सौदामनी उत सौदामिनी

Source: TW

सौदामनी उत सौदामिनी ?
[[२१७]]
विद्युत् / तडित् (lightening) इत्यस्मिन् अर्थे मकारोत्तर-अकारघटितः सौदामनी इति शब्दः अमरकोशे वर्तते ।

अमरकोशः १.३.९, सुधाव्याख्या
अमरकोशस्य केषुचन संस्करणेषु तडित्सौदामिनी विद्युत् इति पाठः दृश्यते; सः अनुचितः पाठः ।
सुदामन् = ऐरावतः / पर्वतः । सः यस्यां दिशि विद्यते तत्र (इत्युक्ते, आकाशे) या विद्यते, सा = सौदामनी ।
सुदाम्ना एकदिक् = सुदामन् + अण् + ङीप् →‌ सौदामनी ।

सुदामन् = मेघः । तत्र विद्यते सा = सौदामनी । सुदाम्नि भवा = सुदामन् + अण् + ङीप् → सौदामनी ।

परन्तु बहुभिः वैयाकरणैः, कविभिः अपि सौदामिनी इति पाठः कथञ्चित् स्वीकृतः अस्ति !

नष्टं धनुर्बलभिदो जलदोदरेषु सौदामिनी स्फुरति नाद्य विजयपताका — ऋतुसंहारे ३.१२
तत्र सा राजते भैमी सर्वाभरणभूषिता सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा — महाभारते ३.५३.१२
तडित्सौदामिनी विद्युदित्यमरः — ४.३.११२ तेनैकदिक् इत्यत्र तत्त्वबोधिनी ।
सौदामिनी - स्त्री, विद्युत् । इत्यमरटीका — इति शब्दकल्पद्रुमे ।

सौदामिनी-शब्दस्य व्युत्पत्तिः न केनचित् कुत्रचित् दत्ता अस्ति ।
व्युत्पत्तिकथनस्य अलाभात् सौदामिनी इत्यस्य प्रयोगः न क्रियते चेदेव वरम् ।
तत्स्थाने सौदामनी इत्यस्य प्रयोगः एव वरतरः ।