्यद्य “वेदःकत्स्नोऽधिगन्तव्यः”— इत्यादिस्मृतेश्चादरः कार्यतो वृत्येत, तर्हि सर्वैरवश्यमेतत्तु ज्ञातमेव स्यादारण्यकं न त्वध्यायात्मकमेव;— नापि ब्राह्मणान्त्यभागरूपमेव;— आसीच्च पाणिनीयतो बहुप्रागपीति। तथाहि— बहूनामेवारण्यकग्रन्थाना मध्यायपरिगणनादेव ज्ञायते, नारण्यकग्रन्थोऽध्यायमात्र एवेति। यदि हि “पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वक्तव्यम्”—इत्येतद्वार्त्तिकभाष्ये “आरण्यकोऽध्यायः”— इत्येकवचनान्तोदाहरणदर्शनादेवारण्यकग्रन्थाना मेकाध्यायात्मत्वमेव मन्तव्यं स्यात्, तर्हि तत्रैव “आरण्यकः पन्याः ०—० आरण्यको न्यायः, आरण्यको विहारः, आरण्यको मनुष्यः, आरण्यको हस्ती”— इत्येकवचनान्तोदाहरणानां दर्शनाच्चआरण्यक-पथ-न्याय-विहार-मनुष्य-हस्तिनां चैकैकत्वमेवावधार्यंस्यात्; न च तथावधार्यते केनचिदपि प्रकृतिस्थेन। तदेवं यथैव लोके पन्थानः, न्यायाः, विहाराः,मनुष्याः, हस्तिनश्च बहवः एव सन्त्येव आरण्यकाः, तथैव वेदे अध्याया अपि बहवः सन्त्येवारण्यकाः; तथा सामवेदस्य छन्दोनामार्च्चिकमध्ये सामसंहिताग्रन्थेषु च सामारण्यकदर्शनादेव स्फुटमवगम्यते, नारण्यकग्रन्थो ब्राह्मणे एवोवनिबद्धो, नापि परिशिष्टरूप एवेति; सामारण्यकमन्त्राणां हि सामसंहितामध्यस्थत्वेन तत्र न कस्यापि विरुद्धवाक्प्रसृतिसम्भवः, तेषां परिशिष्टता माशङ्कितुमपि न भवेत् कोऽपि सक्षमः। “अरण्यान्मनुष्ये”— इति (४.२.१२९.) पाणिनीयसूत्रेणआरण्यको मनुष्य इत्येव सिद्ध्यति; न तु आरण्यकः
पन्थाः, आरण्यकोऽध्यायः इत्यादीनि पदानि; अतोऽत्र तेषांसाधनाय “पथ्यध्याय”— इत्यादिकं वार्त्तिकमपाठि कात्यायनेन; एवञ्चोपपद्यते नासीत् पाणिनिकाले आरण्यकोऽध्याय इति; सति हि तस्मिन् कथं न साधितस्तादृशार्यवरेणापीदृश आर्यप्रयोगः?— इति चेत्, अत्रेदं ब्रूमः— आसीत् तदाप्यारण्यकोऽवश्यमेव; सामसंहिता मध्यभागीयत्वादिनारण्यकस्यापि मन्त्रब्राह्मणात्मकत्वादेवातिप्राचीनत्वावधारणात्; परं पाणिनिकाले नासीत् तथाविधमन्त्राणां ब्राह्मणानाञ्चारण्यकमिति व्यवहारः; अपि तु मन्त्रात्मकारण्यकानां मन्त्रत्वेनैव ब्राह्मणात्मकानान्तु ब्राह्मणत्वेनैत्येव सम्भाव्यते। भगवतः पाणिनेः तादृशप्रयोगासाधने तद्वाच्यपदार्थानां तात्कालिकोऽभाव एव कारणमिति तु वक्तुं नैव युज्यते; तथावादिनां हि पाणिनिकाले आरण्यकाः पन्थानोऽपि नासन्,— आरण्यकाहस्तिनोऽपि नासन्— अरण्येषु गावः पुरीषमपि नोदसृजन्—महद्धिम मपि नासीत्,— महदरण्यमपि नासीदेवेत्यादीनि च गलेकुठारन्यायेन स्वीकार्याण्येव; पथ्यध्यायेति वार्त्तिकेन न हि अध्यायवाचक एवैक आरण्यकः प्रयोगः साधितः, नापि कात्यायनेन तथाविधमेक मेव वार्त्तिकं विरचितमित्यपि स्मर्त्तव्यमेवेति॥
केचित्तु “सामध्वनावृग्यजुषी नाधीयीत कदाचन। वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च (४.१२३.)”— इत्यत्र मनुवचने ऋग्यजुस्सामभ्यः पृथगेवारण्यकोल्लेखदर्शनाच्च नास्त्यारण्यकस्य त्रयीत्वमित्याहुः, तदपि न साधीयः; ब्राह्मणात्मकारण्यकस्यापि बोधनार्थमेव तत्र तथोक्तत्वात्। तथा हि तस्य च मनुश्लोकस्यायमर्थः,— ‘सामध्वनौ’सामगानानन्तरम् ‘ऋग्यजुषी’
ऋचःयजूंषि वा ‘कदाचन न अधीयीत’; न हि सप्तस्वराद्यन्वितगानानन्तरं त्रैस्वर्यादिश्रुतिर्मधुरा भवेत्, नापि ह्युद्गाता स्वकण्ठतः सप्तस्वराध्यवतीर्य तदानी मेव त्रैस्वर्यं काशितुं समर्थः स्यादिति तादृशयत्रएवासत्फलोऽतम्तथा यतनमेव प्रतिषिध्यते। किञ्च ‘वेदस्यअन्तम् आरण्यकम् अधीत्य’ अपि ऋचो यजूंषि वा मन्त्रान् न अधीयीत; तादृशारण्यकाध्ययनत एवाध्येतुः श्रोतॄणाञ्च मनसां ब्रह्मगत्वेन परितृप्तत्वात् ततोऽपि ऋङ्मन्त्रयजुर्मन्त्रयोः पाठो निषिद्धः; न हि पूर्णोदरस्यामृतेऽपि रुचिसम्भवः। अत्र च वेदस्य अन्तमारण्यकमित्युक्तया नूनमैतरेयकतैत्तिरीयकबृहदारण्यकादीनामेव ग्रहणं बोध्यम्, तेषामेव ब्राह्मणात्मकवेदस्यान्तावयवत्वात्; सामारण्यकमन्त्राणान्तु मन्त्रभागमध्यस्थितत्वेन वेदस्यान्तरूपत्वाभावादिहाग्रहणमेव; परं पूवार्द्धेसामध्वनावित्युक्तैव तद्ग्रहणंसम्पन्नमिति सामारण्यकाध्ययनात् पर मपि ऋग्यजुर्लक्षणान् मन्त्रान् नाधीयीतेत्येव। एवञ्चवेदेषु श्रुताना मारण्यकानान्तु वेदत्वं तदनुगतप्राचीनतमत्वञ्चाक्षतमेव; प्रत्यक्षस्य बाधाभावात्।
ऐतरेयकपञ्चमारण्यकादीनान्त्यवेदत्वं सर्ववादिसम्मतमेव। तयाह्याह सर्ववेदभाष्यकारःसायणाचार्यःस्वयम्— “महाव्रतस्य पञ्चविंशतिमित्यादि पञ्चमारण्यकंसूत्रमेव;अरण्ये एवैतदध्येयमित्यभिप्रेत्याध्येतार आरण्यकाण्डेऽन्तर्भाव्याधीयते”—इत्येवमादि। तदित्थं यथा मन्त्रभागे सन्त्येव खिलरूपाः श्रीसूक्ताद्यात्मकमन्तराः,परं न च ते सम्मिलिता मन्त्रभागावयवत्वेन; तथैव ब्राह्मणभागेऽपि सन्त्येव पञ्चमारण्यकादीनि च, परं नैव तानि सम्मिलितानि ब्राह्मणभागावयवत्वेनेति। तत् तादृशीनां
मा भूत् वेदत्वं प्राचीनतमत्वञ्चेति; तदन्यासान्तु वेदात्मकारण्यकोपनिषदां वेदत्वं तथा प्राचीनतमत्वञ्चापह्नोतुं न कोऽपि क्षमतेति सर्वैः स्वीकार्यम्॥
एवं पाणिनिसूत्रेषु क्वापि वेदांशवाचकत्वेन उपनिषच्छब्दस्य प्रयोगादर्शनात् पापिनीयतः पूर्वमुपनिषदो नासन्नित्यप्याहुःकेचिदाधुनिकाः, तदप्यस्माकमतिविस्मयकरमेव; संहितासु पञ्चस्वेव, ब्राह्मणेषु च बहुषु विकीर्णरूपत्वेन बहूना मेवोपनिषल्लक्षणवचनानामीशावास्य मित्येवमादीनाम्, उपनिषदिति ब्राह्मणग्रन्थेषु प्रसिद्धानाञ्च प्रत्यक्षदर्शनात्। भगवता पाणिनिना उपनिषत्पदसाधनाय विशेषः कश्चन प्रयत्नोनोद्भावित इत्येव उपनिषदामाधुनिकत्वे वीजमिति त्वक्षिमतामप्यक्षिषु धूलिनिक्षेपणाय यत्न इव। न हि सर्वतोमुखसूत्रकारेणाचार्य्येण प्रतिपदसाधनायैव विभिन्नं सूत्रंकार्यम्। तथाच साधारणनियमत एव सिद्धेह्युपनिषच्छब्दे विशेषवक्तव्याभावादेव न कृतंसूत्रान्तरमिति सुवचमेवात्र समाधानम्।
“अणृगयनादिभ्यः”— इति (४.३.७३.) सूत्रीये ऋगयनादिगणे“वेतनादिभ्यो जीवति”— इति (४.४.१२.) सूत्रीये च वेतनादिगणे उपनिषच्छब्दस्य पाठोऽपि दृश्यते। इदानीम्प्रचलितस्यास्य गणपाठस्यापाणिनीयत्वस्वीकारेऽपि आसीच्च पूर्वं कश्चनैवं गणपाठोऽपीत्यवश्यं स्वीकार्यमेव; अन्यथा हि “ऋगयनादिभ्यः”— “वेतनादिभ्यः”— इत्यादिषु सर्वत्रैव आदिशब्दव्यवहार एवाचार्यस्य व्यर्थतामापद्येत। स्वीकृते तु तस्मिन् प्राचीनगणपाठे नासीदेवोपनिषच्छब्द इत्यत्रमानाभावादुपनिषदामाधुनिकत्वपक्षः स्यान्नूनंन्निस्महायः। ऋगयनादीनामाकृति-
गणत्वस्वीकारेऽपि पाणिनेरुपनिषच्छब्दाज्ञानं न सिध्यति; विनिगमनाविरहात्। सति हि पाणिनेरुपनिषज्ज्ञाने “वेतनादिभ्यः”— इत्येवं नोक्त्वा“उपनिषदादिभ्यः”— इत्येव ब्रूयादिति तु कुतर्क एवं; तथोक्ते हि पाणिनेर्वेतनज्ञानं नासीदित्यपि उच्येतैवेति तुल्यो न्यायः।
किञ्च वेदांशवाचकोपनिषच्छब्दोच्चारणं पाणिनिना न क्वचिदपि कृत मित्यत एवोपनिषदां पाणिनीयपरभवत्वमनुमीयेत चेत्,— कात्यायनेनापि तथा नोच्चारितम्, पतञ्जलिनापि तथा नोच्चारितमिति वार्त्तिकपाठात् महाभाष्याच्चपरभवत्वं तासामबाधमेव; किं बहुनाद्यतनीयेऽपि क्वचित् व्याकरणे न दृश्यते उपनिषत्साधनाय यत्नविशेष इति नाद्यापि काचिदुपनिषदाविर्भूतेत्यपि वक्तुं युज्येतैव। अथेदृशेऽपि वचने यदि कश्चित् श्रद्दधीत, तर्हि तादृशवचनेऽपि ते श्रद्धांविधत्तामित्येवास्माकम्।
वस्तुतस्तु इदानीं यावन्त्य उपनिषदः प्रथिता दृश्यन्ते, न च ताः सर्वा एव वेदोपनिषदः; प्रत्युत तत्र सन्त्येव कतिपया वेदविद्भिर्वेदार्थतत्त्वोपदेशायैव स्वशिष्येभ्य उपदिष्टाः, उपनिषत्-तुल्या इति उपनिषदिति गृहीताश्च शिष्टैः; रामतापन्यादयो ग्रन्थास्तु कैश्चिदर्वाचीनैरेव स्वसम्प्रदायमर्यादावृद्धये प्रणीताः, तासामप्युपनिषत्त्वं तु मन्यन्ते तन्मातानुगता एव; अल्लेत्यादयस्तु सर्वथा अग्राह्याएव; परं यास्तु मन्त्ररूपा ब्राह्मणरूपाश्च, ताः खलु पाणिनेर्जन्मतो बहु प्रागपि स्थिता इति ध्रुवम्; अपि वेदविदामुपदेशरूपाश्च याः काश्चिदुपनिषत्तुल्याउपनिषदित्येव प्रसिद्धाः, तासां बह्व्योऽप्यासन्नेव पाणिनीयतोऽपि पूर्वम्; नास्त्यत्र सन्देहलेशोऽपि। इह युक्तीश्चतिस्रोऽवलोकयामः। तथाहि—
(१) अस्त्येकं सूत्रंपाणिनीयम्— “जीविकोपनिषदावौ-
पम्ये”— इति (१.४.७९.)। अनेन च सूत्रेण औपम्ये गम्यमाने एव जीविकोपनिषच्छब्दयोर्गतिसञ्ज्ञा विधीयते, सत्याञ्च गतिसञ्ज्ञायां “कुगतिप्रादयः”— इति (२.२.१८.) समासो भवति, “समासेऽनञ्पूर्वे क्तो ल्यप्”— इति (७.१.३७.) ल्यब्भावश्च तादृशसमासफलमिति चोदाहृतम्—‘जीविकाम् इव कृत्वा’— इति विग्रहे ‘जीविकाकृत्य’— इति, ‘उपनिषदम् इव कृत्वा’— इति विग्रहे ‘उपनिषत्कृत्य’—इति चेति पदद्वयं वैयाकरणसिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन। तदित्थम् ‘उपनिषत्कृत्य’— इत्यस्य पदस्य ‘उपनिषद्ग्रन्थतुल्यग्रन्थकरणानन्तरम्’— इत्येवार्थःसर्ववैयाकरणसम्मतः। तदेवं पाणिनेः प्राचीनतमोपनिषद्विषयकं ज्ञान मासीन्न वेति विचारस्तु दूरे आस्ताम्,— रचनया विषयेण तात्पर्येण च ये ग्रन्था उपनिषत्तुल्याः कृताः पाणिनिपूर्वतनैर्वेदोपनिषद्विद्भिः,तेषामुपपनिषत्तुल्यानामपि बोध आसीत्तस्येत्यपि स्फुटम्। सिद्धमित्थंकासाञ्चित् कृत्रिमोपनिषदामप्यस्तित्वं पाणिनिकालात् पूर्वस्मिन्नपीति, तदत्रकः सन्देहस्तदानींप्रकृतोपनिषदामस्तित्वे इति विचारयन्तु धीमन्त एव।
(२) अस्ति चैतत् सूत्रम्— “पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः”— इति (४.३.११०)। एतच्च पाणिनिनैव कृतमिति मन्तव्यं चेत्, अवश्यमेवैतत्कर्त्तुःपाणिनेः भिक्षुसूत्रास्तित्वज्ञाने सन्देहाभावःस्वीकार्य एव; स च सूत्रग्रन्थो वेदान्तदर्शनवीजभूतः, उपनिषद एव च तच्छरणमित्युपनिषद्विषयकज्ञानमपि पाणिनेरवश्यमेव स्थितमिति सुतरां प्रतीयत एव।
(३) ये तु निरुक्तकारस्य यास्कस्य पाणिनिपूर्वजत्वं स्वीकुर्वन्ति, तेषां प्रबोधायेदमपि स्मारयामः— “यत्रासुपर्ण्णाअमृ-
तस्य”— इति (ऋ० स०१.१६४.२१.) मन्त्रस्याधिदैवतव्याख्यानपक्षेऽब्रवीद्यास्कः— “इत्युपनिषद्वर्णो भवति”— इति (३.२.६.)। “ज्ञानमुपगतस्य सतो गर्भजन्मजरामृत्ययो निश्चयेन सीदन्ति, सा रहस्यं विद्या उपनिषदित्युच्यते; उपनिषद्भावेन वर्ण्यत इति उपनिषद्वर्ण इत्यधिदैवतम्”— इति च तदीयं भाष्यं दुर्गाचार्यकृतम्। अथैतर्हि तेऽपि ब्रुवन्तु पाणिनिपूर्वजस्य यास्कस्याप्युपनिषज्ज्ञानमासीच्चेत्, कथन्न तत्परजस्य पाणिनेरुपनिषज्ज्ञानमिति?
तदेवमेतत्समालोचने प्रवृत्तानामस्माक मेव मेव बोधःसम्पद्यते— ये केचनोपनिषदां पाणिनीयतोऽप्यर्वाचीनत्वं निरनयन् ते नूनं “जीविकोपनिषदावौपम्ये”— इति पाणिनिसूत्रस्यप्रकृत मर्थंनाविदन्, भिक्षुसूत्रग्रन्थोऽपि तेषां न कदापि दृग्गोचरतां गतः, प्रदर्शितं यास्कीयवचनञ्च तदानीं तन्मनःसु नोदितमित्येव ते तथा निर्णेतुमभवन् समर्था इति शम्॥
— — —
(१०)
अथेदानी मेषोऽपि प्रश्नः स्वतः समुदेति नाम,— तस्यैतस्य वेदस्योत्पत्तिकालनिर्णयःशक्योऽशक्यो वास्माकमिति। कथन्नाम शक्यः?कथं वा अशक्यः? तदेवेह समासतश्चिन्तयाम इति यावत्।
पश्याम एव तावत्— प्राचीनानां कालिदासादिग्रन्थानामपि कालाः सुनिर्णीता इव, अतिप्राचीनानां भूगर्भोत्थिताना
मपि शिलास्तम्भादीनां भवत्येव कालनिर्णयः; वेदकालनिर्णये च केचिद्धीमन्तोऽपि यतितवन्त एवेति; तत एवैवमुत्पद्यतेऽस्माकमप्येवाशा, शक्योऽस्य कालनिर्णय इति। यदा तु स्मरामः,—अपौरुषेयोऽयमिति सिद्धान्तो मीमांसकानाम्; यदा चाध्यापयामः,— नित्या वागुत्सृष्टा स्वयम्भुवा”— इति, “अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम्। दुदोह यज्ञसिद्ध्यर्थ मृगृजुःसामलक्षणम्”— इति, “वेदशब्देभ्य एवादौपृथक् संस्थाश्चनिर्ममे”— इत्येवमादीनि च स्मृतिवचनानि, तदैव तत्र हताशाःसम्पद्यामहे; अकृतकत्वादेवैतस्य। कृतकत्वेऽपि मनुष्यनिर्मितत्त्वाभावेन वाय्वादितुल्यत्वे नैव फलमनुसन्धानस्य। मनुष्यनिर्मितत्वेऽप्यनद्ययुगीयत्वेन प्रणेतृव्यक्तिनिर्णयसम्भावनाविरहात् स्यादशक्य एवैतत्कालनिर्णय इति॥
एष स्वल्वार्याणामादिधर्मग्रन्थः; धर्मग्रन्थानां प्रायः सर्वेषामेवोत्पत्तौकश्चनकश्चनालौकिकःप्रवादो विद्यत एव; अस्योत्पत्तिविषयेऽपि तथैवैषः,— ‘न केनचिदपि पुरुषेण प्रणीती वेदः’— इति। मीमांसकानां कर्मशक्त्यनुगतफललाभवादिनामीश्वरविचारोऽप्यप्रयोजनीयः, परं वेदानां सर्वथानादित्वप्रतिपादने एव महान् यत्नः। तथाहि— “वेदांश्चैकेसन्निकर्षं पुरुषाख्याः, अनित्यदर्शनाच्च”— इति सूत्रद्वयाभ्यां पूर्वपक्षंनिर्म्माय सिद्धान्तितमुत्तरसूत्रचतुष्टयेन— “उक्तन्तु शब्दपूर्वत्वम्, आख्याप्रवचनात्, परन्तु श्रुतिसामान्यमात्रम्, कृते वा विनियोगः स्यात् कर्मणःसम्बन्धात्”— इति मी० द० जै० सू० १.१.२९-३२। एतान्येव सूत्राण्यवलम्ब्य बहु विचारितं शास्त्रदीपिकादौ, तथा निर्णीतन्तु वेदानामकृतकत्वमेव।
भगवता वादरायणेन तु वेदस्य ब्रह्मकार्यत्वं सूत्रितम्— “शः स्त्रयोनित्वात्”— इति (१.१.३.)। ऋग्वेदादिशास्त्रकारणत्वाद् ब्रह्म सर्वज्ञमिति हि तत्सूत्राशयः। एतावताप्यपौरुषेयत्वं वाय्वादितुल्यत्वञ्च नापगतं वेदस्य; मनुष्यनिर्मितत्ताभावात्। फलञ्च तुल्यं तत्कालनिर्णयाय अनुसन्धानाननुसन्धानयोः; न हि मनुष्यनिर्मितातिरिक्तेषु कालनिर्णयसम्भवः, ततस्तत्रनैव वाचःप्रसरन्ति प्रेक्षावतां विपश्चिताम्। को नाम मर्त्त्योनिर्णेतुं सक्षमः, कदैषाभवत् सृष्टिः? आदिसृष्टेर्वर्णनन्तु स्वस्वकल्पनाशक्तेः परिचयदानमात्रम्। पृथिव्याः अन्तस्तरादिदर्शनात् पृथिवीसृष्टिकालकथनमपि धीशक्तेः परिचयदानमेव। पुराणोक्तस्सृष्टिकथाश्च नैकरूपाः स्मर्यन्ते, अतस्ताःकल्पनाप्रसूता एव; अस्तु वा कल्पभेदेन तत्र विरुद्धभाषणमीमांसा, न तथापि सृष्टेरादिकालनिर्णयः सम्भवेत्। ब्राह्मणादिश्रुतेश्चसृष्टितत्त्वमीमांसा असम्भाव्यैव; वेदार्थसहायके मीमांसादर्शने हि तादृश सृष्टिप्रतिपादकाद्याख्यायिकावाक्यानां काल्पनिकत्वनिर्णयात्। तथाहि— “बबरःप्रावाहणिरकामत”— इत्येवमादिषु श्रुतिषु बबरादीनामनित्यार्थानां संयोगात् वेदस्याधुनिकत्वमाशङ्क्यसिद्धान्तितमेतत्— “न तु तत्रानित्यो बबराख्यः कश्चित् पुरुषो विवक्षितः, किन्तु बबर इति शब्दानुकृतिः; तथा सति बबरेति शब्दं कुर्वन् वायुरभिधीयते; स च प्रावाहणिः,प्रकर्षेण वहनशीलः। एव मन्यत्राप्यूहनीयम्”— इति(मी० जै० सू० १.२. ५० शा० भा०)। निरुक्तकारेण भगवता यास्केन तु “बहुभक्तिवादीनि हि ब्राह्मणानि भवन्ति”— इत्युक्त्या (७.७.२.) तादृशानां निखिलब्राह्मणवचनाना मनादरः सूचितः। वस्तुतो वैदिकसृष्टिविवरणानि तु प्रायो
रूपकाण्येवेति नालमैतिहासिकतोषायेति। तदेवमादिसृष्टिकालनिर्णयो न कदापि भूतो भवति भविष्यति वेति सिद्धान्तः। अतएव श्रूयते (ऋ० स० १०.१७३.४.)—
“ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासःपर्वता इमे।
ध्रुवं विश्व मिदं जगद् ध्रुवो राजा विशा मयम्”— इति।
आम्नातश्चैष मन्त्रस्तत्रैव दाशतय्याम् (१.१६४.४.)—
“को ददर्श प्रथमं जायमान मस्थन्वन्तं यदनस्था बिभर्त्ति।
भूम्या असुरसृगात्मा क्वस्वित् को विद्वांस मुपगात् प्रष्टुमेतत्”—इति।
स्मर्यन्ते च—“सिद्धेशब्दार्थसम्बन्धे (का० वा० १.)”–इत्यादयः,सिद्धाद्यौःसिद्धापृथिवी, सिद्धमाकाशम् (पा० भा० १.१.१.)”– इत्येवमादयश्च। सिद्धशब्दस्य चेह नित्यार्थता; तथा ह्याहपस्पशायां भगवान् पतञ्जलिः—“नित्यपर्यायवाची सिद्धशब्दः”— इति। वेदस्यापि तथात्वे तत्कालनिर्णयमनोरथद्रुमो भवेञ्चपलाहत एवेति।
यास्केन त्वत्रैष प्रदर्शितः पुरावादः— “साक्षात्कृतधर्माण ऋषयो बभूवुः, तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्यः उपदेशेन मन्त्रान्तसम्प्रादुः, उपदेशेन ग्लायन्तोऽवरे विल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं च वेदाङ्गानि च”— इति (१.६.५.)। इतस्तु वेदाना माम्नातत्वेऽप्यार्षत्वमेव सिध्यति। ऋषयश्च तेऽस्मत्पूर्वपुरुषा मनुष्या एवेति नष्टमेवापौरुषेयत्वं वेदस्य। परग्त्वेव मप्यशक्यनिर्णेयतैव वेदकालस्य; आम्नानकृतयोर्मिथो विभिन्नार्थत्वात्। आम्नात इत्युक्ते न ज्ञायते कृत इति, अपि बुद्ध्यतेअभ्यस्त इत्येव; अभ्यासे एव म्नातेरुपदेशात् (धा० भ्वा० प० ९२९.)। एवं ह्यभ्यासस्तु पूर्वस्थितानामेव भवति; न तु क्रियमाणानाम्। अतएव वाम-
देव्यादीनि सामानि वामदेवादिभिर्दृष्टान्येवोच्यन्ते, न तु कृतानीति। तदेवमस्यपौरुपेयत्वेऽपि नास्मादृशपुरुषकृतत्वमिति आप्तवाक्यत्व मव्याहतम्। अतएव वैशेषिक-न्याय-साङ्ख्य-पातञ्जलेषु वेदस्य प्रामाण्यंस्वीकृत मपि नोक्त मकर्तृक एष इति, नाप्युक्त मीश्वरकृत इति च; अपि त्वाप्तैः ऋषिभिरेवैषः कृत इत्येव सर्वत्र। तथाहि— “बुद्धिपूर्वा वाक्यकृतिर्वेदे, ब्राह्मणे सञ्ज्ञाकर्मसिद्धिलिङ्गम्”—इति (६.१.१,२.), “आर्षंसिद्धदर्शनञ्च धर्मेभ्यः”— इति (९.२.१३.), “तद्वचनादाम्नायस्य प्रामाण्यम् (१०.२१०)”—इत्येवमादि च वैशेषिके। एव मन्येषु च।
एवं “विश्वामित्र ऋषिः ०—०नदीस्तुष्टाव गाधा भवतेति”—इति (२.७.२), “ऋषिपुत्र्याविलपितं वेदयन्ते”—इति (५.१.२.), “गृत्समद मर्थ मभ्युत्थितं कपिञ्जलोऽभिववाशे, तदभिवादिन्येषर्ग् भवति (९.१.४.)”— इत्येवमादिषु यास्कवचनेषु चोपलभ्यते तत्तन्मन्त्राणा मृषिकृतत्व मेव। “सर्प ऋषिर्मन्त्रकृत(ऐ० ब्रा० ६.१.१.)”— इत्यादिब्राह्मणवाक्येभ्यश्च तथैवावगम्यते मन्त्राणा मृषिकतत्वम्।
वस्तुतो मन्त्रार्थालोचनतोऽपि व्यक्तं प्रतीयते ह्येषां धीमत्पुरुषकृतत्वमेव; केषुचिन्मन्त्रेष्वप्येषां बहुपुरुषकृतत्वञ्च ध्वन्यते। तद्यथा ऋ० स० १०.७१.२—
“सक्तु मिव तितउना पुनन्तो यत्र धीरा मनसा वाच मक्रत।
अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि”— इति।
एवाञ्चास्मत्पुर्वपुरुषैर्ऋषिभिरेव कृत एष वेदमन्त्रभागोऽपीति ध्रुवम्।
एव मप्येषां कालनिर्णयस्त्वशक्य एव;अनद्ययुगीयत्यात्। तथाहि— एतद्युगप्रथमसहस्राब्द्या मेव जातः पाणिनिराचार्य
इति तु सिद्धान्तितम् (११० पृ०); ततोऽपि पूर्वतनाःक्रमकारा बाभ्राव्यादयः; ततोऽपि पूर्वतनाःपदकाराःशाकल्यादयः; ततोऽपि पूर्वतना ऋक्तन्त्रादिप्रणेतारः शाकटायनादयः; ततोऽपि पूर्वतनानवयुगारम्भजन्मानो लाट्यायनादयः कल्पसूत्रकाराः (तदानीमेव नवकल्पारम्भ इत्येव तत्कालकृता ग्रन्थाः कल्पा इत्युच्यन्त इति च नासम्भवम्)। एतद्युगारम्भात् पुरैव प्रणीतानि कुसुरुविन्दादिभिः ऋषिभिः अनुब्राह्मणादीनि; ततःपूर्वस्मिन्नेव युगे कल्पे वा महीदासादिभिः श्लोकानुश्लोकगाथादीनि सङ्गृह्य तदनुसारेण कृतान्यैतरेयादीनि ब्राह्मणानि; ततः पुर एव युगे कल्पे या प्रवादानेवानुसृत्य प्रणीताः श्लोकानुश्लोकगाथादयः; ततः पुरस्तादेव युगे कल्पे वा श्रूयन्ते स्म विकीर्णाः प्रवादास्तत एवाद्यापि ते श्रुतय इत्याख्यायन्ते च; ततः पूर्वस्मिन्नेव युगे कल्पे वाभवत् यज्ञप्रयोगारम्भः; तदेवाथर्वणा कृत एकेनैव यत्नेन चतुःसंहितासङ्ग्रहः(१५५ पृ०)। तत्पूर्वमेव सम्पन्ना बभूवुः सूक्तमण्डलादिसङ्ग्रहा इत्यत्रापि नास्ति संशयः। ततः पुरा तुबहुकाल मभिव्याप्य बहुभिराप्तैर्ऋषिभिर्बहुभिरेवोच्चावचैरभिप्रायैरीश्वरशक्त्या दृष्टा बहवो मन्त्राः। तदेवं बहुयुगपूर्वमेवाराब्धा मन्त्ररचनेति कथङ्कार मद्यतनाः स्युस्तत्कालविनिर्णये समर्थाः? अनद्यतनीयानां तादृशातिप्राचीनतमानां कालनिर्णये हि न कि मपि लिङ्गं प्रतिभासेत बहुधीमता मप्यद्यतनानाम्। भवति हि व्यक्तिनिर्णयपूर्वक एव कालनिर्णयः, न चात्र क्वापि व्यक्तिनिर्णयः सम्भाव्यते; न ह्येतत्कृतोऽसौ मन्त्र इति क्वापि लिखितं दृश्यते। दृष्टशब्द एव कृतवाचक इति चेत्, तथापि न व्यक्तिनिर्णयः सुकरः; अग्निना दृष्ट इत्यादौअग्नीत्यादिसञ्ज्ञानां सञ्ज्ञिशून्यत्वेन कल्पित-
