प्रमाण

Source: TW

‘प्रमाण’ इति शब्दः २२८

“प्रमाण” इति शब्दस्य बहवः अर्थाः सन्ति ।
प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु — इति अमरकोशः । प्रमाणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि । इयत्तायां च हेतौ च क्लीबैकत्वे प्रमातरि — इति मेदिनीकोशः ।

प्र + माङ् (माने शब्दे च) + ल्युट् → प्रमाण
३.३.११५ ल्युट् च इति सूत्रेण भावे ल्युट्-प्रत्यये कृते प्राप्तः प्रमाणम् इति शब्दः इयत्ता (fixed measure), कारणम् (cause, reason), सत्यवादि (evidence, proof) एतेषु अर्थेषु प्रयुज्यते ।
३.३.११७ करणाधिकरणयोश्च इति सूत्रेण करणे ल्युट्-प्रत्यये कृते प्राप्तः प्रमाणम् इति शब्दः ज्ञानसाधनम् (instrument of knowledge) अस्मिन् अर्थे प्रयुज्यते । प्रमीयते अनेन इति, अथवा प्रमाता येन अर्थं प्रमिनोति, तत् प्रमाणम् ।
३.३.११३ कृत्यल्युटो बहुलम् इति सूत्रेण कर्तरि ल्युट्-प्रत्यये कृते प्राप्तः प्रमाण इति विशेष्यनिघ्नः शब्दः ज्ञानी (प्रमाता / knower) अस्मिन् अर्थे त्रिषु लिङ्गेषु प्रयुज्यते । प्रमाणः, प्रमाणी, प्रमाणम् इति रूपाणि ।

विष्णुसहस्रनाम्नि “प्रमाणम्” इति नपुंसकलिङ्गशब्दः विष्णोः नामरूपेण स्वीकृतः अस्ति — प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः । अत्र करणे व्युत्पत्तिः स्वीक्रियते ।

प्रमीयते अनेन निःसंशयं वेदरहस्यं परमार्थप्रत्यायकतया — इति व्युत्पत्तिः । भगवतः विष्णोः भक्ताः तं साधनरूपेण स्वीकृत्य वेदानां सर्वं रहस्यं निःसंशयं ज्ञातुम् अर्हन्ति — इत्याशयः ।
परमार्थत्रयीसारप्रत्यायकतया स्वयम् । प्रमाणमिति विख्यातः सप्तार्णो मनुरुत्तमः — इति निरुक्तिः ।
तत्र वेदाः प्रमाणम् इत्यस्मिन् वाक्ये प्रमाणशब्दः भाववाचकः । वेदाः इत्येव truth / proof / evidence इत्याशयः । भावे प्रमाणशब्दः नपुंसकलिङ्गे एव प्रयुज्यते; अतएव वेदशब्दस्य पुंस्त्वे अपि प्रमाणशब्दस्य नपुंसकलिङ्गमेव । अपि च, वेदानां समुदायविवक्षया अत्र एकवचनम् । वेदसमुदायः प्रमाणत्वेन स्वीक्रियते इति आशयः । प्रत्येकं वेदस्य विषये पृथक् रूपेण प्रामाण्यनिर्देशः इष्यते चेत् तु “वेदाः प्रमाणानि” इति अपि साधुप्रयोगः ।

कर्त्रर्थे प्रयुक्तः प्रमाण इति शब्दः विशेष्यनिघ्नः अस्ति । देवदत्तः प्रमाणः (knower) । सीता प्रमाणी । तत् प्रमाणम् ।
स्त्रीत्वे विवक्षिते ४.१.१५ टिड्ढाणञ्.. इति ङीप्-प्रत्ययः भवति । प्रमाण + ङीप् → प्रमाणी । यथा, सूत्रकारेण ५.४.११६ अप् पूरणीप्रमाण्योः इत्यत्र प्रमाणी इति प्रयोगः कृतः दृश्यते ।

शाबरभाष्ये विरोधाधिकरणे तु “प्रमाणायाम् स्मृतौ” इति प्रयोगः दृश्यते । अत्र “प्रमाणा” इति टाबन्तं रूपं प्रयुक्तम् अस्ति । वस्तुतः एतद् अनुचितमेव । परन्तु स्थितस्य गतिः चिन्तनीया इति न्यायेन वैयाकरणैः कथञ्चित् अस्य समाधानं दीयते —

प्रमाणं करोति = प्रमाण + (तत्करोति तदाचष्टे इति) णिच् + (पचादित्वात्) अच् + टाप् → प्रमाणा ।
प्रमाणम् इव आचरति = प्रमाण + (आचारे) क्विप् + (पचादित्वात्) अच् + टाप् → प्रमाणा ।
प्रमाणं याति = प्रमाण + अय् + क्विप् + टाप् = प्रमाणा । वस्तुतः अत्र टाप्-प्रत्ययविधायकं सूत्रमेव न । तथैव, क्विप्-प्रत्यये परे ६.१.६६ लोपो व्योर्वलि इत्यनेन यकारस्य लोपे कृते ६.१.७१ ह्रस्वस्य पिति कृति तुक् इति अनिष्टः तुगागमः अपि प्राप्नोति । परन्तु कथञ्चित् तुगागमस्य अप्राप्तिः; टाप्-प्रत्ययस्य च प्राप्तिः निपात्यते । “प्रमाणम् अयते याति मूलभूतां श्रुतिं यतः । क्विबन्ताद् अयतेः तस्मात् प्रमाणा स्मृतिरुच्यते” इति श्लोकविधानाम् एतत् सर्वं स्वीकारार्हम् इत्याशयः ।