दश-हरा

Source: TW

‘दशहरा’ इति शब्दः
[[२१५]]
दशहरा = दशविधानि पापानि हरति सा । जाह्नवी / गङ्गा इति मूलः अर्थः ।
एतानि दशपापानि हर त्वं मम जाह्नवि । दशपापहरा यस्मात्; तस्माद्दशहरा स्मृता ॥ — इति ब्राह्मपुराणम् ।

ज्येष्ठशुक्लदशम्यां तु हस्तयोगेन जाह्नवी । हरते दश पापानि तस्मात् दशहरोच्यते ॥ — भविष्यपुराणम् ।
ज्येष्ठमासे गङ्गा भुवम् अवतीर्णा;
अतः ज्येष्ठमासे गङ्गास्नानं क्रियते; तत् पर्व = दशहरापर्व ।+++(5)+++

त्रिविधं कायिक-पापम्; चतुर्विधं वाचिकपापम्; त्रिविधं मानसं पापम् = दशविधं पापं हरति सा दशहरा = गङ्गा ।
नवरात्रोत्सवः / नवरात्रोत्सवस्य अन्तिमः दिवसः - अस्मिन् अर्थे दशहराशब्दस्य प्रयोगः नैव प्राचीनः ! दुर्गा अपि दशविधानि / दशजन्मकृतानि पापानि हरति इत्यतः तादृशं नाम आगतं स्यात् !