पुत्र, पुत्त्र इति शब्दौ
[[२१३]]
पुनाति इति पुत्रः । पू (पवने / to purify) धातोः पुवो ह्रस्वश्च इति औणादिकेन क्त्र-प्रत्ययः; ह्रस्वादेशश्च ।
पू + क्त्र → पु + त्र → पुत्र । अनचि च इति वैकल्पिके द्वित्वे पुत्त्र ।
पुरु (बहु) त्रायते (रक्षति) निपरणात् / निपरणेन सः पुत्रः ।
Protects by offerings like rice etc.
पुरु + त्रै + क → पुत्र । ६.३.१०९ पृषोदरादीनि यथोपदिष्टम् इत्यनेन रु इत्यस्य लोपे कृते रूपसिद्धिः ।
“पुत्” इति नाम्नः नरकात् त्रायते सः पुत्त्रः । पुत् + त्रै + क → पुत्त्र । अत्र द्वितकारघटितं रूपम् ।
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात्पुत्त्र इति प्रोक्तः स्वयमेव स्वयम्भुवा — इति मनुस्मृतिः ।
६.३.१०९ पृषोदरादीनि यथोपदिष्टम् इति एकतकारस्य लोपे कृते पुत्र अपि अनेन सिद्ध्यति” — इति केचन ।
…तेन अस्य एकतकारता, द्वितकारता च — इति वाचस्पत्यम् । पुत्र, पुत्त्र इति उभयथा साधु इत्याशयः ।