सञ्ज्ञित्वेनेव वा प्रायोऽवधारणीयत्वात्। यथा च खलु सूर्यवंशीयानां क्षत्रियाणामादिपुरुषः सूर्य इति तु शब्दतः प्रतीयत एव, पर मुदीयमानस्यैतस्य दिनमणेरेवौरसजातः स वंश इति विस्वासस्तु कथं भवेन्नाम सर्वशेमुषीमताम्? अतस्तद्वंशादिपुरुषस्य प्रकृतनामाज्ञानात्सौर्यत्वेन च कल्पितो नाम सूर्य इत्येव तत्र स्वीकार्यम्, तथैवात्रापि। “अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम्। दुदोह यज्ञसिद्ध्यर्थ मृग्यजुस्सामलक्षणम्”— इति मनुवचने (१.२३.) तु प्रधानतोऽग्निविज्ञानार्थमृग्वेदस्य वायुविज्ञानार्थं यजुषः, सूर्यविज्ञानार्थञ्च सामवेदस्याम्नानमित्येवार्थः प्रतीयते। तस्मात् तत्त्वतः प्रणेतृव्यक्तिनिर्णयासम्भवादेव मन्त्रकालनिर्णयस्याशक्यतैव सम्पद्यते।
“अर्च्चिषि भृगुः सम्बभूव (निरु० ३.३.५.)”— इत्यादिनिर्वचनानि च विज्ञानावेदकान्येव। तदप्युपरिष्टात् वर्णयिष्यामः समासतः। अथ यदि ‘तुष्यतु दुर्जनः’— इति न्यायेन स्वीकुर्याम,— तथैव समुत्पन्नः कश्चित् भृगुर्नाम महर्षिरिति, कृतंतेनैव भृगुणा भार्गवं नाम सूक्तमिति च, तथापि न सम्भवेत् व्यक्तिनिर्णयः; को हि जानाति कोऽयं भृगुः कदेमां भुवमलञ्चकारेति? एवं यत्र क्वचिन्मन्त्रे वसिष्ठ-नाम श्रूयते, तस्यापि रचनाकालनिर्णयोऽस्माकमशक्यएव; यतो हि को जानाति आदिवसिष्ठः कदोत्पन्नइति? एवं यान्यपि इड़ादिभिर्भृगुभिरिन्द्रप्रमतिप्रभृतिभिर्वसिष्ठैश्च दृष्टानि सूक्तानि श्रूयन्ते, तेषामप्युद्भवकालविज्ञेयता गाढ़तमोभिराच्छन्नैव; वर्वर्त्त्येव हि तत्र तत्रापि कालनिर्णायकलिङ्गाभावः, नापि हि आदिभार्गवस्यैव भार्गव इति, आदिवासिष्ठस्यैव च वासिष्ठ इति व्यवहारनियमो विद्यते लोकेऽन्यत्रवा। तथैव वेदे काश्यपवचनमप्यस्ति सत्यम्! परं न ह्यत्रपृथिव्या
मेक एव काश्यपः सञ्जातः; अहमपि काश्यपः, मत्पुत्रोऽपि काश्यपः, मत्पोत्त्रोऽपि काश्यपः, मत्प्रपौत्रोऽपि भविष्यति काश्यप एव। एवं भारद्वाजादयोऽपि। तस्मादेतादृशनामपर्यालोचनया च मन्त्रप्रणयनकालनिर्णये यत्नःसर्वथा व्यर्थ एव।
एतच्च निर्णीत मेव विद्वद्भिः,—अद्य यावत् यावतां प्राचीनप्रबन्धाना मनुसन्धानं सम्पन्नम्, तेषु सर्वेष्वेवैष मन्त्रभागःप्राचीनतम इति ध्रुवम्; अस्मादपि पुरातनः कश्चित् प्रबन्धो बभूव, इदानींलुप्त इत्यपि वक्तुं न कस्यापि पुरातत्त्वानुसन्धित्सोरोष्ठाधरौ स्फुरिताविव दृश्येते। तदित्थमनद्ययुगीयत्वात् व्यक्तिलिङ्गानवाप्तेः रचयितृव्यक्तिनिर्णयाभावात् मन्त्रभागस्य कालनिर्णयस्तु सर्वथा अशक्य एवास्माक मद्ययुगीयानामिति॥
ब्राह्मणग्रन्थानामपि कालनिर्णये यत्नोऽप्येवमकिञ्चित्कर एव; न हि तेषु कस्याप्येकस्य कालनिर्णयसहायःसंवादोऽवगन्यते क्वापि लोके शास्त्रे वा। ततः सर्वेषामेव युगान्तरीयग्रन्थानां कालनिर्णये एतत्सङ्ख्यकाब्देऽयं ग्रन्थः प्रणीत इति निर्द्धारणे वयमसमर्था एव सर्वथा। मन्त्रब्राह्मणयोः सम्यक् पर्यालोचनया मन्त्रभागात् परभवो ब्राह्मणभाग इति तु वक्तुं युज्यते; एवम् मन्त्रब्राह्मणयोरुभयोरपि भागयोरन्तरे च एतस्मान्मन्त्रादेष मन्त्रः परभवः, एतस्माच्चेष प्राग्भवः, किञ्चैतस्माद् ब्राह्मणादेतत् ब्राह्मणं ब्राह्मणवाक्यं वा परभवम्, एतस्माच्चैतद् प्राग्भवमित्यपि प्रायो निःशङ्कं निर्णेतुं शक्यते, परमेतद्युगीयैतत्सङ्ख्यकेऽब्देऽयं मन्त्रग्रन्थो ब्राह्मणग्रन्थोवा प्रणीतोप्रथितः सङ्कलितो वेति नास्मादृशांबोधयोग्यम्। अतएव मन्त्रभागस्येव ब्राह्मणभागस्याप्यनादित्वमुपचर्य्यतेऽद्येति॥
यद्यप्यैतरेयभाष्यभूमिकायां सायणाचार्येणापि प्रकाशित एवेतरायाःपुत्रो महिदासाख्यो भूमिदेवतातो वरमवाप्य भाषितं यद् ब्राह्मणं, तदेव प्रथितमैतरेयमितीति प्रवादः। तथापि तस्यापि ब्राह्मणस्य न शक्यः कालनिर्णयः; प्रदर्शितप्रवादात्त्विदनेव हि ज्ञायते,— इतरेतिप्रसिद्धायाः कस्याश्चिदपि ऋषिरमण्याः पुत्रेणेदंप्रोक्तमिति, परं तस्मान्नैवमभिव्यज्यते,— एतद्युगीये एतस्मिन्नब्देकिल सा ऋषिरमणी तद्ब्राह्मणग्रन्थंप्रणेष्यन्तं कुमारं प्रसूयेमं जगतीतल मलङ्कृतवतीति। एवञ्चैतरेयादिग्रन्थानां कालनिर्णयाय तादृशप्रवादादीनामवलम्बनमपि सुदूरपारसागरमुत्तितीर्षोःप्लवमानकाशकुशावलम्बनकल्पमेवेति॥
यदस्त्यैतरेयके— “एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः कावषेयो जनमेजयं पारिक्षितमभिषिषेच; तस्मादु जनमेजयःपारिक्षितः समन्तं सर्वतः पृथिवींजयन्परीयायाश्वेन च मेध्येनेजे। तदेषाभि यज्ञगाथा गीयते— ‘आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम्। अश्वं बबन्ध सारङ्गंदेवेभ्यो जनमेजयः’— इति (८.४.७.)”— इत्येवमादि; ताण्ड्यब्राह्मणे चैवं श्रूयते— “जनमेजयश्चार्वुदो ग्रावः”— इति (२५.१५)। एवमादिश्रुतेन यदि कश्चिदध्यवस्येत्,— अर्जुनपौत्रजनमेजयात् परस्तादेवैतानि प्रणीतान्यैतरेयकादीनि ब्राह्मणानीति, तथाच यौधिष्ठिरीयाया मन्यूनद्वितीयशताब्द्यामेवैषां सम्पन्नंप्रणयनमितोनिर्णीत एवैतत्काल इति; तर्हि सः स्यादवश्यं भ्रमावर्त्तमखः ख्यातिबुद्ध्यैव वञ्चितः। ऐतरेयादीनां यौधिष्ठिरीयद्वितीयशताब्दीजत्वेहि पाणिनिसमकालत्वमेव प्रसज्येत; पाणिनेरपि यौधिष्ठिरीयद्वितीयशताब्दीजत्वनिर्णयात् (११९पृ०)। न च
तत्रेष्टापत्तिः;पाणिनीये व्याकरणे ब्राह्मणग्रन्थानामतिप्राचीनत्वेन प्रोक्तत्वादिस्वीकारात्; न हि समकालिकानां ग्रन्थानां प्रोक्तत्वेन व्यपदेशःसङ्गच्छते, नापि छन्दस्त्वादिकमुपपद्यत इति।
अस्मन्मते तु बभूवैव कश्चन पुराकल्पेऽपि पारीक्षितो जनमेजयः, तत्तन्नामश्रुत्यनुसारत एवाभिमन्युपुत्रस्याभवन्नामकरणं परीक्षित इति, तथा तत्पुत्त्रस्य जनमेजय इति च। तद्यथा, दृश्यत एवं हि भागवतादिषु सत्यव्रतो नाम, ततो मन्नामकरणंच सम्पन्नंसत्यव्रत इति; न च मन्नामकरणतः पश्चात् प्रणीतानि भागवतादीनि। अप्येवं वङ्गकवेर्वङ्किमस्य लेखनीजातानि मृणालिनीत्यादीनि च नामानीदानीं बहुष्वेव वङ्गाङ्गनेषु व्यवह्रियन्ते चेति। एवमेव समाधानं सर्वत्रैवावश्यमुररीकर्त्तव्यम्; अन्यथा वेदेषु भोजनामश्रवणात् भोजसमसामयिकस्य वेदभाष्यकृदुव्वटस्यापि वेदसमकालजत्वं प्रसज्येतैव, तत् कथङ्कारं वार्येतेति। तथा हि ऋक्संहितायां श्रूयते— “भोजस्येदं पुष्करिणीव वेश्म”— इति(१.१०७.१०.), श्रूयते चैतरेयब्राह्मणे तत्रैवाभिषेकप्रकरणे— “भोजं भोजपितरम्”— इति(८.४.३.); उक्तञ्चोव्वटेन— “मन्त्रभाष्यमिदं क्लृप्तं भोजे पृथ्वीं प्रशासति”— इति। तदत्रकथयन्तु धीमन्तो यदि नाम नामदर्शनादेव कालनिर्णयः शक्यस्तर्हि तत्तद्वेदग्रन्थाविर्भावकाले एव किमाविरभूत् वेदभाष्यकार उव्वटो वज्रटात्मजः? इह नेत्युक्ते स्वीकार्य एवायं न्यायोऽन्यत्रापि सर्वत्रैवेति किमु वक्तव्यमत्रास्तीति॥
यथोक्तम्,— शतपथंनाम ब्राह्मणंपाणिनीयतोऽप्युत्तरभवेन कात्यायनसमकालिकेन याज्ञवल्क्येन प्रणीतम्; “पुराण-प्रोक्तेषु ब्राह्मणकल्पेषु”—इति (४.३.१०५.) हि पाणिनिसूत्रम्,
तत्सूत्रस्थं वार्त्तिकादिकं च तत्र मान मिति। तदप्यतीव विस्मयकरमस्माकम्; गम्यते हि तस्मादेव सूत्रात् तत्सूत्रीयवार्त्तिकादिभ्यश्च शतपथस्यापि पाणिनीयतःप्राचीनत्वमेवेति। तथाहि यदस्त्येतत् सूत्रंपाणिनीयम्— “पुराणप्रोक्तेषु ब्राह्मणकल्पेषु”— इति (४.३.१०५.)। “तृतीयान्तात् प्रोक्तार्थेणिनिःस्यात्, यत्प्रोक्तं पुराणप्रोक्ताश्चेद् ब्राह्मणकल्पास्ते भवन्ति। पुराणेन चिरन्तनेन मुनिना प्रोक्ताः। भल्लु— भाल्लविनः। शाट्यायनः— शाट्यायनिनः। कल्पे— पिङ्गेन प्रोक्तः पैङ्गी कल्पः। पुराण इति किम्? याज्ञवल्क्यानि ब्राह्मणानि, आश्मरथः कल्पः”— इति तत्रैव वैयाकरणसिद्धान्तकौमुदी। तत्रैतद् विचार्यम्— यदि नाम याज्ञवल्क्यंब्राह्मणं शतपथमिति यावत् पाणिनेर्नावगतं स्यात्, तर्हीह किं प्रत्युदाहरणं भवेत्?— क्वातिव्याप्तिवारणाय सूत्रे पुराणविशेषण मुपपद्येत? न हि भविष्यमाणग्रन्थस्य शतपथादेः प्रोक्तत्त्वंपाणिनेरभिमतं भवितुमर्हति, तत् किंव्यावर्तकं सूत्रस्थंपुराणपदमिति। वस्तुतस्तु पाणिनिना यथा प्राचीनत्वेन ज्ञातं पैङ्ग्यादिकं कल्पशास्त्रम्, तथैव ज्ञातमेव आश्मरथादिकं च; अतएव प्रोक्तत्वेन तेषां सर्वेषामेव ग्रहणसम्भवेऽनिष्टप्रयोगःप्रसज्येतेति प्राचीनेष्वपि कल्पेषु ये पुराणप्रोक्ताः = प्राचीनतराः, तेभ्य एव णिनिर्विधाय आश्मरथादिभ्यो णिनिप्रसङ्गो वारितः; तथा सर्वेभ्य एव कल्पेभ्योऽपि प्राचीनेषु सुतरां प्राचीनतरेषु ब्राह्मणग्रन्थेषु सर्वत्रैव णिनिप्रसङ्गवारणाय तत्रापि पुराणविशेषणं सार्थकम्; सति हि पुराणविशेषणे प्राचीनतरेभ्यः सर्वेभ्य एव ब्राह्मग्रन्थेभ्यो न भवति णिनिः; अपि तु तत्रापि ये पुराणप्रोक्ताः— प्राचीनतमाः, तेभ्य एवेति सिद्धंशाट्यायनि
ब्राह्मणमित्यादि; ये तु प्राचीनतरेष्वपि ब्राह्मणग्रन्थेषु शाट्यायनादिपरभवप्रोक्ताः न तेभ्यो णिनिरिति सिद्धंयाज्ञवल्क्यं ब्राह्मणमित्यादि च। एवञ्चातिप्राचीनेष्वेव पुराणप्रोक्तत्वं तदितरत्वं चेष्टं पाणिनेरिति याज्ञवल्क्यब्राह्मणादेरप्यतिप्राचीनत्वन्त्वक्षतमेव।
एव मेतत्सूत्रस्थंवार्त्तिकमप्यस्मन्मतपोषकमेव। तथाहि— “पुराणप्रोक्तेषु याज्ञवल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वात्”— इति वार्त्तिकम्। शाट्यायनादिप्रोक्तानां ब्राह्मणानां, पिङ्गादिप्रोक्तानां कल्पानाञ्च यथा पाणिनिपूर्वप्रोक्तत्वम्, तथैव याज्ञवल्क्यादिप्रोक्तानां ब्राह्मणानामश्मरथादिप्रोक्तानाञ्च कल्पानामिति सर्वेषामेवैषां पाणिनिपूर्वप्रोक्तत्वेन तुल्यकालत्वात् पुराणप्रोक्तत्वं समानमिति सर्वेभ्य एवैतेभ्योणिनिः प्रसक्तः; तन्निवारणाय याज्ञवल्क्यादिभ्यः प्रतिषेधरूपो यत्नविशेषः कर्त्तव्य इति च तद्वार्त्तिकाशयः। एवञ्चैतद्वार्त्तिकारम्भात् भगवतः कात्यायनस्य अतिप्राचीनेष्वेव ब्राह्मणेषु कल्पेषु चासीत् पुराणप्रोक्तत्त्वापुराणप्रोक्तत्वनिर्णये संशयः, तन्निरासाय च यत्नोऽवश्यं कर्त्तव्य इत्येव तदाशयः फलितः। कात्यायनसमकालिकस्यैव कस्यचित् याज्ञवल्क्यस्य तु सति शतपथनिर्मातृत्वे तत्र पुराणप्रोक्तेष्विति णिनिप्रसङ्ग एवं कथम्? कथं वा तन्निरासाय वार्त्तिकारम्भो भवेत् प्रयोजनीयः? तत्त्वतो पाणिनिसमकालिकानां पाणिनिसदृशानाञ्च धीमतां प्राचीनतमेष्वपि ग्रन्थेषु पौर्वापर्यनिर्णयो यथा सुगमः, न तथा तत्परकालिकानां कात्यायनादीनामपीति तदानीमेव याज्ञवल्क्यादीनां परिगणनं सप्रयोजनं जातम्, तत् कि मद्यतनानां त्वस्मादृशाम्।
एवमेतदीयं भाष्यञ्चास्मन्मतसाधकमेव। तथाहि— “पुराणप्रोक्तेषु ब्राह्मणकल्पेष्वित्यत्रयाज्ञवल्क्यादिभ्यः प्रतिषेधो वक्तव्यः।
याज्ञवल्क्यानि ब्राह्मणानि, सौलभानोति। किं कारणम्? तुल्यकालत्वात्; एतान्यपि हि तुल्यकालानीति”— इत्येव तद्भाष्यम्। “तुल्यकालत्वादिति—शाट्यायनादिप्रोक्तैर्ब्राह्मणैरेककालत्वादित्यर्थः”— इत्येव च तत्रोक्तवान् कैयटो जैयटात्मजः। यद्यपीहवार्त्तिकमतमेवानुमोदितं भाष्यकारेणेति गम्यते, तथापि नोन क्षतिः। श्रीमन्नागेशभट्टस्यमते तु शाट्यायनादिसमकालतैव याज्ञवल्क्यादिप्रोक्तानां शतपथादीनाम्; अतस्तेभ्यो णिनिः प्राप्तः, कात्यायनवचनेन वारितोऽनुमोदितञ्च तद्वचनं भाष्यकारेणेति। तथाहि— “याज्ञवल्क्यानीति। कण्वादिभ्य इत्यण्। ते हि पाणिन्यपेक्षया आधुनिका इत्यभिमानः; भाष्ये तु शाट्यायनादितुल्यकालत्वाद् ०—० वचनमेवारब्धम्”— इति (ल० श० शे०)। वस्तुतो भाष्ये एतत्पूर्वमेव “छन्दोब्राह्मणानि च तद्विषयाणि (पा० ४.२.६६.)”— इत्यत्रोक्तम्— “वक्षत्येतत् ‘याज्ञवल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वात्’— इति। तन्नैव वक्तव्यम्; तद्विषयता च न भवतीति”— इति। “वक्षत्येतदिति। पुराणप्रोक्तेष्वित्यत्र”— इत्येव च तत्र कैयटः। तथा च अतिप्राचीनेष्वेव ब्राह्मणकल्पग्रन्थेषु ये पुराणप्रोक्ताः, तत्रैव णिनिः पाणिनिना विहितः; ये तु नूतनप्रोक्ताः, तत्र तु णिनिविषयतैव नास्तीति व्यर्थं वार्त्तिकमिति तद्भाष्याशयः। पाणिनिकालेऽपि ये ग्रन्था अतिप्राचीना इति प्रसिद्धाअतएव प्रोक्ता इत्येव व्यपदिष्टात्सदानीन्तनैःशिष्टैः, तेष्वेव के पुराणप्रोक्ताः के वा नेति निर्णयायैव परिगणनमवश्यं कर्त्तव्यमिति वार्त्तिककारमतम्। “व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्”— इति भाष्येष्ट्याच तत्खण्डनं योग्यमित्येवात्र सारम्। तदित्थंसूत्रकारवचनात्,
वार्त्तिककारवचनात्, भाष्यकारादिवचनाच्चेदमेव सिद्धम्,— याज्ञवल्क्यादिप्रोक्तंशतपथादिकं शाट्यायनादिभ्योऽर्वाचीनमपिपाणिनीयतःप्राचीनतममेवेति।
वार्त्तिककारकात्यायनसमकालिकः कश्चन याज्ञवल्क्यो नासीदासीद्वेति नास्मद्विचारविषयः;— अपि तु शतपथप्रवक्ता याज्ञवल्क्यस्तुवार्त्तिककारकात्यायनसमकालिकः कथमपि नैव; पाणिनिसमकालिकोऽपि न सः कथमपि; प्रत्युत पाणिन्यादयो यस्मिन् युगे जातः,यस्मिन् कल्पे जातः, ततोऽपि पूर्वतनएव; किञ्च तस्य शाट्यायनादिसमकालिकत्वाभावेऽपि ब्राह्मणकालजत्वन्त्ववितथमेवेति तत्कालनिर्णयोऽप्यस्माकमशक्यएवेति शम्॥
— — —
(११)
अथैतर्हि समालोचयितव्यमस्ति, के विषयाश्चैतन्निरुक्तप्रतिपाद्याइति। सर्वेषामेव वेदाङ्गानां साक्षात्परम्परया वा वेदार्थज्ञानमेव प्रयोजनम्, तत्साधनायोपदेश एवैकः प्रतिपाद्यविषय इति तु वेदवित्प्रसिद्धमेव; तदिह निरुक्ते वेदार्थज्ञानसाधनाय तत्प्रसङ्गतश्च येऽखिलविषयाःप्रतिपादिताः, तानेव व्याकर्त्तुं समग्रमेवेमं ग्रन्थंसमासतः किञ्चिद्विस्तरतश्चालोचयाम इति यावत्।
अथैतस्य च निरुक्तशास्त्रस्य वीजानि पुरासन् श्रुतिवारिधौविकीर्णानि; अतएवोच्यत इदमपि शास्त्रमानुश्रविकमिति। ततो ब्राह्मणग्रन्थेषु यथाप्रयोजनमेकैकं चीयमानमङ्कुरितम्; तस्मादेव च तस्य सम्पन्नमालवालीभूतग्रन्थान्तर्गतत्वम्। ततोऽनुब्राह्मणेषुविशेषतः प्रोच्यमानं परिपुष्टम्। तत एव काले
निदानसूत्रेषु पल्लवितं सत् प्रकरणविशेषात्मकत्वमुपगतम्। ततस्तेभ्य एव शाकपूण्यादिभिः शाखाप्रशाखादिभिःसज्जितं ग्रन्थाकारतः प्रणीतं निरुक्तमिति। तान्येव सर्वाण्यवलम्ब्यकृतमेतन्निरुक्तं भगवता यास्केन पुष्पितं फलितञ्चैवमेवेति वृद्धाः।
तस्यास्य प्रथमाध्यायस्तु ग्रन्थभूमिकारूपः; तत्र निघण्टुशब्दनिर्वचनादीनि च प्रतिपादितानि। द्वितीयतृतीयाध्याययोर्निर्वचनप्रकारादिकथनपूर्वकं भाषितं नैघण्टुककाण्डव्याख्यानम्। चतुर्थादिषु तु त्रिष्वध्यायेषु ऐकपदीत्वाख्यानपूर्वकं कृतं नैगमकाण्डव्याख्यानम्। तत उत्तरं षट्स्वध्यायेषु देवतातत्त्वबोधनपूर्वकमाख्यातं दैवतकाण्डव्याख्यानम्। इत ऊर्द्धंत्रयोदशाध्यायरूपे प्रथमपरिशिष्टे अतिस्तुतिमधिकृत्यात्मतत्त्वोपदेशादीनि प्रदर्शितानि। ततश्चतुर्द्दशाध्यायात्मको द्वितीयपरिशिष्टः, तत्रोर्द्धमार्गगतिमधिकृत्याख्यातानि च परमपुरुषार्थसाधनानीति सङ्क्षेपः॥
किञ्चिद्विशदयामश्चेदमालोचनम्;—
(१) यद्यप्येतन्निरुक्तं तत्वतो निघण्ठुभाष्यरूपमेव परं न ह्यत्रनैघण्टुकानां सर्वेषामेव पदानां व्याख्यानान्युक्तानि। यथाहि— नैघण्टुकसमाम्नाये पृथिव्यानामधेयानि एकविंशतिसङ्ख्याकानि परिपठितानि श्रूयन्ते, तेषामेकमेव गौरिति व्याख्यातं द्वितीयाध्यायीयेन समग्रद्वितीयपादेन; अपरेषाम्पुनर्नाम्नामुल्लेखोऽपि न कृतः। अत एवोक्तं तदन्ते वृत्तिकृता— “अनुक्रमणं त्वधिकृतम्, तस्मिन् गोशब्द एको निरुक्तःप्रकारोपदर्शनार्थनार्थम्”— इत्यादि।
(२) प्रसङ्गसङ्गत्या वैदिकगूढ़तत्त्वान्यपीह बहूनि प्रतिपादितानि। तद्यथा— “पुरुषविद्यानित्यत्वात् कर्मसम्पत्तिर्मन्त्रो वेदे (१.१.२.)”— इत्येवमादीनि चिन्तनीयानि।
(३) व्याख्यातान्यपीह स्वप्रदर्शितनिगमश्रुतपदादीनि च प्रायः सर्वाण्येव। अतएवोक्तं निघण्टुटीका भूमिकाया— “नैघण्ट्वागतेष्वेव पदेष्षध्यर्द्धशतत्रयमात्राणि पदानि भाष्यकारेणैव तत्र तत्र निगमेषु प्रसङ्गान्निरुक्तानि”— इति।
(४) मन्त्रश्रुतपदान्येव चात्रोदाहरणत्वेन प्रायः सर्वत्रोपात्तानि; ब्राह्मणीयानि तु न तथादृतानि; तथाचेदानींमन्त्रब्राह्मणयोर्वेदनामधेयत्वेऽपि; मन्त्रगतानामेव पदानां व्याख्यानेन वेदव्याख्याने कृतकृत्यन्मन्यो बभूव स इति चावगम्यते। प्रत्यक्षयोग्ये कृतं मानान्तरोपादानेन।
(५) नात्र च मन्त्रगतानामेव पदानां निर्वचनानि समुपदिष्टानि; अपि तु तत्सन्नियोगात् लौकिकानाञ्च बहूनाम्। तद्यथा निर्वचनारम्भे एव— गोशब्दनिर्वचनप्रसङ्गात् पयः शब्दस्य कृतं निर्वचनम्, तत्प्रसङ्गात् क्षीरशब्दस्यापि (२.२.१.)। एवमेवोत्तरत्रापि बहुत्र।
(६) लोकवेदसाधारणा अपि विषया इह बहव उपन्यस्ताः। तद्यथा— “चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च”— इत्यादयः(१.१.१.)। “अणीयस्त्वाच्च शब्देन सञ्ज्ञाकरणं व्यवहारार्थं लोके, तेषां मनुष्यवद्देवताभिधानम्”— इति च तत्रैव तत उत्तरम् (१.१.२.)।
(७) स्वप्रदर्शितेषु नैगमेषु समुपात्तानां पदनिर्वचनादीनां स्वकपोलकल्पितत्वदोषपरिहाराय मतभेदप्रकाशाय च पूर्वाचार्याणां बहुनामेव नामादीन्यपीह कीर्त्तितानि। तद्यथा— आग्रयणः, आग्रायणः, आचार्याः, एके, ऐतिहासिकाः, औदुम्बरायणः, औपमन्यवः,और्ण्णवाभः,कात्थक्यः,क्रौष्टुकिः, गार्ग्यः,
गालवः, चर्मशिराः, तैटिकिः, नैदानाः, नैरुक्ताः, परिव्राजकाः, पार्षदानि, मनुः, याज्ञिकाः,पूर्वे याज्ञिकाः, वार्ष्यायणिः, वैयाकरणाः, शाकटायनः,शाकपूणिः, शाकल्यः, स्थौलाष्ठीविः,हारिद्रवकम्, इत्यादि।
(८) निर्वचनान्येव प्रदर्श्य च न मेने यास्कः स्वकृतकृत्यताम्; अपि तु मन्त्रार्थज्ञानाय यथा– यथा यतितव्यम्, तत्सर्वमेवेहोपदिष्टम्। द्वितीयाध्यायस्य प्रथमपादस्तु सर्व एवैवमर्थकः। ते ह्युपदेशा वेदतत्त्वार्थव्याख्यातृृणां पथप्रदर्शिकाः। तद्यथा—
“अथ निर्वचनम्। तद्येषु पदेषु स्वरसंस्कारौसमर्थौप्रादेशिकेन गुणेनान्वितौ स्यातां तथा तानि निर्ब्रूयादथानन्वितेऽर्थेऽप्रादेशिके विकारेऽर्थनित्यः परीक्षेत केनचिद्वृत्तिसामान्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्निर्ब्रूयान्न त्वेव न निर्ब्रूयात्।
न संस्कारमाद्रियेत विषयवत्यो हि वृत्तयो भवन्ति। यथार्थं विभक्तीःसन्नमयेत्।
प्रत्तमवत्त मिति धात्वादौएव शिष्येते, अथाप्यस्तेर्निर्वृत्तिस्थानेष्वादिलोपो भवति स्तः सन्तीति, अथाप्यन्तलोपो भवति गत्वागतमिति, अथाप्युपधालोपो भवति जग्मनुर्जग्मुरिति, अथाप्युपधाविकारो भवति राजा दण्डीति, अथापि वर्णलोपो भवति तत्त्वा यामीति अथापि द्विवर्णलोपस्तृच इति, अथाप्यादिविपर्ययो भवति ज्योतिर्घनो बिन्दुर्वाट्य इति, अथाप्याद्यन्तविपर्ययो भवति स्तोका रज्जुःसिकतास्तर्क्विति, अथाप्यन्तव्यापत्तिर्भवति ओधोमेघो नाधोगाधो वधूर्मध्विति, अथापि वर्णोपजन आस्यद्द्वारो भरूजेति।
