Source: TW
[[२१०]]
दुस्, दुर् इत्येतयोः अर्थौ समानौ ।
निस् / निर् इत्येतयोः अर्थौ अपि समानौ ।
उपसर्गस्य पदत्वात्
८.२.६६ ससजुषो रुः
इत्यनेन दुस् / निस् एतयोः
अन्ते विद्यमानस्य सकारस्य आदौ रेफादेशः एव भवति,
अतः अन्तिम् रूपम् अपि समानमेव जायते ।
दुस् + गतिः → दुर् + गतिः → दुर्गतिः ।
निस् + अचिनोत् → निर् + अचिनोत् → निरचिनोत् ।
दुस् + चरितम् → दुर् + चरितम् → दुः + चरितम् → दुस् + चरितम् → दुश् + चरितम् → दुश्चरितम् ।
अतः प्राचीनकाले रेफान्तः सकारान्तः वा एकः एव उपसर्गः आसीत्,
कालप्रभावेण द्वौ भिन्नौ उपसर्गौ अभवताम् —
इति बहवः वैयाकरणाः मन्यन्ते ।+++(4)+++
प्रातिशाख्ये, अन्येषु अपि केषुचन व्याकरणेषु
केवलम् विंशतिः एव उपसर्गाः पाठिताः सन्ति ।+++(5)+++
प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप
पाणिनीयव्याकरणे तु रेफान्त-सकारान्त-उपसर्गयोः पृथक् प्रयोजनम् दृश्यते ।
निस् / दुस् इत्येतयोः
सकारस्य ८.२.६६ ससजुषो रुः
इति त्रिपादीसूत्रेण रुत्वं भवति,
अतः अस्मात् पूर्वं पाठितानि रेफान्त-उपसर्गसम्बन्धीनि कार्याणि
निस्/दुस्-इत्येतयोः विषये नैव प्रवर्तन्ते;
अतः कुत्रचित् तयोः उपस्थितौ भिन्नानि रूपाणि सिद्ध्यन्ति —
८.२.१९ उपसर्गस्यायतौ —
“अय् (गतौ)” इत्यस्मात् विहितस्य उपसर्गस्य रेफस्य लत्वम् भवति ।
परा + अयते → पलायते ।+++(5)+++
निर् + अयते → निलयते ।
निस् / दुस् एतयोः विषये तु रुत्वस्य असिद्धत्वात् लत्वम् न ।
निस् + अयते → निरयते, दुस् + अयते → दुरयते ।
निस्दुसोर् उत्वस्यासिद्धत्वान्न लत्वम् ।
निरयते — इति ८.२.१९ उपसर्गस्यायतौ इत्यत्र सिद्धान्तकौमुदी ।
३.२.४८ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः /
सुदुरोरधिकरणे (वार्त्तिकम्) —
दुर्-उपसर्गस्य उपस्थितौ गम्-धातोः अधिकरणे अर्थे
ड-प्रत्ययः भवति ।
यथा, दुःखेन गच्छति अत्र = दुर् + गम् + ड → दुर्ग ।+++(5)+++
दुस्-उपसर्गस्य विषये तु रुत्वस्य असिद्धत्वात् डप्रत्ययः न ।
“कुष् (निष्कर्ष) इति सेट्-धातोः
“निर् + कुष् + तुमुन्” इत्यत्र
७.२.४६ निरः कुषः
इति वैकल्पिकः इडागमः,
अतः निष्कोषितुम् / निष्कोष्टुम् इति द्वे रूपे ।
निस्-उपसर्गस्य विषये रुत्वस्य असिद्धत्वात् न अयं विकल्पः ।
अतः निस् + कुष् + तुम् इत्यत्र नित्यमेव इडागमे कृते “निष्कोषितुम्” इति एकमेव रूपम् ।
दुःस्थितिः, दुस्स्थितिः, दुस्थितिः
[[२१०]]
दुस् / दुर् + स्थितिः
इति स्थिते आदौ सकारस्य रुँत्वे,
रेफस्य विसर्गादेशे च कृते “दुः + स्थिति” इति प्राप्ते,
अग्रे विसर्गस्य ८.३.३६ वा शरि इत्यनेन विकल्पेन सकारः,
पक्षे विसर्गादेशः,
तथा च खर्परे शरि विसर्गलोपो वक्तव्यः (वार्त्तिकम्)
इति वार्त्तिकेन विकल्पेन विसर्गलोपः —
इति त्रीणि रूपाणि सम्भवन्ति ।
एतेषाम् उच्चारणम् पृथक् एव भवेत् —
दुःस्थितिः — अत्र विसर्गः स्पष्टरूपेण, पूर्णरूपेण उच्चारणीयः ।
दुस्स्थितिः — अत्र सकारद्वयं स्पष्टरूपेण उच्चारणीयम् ।
दुस्थितिः — अत्र केवलम् एकः सकारः उच्चारणीयः । न हि विसर्गः, न च सकारद्वयम् ।+++(5)+++