Source: TW
सुभ्रु इति रूपम्
२४४
सुभ्रू इति ऊकारान्तस्त्रीलिङ्गः शब्दः । शोभने भ्रुवौ यस्याः सा सुभ्रूः ।
२.६९ भ्रमेश्च डूः इति उणादिसूत्रेण भ्रम्-धातोः डू इति उणादिप्रत्यये कृते “भ्रू” इति शब्दः सिद्ध्यति । अतः अयं स्त्रीप्रत्ययान्तः शब्दः नास्ति, अतः “शोभने भ्रुवौ यस्याः सा” इत्यत्र बहुव्रीहिसमासे कृते “सुभ्रू” इति प्रातिपदिकनिर्माणे १.२.४८ गोस्त्रियोरुपसर्जनस्य इत्यनेन ह्रस्वादेशः न भवति ।
भ्रू इत्यस्य १.४.३ यू स्त्र्याख्यौ नदी इत्यनेन नदीसंज्ञायां प्राप्तायाम्, १.४.४ नेयङुवङ्स्थानावस्त्री इत्यनेन सा निषिध्यते । अतः “सुभ्रू” शब्दस्य अपि नदीसंज्ञा न भवति । अतश्च, अस्य शब्दस्य सम्बोधन-एकवचने ७.३.१०७ अम्बार्थनद्योर्ह्रस्वः इत्यनेन ह्रस्वादेशः न सम्भवति; तथा च ६.१.६९ एङ्ह्रस्वात्सम्बुद्धेः इत्यनेन सम्बुद्धेः सुँ-प्रत्ययस्य लोपः अपि न भवति । सुभ्रू-शब्दस्य सम्बोधनैकवचनम् सुभ्रूः इत्येव — इत्याशयः ।
भ्रमेश्च डूः इति डूप्रत्ययान्तोऽयम् ।अचि श्नुधातुभ्रुवाम् इति उवङ् इत्यादिविशेषस्तु सुगम इति भावः । सु=शोभना भ्रूर्यस्याः सा सुभ्रूः । अस्त्रीप्रत्ययान्तत्वात् गोस्त्रियोरिति ह्रस्वो न भवति । नेयङुवङ्स्थानावस्त्री इति भ्रूशब्दस्य तदन्तस्य च निषेधात् नदीत्वं न । ततश्च अम्बार्थ इत्यादि नदीकार्यं नेत्यभिप्रेत्याह — हे सुभ्रूरिति । — ४.१.५ इत्यत्र बालमनोरमा ।
कथं तर्हि “हा पितः क्वासि हे सुभ्रु” इति भट्टिः ?
प्रमाद एवायम् इति बहवः — ४.१.५ इत्यत्र सिद्धान्तकौमुदी ।+++(5)+++
तथापि, सुभ्रू इति शब्दस्य सुभ्रु इत्येव सम्बोधनैकवचनम् बहुत्र प्रयुक्तं दृश्यते ।
यथा — विमानिता सुभ्रु पितुर्गृहे गतः (इति कुमासम्भवे ५.४३),
किं नु रुट्कारणं सुभ्रु प्रकृत्या मृदुमानसः (इति रामायणे) ।
कृतं वचः सुभ्रु समीहितं ते (इति नारदपुराणे) ।
अतः सुभ्रु इति सम्बोधनैकवचनस्य कथञ्चित् समर्थनम् करणीयम् !
(१) मल्लिनाथेन कुमारसम्भवस्य व्याख्याने उच्यते — अप्राणिजातेश्चारज्वादीनाम् इत्यत्र अलाबूः, कर्कन्धूः इति ऊकारान्ताद् अपि ऊङ्प्रत्ययम् उदाजहार भाष्यकारः । एतस्मादेव ज्ञापकात् क्वचित् ऊकारान्तस्यापि ऊङन्तत्वात् नदीत्वे ह्रस्वत्वम् ।
४.१.६६ ऊङूतः इत्यत्र भाष्यकारेण अप्राणिजातेश्चारज्वादीनाम् इति एकं वार्त्तिकं पाठ्यते । अस्य वार्त्तिकस्य व्याख्यानावसरे भाष्यकारेण अलाबूः, कर्कन्धूः इति शब्दौ उद्धृतौ स्तः । एतयोः सिद्धिः दीर्घ-ऊकारान्तशब्दात् ऊङ्-प्रत्यये कृते भवति — अलाबू + ऊङ् → अलाबू । कर्कन्धू + ऊङ् → कर्कन्धू । अतः ऊकारान्तशब्दात् अपि कुत्रचित् ऊङ् भवति इति स्वीकृत्य “सुभ्रू + ऊङ् → सुभ्रू” इति शब्दः क्रियते चेत् तत्र उवङ्-आदेशाभावात् नदीसंज्ञायां जातायाम् ह्रस्वादेशः अपि सम्भवति ।
वस्तुतस्तु, अलाबूः, कर्कन्धूः इत्यत्र ऊकारान्तस्य ऊङ्-विधानम् विशिष्टस्य स्वरकार्यस्य प्राप्त्यर्थम् अस्ति (६.१.१७५ नोङ्धात्वोः इत्यनेन ऊङ्-प्रत्ययान्तस्य शब्दस्य विभक्तेः उदात्तत्वनिषेधः क्रियते) — इति कैयटेन, नागेशेन च स्पष्टीकृतं वर्तते । तादृशं कार्यं सुभ्रू-शब्दस्य विषये नैव आवश्यकम्, अतः सुभ्रू इति शब्दे ऊङ्-प्रत्ययान्तत्वं नैव करणीयम् !
(२) दुर्घटवृत्तौ शरणदेवेन निर्दिश्यते — वामि इत्यतः वाग्रहणमपकृष्य व्यवस्थितविभाषात्वाद्, इति श्रीकण्ठः ।
१.४.५ वामि इति उत्तरसूत्रे विद्यमानः वा इति शब्दः अपकर्षरूपेण १.४.४ नेयङुवङ्स्थानावस्त्री इत्यत्र स्वीकृत्य, व्यवस्थितविभाषाम् आश्रित्य, “सुभ्रू” शब्दस्य नदीसंज्ञां विकल्पेन स्वीकृत्य ७.३.१०७ अम्बार्थनद्योर्ह्रस्वः इत्यनेन ह्रस्वादेशे कृते सुभ्रु इति रूपं सिद्ध्यति — इत्याशयः ।
परन्तु इयं दुर्बला युक्तिः ! पाणिनिः यदि एतादृशम् ऐषिष्यत्, तर्हि सः स्वयमेव “वेयङुवङ्स्थानावस्त्री” इति सूत्रम् व्यरचयिष्यत् ।
(३) सामान्ये नपुंसकम् इति न्यायेन कैश्चित् सुभ्रू-शब्दस्य नपुंसकत्वं स्वीकृत्य १.२.४७ ह्रस्वो नपुंसके प्रातिपदिकस्य इत्यनेन प्रातिपदिकस्यैव ह्रस्वादेशं कृत्वा, ततः ७.१.२३ स्वमोर्नपुंसकात् इत्यनेन सुँ-प्रत्ययस्य लोपे कृते सुभ्रु इति रूपं सिद्ध्यति ।
एतेषु किमपि समाधानं स्वीक्रियते चेदपि तत्र आक्षेपः अस्ति एव । तथापि प्रयोगबाहुल्यं दृष्ट्वा कथञ्चित् समर्थनम् दातव्यम् इति हेतुना एतानि समाधानानि वैयाकरणैः प्रतिपादितानि वर्तन्ते !