तद्यत्र स्वरादनन्तरान्तस्यान्तर्धातु भवति तद् द्विप्रकृतीनां स्नानमिति प्रदिशन्ति; तत्रसिद्धायामनुपपद्यमानायामितरयो-
पपिपादयिषेत्तत्राप्येकेऽल्पनिष्पत्तयो भवन्ति तद्यथैतदूतिर्मृदुः पृथुः पृषतःकुणारुमिति।
अथापि भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यन्तेदमूनाः क्षेत्रसाधा इति, अथापि नैगमेभ्यो भाषिका उष्णं घृतमिति, अथापि प्रकृतय एवैकेषु भाष्यन्ते विकृतय एकेषु,— शवतिर्गतिकर्मा कम्बोजेष्येव भाष्यते [कम्बोजाः कम्बलभोजाः कमनीयभोजा वा, कम्बलः कमनीयो भवति], विकारमस्यार्येषु भाषन्ते शव इति; दातिर्लवनार्थे प्राच्येषु दात्रमुदीच्येषु। एवमेकपदानि निर्ब्रूयात्॥
अथ तद्धितसमासेष्वेकपर्वसु च पूर्वं पूर्वमपर मपरं प्रविभज्यनिर्ब्रूयाद्, दण्ड्यः पुरुषो दण्ड्यपुरुषः, दण्डमर्हतीति वा दण्डेन सम्पद्यत इति वा, दण्डो ददतेर्धारयतिकर्मणोऽक्रूरो ददते मणिमित्यभिभाषन्ते, दमनादित्यौपमन्यवः, दण्डमस्याकर्षतेति गर्हायाम्; कक्ष्यारज्जुरश्वस्य कक्षंसेवते, कक्षोगाहतेःक्स इति नामकरणः, ख्यातेर्वानर्थकोऽभ्यासः किमस्मिन् ख्यानमिति, कषतेर्वा; तत्सामान्यान्मनुष्यकक्षोबाहुमूलसामान्यादश्वस्य। राज्ञः पुरुषः, राजपुरुषो राजा राजतेः, पुरुषः पुरिषादःपुरिशयः, पूरयतेर्वापूरयत्यन्तरित्यन्तरपुरुषमभिप्रेत्य—
‘यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्। वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्॥’
—इत्यपि निगमो भवति। ‘विश्वकद्राकर्षो’वीति चकद्र इति श्वगतौभाष्यते; द्रातीति गतिकुत्सना, कद्रातीति द्रातिश्रुत्सना, चकद्राति कद्रातीति सतोऽनर्थकोऽभ्यासस्तदस्मिन्नस्तौति विश्वकद्रः। कल्याणवर्षरूपः कल्याणवर्षस्येवास्य रूपं; कल्याणं कमनीयं भवति, वर्णोवृणोतेः रूपं रोचतेः। एवं तद्धितसमासान्निर्ब्रूयात्।
नैकपदानि निर्ब्रूयान्नावैयाकरणाय नानुपसन्नायानिदं विष्टे वा[नित्यं ह्यविज्ञातुर्विज्ञानेऽसूया] उपसन्नाय तु निर्ब्रूयाद्यो वालं विज्ञातुं स्यान्मेधाविने तपस्विने वा।—
**‘विद्या ह वै ब्राह्मण मा जगाम गोपाय मा शेवधिष्टेऽहमस्मि।
असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथा स्याम्॥ **
**य आतृणत्त्यवितथेन कर्णावदुःखंकुर्वन्नमृतं सम्प्रयच्छन्।
तं मन्येत पितरं मातरं च तस्मैन दुह्येत्कतमच्चनाह॥ **
**आध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा।
यथैव तेन गुरोर्भोजनीयास्तथैव तान्नभुनक्ति श्रुतं तत्॥ **
य मेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम्।
यस्तेन द्रुह्येत्कतमच्चनाह तस्मै मा ब्रूयानिधिपाय ब्रह्मन्॥’
— इति। निधिः शेवधिरिति”— इति॥ एव मन्यत्रापीह बहुत्र।
(९) विरुद्धार्थाना मपि मन्त्राणां सामान्यविशेषन्यायेन प्रामाण्यं स्वीकार्य मित्यपि प्रादर्शितेन। तद्यथा—“ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीत्याह हिंसन्?०—० आम्नायवचनादहिंसा प्रतीयेत”—इति (१.५.१,२.)।
(१०) आशङ्कनीयेषु वेदार्थेषु सिद्धान्तीकरणप्रकारश्चोपदर्शितस्तेन। तद्यथा— “पद्वदवसं गावः पृथ्यदन मवतेर्गत्यर्थस्यासौनामकरणस्तस्मान्नावगृह्णति (१.६.१.)”— इत्यादिः।
(११) पूर्वतनैराचार्यैरपि प्रणीतेषु ग्रन्थादिषु न तस्यासीद् भ्रमशून्यत्वविश्वासः,प्रत्युत सर्वत्रैवास्ति भ्रमसम्भवः, अतोऽतिविश्वासःसर्वत्रैव दूषणीयः, परीक्षणीयाश्च सर्व एव सिद्धान्ताः परीक्षया प्रमाणिते च तत्र कुत्रचिद् भ्रमे कर्त्तव्य एव तस्यानादर इत्येव तस्य भगवतः स्वकीयं मतम्। तच्चेदं
ध्वनितमिह। यथा— बभूव शाकल्यो नामाचार्य ऋक् संहितायाः पदकारः, पाञ्चालो बाभ्रव्याचार्यश्च ऋषिञ्च तदवलम्बनेनैवाभवत् क्रमप्रवक्ता रहैकत्रैव तयोरुभयोरपि भ्रमः प्रदर्शितः— “वायः, वेः पुत्रः। ०—०। वेति च य इति च चकार शाकल्यः। उदात्तंत्वेवमाख्यातमभविष्यत्, असु समाप्तश्चार्थः”—इति (६.५.५.)।
(१२) उणादिसूत्राणामपि बहुत्रानादरः सूचितः। उक्तं हि एकादशे ‘व्योम’— इत्यस्यार्थो ‘व्यवने’—इति (११.४.६.); तथा च विपूर्वकादवतेरेव व्योम नाम इति व्यक्तस्तदभिप्रायः। पदकारादीनामप्येषोऽर्थः सम्मत एव; तत्र ‘विऽओमन्’— अवग्रहादिदर्शनात् (ऋ० सं० प० २.३.२२.१.)। उणादिसूत्रेण तु ‘व्येञ् संवरणे’— इत्यत एव मनिनि निष्पद्यते व्योमति (उ० सू० ४.१५०.)। एव मन्यत्रान्यत्रापि बहुत्र द्रष्टव्यम्।
(१३) यत्र यत्र संहिताभेदतोऽवग्रहे मतभेदो विद्यते, तादृशपदानां तथा निर्वचनवैविध्यमपि प्रकटितं बहुत्रैव। तद्यथा— अस्ति सूर्यशब्दस्यावग्रहे पदकारादीनां मतभेदः; बह्वृचां पदक्रमग्रन्थयोः किल न क्वाप्यवगृहीतः पठ्यते सूर्यशब्दः, छन्दोगानान्तु क्वचित् क्वचिदवगगृहीतोऽपि ‘सु। ऊर्यस्य’— इत्यादि (सा० छ० प० ६.१. ५, ६.)। अतएवात्र कृतं तेन तथा निर्वचनवैविध्यम्— “सूर्यः, सर्त्तेर्वा सुवतेर्वा स्वीर्यतेर्वा”— इति (१२.२.३.)। इतएव गम्यते—बह्वृक्पदकारमते सर्वत्रैव सर्त्तेःसुवतेर्वा निष्पद्यते सूर्य इति न तेन तत्रावग्रहःकृतःक्वापि; सामपदकारनये तु अर्थानुरोधतः क्वचित् सर्त्तेः सुवतेर्वा क्वचित् स्वीर्यतेः(सूपसर्गपूर्वादीर्यतेः) स्वीकार्यं सूर्यनामेति क्वचिदवग्रहःकृतः क्वचि-
न्नेति च। तथाहि— छन्दः पदसंहितायाः षष्ठप्रपाठकीयप्रथमार्द्धस्य पञ्चमेदशति द्वितीये मन्त्रे‘सूर्यम्’— इत्यनवगृहीतमेव पठितम्, परं तत्रैवानुपदं षष्ठे अवगृहीतं ‘सु। ऊर्यस्य’— इति। एवंमित्रशब्दोऽपि द्वाभ्यामेकतश्च निरुक्तः— “मित्रः, प्रमीते स्थायते सन्मिन्धानो द्रवतीति वा मेदयतेर्वा”— इति (१०.२.८)। अतएव बह्वृचां “प्रेष्ठंवो अतिथिं स्तुषे (ऋ० सं०६.६.५.१.)”—इत्यस्यपदपाठे ‘मित्रम्’— इत्यनवगृहीतं श्रूयते; छन्दपदसंहितायान्तु तत्रैव मन्त्रेऽवगृहीतमेव ‘मि। त्रम्’— इति(सां० छ० प० १.१.१.५)।पुत्रशब्दोऽप्येवमेव द्वाभ्यामेकतश्चनिरुक्तः— “पुत्रः, पुरु त्रायते निपरणाद्वापुं नरकं ततस्त्रायत इति वा”— इति (२.३.२.)। अतएव बह्वृचाम् “इन्द्र क्रतुं न आभर (ऋ० सं० ५.१.२१.६.)”— इत्यस्य पदपाठे ‘पुत्रेभ्यः’— इत्यनवगृहीतं श्रूयते; छन्दःपदसंहितायां तु तत्रैव मन्त्रेऽवगृहीत मेव ‘पु। त्रेभ्यः’— इति (सा० छ० प० ३.२.२.७.)। सखिशब्दस्तु यास्केन द्विर्निरुक्तः, परिशिष्टेऽप्येकत्र (७.७.८; १३.१.१३; २.११.) परं समाननामोपपदात् स्यातेरित्येकविध एव सर्वत्र; तथा च तत्पदपाठे खल्वग्रहेणैव भवितव्यम्; न च तथा दृश्यते बह्वृग्ग्रन्थेषु। तथाहि— “इमं स्तोम मर्हते (ऋ० सं० १.६.३०.१.)”— इत्यस्यपदपाठे ‘सख्ये’— इत्यनवगृहीतमेव श्रूयते;—छन्दः पदसंहितायान्तु तत्रैव मन्त्रेऽवगृहीतं ‘स। ख्ये’— इति (सा० छ० प० १.१.२.२.४)। वस्तुतः सर्वत्र पदकाराभिप्रायबोधोऽस्माकं दुरुहएव; क्रमकारास्तु तदनुगताः, जटादिपाठाश्च तन्मूलका एव। बहुत्र तु सामपदसंहिताया मनवगृहीतमपि बह्वृचां पदपाठोऽवगृहीतमेवाधीयते। तद्यथा—
“अग्ने मृड महाँ्असि (ऋ० सं० ३.५.९.१.)”— इत्यस्य वह्वृक्पदपाठे ‘देवऽयुम्’— इत्यवगृहीतम्; छन्दःपदपाठे तु ‘देव-युम्’— इत्यनवगृहीतमेव (सा० छ० प० १.१.३.४.)। एवम् “इन्द्रमिद्देवतातये (ऋ० सं० ५.७.२५.५.)”— इत्यस्यवह्वृक्पदपाठे ‘देवऽतातये’— इत्यवगृहीतम्; छन्दःपदपाठे तु ‘देवतातये’— इत्यनवगृहीतमेव (सा० छ० प० ३.२.१.७.) स्थितमिति।
(१४) यदि क्वचिद् वेदव्याख्याने प्रामाणिकानां व्याख्यातृृणांमतान्तरता लक्ष्येत, तत्र विनिगमनाविरहात् सर्वेषामेव मतानामादरोऽस्माकं कर्त्तव्य एवेत्यपि निदर्शितम्। तद्यथा—ऋक्संहितायाः पदकारः शाकल्यो नाम ऋषिः; सामवेदीयायाश्छन्दोनामसंहितायाः पदकार ऋषिर्गार्ग्यो नाम च; तदेतावुभावेव प्रामाणिकौवेदव्याख्यातारौ;— एतयोरनुगताः क्रमादिकाराश्चातुर्ज्ञानादिग्रन्थकाराश्चावश्यं प्रामाणिका एवेत्यत्र च नैवास्ति संशयः। अस्ति चैको मन्त्रो “यदिन्द्र चित्र मेहनास्ति”— इति ऋक्संहितायाम्, छन्दःसंहितायाञ्च। तत्रऋक्पदग्रन्थे, तदनुसृतेषु क्रमग्रन्थादिषु च यदवगम्यते ‘मेहनास्ति’— इति पदद्वयम्; तदेव छन्दःपदग्रन्थे,तदनुसृतेषु सामग्रन्थादिषु क्रमग्रन्थादिषु चावगम्यतेपदचतुष्टयत्वेन; तदेष द्विविध एव पदच्छेदोऽभ्युपेयोऽस्माभिर्विनिगमनाविरहादिति बोधयितुमुक्तम्,— “मेहनास्ति०—०मंहनीयं धनम्अस्ति यत्, म इह नास्तिति वा त्रीणि मध्यमानि पदानि”— इति (४.१.४.)। अत्रैतदपि परिव्यक्तम्— संहिताभेदकृतः पाठभेदोऽप्यवश्यमभ्युपेय इति। यथा— “यदिन्द्र चित्र मेहनास्ति”—इति ऋक्पाठः(४.१.१०.१.); “यदिन्द्र चित्र म इह नास्ति”— इतिः तु सामपाठः(४.२.१.४.)।
(१५) मन्त्रद्रष्टृृणामृषीणांरचनाविधिष्वपि लक्ष्यः सर्वथा स्थापनीयो वेदार्थबुभुत्सुभिरित्यपि ध्वनितम्। तद्यथा— “अभ्यासे भूयांसमर्थं मन्यन्ते,— यथाहोदर्शनीयाहोदर्शनीयेति; तत् परुच्छेपस्यशीलम्; परुच्छेपऋषिः(१०.४.५.)”— इत्यादि।
(१६) मन्त्रार्थंनिर्ब्रुवता प्रकरणमप्युपेक्षितव्यमिति च ध्वनितम्— “उप प्रागात् सुमन्मेधायि मन्म ०—०इत्याश्वमेधिको मन्त्रः(६.४.७.)”—इत्येवमादिभिः।
(१७) मन्त्राणां व्याख्यावैविध्यञ्चामानि तेन बहुत्र। तद्यथा— “इत्यधिदैवतम्, अथाध्यात्मम्”—इति ३.२.६, “इत्यधियज्ञम्, अथाधिदैवतम्”— इत्यादि ११.१.४। तदेवं क्वचित् क्वचिदेकस्यैव शब्दस्य त्रिविधं व्याख्यानमपि कृतं यथा— सोमशब्दस्यैकत्र ओषधिः, चन्द्रमाश्चेत्येतावर्थौकृतौ(११.१.४.), अन्यत्र (१३.२.१२.) तस्यैव सोमशब्दस्य सूर्यःआत्मा चेत्यर्थौस्वीकृताविति। तथाचात्र ओषध्यर्थस्त्वधियज्ञः,चन्द्रसूर्यार्थावधिदैवतौ, आत्मरूपार्थस्त्वध्यात्मइति विवेकः। एषु त्रिविधव्याख्यानेषु अधिदैवतस्यैव प्राधान्यं ध्वनित मेतत्प्रथमपरिशिष्टे— “यां यां देवतां निराह तस्यास्तस्यास्ताद्भाव्यमनुभवत्यनुभवति”— इति (१३.१.१३.)। एवञ्च पदार्थविज्ञानमेव निरुक्तस्यास्य प्रधानं फलमिति च ज्ञापितम्। अन्यत्रान्यथापिस्वस्य विज्ञानप्रियता ज्ञापिता। तथाहि— “नित्यं ह्यविज्ञातुर्विज्ञानेऽसूया”— इति २.१.६।
(१८) कालभेदतो देशभेदतश्चनामभेदादीन्यपि सम्भाव्यानीति चेह ज्ञापितानि। तद्यथा— “आर्जीकीयां विपाडित्याहुः। ०—०। पूर्व मासीदुरुञ्जिरा”— इति (९.३.५.)। “विजामातेति शश्वद्दक्षिणाजाः क्रीतापतिमाचक्षतेऽसुसमाप्त
इव वरोऽभिप्रेतः”— इति च (६.२ ६.)। “गर्त्तारोहिणीव धनलाभाय दाक्षिणाजी (३.१.५.)”—इत्येवमादीनि च।
(१९) मन्त्राणामुत्पत्तिवीजान्यपि बोधितान्येतेन। तथाहि—
“अथापि स्तुतिरेव भवति नाशीर्वादः,— ‘इन्द्रस्य तु वीर्याणि प्र वोचम्’— इति यथैतस्मिन् सूक्ते (ऋ० सं० १. ३२.)।
‘अथाप्याशीरेव न स्तुतिः,— ‘सुचक्षाअहमक्षीभ्यां भूयासं सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासम्’— इति, तदेतद्बहुलमाध्वर्यवे याज्ञेषु च मन्त्रेषु।
“अथापि शपथाभिशापौ,— ‘अद्या मुरीय यदि यातुधानो अस्मि ०—० अधा स वीरैर्द्दशभिर्वि यूयाः’— इति (७.१०४.१५.)।
“अथापि कस्यचिद् भावस्याचिख्यासा,— ‘न मृत्युरासीदमृतं न तर्हि’, ‘तम आसीत्तमसा गूल्ह मग्रे”— इति (१०.१२९.२,३.)।
“अथापि परिदेवना कस्माचिद् भावात्— ‘सुदेवो अद्य प्रपतेदनावृत्’, ‘न वि जानामि यदि वेद मस्मि’— इति (१०.९५; १. १६५.)।
अथापि निन्दाप्रशंसे— ‘केवलाघो भवति केवलादी’, ‘भोजस्येदं पुष्करिणीव वेश्म’— इति (१०.११७.६; १०७.१०.)।
एवमक्षसूक्ते (१०.३४.१३.) द्यूतनिन्दा च कृषिप्रशंसा च। एव मुच्चावचैरभिप्रायैर्ऋषीणां मन्त्रदृष्टयो भवन्ति॥”— इति (७.१.३.)
(२०) अपि मनुष्याणामेवाध्ययनादितपःप्रभावादृषित्वमाप्यमिति चाख्यातम्। “तद् यदेनांस्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्, तदृषीणा मृषोत्वम्”— इत्येवमादिभिः (२.३.२.)। परिशिष्टेऽपि तथा “मनुष्या वा ०—० यदेव किञ्चानूचानोऽभ्यूहत्यार्षं तद्भवति”— इति (१३.१.१३.)।
(२१) मन्त्राणा मुत्पत्तौहि बहुत्र सांसारिकघटनादीनामपि हेतुत्वंनिरूपितम्। तद्यथा— “त्रितं कूपेऽवहित मेतत् सूक्तं
प्रतिबभौ(४.१.६.)”— इति, “इदञ्चमेऽदादिदञ्चमेऽदादित्यृषिःप्रसङ्ख्यायाह (४.२.७.)”— इति, “ऋषिपुत्र्याविलपितं वेदयन्ते (५.१.२.)”— इति च। तथाच यद्यपि सायणादिमते सर्व एव मन्त्रायज्ञसम्पादनायैव दृष्टाः, परं यास्कमते तु नैव सर्वेषां यज्ञसम्पादनायैवोत्पत्तिरित्यपि सुव्यक्तम्।
(२२) वेदार्थबोधस्यातिदुरुहत्वमपि वर्णितम्। तद्यथा—“अप्येकः पश्यन्न पश्यति”— इत्यादि (१.६.३.); एवमन्यत्रान्यत्रापि। परिशिष्टेऽपि “यस्तन्नवेद कि मृचा करिष्यति (१३.१.१०.)”— इति, “अयं मन्त्रार्थचिन्ताभ्यूहः”— इत्यादि, “तस्यास्तपसा पारमीप्सितव्यम्”— इत्यादि च (१३.१.१२,१३.)।
(२३) अयोग्यपात्रायोपदेशदानमपि निषिद्धं यास्केन। तथाहि— “नैकपदानि निर्ब्रूयान्नावैयाकरणाय नानुपसन्नायानिदंविदे वा नित्यं ह्यविज्ञातुर्विज्ञानेऽसूयोपसन्नाय तु निर्ब्रूयाद्यो बालं विज्ञातुं स्यान्मेधाविने तपस्विने वा”— इति (२.१.६.)।
(२४) मन्त्राणां दैवतनिर्णयस्य दुरूहत्वं वेदार्थबोधगर्वस्याकर्त्तव्यत्वञ्चेत्येतद्वयमपि दृष्टान्तप्रदर्शनेन दृढ़ीकृतम्। तद्यथा— “शाकपूणिः सङ्कल्पयाञ्चक्रे सर्वा देवता जानामीति। तस्मै देवतोभयलिङ्गा प्रादुर्बभूव। तां न जज्ञेतांपप्रच्छ विविदिषाणि त्वेति। सास्माएतामृचमादिदेशैषा मद्धेवतेति”— इति (२.२.४.)।
इह हि निरुक्तवचने यदस्ति ‘देवतोभयलिङ्गा’— इति, तस्य उभयविधलिङ्गयुक्तत्वं यस्या मन्त्रदेवतायाः, तादृशी उभयलिङ्गा मन्त्रदेवता ‘प्रादुर्बभूव’तन्मनस्युदिताभवदित्यर्थः। यस्य मन्त्रस्य देवतानिर्णये लिङ्गद्वयहेतुकः संशयो भवेदेव, तादृशं मन्त्रैकं स सस्मारेत्येवेत्यभिप्रायः। श्रूयते च तथा तत्र तदुदाहृते,
पूर्वार्द्धर्च्चारम्भे ‘सः’इति कर्त्तृपदम्, उत्तरार्द्धर्च्चारम्भे‘सा’— इति कर्त्तृपदञ्चेतीत्थंतन्मन्त्रदेवता पुंस्त्वस्त्रीत्वोभयविधलिङ्गयुक्तेत्यतःतस्य मन्त्रस्य का देवता? इत्येवं संशयः सम्भवेदेव। एतादृशसंशयस्यापाकरणन्तु तत्तन्मन्त्रार्थालोचनयैव भवितव्य मित्यभिप्रायेणोक्तं ‘तां पप्रच्छ’— इत्यादि। सम्यगालोचिता सती तादृशी ऋगेव स्वयं स्वदेवतामभिव्यनक्तीति तात्पर्यम्। तदुदाहृता ऋगेषा ऋ० सं० १.१६४.२९(निरु० २.२.५.)।अपि वा ‘देवतोभयलिङ्गा’इत्येकं पदम्, ऋगेव तस्यवाच्योऽर्थः; तादृशी ऋक् तत्स्मृतिपथ मारूढेति भावः। ‘सा’ऋक् ‘एतामृचमादिदेश’स्वात्मानं प्रकाशितवती; पुनःपुनःचिन्तान्दोलनेन तादृगर्थस्तन्मनसि स्फुटं प्रतिबभाविति भावः। सत्येवं सैव ऋक् कथितवतीव ‘एषा’स्त्रीपुंस्वरूपा उभयात्मिका वस्तुतः एकैव ‘मद्देवता’मम देवतेति यावत्।
(२५) वेदार्थविषये बहुत्र संशयस्यावश्यम्भाविता च दर्शिता तेन।तद्यथा— “पूषा त्वेतश्चावतु(ऋ० सं० ७.६.२३.३.)”— इत्येतस्या ऋचो व्याख्यानावसरे स्वकण्ठरवेणैवोक्तम्— “स त्वैतेभ्यः परि ददत् पितृभ्य इति सांशयिकस्तृतीयः पादः। पूषा पुरस्तात् तस्यान्वादेश इत्येकम्, अग्निरुपरिष्टात् तस्य प्रकीर्त्तनेत्यपरम्”— इति (७.३.२.)।
(२६) वैदिकोपाख्यानानामुपमादिमूलकत्ववर्णनेनावास्तविकत्वमपीह प्रतिपादितं बहुत्र। तद्यथा— “तत् को वृत्रः?मेघ इति नैरुक्ताः त्वाष्ट्रोऽसुर इत्यैतिहासिकाः; अपाञ्च ज्योतिषश्च मिश्रीभावकर्मणो वर्षकर्म जायते, तत्रोपमार्थेन युद्धवर्णा भवन्ति”— इति (२.५.२)। तदेवमादीतिहासस्यातात्त्विकत्वंस्फुटम्।
(२७) मन्त्रेषु श्रुताः स्वस्नादिसम्बन्धिशब्दाअपि साहचर्यादिमूलका गौणार्था एव, न तु मुख्यार्था इति चेह बहुत्रावेदितं तेन। तद्यथा— “उपसमस्य (आदित्यस्य) स्वसार माह,— साहचर्याद्रसहरणाद्वा (३.३.४)”— इति,“पिता दुहितुर्गर्भ माधात् (ऋ० सं० १.३६४.३३.) ०—० पिता = पालयिता०—० पर्जन्यः पृथिव्या”—इत्यादि च (४.३.५.)।
(२८) मीमांसाग्रन्थेषु यथा ब्राह्मणग्रन्थप्रोक्तानामपि प्रावाहणिरित्येवमादीनां सर्वेषामेव सञ्ज्ञापदानां यौगिकत्वं तथा कल्पितव्यक्तिवाचकत्वञ्च सिद्धान्तितम्, नात्र तथा; इह तु प्रकृतव्यक्तिनामानि वस्तुनामान्यपि श्रूयन्ते मन्त्रेष्वपीति सूचितम्, तत् किं मन्त्रभाष्यरूपेषु ब्राह्मणवाक्येष्विति स्फुटम्। तद्यथा— “स्थूरं राधः शताश्वंकुरुङ्गस्यदिविष्टिषु”— इति मन्त्रस्य (ऋ० सं० ५.७.३३.४.) व्याख्यानायोक्तम्—“कुरुङ्गो राजा बभूव; कुरुगमनाद्वा कुलगमनाद्वा”—इति (६.४.८.), एवं “बतो बतासि यम”— इति मन्त्रस्य (ऋ० सं० ६.७.८.३.) व्याख्याने ह्युक्तम्— “लिबुजा व्रततिर्भवति (६.५.५.)”— इत्यादि।
(२९) वस्तुतत्त्वनिर्णयाय ब्राह्मणवचनान्यपीह बहून्युद्धृतानि; तद्यथा— “षष्ठिश्च ह वैत्रीणि च शतानि संवत्सरस्याहोरात्राइति च ब्राह्मणं समासेन”, “सप्त च वै शतानि विंशतिश्चसंवत्सरस्याहोरात्रा इति च ब्राह्मणं विभागेन (४.४.६.)”— इत्येवमादीनि।
(३०) प्रसङ्गसङ्गत्या बहूनां ब्राह्मणवचनानामेकदेश्युक्तितया अप्रामाण्यञ्चेहदर्शितम्। तद्यथा— “बहुभक्तिवादीनि हि ब्राह्मणानि भवन्ति”— इत्यादि (७.७.१.) द्रष्टव्यम्।
(३१) वेदानां प्रामाण्यं तु हृदयेनैवाङ्गीकृतमासीत्तस्य खलु भगवतो यास्कस्य। अतएवोक्तम्— “आम्नायवचनादहिंसा प्रतीयेत”— इति (१.५.२.), “आम्नायवचनादेतद् भवति (७.७.१)”— इत्यादि च।
(३२) एवं वैदिकवचनेषु तस्य श्रद्धातिशय्यञ्चगम्यते। तदुक्तम्— “यथो एतदविस्पष्टार्था भवन्तीति, नेष स्थाणोरपराधोयदेन मन्धोन पश्यति, पुरुषापराधः स भवति”— इति (१.५.२)।
(३३) परलोकास्वीकारकारिणां निन्दाप्यत्र वर्णिता। तद्यथा— “किं ते कृण्वन्ति कोकटेषु गावो नाशिरं दुह्नेन तपन्ति घर्म्मम्। आ नो भर प्रमगन्दस्य वेदा नैचाशाखं मघवन् रन्धया नः। (३.३.२१.४.)”— इत्येतन्मन्त्रव्याख्याने ह्युक्तम्— ‘किं ते कुर्वन्ति कीकटेषु गावः, कीकटा नाम देशोऽनार्यनिवासः; कीकटाः किं कृताः किं क्रियाभिरिति प्रेप्सावा। नैव चाशिरं दुह्नेन तपन्ति घर्मं हर्म्य माहर नः प्रमनन्दस्य धनानि। मगन्दः कुसीदी माङ्गदो मा मागमिष्यतीति च ददाति तदपत्यं प्रमगन्दोऽत्यन्तकुसीदिकुलीनः प्रमदको वा, योऽयमेवास्ति लोको न पर इति प्रेप्सुः, पण्डको वा, पण्डकः पण्डगः प्रार्द्दको वा प्रार्द्दयत्याण्डावाण्डावाणी इवब्रीडयति तस्तम्भे; नैचाशाखं नीचाशाखो नीचैःशाखः; शाखाःशक्नोतेराणिररणात् तन्नोमघवन् रन्धयेति रध्यतिर्वशगमने’— इति (६.६.४.)।
(३४) मन्त्रकाल–प्रचलिताः सामाजिकव्यवहारकथाश्चाख्याता इह प्रतीयन्ते क्वचित् क्वचित् प्रसङ्गतः। तद्यथा— “स्त्रीणांदानविक्रयातिसर्गा विद्यन्ते, न पुंसः पुंसोऽपीत्येके”— इति। एव मौरसभिन्नानां पुत्राणामपाशस्त्यंचाह— “अन्योदर्योंमनसापि
न मन्तव्यो ममाय मिति”— इति (३.१.३.)। “रामा रमणायोपेयते न धर्माय; कृष्णजातीया”—इति च (१२.२.२.)।
अत्र यदुदाहृतं पूर्वसंस्करणे— “देवरःकस्मात्? द्वितीयो वर उच्यते”— इति, तद् भ्रान्त्यैव; प्राचीनतमपुस्तके तथापाठानुपलब्धेः, विधवेतिपूर्वपदनिर्वचनमकृत्वैव देवरपदनिर्वचनस्यायुक्तत्वप्रतीतेः, किञ्च तत्रैव ततः किञ्चिदुत्तरम् “देवरो दीव्यतिकर्म्मा”— इति देवरनिर्वचनश्रुते, ‘कुहस्विद् दोषा’— इत्येतन्निगमस्य चान्यविधार्थावभासाच्च। तथाहि— ‘कनीयसा ज्यायांसमुपमिमीते’— इति स्वोक्तस्योदाहरणभूतैषा ऋगुद्धृता यास्केन (३.३.३.)—
“कुहस्विद् दोषा? कुहवस्तोरश्विना?
