लम्भ

“सु” / “दुर्” उपसर्गपूर्वकात् लभ्-धातोः (यथासङ्ख्यम्) “सुखेन” / “दुःखेन” इत्यस्मिन् अर्थे “खल्” (अ) प्रत्ययः विधीयते ।

  • सुखेन लभ्यते तत् = सु + लभ् + खल् → सु + लभ् + अ → सुलभ ।
  • दुःखेन लभ्यते तत् = दुर् + लभ् + खल् → दुर् + लभ् + अ → दुर्लभ ।

वस्तुतस्तु सोपसर्ग-लभ्-धातोः खल्-प्रत्ययः विधीयते चेत् “७.१.६७ उपसर्गात् खल्घञोः” इति सूत्रेण लभ्-धातोः नुमागमः भवति । परन्तु यदि केवलम् “सु” उत केवलम् “दुर्” इति उपसर्गः प्रयुज्यते चेत् “७.१.६८ न सुदुर्भ्यां केवलाभ्याम्” इति सूत्रेण अयं नुमागमः निषिध्यते । अतएव “सुलभ”, “दुर्लभ” इत्यत्र नुमानमः न भवति ।

परन्तु सु / दुर् इत्यनेन सह अन्यः उपसर्गः अस्ति चेत् अयम् नुमागमः अवश्यम् भवति —

  • अतिशयेन सुलभम् = अति + सु + लभ् + खल् → अति + सु + लन्भ् + अ → अतिसुलम्भ ।
  • अतिशयेन दुर्लभम् = अति + दुस् + लभ् + खल् → अति + दुस् + लन्भ् + अ → अतिदुर्लम्भ ।

कर्मप्रवचनीय-दशा

कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति - ७.१.६८ न सुर्दुर्भ्यां केवलाभ्याम् इत्यत्र सिद्धान्तकौमुदी ।

अति + सु + लभ् + खल् इत्यत्र “अति” इति उपसर्गः नास्ति अपितु तस्य “१.४.९५ अतिरतिक्रमणे च” इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति । अतिशयेन सुलभम् = सुलभे अपि अतिक्रमणम् = अतिसुलभम् , इत्याशयः । कर्मप्रवचनीयसंज्ञायां जातायाम्, “१.४.१ आकडारादेका संज्ञा” इति एकसंज्ञाधिकारात् उपसर्गसंज्ञायाः निषेधः विधीयते ।

अतश्च, “अति + सु + लभ् + खल्” इत्यत्र केवलस्यैव “सु” इति उपसर्गस्य उपस्थितिं मत्वा, “७.१.६८ न सुदुर्भ्यां केवलाभ्याम्” इत्यनेन नुमागमस्य निषेधे कृते, “अतिसुलभ” इति शब्दः अवश्यं साधुत्वं प्राप्नोति । एवमेव, “अतिदुर्लभ” शब्दस्य अपि साधुत्वं स्पष्टमेव ।

एवमेव, “सु + दुर् + लभ् + खल्” इत्यत्र अपि “सु” इति उपसर्गः नास्ति अपितु तस्य अपि १.४.९४ सु पूजायाम् इत्यनेन कर्मप्रवचनीयसंज्ञा भवति । शोभनं दुर्लभम् = दुर्लभत्वे अपि साधुता = सुदुर्लभम् । अतः अत्रापि केवलस्यैव “दुर्” इत्यस्य उपस्थितिं मत्वा ७.१.६८ न सुदुर्भ्यां केवलाभ्याम् इत्यनेन नुमागमस्य निषेधे कृते, “सुदुर्लभ” इति शब्दः अवश्यं साधुत्वं प्राप्नोति ।

७.१.६८ न सुदुर्भ्यां केवलाभ्याम् इत्यत्र “केवल” इति शब्दः अस्ति, अतः कर्मप्रवचनीयसंज्ञायां सत्याम् अपि “अति + सु + लभ् + खल्” इत्यत्र अस्य सूत्रस्य प्रसक्तिः नैव स्यात् यतः तत्र “केवलम्” सु इति नास्ति — इति चेत्, तन्न।