शिक्षकः

  • शिक्षकः = छात्रः । शिक्षँ (विद्योपादाने) इति भ्वादिगणस्य आत्मनेपदी धातुः । रामः शिक्षते = रामः पठति, ज्ञानं प्राप्नोति इति अर्थः । शिक्ष् + ण्वुल् → शिक्षकः । य शिक्षते सः शिक्षकः ।
  • शिक्षकः = गुरुः । शिक्ष्-धातोः णिच्-प्रत्यये कृते “शिक्षि” इति आतिदेशिकधातुः सिद्ध्यति । यथा, गुरुः शिक्षयति = गुरुः पाठनं करोति इत्यर्थः । शिक्ष् + णिच् + ण्वुल् → शिक्षकः । यः शिक्षयति सः अपि शिक्षकः ।
  • शिक्षकः = शिक्षाम् अधीते वेत्ति वा, सः । “शिक्षा” इत्याख्यं ग्रन्थम् अधीते उत जानाति सः = शिक्षा + वुन् (४.२.६१ क्रमादिभ्यो वुन् इति वुन्-प्रत्ययः) → शिक्षक । अतः शिक्षाम् अधीते वेत्ति वा सः अपि शिक्षकः ।