अध्याय-नामानि

स्रोतः - कुशाग्रः

सर्ग-पर्व-समुल्लास-काण्ड-सोपान-लम्बकाः।
अध्यायोच्छ्वास-विच्छेद-स्कन्धाश्वासप्रकाशकाः॥
खण्डानन-परिच्छेद-तरङ्गोद्योत-सन्धयः।
स्तवकालोकवृन्दाद्यः सर्वे ग्रन्थाङ्गवाचकाः॥

  • सर्ग - रामायणम्, रघुवंशम्

  • पर्व - महाभारतम्

  • समुल्लासः - काव्यप्रकाशः (उल्लासः)

  • काण्डः - रामायणम्

  • सोपानम् - रामचरितमानसम्

  • लम्बक - कथासरित्सागरः

  • अध्यायः - प्रसिद्धः

  • उच्छ्वासः - हर्षचरितम्

  • विच्छेदः - प्रसिद्धः

  • स्कन्धः - भागवतम्

  • आश्वासः - नीलकण्ठविजयचम्पूः

  • प्रकाशः - मृग्यम् (अलङ्कारचन्द्रिका?)

  • खण्डः - प्रसिद्धः (स्कन्द-पुराणम्)

  • आननम् - रसगङ्गाधरः

  • परिच्छेदः - प्रसिद्धः (काव्यालङ्कारः)

  • तरङ्गः - राजतरङ्गिणी

  • उद्योतः - ध्वन्यालोकः

  • सन्धिः - मृग्यम्

  • स्तवकः - छन्दोमञ्जरी

  • आलोकः - मृग्यम्

  • वृन्दम् - मृग्यम्

  • आह्निकम् - महाभाष्यम्। तन्त्रसारः।