मूलम् - ०३.०५.००१
(०३.०५.००१अब्) सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासजैः ।
(०३.०५.००१च्द्) अनुक्तैः सङ्ग्रहे लिङ्गं सङ्कीर्णवदिहोन्नयेत् ॥ १ ॥
लिङ्ग-सूरी - AK.03.05.001
अथ लिङ्गादिसङ्ग्रहवर्गमुपक्रमते सलिङ्गेति । अस्यार्थः—लिङ्गशास्त्रसहितैः सन्नादिकृत्तद्धितसमासजैर्ग्रन्थैरिह सङ्ग्रहे वर्गेऽनुक्तं लिङ्गं सङ्कीर्णवत् सङ्कीर्णवर्गे इवोन्नयेत् ॥ १ ॥
सलिङ्गशास्त्रैः—सङ्कीर्णवदिहोन्नयेत् । इह हि ग्रन्थादौ ग्रन्थकारः ʻसम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् (१, पृ। ३) इति प्रतिज्ञाय एतदन्तेन ग्रन्थसदंर्भेण सलिङ्गानां नाम्नां साव्ययानामनुशासनं विधाय तत्र तत्र लिङ्गविधेरसम्पूर्णतां मन्वानः तन्निरूपणाय वर्गान्तरमारभते सलिङ्गेति । सङ्क्षेपेण सम्यक् वाच्यलिङ्गान्यत्र गृह्यन्ते निरूप्यन्त इति सङ्ग्रहशब्देन वक्ष्यमाणो लिङ्गसङ्ग्रहाख्यो वर्गो विवक्षितः । लिङ्गमित्येकवचनमविवक्षितम् । उन्नयेदिति लक्षणमुखेन तत्त्वज्ञानमुन्नीय लिङ्गानि जानीयादित्यर्थः । कथं जानीयात्? इत्यत आह—सन्नादीत्यादिना । इह सन्नादिशब्देन सन् क्यच् काम्यजादिप्रत्ययान्तेभ्यो धातुभ्यो विहिता अकारादिप्रत्यया अभिहिताः, तृतीयधात्वधिकारविहिताः तिङ्वर्जिताः प्रत्ययाः कृतः सनाद्यन्तेभ्यो धातुभ्यो विहितानां कृत्प्रत्ययव्यतिरिक्तप्रत्ययानां लिङ्गनिर्णयौपयिकत्वाभावात् । यद्यपि सन्नादयोऽपि कृद्रूपा एव, तथापि ब्राह्मणपरिव्राजकन्यायेन कृद्भ्यः सन्नादीनां पृथगेव निर्देशः कृतः । तथा कृच्छब्देन सनाद्यन्तधातुव्यतिरिक्तधातुविहिता एव कृत्यप्रत्यया ग्राह्याः । तद्धिताः प्रसिद्धाः । सन्नादयः कृतश्च तद्धिताश्च समासाश्चेति द्वन्द्वः । तेभ्यो जातान्यनन्तरमेवास्माभिः कृदाद्युपाधिमुखेन वक्ष्यमाणानि वाक्यानि । तत्र स्रीभावादावनिक्तिन्नित्यादीनि कृज्जानि (श्लो। ४), तल्वृन्दे येनिकट्यत्रा इत्यादीनि (श्लो। ४) तद्धितानि, अजन्तैर्द्विगुरेकार्थः (श्लो। ३) इत्यदीनि समासजानि तल्लिङ्गान्युन्नयेत् इत्यन्वयः ।
ननु—भवत्प्रणीतवाक्यानां कथं प्रामाण्यमित्यत आह—सलिङ्गशास्त्रैरिति । ʻस्त्रियां क्तिन् (३। ३। ९४), ʻअकारान्तोत्तरपदो द्विगुः स्त्रियामिष्यते (वा। २। ४। १७), ʻपुंसि सञ्ज्ञायां घः प्रायेण्ö (३। ३। ११८), ʻघञन्ताः पुंसि (लिङ्गानु। ३६) । ʻरात्राह्नाहाः पुंसि (२। ४। २९), ʻअनुवाकादयः पुंसि वक्तव्याः’, ʻनपुंसके भावे क्तः’ (३। ३। ११४), ʻअपथं नपुंसकम् (२। ४। ३०), ʻअर्धर्चाः पुंसि च्ö (२। ४। ३१), ʻपरवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ (२। ४। २६) ʻपूर्ववदश्वबडबौ’ (२। ४। २७) इत्यादीनि यानि पाणिनिवररुचिभाष्यकारादिभिः प्रणितानि लिङ्गप्रतिपादकानि शास्त्राणि, यानि च बार्हस्पत्यादीनि च लिङ्गानुशासनानि तत्सहितैरित्यर्थः । तत्साहित्यं च तदेकार्थत्वं तन्मूलत्वमिति यावत् । अनेन स्ववाक्यानां प्राक्तनलिङ्गानुशासनमूलकत्वेन प्रामाण्यमुक्तम् ।
ननु—नामानुशासनसमय एव लिङ्गानामपि स्पष्टीकरणात् किमनेन पिष्टपेषणप्रयासतुल्येन प्रत्ययादिद्वारकलिङ्गनिर्णयकर्तव्यताप्रयासेन इत्यत आह—अनुक्तमिति । अयमभिप्रायः—सकलस्य शब्दजातस्य प्रातिपद्येन लिङ्गनिर्णयकरणानुपपत्तेः यत्किञ्चिदुपाधिमुखेनैव शब्दजातं क्रोडीकृत्य लिङ्गनिर्णयः कर्तव्यः । स च पूर्वमकृत एव । सङ्कीर्णवर्गे तु प्रकृत्यादिभिरुन्नयनमात्रमुपक्षिप्तम् । न तून्नयनोपायोऽपि विविच्य दर्शितः । अतः पर्यायकाण्डे नानार्थकाण्डे च कृतमपि लिङ्गानुशासनम् असाकल्यादनुक्तप्रायमेवेति मन्वानेन अनुक्तमित्युक्तम् ।
अत्र केचित् पठन्ति—तत्रापि प्रागनुक्तैः सकलशब्दशास्त्रक्रोदीकारैः कृत्यप्रत्ययादिभिरुपाधिभिः लिङ्गमुन्नयेदिति योज्यम् । दृष्टान्तमुखेनापि लिङ्गोन्नयनोपायप्रकारमाह—सङ्कीर्णवदिति । यथा सङ्कीर्णवर्गे प्रकृत्यादिमुखेन लिङ्गोन्नयनमुक्तं तद्वदिहापीति । तत्र प्रकृत्या यथा—बाल एव बालकः । शश एव शशकः । गोधैव गोधिका । स्थानमेव स्थानकम् । इत्यादिषु स्वार्थविहितप्रत्ययान्तेषु प्रकृतिलिङ्गानुवर्तनम् । विशेषविधानेषु चातुर्वर्ण्यादिषु प्रकृतिलिङ्गस्याप्यतिसृतिः प्रत्ययेन लिङ्गोन्नयनम् । यथा—पात्री पुटी इत्यादीनाम (श्लो। ४२) । मत्वर्थे इनिप्रत्ययान्तत्वपक्षे वक्ष्यमाणपरोपगत्वप्रकरणपाठापत्तेः । तदभावत्वेन ङीबन्तत्वनिश्चये सति स्त्रीलिङ्गनिर्देश इत्यवधार्यते । यत्र पात्रीभूतप्रदेश इति प्रयोगस्तत्र मत्वर्थीयप्रत्ययेन विशेष्यनिघ्नमित्यादि । अर्थेन यथा—ʻनाभी राजसभापि च्ö (श्लो। ९) । यद्यपि स्त्रीलिङ्गप्रकरणे वक्ष्यते, तथापि प्राण्यङ्गवचनस्य च स्त्रीलिङ्गत्वम् । क्षत्रिये तु पुंस्त्वमित्यर्थेन निर्णयः (१, पृ। ५१८) । चूर्णिः, शाणी, दृणी, दरद् इत्यादिषु प्रकरणवशात् लिङ्गावधारणम् । तथा क्रियाविशेषणानां कर्मत्वं नपुंसकत्वं चेत्यादिकं बोद्धव्यम् ।
ननु—समनन्तरवर्गस्य लिङ्गनिर्णयार्थत्वे ʻपात्रामत्रं च भाजनम् (१, पृ। ५७३) इत्यत्र पात्रशब्दस्य केवलनपुंसकलिङ्गत्वमुक्तम् । लिङ्गादिसङ्ग्रहे तु—ʻत्रिषु पात्री (श्लो। ४२) इति त्रिलिङ्गत्वं वक्ष्यते । अतः केवलनपुंसकत्वत्रिलिङ्गत्वयोर्विरोधः । तथा—ʻकुवलफेनिले (१, पृ। २३७) इति कुवलशब्दस्य नपुंसकत्वं प्रागुक्तम् । लिङ्गसङ्ग्रहे तु—त्रिलिङ्गत्वमभिधास्यते (श्लो। ४२) इत्यादिस्थलेषु पूर्वोत्तरस्थलेषु च विरोधे कस्य प्रसङ्ग इत्याकाङ्क्षायामाह—लिङ्गशेषेत्यादि (श्लो। २) ॥ १ ॥
मल्लि-नाथः - AK.03.05.001
रक्षतु लक्ष्मीरमणो लक्ष्मीकुचकुम्भयुग्मपरिरम्भः ।
रक्षितलोकत्रितयः शिक्षितरक्षोगणाधिपाध्यक्षः ॥
सलिङ्गशास्त्रेः—सङ्कीर्णवदिहोन्नयेत् । इह सङ्ग्रहो लिङ्गानां नाम्नां च सङ्ग्रहणादयं वर्गो लिङ्गादिसङ्ग्रहवर्गः । अत्रानुक्तं लिङ्गं च सङ्कीर्णवत् सङ्कीर्णवर्गे प्रकृतिप्रत्ययार्थादिभिर्यथा लिङ्गोन्नयनं तथा सलिङ्गशास्त्रैः लिङ्गशास्त्रसहितैः सन्नादिकृत्तद्धितसमासजैः कृत्तद्धितसमासशास्त्रे उन्नयेत् तर्कयेत् । ʻजैत्रेजः प्रतिपत्तव्यः शम्बरे शब्दशासने इति । तानि कानीति चेद् विद्युन्निशावल्लीत्यादीनि लिङ्गशास्त्राणि । स्त्रीभावादौ क्तिन्नित्यादीनि कृच्छास्त्राणि । सन्नादिग्रहणं तुमादिव्युदासार्थम् । तल् कट्यच् त्रलित्यादितद्धितशास्त्राणि । द्विगुरेकवचनमित्यादीनि समासशास्त्राणि ॥ १ ॥
[[०५.६५५]]
मूलम् - ०३.०५.००२
(०३.०५.००२अब्) लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः ।
(०३.०५.००२च्द्) स्त्रियामीदूद्विरामैकाच् सयोनिप्राणिनाम च ॥ २ ॥
लिङ्ग-सूरी - AK.03.05.002
लिङ्गशेष—अबाधितः । लिङ्गशास्त्रे स्त्रियामीदूतित्यादिभिः, सन्नादिभिः चिकीर्षा जिहीर्षा इत्यादिभिः, कृज्जैः कृतिः हृतिः इत्यादिभिः, तद्धितजैः मौष्टा पाल्लवेत्यादिभिः, समासजैः त्रिलोकी त्रिवेदीत्यादिभिः लिङ्गविशेषविधिः स्त्रीलिङ्गानुशासनविशेषविधिरबाधितश्चेत् अविशेषेतश्चेत् तदा व्यापी प्रसङ्गाद् भवति ॥ स्त्रियामीदूद्विरामैकाच् । एकाच् एकस्वरा ईद्विरामा ऊद्विरामा च शब्दप्रकृतिः स्त्रियां वर्तते । अत्रोदाहरणानि—श्रीः, धीः, भूः, पूः इत्यादि ॥ सयोनिप्राणिनाम च । योनिमत्प्राणिनां नाम स्त्रियां वर्तते । यथा—इयं कपिः । इयं गुरुः। इयं हरिरत्यादि ॥ २ ॥
लिङ्गशेषविधिर्व्यापी । उक्तनयेन लिङ्गयोर्विरोधे सति लिङ्गशेषविधिरेव व्यापी प्रसङ्गवान् भवति । ग्राह्यो भवतीत्यर्थः । पात्रादिशब्दानां प्रागुक्तं (१, पृ। ५७३) लिङ्गमबाधित्वैव लिङ्गान्तरविधानाद् (श्लो। ४२) वास्तवो विरोधो नास्तीत्यभिप्रायः । ननु—लिङ्गशेषविधिनैव तदर्थलाभात् पूर्वविधिवैयर्थ्यमित्यपि न वाच्यम् । प्रयोगप्राचुर्यप्रदर्शनपरत्वाद्वा स्वप्रायपठितस्य लिङ्गनिश्चयार्थत्वाद्वा तस्योपपत्तेरित्यलम् ॥
ननु—यदि पूर्वविध्यपेक्षया लिङ्गविशेषविधेः प्राबल्यं स्यात्, तर्हि ʻसयोनिप्राणिनाम च्ö इति स्त्रीमात्रे नाम्नां सामान्येन स्त्रीलिङ्गत्वं विदधता लिङ्गविशेषविधिना दारशब्दस्य पूर्वोक्तं (१, पृ। ३६५) पुंलिङ्गत्वं कलत्रशब्दस्य नपुंसकत्वम् (२, पृ। ४७०) इत्यादि बाध्येतेत्यत्राह—विशेषैर्यद्यबाधितः । अस्यार्थः—ʻसयोनिप्राणिनाम च्ö इति लिङ्गसङ्ग्रहोक्तो विधिः सामान्यविधिः । ʻपुं भूम्नि दाराः’ (१, पृ। ३६५), ʻकलत्रं श्रोणिभार्ययोः’ (१, पृ। ४७०) इति प्रागुक्तो विधिः विशेषविधिः । विशेषेण च सामान्यबाधो युक्तः । विशेषगृहीतव्यतिरिक्तस्थले सामान्यस्य सावकाशत्वात् । न च सामान्यविधिना विशेषविधेर्बाधः । विशेषविधेरन्यत्रानर्थक्यप्रसङ्गात् । अतः सामान्यविशेषव्यतिरेकेण द्वयोरपि विशेषविधित्वे लिङ्गशेषवर्गोक्तविधेः प्राबल्यमिति ॥
एवं सुखज्ञानाय परिभाषामुक्त्वा स्त्रीपुन्नपुंसकलिङ्गानि व्यस्तानि च क्रमेण विधत्ते—स्त्रियामिति । अधिकारोऽयम् आ पुंलिङ्गविधेः (श्लो। ११), इत उत्तरत्र वक्ष्यमाणाः स्त्रियां वेदितव्या इत्यर्थः ॥ ईदूद्विरामैकाच् । ईद्विरामम् ईकारान्तम्, ऊद्विरामम् ऊकारातम्, एकाच् एकस्वरं पदं च स्त्रियां भवति । यथा—श्रीः, धीः, भूः, पूः इत्यादि । एकाजिति किम्? ग्रामणीः, प्रतिभूः इति । ईदूद्विरामेति किम्? कः, स्वम् इति ॥ सयोनिप्राणिनाम च । योनिः स्त्रीव्यञ्जनम् । योनिमतः प्राणिनो नाम स्त्रियां भवति । यथा—योषित्, वधूः, स्नुषा इत्यादि । सयोनीति किम्? पुरुषः, पिता, भ्राता इति ॥ २ ॥
मल्लि-नाथः - AK.03.05.002
