Source: TW
जटायु, जटायुष् इति शब्दौ
२३८
रामायणे निर्दिष्टः खगः जटायुः इति । अयं शब्दः षकारान्तत्वेन (जटायुष् इति प्रातिपदिकम्), तथा च उकारान्तत्वेन (जटायु इति प्रातिपदिकम्) — उभयथा प्रयुक्तः दृश्यते । प्रथमैकवचनम् उभयत्र समानम्, परन्तु अन्यानि रूपाणि भिद्यन्ति ।
वैदेह्या प्रियकामेन कृतं कर्म जटायुषा — रामायणम्
पौलस्त्यस्य जटायुषा विघटितः कर्णायसोऽयं रथः — उत्तररामचरितम्
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् — रामायणम्
तलेनाभिजघानाशु जटायुं क्रोधमूर्च्छितः — रामायणम्
पितृसुहृदं वीक्ष्य भूयो जटायुम् — नारायणीयम्
उग्रसेनेन राज्ञा वै पूर्वजेन जटायुना — स्कन्दपुराणम्
जटायु इति उकारान्तशब्दः
अमरकोशे २.८.१२० आयुर्जीवितकालो ना इत्यत्र विद्यमाने आयुः इति शब्दे “आयु” इति उकारान्तम् प्रातिपदिकम् स्वीक्रियते । १.२ छन्दसीणः इति उणादिसूत्रेण इण्-धातोः वैदिकसन्दर्भे पाठितः उण्-प्रत्ययः भाषायाम् अपि सम्भवति इति स्वीकृत्य “इ + उण् → ऐ + उ → आयु” इति आयु-शब्दस्य निर्माणं कृत्वा “जटा (दृढः, strong) आयुः अस्य” इति प्रकारेण जटायु इति उकारान्तशब्दः सिद्ध्यति ।
अथ वा, “जटां (twisted hairs) याति (प्राप्नोति)” अस्मिन् अर्थे या-धातोः १.०३७ मृगय्वादयश्च कु इति उणादिसूत्रेण कु-प्रत्यये कृते “जटा + या + कु → जटायु” इति शब्दः अवश्यं सिद्ध्यति ।
जटायुष् इति षकारान्तशब्दः
आयुष् इति षकारान्तशब्दस्य साहाय्येन “जटा आयुः यस्य” इति समासे कृते जटायुष् इति शब्दः सिद्ध्यति ।
छन्दसीणः (उणादिः १.२) इत्यत्र तत्त्वबोधिनी