अमर्षः तथा रोषः

Source: TW

अमर्षः तथा रोषः
[[२१६]]

वाग्व्यवहारादर्शे “पर्यायवचनविवेकः” इत्यत्र ।
अमर्ष, रोष इति शब्दौ समानार्थकौ । कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ‌— इत्यमरः । तथापि तयोः अर्थे सूक्ष्मः भेदः अवश्यं विद्यते ।
रुष्, क्रुध् इति शब्दौ हलन्तौ । एताभ्याम् टाप्-प्रत्ययः अपि भवति, येन रुषा, क्रुधा इति आकारान्तस्त्रीलिङ्गशब्दौ सिद्ध्यतः — इति अत्र भागुरेः मतम् । अ स्मिन्नेव सन्दर्भे “क्रोधो भामः क्रुधा रुषा इति शब्दार्णवः” इति निर्देशः अमरकोशस्य सुधाव्याख्याने दृश्यते ।