लिङ्गशेष—अबाधितः । विशेषैरबाधितो लिङ्गशेषविधिर्व्यापी । बाधितविषयं विना तदतिरिक्तस्वविषये व्यापक इत्यर्थः । ʻमन्दाक्षं ह्रीस्त्रपा व्रीडा’ (१। पृ। १३५) । अत्र मन्दाक्षशब्दो बाधितविषयः ॥ स्त्रियामादूद्विरामैकाच् । स्त्रियाम् इत्यामसीशब्दम् (श्लो। १०) अधिकारः । ईदूद्विरामाणि ईदूदन्तानि एकच्कानि च नामानि स्त्रिलिङ्गानि । यथा—लक्ष्मीः, तन्त्रीः, तन्द्रीः, तरीः, जम्बूः, अलाबूः, कुतूः, कूहूः, दृक्, शृक्, स्रक्, वाक् ॥ सयोनिप्राणिनाम च । योनिमत्प्राणिनां नाम स्त्रीलिङ्गम् । यथा—गौः, करेणुः ॥ २ ॥
[[०५.६५६]]
मूलम् - ०३.०५.००३
(०३.०५.००३अब्) नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम् ।
(०३.०५.००३च्द्) अदन्तैर्द्विगुरेकार्थो न स पात्रयुगादिभिः ॥ ३ ॥
लिङ्ग-सूरी - AK.03.05.003
नाम विद्युत्—नदीह्रियाम् । तडिद्रात्रिलतावल्लकीदिग्भूसरिल्लज्जानां नाम स्त्रियां वर्तते ॥ अदन्तैर्द्विगुरेकार्थः । अदन्तैरकारान्तोत्तरपदैः एकार्थः समाहाररूपो द्विगुसमासः स्त्रियां भवति । अत्रोदाहरणानि—पञ्चपूली, दशपूली, त्रिलोकी इत्यादि ॥ न स पात्रयुगादिभिः । स द्विगुसमासः पात्रयुगादिभिरुत्तरपदैः स्त्रियां न वर्तते । उदाहरणानि—त्रिपात्रम्, चतुर्युगम् । आदिशब्दात् त्रिभुवनमित्यादि ॥ ३ ॥
नाम विद्युत्—नदीह्रियाम् । विद्युतः सौदामिन्याः, निशाया रात्र्याः, वल्ल्याः लतायाः, वीणाया वल्लक्याः, दिशः ककुभः, भुवो भूमेः, नद्याः सरितः, ह्रियो लज्जायाश्च सर्वाणि नामानि स्त्रीलिङ्गानि भवन्ति । उदाहरणानि स्पष्टानि । मन्दाक्षमित्यादौ (१, पृ। २३५) विशेषविधिना सामान्यस्य बाधः सर्वत्रानुसन्धेयः । अत्र भूशब्दह्रीशब्दयोर्द्वयोः ʻईदूद्विरामैकाच् (श्लो। २) इति प्रागुक्तम् । निशावल्लीवीणादिशब्दानां ʻङ्याबूङन्तम् (श्लो। ५) इति वक्ष्यमाणं नित्यस्त्रीत्वं सुस्पष्टम् । तथापि तत्पर्यायाणामनेवम्भूतानां विद्युद्रात्रिव्रततिप्रुभृतीनां लिङ्गप्रतिपादनार्थं स्पष्टार्थं चानेन रूपेणाभिधानमित्यवगन्तव्यम् ॥
अदन्तैर्द्विगुरेकार्थे । अदन्तैः अकारान्तोत्तरपदैः सह सङ्ख्याशब्दानामेकार्थे । ʻतद्धितार्थोत्तरपदसमाहारे च्ö (२। १। ५१) इति समाहाररूपार्थे विहितो द्विगुसमासः स्त्रियां वर्तते । तदुक्तम्—ʻअकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते इति (वा। २। ४। १७) । अत्र समाहारस्यैकत्वाद् ʻद्विगुरेकवचनम् (२। ४। १) इत्येकवचनम् । ʻद्विगोः’ (४। १। २१) इति ङीप्प्रत्ययश्च । यथा—पञ्चपूली, दशपूली (काशिका १, पृ। २६६), षट्शती, सप्तशती इत्यादि । तथा तिसृणां पुरां समाहारः त्रिपुरी, पञ्चानां धुरां समाहारः पञ्चधुरी इति । अत्र ʻऋक्पूरब्धू ॥ । इत्यादिना (५। ४। ७४) समासान्तस्य उत्तरपदावयवत्वदर्शनाश्रयणेन उत्तरपदस्याकारान्तत्वे त्रिपुरी पञ्चधुरी इत्यादि भवति ॥
यत्तु मतम्—प्रथमतः समासः, ततः समासान्तविधिः इति । अत्रादन्तैरिति अकारान्तभूतैर्लक्षितो द्विगुः स्त्रियामिति व्याख्येयम् । अदन्तैरिति किम् ? पञ्चानामग्नीनां समाहारः पञ्चाग्नि । अत्र ʻस नपुंसकम् (२। ४। १७) इति नपुंसकत्वम् । द्विगुरिति किम् ? समित्कुशम्, पाणिपादम् इति समाहारद्वन्द्वे मा भूत् । अत्र ʻद्वन्द्वैकत्वाव्ययीभावौ’ (श्लो। २६) इति नपुंसकत्वं वक्ष्यति । एकार्थ इति किम् ? त्रिनावम्, पञ्चकपालः पुरोडाशः इति ॥
अदन्तैर्द्विगुरेकार्थ इत्यस्य क्वचिदपवादमाह—न स पात्रयुगादिभिः । स द्विगुरकारान्तैरपि पात्रयुगादिभिरुत्तरपदैरुपेतः स्त्रियां न भवति । यथा—त्रिपात्रम्, चतुर्युगम् त्रिभुवनम् (काशिका १, पृ। १३१) इत्यादि । ननु—ʻपात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः’ (श्लो। २५) इति वक्ष्यमाणो नपुंसकविधिः अदन्तैरित्यस्य बाधको भविष्यतीति किमत्रानेन प्रतिषेधेनेति चेत्, सत्यम् । अस्य प्रतिषेधस्य ʻपात्रादिभ्यः प्रतिषेधो वक्तव्यः’ (वा। २। ४। १७) इति वक्तव्यमूलत्वप्रतिज्ञानार्थं प्रपञ्चार्थं चोपन्यास इति ॥ ३ ॥
मल्लि-नाथः - AK.03.05.003
नाम विद्युत्—नदीह्रियाम् । विद्युदाद्यर्थानां नाम स्त्रीलिङ्गम् । विद्युन्नाम्नो नीलाञ्जना शतह्रदा, निशानाम्नो याम्या क्षणिनी, वल्लीनाम्नो व्रततिः प्रततिः, तद्विशेषनाम्नोऽपि द्राक्षा नवमालिका, वाणानाम्नो घोषवती कण्ठकूणिका, तद्विशेषनाम्नोऽपि किन्नरी दन्तिका ॥ अदन्तैर्द्विगु—युगादिभिः । अकारान्तोत्तरपदसमाहारद्विगुः स्त्रीलिङ्गः । त्रिलोकी पञ्चपूली । न स पात्रयुगादिभिरिति बाधितविषयः प्रदर्शितः । यथा—पञ्चपात्रम्, चतुर्युगम्, त्रिभुवनम् इति (काशिका १, पृ। १३१) ॥ ३ ॥
[[०५.६५८]]
मूलम् - ०३.०५.००४
(०३.०५.००४अब्) तत्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् ।
(०३.०५.००४च्द्) स्त्रीभावादावनिक्तिण्ण्वुल्णच्ण्वुच्क्यब्युजिञ्ङ्निशाः ॥ ४ ॥
(०३.०५.००५अब्) उणादिषु निरूरीश्च ङ्याबूडन्तं चलं स्थिरम् ।
लिङ्ग-सूरी - AK.03.05.004
तल्वृन्दे येनि—चलं स्थिरम् । तल्—भावसमूहस्वार्थेषु वर्तमानः तल्प्रत्ययः स्त्रियां वर्तते । अत्र क्रमेणोदाहरणानि । भावे यथा—अश्वता, पुरुषता । समूहार्थे यथा—जनता, बन्धुता, सहायता । स्वार्थे यथा—देवता इत्यादि ॥ वृन्दे येनिकट्यत्राः । वृन्दे समूहार्थे विहिता यप्रत्ययïनिप्रत्ययकट्यच्प्रत्ययत्रप्रत्ययान्ताः स्त्रियां वर्तन्ते । उदाहरणानि । यप्रत्ययान्ता यथा—पाश्या, वात्या, धूम्या, वन्या इत्यादि । इनिप्रत्ययान्ता यथा—खलिनी, उलूकिनी, कुण्डलिनी इत्यादि । कट्यच्प्रत्ययान्तो यथा—रथकट्या इति (काशिका १, पृ। ३१२) । त्रप्रत्ययान्तो यथा—गोत्रा इति ॥
वैरमैथुनिकादिवुन् । वैरविवाहवाचको वुन्प्रत्ययान्तः स्त्रियां वर्तते । उदाहरणानि । वैरे यथा—काकोलूकयोर्वैरं काकोलूकिका, अश्वमहिषिका इत्यादि । विवाहे यथा—अत्रिभरद्वाजयोर्विवाहः अत्रिभरद्वाजिका । वशिष्ठकुशिकयोर्विवाहः वसिष्ठकुशिकिका । आदिशब्दाद् दानदण्डद्वन्द्वभावकर्मवाचको वुन्प्रत्ययान्तश्च स्त्रियां वर्तते । क्रमेणोदाहरणानि । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । द्वे द्वे शते दण्डयति द्विशतिकां दण्डयति ॥ वृञ् शिष्योपाध्याययोः भावः कर्म वा शैष्योपाध्यायिका (काशिका २, पृ। २९) । गर्गस्य [श्लाघार्थे] भावः कर्म वा गार्गिका । कौशिकस्य भावः कर्म वा कौशिकिका (५। १। १३४) इत्यादि ॥
स्त्रीभावादिति । सिद्धावस्थामापन्नो धात्वर्थो भावः । भावः आदिर्यस्यासौ भावादिः । स्त्री चासौ भावादिश्च स्त्रीभावादिः । तस्मिन् विहिता अन्यादिप्रत्ययान्ताः स्त्रियां वर्तन्ते । अनिप्रत्ययान्तो यथा—अजननिः, अकरणिः ॥ क्तिन्प्रपत्ययान्तो यथा—कृतिः, भृतिः, हृतिरित्यादि ॥ ण्वुल्प्रत्ययान्तो यथा—प्रवाहिका, प्रच्छर्दिकेत्यादि ॥ णच्प्रत्ययान्तो यथा—व्यावक्रोशी । अन्योन्यक्रोशनं वर्तत इत्यर्थः । व्यावहासीत्यादि । ण्वुच्प्रत्ययान्तो यथा—[भवतः] शायिका । क्यप्प्रत्ययान्तो यथा—व्रज्या । समज्या, सुत्येत्यादि ॥ युच्प्रत्ययान्तो यथा—आसना, कारणा, ग्रन्थनेत्यादि ॥ अङ्प्रत्ययान्तो यथा—त्रपा, भिदा, छिदा इत्यादि ॥ अप्रत्ययान्तो यथा—पुत्रीया इत्यादि । निप्रत्ययान्तो यथा—ग्लानिः, म्लानिः, हानिः इत्यादि । शप्रत्ययान्तो यथा—मृगया, इच्छा इत्यादि । अथ उणादिषु निप्रत्ययान्तो यथा—श्रेणिः, योनिः, द्रोणिः इत्यादि ॥ अनिप्रत्ययान्तो यथा—सरणिः । ऊकारप्रत्ययान्तो यथा—खर्जूः, चमूः इत्यादि । ईकारप्रत्ययान्तो यथा—तन्त्रीः, लक्ष्मीः इत्यादि ॥
ङ्याबूङन्तं चलं स्थिरम् । ङीत्यनेन ङीप्, ङीष्, ङीन् इति प्रत्ययान्तानां ग्रहणम् । आबित्यनेन टाप् डाप् चाप् इति प्रत्ययान्तानां ग्रहणम् । ऊङ् इत्यनेन ऊङ्प्रत्ययस्य ग्रहणम् । चलमभिधेयवल्लिङ्गम् । स्थिरं नियतलिङ्गम् । चलं स्थिरं ङीबन्तमाबन्तमूङन्तं शब्दरूपं स्त्रियां वर्तते । ङीबन्ते यथा—कर्त्री । ङीषन्ते यथा—गौरी । ङीनन्ते यथा—शार्ङ्गरवी । टाबन्तो यथा—अजा । डाबन्तो यथा—सुराजा । चाबन्तो यथा—कौमुदगन्ध्या । ऊङन्तो यथा—वामोरूः ॥ ४ ॥
तल्वृन्दे येनि—चलं स्थिरम् । तल् । विविधस्तल्प्रत्ययः । तलन्तं शब्दरूपं स्त्रियां वर्तते । तत्र, ʻतस्य भावस्त्वतलौ’ (५। १। ११९) इति भावार्थे तल् । यथा—देवदत्तस्य भावो देवदत्तता । अश्वता । ʻग्रामजनबन्धुभ्यस्तल् (४। २। ४३) इति समूहार्थे तल् । यथा—ग्रामता, जनता इत्यादि । ʻदेवात्तल् (५। ४। २७) इति स्वार्थे तल् । देव एव देवता । अत्रानुबन्धग्रहणं किम्? ʻपूञ्हसिभ्यां तन् (उ। ३। ८६) इति तन्प्रत्यये पोतः, हस्तः, इति ॥
वृन्दे येनिकड्यत्राः । यश्च इनिश्च कड्यच्च त्रश्चेति चत्वारः प्रत्ययाः समूहार्थे विहिताः । तदन्ताः शब्दाः स्त्रियां भवन्ति । ʻपाशादिभ्यो यः’ (४। २। ४९) इति यप्रत्यये पाशानां समूहः पाश्या । एवं गल्या, तृण्या, हल्या इत्यादि ॥ ʻखलगोरथात् (४। २। ५०) इत्यनुवृत्तौ, ʻइनित्रकड्यचश्च्ö (४। २। ५१) इति यथासङ्ख्यन्यायेन खलशब्दाद् इनिप्रत्यये खलिनी । अत्र ʻखलादिभ्य इनिर्वक्तव्यः’ (वा। ५। २। ५१) इति वक्तव्यबलाद् उलूकानां समूहः उलूकिनी, कुटुम्बिनी, कुण्डलिनी इत्यादि । गवां समूह इत्यर्थे गोशब्दादुत्तरे त्रप्रत्यये गोत्रा । रथानां समूहो रथकड्या इति । केचित्तु रथकट्येति मूर्धन्यवर्गप्रथमाक्षरयुक्तं कथयन्ति । सूत्रस्थचशब्देन शब्दत्रयादपि यप्रत्ययः समुच्चीयते । ततश्च खल्या, गव्या, रथ्या इति त्रयः शब्दा भवन्ति । वृन्द इति किम्? ʻसख्युर्यः’ (५। १। १२६) इत्यादौ स्त्रीत्वं मा भूत् ॥