कुहाभिषित्वं करतः? कुहोषतुः?।
को वां शयुत्राविधवेव देवरम्?
मर्यं न योषा कृणुते सधस्थआ?॥” (१०.४१.२.)
अस्या यास्कसम्मतोऽर्थ एषः;— हे ‘अश्विना’अश्विनौसूर्याचन्द्रमसौ! उपलक्षणञ्चैतत् पान्थयोः, हे पान्थौ! दीर्घाध्वभ्रमणकारिणोर्युवयोः, ‘दोषा’रात्रिः‘कुहस्विद्’क्वातीता? अपि वा ‘दोषा’रात्रौक्व भवथः?एवं ‘वस्तोः’दिवा ‘कुहस्विद्’? ‘कुहाभिपित्वं करतः’क्व अभिप्राप्तिं भोजनस्य कुरुथः? ‘कुहोषतुः’क्व वसथःविश्रामाय? किञ्च ‘वां’युवयोः ‘शयत्रा’शयने ‘देवरं’वालकं प्रतिभ्रातरं प्रति ‘विधवा’पतिहीना भ्रातृजाया इव ‘कः’पुरुषः सस्नेहं शुश्रूषेत? अपि ‘योषा’स्त्री ‘मर्यं’युवानं स्वपतिम् ‘न’व ‘सधस्थे’सहस्थाने ‘आकृणुते’आकुरूते, को जन इति शेषः। तदेव मत्र, किञ्चिदुद्देश्यं साधयितुं बहुदूरगामिनःपान्थस्यअहर्निशयोर्गमनागमने प्रति दृष्टिर्न युज्यते,
नापि भोजनविश्रामयोः, न च स्वापशुश्रूषणयोरित्युपदेशोव्यक्तः। कुमारं देवरं प्रति भ्रातृजायायाःस्नेहातिशय्यप्रयुक्तः पालनभावः, पतिं प्रति स्त्रियाश्चप्रेमप्रणोदितात्मभावश्चेत्येतावपि नैसर्गिकाविति चेह द्योतितम्। न हि विवाहितपतिभ्रातृका विधवेत्युच्येत, नापि विवाहितभ्रातृजायोऽपि स्याद् देवरः। मिथोऽविवाहितयोरेव विधवादेवरयोरेवात्र मन्त्रे शयनस्थितिर्वर्णितेति चेत्, तत् किं प्रेम्णा, वात्सल्येन वा? आद्येवेदस्य व्यभिचारवर्णनदोषः स्यादनिवार्यः, अन्त्येतु स्वीकृते “देवरः कस्मात्?द्वितीयो वर उच्यते”— इत्येतन्निर्वचनस्यात्रोल्लेखः कुतो न प्रमत्तगीतता मेयादिति पक्षपातशून्यैः सुधीभिरेवार्य्यैराकल्यतामिति।
(३५) पापपुण्ययोश्चात्र निदर्शनान्युपदिष्टानि दिक्प्रदर्शनेन। तद्यथा— “न पापा मन्यामहे;— नाधनाः, न ज्वलनेन हीनाः; अस्त्यस्मामु ब्रह्मचर्यमध्ययनं तपो दानकर्म इत्यृषिरवोचत्”— इति (६.५.२.), “सप्त मर्यादाःकवयश्चक्रुः। तासामेकामप्यधिगच्छन्नंहस्वान् भवति;— स्तेयम्, तल्पारोहणम्, ब्रह्महत्याम्, भ्रूणहत्याम्, सुरापानम्, दुष्कृतस्य कर्मणः पुनः पुनः सेवाम्, पातके नृतोद्य मिति”— इति (६.५.४.), “ब्राह्मणाय बुभुक्षितायौदनं देहि, स्नातायानुलेपनम्, पिपासते पानीयम् (७.३.१०.)”— इत्येवमादि च।
(३६) आब्रह्मस्तम्बपर्यन्तानां सर्वेषामेव पदार्थानामिह देवत्वञ्चोररीकृतम्। तथाहि— “यत्काम ऋषिर्यस्यां देवतायामार्थपत्यमिच्छन् स्तुतिं प्रयुङ्क्ते, तद्देवतः स मन्त्रोभवति”— इति (निरु० ७.१.१.), “यो देवः सा देवता”— इति च (७.४.२.)। “देवो दानाद्वा, दीपनाद्वा, द्योतनाद्वा, द्युस्थानो
भवतीति वा”— इति देवशब्दनिर्वचनञ्च तत्रैव। द्युशब्दश्चात्र नभोमण्डलमात्रस्योपलक्षकः; एवं हि अन्तरिक्षस्थानां, सौरजगद्वहिर्भूतानां ध्रुवादीनाञ्चग्रहण मिह सिध्यति। तदेवमिन्द्रवाय्वादीनामक्षेतनानां वृष्ट्यादिदानहेतुकम्, याजावरराजादीनां चेतनामां चार्थादिदानहेतुकं देवत्वम; अश्वादिजीवानामजीवानाञ्चग्रावादीनां दीप्तिहेतुकं देवत्वम्; अग्निचन्द्रपर्जन्यादीनां ब्रह्मवर्चस्विनां विदुषाञ्चद्योतनहेतुकं देवत्वम्; सूर्यसूर्यकरादीनां तदुपरिस्थानां तारकादीनाञ्च द्युस्थत्वनिबन्धनं देवत्वम्; यत्र त्वीश्वरे सर्व एवैतेगुणा उपपद्यन्ते; तस्य देवत्वस्य तु कैव कथा। तदेव माब्रह्मस्तम्बपर्यन्तानां सर्वेषामेव पदार्थानां देवत्वमुपगन्यते। द्युस्थत्वे सति दानादिगुणवत्त्वमिदमेकमेव देवलक्षणं स्वीकार्यमिति मते तु सूर्येन्द्राग्न्यनिलेन्दुप्रभृतीनां मूलतो भमण्डलस्थानामेव पदार्थानां मुख्यं देवत्वम्, तत्तत्स्थानभक्तिसाहचर्यतस्त्वन्येषां भूरादिलोकानां तत्रत्याना मश्वसोमौषध्यादीना मपीत्येव विशेषः।
तथाचोक्तं यास्केन— “तिस्रएव देवता इति नैरुक्ताः। अग्निः पृथिवीस्थानोवायुर्वेन्द्रो वान्तरिक्षस्थानः सूर्यो द्युस्थानः”— इति (७.२.१.), “तासां [तिसृणां देवतानां] भक्तिसायचर्यं व्याख्यास्यामः। अथैतान्यग्निभक्तीनि— अयं लोकः०—० ये च देवगणाः समाम्नाताः प्रथमे स्थाने”— इत्यादि (७.३.१.) च। तानि च प्रथमे स्थाने समाम्नातानां देवानां नामानि निघण्टावाम्नातानि— “अश्वःशकुनिः मण्डुकाः”— इत्यादीनि (५.३.१-३६.) षट्त्रिंशत् द्रष्टव्यानि। व्याख्याताश्चता देवता निरुक्ते समन्त्रोदाहरणम्— “अथ यानि पृथिव्यायतनानि स्तुतिं लभन्ते, तान्यतोऽनुक्रमिष्यामः। तेषामश्वःप्रथमागामीभवति”— इत्यादिना (९.१-४३.)। एवम्
“अथैतानीन्द्रभक्तीनि अन्तरिक्षलोकः ०—० ये च देवगणाः समाम्नाता मध्यमे स्थाने”— इत्यादि चोक्तं तत्र तदुत्तरम् (७.३.३)। मध्यमे स्थाने समाम्नातानां देवानां नामानि च तत्रैव निघण्टौ— “श्येनः सोमः चन्द्रमाः”— इत्यादीनि षट्त्रिंशत् (५.५.१—३६.)। व्याख्याताश्चता अपि देवता निरुक्ते समन्त्रोदाहरणम्— “श्येनो व्याख्यातस्तस्यैषा भवति”— इत्यादिना (११.१—५०.)। एवम् “अथैतान्यादित्यभक्तीनि असौलोकः ०—० ये च देवगणाः समाम्नाता उत्तमे स्थाने”— इत्यादि चोक्तं तत उत्तरम् (७.३. ४.)। उत्तमे स्थाने समाम्नातानां देवानां नामान्यपि तत्रैव निघण्टौ— “अश्विनौउषाः सूर्याः”— इत्यादीनि एकत्रिंशदाम्नातानि (५. ६. १—३१.)। व्याख्याताश्चता अपि देवता निरुक्तेसमन्त्रोदाहरणमेव— “अथातो द्युस्थाना देवतास्तासा अश्विनौप्रथमागामिनौ भवतः”— इत्यादिना (१२,१—४६.)।तदेवं प्रधानतो देवतात्रित्त्वेऽपि स्थानभक्त्यादितो तच्चहुत्वं च न विरूद्धम्। तत एवेद मूक्तं तत्र तेनैव—“तासां (तिसृणां देवतानां) माहाभाग्यादेकैकत्या अपि वहूनि नामधेयानि”—इति(७, २. १.)। भागो विभागो भक्तिश्चैकार्थाः। महाभागस्य भावो माहाभाग्यम्। तच्च माहाभाग्यम् एकस्थानभाक्तेन, एकस्मिन् मन्त्रेसाहचर्यतयाम्नातत्वेन, एककर्मभाक्तेन, एकबाच्यभाक्तेन च भवति, तस्मान्माहाभाग्यादेव देवबहुत्वंस्वीकार्यमिति तदर्थः। तस्मात् वैदिकमन्त्रेषु स्तुता एव पदार्थाः तन्मन्त्रतः स्तुतिकाले एव च देवत्वेन स्तुत्या भवन्ति; नान्येनाप्यन्यत्रेत्येव बैदिकसिद्धान्तः। अत एवते मन्त्रमयीदेवतेत्येव स्वीकुर्वन्तीति च प्रवदन्तियाज्ञिकाः।
तदेवं देवाना मसङ्ग्येयत्येऽपि दाशतय्यां प्रधानतया अग्निवाय्विन्द्रसूयाणां स्तुत्यादिदर्शनात् त एवचत्वारो देवा मुख्या गण्यन्ते; तत्रापीन्द्रस्यवाय्वादिविशेषत्वेनैवाभ्युपगमात् देवतात्रित्वमेव सम्पद्यते। तदेव मन्त्रपृथिव्या मग्निरेव मुख्योदेवः, जलादयस्तदेकस्थानास्त्वप्रधानाः, अश्वादयश्चेतना इध्मादयोऽचेतनाश्चपारिभाषिकाः। अन्तरिक्षेवायुर्वेन्द्रो वा मुख्यो देवः, पर्जन्यादयस्तदेकस्थानास्त्वप्रधानाः, श्येनादयोऽन्तरिक्षचराश्चेतना वागादयोऽचेतनाश्च पारिभाषिकाः। द्युलोकेऽप्येवं सूर्योमुख्यः,अश्विप्रभृतयस्तदेकस्थानास्त्वप्रधानाः, पारिभाषिकदेवास्तुतत्र नैव सन्तीति गम्यते; ब्राह्मणग्रन्थेषु तत्रत्यानां तथाविधानामनुल्लेखादिति॥
(३७) देवतानां पुरुषाकारादिचिन्तनस्यातात्विकञ्चेहोपन्यस्तम् “अथाकारचिन्तनं देवतानाम”—इत्येवमादिभिः(७.२. २, ३.)।— तदत्र पारिभाषिकदेवत्वमापन्नानामश्वशकुन्यादीनाञ्चेतनानाम्, अपीध्मवागादोना मचेतनानाञ्च देवशरीरवत्त्वंकलत्रापत्यादिमत्त्वं रागद्वेषादियुक्तञ्च नास्तीति तु लाङ्गलस्कन्ध-पांशुल-पादुकैर्हालिकैरप्यभिगन्तुंशक्यते, मुख्यदेवाना मग्न्यादोनां तु तत्तदस्तिनास्ति वेति संशयः स्यादवेदद्विदुषां वालानाम्; पौराणिका एवहीदृशसंशयस्योत्थापकाः। वस्तुतो यथा पारिभाषिकदेवानां प्रत्यक्षदृश्यानां सर्वत्रसर्वैर्व्यवहार्याणा मिध्मादीनां देवशरीराद्यभाववत्त्वेऽपि देवत्यंभवत्येवोररीकार्यम्, मुख्याना मन्त्र्यादीना मपि देवानां नूनं तथैव; यास्कोक्ततत्तन्नामनिर्वचनस्थाननिर्देश-कर्मनिरुपणोत्पत्तिवर्णनेभ्यस्तथैव प्रतीतेः, ब्राह्मणविहिताग्निप्रणयनादीना मन्त्रैवोपपत्तेः, तत्तन्मन्त्रेष्वपि तादृशार्थ-
प्रतिपादकवर्णनश्रुतेः, सोदाहरणदेवलक्षणान्यतमश्रुतितोऽपि तथैवावगतेः दृष्टैरेवैतैरुपपन्ने यज्ञादौ यज्ञादिफले चैषा मदृष्टविग्रहादिमत्त्वकल्पनानौचित्याच्चेति। तदेतत्पञ्चहेतुवर्णन मस्मत्कृतादैवरेयालोचनादवगन्तव्यम् (ऐ० आलो० २सं० १६२—१७८ पृ०)॥
(३८) पितृृणाञ्च त्रैविध्यमेवेष्टं यास्कस्येति गम्यते। तथाहि— “पितरो व्याख्यानास्तेषामेषा भवति”— इत्युक्त्वैव,
“उदीरता मवर उत् परास
उन्मध्यमाः पितरः सोम्यासः।
असुं य ईयुरवृका ऋतज्ञास्
तेनोऽवन्तु पितरो हवेषु”— इति** (१०. १५.१),**
एषा ऋगिह उदाहृता तेन, व्याख्याता च सा एवम्— “उदीरतामवर उदीरतां पर उदीरतां मध्यमाः पितरः सोम्याःसोमसम्पादिनस्तेऽसुं ये प्राणमन्वीयुरवृका अनमित्राः सत्यज्ञा वा यज्ञज्ञा वा ते न आगच्छन्तु पितरो ह्वानेषु”— इति (११.२. ६.)।
तथाच तस्या ऋच एषोऽर्थः सम्पद्यते— “हवेषु”‘ह्वानेषु’अस्मदाह्वानेषु सत्सु “ते”“पितरः”पितृगणाः“नः”अस्मान् “अवन्तु”‘आगच्छन्तु’। ते कोदृशाः?इत्याह— “ये”“असुं”‘प्राणम्’“ईयुः”‘अन्वीयुः’, प्राप्तवन्तः, पूर्वंप्राणान्विता आसन्निति यावत्। तत्र जीवितकाले “अवृकाः”‘अनमित्राः’सर्वत्र सर्वदैव साधुव्यवहारतः अमित्रशून्याः, “ऋतज्ञाः”‘सत्यज्ञावा यज्ञज्ञा वा’कर्त्तृतया कारयितृतया वा यज्ञानुष्ठानविदः,“सोम्यासः”‘सोम्याः—सोमसम्पादिनः’च आसन्निति। ते च कतिविधाः? इत्याह— “अवरे”, “परासः”‘परे’, “मध्यमाः”चेति त्रिविधाः। तत्र, ‘परे’ द्युस्थान्तरिक्षचारिणः, “ये चेमेऽरण्ये श्रद्धातप इत्युपा
सते”— इत्यादिना छान्दोग्ये (५.१०.१,२.) वर्णिताःदेवयानमार्गेण सूर्यलोकं गताः; ‘मध्यमाः’द्यावापृथिव्यावन्तरेण स्थायिनः“य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते”— इत्यादिना छान्दोग्ये (५, १०. ३–६.) वर्णिताःपितृयानमार्गेण चन्द्रलोकं गताः; ‘अवरे’भूपृष्ठस्वान्तरिक्षचारिणः, “अथैतयोः पथोर्नकतरेण च”— इत्यादिना छान्दोग्ये (५.१०.८.) वर्णिताःपृथिव्यामेव निरन्तरावर्त्तिनः। तदेषां त्रिविधानां पितॄणां मध्ये येऽवरास्तेषामप्राप्तमार्गाणा मसक्वदावर्त्तित्वेन क्वचिदपि दीर्घकालस्थितिसम्भावनाभावात् न पितृलोकस्थत्वम्; ये परास्तेषा मप्यनावर्त्तित्वश्रुतेस्तथात्वमेव; ये तु मध्यमाश्चन्द्रलोकं पितृलोकं वा गताः, तेषा मेव स्वस्थानस्थत्वेन प्राधान्यमिष्टम्। अतएव अन्तरिक्षस्थानेष्वेव पठितं पितर इति पदम्। यास्केनाप्युक्तम्— “माध्यमिको यम इत्याहुस्तस्मान्माध्यमिकान् पितॄन् मन्यन्ते”— इति(११.२.५,६.)। ‘स हि तेषां राजेति’— इति च तत्र दौर्गीवृत्तिः। “परेयिवातं प्रवतो महीरनु”— इत्यादिसूक्तद्वये (ऋ० मं० २०.१४,१५.) यमस्य पितृराट्वंपितॄणां स्वरूपञ्च सुव्यक्तमिति दिक्। किञ्चिद्विशेषतोऽप्युक्त मैतरेयालोचने ८९ पृ० १९ पङ्क्तितः ९१ पृष्ठं यावत्।
(३९) ईश्वरशब्दार्थस्त्विहैकत्रैवमन्त्रे द्विविध उपन्यस्तः। तद्यथा— “ईश्वरः सर्वेषां भूतानां गोपायिताऽऽत्य”— इत्यादिः, “ईश्वरः सर्वेषामिन्द्रियाणांगोपायिताऽऽत्मा”— इत्यादिश्च(३.२.६.)। तदत्रयद्यपि जड़ात्मकस्य आदित्यस्य चैतन्यात्मकत्यजीवात्मनश्चेश्वरत्वमुपात्तम्, तथापि तयोर्जडाजड़योराश्रयतया जीवकतया शक्तिप्रदत्वेन चेतद्विलक्षणोऽप्यस्ति कश्चिदिति चाकथितमपि गम्यत एव। स एव परमेश्वर इति परमात्मा इति, पर-
ब्रह्मेति च सर्वैर्गीयते। एवञ्चेह जगति जडः, आत्मा, परमात्मा चेति त्रय एव मूलपदार्था इत्येव निष्पन्नम्। वस्तुतोऽस्य हि परमात्मनो विशेषनामरूपाभावात् सर्वाश्रयत्वात् सर्वव्यापकत्वात् सर्वान्तस्थायिरक्षकत्वाच्च सर्वरूपैः सर्वनामभिश्चोपास्यत्वमेवार्यसम्मतम्। अत एव यथाप्रयोजनं जडस्याजडस्य च स्तुतिरुपपद्यते। अतएवैवं श्रूयते (ऋ० सं० १. १६४, ४६.)—
“इन्द्रं मित्रं वरुणमग्नि माहुरथो दिव्यः स सुपर्णो गरुत्मान्। एकं सद् विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः”— इति। तद्व्याख्याने चाहायमपि— “एकमात्मानं बहुधा मेधाविनो वदन्तीन्द्रं मित्रं वरुण मग्निं दिव्यं च गरुत्मन्तम्”— इति (७.४.५.)। पुनरप्युक्त मूर्द्धमार्गगतिप्रकरणे— “अथैतं महान्तमात्मान मेषर्गणः प्रवदन्तीन्द्रं मित्रं वरुणमग्नि माहुरिति”— इति (१४.२.१.)।
(४०) पुरुषशब्दनिर्वचनावसरे औपनिषदं ब्रह्मज्ञानमपि प्रदर्शितं किञ्चित्। तथाहि (२.१.५.)— “पुरुषः = पुरिषादः, पुरिशयःपूरयतेर्वा पूरयत्यन्तरित्यन्तरपुरुषमभिप्रेत्य,
“यस्मात् परं नापर मस्ति किञ्चिद्,
यस्मान्नाणीयो नज्यायोऽस्ति किञ्चिद्।
वृक्ष इव स्कन्धो दिवि तिष्ठत्येकम्,
तेनेदं पूर्णं पुरुषेण सर्वम्”—इत्यपि निगमो भवति”— इति।
एष मन्त्रः श्वेताश्वतरोपनिषदि (३.९) दृश्यते, वस्तुतः श्वेताश्वतरसंहितातस्तत्र समुद्धृत एवाय मित्येव यास्केन निगम इतीह प्रदर्शितः; न हि मन्त्रातिरिक्तस्य निगमत्वेनाख्यानं तस्य भगवतः क्वचिदपीत्युक्तं पुरस्तादिति।
(४१) विज्ञानान्यपीह प्रसङ्गतो बहूनि प्रदर्शितानि। तानि यथा—
(अ) “षड् भावविकारा भवन्तीति वार्ष्यायणिः;— जायतेऽस्ति विपरिणमते वर्द्धतेऽपक्षीयते विनश्यतीति। जायत इति पूर्वभावस्यादिमाचष्टे, नापरभावमाचष्टे, न प्रतिषेधति। अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणम्। विपरिणमतइत्यप्रच्यवमानस्य तत्त्वाद्विकारम्। वर्द्धत इति स्वाङ्गाभ्युच्चयं सांयौगिकानां वार्थानां वर्द्धते विजयेनेति वा वर्द्धते शरीरेणेति वा। अपक्षीयतइत्येतेनैव व्याख्यातः प्रतिलोमम्। विनश्यतीत्यपरभावस्यादिमाचष्टे, न पूर्व भावमाचष्ट न प्रतिषेधति। अतोऽन्ये भावविकारा एतेषामेव विकारा भवन्तीति ह स्माह; ते यथावचन मभ्यूहितव्याः”— इति भावविज्ञानम् १. १. ३, ४।
(इ) “अथापि भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यन्ते दमूनाःक्षेत्रसाधा इति; अथापि नैगमेभ्यो भाषिका उष्णं घृतमिति; अथापि प्रकृत एवैकेषु भाष्यन्ते विकृतय एकेषु, शवतिर्गतिकर्म्माकम्बोजेष्वेव भाष्यते ०—०, विकारमप्यार्येषु शव इति; दातिर्लवणार्थे प्राच्येषु दात्र मुदीच्येषु”— इति भाषाविज्ञानम् २. १. ३, ४।
(उ) “साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्त्सम्प्रादुरुपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थंसमाम्नासिषुर्वेदञ्च वेदाङ्गानि च”— इति वेदवेदाङ्गाद्युत्पत्तिविज्ञानम् १. ६. ५।
(ऋ) “पुरुषविद्यानित्यत्वात् कर्मसम्पत्तिर्मन्त्रो वेदे”— इति प्रसङ्गतः समासतो वेदफलविज्ञानम् १. १. २।
(ए) “नाकः = क मिति सुखनाम, तत्प्रतिषिद्धंप्रतिषिद्ध्येत।‘न वा अमुं लोकं जग्मुषे किञ्चनाकम्’(लुप्तशाखीयमन्त्रः)। न वा अमुं लोकं जग्मुषे किञ्च नासुखम्;पुण्यकृतो ह्येव तत्र गच्छन्ति”— इति स्वर्गविज्ञानम् २. ४. २।
(ऐ) “नरकं = न्यरकं, नीचैर्गमनं, नास्मिन् रमणंस्थानमल्पमप्यस्तीति वा”— इति नरकविज्ञानम् १. ३. ६।
(ओ) “एकःइता सङ्ख्या, द्वौद्रुततरा सङ्ख्या, त्रयस्तीर्णतमासङ्ख्या, चत्वारश्चलिततमा सङ्ख्या, अष्टावश्नोतेः, नव न वननीया नावाप्ता वा, दश दस्ता दृष्टार्था वा विंशतिर्द्विर्दशतः, शतं दशदशतः, सहस्रंसहस्वद्, अयुतं नियुतं प्रयुतं तत्तदभ्यस्तम्, अर्बुदो मेघो भवत्यरणमम्बु तद्दोऽम्बुमद्भातीति वाम्बुमद्भवतीति वा, स यथा महान् बहुभर्वति वर्षंस्तदिवार्बुदम्”— इति (३. ३. ४), “पञ्च पृक्ता सङ्ख्या”– इति (३. २. २), “सप्त सृप्ता सङ्ख्या”— इति (४.४.५.) च सङ्ख्याविज्ञानम्।
(औ) द्वादशादित्यवर्णनतोऽहोरात्रकालांशविज्ञानं यथा— “सविता ०—० तस्य कालो यदा द्यौरपहततमस्काकीर्णरश्मिर्भवति”— इत्याद्युक्तः प्रथम आदित्यः(१२. २. १.)।
“भगः, तस्य कालः प्रागुत्सर्पणात्”— इत्याद्युक्तो द्वितीयः।
“सूर्यः, सर्त्तेर्वा सुवतेर्वास्वीर्यतेर्वा”— इत्याद्युक्तस्तृतीयः।
‘स पुनरयं भगकालात् सृतः सूर्यो भवति’— इति तत्र दौर्गीवृत्तिः।
“अथ यद्रश्मिषोषंपुष्यति, तत् पूषा भवति”— इत्याद्युक्तश्चतुर्थः।
“अथ यद् विषितो भवति, तद् विष्णुर्भवति”— इत्याद्युक्तः पञ्चमः।
“विश्वानरः [प्रत्यृतः सर्वाणि भूताति ७. ६. १.]”— इत्याद्युक्तः षष्ठः।
“वरुणः [वृणोतीति सतः १०. १. ३]”— इत्याद्युक्तः सप्तमः।
“केशी, केशा रश्मयस्तद्वान्”— इत्याद्युक्तोऽष्टमः।
“अथ यद्रश्मिभिरभिकम्पयन्नेति”— इत्याद्युक्तो वृषाकपिर्नवमः।
‘वर्षिता चावश्यायानां कम्पनञ्च भूतानाम्’— इति तद्वृत्तिः।
“यमः [यच्छतीति सतः १०. २. ६.]”— इत्याद्युक्तो दशमः।
“अजएकपाद्, अजनःएकःपादः; एकेन पादेन पातीति वैकेन पादेन पिवतीति वैकोऽस्य पाद इति वा”—इत्याद्युक्त एकादशः।
समुद्रः [सम्मोदन्तेऽस्मिन् भूतानि २. ३. १.]”— इत्याद्युक्तो द्वादशः।
तदेव मेकस्यैव सूर्यस्य अहोरात्रकालविभाजकत्वेन सवित्रादीनि द्वादश नामानीत्युक्तं कालविज्ञानम्।
(क) “शिर आदित्योभवति, यदनुशेते सर्वाणि भूतानिमध्ये चैषां तिष्ठति। इदमपीतरच्छिर एतस्मादेव; समाश्रितान्येतदिन्द्रियाणि भवन्ति”— इति आदित्यस्थितिविज्ञानम् ४. २. ५।
(ख, ग) “तत् सूर्यस्य देवत्वं तन्महित्वम्, मध्ये यत् कर्मणां क्रियमाणानां विततं संह्रियते। यदासावयुक्त हरणानादित्यरश्मीन् हरितोऽश्वानिति वा। अथ रात्री वासस्तनुते सिमस्मै, वेसर महरवधुवतीसर्वस्मादपि वोपमार्थेस्याद्रात्रीव वासस्तनुत इति”— इति सौराकर्षणविज्ञानम्, रात्रिविज्ञानञ्च ४. २. ३।
(घ) “यद् वर्षन् पातयत्युदकं रश्मिभिस्तत् प्रत्यादत्ते”— इति, “रश्मिर्यमनात्”— इति च रश्मिविज्ञानम् ५. ३. ७; २. ५. १।
