स्रोतः - कुशाग्रः
सर्ग-पर्व-समुल्लास-काण्ड-सोपान-लम्बकाः।
अध्यायोच्छ्वास-विच्छेद-स्कन्धाश्वासप्रकाशकाः॥
खण्डानन-परिच्छेद-तरङ्गोद्योत-सन्धयः।
स्तवकालोकवृन्दाद्यः सर्वे ग्रन्थाङ्गवाचकाः॥
-
सर्ग - रामायणम्, रघुवंशम्
-
पर्व - महाभारतम्
-
समुल्लासः - काव्यप्रकाशः (उल्लासः)
-
काण्डः - रामायणम्
-
सोपानम् - रामचरितमानसम्
-
लम्बक - कथासरित्सागरः
-
अध्यायः - प्रसिद्धः
-
उच्छ्वासः - हर्षचरितम्
-
विच्छेदः - प्रसिद्धः
-
स्कन्धः - भागवतम्
-
आश्वासः - नीलकण्ठविजयचम्पूः
-
प्रकाशः - मृग्यम् (अलङ्कारचन्द्रिका?)
-
खण्डः - प्रसिद्धः (स्कन्द-पुराणम्)
-
आननम् - रसगङ्गाधरः
-
परिच्छेदः - प्रसिद्धः (काव्यालङ्कारः)
-
तरङ्गः - राजतरङ्गिणी
-
उद्योतः - ध्वन्यालोकः
-
सन्धिः - मृग्यम्
-
स्तवकः - छन्दोमञ्जरी
-
आलोकः - मृग्यम्
-
वृन्दम् - मृग्यम्
-
आह्निकम् - महाभाष्यम्। तन्त्रसारः।