वैरमैथुनिकादिवुन् । वैरं विरोधः । मैथुनिकः विवाहः । तत्र ʻद्वन्द्वाद् वुन् वैरमैथुनिकयोः’ (४। ३। १२५) इत्यनेन सूत्रैण द्वन्द्वसमासात् प्रातिपदिकाद् वुन्प्रत्ययो विहितः । तदन्तं शब्दरूपं स्त्रियां भवति । यथा—काकोलूकयोर्वैरं काकोलूकिका । अश्वमहिषिका इति ॥ मैथुनिकायां यथा—अत्रिभरद्वाजयोर्विवाहः अत्रिभरद्वाजिका । शाण्डिल्यकुशिकयोर्विवाहः शाण्डिल्यकुशिकिका । आदिशब्दार्थः शेषे—ʻवीप्सादण्डनदाने वुन् इति । वीप्सायां यथा—द्वौ द्वौ पादौ ददाति द्विपदिका । ʻपादशतस्य सङ्ख्यादेर्वीप्सायां वुन् लोपश्च्ö (५। ४। १) इति वुन्-प्रत्ययः । तत्सन्नियोगेन चान्त्यस्य लोपः । ʻयस्येति च्ö (६। ४। १४८) इत्यनेनैव लोपे सिद्धे पुनर्लोपवचनं परनिमित्तानपेक्षलोपविधानार्थम् । ʻयस्येति च्ö इति विहितो लोपः परिनिमित्तकः । तस्य स्थानिवद्भावेन ʻपादः पत् (६। ४। १३०) इति पद्भावो न स्यात् । प्रत्ययसन्नियोगविशिष्टस्य तु लोपस्य परनिमित्तकत्वाभावात् स्थानिवद्भावाभावेन द्विपदिकां ददाति द्विशतिकां ददातित्यादौ पद्भावः स्यादेवेति वृत्तिकारेण प्रपञ्चितम् (काशिका २, पृ। ८०) । दण्डने यथा—द्विपदिकां दण्डयति । दाने यथा—द्विपदिकां ददाति । द्वौ द्वौ पादौ ददातीत्यर्थः । द्वे द्वे शते ददाति द्विशतिकां ददाति । ʻदण्डव्यवसर्गयोश्च्ö (५। ४। २) इत्युभयत्रापि वुन्प्रत्ययः । व्यवसर्गः दानम् ।
अत्र शेषकारः—
ʻवुञ द्वन्द्वाद् भावकर्मणोः । श्लाघायां तदवेतेत्याकारे चरणगोत्रयोः’ इति । अस्यार्थः—ʻयोपधाद् गुरूपोत्तमाद् वृञ् (५। १। १३२) इत्यतो वुञ् इति वर्तमाने, ʻद्वन्द्वमनोज्ञादिभ्यश्च्ö (५। १। १३३) इत्यनेन सूत्रेण भावकर्मणोरर्थयोः द्वन्द्वसमासाद् विहितो यो वुञ्प्रत्ययः तदन्तं शब्दरूपं स्त्रियां भवति । यथा—शिषेयोपाध्ययोर्भावः कर्म वा शैष्योपाध्यायिका । गोपालपशुपालिका । तथा ʻगोत्रचरणाच्छ्लाघात्याकारतदवेतेषु’ (५। १। १३४) इति सूत्रेण, गोत्रमपत्यम्, चरणं शाखा, गोत्रप्रत्ययान्तात् चरणप्रत्ययान्ताच्च शलाघादिष्वर्थेषु गम्यमानेषु भावकर्मणोर्विहितो यो वृञ्प्रत्ययः तदन्तं शब्दरूपं स्त्रियां भवति । गर्गस्य भावेन कर्मणा वा श्लाघते गार्गिकया श्लाघते । तदवेतः तत्प्राप्तिः । अत्याकारः पराधिक्षेपः । गार्गाकामवेतः । गार्गिकया अत्याकरोति । चरणप्रत्ययान्ताद् यथा—काठिकया श्लाघते । काठिकया अत्याकरोति । काठिकामवेतः इत्यादि (काशिका २, पृ। २९) ॥
स्त्रीभावादावनिक्ति—युजिञङ्निशाः । शेषे—ʻअकर्तृककारके भावे क्विबकारेण्ण्वुचः स्त्रियाम् इति । भाव आदिर्यस्य कर्तृवर्जितकारकस्य स भावादिः इति तद्गुणसंविज्ञानो बहुव्रीहिः । स्त्रीलिङ्गश्चासौ भावादिश्च, स्त्रीभावे कर्तृवर्जिते कारकेऽर्थे च विहिताः अनि, क्तिन्, ण्वुल्, णच्, क्यप्, युच्, इञ्, अङ्, नि, श, इत्याचार्यसङ्गृहीता दश प्रत्ययाः, तथाभूत एवार्थे शेषकारेण क्विप् अकारः इण् ण्वुच् इति चत्वारश्च, इत्येवं चतुर्दशप्रत्ययान्ताः स्त्रीलिङ्गा सङ्गृहीताः वेदितव्याः । ते च क्रमेणोदाह्रियन्ते ।
तत्र ʻआक्रोशे नञ्यनिः’ (३। ३। ११२) इत्याक्रोशे शपथे गम्यमाने नञ्युपपदे भावार्थे धातोरनिप्रत्ययो विहितः । यथा—अकरणिस्ते वृषल भूयात् (काशिका १, पृ। २२४) । अभवनिरस्तु ते विभूतेः । अपूरणिस्ते कामानामस्तु । ʻतस्याजननिरेवास्तु जननीक्लेशकारिणः’ इति (शिशु। २। ४५) । अथ क्तिन् । यथा—ʻस्त्रियां क्तिन् (३। ३। ९४) । प्रकृतिः, हृतिः, शुद्धिः, बुद्धिः इति । ʻश्रुयजिस्तुभ्यः करणे (वा। ३। ३। ९४) । श्रूयतेऽनयेति श्रुतिः । इज्यतेऽनयेति इष्टिः । स्तूयतेऽनया सा स्तुतिः । ʻऋकारल्वादिभ्यः क्तिन्निष्ठावद् भवति इति वक्तव्यम् (वा। ३। ३। ९४) । ʻजॄष् वयोहानौ’ । जीर्णिः । ʻकॄ हिंसायाम् । कीर्णिः । ʻलूञ् छेदने । लूनिः । निष्ठावद्भावात् तकारस्य नकारः (८। २। ४२) । ʻस्थागापापचो भावे (३। ३। ९५) इत्यङ्प्रत्ययस्यापवादः । ʻष्ठा गतिनिवृत्तौ’ । प्रस्थितिः । ʻव्यवस्थायामसञ्ज्ञायाम् (१। १। ३४), ʻआस्पदं प्रतिष्ठायाम् (६। १। १४६) इत्यादिज्ञापकाद् अङप्यस्ति । प्रतिष्ठा, संस्था, निष्ठा इत्यादि । ʻगै शब्दे । उद्गीतिः । ʻपा पाने । प्रपीतिः । ʻडुपचष् पाके । पक्तिः । षित्करणसामर्थ्याद् अङप्यस्ति (३। ३। १०४) । पचा । तथा ʻऊतियूतिजूतिसातिहेतिकीर्त्तयश्च्ö (३। ३। ९७) इति क्तिन्नन्तनिपातनम् यथा—ʻअव रक्षणे । ऊतिः । ʻयु मिश्रणे । यूतिः । ʻज्ǖ इति सौत्रो धातुः। जूतिः । ʻषोऽन्तकर्मणि । सातिः । ʻहि गतौ’ । हेतिः ॥
अथ ण्वुल् । ʻरोगाख्यायां ण्वुल् बहुलम् (३। ३। १०८) इति ण्वुल् । ʻछर्द वमने । प्रच्छर्दिका । ʻवह प्रापणे । प्रवाहिका (काशिका १, पृ। २२३) । ʻधात्वर्थनिर्देशे ण्वुल् वक्तव्यः’ (वा। ३। ३। १०८) । ʻआस उपवेशने । आसिका । ʻशीङ् स्वप्ने । शायिका । ʻविश प्रवेशने । वेशिका ॥
अथ णच् । ʻकर्मव्यतिहारे णच् स्त्रियाम् (३। ३। ४३) इति । धातुभ्यो भावार्थे णच् प्रत्ययो भवति । कर्मव्यतिहारे क्रियाविनिमये गम्यमाने, ʻणचः स्त्रियामञ् (५। ४। १४) इति स्वार्थिकोऽञ् प्रत्ययः । अञ् प्रत्ययान्तत्वेन ʻटिड्ढाणञ् ॥ । इत्यादिना (४। १। १५) ङीपि व्यावक्रोशी । अन्योन्यं क्रोशनमित्यर्थः । एवं परस्परं हसनं व्यावहासी । परस्परमुक्षणं व्यात्युक्षी । व्यावचोरी इत्यादि (काशिका १, पृ। २१४) ॥
अथ ण्वुच् । ʻपर्यायार्हणोत्पत्तिषु ण्वुच् (३। ३। १११) इति । पर्यायः परिपाटी । अर्हणमर्हो योग्यता । एष्वर्थेषु ण्वुच् स्यात् । यथा—भवतः शायिका । भवत आसिका । अर्हे—भवानिक्षुभक्षिकामर्हति । ऋणे—इक्षुभक्षिकां मे धारयसि । उत्पत्तौ—इक्षुभक्षिका मे उदपादि (काशिका १, पृ। २२४) ॥
अथ क्यप्—ʻव्रजयजोर्भावे क्यप् (३। ३। ९८) । ʻव्रज गतौ’ । व्रज्या । ʻयज देवपूजादौ’ । इज्या । ʻसञ्ज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३। ३। ९९) इति क्यप् । ʻअज गतिक्षेपणयोः’ । समजन्त्यस्यामिति समज्या । ʻषद्लृ विशरणगत्यवसादनेषु’ । निषीदन्त्यस्यामिति निषद्या । निप्तया । ʻमन ज्ञाने । मन्यते मन्या । झलादित्वाभावाद् अनुनासिकलोपाभावः । ʻविद ज्ञाने । विदन्ति यया सा विद्या । ʻषुञ् अभिषवे । सुन्वन्त्यस्यामिति सुत्या । ʻशीङ् स्वप्ने । शेरतेऽस्यामिति शय्या । ʻभृञ् भरणे । भ्रियते कर्मकरोऽनयेति भृत्या । ʻइण् गतौ’ । यन्त्यनयेति इत्या । ʻकृञः श च्ö (३। ३। १००) इति क्यपि कृत्या (६। १। ७१) ॥
अत्र क्यप् प्रत्ययोदाहरणमध्ये ʻहनस्त च्ö (३। १। १०८) इति सूत्रेण निष्पन्नो हत्याशब्दोऽपि स्त्रीलिङ्गः कैश्चिदुदाहृतः । तत्र मूलं चिन्तनीयम् । तथा हि—नात्र भावमात्रविहितक्यप् प्रत्ययान्तत्वमेव स्त्रीलिङ्गत्वे प्रयोजकम् । किं तर्हि ? स्त्र्यधिकारविहितक्यबन्तत्वम् । अन्यथा ʻभुवो भावे (३। १। १०७) इति सूत्रविहितक्यबन्तो ब्रह्मभूयशब्दोऽपि स्त्रीलिङ्गः प्रसज्येत । तच्चानिष्टम् । न च ʻहनस्त च्ö इति सूत्रे स्त्रियामिति पदं श्रूयते । नापि स्त्र्यधिकारगतमिदं सूत्रम् । तस्मादस्मिन् प्रकरणे हत्या इत्युदाहरणमसङ्गतम् । अतः हत्याशब्दस्य प्रमाणान्तरात् स्त्रीलिङ्गत्वमवगन्तव्यम् ॥
अथ युच् । ʻण्यासश्रन्थो युच् (३। ३। १०७) इति । तत्र ण्यन्ताद् यथा—कारणा । हारणा । ʻआस उपवेशने । आसना । ʻश्रन्थ ग्रन्थ सन्दर्भे । श्रन्थना । ग्रन्थना । चन्द्रस्तु—ʻण्यासश्रन्थो युच् इति सूत्रं पठित्वा ʻग्रन्थ मोचनप्रतिपादनयोः’ इति क्र्यादिधातुजं ग्रन्थनाशब्दमाह । ʻघट्टिवन्दिविदिभ्य उपसङ्ख्यानम् (वा। ३। ३। १०७) इति युच् । ʻघट्ट चलने । घट्टना । ʻवदि अभिवादनस्तुत्योः’ । वन्दना । ʻविद ज्ञाने । वेदना (काशिका १। पृ। २२२) । ʻइषेरनिच्छार्थस्य युज् वक्तव्यः’ (वा। ३। ३। १०७) इति अन्वेषणा, अध्येषणा इति ॥
अथ इञ् । ʻविभाषाख्यानपरिप्रश्नयोरिञ् च्ö (३। ३। ११०) इति । परिप्रश्ने आख्याने गम्यमाने इञ् स्यात् । यथा—कां कारिं त्वमकार्षीः । कां कारिकां क्रियां कृत्यां कृतिं वा अकार्षीः । चकारानुबन्धनाद् ण्वुलपि ॥
अथ अङ् । ʻषिद्भिदादिभ्योऽङ् (३। ३। १०४) इति । षिद्भ्यस्तावत् । ʻजॄष् वयोहानौ’ । जीर्यन्त्यङ्गान्यस्यामिति जरा । ʻऋदृशोऽङि गुणः’ (७। ४। १६) इति गुणः । ʻत्रपूष् लज्जायाम् । त्रपा इत्यादि । भिदादयस्तु महोदधौ—
ʻभिदिं छिदिं विदिं दयिं रुजिं मृजिं प्रछिं चुरिम् ।
अनामनि क्षिपिं तथा गुहिं तुलिं वसिं वपिम् ॥
क्षपिं क्षियिं रिखिं लिखिं शुभिं सिधिं मिधिं गुधिम् ।
इत्यादयः पठिताः (८। ४५१-२, पृ। ४७४) । ʻभिदिर् विदारणे । भिदा । ʻछिदिर् द्वैधिकरणे । छिदा । ʻविदिर् लाभे, ʻविद ज्ञाने । विदा । ʻदय दानगतिरक्षणेषु’ । दया । ʻरुज रोगे । रुजा । ʻमृजूष् शुद्धौ’ । मृजा । ʻप्रच्छ ज्ञीप्सायाम् । पृच्छा । ʻचुर स्तेये । चुरा । गणपाठादेव णेर्लुक् । ʻक्षिप प्रेरणे । क्षिपा । एतेऽनामनि असञ्ज्ञाविषये साधवः । अनन्तरधातुभ्यः सञ्ज्ञायामेव प्रत्ययः । यथा—ʻगुहू संवरणे । गुहा । पर्वतकुहरम्, ओषधिविशेषश्च । ʻतुल उन्माने । तुला । ʻवस निवासे । वसत्यनया मांसमिति वसा मांसस्नेहः । ʻडुवप् बीजतन्तुसन्ताने । उप्यते नाभिसमीपमिति वपा । वस्त्रखण्डसदृशाकारो मेदोविशेषः । ʻक्षै क्षये । हेतुमण्णिचि पुगागमे (७। ३। ३६) मितां ह्रस्वे च (६। ४। ९२) क्षपा रात्रिः । ʻक्षि हिंसायाम् । क्षिया आचारभ्रंशः । रेखा राजिः । लेखा सैव । रिखिर्लिखसमानार्थः सौत्रो धातुः । ʻशुभ दीप्तौ’ । शोभा कान्तिः । ʻषिधू संराद्धौ’ । सेधा । प्राणिविशेषः । [ʻमिधि मेधाहिंसनयोः’ । मेधा] । ʻगुध परिवेष्टने । गोधा । ʻक्रप कृपायाम् इत्यस्मात् ʻक्रपेः सम्प्रसारणं च्ö (गणसूत्रम्) इत्यङि कृपा । आरा शस्त्री । हारा । कारा बन्धने । तारा ज्योतिः । धारा प्रपातः इत्यादिप्रपञ्चो भिदादेर्द्रष्टव्यः ॥
ʻचिन्तिपूजिकथिकुम्बिचर्चश्च्ö (३। ३। १०५) इति स्त्रियामङ् । ʻचिती सञ्ज्ञाने । अस्माच्चुरादिण्यन्तात् चिन्ता । ʻपूज पूजायाम् । पूजा । ʻकथ वाक्यप्रवन्धे । कथा । ʻकुबि आच्छादने । कुम्बा । ʻचर्च अध्ययने । चर्चा । ʻआतश्चोपसर्गे (३। ३। १०६) । प्रदा । प्रधा । विदा । उपधा । ʻश्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या’ (वा। ३। ३। १०६) । श्रद्धा । अन्तर्धा । ʻइक् कृष्यादिभ्यः’ (वा। ३। ३। १०८) । कृषिः । ʻलिप उपदेहे । लिपिः इत्यादि ॥