(ङ) “अथाप्यस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते। तदेतेनोपेक्षितव्यम्। आदित्यतोऽस्य दीप्तिर्भवतीति। ‘सुषुम्णःसूर्यरश्मिश्चन्द्रमा गन्धर्वः’— इत्यपि निगमो भवति (वा० सं० १८. ४०.); सोऽपि गौरुच्यते, ‘अत्राह गोरमन्वत’— इति (ऋ० सं० १८४.१५)। अत्र ह गोः सममंसतादित्यरश्मयः स्वंनामापीच्यमपचित मपगत मपिहित मन्तर्हितं वामुत्रचन्द्रमसो गृहे”— इति (२. २. २; ४. ४. ४) ज्योत्स्नाविज्ञानम्।
(च) “नाक आदित्यो भवति; नेता भासां ज्योतिषां प्रणयः”— इति अहन्यन्यज्योतिरदर्शनहेतुविज्ञानम् २. ४. २।
(छ) “सप्त युञ्जन्ति रथ मेकचक्रम्
एको अश्वो वहति सप्तनामा।
त्रिनाभि चक्र मजर मनर्वं
यत्रेमा विश्वा भुवनानि तस्थुः”
— इति ऋ० सं० १. १६४. २। अत्राहैवं यास्कः— “सप्त युञ्जन्तिरथम् ‘एकचक्रम्’एकचारिणम् ०—०; ‘एको अश्वो वहति सप्तनामा’आदित्यः; सप्तास्मैरश्मयो रसानभिसन्नामयन्ति, ०—०। संवत्सरप्रधान उत्तरोऽर्द्धर्च्चः। ‘त्रिनाभि चक्रं’त्र्यृतुःसंवत्सरो ग्रीष्मोवर्षा हेमन्त इति ०—०। ‘अजरम्’अजरणधर्माणम्, ‘अनर्वम्’अप्रत्यृत मन्यस्मिन्। यत्रेमानि सर्वाणि भूतान्यभि सन्तिष्ठन्ते”— इत्यादि सौरजगद्विज्ञानम् ४. ४. ६।
(ज) “अन्तरिक्षं कस्मात्? अन्तरा क्षान्तं भवति, अन्तरेमे इति वा, शरीरेष्वत्तरक्षयमिति वा”— इति (२. ३. १.), “पुष्करमन्तरिक्षं पोषति भूतानि”—इति चान्तरिश्वविज्ञानम् ५. ३. ७।
(झ) “ऋबीस मपगतभास मपहृतभास मन्तर्हितभासं गतभासं वा"–इति (६. ६. ७), “प्रथनात् पृथिवीत्युहुः क एना मप्रथयिष्यत् किमाधारञ्चेति अथ वैदर्शनेन पृथुरप्रथिता चेदप्यन्यैः"–इति च (१. ४, ३.) पृथिवीविज्ञानम्।
(ञ) “आपःआप्नोतेः (९. ३. ५.)”— इति, “आपोऽपि काष्ठा उच्यन्ते क्रान्त्वास्थिता भवन्तीति स्थावराणाम्; अस्थावराणां काष्ठानां मध्ये निहितं शरीरं मेघः”—इति चाब्विज्ञानम् २. ५. १, २।
(ट) “तत्र समुद्र इत्येतत् पार्थिवेन समुद्रेण सन्दिह्यते। समुद्रः कस्मात्? समुद्द्रवत्त्यस्मादापःसमभिद्रवत्त्येनमापः
सन्मोदन्तेऽस्मिन् भूतानि, समुदको भवति, समुनत्तीति वा तयोर्विभागः। तत्रेतिहासमाचक्षते,—देवापिश्चार्ष्टिषेणः शन्तनुश्च कौरव्यौभातरौ बभूवतुः”— इत्याद्युदधिविज्ञानम् २. ३. १।
(ठ) “उर्वश्यप्सरा। उर्वभ्यश्रुते०—० अप्सराअप्सारिणी,अपि वाऽप्सइति रूपनाम। ‘द्रप्सं स्कन्नंब्रह्मणा दैव्येन विश्वेदेवाःपुष्करे त्वाददन्त (ऋ० सं० ७. ३३. १)”— इत्यादि विद्युद्विज्ञानम्।
(ड) “विद्युन्न या पतन्ती०—० प्रोर्वशी तिरते दीर्घमायुः”— इति ऋ० सं० १०. ९६. १०। अस्या ऋचो व्याख्याने उक्तम्— “अथोर्वशी प्रवर्द्धते दीर्घ मायुः”— इति ११. ४. २। ‘उर्वशी’ मेघोत्था ‘विद्युन्न’विद्युदिव, शारीर-वैद्युतिक-शक्तिः–(जीवनी शक्तिः) ‘प्रतिरते’प्रवर्द्ध्यते ‘दीर्घमायुः’इति तदर्थः। तदिदं शारीरविद्युद्विज्ञानम्।
(ढ) “विकर्त्तनेन मेघाना मुदकं जायते ०—०हावृबूकं वहतः पुरीषम् वाय्वादित्या उदकम्”— इति वृष्टिविज्ञानम् २. ६. ५।
(ण) “क्वस्विदस्याः(माध्यमिकाया वाचः) परमं जगाम? (ऋ० सं० ८. १००. १०) इति। यत् पृथिवीं गच्छतीति वा यदादित्यरश्मयो हरन्तीति वा”— इति ११. ३. ७। एतदेवेहोदकमानसाम्यहेतुविज्ञानम्।
(त) “त्रय स्तपन्ति पृथिवी मनूपाः (ऋ० सं० १०. २७. २३.)। पर्जन्यो वायुरादित्यः, शीतोष्णावर्षैरोषधीःपाचयन्ति। ‘अनूपाः’अनुवपन्तिलोकान्त्स्वेन स्वेन कर्मणा”— इत्यन्नोत्पत्तिविज्ञानम् २. ६. ५।
(थ) “अयमथ्यग्निरोजसा बलेन मथ्यमानो जायते; तस्मादेन माहसहसस्तुत्रंसहसोयहुम्”—इति पार्थिवाग्निविज्ञानम् ८. १. ३।
(द) “ससं न पक्वमविदच्छुचन्तम् (ऋ० सं० १०. ३९. ३.)। स्वपनमेतन्माध्यमिकं ज्योतिरनित्यदर्शनं तदिवाविदज्जाज्वल्यमानम्। ‘हिता च सत्ता स्वधया चे शम्भुः’ (ऋ० सं० ३. १७. ५.)। द्वैधं च सत्ता मध्यमे च स्थाने उत्तमे च। ‘शम्भुः’सुखभूः”— इति माध्यमिकाग्निविज्ञानम् ५. १. ३।
(ध) “**हिमेनाग्निंघ्रंस मवारयेथाम्,
पितुमती मूर्ज्जमस्मा अधत्तम्।
ऋवीसे अत्रि मश्विनावनोतम्,
उन्नित्यथुःसर्वगणं स्वस्ति”
**— इति ऋ० सं० १, ११६. ८।
हे ‘अश्विनौ!’युवां ग्रीष्मान्ते ‘हिमेन’वर्षशैत्येन, ‘घ्रं सम्’अहोनुभूतम् ‘अग्निं’तापम् ‘अवारयेथाम्’, ‘पितुमतीम्’अब्रवतींच ‘ऊर्ज्जम्’‘अस्मै’अग्नये ‘अधत्तम्’, योऽयम् ‘ऋवीसे’पृथिव्याम् अग्निः अन्तरौषधिवनस्पतिष्वप्सुतम् ‘सर्वगणं’सर्वनामानं ‘अत्रिम्’अग्निम् ‘उन्नित्यथुः’। ‘स्वस्ति स्वस्त्ययनायास्यजगतः। “यद्वृष्ट ओषधय उद्यन्ति प्राणिनश्च पृथिव्याम्, तदश्विनो रुपम्;तेनैतौस्तीति”— इत्यश्विनामाहोरात्रहेतुसौराग्निविज्ञानम् ६. ६. ८।
(न) “अयमेवाग्निर्वैश्वानर इति शाकपूणिः। विश्वानरा-वित्यप्येते उत्तरे ज्योतिषी। वैश्वानरोऽयं यत्ताभ्यां जायते। कथं त्वयमेताभ्यां जायते? इति। यत्र वैद्युतः शरणमभिहन्ति, यावदनुपात्तो भवति मध्यमधर्मैव तावद्भवति, उदकेन्धनः शरीरोपशमनः; उपादीयमान एवायं सम्पद्यते। उदकोपशमनःशरीरदीप्तिः। अथादित्यात्। उदीचि प्रथमसमावृत्त आदित्ये कंसं वा मणिं वा परिसृज्यप्रतिस्वरे यत्रशुष्कगोमयमसंस्पर्शयन् धारयति,
तद्प्रदीप्यते, सोऽयमेव सम्पद्यते। अप्येते उत्तरे ज्योतिषी अग्नीउच्यते ७. ४. ३)”— इति वैश्वानराग्निविज्ञानम् ७. ६, ६, ७।
(प) “योऽनिध्मोदीप्यतेऽभ्यन्तर मप्सु”— इतिअपान्नपान्नामजलान्तर्वर्त्तिवाष्पीभूताग्निविज्ञानम् १०. २. ७।
(फ) “(अथास्य कर्म,— वहनञ्चहविषा मावाहनञ्चदेवतानां यच्चकिञ्चिद् दार्ष्टिविषयक मग्निकर्मैव तत्”— इति पार्थिवाग्निकर्मविज्ञानम् ७. ३. १।
(ब) अथास्य कर्म,— रसानुप्रदानं वृत्रवधो या च का च बलकृतिरिन्द्रकर्मैव तत्”— इतीन्द्र (वायु) कर्म विज्ञानम् ७. ३. ३।
(भ) “अथास्य कर्म,— रसादानं रश्मिभिश्च रसधारणं यच्च किञ्चित् प्रवह्नितमादित्यकर्मैव तत्”— इत्यादित्यकर्मविज्ञानम् ७. ३.४।
(म) “अदिति रदीना, देवमाता”— इति ४.४. १। ततः—
**“दक्षस्य वादिते जन्मनि ब्रतेराजानामित्रावरुणा विवाससि।
अतूर्तपन्थाःपुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु” **
— इति अदितिशब्दस्य निगमं (ऋ० सं० १०. ६५. ५.) प्रदर्श्य तद्व्याख्यायाम् आह— “अथो‘अर्यमा’ आदित्योऽरीन् नियच्छति, ‘सप्तहोता’ सप्तास्मैरश्मयो रसानभिसन्नामयन्ति सप्तैनमृषयःस्तुवन्तीति वा, ‘विषुरुपेषु’विषमरुपेष, ‘जन्मसु’ कर्मसु उदयेषु। आदित्यो दक्ष इत्याहुः, आदित्यमध्ये च स्तुतोऽदितिर्दाक्षायणी”— इति, पुनः “अदितेर्दक्षोऽजायतदक्षाद्वदितिःपरि (ऋः सं० १० ७२. ४.)— इतिच। तत् कथ मुपपद्यते? समानजम्नानौस्याता मिति, अपिवा देवधर्मेणेतरेतरजन्मानौस्याताम्, इतरेतरप्रकृतौ”— इति११.३.२। तदिदमेव वीजाङ्कुरन्यायतः.सृष्टिविज्ञानम्।
(य) “हिरण्यगर्भःसमवर्तताग्रे भूतस्य जातःपतिरेक आसीत्।
स दाधार पृथिवींद्या मुतेमां (ऋ० सं० १०.१२१. १.)।
हिरण्यगर्भोहिरण्यमयो गर्भोऽस्येति वा [“हिरण्यं कस्मात्? ह्रियत आयम्यमानमिति वा,ह्रियतेजनाज्जनमिति वा, हितरमणं भवतीति वा, इर्य्यतेर्वा स्यात् प्रेप्साकर्मणः”— इति २.२.१.] ०—० समभवदग्रे भूतस्य जातः पतिरेको बभूव। स धारयति पृथिवींच दिवं च”— इति सौराकर्षणविज्ञानम् १०.२. १०।
(र) “सविता यन्त्रैः पृथिवीमरम्णा दस्कम्भने सविता द्यामदृंहत्।
अश्व मिवाधुक्षहुति मन्तरिक्षमतूर्तेबद्धंसविता समुद्रम्” (ऋ० सं०१०.१४९.१.)।
सविता यन्त्रैःपृथिवींमरमय दनारम्भणेअन्तरिक्षे सविता द्या मदृंहदश्व मिवाधुक्षद्धुनि मन्तरिक्षे मेघं बद्ध मतूर्तेबद्धमतूर्ण इति वात्वरमाण इति वा सविता समुदितारमिति क मन्यं मध्यमादेव मवक्ष्यत्। आदित्योऽपि सवितोच्यते”— इति पृथिव्यादिभ्रमणविज्ञानम् १०. ३. ८।
(ल) “देवो दानाद्वा दीपनाद्वा द्योतनाद्वाद्युस्थानो भवतीति वा, यो देवःसा देवता”— इति (७. ४. २.), “देवा न आयुः प्रवर्द्धयन्तु चिरञ्जीवनाय (ऋ० सं १. ८९, २.)। “विश्वेदेवाः = सर्वेदेवाः”–इत्यादि (१२, ४. ५.), “रश्मयोऽत्रदेवा उच्यन्ते य एतस्मिन्नधिनिषणा इत्यधिदैवतम्, अथाध्यात्मम् ०—० इन्दियाण्यत्र देवा उच्यन्ते”— इति च (१३. १. ११.) देवविज्ञानम्।
(व) “अङ्गिरसो नः पितरो नवग्बाअथर्वाणो भृगवः सोम्यासः (वा० सं १९. ५०.)। ०—० माध्यमिको देवगण इति नैरुक्ताः, पितर इत्याख्यानम्”— इति पितृविज्ञानम् ११. २. ७।
(श) सप्त ऋषयः प्रतिहिताः शरीरे
सप्त रक्षन्ति सदमप्रमादम्।
सप्तापः सपतो लोक मीयुस्तत्र जागृतो
अस्वप्नजौसत्रसदौच देवौ”— इति वा० सं० ३४.५५।
अत्र “सप्त ऋषयः प्रतिहिताः शरीरे, रश्मय आदित्ये; सप्त रक्षन्ति सद मप्रमादं, संवत्सर मप्रमाद्यन्तः; सप्तापनास्त एव स्वपतो लोक मस्तमित मादित्यं यन्ति; तत्र जागृतोऽस्वप्नजौ सत्रसदौ च देवौ, वाय्वादित्या वित्यधिदैवतम्”— इति व्याख्याय पुनरन्यविधं व्याख्यातम्— “अथाध्यात्मम्। सप्त ऋषयः प्रतिहिताः शरीरे, षडिन्द्रियाणि विद्या सप्तम्यात्मनि; सप्त रक्षन्ति सद मप्रमादं, शरीरमप्रमाद्यन्ति; सप्तापनानीमान्येव स्वपतो लोकमस्तमितमात्मानं यन्ति तत्र जागृतोऽस्वप्नजौसत्रसदौच देवौ, प्राज्ञश्चात्मा तैजसश्च इत्यात्मगतिमाचष्टे”— इति १२. ४. ३। वाय्वादित्यशक्तिविज्ञानं द्विविधात्मविज्ञानञ्च।
(घ) “तेषा मेषापरा भवति (अथ० सं० २०.४.८.)— ‘तिर्यग्विलयमस ऊर्ध्वबुध्नोयस्मिन्यशोनिहितं विश्वरूपम्। अत्रासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः”— इति। अत्रापि “तिर्यग्विलश्चमस ऊर्ध्वबन्धन ऊर्ध्वबोधनो वा यस्मिन् यशो निहितं सर्वरूप मत्रासत ऋषयः सप्त सहादित्यरश्मयः, ये अस्य गोपा महतो बभूवुरित्यधिदैवतम्”— इत्युक्ता, ततोऽन्यथाऽप्याह— “अथाध्यात्मम्। तिर्यग्विलश्चमसऊर्ध्वबन्धन ऊर्ध्वबोधनो वा यस्मिन् यशो निहितं सर्वरूपमत्रासत ऋषयः सप्त सहेन्द्रियाणि, यान्यतस्वगोप्तॄणिमहतो बभूवुरित्यात्मगति माचष्टे”— इति। सप्तग्रहसम्बन्धाद्रश्वीणांसप्तत्वम्, चन्द्राणामुपग्रहत्वाद् ग्रहग्रहणेनैव
ग्रहणं च सिध्यति। तदिदं सूर्यस्य सप्तग्रहबन्धनत्वविज्ञान मात्मनश्चसप्तेन्द्रियबन्धनत्वविज्ञानम्।
(स) “द्वासुपर्णा सयुजा सखाया समानं वृक्षंपरिषस्वजाते।
तयोरन्यःपिप्पलं स्वाद्वत्त्यनश्रबन्यो अभिचाकशीति”
— इति ऋ० सं० १. १६४. २०। अत्रैतन्निरुक्तम्— “द्वौद्वौ प्रतिष्ठितौ सुकृतौ धर्मकर्त्तारौ, दुष्कृतं पापं परिसारकमित्याचक्षते; सुपर्णा सयुजा सखायेत्यात्मानं दुरात्मानं प्रत्युत्तिष्ठति शरीर एव तज्जायते वृक्षं रक्षशरीरं वृक्षं पक्षौप्रतिष्ठापयति; तयोरन्यद् भुक्तान्न मन श्नन्नन्याम् सरूपतां सलोकता मश्नुते य एवं विद्वान्मनश्नन्नन्योऽभिचाकशीतीत्यात्मगति माचष्टे”— इत्यात्मद्वयविज्ञानम् १३.४.२.।
(ह) “हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः संयजन्ते सखायः।
अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे”
—इति ऋ० सं० १० ७१. ८।अत्रैतन्निरुक्तम्— “हृदा तष्टेषु मनसां प्रजवेषु यद् ब्राह्मणाः संयजन्ते समानाख्याना ऋत्विजोऽत्राह त्वं विजहुर्वेद्याभिर्वेदितव्याभिः प्रवृत्तिभिरोहब्रह्माण ऊहब्रह्माण ऊह एषां ब्रह्मेति वा”— इति ब्रह्मविज्ञानम् १३. १. १३.।
वस्तुतो निरूक्तप्रणयणकालेऽपि तदानीन्तनविपश्चितां हृदयेष्वेवं वैज्ञानिकभावा देदीप्यमाना आसन्, यत्—
“समान मेतदुदक मुञ्चैत्यव चाहभिः।
भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः”— इति**,**
ऋगेषा (१. १६४. ५१.) न व्याख्याता यास्केन, उक्तन्तु ‘निगदव्याख्याता’— इति (७.६.९)। निगदेनोच्चारणकालेनैव व्याख्याता अधिगतेति किं मदीयविशेषव्याख्यानेनेति तद्भावः॥
(४२) ‘यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्’— इति प्रज्ञापितं तेन भगवता यास्केन निगमैकप्रदर्शनेन। तद्यथा—
“ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः।
यस्तन्नवेद कि मृचा करिष्यति य इत्तद्विदुस्त इमे समासते”
—इति ऋ० सं० १. १६४.३९। “ऋचो अक्षरे परमे व्यवनेयस्मिन् देवा अधिनिषष्णाः सर्वे, यस्तन्न वेद किं स ऋचा करिष्यति, यइत्तद्विदुस्तइमे समासत इति विदुष उपदिशति। कतमत्तदेतदच्चरम्? ओ मित्येषा वागिति शाकपूणिर्ऋचश्च ह्यक्षरे परमे व्यवने धीयन्ते नानादेवतेषु च मन्त्रेषु। एतद् वा एतदक्षरं यत्सर्वां त्रयींविद्यां प्रतिप्रतीति च ब्राह्मणम्”— इति १३. १. १०।
(४३) मन्त्रेषु श्रुतानां रूपकाख्यानानां प्रकृतार्थग्रहणनिदर्शनानि चेह बहून्याख्यातानि। तद्यथा (ऋ० सं० १०.१७.२,१)—
“अपागूहन्नसृतां मर्त्येभ्यः कृत्वीसवर्णा मददुर्विवस्वते।
उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः॥
अप्यगूहन्नमृतां मर्त्येभ्यः कृत्वीसवर्णा मददुर्विवस्वतेऽप्यश्विनावभरद्यदासीदजहाद् द्वी मिथुनौ सरण्यूः। मध्यमंच माध्यमिकां च वाचमिति नैरुक्ताः, यमं च यमीं चेत्यैतिहासिकाः। तत्रेतिहासमाचक्षते,— त्वाष्ट्रीसरण्यूर्विवस्वत आदित्याद्यमौमिथुनौजनयाञ्चकार**,** सा सवर्णा मन्यां प्रतिनिधायाश्वंरूपं कृत्वा प्रदुद्राव स विवस्वानादित्य आश्व मेव रूपं कृत्त्वा तामनुसृत्य सम्बभूव ततोऽश्विनौजज्ञाते, सवर्णायां मनुः । तदभिवादिन्येषर्ग्भवति (ऋ० सं० १०. १७. ३.)—
“त्वष्टा दुहित्रे वहतुंकृणोतीतीदं विश्वं भुवनं समेति।
यमस्व माता पर्युह्यमाना महो जाया विवस्वतो ननाश”— इति।
मन्त्रद्वयश्रुतस्यास्य कल्पितोपाख्यानस्य वीजञ्चाहैतत्— “रात्रिरादित्यस्य;आदित्योदयेऽन्तर्धीयते”—इति १२.१. १०,११।
(४४) सामाजिककर्त्तव्योपदेशायाम्नातस्य कल्पितोपाख्यानस्यतत्त्वनिर्णयाय तत्तन्निगूढव्याख्याप्रकाशे यत्नोयद्यपि न दृश्यते यास्कस्य, पर तत्कृतात् तत्तत्कल्पनावीजनिर्द्देशादेव प्रतीयते तत्तन्निगूढार्थोऽपि स्फुटम्। तादृशकल्पितोपाख्यानस्य कल्पितत्वबोधने यत्नो धीमत्सु अप्रयोजनीय इत्येव तत्र तदुपेक्षावीजम्। एवञ्च यास्ककालं यावदपि नैतादृग् बुद्धिमान्धं सञ्जातमार्याणां यत् तत्तत्कल्पितोपाख्यानानां कल्पितत्वबोधनेऽपि यत्नः कर्त्तव्यः स्यात् कस्यापीति तत्तहोजमात्रा ख्यानेनैवाभवत् कृतकृत्यस्मन्योभगवान् यास्कः। तद्यथा, अस्त्येकं सूक्तंचतुर्द्दशर्गात्मकं दाशतय्या दशमे मण्डले दशमम्; तत् सर्वमेव सायणाचार्येण यमयमीसंवादपरं व्याख्यातम्, अत एव तन्नामतः प्रसिद्धञ्च तत् सम्प्रति। अस्मन्मते तु तत्सूक्तीयाः कतिचिदेवर्च्चोयमयमोसंवादपराः, नैव सर्वाः। तस्यैतस्य सूक्तस्य तिस्र ऋच उद्धृता इह निरुक्ते त्रिषु (४. ३. ४; ६. ५, ५; ११.३.१३)। ता इमाः —
“आ घा ता गच्छानुत्तरा युगानि, यत्र जामयः कृणवन्नजामि।
उप बर्बृहि वृषभाय बाहुम्, अन्य मिच्छस्वसुभगे पतिं मत्॥
बतो बतासि यम नैव ते मनो हृदयञ्चाविदाम।
अन्या किल त्वां कश्येव युक्तं परिष्वजाते लिबुजेव वृक्षम्॥
अन्य मू षु त्वं यम्यन्यउ त्वां परिष्वजाते लिबुजेव वृक्षम्। तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम्”अत्रोपसंहारवचन मेवमाह यास्कः— “यमीयमंचकमे तां प्रत्यावचक्षेत्याख्यानम्”—इति (११. ३. १३) । यमपदार्थनिर्णये
तूक्तम्— “यमो यच्छतीति सतः ०—० अग्निरपि यम उच्यते”— इति (१०. २. ६, ७.)। “अग्निर्वाव यम इयं (पृथिवी) यमी”— इति तै० सं० ३. ३. ८. ३। शतपथे चैवमेव ६. २. १. १०। एवञ्चेह पृथिव्या मग्नेः सर्वदा सर्वत्र विद्यमानत्वेन भ्रातृभगिनीभावस्त्वनयोर्मन्तव्यो न तु दाम्पत्यभावः; सति हि दाम्पत्यभावे अग्नेरालिङ्गनेन सर्वा पृथिवी विदह्येतैव। अतोऽग्निना प्रत्याख्याता पृथिवी पर्जन्येन विवाहिता; तदेव श्रूयते— “पिता दुहितुर्गर्भ माधात्”— इति ऋ० सं० १. १६४.३३। उक्तञ्च तत्र यास्केन ‘पर्जन्यःपृथिव्याः’— इति (४.१.५.)। पिता = पालयिता, दुहिता = दूरे हिता, पर्जन्य = कर्त्तृकं वृष्टं रेतः = उदकं, पृथिवीकर्त्तृकं तस्य धारणं, ततश्चौषध्याद्युत्पत्तिःप्रत्यक्षमेव। यश्च श्रूयतेऽत्र ‘उत्तरा युगानि’— इति, तत् प्रलीनकालीनानि बोध्यानि। प्रलीनकालस्य चैतत्कालसाम्यं मन्तव्यम्; अहोरात्रयोः कालसाम्यादिदर्शनात्। तत एवाह मनुः (१.७३)— ‘तद्वेयुगसहस्रान्तं ब्राह्मंपुण्य महर्विदुः। रात्रिञ्च तावतीमेव तेऽहोरात्रविदो जनाः’— इति।
(४५) एतद्वितीयपरिशिष्टे बहवो दार्शनिकभावाश्च विद्यन्ते। तद्यथा— “आकाशगुणः शब्दः”–इत्येवमादयो (१३.२.४.)।
(४६) तत्रापि साङ्ख्याना मादरातिशयो गम्यते। “अथैष महानात्मा त्रिविधो भवति— सत्त्वं रजस्तम इति(१३.२.३.)”—इत्येवमादयो द्रष्टव्याः।
(४७)पुनर्जन्मविवेकश्चाख्यातः, तत्र च साङ्ख्ययोगमिति स्पष्टमभिहितम्। “मृतश्चाहं पुनर्जातः”— इत्यादि, “शुभाशुभं कर्म्मैतच्छरीरस्य प्रमाणम्”— इत्यन्तञ्च द्रष्टव्यम् (१३.२.६.)।
(४८) तत्रैव शारीरिकतत्त्वानि च कानिचिदभ्युक्तानि। “अष्टोत्तरं सन्धिशतमष्टाकपालं शिरः सम्पद्यते षोडश कपालानि नव स्नायुशतानि (१३.२.७)”—इत्येवमादीनि।
(४९) “ब्रह्मा देवानां पदवीः कवीनाम्, ऋषिर्विप्राणां महिषो मृगाणाम्। श्येनो गृध्राणां, स्वधितिर्वनानां, सोमः पवित्र मत्येति रेभन्”—इति ऋ० सं० ९. ९६. ७।
अस्य मन्त्रस्य द्विविधं व्याख्यान मकारि परिशिष्टकृता यथा— “एष हि ‘ब्रह्मा’भवति ‘देवानां’देवनकर्मणा मादित्यरश्मीनाम् ०—० इत्यधिदैवतम्। अथाध्यात्मम्— अयमपि ‘ब्रह्मा’भवति ‘देवानां’देवनकर्मणामिन्द्रियाणाम् ०—०। आत्मगति माचष्टे”— इति (१३.२.१३)।
(५०) ब्रह्मवर्णनञ्चात्रैकत्र कृतं निगमप्रदर्शनेन यथा ( ऋ० १०. ८२. ७.)
