अश्वत्थामा

Source: TW

‘अश्वत्थामा’ इति शब्दः
[[२३२]]

द्रोणस्य पुत्रः अश्वत्थामा इति । अश्वत्थामन् इति प्रातिपदिकम् ।
अश्वस्य इव स्थाम यस्य इति बहुव्रीहिसमासः ।
अश्वस्य यादृशं स्थाम (बलम्),
तादृशं स्थाम यस्य बालकस्य सः अश्वत्थामा इत्याशयः ।

“अश्व + स्थामन्” इति स्थिते ६.३.१०९ पृषोदरादीनि यथोपदिष्टम् इति सकारस्य तकारः ।

स जातमात्रो व्यनदद्
यथेवोच्चैःश्रवाः हयः ।
तच्छ्रुत्वान्तर्हितं भूतम्
अन्तरिक्षस्थम् अब्रवीत् ॥
अश्वस्येवास्य यत् स्थाम
नदतः प्रदिशो गतम् ।
अश्वत्थामैव बालोऽयं
तस्मान्नाम्ना भविष्यति ॥
—‌ महाभारते आदिपर्वणि

अश्वत्थाम्नि जातः इत्यस्मिन् अर्थे
अश्वत्थामन् इति शब्दात्
४.१.८५ दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः
इत्यत्र पाठितेन “स्थाम्नोऽकारः” इति वार्त्तिकेन
‘अ’ प्रत्यये कृते अश्वत्थाम इति शब्दः सिद्ध्यति ।

अश्वत्थामन् + अ → अश्वत्थाम । ६.४.१४४ नस्तद्धिते इति टिलोपे कृते रूपसिद्धिः ।
अश्वत्थाम्नि भवः अस्मिन् अर्थे अश्वत्थामन् इति शब्दात् ४.१.८५ दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः इत्यत्र पाठितेन स्थाम्नोऽकारः इति वार्त्तिकेन ‘अ’ प्रत्यये कृते;
ततः तत्रैव पाठितेन भवार्थे तु लुग्वक्तव्यः इति वार्त्तिकेन तस्य लुकि कृते अश्वत्थामन् इत्येव सिद्ध्यति ।
अश्वत्थाम्नि भवः अश्वत्थामा ।

11 कडङ्करः / कडङ्गरः २३४ भाषापाकः-3 | Neelesh Bodas | neelesh.bodas@gmail.com | https://ashtadhyayi.com/courses/bhaashaapaak3/ धेनवे दीयमानम् खाद्यम् (fodder / hay / straws / dried stack of grains ) अस्मिन् अर्थे “कडङ्कर” इति शब्दः प्रयुज्यते । पाणिनिना स्वयम् अपि ५.१.६९ कडङ्करदक्षिणाच्छ च इत्यस्मिन् सूत्रे कडङ्कर इति शब्दः प्रयुक्तः अस्ति । कडं (भक्षणीयम्, edible) (दूरी)करोति अस्मिन् अर्थे “कृ” धातोः खच्-प्रत्ययः निपात्यते । कड + कृ + खच् इति स्थिते ६.३.६७ अरुर्द्विषदजन्तस्य मुम् इत्यनेन मुमागमे कृते कडङ्कर इति शब्दः सिद्ध्यति । कुत्रचित् विद्यमानः कडङ्गर इति गकारघटितः पाठः अशुद्धः अस्ति; कडङ्कर इति ककारघटितः पाठः एव उचितः, स च अमरकोशे अपि लभ्यते — इति तत्त्वबोधिनीकारेण स्पष्टीकृतम् । इति स्थिते — सिद्धान्तकौमुदी, तत्त्वबोधिनीसहिता

12 कडङ्करः / कडङ्गरः २३४ भाषापाकः-3 | Neelesh Bodas | neelesh.bodas@gmail.com | https://ashtadhyayi.com/courses/bhaashaapaak3/ अमरकोशस्य सुधाव्याख्याने कडङ्गर इत्येव मुख्यः पाठः स्वीकृतः अस्ति; तत्र कडङ्कर इति केवलं पाठभेदेन निर्दिश्यते । १) गृ (शब्दे) / गॄ (निगरणे) + अच् → गरः । कडस्य गरः = कडङ्गरः । ५.१.६९ कडङ्करदक्षिणाच्छ च इति सूत्रनिर्देशात् मुगागमः निपात्यते । कडम् (भक्षणीयं, यथा फलादिकम्) आत्मनः सकाशात् गिरति (दूरीकरोति) सः कडङ्गरः । The one that separates out the human-edible things like grains and fruits from oneself. २) कडति = कड् (मदे) + क्विप् → कड् (husk)। कड् च तदङ्गं च कडङ्गम् (husks and grains । कडङ्गं राति (ददाति) = कडङ्ग + रा + क → कडङ्गर । The one that gives the husks and the grains is कडङ्गर ।

13 कडङ्करः / कडङ्गरः २३४ भाषापाकः-3 | Neelesh Bodas | neelesh.bodas@gmail.com | https://ashtadhyayi.com/courses/bhaashaapaak3/ मल्लिनाथेन रघुवंशव्याख्याने “कडङ्गर” इत्येव निर्देशः कृतः अस्ति । कडङ्कर, कडङ्गर इति उभयथा साधुत्वम् स्वीकर्तुं प्रमाणम् अस्ति, अतः द्वयोः अपि साधुत्वं स्वीकर्तव्यम् — इत्याशयः । शब्दकल्पद्रुमे अपि कडङ्गर इत्येव पाठः दृश्यते ।

14 ▼ सुबन्तचिन्तनम् 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 ▶ विभक्तिचिन्तनम् ▶ धातुचिन्तनम् ▶ कृत्प्रत्ययचिन्तनम् ▶ समासचिन्तनम्