अथ निः ʻग्लाम्लाज्याहाभ्यो निर्वक्तव्यः’ (वा। ३। ३। ९४) । ʻग्लै हर्षक्षये । ग्लानिः । ʻम्लै गात्रविनामे । म्लानिः । ʻज्या वयोहानौ’ । ज्यानिः । ʻओहाक् त्यागे । हानिः । ग्लादिभ्यो निप्रत्ययः क्तिन्प्रत्ययस्यापवादः (काशिका १, पृ। २२१) ॥
अथ शप्रत्ययः । ʻकृञः श च्ö (३। ३। १००) । क्रिया । तथा इच्छेरप्रत्ययान्तो निपातः (३। ३। १०१) । इच्छा । तथा ʻपरिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् (वा। ३। ३। १०१) इति शप्रत्ययान्तनिपातः । तथा ʻजगर्तेरकारो वा’ (वा। ३। ३। १०१) इति शप्रत्ययः । जागर्या । एवं मूलग्रन्थस्या दश प्रत्यया उदाहृताः ॥
अथ शेषकारीयाश्चत्वारः क्रमेणोदाह्रियन्ते—क्विप् । ʻसम्पदादिभ्यः क्विप् (वा। ३। ३। ९४) । भावग्रहणं [अकर्तृककारके भावे इति शेषग्रन्थे पृ। ६६२] कर्तृव्यतिरिक्तकारकोपलक्षणम् । ʻपद गतौ’ । सम्पत् । विपत् । आपत् । ʻषद्लृ विशरणगत्यवसादनेषु’ । संसत् । परिषत् । उपनिषत् । ʻविद ज्ञाने । वित् । संवित् । ʻणह बन्धने । उपानत् । ʻवृषु सेचने । प्रावृट् । ʻप्लुष दाहे । विप्रुट् । ʻवृतु वर्तने । आवृत् । ʻयम् उपरमे । संयत् । ʻश्रु श्रवणे । प्रतिश्रुत् । ʻडुभृञ् धारणपोषणयोः’ । उपभृत् । ʻवृधु वृद्धौ’ । संवृत् । ʻञि इन्धी दीप्तौ’ । समित् । ʻक्रुध कोपे । क्रुत् । ʻक्षुध बुभुक्षायाम् क्षुत् । ʻयुध सम्प्रहारे । युत् । ʻरुजो भङ्गे । रुक् । ʻरुष हिंसायाम् । रुट् । ʻशुच शोके । शुक् । ʻरुच दीप्तौ’ । रुक् । ʻमृड सुखने । मृट् । ʻगॄ निगरणे । गीः । ʻगुरी उद्यमने । आगूः । ʻह्री लज्जायाम् ह्रीः । ʻञिभी भये । भीः । ʻलुभ विमोहने । लुप् ॥ ʻभू सत्तायाम् । भूः । ʻलूञ् छेदने । लूः । ʻद्विष अप्रीतौ’ । द्विट् । ʻत्विष दौप्तौ’ । त्विट् । ʻक्रुश आह्वाने । क्रुट् । तथा—ʻज्वरत्वरश्रिव्यविमवामुपधायाश्च्ö । (६। ४। २०) । जूः । ʻञित्वरा सम्भ्रमे तूः । ʻस्रिवु गतिशोषणयोः’ । स्रूः । ʻअव रक्षणे । ऊः । ʻमव बन्धने । मूः । ʻमुच्लृ मोक्षणे । मुट् । ʻणश अदर्शने । नट् । ʻनशेर्वा’ (८। २। ६३) इति कुत्वविकल्पे नक् । नट् । एवं कृत्, युज्, विट्, भिद्, छिद् इत्यादयोऽवगन्तव्याः ॥
अथ अ । ʻगुप्तिज्किद्भ्यः सन् (३। १। ५) इति । निन्दाक्षमाव्याधिप्रतीकारेष्वर्थेषु विहितात् सन् प्रत्ययान्ताद् धातोः ʻअ प्रत्ययात् (३। ३। १०२) इति अकारप्रत्यये जुगुप्सा । तितिक्षा । चिकित्सा । ʻमान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य्ö (३। १। ६) इत्यत्र ʻमान जिज्ञासायाम् इति सन्नन्ताद् अप्रत्यये मीमांसा । ʻबध वैरूप्ये सनि उपधादीर्घे भष् भावे (८। २। ३७) चर्त्वे च अकारप्रत्यये बीभत्सा । दानेरार्जव इति दीदांसा । शानेर्निशातनेऽर्थे सनि शीशांसा । तथा ʻधातोः कर्मणः समानकर्तृकादिच्छायां वा’ (३। १। ७) इति सनि अप्रत्यये च चिकीर्षा, जिहीर्षा, जिगीषा इत्यादि । ʻआशङ्कायामुपसङ्ख्यानम् (वा। ३। १। ७) । विचिकित्सा । एवं सन्प्रत्ययव्यतिरिक्त-क्यजादि-प्रत्ययान्तेभ्योऽपि धातुभ्यः पूर्ववदप्रत्ययान्ता उदाहर्तव्याः । यथा—पुत्रीया, पुत्रकाम्या, लोलूया, कण्डूया, चित्रीया, कलहाया इत्यादयः । तथा—ʻगुरोश्च हलः’ (३। ३। १०३) इत्यप्रत्ययः । ʻएध वृद्धौ’ । एधा । ʻस्पर्ध सङ्घर्षे । स्पर्धा । ʻशंसु स्तुतौ’ । शंसा इति । ʻजागर्तेरकारो वा’ (वा। ३। ३। १०१) । जागरा, जागर्या इति ।
अथ इण् । ʻइणजादिभ्यः’ (वा। ३। ३। १०८) इति इण् । ʻअज गतिक्षेपणयोः’ । आजिः । ʻअत सातत्यगमने । आतिः । ʻराजृ दीप्तौ’ । राजिः । ʻजनी प्रादुर्भावे, ʻजनिवध्योश्च्ö (७। ३। ३५) इति वृद्धिप्रतिषेधे जनिः । तथा ʻविभाषाख्यानपरिप्रश्नयोरिञ् च्ö (३। ३। ११०) इति । परिप्रश्ने यथा—कां त्वं कारिमकार्षीः । कां क्रियामकार्षीः इति प्रश्नार्थः । आख्याने यथा—सर्वां कारिमकार्षम् इत्यादि (काशिका १, पृ। २२४) ॥
अथ ण्वुच् । ʻपर्यायार्हणोत्पत्तिषु ण्वुच् (३। ३। १११) इति । पर्याये यथा—भवतः शायिका । भवत आसिका । अर्हे यथा—अर्हति भवानिक्षुभक्षिकाम् । ऋणे यथा—इक्षुभक्षिकां मे धारयसि । उत्पत्तौ यथा—इक्षुभक्षिका मे उत्पन्ना इति । अत्र ʻण्वुल्तृचौ’ (३। १। १३३), ʻवदः सुपि क्यप् च्ö (३। १। १०६), ʻक्यचि च्ö (७। ४। ३३), ʻअत इञ् (४। १। ९५), ʻपाघ्राध्माधेट्दृशः शः’ (३। १। १३७), ʻइक्श्तिपौ धातुनिर्देशे (वा। ३। ३। १०८) इत्यादिभिः कर्तरि विहितानां ण्वुलादीनां स्त्रीत्वं मा भूदिति ʻभावादौ’ इत्युक्त्म् । तथापि ʻभुवो भावे (३। १। १०७) इत्यादिना विहितक्यबादिनिवृत्त्यर्थं स्त्र्यधिकारविशेषणं कृतम् ॥
केचिदत्र ʻस्त्रीभावादनिक्तिण्णुल्णच्ण्वुच्क्यब्युजिञङ्निशाः’ इति पूर्वोदाहृतदशप्रत्ययातिरिक्तं ण्वुच्प्रत्ययमकारप्रत्ययं चान्तरीकृत्य द्वादशप्रत्ययोपसङ्ग्रहत्वेन अमरसिंहीयश्लोकार्धं पठन्ति । स पाठः शेषकारस्यानभिप्रेतः । ण्वुच्प्रत्ययाकारप्रत्ययोः अमरसिंहनाथेनानुक्तत्वबुद्ध्या ताभ्यां सह प्रत्ययचतुष्टयस्य स्वेनोपसङ्ग्रहणादिति ॥
उणादिषु निरूरीश्च । उणादिप्रत्ययानां मध्ये निः, ऊः, ईः इति प्रत्यया उक्ताः । तदन्ताः शब्दाः स्त्रीलिङ्गा भवन्ति । तत्र निप्रत्ययो यथा—ʻवीज्याज्वरिभ्यो निः’ (उ। ४। ४९) इति । ʻवी गतिप्रजनकान्त्यसनखादनेषु’ । वीयते बध्यत इति वेणिः केशबन्धः । ʻज्या वयोहानौ’ । जिनात्यनयेति ज्यानिः । ʻज्वर रोगे । ज्वरयतीति जूर्णिः आदित्यः । ʻसुवृषिभ्यां कित् (उ। ४। ५०) । सरन्त्यनयेति सृणिः अङ्कुशः । वर्षतीति वृष्णिः यदुविशेषः । अग्निः । वह्निः । इत्यादीनां तु सुरपर्यायाणां विशेषणेन बाधसद्भावात् पुंस्त्वम् ॥
अथ ऊः । ʻकृषिचमितनिधनिसर्जिखर्जिभ्य ऊः’ (उ। १। ८४) । ʻकृष विलेखने । कर्षूः व्याधिविशेषः, गोमयश्च । ʻचमु अदने । चमूः सेना । ʻतनु विस्तारे । तनूःशरीरम् । ʻधन धान्ये । धनत्यनेनेति धनूः शरः । ʻसर्ज षर्ज अर्जने । सर्ज्यते आर्ज्यते ऽनेनेति सर्जूः वणिक् । ʻखर्ज व्यथने पूजने च्ö । खर्जतीति खर्जूः । पामा । ʻमृजेर्गुणश्च्ö (उ। १। ८५) । ʻमृजूष् शूद्धौ’ । मर्जूः शुद्धिः रजश्च । ʻवहो धश्च्ö (उ। १। ८६) । उह्यत इति वधूः अभिनवपाणिग्रहणा । अन्यत्र स्त्रीमात्रे गौणः । ʻकषेश्छश्च्ö (उ। १। ८७) । ʻकष हिंसार्थः’ । कषत्यनयेति कच्छूः पामा । ʻणित्कसिपद्यर्तेः’ (उ। १। ८८) । ʻकस गतौ’ । कासूः रोगविशेषः । (शक्तिरिति कौमुद्याम् पृ। ४९८) । आयुधविशेषश्च । ʻपद गतौ’ । पादूः उपानत् । ʻऋ गतौ’ । अर्यतेऽनयेति आरूः । वेदिका, वेदना, बलं च । ʻनञि लम्बेर्नलोपश्च्ö (उ। १। ९०) । ʻलबि शब्दे अवस्रंसने च्ö । अलाबूः । ʻके श्र एरङ् चास्य्ö (उ। १। ९१) । ʻशॄ हिंसायाम् । कशेरूः । तृणकन्दविशेषः । पद्ममूलम् । वीरुद्विशेषः । फलजातिश्च । ʻत्रो दुट् च्ö (उ। १। ९२) । ʻतृ प्लवनतरणयोः’ । तरतीति तर्दूः । दारुहस्तकः । ʻदरिद्रातेर्यलोपश्च्ö (उ। १। ९३) । ʻदरिद्रा दुर्गतौ’ । दर्द्रूः कुष्ठविशेषः । ʻनृतिशृध्योः कूः’ (उ। १। ९४) । ʻनृती गात्रविक्षेपे । नृत्यतीति नृतूः । दीर्घकृमिविशेषः । ʻशृधु मृधु उन्दे । श्रधूः गुणः प्रज्ञा च । ʻअन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः’ (उ। १। ९६) । ʻअति अदि बन्धने । अन्दूः अयोमयी शृङ्खला । ʻदृभी ग्रन्थे । दृम्भूः सर्पजातिः, दृन्भूर्वा । ʻचमु छमु जमु झमु अदने । जम्यत इति जम्बूःवृक्षविशेषः । ʻफल निष्पत्तौ’ । कफेलूः श्लेष्मातकः । कर्कशब्दोपपदाद् धाञः कूप्रत्ययः । उपपदस्य नुक् । कर्कन्धूः बदरी । दधातेः इषुक् चागमः । दिधिषूः द्विरूढा ॥
अथ ईः । ʻअवितॄस्तॄतन्त्रिभ्य ईः’ (उ। ३। १५९) । ʻअव रक्षणादिषु’ । अवतीति अवीः प्रकाशः । अवति रक्षत्यात्मानं परपुरुषादिभ्य इति अवीः रजस्वला । ʻतॄ प्लवनतरणयोः’ । तीर्यतेऽनयेति तरीः नौः । ʻस्तॄञ् आच्छादने । स्तृणातीति स्तरीः धूमः । ʻतन्त्रि कुटुम्बधारणे । तन्त्रीः वीणारज्जुः, वाद्यविशेषश्च । तन्द्रिः सौत्रो धातुः आलस्यार्थः । तन्द्रीः आलस्यम् । ʻलक्षेर्मुट् च्ö (उ। ३। १६२) । ʻलक्ष दर्शनीङ्कनयोः’ । लक्षयतीति लक्ष्मीः ॥ अत्र चकारेण औणादिक एव अनिप्रत्ययो गृह्यते । यथा—ʻअर्तिसृधृधम्यश्य‒वितॄभ्योऽनिः’ (उ। २। १०२) । ʻऋ गतौ’ । अर्यत इति अरणिः काष्ठविशेषः । ʻसृ गतौ’ । सरन्त्यनेनेति सरणिःपन्थाः । ʻधृङ् अवस्थाने । धरणिः पृथिवी । धमिः सौत्रो धातुः । धमनिः । अश्नुत इति अशनिः वज्रम् । अवतीति अवनिः पृथिवी । तरतीति तरणिः सूर्यः इति । अत्र अरण्याशनिशब्दयोरपि विशेषविधिना लिङ्गद्वयवृत्तित्वम् । तरणिशब्दस्य सूर्यवाचकत्वाद् ʻद्युमणिस्तरणिर्मित्रः’ (१, पृ। ६९) इति विशेषविधिकल्पनेन पूर्वोत्तरसाहचर्येण पूंलिङ्गत्वमिति विज्ञेयम् ॥
ङ्याबूङन्तं चलं स्थिरम् । ङीप्, ङीष्, ङीन् इति त्रयाणां ङी इति सामान्यग्रहणम् । आप् इति टाप्, डाप्, चाप् इति त्रयाणां ग्रहणम् । ङ्यन्तम्, आबन्तम्, ऊङन्तं च स्त्रीलिङ्गं भवति । क्रमेणोदाहरणानि । यथा ʻऋन्नेभ्यो ङीप् (४। १। ५) । कर्त्री, दण्डिनी इति । ʻअन्यतो ङीष् (४। १। ४०), ʻषिद् गौरादिभ्यश्च्ö (४। १। ४१) इति ङीषि गौरी । ʻशार्ङ्गरवाद्यञो ङीन् (४। १। ७३) । शार्ङ्गरवी । बैदी । इत्यादि । ʻअजाद्यतष्टाप् (४। १। ४) इति टापि अजा, एडका । ʻडाबुभाभ्यामन्यतरस्याम् (४। १। १३) इति डापि बहुराजा । ʻयङश्चाप् (४। १। ७४) इति चाप्प्रत्यये कारीषगन्ध्या । ʻऊङुतः’ (४। १। ६६) इति ऊङ्प्रत्यये ब्रह्मबन्धूः । ʻऊरूत्तरपदादौपम्ये (४। १। ६९) करभोरूः । ʻसंहितशफलक्षणवामादेश्च्ö (४। १। ७०) इति रम्भोरूः, संहितोरूः, शफोरूः, लक्षणोरूः, वामोरूः इत्यादि ।