“न तं विदाथ य इमा जजानान्युद्युष्माकमन्तरं बभूव।
नीहारेण प्रावृता जल्प्याचासुतृप उक्थशासश्चरन्ति॥
न तं विद्यया विदुषो यमेवं विद्वांसो वदन्त्यतक्षरं ब्रह्मणस्पति मन्यद् युष्माकमन्तर मन्यदेषा मन्तरं बभूवेति। नीहारेण प्रावृतास्तमसा जल्प्या चासुतृप उक्थशासः प्राणं सूर्यं यत्पथगामिनश्चरन्ति। अविद्वांसः क्षेत्रज्ञमनुप्रवदन्ति। अथाहो विद्वांसः क्षेत्रज्ञोऽनुकल्पते। तस्य तपसा सहाप्रमादमेत्यथाप्तव्यो भवति। तेनासन्ततमिच्छेत्ते न सख्यमिच्छेदेषहि सखा श्रेष्ठः सञ्ज्ञानाति भूतं भवद्भविष्यदिति। ज्ञाता कस्माज्ज्ञायतेः सखा कस्मात्सख्यतेः सह भूतेन्द्रियैःशेरते महाभूतानि सेन्द्रियाणि प्रज्ञया कर्म कारयतीति। तस्य यदापः प्रतिष्ठाशीलमुपशम आत्मा ब्रह्मेति स ब्रह्मभूतो भवति साक्षिमात्रोव्यवतिष्ठतेऽन्धो ज्ञानकृतः”—इति १३.२.१०।
(५१) परिशिष्टञ्चेतदुपसंहृतं मोक्षविज्ञानात्मपरमपुरुषार्थाख्यानेनातिमधुरेण। तद्यथा— “देवानां तु वयं जाना”— इति, “नासदासीन्नोसदासीत् तदानीम्”— इति च (ऋ० सं० १०. ७२. १-९; १२९. १- ७.)। “सैषात्मजिज्ञासा सैषासर्वभूतजिज्ञासा, ब्रह्मणः सारिष्टं सरूपतां सलोकतां गमयति य एवं वेद”— इति (१३. ४. ९.)।
अथात्रकिञ्चिद् ब्रूमः।— यदुक्तं पुरस्तात् (२५५ पृ०) “सरूपतां सलोकता मश्नुते य एवं विद्वान्”— इति, तत्तात्पर्यं त्वेवं स्यात्— ‘यः’पुरुषः‘एवं विद्वान्’“द्वासुपर्णा सयुजा (ऋ० सं० १. १६४. २०)”— इत्यस्य मन्त्रस्यार्थविद् भवति, स नूनं जीवात्मपरमात्मनोरुभयोरेव चैतन्यत्वेनैकरूपत्वमवगम्य ‘सरूपताम्’आत्मनो ब्रह्मसमानरूपत्वम् ‘अश्नुते’लभते, किञ्चोभयोरेकवृक्षस्थत्वमवगम्य ‘सलोकतां’एकलोकस्थायित्वमपि ‘अश्नुते’लभते। लाभोऽत्रबुद्धिभ्रमाद् ह्रितपदार्थे पुनर्दृष्टिक्षेपज इव; यथा स्वस्कन्धस्थां गात्रमार्जनी मनवेक्षमाणस्य कालान्तरे भवत्येवेति। अथात्रोपसंहारवचने यदस्ति सारिष्टमित्यधिकं पदम् तस्यास्ति सार्ष्टिमिति पाठान्तरञ्च। सार्ष्टपदस्य निर्वाणमिति व्याख्यान मकारि भागवतटीकायां श्रीधरस्वामिना। निर्वाणन्तु न युज्यते नित्यस्यात्मनः कदापि, नापि वेदेषु क्वचिदपि श्रुत मस्ति; बौद्धैरेव प्रथम मुपात्तंजीवस्य निर्वाणम्, तत एव तद् गृहीतं तत्परजेः भागवतप्रभृतिपुराणप्रणेतृभिः। तदेव मिह यद् दृश्यते तदर्थकं सार्ष्टिपदम्, तदेतन्नुनं परतनेःकैश्चित् निवेशितम्, अथ वैतद्द्वितीयपरिशिष्टमेव स्यादमतिप्राचीनमित्यस्माकम्; ‘जातवेदसे सुनवाम’— इति (ऋ० सं० १.९९.१.) मन्त्रस्यपूर्वोक्ताद्
(७. ५. २.) व्याख्यानात् इहत्य व्याख्यानस्य (१३. ४. ५.) सर्वथा पार्थक्यप्रतीतेः, पौनरुक्तदोषापत्तेः अन्यत्रान्यत्रचेह भाषाव्याख्यानशैल्यादिभेदावगमादिभ्यश्च।
वस्तुतस्तु “द्वा सुपर्णा सयुजा सखाया”— इति मन्त्रतो यदधिगतं ‘दशमस्त्वमसि’— इत्यभियुक्तोक्तिजन्य-भ्रमापनोदनतः समुत्पन्नमिव जीवात्मपरमात्मनोः सायुज्जादिकम्, तदेवान्यथोपवृंहितंपुराणादौ। एवं हि यदस्ति पुराणेषु क्वचित् पञ्चविधस्य क्वचिच्चतुर्विधस्य मोक्षस्य वर्णनम्, तत् सर्वमेव वालबोधायैव। तद्यथा भागवते—
“सार्ष्टिसारूप्यसालोक्यसामीप्यैकत्व मप्युत।
दीयमानं न गृह्नन्तिविना मत्सेवनं जनाः”—इति**।**
अस्मिन् श्लोके सार्ष्टीति बौद्धशास्त्रप्रसिद्धं निर्वाणम्। तत्तुनित्यस्यात्मनो नैव सम्भाव्यमस्ति,न च सुखाभिलाषिणामस्माकं प्रार्थनायोग्यम्, नापि वेदबोधितमित्यश्रद्धेयम्। एकत्वमपि तथैव। सर्वव्यापिनोऽस्य परमेश्वरस्य सर्वलोके सर्वसमीपे च सर्वदा विद्यमानत्वात् सालोक्य-सामीप्ये त्वप्रार्थिते अपि स्त एव सर्वत्रसर्वेषामस्माकमिति किं तयोः प्रार्थनया। सारूप्यवादस्तून्मत्तप्रलापः ब्रह्मणो रूपाभावात्, असङ्ख्येयत्वप्रसङ्गाच्चेति।
तदित्थंसर्वेषामेव वेदवेदाङ्गानां परमपुरुषार्थोपदेश एव चरम उद्देश्य इति सिद्धम्॥
———
(१२)
“अथार्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्”— इति सायणीयप्रथमलक्षणलक्षितस्य‚ मूलात्मनिरुक्तस्य वस्तुतो निघण्टुसमाम्नायस्य टीकाकृतो देवराजयज्वनः, “एकैकस्यपदस्य सम्भाविता अवयवार्था यत्र निःशेषेणोच्यन्ते तन्निरुक्तम्”— इति सायणीयद्वितीयलक्षणलक्षितस्य,भाष्यात्मनिरुक्तस्य, वस्तुतो निघण्टुसमाम्नायभाष्यस्य टीकाकृतो दुर्गाचार्यस्य, प्रसङ्गतः सर्ववेदभाष्यकारस्य सायणाचार्यस्य च जीवितकालनिर्णयाय, पाण्डित्यादिवर्णनाय च किञ्चिद्यतामहे।
तदत्र, निघण्टुटीकाकारस्यास्य देवराज इति समाख्यादर्शनादुपलभ्यते रामानुजस्वामिपरभवत्वम्; प्रपन्नामृतादिरामानुजसम्प्रदायीयग्रन्थालोचनतः स्फुटह्यवगम्यते प्रथमं रामानुजस्वामिन एवासन्नुपनामानि देवराजो देवमन्नाथो मन्नाथश्चेति त्रीणि; ततः प्रभृत्येव लोके प्रचलिता देवराज इत्यादयः समाख्या इति।
श्रीवैष्णवसम्प्रदायप्रवर्त्तकस्य तस्य रामानुजस्वामिन आविर्भावसमयस्त्वेवंप्रपन्नामृते (११५अ० २७श्लो०)—
“शालिवाहशकाब्दानां तत्राष्टत्रिंशदुत्तरे।
गते नवशते श्रीमान् यतिराजोऽजनि क्षितौ॥”— इति**।**
रामानुजस्वामिकर्त्तृकं यादवाद्रौनारायणपुरनिर्म्माणं नारायणप्रतिष्ठापनं च द्वादशाधिकसहस्र शकाब्दातीतेऽभवदिति च ४७ अ०—
**“शकाब्दे वर्षसहस्रे गते तद्वादशाधिके।
ततोऽब्दे बहुधानाख्ये पुष्ये मासि शुभे तदा॥ **
शुक्लपक्षेचतुर्द्दश्यां सुप्रभावपुनर्वसौ।
आविर्बभूव भगवान् तत्र नारायणोहरिः॥”—इति**।**
तदन्तर्द्धानप्रकारसमयौ च तत्रैव मुक्तौ [२५, २६ श्लो०]—
**“गोविन्दाङ्के निधायाथ शिरः शेते महामनाः।
आन्ध्रपूर्णस्य चोत्सङ्गे सम्प्रसार्याङ्घ्रिपङ्कजे॥ **
**शिष्येषु तेषु सर्वेषु यतीन्द्रस्य जगद्गुरोः।
भृगुवल्लीं ब्रह्मवल्लींपठत्स्वपि महात्मसु॥ **
**पराङ्कुश-प्रबन्धादीन् प्रबन्ध मखिलं च तम्।
वादकैर्वाद्यमानेषु वाद्येषु निखिलेषु च॥ **
**संस्थाप्य पुरतः पश्यन् महापूर्णस्य पादुके।
ध्यायन् हृदि सदा धीमान् यामुनार्याङ्घ्रिपङ्कजम्॥ **
शिरःकपालं निर्भिद्य ब्रह्मरन्ध्रेण योगिराट्।
रामानुजो जगामाशु तद्विष्णोः परमं पदम्॥”— इति**, **
“स विंशत्युत्तरशतं वत्सराणां भुवस्थले।
** X X X X ॥**
वैकुण्ठ मगमच्छेषो लीलामानुषविग्रहः।
माघशुक्लदशम्यान्तु मध्याह्ने मन्दवासरे॥”— इति च
(६८, ११६अ० २०– –२४, ६२—६७ श्लो०)।
यद्यत्रोक्तं रामानुजसम्प्रदायीयदेवराजाख्याप्रचलनात् पर मेव चलितं देवराजनामेत्यनुमानं नानृतं स्यात् तर्हि सम्भाव्येत नाम—शालिवाहनशकाब्दाना मन्यूनसपाददशशताब्दीगते, विक्रमाब्दानां सार्द्धैकादशशताब्दीगते, ख्रीष्टाब्दानां चैकादशशताब्दीगते च जातोऽयं देवराज इति।
तथेह नैघण्टुकनिर्वचने प्रमाणत्वेनोपन्यस्त मुवटकृतंच वेदभाष्यं दृश्यते बहुत्रैव। उवटेन तु स्वकृतमन्त्रभाष्यावसाने स्फुटं ज्ञापितस्तद्रचनाकालः— “मन्त्रभाष्यमिदं कॢप्तं भोजे पृथ्वीं
प्रशासति”— इति। राजस्थानेतिहासलेखकेन टङ्-महोदयेन त्रयोभोजाः परिचायिताः। तत्र प्रथमस्य संवत् ६१४—५५७ ख्री०,द्वितीयस्य संवत् ७२२ = ६६५ ख्री०, अन्तिमस्य तु भोजस्य संवत् २०९२ = १०३५ ख्री० राज्यारम्भकालो निर्णीतः। तेषामन्तिमभोजराज्यकाले एव प्रणीतं तत् मन्त्रभाष्यमिति स्वीकृतेऽपि न हि तद्राज्यारम्भकाले एव प्रणयनमुपगम्यते, नाप्यन्यूनार्द्धशताब्दीमन्तरा तदानीं कस्यचिदपि ग्रन्थस्य सर्वत्र प्रसृतिसम्भवः, प्रामाण्यतया ग्रहणञ्च भवेदिति तत्रान्यूनाष्टपञ्चाशदङ्काअपि योजनीयाः। तदेवं ११५०— संवत्समातः परमेव प्रणीतमिदं नैघण्टुकव्याख्यानं देवराजेनेति च प्रतीयते॥
निघण्टुभाष्यरूपस्य यास्कीयस्यास्य निरुक्तस्य ऋज्वर्थाभिधायाः टीकायाः प्रणेता दुर्गाचार्यस्तु अज्ञात् देवराजययज्वनो नूनं परभवः; देवराजकृतायां नैघण्टुकव्याख्याननामटीकायां क्वापि दुर्गाचार्यस्य तद्ग्रन्थस्य वा नामोल्लेखादर्शनात्। अस्ति चनैघण्टुकव्याख्यानभूमिकायां ‘इदञ्च स्वमनीषिकया न क्रियते’— इत्यादिः, ‘अतोऽस्माभिर्यथामति प्रदर्शितौ प्रतिपदनिर्वचननिगमौ विद्वांसो बुद्ध्यानिरूप्य शुकभाषितवन्मनसि कुर्वन्तु’— इत्यन्तः प्रमाणपारायणश्च-ग्रन्थसन्दर्भः; यदि नाम दुर्गाचार्यकृतामत्सम्पादिता ‘ऋज्वर्था’ निरुक्तवृत्तिरपि तस्य देवराजयज्वनः परिचिता स्यात्, तर्द्धवश्यंतत्र तस्यापि स्मरणं गम्येत। ततो ग्रन्थमध्येऽपि बहूनां ग्रन्थानां ग्रन्थकृन्नाम्नांच समुल्लेखो विद्यते, विशेषतः स्कन्दस्वामिकृतस्य निरुक्त भाष्यस्य प्रमाणत्वेनोपन्यासः परिदृश्यते प्रायःप्रतिपदम्; परमैकत्रापि निन्दामुखेन च नैव स्मृतो लक्ष्यते दुर्गाचार्य स्तदीय एव ग्रन्थोवा। अतो निःसंशय मेवावगम्यते निघण्टुव्याख्याकारो
यज्ववंशदीपो देवराजो नून मृज्वर्थारचयितुर्दुर्गाचार्यस्याग्रजन्मेति। किञ्च निघण्टुटीकायाम्,— ‘नैगमदेवताकाण्डगतानाञ्चपदानां भाष्यकारेण (यास्केन) निरुक्तानां स्कन्दस्वामिना च तद्व्याख्यातानां प्रक्रिययोन्मीलितव्यम्; बहुशस्तु नैघण्टुककाण्डनिर्वचनानन्तरं तदुन्मीलयितुञ्चायमस्मत्परिश्रमः’— इति लेखात्, ‘निगमदेवताकाण्डयोश्चनिर्वचनं भाष्यस्कन्दस्वामिभ्यां प्रदर्शितं विशदप्रत्ययाभावात् प्रक्रियां विशदीकृत्य क्रमेण व्याख्यायते। तत्र, निगमव्याख्यानानि यदत्रााननुसंहितं तत् तत्रैव द्रष्टव्यम्’— इति नैगमकाण्डीयव्याख्यानोपक्रमवचनाच्चस्फुटं प्रतीयते देवराजीयैतट्टीकाप्रणयनकाले स्कन्दस्वामिकृता निरुक्तटीकैवासीत् सुप्रचलिता; न तु दुर्गाचार्यकृतामत्सम्पादिता ऋज्वर्थेति।
अप्ययं दुर्गाचार्यः स्यात् सर्ववेदभाष्यकृतः सायणतःप्राग्भवः; न हि सायणीयविस्पष्टभाष्यदर्शिनस्तथाविधं जटिलं निरुक्तोदाहृतमन्त्रव्याख्यानं युज्यते। दृश्यते चात्रैकत्र सायणीयरीत्या समुत्कृष्टं तत्कृतं व्याख्यानम्, यथावदुद्धृतञ्च तत् सायणेन स्वकीये बह्वृग्वेदार्थप्रकाशे (ऋ० सं० ७७. २६. १. सा० भा०); उररीकृतञ्च तत् तत्रैव— ‘एतस्याव्याख्यानं निरुक्तटीकाया उद्धृतम्’—इति। अतोऽद्य निःसंशयमेव वक्तुं शक्यते, सायणीयादृग्संहिताभाष्यात् प्राक् प्रणीतेयं दौर्गी निरुक्तवृत्तिरिति।
सायणाचार्यस्य तस्य परिचयस्तु तदीययज्ञतन्त्रसुधानिधिप्रभृतिग्रन्थभूमिकादिभ्योऽभ्युपेयते एवम्— “वंशे चान्द्रमसे तदन्वयनिधिः श्रीसङ्गमोऽभूत्। तस्मात् प्रादुरभूदभीष्टसुरभिः श्रीबुक्कपृथ्वीपतिः॥ हरिहरनिभो भूमौ कामदोहो जगत्याम्, हरिहरनरपालस्तस्य चाभूत् कनिष्ठः। ०—०। तस्याभूदन्वयगुरुः सत्य-
सिद्धान्तदेशतः। सर्वज्ञः सायणाचार्यो मायणार्यतनूद्भवः॥ उपेन्द्रस्येव तस्यासीदिन्द्रः सुमनसांप्रियः। महाक्रतूना माहर्त्ता माधवार्यसहोदरः॥”— इत्यादि। माधवार्योमाधवाचार्य इत्यभिन्नः। तेन स्वकृतव्यवहारमाधवादिग्रन्थभूमिकादौस्वस्य बुक्कामात्यत्वं स्वकुलवर्णनं चोक्ते विशेषतः तद्यथा व्यवहारमाधवे— “सत्यैकव्रतपालको द्विगुणधीस्त्र्यर्थी चतुर्वेदिता, पञ्चस्कन्धकृती षड़न्वयदृढ़ः सप्ताङ्गसर्वंसहः। अष्टव्यक्तिकलाधरो नवनिधिः पुष्यद्दिशत्प्रत्ययः, स्मार्त्तोच्छ्रायधुरन्धरो विजयते श्रीबुक्कणः क्ष्मापतिः॥ इन्द्रस्याङ्गिरसो नलस्य सुमतिःशैव्यस्य मेधातिथिर्धौम्यो धर्मसुतस्य वैण्यनृपतेः स्वौजा निमेर्गौतमिः प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत् कुलगुरुर्मन्त्री तथा माधवः॥ ०-०॥ श्रीमती जननी यस्य सुकीर्त्तिर्मायणः पिता। सायणो भोगनाथश्च मनोबुद्धी सहोदरौ॥ यस्य बौधायनं सूत्रं शाखा यस्य च याजुषी। भारद्वाजं कुलं यस्यसर्वज्ञः स हि माधवः॥”— इति।
तदेवमवगम्यते,— चन्द्रवंशीयस्य श्रीसङ्गमस्य नृपतेः कुलगुरुरासीत् मायणाचार्यः तस्य राज्ञः सुयोग्यौ पुत्रौबुक्कहरिहरौ बभूवतुः; मायणस्य च माधव-सायण-भोगनाथास्त्रयः पुत्रा आसन्। तत्रज्येष्ठस्य बुक्कस्य गुरुरभूत् मायणस्य ज्येष्ठपुत्रो माधवः; कनिष्ठस्यहरिहरस्य गुरुश्चासीत् मायणस्य मध्यमपुत्रो माधवानन्तरजातः सोदरः सायणः। सर्वकनिष्ठस्य भोगनाथस्य तु ताभ्या मल्पविद्यत्वात् सर्वकनिष्ठत्वाद्वा बुक्कहरिहरयोर्गुरुत्वालाभादनाश्रयत्वात् नैवाभूत् तथा प्रसिद्धिः, यथा तज्ज्येष्ठयोर्माधवसायणयोः। माधवाचार्येणहि बुक्कराजसाहाय्यात् व्यवहारमाधवाधिकरण-
मालादयो ग्रन्थाः प्रणीताः स्वानुजेन सायणेन च कारितानि वेदभाष्याणि सर्वाणि। सायणाचार्येण तु हरिहरराजसाहाय्यात् यज्ञतन्त्रसुधानिध्यादयः प्रणीताः। यद्यपि शुक्लयजुस्संहिताभाष्य मथर्वसंहिताभाष्यञ्च हरिहरनरपतेः राज्यकाले एव प्रणीतवान् स सायणः, तथापि स्वाग्रजसोदरस्य आदेशत एव ते अपि प्रणीते इति मन्वानेन तेन न तयोरपि माधवीयत्व मनङ्गीकृतम्।
तदनयोर्माधवसायणयोराश्रयौ यौबुक्कहरिहरौ राजानौ, तयोस्तु ख्री० १३४४-समाया मभूच्छासनारम्भ इति निर्णीत मद्यतनीयैरैतिहासिकैः प्राय ऐकमत्यैव। तथाच १४००-संवत्समातः परस्तादेव माधवाज्ञातो सायणेन प्रणीतानि वेदभाष्याणीति च गम्यते स्फुटम्। दुर्गाचार्येण तु सायणीयभाष्यतः प्रागेव निरुक्तवृत्तिर्निरमायीति च प्रतिपादितं पुरस्तात्।नैघण्टुकनिर्वचनरचयितायं देवराजस्तु ततोऽपि पूर्वतन इत्यपि निरूपितं प्राक्। तदेव मत्यधिकसार्द्धत्रयोदशसंवच्छताब्दीमध्ये एव समुत्पन्नोऽयं देवराज इत्यपि वक्तुं युज्यते।
तथा शुक्लयजुर्भाष्यप्रणेता महीधरमिश्रः खलु सायणमाधवयोरग्रज इत्यपि स्याद्युक्तम्; महाराजजयचन्द्रप्रदत्तदानपत्रतो महीधरपौत्रस्य १२३२-संवत्समायामवस्थित्युपलब्धेः। तथाहि तत्ताम्रशासनत एवेह किञ्चिदुद्धरामः— “यश्चोपरिलिखितग्रामौसजलस्थलौसलोहलवणाकरौसमक्ष्याकरौ सगर्त्तोषरौसगिरिगहननिधानौ समधूकाम्रवनवाटिका विटपतृण+ निगोतरपर्यन्तौसोर्द्धाधश्चतुराघाटविशुद्धौस्वसीमापर्यन्तौदात्रिंशदधिकद्वादशसंवत्सरे भाद्रे मासि शुक्लपक्षे त्रयोदश्यां तिथौ रविदिने अङ्गतो-
ऽपि संवत् १२३२ भाद्रसुदि १३रवौअद्येह श्रीमद्विजयवाराणस्यां गङ्गोदकेन स्नात्वा०—० महापण्डित श्रीमहीधरपौत्राय महामिश्रपण्डितश्रीहालेपुत्राय महापण्डितश्रीहृषिकेशशर्म्मणे ब्राह्मणाय ०—०प्रदत्तौ मया”— इत्यादि। मुद्रितञ्चेतत्पत्रं ताम्रफलकतःकाशी विद्यासुधानिधी (September, 1869)। नन्वेवं माहीधर-भाष्यस्य पूर्वपीठिकावाक्यत एव यदवगम्यते माधवीयभाष्यस्य च ततः प्राचीनत्वं “भाष्यं विलोक्यौवटमाधवीयम्”— इति; अस्य का गतिरिति चेत्, अत्र ब्रूमः— देवराजेनापि दृष्टं प्राचीनतर मेव माधवीयभाष्यं तत्र प्रामाणिकत्वेनोपन्यस्तं महीधरेणेति। इह हि नैघण्टुकनिर्वचने उद्धृतानां माधवीयभाष्यवचनानामेकमपि नोपलभ्यते सायणमाधवीयेऽस्मद्दृष्टभाष्ये; अत आसीदेव तदानींतद्भाष्यान्तरं माधवीयं नामेत्यत्रास्ति को विचार्य्यः। वाजसनेयिसंहिताभाष्ये यदवोचन्महीधरेण माधवस्त्वित्यादि (१३. ४५.), तदपि न सायणमाधवीयवचनमिति च ध्येयम्।
तदेवं १२३२-संवत्समायां स्थितस्य हृषीकेशस्य पितामहो महीधरः प्रायो द्वादशशताब्दीचतुर्थपादे (सं० ११७६-१२००) प्रणिनाय वेददीपं नाम शुक्लयजुर्भाष्य मित्यनुमानञ्च भवेन्नासङ्गतम्। तदेतस्मात् शुक्लयजुर्भाष्याच्चप्राचीन मिदं नैघण्टुककाण्डनिर्वचनमितिः प्रतीयते; अत्रोल्लिखितभाष्यनामादिषु माहीधरस्यादर्शनात्। तथाच विक्रमाब्दाना मन्यूनसार्द्धैकादशशताब्द्यतीते द्वादशशताब्दीचतुर्थपादारम्भाच्च पूर्वं (सं० ११५१-११७५) प्रणीतमिदं देवराजेन नैघण्टुककाण्डनिर्वचन मित्यस्माकम्॥
अथैतन्नैघण्टुककाण्डनिर्वचनभूमिकायाश्चतुर्थपञ्चमश्लोकतः प्रतीयतेऽस्य देवराजस्य मितामहोऽप्यासीद् देवराजनामैव, पिता
च यज्ञेश्वरार्य इति। ततोऽनुमीयते,— बभूव य एको यज्ववंशीयोविद्वान् यज्ञमूर्त्तिः, काले रामानुजशिष्यत्व मुपगतो देवराज इति प्रसिद्ध, स एवास्य स्यात् पितामहः। तद्यथा— “ततो विद्वान् महान् कश्चित् यज्ञमूर्त्तिरिति श्रुतः। ०—० शिष्यविद्यादिसम्पद्भिः संयुक्तोऽप्रतिवैभवः। ०—० आसाद्य रङ्गनगरं लक्ष्मणाय तमब्रवीत्। रामानुज! मया सार्द्धं शास्त्रवाद कुरु स्वयम्॥ ०—० प्रणम्य लक्ष्मणार्यंच बद्धाञ्जलिपुटोऽब्रवीत्। त्वयाजितोऽहं योगीन्द्र! रक्ष मां शरणागतम् ०—० ज्ञानपुत्रस्य मे चास्य यज्ञमूर्तेरिदं मुदा। ०—०देवराजमुनिश्चेति नामान्तर मथाकरोत्॥”इति प्रपन्नामृते पञ्चविंशषड्विंशाध्याययोर्द्रष्टव्यम्। किञ्च तत्रैव प्रपन्नग्रन्थे यज्ञेश्वरसंवादोऽप्यस्ति (२६अ० १०श्लो०), स एव वास्य पितेति। पितामहपौत्रयोर्नामैक्यं यद्यपि भवितुमर्हत्येव विचारणीयम्।पर मेव मन्यत्रापि दृश्यत इति नासङ्गतम्। तद्यथा-अस्त्येको ग्रन्थो गुणरहस्याख्यः,तत्र न्यायमतानुसृतषट्पदार्थाना मन्यतमो गुणो वोधितः सम्यक्। तस्य चैका टीका विश्रूयते गुणसारमञ्जरीति। तत्प्रणेता किल माधवदेवपौत्रा माधवदेव एव। तथाहि तद्ग्रन्थीय मिदं पुष्पिकावाक्यम्— “इति श्रीगोदावरीतटबिराजमानधारापुरनिवासिमाधवदेवात्मज-लक्ष्मीदेवसूनुकाशीनिवासिमाधवदेवेन गुणरहस्यप्रकाश-गुणसारमञ्जरी विश्वेश्वरप्रीतये कृता”— इति।
एवं मङ्गलाचरणपञ्चमश्लोके ‘रङ्गेशपुरीपर्येतग्रामवास्तव्यः’— इति लेखदर्शनादवगम्यतेऽयं देवराजो दाक्षिणात्यः; अस्ति हि रङ्गेशपुरी त्रिशिरपनप्रदेशे कावेर्याःशाखाद्वयेन वेष्टिता प्रसिद्धा; तस्याएवोपकण्ठे स वसति स्मेति। इय मेव रङ्गेशपुरी पुरा
बभूव रामानुजादीनां श्रीवैष्णवानां प्रधानतो रङ्गभूमिः, तदत्राविर्भूतो देवराजो यज्ववंशजातोऽपि कथं न स्यात् विष्णुपदाश्रितः? अत एव स्मृत मिह प्रसङ्गतस्तेन— ‘वाचं शौरिकथालापप्रसङ्गे पुनीमहे— इत्युक्तेः (१.११.१५)’— इति।
किञ्च निरुक्तमिति प्रसिद्धे यास्कीये निघण्टुभाष्ये, स्कन्दस्वामिकृतायां तट्टीकायाञ्च यथा नैगमदेवतकाण्डपठितानि पदानि प्रत्येकमुपादाय निरुक्तानि दर्शितनिगमानि च, न तथा नैघण्टु कानि; अतो देवराजयज्वना नैगमदैवतपदानां व्याख्याने न तथा श्रमः कृतो यथा नैघण्टुकव्याख्याने; एतदेव प्रकटयितुं कृतं स्वग्रन्थनामकरणं ‘नैघण्टुककाण्डनिर्वचनम्’— इति। ध्वनितञ्चैतदेतद्भूमिकायां स्फुटमिति।
इह भूमिकायां ‘स्कन्दस्वामि-भवस्वामि-गुहदेव-श्रीनिवास-माधवदेव-उवटभट्ट-भास्करमिश्रभरतस्वाम्यादिविरचितानि वेद-भाष्याणि’— इत्युक्तम्। तत्रादिपदात् हरदत्तमिश्रकृतस्य च वेदभाष्यस्य प्रामाण्यतयात्र ग्रहण मनुमीयते; ग्रन्थमध्येऽष्टसु स्थानेषु तद्व्याख्यानोद्धृतिदर्शनात्। अयमेव हरदत्तः पाणिनिवृत्तेः काशिकायाः टीकाकारोऽपि स्यात्। एतत्कृता वेदव्याख्या त्वस्माभिर्नाद्यापि दृष्टा, परमापस्तम्बसूत्रवृत्तिस्तु दृश्यते तत्कृतैवेति।
(१) स्कन्दस्वामी। अनेन वेदभाष्यं प्रणीतम्, निरुक्तस्यापि टीका कृता। तावुभावेव ग्रन्थौनैघण्टुकनिर्वचनप्रणयनकालेऽपि स्याताम्; नान्यथा तत्र तयोस्तत्र प्रतिपदमेव संस्मरणं युज्येत। ऋज्वर्थाग्रथनसमये तु स्कन्दस्वामिकृतं वेदभाष्यमासीन्नवेति को वदेत्, परं निरुक्तव्याख्यानं दुर्लभमपि लभ्येतैवेति सम्भाव्यते; न हि कि मप्यालम्बन मन्तरैव निरुक्तव्याख्याने कृत-
कार्यता दुर्गाचार्यस्य गम्यते। इदानीन्तु तन्नैवोपलभ्यते। अयमाचार्यः खलु रामानुजात् बहुपूर्वज एव स्यात्; रामानुजाभ्युदयात् बहुपूर्वमेवेह भारत स्कन्ददेवनामादिप्रचारश्रुतेः। प्रपन्नामृतेऽपि हि षट्त्रिंशाध्याये जगन्नाथक्षेत्रतः सुदूर बेङ्कटाट्रौकूर्म्मक्षेत्रम्, तत्र च ‘स्वामिपुष्करणीतोरे स्कन्दं मत्त्वा तदाक्रमन्। स्कन्दमित्येव शैवास्ते वैष्णवा वेङ्कटेश्वरम्॥’— इति वर्णितम्। ६२७–शाकीयताम्र शासनतोऽपि गम्यते, भवेत्तच्छताब्दीज एवायमिति। तदिदं ताम्रफलकवृत्तान्तं Bombay Branch R.A.S प्रकाशिते पत्रे (III.: 208-1851) विशेषतो द्रष्टव्यम्।
