Source: TW
‘नवरात्रम्’ उत नवरात्रिः ?
[[२१५]]
नवरात्रम् इत्येव साधु । नवरात्रिः / नवरात्री / नवरात्रा / नवरात्रः / नवरात्राणि / … इति असाधु ।
नवानां रात्रीणां समाहारः [२.१.५२ संख्यापूर्वो द्विगुः इति द्विगुसमासः] → नवन् + रात्रि + अच् [५.४.८७ अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः इति समासान्तप्रत्ययः अच् ] → नवन् + रात्र् + अ [६.४.१४८ यस्येति च इति इकारलोपः] → नव + रात्र [८.२.७ नलोपः प्रातिपदिकान्तस्य इति नकारलोपः] → नवरात्र अनेन प्रकारेण सिद्धः ‘नवरात्र’ शब्दः २.४.१ द्विगुरेकवचनम् इत्यनेन केवलम् एकवचने; तथा च सङ्ख्यापूर्वं रात्रं क्लीबम् इत्यनेन वार्त्तिकेन केवलं नपुंसकलिङ्गे प्रयुज्यते । नवानां रात्रीणां समाहारः नवरात्रम् ।