ननु यस्य शब्दस्य स्त्रियां वृत्तिः स शब्दः स्त्रिलिङ्ग इति वक्तव्यम् । ततश्चास्मिन् शास्त्रे स्त्रियामपरिभाषितत्वात् लोकप्रसिद्धस्त्रीग्रहणे खट्वाशालादौ अतिव्याप्तिप्रसङ्गात् ʻस्त्रियाम् इति सिद्धवदनुवादोऽनुपपन्नः । एवं पुन्नपुंसकयोर्लिङ्गयोरपि दुर्वचनत्वात् लिङ्गविशेषव्यवहारानुपपत्तिरित्याशङ्क्याह—चलं स्थिरमिति । चलं चेतनम् । स्थिरमचेतनमित्यर्थः । अयमभिप्रायः—चेतनेषु स्तनादिरभिव्यक्तिः स्त्रीव्यञ्जिका । श्मश्रुरोमादिरभिव्यक्तिः पुंस्त्वस्य । उभयविलक्षणा तु नपुंसकत्वस्य । अचेतनेषु खट्वादिषु पूर्वोक्तव्यञ्जकव्यक्तीनामभावाद् ब्राह्मणत्वादिवद् उपदेशव्यङ्ग्या एव जातय इति । तदुक्तं ʻस्त्रियाम् (४। १। ३) इत्यत्र सूत्रे वृत्तिकारैः—ʻसामान्यविशेषाः स्त्रीत्वादयो गोत्वादय इव बहुप्रकारा व्यक्तयः । क्वचिदाश्रविशेषाभावाद् उपदेशव्यङ्ग्या एव भवन्ति । यथा ब्राह्मणत्वादयः’ इति (काशिका। १, पृ। २६२) । अत्र न्यासकारादिभिश्च अयमेवार्थः प्रपञ्चितः । तत्र चलनशीलेषु चेतनेषु योषितादिषु व्यक्तिविशेषव्यङ्ग्यं स्त्रीत्वादिकं शब्दार्थः । स्थिरप्रायेष्वचेतनेषु खट्वादिषु पुनरुपदेशमात्राभिव्यङ्ग्यं स्त्रीत्वादिकं शब्दार्थः । एवं च सति चलं चलव्यक्तिव्यङ्ग्यलिङ्गविशिष्टार्थाभधायकम् । स्थिरं स्थिरव्यक्तिगतोपदेशमात्राभिव्यङ्ग्यलिङ्गविशिष्टार्थाभिधायकं ङ्याबूङन्तं स्त्रियां भवतीति । एतच्च लिङ्गस्वरूपनिरूपणं यद्यप्येतद्वर्गादौ ग्रन्थादौ वा कर्तव्यम्, तथापि ङ्याबूङन्तमित्यस्य मूलभूते ʻस्त्रियाम् (४। १। ३) इति सूत्रे कृतमित्यत्रैवायमर्थः एकमुष्ट्या आचार्येण सूचितमित्यवधेयम् ॥ ४ ॥
मल्लि-नाथः - AK.03.05.004
तल्वृन्दे येनि—चलं स्थिरम् । तल्प्रत्ययान्तः स्त्रीलिङ्गः । भावे तल् यथा—जडस्य भावो जडता । ʻदेवात्तल् (५। ४। २७) । देव एव देवता । ʻग्रामजनबन्धुसहायेभ्यस्तल् (४। २। ४३) । ग्रामाणां समूहो ग्रामता । जनता । बन्धुता । सहायता । ʻगजाच्चेति वक्तव्यम् (वा। ४। २। ४३) । गजानां समूहो गजता ॥ वृन्दे येनिकट्यत्राः । समूहार्थे यप्रत्ययान्ताः इनित्रकट्यजन्ताश्च स्त्रीलिङ्गाः । पाश्या, तृण्या, उलूकिनी, गोत्रा, रथकट्या ॥ वैरमैथुनिकादिवुन् । वैरमैथुनिकाद्यर्थेषु वुन्प्रत्ययः स्त्रीलिङगः । ʻद्वन्द्वाद् वुन् वैरमैथुनिकयोः’ (४। ३। १२५) । काकोलूकानां वैरं काकोलूकिका । अत्रिभरद्वाजयोर्मैथुनिको विवाहः अत्रिभरद्वाजिका ॥ ʻपादशतस्य्ö (५। ४। १) ʻदण्डव्यवसर्गयोश्च्ö (५। ४। २) । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति, द्विशतिकां ददाति । द्विपदिकां दण्डितः । द्विपदिकां व्यवसृजति । उपलक्षणात् वुञ्प्रत्ययोऽपि स्त्रीलिङ्गः । गार्गिकया श्लाघते । ʻद्वन्द्वमनोज्ञादिभ्यश्च्ö (५। १। १३३) वुञ् । शिष्योपाध्याययोर्भावः शैष्योपाध्यायिका ॥
स्त्रीभावादौ—चलं स्थिरम् । स्त्रीभावार्थे अनिप्रभृतिप्रत्ययान्ताः स्त्रीलिङ्गाः । ʻआक्रोशे नञ्यनिः’ (३। ३। ११२) । अकरणिस्ते वृषल भूयात् । अजननिः ॥ ʻस्त्रियां क्तिन् (३। ३। ९४) । कृतिः, हृतिः । क्तिन्ग्रहणेन निप्रत्ययस्यापि ग्रहणम् । ʻग्लाम्लाज्याहाभ्यो निः’ (वा। ३। ३। ९४) । ग्लानिः, म्लानिः ॥ ʻरोगाख्यायां ण्वुल् बहुलम् (३। ३। २०८) । प्रवाहिका, प्रच्छर्दिका । ʻपर्यायार्हणोत्पत्तिषु ण्वुच् (३। ३। १११) । भवतः शायिका ॥ ʻकर्मव्यतिहारे णच् स्त्रियाम् (३। ३। ४३) । अन्योन्यं क्रोशनं व्यावक्रोशी वर्तते ॥ ʻव्रजयजोर्भावे क्यप् । व्रज्या, इज्या ॥ ʻण्यासश्रन्थो सुच् (३। ३। १०७) । कारणा, आसना, श्रन्थना । ʻषिद्भिदादिभ्याऽङ् (३। ३। १०४) । पचा, भिदा, छिदा ॥ ʻप्रश्नाख्यानयोरिञ्च्ö (३। ३। ११०) । कां कारिमकार्षीः । सर्वां कारिमकार्षम् । ʻअ प्रत्ययात् (३। ३। १०२) । चिकीर्षा, पुत्रीया ॥ ʻकृञः श च्ö (३। ३। १००) । क्रिया । ʻइच्छा’ (३। ३। १०१) ॥ उणादिष्वन्यन्तादयः । अरणिः, धमनिः, लक्ष्मीः, तन्त्रीः, अलाबूः इत्यादि ॥ ४ ॥
[[०५.६७२]]
(०३.०५.००५च्द्) तत्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवा णदिक् ॥ ५ ॥
मूलम् - ०३.०५.००६
(०३.०५.००६अब्) धञो ञः सा क्रियास्यां चेद् दाण्डपाता हि फाल्गुनी ।
(०३.०५.००६च्द्) श्यैनम्पाता च मृगया तैलम्पाता स्वधेति दिक् ॥ ६ ॥
लिङ्ग-सूरी - AK.03.05.005-6
तत्क्रीडायां प्रहरणं चेत् । अस्यां क्रीडायां तत्प्रहरणमित्येतस्मिन्नर्थे णप्रत्ययो विहितश्चेत् तदन्तं शब्दरूपं स्त्रियां वर्तते । मौष्टा पाल्लवा णदिक् । पूर्वोक्तप्रत्ययस्योदाहरणमिदम् । मुष्टिः प्रहरणमस्यां क्रीडायामिति मौष्टा । पल्लवः प्रहरणमस्यां क्रीडायामिति पाल्लवा ॥ घञो ञः सा क्रियास्यां चेत् । सा क्रिया अस्यां वर्तते इति विवक्षा चेत् तदा घञन्तप्रतिपादकोपरि विहितोऽञ्प्रत्ययः स्त्रियां भवति । अत्र पूर्वोक्तं स्पष्टीकर्तुं स्वयमेवोदाहरणानि दर्शयति—दाण्डपाता हि फाल्गुनी—स्वधेति दिक् । यस्यां फाल्गुन्यां दण्डपातो वर्तते सा दाण्डपाता । यस्यां मृगयायां श्येनानां पातो वर्तते सा श्यैनम्पाता । यस्यां स्वधायां तिलानां पातो वर्तते सा तैलम्पाता । दिग्ग्रहणमुदाहरणान्तरप्रदर्शनार्थम् ॥ ५-६ ॥
तत्क्रीडायां प्रहरणं चेत् । तदित्यनन्तरम् अस्याम् इत्यध्याहार्यम् । अनन्तरोदाहरण एव वाक्ये ʻणदिक् इति वक्ष्यमाणसामर्थ्याद् इहापि चेत् इत्यनन्तरं णप्रत्यय इत्यध्याहार्यम् । ततश्चायमर्थः—मुष्ट्यादिकमस्यां क्रीडायामित्यस्मिन्नर्थे तदिति प्रथमासमर्थात् प्रहरणवाचिनो मुष्ट्यादिशब्दात् णप्रत्ययो विहितः । तदन्तं शब्दरूपं च स्त्रियां भवति । ʻतदस्यां प्रहरणमिति क्रीडायां णः’ (४। २। ५७) इति क्रीडायामिति स्त्रीलिङ्गनिर्देशाद् एवंविधविषये णप्रत्ययान्तस्य स्त्रीलिङ्गत्वं सूत्रकारस्याभिमतमिति गम्यते ॥ स्वयमेवोदाहरति—मौष्टा पाल्लवा णदिक् इति । मुष्टिः प्रहरणमस्यां क्रीडायामिति मौष्टा । पल्लवाः प्रहरणमस्यां क्रियायामिति पाल्लवा इति । णदिक् णप्रत्ययस्योदाहरणमार्ग इत्यर्थः ॥
घञो ञः सा क्रियास्यां चेत् । भावार्थविहितघञन्तशब्दवाच्या दण्डपातादिरूपा या क्रिया सा वर्ततेऽस्यामिति विवक्षा चेद् भवति तदा घञो घञन्तरूपात् प्रातिपदिकात् प्रथमासमर्थाद् ʻघञः सास्यां क्रियेति ञः’ (४। २। ५८) इति सूत्रेण यो ञप्रत्ययो विहितः तदन्तं शब्दरूपं स्त्रियां भवति । स्वयमेवोदाहरति—
दाण्डपाता हि फाल्गुनी—स्वधेति दिक् इति । दण्डानां कर्तृभूतानां पातः । ʻषष्ठी (२। २। ८) इति कर्तरि षष्ठीसमासः । दण्डपातरूपाक्रिया यस्यां फाल्गुन्यां सा फाल्गुनी दाण्डपाता । श्येनपातलक्षणा क्रिया मृगयायां सा श्यैनम्पाता । स्वधेति पदं श्राद्धक्रियावचनमाकारान्तम् । ʻस्वधायै वः पितरो नमः’ (वाज। सं। काण्व। २। ७। ४), ʻमध्यान्नीचादुच्चा स्वधयाभिप्रतस्थे, ʻस्वधां पितृभ्योऽमृतं दुहानाः’ इत्यादिप्रयोगदर्शनात् । तिलपातक्रिया यस्यां स्वधायां सा स्वधा तैलम्पाता । ʻघञः सास्यां क्रियेति ञः’ (४। २। ५८) इति ञप्रत्यये आदिवृद्धिश्च (७। २। ११७) । ʻश्येनतिलस्य पाते ञे (६। ३। ७१) इति मुम् । अत्रापि सूत्रकारेण अस्यामिति निर्देशात् स्त्रीलिङ्गत्वमभिप्रेतम् । अतश्च मृगयादेरेव विशेष्यत्वम् । न त्वाखेटमृगव्यश्राद्धादीनामित्यवगन्तव्यम् । दिक् । एष दिगुदाहरणमार्ग इत्यर्थः । तेन मौसलपाता, पौष्पपाता इत्यादि भवति ॥ ५-६ ॥
मल्लि-नाथः - AK.03.05.005-6
तत्क्रीडायां—पाल्लवा णदिक् । ʻतदस्यां प्रहरणमिति क्रीडायां णः’ (४। २। ५७) इत्यर्थे विहितणप्रत्ययान्तः स्त्रीलिङ्गः । मुष्टिप्रहरणमस्यामिति मौष्टा । पाल्लवा । एवं दण्डः प्रहरणमस्यां क्रीडायामिति दाण्डा ॥ घञो ञः सा क्रियायां—तैलम्पाता स्वधेति दिक् । ʻघञः सास्यां क्रियेति ञः’ (४। २। ५८) इत्यस्मिन्नर्थे विहितञप्रत्ययान्तः स्त्रीलिङ्गः । दण्डपोतोऽस्यां वर्तत इति दाण्डपाता फाल्गुनी । फाल्गुनीति फल्गुनीनक्षत्रयुक्ता पौर्णमासी । श्येनरातोऽस्यां वर्तत इति श्यैनम्पाता मृगया । तिलपातो ऽस्यां वर्तत इति तैलम्पाता स्वधा । ʻश्येनतिलस्य पाते ञे (६। ३। ७१) इति मुमागमः ॥ ५-६ ॥
[[०५.६७४]]
मूलम् - ०३.०५.००७
(०३.०५.००७अब्) स्त्री स्यात् काचिन्मृणाल्यादिर्विवक्षापचये यदि ।
(०३.०५.००७च्द्) लङ्का शेफालिका टीका धातकी पञ्जिकाढकी ॥ ७ ॥
लिङ्ग-सूरी - AK.03.05.007
स्त्री स्यात् काचित्—अपचये यदि । मृणाल्यादिः काचिदाख्या अपचयेऽल्पत्वे यदि विवक्षा तदा स्त्री स्यात् । अल्पं मृणालं मृणाली । आदिग्रहणाद् अल्पः पटः पटी । एवं घटी पुटी छत्री इत्यादि ॥ लङ्का शेफालिका—आढकी । एते शब्दाः स्त्रीलिङ्गे वर्तन्ते । लङ्का रावणपुरी । शेफालिका सुवहा । टीका पूर्वकृतग्रन्थव्याख्या । धातकी धातुपुष्पिका । पञ्चिका न्यासः । आढकी तुवरिका ॥ ७ ॥
स्त्री स्यात् काचित्—अपचये यदि । मृणाल्यादिरित्ययमर्थः । अल्पविवक्षायामशेषेष्वपि महाप्रबन्धेषु दृष्टा काचिदेव मृणाल्यादिः स्त्री स्यात् । गौरादिपाठात् (४। १। ४१) ङीषन्तश्च भवति । आदिशब्दाद् घटपटकुम्भादिशब्देभ्यः तदर्थापचयविवक्षायां घटी पटी कुम्भी इत्यादिर्भवति । काचिदिति किम्? अल्पो वृक्षः । अल्पं गृहम् । अल्पं सुखमित्यदौ मा भूत् ॥
एवं पुरातनलिङ्गानुशासनछायामनुसृत्यानेकशब्दोपसङ्ग्राहप्रत्ययादिमुखेन केषाञ्चिल्लिङ्गान्यनुशिष्य अधुना कांश्चित् स्त्रीलिङ्गान् सार्धश्लोकत्रयेण स्वरूपतो दर्शयति—लङ्का शेफालिका—आढकी इति । लङ्का रावणपुरी । शेफालिका नीलपुष्पिका निर्गुण्डी । टीक् प्रतिपदव्याख्याग्रन्थः न्यासपदमञ्जर्यादिः । धातकी धातुपुष्पिका प्रागुक्ता (१। पृ। २८९) । पञ्चिका व्याख्येयविषयपदार्थप्रकाशको ग्रन्थः कौमारपञ्चिकादिः । आढकी तुवर्याख्यो धान्यविशेषः । ʻआढकं मानभेदे स्यात् तुवर्यामाढकी मता’ इति विश्वप्रकाशः (वृ। ८, श्लो। ६९) ॥ ७ ॥