(२) भवस्वामी। एतत्कृभाष्यस्य किञ्चिदंशस्यापि दर्शनं नूनं सम्पन्नं देवराजस्येति तु गम्यते तद् भूमिकोक्तिपाठतः, परं ग्रन्थमध्ये न क्वापि भवस्वामिवचनमुद्धृतं दृश्यते; ततस्तदानीमेव तद्भाष्यं विरलप्रचारतामुपगतमिति प्रतीयते; इदानीन्तु तद्भाष्यलाभस्य का कथा। तत्कृतोऽग्निष्टोम प्रयोगस्त्वद्यापि क्वचित् क्वचिदस्त्येव। भट्टभास्करकृते आपस्तम्बसंहिताभाष्येऽप्यस्य नामस्मरणं लक्ष्यते। Burnell-महोदयेन त्वस्य भवस्वामिनो ख्रिष्टीयाष्टमशताब्द्यामिह विद्यमानता अनुमिता (Catalogue pp. 24–30.)।
(३) गुहदेवः। अयं हि रामानुजस्वामितोऽप्यतीवपूर्वतनः, किमधिकेन वेदान्ताचार्यसम्प्रदायगुरुषु तृतीयः। तथाहि रामानुजशिष्यवरेण श्रीनिवासदासेन यतीन्द्रमतदीपिकारम्भे एव मुक्तम्— ‘व्यास-बोधायन-गुहदेव-भारुचि-ब्रह्मानन्द-द्रविडाचार्य-श्रीपराङ्कुशनाथ-यामुनमुनि-यतीश्वर-प्रभृतीनां मतानुसारेण’— इत्यादि। यतीश्वर इति रामानुजस्यैव समाख्यान्तरम्; प्रपन्नामृतप्रभृतिग्रन्थतस्तथैवोपलब्धेः। यामुनमुनिस्तु तत्पूर्वतनो वेदान्ता-
चार्यः, पराङ्कुशनाथस्तु ततोऽपि पूर्वतन इति च प्रपन्नासृतादिभ्य एव ज्ञायते। एतदीयवेदभाष्यात्, सम्भवतः खण्डितातीवजीर्णपुस्तकात् एकमेव पदव्याख्यानमुद्धृतमिह देवराजन— ‘गरम् उदकं गिरन्ति गरगिरः”—इति (१.३.१४)।
(४) उवटभट्टः। १०९२— संवत्समातः समनन्तर मेतेन मन्त्रभाष्यं प्रणीतमिति निरूपितं पुरस्तात्। टान्तनामसाम्यात् काव्यालङ्कारकर्तुः रुद्रटस्यसमकालिकोऽयमित्येवं सम्भावितेऽपि गम्यते प्रायस्तथैव; ११२५-संवत् समतीते काव्यालङ्कारटीकाप्रणयनावगमात्। तथाहि तत्समाप्तौ— “एवं रुद्रटकाव्यालङ्कृतिटीप्पनकविवचनात् पुण्यम्। यदवापि मया तस्यात्मनः परोपकृतिरतिभूयात्। ०—०। पञ्चविंशतिसंयुक्तैरेकादशसमाशतेः। विक्रमात् समतिक्रान्तैः प्रावृषीदं समर्थितम्”— इति। एतत्कृतं बह्वृकप्रातिशाख्यभाष्यम्, कात्यायनप्रातिशाख्यभाष्यं मन्त्रभाष्यं नाम शुक्लयजुःसंहिताव्याख्यानं चेति त्रयो ग्रन्थास्त्वस्मदादिभिर्मुद्रिताएवेति।
(५) श्रीनिवासः। अयमेव श्रीमत्पूज्यपादस्य भगवतःशङ्कराचार्यस्य गुरुरासीदिति श्रुतं सत्यञ्चेत्, तत्समकालिकत्वात्सार्द्धाष्टशतसंवत्समाभ्यन्तरे एव स इमां भुवमलञ्चकारेति युक्तम्। नैघण्टुकनिर्वचने षट्स्वेव स्थानेषु एतन्मत सुद्धृतं दृश्यते, ततश्चावगम्यते देवराजकाले एवैतत्कृतस्य भाष्यस्याभवत् लुप्तकल्पतेति; तदेतर्हि तत्प्राप्तेः कथं सम्भावनैव।
(६) माधवदेवः। दृश्यतेऽव्याप्येकं वेदव्याख्यानं विवरणं नाम; तस्य रचयिता बभूवैको माधवः; वेदार्थप्रकाशाख्यभाष्याणाञ्च कारयिता सायणज्येष्ठोऽप्येक आसीत् माधवः; ताविमायु-
भावेव माधवौदेवराजोल्लिखितनाम-माधवादस्माद् विभिन्नावेव; नैघण्टुककाण्डनिर्वचने माधवीयेतिसमुद्धृतानां व्याख्यावचनानामेकस्यापि तत्र विवरणवेदार्थप्रकाशयोरदर्शनात्। Benfey- महोदयेन च सामार्च्चिकसम्पादनावसरे (खृ० १८८४) सायणीयमिति यदुद्धृतं क्वचित् क्वचित् किञ्चित् किञ्चित् पूर्वार्च्चिकव्याख्यानम्, तदपि नैव सायणमाधवीय वेदार्थप्रकाशाख्य मपि त्वन्यमाधवकृत विवरणग्रन्थीयमेव; सायणमाधवीयं सामभाष्यन्तु ततः पश्चात् प्रकाशितं मयेति।
अपि सायणज्येष्ठो माधवः खलु मायणपुत्रः;देवराजीयो माधवस्तु वेङ्कटाचार्यतनयः; इहैव भूमिकायां ‘श्रीवेङ्कटाचार्यतनयस्य माधवस्य भाष्यकृतौ’— इत्युक्तेः।
वेङ्कटाचार्यौच द्वौ प्रसिद्धौ। तत्र‚ यद्ययं ‘शुल्वमीमांसा’कारः स्यात्, नूनं तर्ह्यासीत् हरिहरयोः समानभावेनैवोपासकोऽभेदधिषणः; तत्र तथैवमङ्गलाचरणादिदर्शनात्। तथाहि तन्मङ्गलाचरणीयपञ्चमः श्लोक एषः—
“पारावारात् प्रोद्धृते चन्द्रलक्ष्म्यौ, याभ्यां शश्वन्मौलिवक्षौ बुभूषे।
सर्वैर्लोकैःपूजिते सङ्गृहीते, वन्दे देवौ वामदेवाच्युतौतौ॥”
“—इति श्रीमदद्वैतविद्याचार्यस्य०—० सर्वतन्त्रस्वतन्त्रस्थ ०—० श्रीवेङ्कटेश्वरदीक्षितस्य कृतिषु बौधायनशुल्वमीमांसायां प्रथमोऽध्यायः’— इत्येवमादयश्चतत्पुष्पिका द्रष्टव्याः। यद्ययं ‘रहस्यत्रयसार’— कृत्, ‘न्यासतिलक’— प्रणेता च स्थात्, नूनं तर्ह्यासीत् रामानुजमतानुगो भेदधिषणश्च; तत्र तत्र रामानुजमतस्यैव प्रतिपत्त्यवगमात्; न्यासतिलकस्य च व्याख्यानं रामानुजशिष्येण श्रीश्रीनिवासदासेन सबहुमानकृतमिति दर्शनाच्च।
यद्युच्येत-शुल्वमीमांसारचयिता, न्यासतिलकादिप्रणेता चाभिन्न एवेति, तदप्युपपद्यतैव; दृश्यत एव हि शुल्वमीमांसाया अन्तवाक्ये यथा वेङ्कटाचार्यस्य विशेषणं सर्वतन्त्रस्वतन्त्रस्येति, रहस्यत्रयसारस्यान्तेऽपि तथैव। तथाहि— ‘इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटेशस्य वेदान्ताचार्यस्य कृतिषु श्रीरहस्यत्रयसारः समाप्तः’— इति। बेङ्कटाचार्यः, वेङ्कटनाथः, बेङ्कटेशः, वेङ्कटेश्वर वेङ्कटदीक्षितश्चैक एव स्यात्; एकस्मिन्नेव ग्रन्थे वेङ्कटस्य तस्य बहुविधायाः समाख्यायाः व्यवहारदर्शनात्। वेङ्कट इति व्यङ्कट इति द्विधा लेखश्चोपगम्यतेऽत्र सर्वत्र।
एकस्यैव अभेदवादित्वं भेदवादित्वं च कथमुपपद्येतेति चेत्, अत्र ब्रूमः— कालान्तरतया मतपार्थक्यसम्भव इति। यावदासीत् सोऽभेदधिषणो यागभक्तश्च तदैव प्रणिनाय शुल्वमीमांसादिकान्; यदा त्वभूत् रामानुजाभ्युदयवाताहतभेदधीः कैङ्कर्यव्रतः प्रपन्नः, तत एव विरचितवान् न्यासतिलकादिकानिति; अत्र किमस्ति वैचित्र्यम्।
यद्येवं कल्पना नानृता स्यात्, तर्ह्यवश्यं तत्पुत्रो माधवदेवो नैघण्टुकव्याख्यानकृतो देवराजस्य प्रायःसमकालिक एव भवेत्। तथा सति समकालिकव्यक्तिकृताद् ग्रन्थात् प्रामाण्यतया पुनः पुनः ब्याख्यानाद्युद्धृतिर्देवराजस्यामानुषीत्येव स्वीकार्यम्। म च ग्रन्थस्यौत्कर्षमेव तत्र वीजमिति वाच्यम्; तदीयपूर्वापरविरोधप्रदर्शनेन तदौत्कर्षाभावबोधनात्। तद्यथा— ‘मही मे अस्य ०—० इत्यत्र माधवस्य प्रथमभाष्यम् ०—० मांश्चत्वे अश्वनामैतत्०—० ब्रध्नं मांश्चतो ०—० इत्यत्र माधवः ०—० मांश्चतोर्वरूणस्य०—०इत्यभाषयत्; निरुपणीयम्’—इति (१.१४.१८ भा०) अस्तु
वा तत्तथैव; परं देवराजकृत मिदं निर्वचनं यथा लब्ध मस्माभिः; कथं नैवं लभ्यन्ते तत्समसामयिककृतानि भाष्यनामानुक्रमस्यादीनि? इत्यपि विचार्यमेव।
अस्मन्मते तु बेङ्कटाचार्यद्वयपक्ष एवाश्रयणीयः; तत्राग्रजः शुल्वमीमांसाकारो वेङ्कटाचार्यस्त्वासीत् मीमांसको दीक्षितश्च, रामानुजात्तु का कथा भगवच्छङ्कराचार्य्याच्च प्राग्भवो मण्डनमिश्रादिसमसामयिकः सः; तद्ग्रन्थालोचनात्तथैव प्रतीतेः। तत्पुत्रेणैव माधवदेवेन वेदभाष्यादीनि प्रणीतानि। देवराजकाले स्थितान्यपि तानि साम्प्रतं विलुप्तान्येव वा।
माधवपुत्रेण विनायकेन कृतं कौषीतकोब्राह्मणभाष्यं तु क्वचित् क्वचित् लभ्यत एव; परं स हि कौषीतकीब्राह्मणव्याख्याता विनायकोऽस्यैव माधवस्य पुत्र इत्यत्र तु नोपलभ्यते निःसंशयं मानम्। एवं विनायकशान्तिरितिप्रथिते क्षुद्रग्रन्थेसामगानां संहितातो ब्राह्मणाच्चाशीर्मन्त्राणां सङ्ग्रहः कृतो वर्त्तते। तस्य कर्त्ता विनायकश्च किमु स्यादस्यैव माधवस्य सूनुः?तथा षड्गुरुशिष्यश्चैकं विनायक मन्यतमं गुरु माह। तथाहि-
‘नमः षड्गुरवे तुभ्यं नमोऽस्मद्गुरवेऽपि च।
विनायकस्त्रिशूलाङ्गो गोविन्दः सूर्य एव च।
व्यासश्च शिवयोगी च ये षट् तेभ्यो नमः सदा’— इति।
तत्र विघ्नविघातक-गणेशादि-पञ्चदेवताः पञ्चगुरवः, व्यासः षष्ठ इत्येवं षड्गुरव इति ये न मन्यन्ते, तेषाम् मते सोऽपि विनायकः किमस्यैव माधवस्यात्मजः? इमानीह विचार्याण्येव।
(९) भास्करमिश्रः— भट्टः। बभूवैको ज्योतिषशास्त्रीयग्रन्थानां प्रणेतातिप्रसिद्धो भास्कराचार्यः। नायं सः; तस्य वेद-
विदांवरत्वेन प्रसिद्ध्यभावात्। वेदान्तशास्त्रीयप्रकरणग्रन्थविशेषस्य सिद्धान्तसिद्धाञ्जनस्य रत्नतूलिकाख्यायाष्टीकायाः प्रणेतापि बभूवैको वेङ्कटयज्वपुत्रो भास्करः; स चास्माद्विभिन्न एव तत्रैव हि दीक्षित इति दत्तस्वपरिचय न तु मिश्र इति। वैदिकग्रन्थेषु यैषा त्रिकाण्डमण्डनाख्ययज्ञकारिकाः प्रशस्ताः, तासां प्रणेता बभूवापरो भास्करः; किञ्च वेदाङ्गच्छन्दःसूत्राणामतिदुर्लभस्यात्युत्कृष्टस्य भाष्यराजाख्यस्य भाष्यस्य रचयिता च बभूवान्योभास्करः। नून मनयोः कतरेणैव वेदभाष्यकारेण भवितव्यम्। न च त्रिकाण्डमण्डनकारोभाष्यराजकारश्चाभिन्नः; तयोः पितृपरिचयभेदात्। तद्यथा— त्रिकाण्डमण्डनकारस्य भास्करस्यजनकस्त्वत्र परिचितः कुमारस्वामी; स एव वा स्यात् कुमारिलस्वामी; भाष्यराजकारस्य तु गम्भीरराजः। तदत्र गम्भीरराजसूनुना कृतं तद् वेदभाष्य मुत कुमारिलतनूजेनेति चिन्तिते कुमारिलात्मजेनैव कृतं वेदभाष्यं दृष्टं देवराजेनेति प्रतीयते; नैघण्टुककाण्डनिर्वचने पूषेतिपदव्याख्यानावसरे ‘सर्वार्थपोषणात् पूषा’— इति भट्टभास्करमिश्र (१.१.१९) इत्येव मुल्लेखदर्शनात्; न हि गम्भीरराजसूनुर्भट्टः; अपि तु दीक्षित इत्येव परिचितस्तत्रभाष्यराजे; कुमारिलस्वामी तु भट्ट इति प्रसिद्ध एव मीमांसकानाम्। यदीदमनुमानं नानृतं भवेत्, तर्ह्ययं भास्करमिश्रः प्रायः श्रीमच्छङ्कराचार्यसमसामयिक एव। सायणतोऽन्यूनचतुःशताब्दीपूर्वजोऽयमिति चानुमितं Barnell-महोदयेनापि (Catalogue pp. 12—14)। एतत्कृतं रुद्राध्यायमात्रस्य भाष्य मस्माभिर्दृष्टम्; परं कस्याप्येकस्य वेदस्य सम्पूर्णं भाष्यं नाद्याप्यस्माकमभवद् दृग्गोचरमिति।
(८) भरतस्वामी। एतत्कृतग्रन्थत एकत्रैक मेव क्षुद्रं निर्वचनवाक्य मुद्धृतंदेवराजेन;ततोऽवगम्यते,— तदानीमेवैतत्कृतस्य सम्पूर्णस्यभाष्यस्यातिदुर्लभत्वम्; इदानीं तु नैवपलब्धिसम्भावनापि। अतस्तस्थापि भरतस्वामिनःपरिचयः सम्प्रत्यस्माकमज्ञेयकल्प एव। पर मस्ति क्वचित् पुस्तकालये छन्दोगारण्यकमात्रस्यैव तत्कृतं भाष्य मतिजीर्णमिति च नः श्रुतम्। ६२७— शाकीयताम्रशासन मस्यापि कालनिर्णये स्याद्वानिदानमिति।
अथास्य देवराजयज्वनोव्याख्यानशैली त्वजटिलेति प्रशस्यैव विपश्चिताम्। परं पौराणिकमतप्रबलकालप्रभवत्वादस्य बहुत्रैब पौराणिकमतानुसृता अपि व्याख्याः सन्दृश्यन्ते। तद्यथा— ‘पञ्चाशत्कोटियोजनविस्तीर्णेति पृथिवी’— इति (१. १. ११.), पर्वतोऽपि पक्षच्छेदात् पूर्व मन्तरिक्षे व्रजति स्म’— इति (१.१०.११.), ‘पक्षच्छेदात् पूर्वं पर्वतश्च’— इति (१.१०.१५.), ‘उभयत्रापि छेद्यच्छेदकभावेन सम्बन्धः ०—० तेषामिन्द्रः पक्षानच्छिनत्’— इति (१.१०.१), ‘पिनाकम् ०—० दण्डाकारं धनुरुच्यते; तच्चरूढितो महादेवीयमेव सामान्येन’— इति (३.२९.१६.) च। नैरुक्तविज्ञानभावावगमे चासमर्थ एवासीत् स इति च गम्यतेऽत्रानेकत्र।तथाहि— ‘विकृतत्वं ज्योतिषः शीतत्वात् ह्रसवृद्धिभ्यां वा ४. २.६५)’—इत्येवमादीनि समालोच्यानि।
नैरुक्तशासनात्तस्य क्वचित् क्वचित् ज्ञाननेत्रोन्मीलनमपि प्रतीयतेऽत्र। तद्यथा— ‘यमः = मध्यस्थानवायुः’— इति (५.४.१२), ‘यमः ०—० = अस्तमयावस्थाआदित्य उच्यते’— इति (५.६.१७), विष्णुः = तीव्ररश्मिद्वारेण सर्वत्र प्राविशति’— इति (५.६.११),
‘अदितिः०—० = ऐतिहासिकानां मते देवमाता, नैरुक्तानां मतेअदीनादिगुणा, आत्मपक्षे प्रकृतिः’— इति (४.१.४९.) च। ‘पञ्चजनाः’— इतिपदस्य व्याख्यानावसरे शूद्रस्य च यज्ञाङ्गकार्याधिकारित्वं निर्णीतम् (२.३.२३)। ‘यत्रैकार्थानां पदानां सन्निपातः, तत्रैकं तस्य वाचकं भवति; अन्येषां निरुक्त्या योजनं कर्त्तव्यमिति मर्यादा (१.१.११)’— इत्यादिर्व्याख्योपदेशश्चतस्य नूनं मूल्यवानेव। ‘रलयोरभेदः’— इति (१.१.१३), ‘डलयोरेकत्वस्मरणात्’— इति (१.१.१५), ‘बवयोरभेदः(४.३.१२८)’— इत्येवमादयश्चतत्प्रदर्शितविधय औणादिकशब्दसाधने भवन्त्येव बहुत्र सहायकाः।
निघण्टुसमाम्नायविरुद्धा अपि भवन्ति पदपाठा इति चेह ध्वनित्वम्। तद्यथा—‘सतीकम् ०—० अत्र स-शब्दे अवग्रहकरणं पदकाराणामभिप्रायस्य वैचित्र्यात्’— इति (१.१२.५८)। अस्मन्मते तु सतीकमित्यस्य तथैव निर्वचनं कार्य्यम्, यतो नैव विरुद्ध्येत ‘स। तीकम्’— इति पदग्रन्थः; तस्यापि संहितावत्त्वे न व्यपदेशात् तद्विरोधस्यानुपेक्षणीयत्वात्। वस्तुतो ‘स्तृतीकम्’— इत्येवात्र नैघण्टुकम्; न पुनः सतीकमिति। एवं हिक मित्यादेर्निर्वचनावसरे यदुक्तम् एते निपाताः’— इत्येवं (३.१२.१-९), तदपि पदग्रन्थविरोधान्निन्दनीयमेव। तत्र त्वस्मन्मते ‘एते नव निपातसमुदायाः’— इत्येव वक्तुंयुक्तम्; अन्यत्राप्येवं समुदितपदद्वयस्य पदत्वेन परिगणनं दृश्यत एव हि निघण्टाविति। सायणाचार्यस्तु ऋग्भाष्यादौ हिकमित्यादीनां पदपाठरीत्यैव व्याख्यानमलिखत्; न तु निर्वचनरीत्येति पश्यत्विदं स्वग्रन्थापमानं किल देवराजः।
व्योमशब्दनिर्वचनावसरेत्वेकत्र पदग्रन्थमर्यादाभङ्गभिया उणादिसूत्रस्य यास्कीयनिर्वचनस्यापि ध्वनितोऽनादरः। तथाहि— “उणादौ तु०—० वीयते तद्वायुना व्योम। तथाच निरुक्तम्— ‘योनिरन्तरिक्षं महानवयवः परिवीतो वायुना’— इति (२.२.४.) इदं निर्वचनमेतत्पदकारयोः शाकल्यात्रेययोरनभिमतम्; वीत्यस्मिन् अवगृहीतत्वात्”— इति (१.३.३)। वस्तुतो यास्केनापि पदकाराभिमतमेव निरुतम्— व्योमव्यवनमिति ११.४.६ द्रष्टव्यम्; परिवीत इति तु नैव व्योमनिर्वचनम्, अपि तु तत्र प्रदर्शितनिगममन्त्रश्रुतं’पदमेव; स एष महान् भ्रमो लक्ष्यतेऽच्चास्य देवराजस्येति।
इहानेकत्र निगमस्यान्वेषणीयता च प्रतिपादिता स्वकण्ठरवेणैव। तदिद मन्वेषणीयत्वप्रतिपादनं नैव दूषणीयं मन्यतेऽस्माभिः; ‘न हि सर्वः सर्वं वेत्ति’— इति–प्रज्ञावत्सिद्धान्तात्, लुप्तशाखीयनिगमानां लाभासम्भवाच्च; परं यदत्र ब्राह्मणवादा अपि निगमा इति प्रदर्शिताः “बेकुरानामासि जुष्टा-इति निगमः”—इति (१. ११. ५७), तदिदं न रोचतेऽस्मभ्यम्; निरुक्तमूलरूपस्य निघण्टुसमाम्नायस्य ब्राह्मणपूर्वभवत्वेन ब्राह्मणग्रन्थीयपदेषु लक्ष्यासम्भवात्, द्वादशाध्याय्यां निरुक्ते क्वापि तथाविधनिगमास्मरणाच्चेति अपि वा ब्राह्मणग्रन्थेषु ये केचन मन्त्राः विद्यमानसंहितास्वश्रुताः श्रूयन्ते तेऽपि प्रायो विलुप्तशाखीया एव स्युरितिसर्वमवदातमिति।
अथ ऋज्वर्थानाम निरुक्तटीकाया प्रणेता दुर्गाचार्यः खलु निघण्टुव्याख्यातुर्देवराजयज्वनोऽवरजः, सर्ववेदभाष्यकृतः सायणाचार्यात्तुपूर्वज इति प्रतिपादित मेव पुरस्तात्। सम्भाव्यते, सोऽप्यासीद्
दाक्षिणात्य एवेति; तत्र नैसर्गिकगौडविद्वेषदुर्गन्धोपलब्धेः। तद्यथा— “वन्दनाः = वन्दितारः, लाडगौडादयः”— इत्यादि (निरु० ४.३.३ भा०)। सायणाचार्योऽपि दाक्षिणात्य एव, परं न स दुर्गाचार्य इवापरिमार्जितरुचिः; तेन हि वेदार्थप्रकाशे ‘वन्दना’— इति पदस्य ‘वन्दनानि रक्षांसि’— इति पौराणिक मतानुगत व्याख्यान मकारि। नन्वेवं ऋज्वर्थायाः पुष्पिकासु दृश्यमानस्य ‘जम्बूमार्गाश्रमवासिनः’—इतिविशेषणस्य का गति रिति चेत्, अत्र ब्रूमः— दक्षिणापथीयप्रदेशेभ्यो जम्बूदेशं गन्तुं प्रस्थितानां पान्थानां मार्गेएव स्थितस्तदाश्रमः, तत एव तत्र तथा विशेषण मुपपद्येतेति; न ह्येतेन तस्य दाक्षिणात्यत्वं निरस्यते।
ऋज्वर्थायां निघण्टुनिरुक्तयोः कर्त्तृपार्थक्यं सुप्रतिपादितम्। तथाहि— “एतस्मिन् मन्त्रे ‘अकूपारस्य दावने’— इत्यय मनयोः पदयोरनुक्रमः, समाम्नाये पुनः‘दावने अकूपारस्य’— इति मन्त्रपाठष्यतिक्रमेणानुक्रमः। तेन ज्ञायतेऽन्यैरेवाय मृषिभिः समाम्नातः, अन्यएव चायं भाष्यकार इति”— इत्यादि (४.३.२) वाय्विन्द्रयोर्भिन्नाभिन्नत्वविचारोऽप्यत्र दर्शनीयः। तद्यथा— “वायुर्वेन्द्रो वेति कि मेकस्य पर्यायवचनावेतौ शब्दौउताभिधेयौ भिद्येते?”इत्यादिः (७.२.१ टीः)। तत्रैव “कस्मात् पुनर्मध्यमस्यशब्दद्वयेनोपदेशः क्रियते, पार्थिवोत्तमयोरेकैकेन? (७.२.१ टी.)”— इति विचारोऽपि भवेदेव प्रेक्षावता मभिधेयवचनः। “पात्रस्य इन्द्रपान मिति समाख्या (८.१.२ टी.)”— इत्येवमादि व्याख्यानञ्च दुर्गाचार्यस्य तस्य याज्ञिकत्व मावेदयति। “तासु तनूनपादेवैकः०—० नास्त्येव नराशंसः; तत्र नराशंसयाजिनां सौत्रामणीप्रयोगे कथं प्रयोगः? (८.३.७ टी)”— इति
तत्प्रश्नोद्भावन मपि प्रशस्यमेव। “आथर्वणे रोदसीत्यप्रगृह्यंपदम्, तदपेक्ष्यैकवचनेन भाष्यकारो निराह ‘रोदसी रुद्रस्य पत्नी’— इति (१२.४.१२ टी०)”— एषापि पङ्क्तिरस्य बहुमूल्यैव। “सा च पुनर्व्याख्या (७.४.१ टी०)”— इत्याद्यनुक्रमणार्थवचनञ्चास्य भवेदेव प्रशंसनीयम्। देवानां द्वैविध्यम् (१२. ४. ७ टी०), पितॄणां त्रैविध्यम् (११.२.६ टी०), मन्त्रेषु देवतानिर्णयप्रकारोपदेशव्याख्यानं (७.१.४ टी०) चेत्येवमादिक मपीह द्रष्टव्यमेव॥
अथ मन्त्राणां छन्दोनिर्णये क्वचित् क्वचिदिह छन्दोऽनुक्रमणीविरोधः परिलक्ष्यते। तद्यथा— ‘सं मा तपन्त्यभितः(ऋ० सं० १.१०५.८.)’— इत्यस्या ऋचो निर्णीतं तेन पङ्क्तिच्छन्दः; अनुक्रमण्यां तूक्त मन्त्र— “पाङ्क्तमन्त्यात्रिष्टुबष्टमी महाबृहती यवमध्या”— इति। एतदेव छन्दोऽनुक्रमणीमत मनुसृत्य सायणाचार्येण च ऋग्भाष्ये निर्णीतमियं यवमध्या महाबृहत्येवेति। तत्र हि मध्यपादस्य द्वक्षरन्यूनतैवैतादृशमतद्वैधेनिदानमुपगम्यते। वस्तुतस्तु तादृशस्थले छन्दः सन्दिह्यत एव; प्रदर्शिताया हि ऋचो मध्यमः पादो दशाक्षरः श्रूयते, न च दशाक्षरमध्या द्विचत्वारिंशदक्षरा पञ्चपदा काचिदस्ति विशुद्धाबृहतीपङ्क्तिर्वेति; अतो नूनं चिन्तनीय मेवैतस्या ऋचो विराड्-यवमध्या नाम महाबृहतीछन्दः, उत स्वराट्पथ्या नाम पङ्क्तिच्छन्दः? इति। ईदृक्क्सन्देहापनोदनायैव स्तः पिङ्गलाचार्यसूत्रे— “आदितः सन्दिग्धे, देवतादितश्च (६,२१.७,१)”— इति। एवञ्चास्या ऋचः पाङ्क्तसूक्तमध्यपतित्वात् पङ्क्तित्वमेव ज्यायः। न जाने कथमनुक्रमणीकारोऽस्या महाबृहतीत्व माख्यदिति। क्वचित् मूलानुरोधतोऽपि ब्रह्वृक्छन्दोऽनुक्रमणीविरोधो गलेकुठारन्यायेन स्वीकृत एव
दुर्गाचायेण। तद्यथा— अनुक्रमण्यनुसारतः खलु “अभि न इला”— इति त्रिष्टुप्छन्दस्का, तत उत्तरा “सिषक्तु नः”— इत्येषा विराड्-छन्दस्का; यास्केन त्वेतदवतरण्या मुक्तम् ‘एषा भवति’इत्येकवचनान्तम्; ततश्च ज्ञायते तन्मते उभयोः ऋचो एकत्वमिति। तदाहतत्र तद्व्याख्यायामेष दुर्गाचार्यः‘शक्करी’— इति। सायणाचार्येण तु ऋग्भाष्ये अनुक्रमण्यनुरोधतो नैरुक्तस्वरसोऽपि तृणायितः? अपि वा न च तेन तदानी मेष निरुक्तग्रन्थः स्मृतः? अन्यथा ह्येतदुल्लेखोऽपि कथं न तत्र कुतस्तेनेति। वस्तुतोऽत्र निरुक्तानुक्रमणीकारयोः प्रतीयत एव मतभेदः, तत् किङ्कर्त्तव्यमूढ एवाभवदिह देवराजस्तथा सायणश्च।
दुर्गाचार्यदृष्टनिघण्टुसमाम्नायपुस्तकगतलिपिकरप्रमाणादेदोषतश्चक्वचित् क्वचिद् भ्रान्तिः प्रतीयते ऋज्वर्थायाम्। तद्यथा— निघण्टौ नैगमे काण्डे जहेत्याद्यखण्डे समाम्नात मेवैकत्रिंशत्तमं’नू च’— इति; तदवलम्ब्यैवोक्तं भगवता यास्केन “पुराणनवयोर्नू चेति च”— इति (४.३.१.); निगमश्चोदाहृतस्तत्रैव तेन “नू च पुरा च सदनं रयीणाम्”— इति (ऋ०सं० १.९६.७)। दुर्गाचार्यस्त्विहाय“अयन्तु नूचिदित्येतस्यैवार्थसामान्यप्रसङ्गादसमाम्नात एवोदाहृतः(४.३.१ टी०)”— इति। किञ्चात्रत्ययास्कीयग्रन्थः पदपाठविरूद्धइव लक्ष्यते। पदकारा हि ‘नू। चित्’; ‘नू। च’— इत्येव मवगृह्यन्ति; निरुक्ते तु ‘नूचित्’— इति ‘नूच’— इति चेतौअनवग्रहणीयादेव निपातौसूचिताविति गम्यते। निघण्टुसमम्नाये तु द्वित्राण्यपि पदानि पदत्वेन परिगणितानि दृश्यन्ते “शं योः (४.१.४८.), सोमो अश्वाः (४.१.१३.)”, देवो देवाणां कृपा (४.३.३९)”— इत्यादीनि। तथा चैवं..
