निर्विण्ण

Source: TW

निर्विण्ण इति शब्दः

२७२

निर्विण्ण इति शब्दे निर् + विद् (सत्तायाम्, दिवादिः, अकर्मकः) इति धातुः, क्त-इति प्रत्ययः ।
निर् + विद् = Ceases to exist । दीपः निर्विद्यते । दीपः निर्विण्णः ।

निर् + विद् + क्त
→ निर् + विन् + न [ ८.२.४२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः इति दकारतकारयोः उभयोः नकारः]
→ निर् + विन् + ण [ ८.४.२९ कृत्यचः इत्यत्र विद्यमानेन कृत्स्थस्य णत्वे निर्विण्णस्य उपसंख्यानं कर्तव्यम् इति वार्त्तिकेन प्रत्ययस्थस्य नकारस्य णत्वम् ]
→‌ निर् + विण् + ण [णकारे परे ८.४.४१ ष्टुना ष्टुः इति नकारस्य ष्टुत्वे णकारः]
→‌ निर्विण्ण