मल्लि-नाथः - AK.03.05.007
स्त्री स्यात् काचित्—अपचये यदि । मृणल्यादिशब्दाः केचन अपचयविवक्षायां स्त्रीलिङ्गाः । अल्पं मृणालं मृणाली । एवं मठी छत्री इत्यादि ॥ लङ्का शेफालिका—आढकी । लङ्कादयः शब्दाः स्त्रीलिङ्गाः । लङ्काशब्दोऽनेकार्थः । ʻलङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च्ö इति विश्वप्रकाशः (पृ। ६, श्लो। ४६) । शेफालिका गतार्था (१, पृ। २५७) । टीकेति विवरणम् । धातकी गतार्था (१, पृ। २८९) । पञ्चिकेति विवरणम् । द्यूतभेदोऽपि स्यात् । ʻद्यूतोऽस्त्रियामक्षवती तद्भेदाः पञ्चिकादयः’ इति वैजयन्ती (पृ। १४०, श्लो। ५९) । आढकीति स्वल्पद्रोणः । आढकिकेति केषाञ्चिदाबन्तः ॥ ७ ॥
[[०५.६७५]]
मूलम् - ०३.०५.००८
अक्।०३.०५.००८अब् सिघ्रका शारिका हिक्का प्राचिकोल्का पिपीलिका ।
अक्।०३.०५.००८च्द् तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाण्ढयः ॥ ८ ॥
लिङ्ग-सूरी - AK.03.05.008
सिध्रका—सूचिमाढयः । एते शब्दाः स्त्रीलिङ्गे वर्तन्ते । सिध्रका वृक्षविशेषः । शारिका पक्षिभेदः । हिक्का वायुविकारेण कण्ठे विलम्ब्य जायमानो ध्वनिः । प्राचिका स्पृक्का । उल्का पुच्छज्योतिः । पिपीलिका क्षुद्रजन्तुभेदः । तिन्दुकी वृक्षभेदः । कणिका गोधूमपिष्टम् । भङ्गिर्भङ्गी वा विच्छित्तिः । सुरङ्गा चोरकृतकुड्यादिगदद्वारम् । सूचिः सीवनसाधनम् । माढिर्देशविशेषः ॥ ८ ॥
सिध्रका—सूचिमाढयः । सिध्रका शिवलिङ्गाभबीजाढ्यफला । ʻस्यात् सिध्रका लता’ इति भट्टशिवः । शारी एव शारिका पक्षिविशेषः । हिक्का विलम्ब्य कण्ठादुद्गतो वायुविकारजः शब्दः । ʻवेक्कुपेरु’ । प्राचिका वनमक्षिका । प्राचिकाशब्दः प्रसिद्ध इति सुबोधिनीकारः । ʻप्राचिका वनमक्षिका’ इति सुभूतिचन्द्रः । ʻश्येन्यां तु प्राचिका मता’ इति वैजयन्ती (पृ। २७, श्लो। २०) । उल्का नभसः पतन्ती विद्युत्समतारा । पिपीलिका स्वेदजः क्षुद्रजन्तुविशेषः । ʻचिमपेरु’ । तिन्दुकः पुंलिङ्गः वृक्षविशेषः प्रागुक्तः (१, पृ। २३८) । सम्प्रति तत्रैवार्थे तिन्दुकीति स्त्रीलिङ्गोऽपि ङीषन्तः पठ्यते । कणिका दारुमयी लेखिनी । गोधूमचूर्ण च । व्रीहिभेद इत्यन्ये । कर्णिका इति पाठे कर्णभूषणमर्थः । भङ्गी प्रकारः । ʻचञ्चद्विपञ्चीकलनादभङ्गीसङ्गीतमङ्गीकुरुते स्म भृङ्गी इति प्रयोगः । सुरुङ्गा चौरकृतकुड्यविवरम् । ʻकन्नपेरु’ । सूचिः जीर्णवस्त्रखण्डसीवनसाधनम्, तीक्ष्णाग्रायोविकारः । सूची नृत्तभेदश्च । वीचिः कल्लोलः । अन्ये तु वीचिशब्दस्थाने माटिरिति मूर्धन्यप्रथमोपधं माटिशब्दं पठन्ति । तत्र माटिः पर्णशिरा । अन्ये तु माढिरिति मूर्धन्यचतुर्थोपधमाहुः । तत्र माढिः देशविशेष इति स्वामी (पृ। ३४६) । पत्रादिभङ्ग इत्यपरे । ʻमाढिः पत्रादिभङ्गौ स्यान्माढिर्दैन्यप्रकाशने इति विश्वप्रकाशः (पृ। ४६, श्लो। ४) । माटिमाढिशब्दयोरुभयोरपि देशीयपदत्वेन धातुजत्वाभावात् स्वोपक्रान्तवर्णक्रमोल्लङ्घनमपि न दोषमावहति । केचित् काञ्चिरिति पठन्ति । काञ्चिर्मेखला । ʻनीवीमुन्मुच्य शनैः स्पृशति रतिकाले करेण काञ्चिपदम् इति चम्पूकाव्ये ह्रस्वान्तस्य प्रयोगः ॥ ८ ॥
मल्लि-नाथः - AK.03.05.008
सिध्रका—सूचिमाढयः । सिध्रकेति वृक्षभेदः । शारिका शुकाङ्गना । वाद्यलगुडोऽपि स्यात् । ʻवादित्रलगुडे कोणा न नपुं शारिका स्त्रियाम् इति वैजयन्ती (पृ। १४७, श्लो। १३६) । हिक्का रोगविशेषः । प्राचिका पक्षिजातिः । नीलमक्षिकापि स्यात् । ʻप्राचिका पक्षिजातिः स्यात् प्राचिका नीलमक्षिका’ इति ध्वनिमञ्जरी । उल्का निर्गतज्वाला । पिपीलिका कृमिविशेषः । ʻचिम्ö । ʻशनैर्याति पिपीलिकः’ इति पुंस्त्वमपि सिद्धं क्षीरस्वामिवचनात् (पृ। ३४६) । तिन्दुकीति वृक्षभेदः । कणिका नाम वृक्षविशेषः । भङ्गिः विच्छित्तिः । सुरङ्गा नाम चोरादिकृतभित्त्यादिरन्ध्रम् । ʻकन्नमु’ । सूचीति स्यूतिसाधनम् । सूचिश्च सूचा च स्यात् । ʻसूचिः सूचा च सीवनी इति वैजयन्ती (पृ। १३६, श्लो। ११) । माठिः कवचः । ʻमाठिः स्त्री जागरो वक्षश्छदः सन्नाहकङ्कटौ’ इति वैजयन्ती (पृ। ११६, श्लो। १५३) । माढिरिति पाठे, पत्रवल्कमपि स्यात् । ʻपत्रमध्यसिरा माढिः’ इति वैजयन्ती (पृ। ४६, श्लो। १८) ॥ ८ ॥
[[०५.६७८]]
मूलम् - ०३.०५.००९
अक्।०३.०५.००९अब् पिच्छावितण्डाकाकिण्यश्चूर्णिः शाणी द्रुणी दरत् ।
अक्।०३.०५.००९च्द् सातिः कन्था तथासन्दी नाभी राजसभापि च ॥ ९ ॥
लिङ्ग-सूरी - AK.03.05.009
पिच्छा—द्रुणी दरत् । एते शब्दाः स्त्रीलिङ्गे वर्तन्ते । पिच्छा आचामः । वितण्डा वादविशेषः । काकणी [काकिणी] कर्षस्य चन्तुर्थो भागः । चूर्णी गद्यविशेषः । शाणी कर्षणशिला । द्रुणी कर्णजलूका । दरद् दारदाख्यविषजन्मदेशः । सातिर्दानम् । कन्था पटखण्डैः स्यूतवासः । कथा प्रसिद्धा । आसन्दी शवयापनयानविशेषः (?) । नाभिः कुक्षिमध्यगतरन्ध्रम् । राजसभा नृपास्थानम् ॥ ९ ॥
पिच्छा—द्रुणी दरत् । पिच्छादयः स्त्रीलिङ्गे वर्तन्ते । पिच्छा शाल्मलिपिष्टः ओदनमण्डश्च । वितण्डा स्वपक्षस्थापनाहीनो वादः । काकणिर्मानभेदः । ʻमाषचतुर्थो भागः काकणी इति सुवोधिनीकारः । विंशतिर्वराटिका काकणी इत्यन्ये । चूर्णिः गद्यात्मकः पदसन्दर्भः, कादम्बर्यादौ चूर्णिकेति प्रसिद्धा । शाणिः कर्षणशिला । दृणिः कर्णजलूका । दरद् म्लेच्छाधिष्ठितो देशविशेषः । तकारान्तत्वमस्य वर्णप्रक्रमादेवागम्यते । सातिर्दानम् । कन्था निरन्तरतन्तुजालस्यूतपटखण्डसमुदायः । कथा वादजल्पवितण्डात्मिका, वाक्यसन्दर्भरूपा राजवाहनादिकथा च । आसन्दी शववाहनसाधनं काष्ठयन्त्रम् । स्वल्पखट्वातुल्यं समचतुरश्रमासनं च । नाभिः पिण्डिकाख्यः चक्रावयवविशेषः । कुक्षिमध्यरन्ध्रे तु द्वयोर्लिङ्गयोः प्रागुक्तः (१, पृ। ४०८) । क्षत्रियविशेषे तु पुंस्त्वं नानार्थे कथितम् (२, पृ। ४१०) । वक्ष्यति च (श्लो। २०) । राज्ञः सभा राजसभा । ʻसभा राजामनुष्यपूर्वा’ (२। ४। २३) इत्यत्र पर्यायस्यैव राजाद्यर्थमिति वचनाद् (काशिका। १, पृ। १३२) राजपर्यायाणामेव ग्रहणम् । न राजशब्दस्य । तेनायमर्थः—सभान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् सभा राजवर्जिताद् राजपर्यायात् परा भवति । यथा—ईशसभम् । ईश्वरसभम् । राजपर्यायवाचिन इति किम्? पुष्यमित्रसभा, चन्द्रगुप्तसभा इत्यादौ तद्विशेषणवाचिनो मा भूत् । राजशब्दवर्जितादिति किम्? राजसभा । तदेतत्प्रत्युदाहरणमभिप्रेत्य ʻराजसभापि च्ö इत्युक्तम् ॥ ९ ॥
मल्लि-नाथः - AK.03.05.009
पिच्छा—द्रुणी दरत् । पिच्छा नामाश्वपदव्याधिः । वितण्डा वादः, दारुविशेषो वा । काकिण्यनेकार्था । ʻकाकिणी पणतुर्यांशे मानदण्डे च काकिणी इति विश्वः (पृ। ५३, श्लो। ७९) । चूर्णिर्नाम गद्यभेदः । ग्रन्थभेदेऽपि स्यात् । चूर्णिर्भाष्यमिति क्षीरस्वामी (पृ। ३४६) । शाणी निकषपाषाणः । ʻओरगल्लु’ । शाणोऽपि स्यात् । ʻशाणी निकषः, शाण इत्येके इति क्षीरस्वामी (पृ। ३४६) । द्रुणीशब्दोऽनेकार्थः । ʻद्रुणी कच्छपिकायां च जलद्रोण्यामुदाहृता’ इति विश्वः (पृ। ४८, श्लो। ७) । दरदिति देशः । सातिर्नाम द्रुकूलम् । कन्था भिक्षुप्रावरणम् । कन्थटिकापि स्यात् । ʻकन्थाकन्थटिके समे इति वैजयन्ती (पृ। १६९, श्लो। १२८) । कन्थटिरपि स्यात् । ʻछिन्नं च सन्धत्ते दरिद्र इव कन्थटिम् इति प्रयोगरत्नावलिः । आसन्दी नामासनम् । नाभिर्गतार्थः (१, पृ। ५१८; २, पृ। ४१०) । राजसभा नामास्थानम् । अपिशब्देन मनुष्यसभेति मनुष्यसङ्घातः ॥ ९ ॥
[[०५.६७९]]
मूलम् - ०३.०५.०१०
अक्।०३.०५.०१०अब् झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला ।
अक्।०३.०५.०१०च्द् लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी ॥ १० ॥
इति स्त्रीलिङ्गविशेषप्रकरणम्
लिङ्ग-सूरी - AK.03.05.0010
झल्लरी—चमसी मषी । एते शब्दाः स्त्रीलिङ्गे वर्तन्ते । झल्लरी वाद्यविशेषः । चर्चरी काचिद्देवी [नृत्तविशेषः] । पारी कलशी । होरा लग्नम् । लट्वा भ्रमरकः । सिध्मला पामा । लाक्षा अलक्तकः । लिक्षा यूका । गण्डूषा प्रसिद्धा । गृध्रसी ऊरुसन्धौ वातरुक् । चमसी पात्रविशेषः । मषी लेखनार्थं द्रवद्रव्यम् ॥ १० ॥
इति स्त्रीलिङ्गविशेषप्रकरणम्
झल्लरी—चमसी मसी । झल्लरी वाद्यविशेषः । चर्चरी गीतिभेदः । चर्चरी काचिद्देवीनृत्तविशेषः इत्यन्ये । तालविशेषः इत्यपरे । पारी जलाधारः । कर्कर्याख्यपात्रविशेषः इति सूभूतिचन्द्रः । तथा च नैषधकाव्ये—
ʻचुचुम्ब नोर्वीवलयोर्वशीं परं
पुरोऽधिपारि प्रतिबिम्बितां विटः’ ।
इति (१६। ९९) । दोहनभाण्डमिति सुबोधिनी । तथा च ʻप्रगृह्य पारीमुभयेन जानुनोः’ इति माघकाव्ये प्रयोगः (शिशु। १२। ४०) । होरा अहोरात्रविकल्पः । ससिध्मला सिध्मलासहिता च द्वे इत्यर्थः । एवं च लट्वाशब्दात् पूर्वमेव सिध्मलाशब्दस्य निर्देशः फलति । तथा च लान्तादिक्रमस्य भङ्गो नाशङ्कनीयः । लट्वा बालक्रीडासाधनभूता भ्रमरकाख्या । ʻबोङ्गरुपेरु’ । ग्रामचटको लट्वाख्य इति चन्द्रः । शिक्यमेवेति सुबोधिनी । मनुष्यवर्गे ʻकिलासी सिध्मलः’ (पृ। ३९९) इत्युक्तस्य वाच्यलिङ्गत्वाद् अत्र न तस्य ग्रहणम् । लाक्षा अलक्तकः । लिक्षा यूकाण्डम् । ʻईरुपेरु’ । गण्डूषा जलादिना मुखपूरणम् । अत्राह सुभूतिचन्द्रः—गण्डूषशब्दः स्त्रियामाम्नातोऽपि कविसमयात् पुंसि प्रयुज्यते । तथा च माघकाव्ये—
ʻगण्डूषमुज्झितवता पयसः सरोषं
नागेन लब्धपरवारणमारुतेन ।