सन्देहनिरसनाय तादृशसमाम्नायपाठदर्शनञ्चाकिञ्चित्करमेव। तदत्रटीकाकृताऽत्र वचन मेव भवेच्छरण मस्मादृशाम्; दौर्भाग्य मेवास्माकं यदिह ऋज्वर्थाकृतो नैवौष्ठाधरप्रस्फुरणं दृश्यते! अहह एष विरोधः किमु तेन नैव लक्षितः?दशमेऽपि पुनः नूचिदित्यस्यैव ‘नवं च पुराणं च’— इत्यर्थः कृतो यास्केन; तत्र तूक्तं दुर्गाचार्येण— “नू चित् इति नवपुराणाभिधायकौनिपातौ(१०.१.३टी०)”इति। सायणाचार्येण तु तत्र नूचिदित्यस्य नवपुराणार्थतापि न स्वीकृता! अपि तूक्तम्— ‘नूचिदिति निपातो निषेधेऽत्र वर्त्तते’— इति। इदमेवोच्यते ‘मुरारेस्तृतीयः पन्थाः’— इति। तत्त्वतःसायणाचार्यकृतं तद्व्याख्यानं नु निरुक्तविरुद्धं तत्ग्रन्थविरुद्धमिव च प्रतीयत एव।
क्वचिदिह मूलादृष्टपदस्यापि व्याख्यानंकृतं गम्यते। तद्यथा— ‘सहस्रिणः’— इत्यादिः, ‘वायव्ये मन्त्रे’—इत्यन्तो ग्रन्थः (४.४.५ टी०) समालोच्यः। तदेवंविधं स्वकपोलकल्पितपदव्याख्यानं चातीव विस्मयावहम्।
क्वचित्तु मूलपाठेऽपि स्वसंशयः प्रकाशितोऽनेन। तद्यथा— ‘भाष्य मत्र न सम्यगिव लक्ष्यते; तस्य सम्यक् पाठोऽन्वेष्यः, ततो योज्यम्’— इत्यादि (६.६.५ टी०)। तत्र तादृशाशङ्कया निदानोल्लेखश्च स्यादुचितस्तस्य; अन्यथा हि ग्रस्तवक्तव्यतादोषो भवेदेव दुष्परिहार्य। अस्माकं त्वल्पधियां न तत्रासम्यक्ताबोध उपजायते। सायणाचार्येणाप्येतदेव नैरुक्तं व्याख्यानमुत्कृष्टं मत्त्वैव प्रशंसापूर्वकं सम्पूर्ण मुद्धृतं यथायथ मृग्वेदार्थप्रकाशे। तत् कथं मन्यामहे दुर्गाचार्यस्यैष नैरुक्तपाठसंशयो धीमतां विचारविषय इति।
मूलोक्तलक्षणाना मुदाहरणेषु समन्वयाः खलु टीकाकृद्भिरवः दर्शनीयाः; पर मिहानेकत्र न तथा दर्शिता दुर्गाचार्येण; तत्तेऽत्र बहुत्रैव भवेत् लक्षणसमन्वयसंशयस्य दुष्परिहार्यता च तद्यथा—परोक्षकृताना मृचां यल्लक्षण मभिहितं मूले “परोक्षकृताः सर्वाभिर्नामविभक्तिभिर्युज्यन्ते प्रथमपुरुषैश्चाख्यातस्य”इति (७.१.१.); एतस्योदाहरणान्यपि दर्शिताति तत्रै “इन्द्रो दिव(१०.८९.१०)”— इत्यादीनि; पर मुदाहृते तेषु परोक्षकृतनिगमेषु न हि श्रूयन्ते सर्वा एव प्रथमपुरुषक्रियाः प्रत्युत ‘अनूषत’, ‘गायत’, ‘अरंसत’— इति तिस्रो मध्यमपुरुष क्रियाश्च। तदिह कथं भवेल्लक्षणसमन्वयः? इतीह वृत्तिकृतेद्भावनीय मेव! न च तयोद्भावितं दुर्गाचार्येण। किञ्च ‘अनूषत’-इत्यस्य अभिष्टुतेति प्रतिशब्ददानं तदनुगतं सर्वं तन्मन्त्रव्याख्यानं च तस्य व्याख्यापयश एवोद्भावयति। सायणभाष्ये ‘अनूषत’— इत्यस्य स्तुतवन्त इति प्रतिशब्दः प्रदत्तः, तथा न चोप लभ्यते तत्र यूय मिति, स्फुटमप्युक्तं तत्साधनिकायां ‘लुङिव्यत्ययेनात्मनेपदं झस्यादादेशः’— इति। अहो इहैतदपि विचार्य— अस्त्वेकस्यैवास्य दुर्गाचार्यस्य व्याख्याने दोषः, परं सर्ववेदभाष्यकारेण सायणेनापि ‘गायत’— इत्यस्य व्याख्यायां कथं यास्कीयलक्षणोदाहरणमर्यादा परिरक्षिता? गड्डलिकाप्रवाह एव किमत्र वीजमिति विद्वद्भिरनुसन्धेयम्।
‘एष चाख्यानसमयः’— इत्येतन्नैरुक्तावचनस्य (७.२.३.) ‘भारते चाख्यानसमये एष एव सिद्धान्त इत्यर्थः’— इति दुर्गाचार्यकृतव्याख्यानदर्शनाद्गम्यते नून मेतत्प्रचलितं महाभारतनिरुक्ताच्च पुरैव प्रणीत मिति। तदेतादृशव्याख्यानं तु पौर्वापर्य
ज्ञानविधुरेणैव कृतमिति कालज्ञानकृतश्रमाणामैतिहासिकानां भवेद्हास्यास्पद मेव। एव मन्यत्रापि बहुत्रैव विवेचनीयम्।
क्वचिद्विशेषतो व्याख्येयानि मूलवचनानि च नैव व्याख्यातान्येतेनाचार्येण;अमार्जनीय एवैष दोषो व्याख्यातॄणाम्। तदृशदोषास्तु मयोद्घोषिताबहुत्र तट्टीप्यन्याम्। किञ्च यदिहानेकत्रोक्तं भगवता यास्केन— “इति सा निगदव्याख्याता”— इति, तेषां सर्वेषामेव निगमानां विशेषतोव्याख्यानानि कर्त्तव्यान्येव वृत्तिकृतोऽस्य। अहो वत तादृशानां व्याख्याकथा तु दूरे आस्ताम् असकृच्छतव्य निगदव्याख्यातेति पदस्यापि व्याख्यानं न कृतं तेन क्वचिदपि! वस्तुतस्तु यास्ककाले यासा मृचा मर्थबोध आसीदतीव सुगमः, तासां व्याख्यानंनिष्प्रयोजन मिति मत्त्वैवाह तत्र तत्र यास्को निगदव्याख्यातेति। श्रूयन्ते चैवं निगदव्याख्याता मन्त्रास्तैत्तिरीयारण्यकादावपि। तथाहि— ‘अथ निगदव्याख्याताः, ताननुक्रमिष्यामः”—इति तै० आ० १प्र० ९अनु० ४ख०। ‘निगद्यमानेनैव मन्त्रपाठेनैव०—० विस्पष्ट माख्यातो भवति, तान् एतान् मन्त्रान् अनुक्रमेण कथयिष्यामः’— इति च तत्र तद्भाष्यं सायणीयम्।
क्वचिदहो त्रैकालिकाभावविशिष्टस्य मन्त्रकमलस्यापि सुगन्धोऽघ्रायि तेन; दृष्टञ्च क्वचिन्निराकार मपि साकारम्। अतिगम्भीरमूलजलधीदिग्भ्रम एव तत्र तत्र तद्वीज मनुमीयते, नान्यत् कि मपि। तद्यथा निरु० ८.१.२— “अथाप्यय मपरो हेतुरिन्द्रस्य द्रविणोदस्त्वे— ‘अग्निं द्राविणोदस माह’मन्त्रदृक्। स मन्त्रो मृग्यः। केचित्तु ‘द्रविणोदाः पिबतु द्राविणोदसः’— इत्येव मन्यन्ते। यस्यापत्यं द्राविणोदसोऽग्निः, स एव द्रविणोदा
इति”— इति।अस्मन्मतेतु न ह्यत्र द्राविणोदसपदघटितमन्त्रोऽन्वेष्यः; अपि तु द्रविणोदा इन्द्र इति चेत् इन्द्राज्जातोऽग्निरिति यत्र श्रूयते एवमेव निगमो दर्शनीयः; दर्शयिष्यत्यनुपदञ्चात्र तथैव— “यो अश्मनो अन्तरग्निं जजान”— इति भाष्यकारः स्वयमेव।
क्वचित् पदग्रन्थविरोध मुररीकृत्य च कृतं नैरुक्तनिगमव्याख्यान मेतेनातिपण्डितन्मन्येन। तद्यथा वराहनिगमव्याख्यानावसरेत्विषेरूपमिदमिति मत्त्वैवोक्तम्— ‘त्वेषितः = सन्दीपितः’— इति (५.१.४ टी०)। पदसंहितायां तु ‘त्वाऽइषितः’— इति सावग्रहपाठःश्रूयते। तथाचावगम्यते बह्वृक्पदकारस्य शाकल्यस्यर्षेर्नात्रत्विषेरूपमिष्टमिति। एवञ्चानयोर्विरोधः स्फुटम्। नूनमवगतश्चैष विरोधस्तेनापि वेदार्थपटुना; अत एवानुपद मुक्तम्— ‘नान्यथार्थ उपपद्यते’— इति। ‘अन्यथा’ पदकारनये ‘त्वाऽइषितः’— इत्यवग्रहानुरोधतःत्विषेरूप मिदमिति स्वीकाराभावे इतिच तद्भावः। एतच्च प्रौढ़िवादमात्रम् सायणाचार्येण तु पदकारमत मनुसृत्य कुत एव हि त्वेषित इति पदस्य ‘त्वया प्रेरित’— इत्यय मर्थोऽसकृत्। वस्तुतोऽस्माभिः सर्वत्र तथैवार्थः कल्पनीयो यथा न विरुध्येत पदपाठः! आर्षं पदपाठमवमत्यार्थकरणन्तु साहस मेवेत्यत्र कास्ति वक्तव्यता।
एवमनुक्रमणीकारस्य शौनकस्य, कल्पकारस्याश्वलायनस्य च मतविरूद्धमिह प्रतीकोपादान मभिलक्ष्यते। तद्यथा— “आचष्ट आसाम्”— इतिनिरुक्तोदाहृतनिगमस्य व्याख्यानाय तत्पूर्ववर्त्तिन्याः“अभि वो देवीम्”— इत्यस्याः(ऋ० सं० ७. ३४. ९.) प्रतीकोपादानम् (६.२.३.)। तदत्र शौनकाश्वलायनयोर्मते ये द्विपदे ऋचौ, त एवैते सम्मिल्यचतुष्पदीत्येका दुर्गाचार्यस्येति मतविरोधो व्यक्तः।
स्वस्य वैज्ञानिकज्ञानाभावोऽपि द्योतितोऽत्र बहुत्र स्वयम्। तद्यथा— ‘विकृतज्योतिष्कः’—इतिनैरुक्तपदस्य व्याख्यानायोक्तम्— “तद्धितस्य विकृतं ज्योतिः, शीतत्वात्; इतराणि उष्णानि ज्योतींषि सूर्यादीनि तान्यपेक्ष्य”— इति (५.४.१ टी०)। स्वभावस्यान्यथाभाव एवोच्यते विकारो नाम लोके; तद्यदि हि पूर्वमुष्ण मनन्तरं चन्द्रमः सम्वन्धात् शीतमिति स्याद्विज्ञानवेद्यं चान्द्रमसं ज्योतिः, तर्ह्येवोपपद्येत चन्द्रवाचकस्य ‘वृकः’— इति पदस्य यास्कीयं निर्वचनं ‘विकृतज्योतिष्कः’— इति। स्वभावशीतस्य तु विकृतत्वमेव किन्नामेति संशयोऽपि नोद्भूतःकिमु दुर्गाचार्यस्य?
एवं यदा पौराणिकाख्यानघनघटाभिराच्छन्नंवैदिकं ज्योतिः, तादृशे एव निविड़ान्धकारग्रस्ते भारते यतोऽयं जातो दुर्गाचार्यः, ततोऽपीह ऋज्वर्यायां मूलाभिप्रायविरुद्धानि मूलासम्बद्धानि च बहून्याख्यानानि दृश्यन्ते। तत्र, मूलाभिप्रायविरुद्धं यथा— “एवमुच्चावचैरभिप्रायैर्ऋषीणां मन्त्रदृष्टयो भवन्ति”— इतिनैरुक्तवचनस्य व्याख्यानशेषे “मन्त्राणां द्रष्टारो भवन्ति, न तु कर्त्तार इत्यभिप्रायः”— इत्युक्तम् (७.१.३ टी०)। न चाय मभिप्रायो मूलकृतो यास्कस्येति गम्यते। तत्त्वतस्तु अनिर्द्दिष्टकालिकाना मतिप्राचीनानां ग्रन्थादीनां दृष्ट इति, युगारम्भकालिकानां प्राचीनानां प्रोक्त इति, मध्यकालिकाना मनतिप्राचीनाना मद्यतनीयानाञ्च कुत इति त्रयएव व्यवहाराः समार्थाः; तथैव पाणिनिशासनात्। तथाहि— ‘दृष्टं साम’— इति (४.२.७), ‘तेन प्रोक्तम्’— इति (४.३.१०१.), ‘कृते’— इति (१.४.३.) चैतानि सूत्राणीहालोच्यानि। तूलासम्बधानि च यथा— ‘सप्त सिन्धून्, स्यन्दना आकाशनदीः,इला च इला चेत्येवमाद्याः’— इति (८.१.२ टी०), “समारोहणे =
उदयगिरौ?— इत्यादि (७.१.२ टी०) च।तथा“इह कथं चन्द्रमा मध्यस्यानः?”— इति स्वारब्धविचारस्यसमाधान मपि(११.१.६ टी०) ततोऽधिकं चित्रम्।
एवमपि यास्कीयवचनब्याख्यानानुरोधात् तस्य बहुत्रावितथवादित्व मपीह व्यज्यते। तद्यथा देवताना माकारविचारप्रकरणे— “तदाहुः’नैतदस्ति यद्देवासुरम’— इति। ०—० ‘तद्यथा— अग्निः, वायुः, आदित्यः, पृथिवी, चन्द्रमाः— इ्ति’।प्रत्यक्षत एतान्यपुरुषप्रकाराणि, इत्येतेषा मतोऽन्यथाभ्युपगमे दृष्टहानिःस्यात्! न चैतदिष्टम्। तस्मादपुरषविधा अन्यादयः, तत्सामान्याददृष्टा इन्द्रादयोऽप्यपुरुषविधाः, न हि मनुष्यत्वे तुल्ये केचिदाकारिणः कैचिदनाकारिणःइति, तथैव देवतानामपि हि न्यायः। तस्मादपुरुषविधा इति”— इति (७.२.३टी०)। एतेन अग्न्याद्यन्तःपुरुपरूपकल्पनमप्यपास्तमिति स्फुटम्। एवं भगवता यास्केन पृथिव्याः वहिःप्रभाशून्यत्वंवर्णितम्— “अपगतभास मपहृतभास मन्तर्हितभासं गतभासं वा”— इति (६.६.७.)। ततश्चदुर्गाचार्येण ‘कृष्णच्छाया भवति एथिवी’— इत्यप्यवगतम्।
एव मप्यन्तःसारशून्योवंशतरूश्चन्द्नवनस्योऽपि नकथमपि चन्द्रनायते! दुर्गाचार्यःखलु देवतानामपुरषविधत्वं व्याख्यायाप्यनुपदमनुससारेव पौराणिकमतम् “परे तु अधिष्ठातारः पुरुषविग्रहाः (७.२.३टी०)”— इत्यादिना। अपि नैव विगतः स्यात्तस्य पोराणिकराहुप्रासकथासंस्कारः। अहो कालप्रभावजो मतिः विभ्रमः! वेदाङ्गग्रन्थकर्तुर्भगवतो यास्कत्यापि मतं खर्वीकर्त्तुमिच्छत्वयम्!! एव मगस्त्यजन्मव्याख्या नादावपि पौराणिकाख्यान मेवानुसृतम् (१.२.४ टी०); न तु तत्त्वंव्याख्यात मेतेन।
क्वचिदिह व्याकरणप्रक्रियाख्यान मप्यपरिस्फुटम्। तद्यथा— ‘अस्मे’— इति नैगमपदव्याख्यानाय यन्निरुक्तं भगवता यास्केन ‘अस्मेतेबन्धुः’—इत्यादि। तत्र अस्मच्छब्दात् प्रथमादीनां सर्वासा मेव विभक्तीनां बहुवचनानां ‘जस्-शस्-भिस्-भ्यस्-आम्-सुप्’— इत्येतेषां स्थाने “सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः”— इति (७. १.३९.) पाणिनीयेन सूत्रेण शे-आदेश एवेष्टः। तथाच ‘अस्मे’— इत्येकरूपस्यैव पदस्य वयम्, अस्मान्, अस्माभिः, अस्मभ्यम्, अस्मत्, अस्माकम्, अस्मासु इति सप्तविधा एवार्था भवितुमर्हन्ति भवन्ति च यथास्थानं यथानुगममित्येव मूलतात्पर्यम्। परं दुर्गाचार्येण त्वेषा वैयकरणप्रक्रिया नैव तत्र कण्ठरवेणोद्घोषिता; अपि तूक्तं “‘अस्मे’—इत्यस्य ‘वयम्’— इत्येवम्प्रथमया विपरिणाम उपपद्यते”— इत्येवमादि (६.२.३ टी०)।
क्वचिदिह पाठकभ्रामिकोक्तिश्चलक्ष्यते। तद्यथा— ‘इह तूत्तमः (१२.३.१४)’— इत्युक्तिर्भ्रामयत्येव पाठकान् मध्यमस्याप्यन्वेषणाय।
क्वचिच्चेह यास्कप्रदर्शितनिगमार्थस्य चान्वेषणीयतोपदिष्टा। तद्यथा— “दयमानोड्डीयमानः काकोऽन्तरिक्षेणाधस्तात् मां सुप्तं दोषाया मबोधयत्। मृग्योऽत्र शेषः”— इति (४. ३. १ टी०)। नून मिह उक्तातिरिक्तस्यार्थस्यैव मृग्यतोपदिश्यते; तत्त्वनुचितं वृत्तिकृताम्। किञ्चात्र‘दयमानोड्डीयमानः’—इत्यशुद्धपाठस्तु स्याल्लेखकप्रमादज एव; ‘दयमान उड्डीयमानः’— इत्येवम्पाठेनैव भवितव्यम्; एवं ‘दोषायाम्’— इत्यपि द्रष्टव्यम्।
निगमान्वेषणीयता तु बहुत्रैवोपदिष्टा। तद्यथा— “जामिशब्दस्य (अतिरेकार्थस्य) पय्येंष्यो निगमः”— इति, ततः “एतस्य (वालिशार्थस्य) अपि पर्येष्यो निगमः”— इति च (४.३.४ टी०)।
जामिशब्दस्यातिरेकवालिशार्थयोर्मन्त्रात्मनिगमप्रदर्शने देवराजोऽयभवदसमर्थइव (४. १. ४६.)। वस्तुतस्तु नैघण्टुपकव्याख्यान मेव स्थासीन्निगमसङ्ग्रहेमुख्य मबलम्बनं प्रतीयते; तत्र हि येषां पदान निगमा नैव दर्शिताः, इहापि न तेषां त उपलभ्यन्ते; अपि तत्रखर येषां पदानां ये च यथा च निगमाःप्रदर्शिता देवराजेन, प्रायस्त एवतथैवेह च दृश्यन्ते। तद्व्यथा— तत्र क्रोधनामसु पठितस्य हर इति नैघण्टुकपदस्य, ‘निगमोऽन्वेषणीयः’— इति व्याख्यान मुपसंहृतं देवराजेन (२ १३, २.); तथेह क्रोधनामनिरुक्तव्याख्यानावसरे दुर्गाचार्येणापि तन्निगमो नैवादर्शि (३.२.३. टी०)। परं सायणीयभाष्यदर्शनात्त्वस्माभिरवगम्यते एव क्रोधवाचिनोऽपि हरःशब्दस्यनिगमः— “अवज्ञाता हरसो दैव्यस्य”— इति (ऋ० सं० ८.४८.२.)।पुनस्तस्यैव हरःशब्दस्य ज्योतिर्दिनार्थयोःक्रमात् यौनिगमौ प्रदर्शिनौ देवराजेन, तावेव ऋज्वर्थाया मपि; किञ्च अमृगर्थेयथा मन्त्रात्मनिगमालाभःसूचितो देवराजेन, ऋज्वर्थाया मपि तथैव; अहो तत्रैव ततश्चोक्तं देवराजेन ‘उदकलोकवाचिनिगमौ पर्येण्यौ’— इति (४. १. २९.), तत एवानन्यगत्या दुर्गाचार्येणापीह (४.३.३. टी०) मीन मेवावलम्बित मित्यलं पल्लवितेनेति शम्॥
यत्प्रणीतं मया संवत् वसुवेदाङ्गसत्प्रमे।
“निरूक्तालोचनं”नाम कालनैरूक्तदर्शनम्।
तदेवाद्यत्रिषष्ठ्यब्देसंशोध्य च विवृद्ध्य च।
हितब्रताय पुत्राय पुनःकाशाय दीयते॥
कृतिरियं श्रीसत्यव्रतशर्मणामिति॥
]
-
“महाभारते व० प० १००, १०१ अ०; शा० मो० प० २७८-२८२ अ०।” ↩︎
-
“OTTO BOETHLING’S PANINI, P. XIV-XVIII” ↩︎
-
“INDIAN ANTIQUARY, VOL. II, P.70” ↩︎
-
“TURNOUR’S ‘महावंश’ APPENDIX, P IX.” ↩︎
-
“The pilgrimage of Fa Hian, culcutta, 1848. pp. 259-260 " ↩︎
-
“Wilson’s VISHNUPURANA, Vol. IV. 190” ↩︎
-
“S.W. Jone’s Chronology of the Hindus’ in Asiatic Dissertation Vol. I. p. 315; and Asiatic Researches, Vol. IX p. 96 " ↩︎
-
“W.W. Hunter’s Brief History of the Indian people’ , p. 59.” ↩︎