अदस्

अदस्-शब्दस्य रूपाणि

पुंलिङ्गे

असौ अमू अमी
अमुम् अमू अमून्
अमुना अमूभ्याम् अमीभिः
अमुष्मै अमूभ्याम् अमीभ्यः
अमुष्मात् अमूभ्याम् अमीभ्यः
अमुष्य अमुयोः अमीषाम्
अमुष्मिन् अमुुयोः अमीषु

स्त्रीलिङ्गे

असौ अमू अमूः
अमुम् अमू अमूः
अमुया अमूभ्याम् अमूभिः
अमुष्यै अमूभ्याम् अमूभ्यः
अमुष्याः अमूभ्याम् अमूभ्यः
अमुष्याः अमुयोः अमूषाम्
अमुष्याम् अमुुयोः अमूषु

अदस् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → अदऔ + ० [ ७.२.१०७‌ अदसः औ सुलोपश्च इति सूत्रेण अदस्-शब्दस्य सकारस्य औकारादेशः भवति, तथा च सुँ-प्रत्ययस्य लोपः अपि विधीयते ] → असऔ [ ७.२.१०६ तदो सः सावनन्त्ययोः इति दकारस्य सकारः] → असौ [ ६.१.८८ वृद्धिरेचि इति वृद्ध्यैकादेश]