इति (शिशु। ५। ३६) । तथान्यत्रापि ʻगण्डूषमेकमशनैः’ इति । यथाहुः पूर्वाचार्याः—ʻदेशभाषापदं प्रयोक्तव्यम्, लिङ्गाध्याहारोऽपि इति । “गण्डूषे मुखपूर्तो ना” इति बोपालितेन पुंलिङ्गतयानुशासनमपि कविसमयमूलमेव, यद्येवं न स्याद् गण्डूषशब्दमाचार्यः स्त्रीपुंसप्रकरण एव ब्रूयात् इति । “गण्डूषजलम्” (कु। सं। ३। ३७) इत्यादौ तु मत्वर्थेऽच् प्रत्ययाश्रयणेन निर्वाहः कार्य्ö इति । अथ दन्त्योपधास्त्रः । गृध्रसी ऊरुसन्धिप्रभवो वातरोगविशेषः । चमसी सोमपात्रम् । श्रुतौ ʻचमसो देवपानः’ (तै। सं। २। ५। ९। ३) इत्यादयो बहवः पुंलिङ्गप्रयोगाः । मसीप्रक्रमादयमपि दन्त्योपधः श्रीतालपत्रादौ लिपिप्रयोजनमञ्जनरूपं द्रव्यं मसीति । मस्यति वर्णादिरूपेण परिणमतीति मसी । ʻमसी परिणामे । पचाद्यचि (३। १। १३४) गौरादिङीषि (४। १। ४१) रूपम् । अत्र प्रागुक्तानामपि शेफालिकादिशब्दानामिहापि पठनमेतद्दृष्टान्तबलादितरेषामपि लिङ्गविधानारथमिति विज्ञेयम् ॥ १० ॥
इति स्त्रीलिङ्गविशेषप्रकरणम्
मल्लि-नाथः - AK.03.05.010
झल्लरी—चमसी मसी । झल्लरी अनेकार्थः । ʻझल्लरी झाल्लरी च द्वे हुडुक्के बालचक्रके इति विश्वः (पृ। १४३, श्लोः २२४) । ʻत्युडुकु वाद्यमु’ ।
ʻजयन्ति मम सूक्तयो जलजसूतिसीमन्तिनी-
विलासहसितामृतम्रदिमनर्ममर्मस्पृशः ।
विशङ्कटनटन्महानटजटाटवीवाटिका-
झरीलहरिझल्लरीगरिमगर्वसर्वकषाः’ ॥
इति साहितीकल्पवल्ली । चर्चरी करतालिका । पारी क्षीरदोहनपात्रम् । होरा अहोरात्रः । लट्वा चटका ʻआण्डुपिचुक्ö । लट्वा चटकेति उणादिवृत्तिः । लट्वेत्येव पाठः । लड्वेति पाठो दुरुक्तोऽपि कैश्चिदङ्गीकृतः । ʻबोगरमु’ । लट्वा भ्रमरक इति क्षीरस्वामी (पृ। ३४६) । सिध्मला नाम मलिनचित्रम् । लाक्षा गतार्थः (१, पृ। ४४१) । गण्डूषा गण्डपूर्तिः । स्त्रीलिङ्गमध्यपाठः आवन्तत्वमात्रप्रख्यापनार्थः ।
ʻगण्डूषगर्जभुजजागरहारकील-
ज्वालाच्छटारभसवर्तकगर्तशृङ्गाः ।
व्रीडोदयश्च वरटश्च फणो मृणाल-
श्चोत्कण्ठबाणकरकाश्च समामया च (?) ॥
इति रभसकोशः । गृध्रसीति वातरोगः । चमसी चणकपिष्टम् । ʻसोमिपिण्डि । मषी मसीति द्वे निर्वाणाङ्गारः ॥ १० ॥
इति स्त्रीलिङ्गशेषः
[[०५.६८२]]
अथ पुंलिङ्गविशेषविधिप्रकरणम्—
मूलम् - ०३.०५.०११
अक्।०३.०५.०११अब् पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः ।
अक्।०३.०५.०११च्द् स्वर्गयागाद्रिमेघाब्धिद्रुकालासिशरारयः ॥ ११ ॥
लिङ्ग-सूरी - AK.03.05.011
पुंस्त्वे—सुरासुराः । सुरपर्याया अमरा निर्जरा देवा इत्यादयः (१। पृ। ७) । सुरभेदपर्याया ब्रह्मशम्भुविष्णुसूर्यचन्द्रा इत्यादयः (१, पृ। १६, २२, १५, ६८, ५९) । सुरानुचरपर्याया माठरपिङ्गलदण्डादयः (१। पृ। ७०) । असुरपर्याया असुरा दैत्यदैतेया इत्यादयः (१, पृ। ११) । असुरविशेषपर्याया हिरण्यकशिपुबाणविरोचनादयः । असुरानुचरपर्याया प्रहस्तचण्डमुण्डादयः । एते पुंस्त्वे पुंलिङ्गे वर्तन्ते । अत्र तत्पर्यायपदेष्वेवोदाहरणानि द्रष्टव्यानि ॥ स्वर्गयाग—शरारयः । नाकयज्ञशैलवारिदसमुद्रवृक्षकालखड्गबाणशत्रूणां पर्याया यथासम्भवं तद्विशेषपर्यायाश्च पुंसि भवन्ति । अत्रोदाहरणानि तत्तत्पर्याये द्रष्टव्यानि ॥ ११ ॥
अथ पुंलिङ्गविशेषाः । पुंस्त्वे—सुरासुराः । पुंस्त्व इत्यधिकारोऽयं नपुंसकविधिपर्यन्तः । ततोऽर्वागनुक्रान्ताः सर्वे पुंलिङ्गा इत्यर्थः । सुराश्च असुराश्च इति शब्दव्यक्तिगतबहुत्वाभिप्रायेण बहुवचनम् । कथम्भूताः? सपर्यायाः । अमरनिर्जरादिभिः दैत्यदैतेयादिभिश्च पर्यायैः सहिताः । पुनः कथम्भूताः? सभेदानुचराः । अत्र भेदानुचरशब्दाभ्यां तद्वाचकाः शब्दाः लक्ष्यन्ते । ततश्च सुरविशेषवाचकैः इन्द्राग्नियमवरुणादिशब्दैः असुरविशेषवाचकैः हिरण्यकशिपुरावणकुम्भकर्णादिशब्दैः सुरानुचरवचनैः माठरपिङ्गलादिशब्दैः, असुरानुचरवचनैः प्रहस्तधूम्राक्षादिशब्दैश्च सहिता इत्यर्थः ।
अत्र दैवतशब्दस्य स्वर्गवर्गोक्तरूपभेदलक्षणविशेषेण केवलपुंस्त्वाभावात् नपुंसकत्वम् । इह केषाञ्चिद् देवादिशब्दानां प्राप्तं पुंस्त्वं, ʻद्विचतुःषट्पदोरगाः जातिभेदाः’ (श्लो। ३७) इत्यत्रैव वर्गे वक्ष्यमाणेन स्त्रीपुंसविधिना विरुध्यते । तथापि स्त्रीपुंसविधेः परत्वात् तस्यैव प्राबल्यम् । दिव्योपपादुकशब्दस्य (२, पृ। ७१) देवतावचनत्वेऽपि क्रियावचनत्वाद्, ʻगुणद्रव्यक्रियायोगोपाधिभिः परगामिनः’ (श्लो। ४४) इति वक्ष्यमाणविधिबलात् त्रिलिङ्गत्वम् । अत एव विशेष्यनिघ्नवर्ग एव पठितः इत्यादिरूपेण सर्वत्र बाधकपर्यालोचनया समामन्यविधिविषया उन्नेयाः ॥
स्वर्गयाग—शरारयः । अत्र सभेदाः सपर्याया इति पदद्वयं पूर्ववाक्यादनुषज्यते । ततश्च एते स्वर्गादयः शब्दाः सुरपर्याया यथासम्भवं स्वप्रभेदरहिताःपुंस्त्वे भवन्तीत्यधिकृतेनान्वयः । स्वर्गादिपर्यायास्तदनुशासनप्रस्तावे प्रव्यक्ता एव दर्शिताः स्वर्गविशेषाः—नाकपृष्ठमहेन्द्रादयः । यागविशेषाः—अग्निष्टोमो ऽत्यग्निष्टोमोक्थ्यादयः । अद्रेः पर्वतस्य विशेषाः—मेरुहिमवदादयः । मेघविशेषाः—पुष्करावर्तकादयः । समुद्रविशेषाः—क्षीरोदादयः । द्रोः वृक्षस्य विशेषाः—अश्वत्थचूतपनसादयः । कालविशेषाः—क्षणलवमाससंवत्सरादयः । असेः खड्गस्य भेदाः—नन्दकचन्द्रहासादयः । शरविशेषाः—क्षुरप्रनाराचादयः । अरिविशेषाः—यातव्यपार्ष्णिग्राहोदासीनादयः इत्याद्युदाहर्तव्यम् । त्रिविष्टपराजसूयगन्धमादनाभ्रहरिचन्दनप्रतिपदादिशब्दानां विशेषबाधेन लिङ्गान्तरवृत्तिरित्यपि न विस्मर्तव्यः ॥ ११ ॥
मल्लि-नाथः - AK.03.05.011
पुंस्त्वे—सुरासुराः । पुंस्त्वे इति आपतद्ग्रहशब्दम् (श्लो। २१) अधिकारः । सभेदानुचराः सुरासुरपर्यायाः पुंलिङ्गाः । सुरपर्यायस्य—ʻअमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः’ (१, पृ। ७) । सुरभेदपर्यायस्य—ʻआदित्यविश्ववसवस्तुषिताभास्वरानिलाः’ (१, पृ। ९) । सुरानुचरपर्यायस्य—ʻस्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः’ (१, पृ। ४९) । असुरपर्यायस्य—ʻअसुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः’ (१, पृ। ११) । असुरभेदपर्यायस्य—ʻतमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः’ (१, पृ। ६७) ॥ स्वर्गयाग—शरारयः । सभेदानां स्वर्गादीनां पर्यायाः पुंलिङ्गाः ॥ ११ ॥
[[०५.६८४]]
मूलम् - ०३.०५.०१२
अक्।०३.०५.०१२अब् करगण्डौष्ठदोर्दन्तकण्ठकेशनखस्तनाः ।
अक्।०३.०५.०१२च्द् अह्नाहान्ताः क्ष्वेडभेदा रात्रान्ताः प्रागसङ्ख्यकाः ॥ १२ ॥
लिङ्ग-सूरी - AK.03.05.012
करगण्ड—नखस्तनाः । पाणिकपोलाधरबाहुरदनगलकचनखकुचानां पर्याया यथासम्भवं तद्विशेषपर्यायाश्च पुंसि भवन्ति । अत्रोदाहरणानि तत्तत्पर्यायेषु द्रष्टव्यानि ॥ अह्नाहान्ताः । अह्न अह इत्येवमन्ताः शब्दाः पुंसि वर्तन्ते । अह्नान्ता यथा—प्राह्णः, पराह्णः, पूर्वाह्णः, मध्याह्नः इत्यादि । अहान्ता यथा—द्व्यहः, त्र्यहः, पञ्चाहः इत्यादि ॥ क्ष्वेडभेदाः । क्ष्वेडभेदा विषवाचकाः शब्दाः पुंसि वर्तन्ते । अत्रोदाहरणानि—सौराष्ट्रिकः । शौक्लिकेयः । ब्रह्मपुत्रः । प्रदीपनः इत्यादि ॥ रात्रान्ताः प्रागसङ्ख्यकाः । सङ्ख्याव्यतिरिक्तशब्दपूर्वा रात्र इत्येवमन्ताः शब्दाः पुंसि भवन्ति । अत्रोदाहरणानि । अर्धरात्रः । पूर्वरात्रः । अहोरात्रः इत्यादि ॥ १२ ॥
करगण्ड—नखस्तनाः । करादीनां नवानामर्थाः प्रसिद्धा एव । तथापि लिपिसन्देहभ्रान्त्यादिमूलपाठान्तरसन्देहनिवृत्त्यर्थं तत्पर्यायपदानि लिख्यन्ते । करो हस्तः । गण्डः कपोलः । ओष्ठो दन्तच्छदः । दोर्बाहुः । दन्तो रदः । कण्ठो गलः । केशः शिरोरुहः । नख कररुहः । स्तनः कुच इति । शेषे—
ʻकुसूलनदपुष्यांशुपविकुन्तपरश्वधाः ।
धान्यध्वनिरथोऽह्यात्मगुल्ममानाब्जकर्दमाः ॥
इति । एते कुसूलादयः षोडशपर्यायाः यथासम्भवं विशेषरहिताश्च पुंलिङ्गाः । कुसूलः कोष्ठः । नदविशेषः शोणादिः । पुष्यः तिष्यः । अंशुः किरणः । पविः शतकोटिः । कुन्तः प्रासः । परश्वधः परशुः । अत्र धान्यशब्देन न स्वरूपग्रहणम् । किं तु तद्विशेषा व्रीहियवगोधूमादय एव गृह्यन्ते । ध्वनिः शब्दः । रथः शताङ्गः । तद्विशेषः पुष्यरथः । अहिः सर्पः । तद्विशेषाः शेषवासुकिप्रभृतयः । ʻद्विचतुःषट्पदोरगाः’ (श्लो। ३७) इति वक्ष्यमाणस्य स्त्रीपुंसविधेः परत्वात् परवल्लिङ्गम् । आत्मा जीवः । गुल्मः स्तम्बः । अत्र मानशब्देन तद्विशेषाः कुडुवप्रस्थाढकद्रोणादय एव गृह्यन्ते । न स्वरूपम् । अब्जः शङ्खः । कर्दमो जम्बालः । ʻविशेषैर्यद्यबाधितः’ (श्लो। २) इत्युक्तत्वाद् अशनिकुलिशादीनां लिङ्गान्तरेऽपि वृत्तिरित्यनुस्मर्तव्यः ॥
अह्नाहान्ताः । समासे सति ʻराजाहःसखिभ्यष्टच् (५। ४। ९१) इति टच् प्रत्यये अह इत्येवंरुपतया श्रूयमाणः शब्दो येषां समासशब्दानां ते अहान्ताः । पूर्ववदेव समासान्तप्रत्यये ʻअह्नोऽह्न एतेभ्यः’ (५। ४। ८८) इत्यहन्शब्दस्य अह्नादेशे सति अह्न इत्येवं श्रूयमाणः शब्दो येषां समासान्तानां तेऽह्नान्ताः । ते च द्विविधाः पुंस्येव भवन्ति इत्यधिकृतेन सम्बन्धः । ʻरात्राह्नाहाः पुंसि (२। ४। २९) इति सूत्रमूलमेतत् । अह्नान्ता यथा—सर्वाह्णः । अह्नः पूर्वो भागः पूर्वाह्णः । मध्याह्नः । अपराह्ण इत्यादि । लिङ्गानुशासने ʻद्रोणापराह्णतोरण ॥ । इत्यादिना अपराह्णशब्दः अर्धर्चादौ पठित इति सुभूतिचन्द्रः । अहान्ता यथा—द्वयोरह्नोः समाहारो द्व्यहः । त्रयाणामह्नां समाहारः त्र्यहः । अत्र ʻन सङ्ख्यादेः समाहारे (५। ४। ८६) इत्यह्नादेशप्रतिषेधः । तथा वर्तमानमहः वर्तमानाहः । गताहः इत्यादि । अत्र अहान्ता इत्यधिकृतसमासान्तग्रहणेन बहुव्रीहिसमासे समासान्ताभावात् तदन्तस्य विशेष्यनिघ्नत्वेन नियतपुंलिङ्गत्वं मा भूत् । अहान्तस्य तु ʻपुण्यसुदिनाभ्यां त्वहः परः’ (श्लो। २९) इति क्वचिन्नपुंसकत्वं वक्ष्यते । द्वयोरह्नोर्भवः द्व्यहः उत्सवः । द्व्यहा पूजा । इत्यादौ ʻतद्धितार्थे द्विगुः’ (श्लो। ४३) इति परोपगत्वं वक्ष्यते ॥
क्ष्वेडभेदाः । सौराष्ट्रिकवत्सनाभादयः षड् विषविशेषाः पुंलिङ्गाः । काकोलकालकूटादीनां विशेषविधानात् पुन्नपुंसकलिङ्गत्वं प्रागुक्तम् (१, पृ। १५२) ॥ रात्रान्ताः प्रागसङ्ख्यकाः । ʻसङ्ख्याव्ययादेः’ (५। ४। ८६) इति वर्तमाने ʻअहःसर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः’ (५। ४। ८७) इत्यचि रात्रशब्दः, तदन्ताः सङ्ख्यावाचकशब्दव्यतिरिक्तपूर्वपदाः पुंसि भवन्ति । यथा—अहश्च रात्रिश्च समाहृते अहोरात्रः । ʻचार्थे द्वन्द्वः’ (२। २। २९) इति समासे सति समाहारे नपुंसकस्यापवादः । असमाहारे तु पुंस्त्वविधेर्वक्ष्यमाणवाच्यलिङ्गतापवादो वेदितव्यः । ʻअहोरात्रे वा अकामयेताम् इत्यादौ वेदे लिङ्गव्यत्ययश्छान्दसः । सर्वा रात्रिरिति कर्मधारये सर्वरात्रः । पूर्वो भागो रात्रेः इत्येकदेशिसमासे पूर्वरात्रः । एवमपररात्रः, पश्चिमरात्रः, सङ्ख्याता रात्रिः सङ्ख्यातरात्रः । अतिक्रान्तो रात्रिमतिरात्रः सोमसंस्थाविशेषः । प्रागसङ्ख्यकाः इति किम्? पञ्चरात्रम् । गणरात्रम् । अत्र ʻत्रिरात्रमाहुराशौचम् (मनु। ५। ८०) इति जयादित्येन ʻरात्राह्नाहाः पुंसि (२। ४। २९) इति सूत्रे उजाहृतम् ॥ १२ ॥
मल्लि-नाथः - AK.03.05.012
करगण्ड—नखस्तनाः । करादीनां पर्यायाः पुंलिङ्गाः ॥ अह्नाहान्ताः । अह्नान्ता अहान्ताश्च शब्दाः पुंलिङ्गाः । पूर्वमह्नः पूर्वाह्णः । अपराह्णः द्वयोरह्नोः समाहारो द्व्यहः । त्र्यहः ॥ क्ष्वेडभेदाः । विषभेदाः पुंलिङ्गाः । मेषशृङ्गः । वत्सनाभः । पुण्डरीकः । कुष्ठः । ब्रह्मघोषः ॥ रात्रान्ताः प्रागसङ्ख्यकाः । प्रागसङ्ख्यकाः रात्रान्ताः शब्दाः पुंलिङ्गाः । पूर्वरात्रः । सर्वरात्रः । मध्यरात्रः । प्रागसङ्ख्यका इति बाधितविषयप्रदर्शनार्थम् ॥ १२ ॥
[[०५.६८७]]
मूलम् - ०३.०५.०१३
अक्।०३.०५.०१३अब् श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः ।
अक्।०३.०५.०१३च्द् कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः ॥ १३ ॥
लिङ्ग-सूरी - AK.03.05.013
श्रीवेष्टाद्याश्च निर्यासाः । श्रीवेष्टसर्जरसकर्पूरयावनादयो निर्यासाः पुंलिङ्गे वर्तन्ते ॥ असन्नन्ता अबाधिताः । असन्ता अन्नन्ताश्च शब्दा अबाधिता विशेषविधिनाबाधिताः पुंसि भवन्ति । असन्ता यथा—उशना । अनेहा इत्यादयः । अन्नन्ता यथा—सुत्रामा, मातरिश्वा इत्येवमादयः । कशेरु—तुरुविरामकाः । रुविरामाः शब्दाः कशेरु, दारु, श्मश्रु, अश्रु वर्जयित्वा; तुविरामाः मस्तु, जतु, वस्त्वादीन् शब्दान् वर्जयित्वा; सर्वे पुंलिङ्गे वर्तन्ते । तुविरामा यथा—धातुः, ओतुः, सेतुः इत्यादि । रुविरामा यथा—चरुः, मरुः, त्सरुः इत्यादि ॥ १३ ॥
श्रीवेष्टाद्याश्च निर्यासाः । निर्यासो वृक्षद्रवः । श्रीवेष्टः प्रागुक्तः (१। पृ। ४४३) । तदादयो निर्यासवाचकाः शब्दाः पुंलिङ्गाः । श्रीवेष्टः, सर्जरसः, कर्पूरः इत्यादयः ॥ असन्नन्ता अबाधिताः । अस् इत्येवमन्ताः, अन् इत्येवमन्ताश्चेति द्विविधाः अबाधिताः ʻद्व्यच्कमसिसुसन्नन्तम् (श्लो। २४) इति नपुंसकविधानादबाधिताः तद्विधेरविषयाः, त्र्यच्काः चतुरच्काश्चेति यावत्, पुंलिङ्गा भवन्ति । अङ्गिराः, पुरोधाः, पुरूरवाः इत्याद्या असन्ताः । अथर्वा, सुत्रामा, मातरिश्वा इत्याद्या अन्नन्ता इति ॥
कशेरु—तुरुविरामकाः । विरामोऽन्त्याक्षरम् । धातुहेतुसेतुप्रभृतयस्तुविरामाः । कारुमेरुमरुत्सरुप्रभृतयो रुविरामाश्च शब्दाः पुमांसः । अत्रापवादमाह—कशेर्वादीनि हित्वा वर्जयित्वा । कशेरु जलकन्दः । जतु लाक्षारसः । वस्तु पदार्थः । एतच्च मस्तुवास्तु-अश्रुश्मश्रुदारुकुस्तुम्बुरु-प्रभृतीनामुपलक्षणम् । तुरुविरामका इति किम्? त्रपुजानुताल्वादीनि नपुंसकनि ॥ १३ ॥
मल्लि-नाथः - AK.03.05.013
श्रीवेष्टाद्यश्च निर्यासाः । श्रीवेष्टादिनिर्यासाः पुंलिङ्गाः । श्रीवेष्टः, सिल्वाकः, गुग्गुलुः । श्रीवेष्टादिग्रहणादत्र न भवति—पिच्छा, हिङ्गु ॥ असन्नन्ता अबाधिताः । अबाधिता असन्नन्ताः पुंलिङ्गाः ।
ʻनभो व्योम्नि नभा माघे श्रावणे च पतद्ग्रहे ।
अध्वा वर्त्मनि संस्थाने ॥
इत्याद्यनुशासनेन न बाधितत्वम् । ʻद्व्यच् कमसिसुसन्नन्तम् (श्लो। २४) इत्यनेन बाधः ॥ कशेरु—तुरुविरामकाः । कशेरुजतुवस्त्वादीन् शब्दान् हित्वा तुरुविरामकाः शब्दाः पुंलिङ्गाः । धातुः, सेतुः, हेतुः, केतुः, जीवातुः, मन्तुः, तन्तुः, जन्तुः; मरुः, डमरुः, चरुः, खरुः । ʻखरुर्दन्ते हरे दर्पे हये श्वेते तु वाच्यवत् । ऊरुः, किंशारुः । कशेर्वादिनियमाद् अत्रापि स्यात् दारुः, अगरुः ॥ १३ ॥
[[०५.६८८]]
मूलम् - ०३.०५.०१४
अक्।०३.०५.०१४अब् कषणभमरोपान्ता यद्यदन्ता अमी अथ ।
अक्।०३.०५.०१४च्द् पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः ॥ १४ ॥
लिङ्ग-सूरी - AK.03.05.014
कषणभम—सटोपान्ताः । अत्र अथशब्दः सदाशब्दार्थः । ककारषकारणकारभकारमकाररेफा उपधा येषां शब्दानाम् । तथा पकारथकारनकारयकारसकारटकारा उपधा येषां शब्दानां ते शब्दा यद्यकारान्ता भवेयुस्तर्हि पुंलिङ्गे वर्तन्ते । अत्रोदाहरणानि द्रष्टव्यानि ॥ गोत्राख्याः । गोत्रं काश्यपादि, तस्य आख्या गोत्राख्याः । ताः पुंलिङ्गे वर्तन्ते । अत्रोदाहरणानि—गार्ग्यः, वासिष्ठः, भारद्वाजः इत्यादि ॥ चरणाह्वयाः । अत्र चरणशब्दो गौणः शाखानिमित्तकः पुरुषे वर्तते । चरणविशेषाद्यत्राह्वयाः, कठकलापवहवृच इत्येवमादयः शब्दाः पुंलिङ्गे वर्तन्ते ॥ १४ ॥
कषणभम—सटोपान्ताः । अत्र उपान्तशब्दः ʻअलोऽन्त्यात् पूर्व उपधा’ (१। १। ६५) इति वैयाकरणप्रसिद्धोपधावचनः । अमी अथ इति केचित् पठन्ति । अत्राप्यथशब्दः तथाशब्दार्थः । ततश्च नाकः, सायकः, श्लोकः, लोकः, कलङ्क इत्याद्याः ककारोपधाः । पक्षः, कक्षः, शोषः, रोष इत्याद्याः षकारोपधाः । कोणः, बाणः, पणः, गुणः इत्याद्याः णकारोपधाः । कुम्भः, स्तम्भः, दम्भः, गर्भ इत्याद्याः भकारोपधाः । उत्सः, समासः, दास इत्यादयः सकारोपधाः । वटः, विटः, रटः, चाट इत्यादयो टकारोपधाश्च इत्येवं द्वादशवर्णोपधाः शब्दा यदि अदन्ताः अकारान्ता भवन्ति तदा विशेषबाधरहिताः पुंलिङ्गा भवन्तीत्यर्थः । कषादिग्रहणं किम्? कुण्डलम्, बलम्, कूलम्, उपदा, उपधा इत्यादौ मा भूत् । अदन्ता इति किम्? कोका, भूषा, पारणा, शोभा, नारी, वामा इत्यादौ मा भूत् ॥
गोत्राख्याः । याभिर्गोत्रस्य वंशस्य व्यपदेशः ता गोत्राख्याः पुंसि भवन्ति । यथा—गार्ग्यः, वात्स्यः, भारद्वाजः, वासिष्ठः इत्यादिगोत्रान्ताः । अपत्यप्रत्ययान्ता इति तु व्याख्यानमसङ्गतम् । ʻस्त्रीपुंसयोरपत्यान्ताः’ (श्लो। ३७) इत्यनेन पौनरुक्त्यविरोधयोरापत्तेः ॥ चरणाह्वयाः । यथा स्वमनुष्ठातारः चरन्त्येतेष्विति चरणशब्दो यद्यपि मुख्यया वृत्त्या काठककालापकादिशाखाविशेषेषु वर्तते, तथापि अत्र तदध्येतृपुरुषाः चरणशब्देन पुंलिङ्गतया विवक्षिताः । अत एव चरणशब्दः शाखानिमित्तकः पुरुषेषु गौण्या वृत्त्या वर्तत इति काशिकादयः । यथा—कठः, कलापः, कौथुमिः इति ॥ १४ ॥
मल्लि-नाथः - AK.03.05.014
कषणभम—अदन्ता अमी । अदन्ताः काद्युपान्ताः पुंलिङ्गाः । अलकः, पुलकः, चलुकः, कलङ्कः, करङ्कः, पेटकः, पाटकः सेनानिवेशः, कुशिकः तैलशेषः, मिसिकः, सस्यकः हरिद्रत्नम्, मलूकः कृमिः, फल्लूकः बालपक्षी, जाहकः सङ्कुचितगात्रमार्जारः, गोकुणिकः पङकपतितगौः, रात्रकः लञ्जामीढः, भार्याटिकः भार्याप्रधानः, सूचकः बुक्कच्छुनकः, खट्टिकः महिषीक्षीरम्, शार्ककः क्षीरफेनम्, तर्तरिकः काकनीडम्, पर्परिकःचपेटः, कर्करिकः जलपात्रम्, प्रचलाकः मयूरबर्हम्, खजकः दधिमन्थनदण्डः इति । क्वचित्स्थले न भवति । शलाका, सलाका, पताका, खजाका, मतेलिका, रक्तपिपीलिका, विका चिन्ता, शूका जुगुप्सा, कुटिलिका, रिक्कणिका, गुलिका मुक्तामणिः, चिल्लिका, तुम्बिका चक्रमध्यरन्ध्रम्, अम्बकं नेत्रम् ॥ षकारोपान्तस्य यथा—वेषः, कोषः, माषः, ऊषः, प्रत्यूषः, वातरूषः इन्द्रधनुः, लम्बूषः सप्तसूत्रप्रोतमुक्तादाम ʻयेडुपेट्टिनमुत्योलदण्ड्ö, अक्षः, पक्षः, कक्षः, कटाक्षः ॥
णकारोपान्तस्य यथा—क्षणः, पङ्कणः, गुणः, पणः, कार्षापणः, टिप्पणः टीका, मत्कुणः श्मश्रुविहीनपुरुषः ʻपेडुमूतिवाण्डु’, प्रघणः ताम्रकुम्भः, परिरणः,तण्डुरीणः, कर्णः, वर्णः, अवर्णः, चूर्णः, रागचूर्णः स्मरः, किरणः, वरणः, वारणः, कुर्वाणः भृत्यः, भ्रूणः, कोणः ॥ भकारोपान्तस्य यथा—गर्भः, रासभः, कुम्भः, कुम्भी इति स्वल्पघटे स्त्रीत्वम्, कुम्भा इति वेश्यापुत्र्यां स्त्रीत्वम्, करम्भः, करभः ʻक्व प्रस्थितासि करभोरु घने निशीथे (अमरु। ७१), ऋषभः, वृषभः, ककुभः, कौस्तुभः, शलभः, वलिभः स्त्रीवस्त्रभङ्गी ʻस्त्रीलनेरिकट्टिनकुच्चुल्लु’ ॥
मकारोपान्तस्य यथा—व्यामः, सोमः, होमः, धूमः, ग्रामः, सङ्ग्रामः, द्रुमः, विद्रुमः, डिण्डिमः, डिमः, घर्मः, धर्मः ॥ रेफोपान्तस्य यथा—मुकुरः, शीकरः, शेखरः, मुद्गरः, वागरः पशुव्याधिः ʻपसुलरोगमु’, विष्टरः, पिठरः, कोटीरः, कैटीरः ʻइन्द्रगोपमु’, अङ्गारः, भृङ्गारः, शृङ्गारः, दीनारः, शुनीरः शुनीसमूहः। बन्धुमारः ʻकरुदुव्ö, घर्घरः वर्षध्वनिः ʻवानम्रात्ö, कर्करः, अवस्करः, मुर्मुरः तुषाग्निः इति ॥
पथनयसटोपान्ताः । पकाराद्युपान्ताः पुंलिङ्गाः । कूपः, सूपः, पूपः, दीपः, प्रदीपः प्रशब्दः इतरोपसर्गनिवृत्त्यर्थः, धूपः अगर्वादिधूमः ʻधूपोऽसौ गन्धवासितः’, इति वैजयन्ती (पृ। ११, श्लो। २८), कोपः, नीपः, तपः ग्रीष्मकालः, चपः वेणुः, बाष्पः, खजपः दर्वी, कृपपः शुष्कवृक्षः ʻयेण्डिनचेट्टु’, दलपः मुखत्राणम्, कुतुपः ʻकुतुपनियतविक्रमाः स्त्रियः’, कुटपः गृहारामः । क्वचित्तु स्थले न भवति । पिण्डपुष्पम्, बालकूपी बद्धसोपानकूपः ॥ थोपान्तस्य यथा—रथः, कर्णीरथः, पुष्परथः । ʻधान्यध्वनिरथी ह्यात्मा गुल्ममासर्तुकर्दमः’ इति पुस्तकान्तरपाठादपि स्यात् पुलिङ्गः रथी इति । अपचयविवक्षायां स्त्रीत्वम् । मेथिः, सारथिः बुद्ध्यैव सारथिना शास्त्रमिदं खे ॥ ।इति । अतिथिः ʻअतिथिना भवितव्मत्रभवत्या’ । भेदकाः सन्तोऽपि भेद्यलिङ्गा न भवन्ति । अर्थः, सार्थः, घण्टापथः, शमथः, दमथः, आवसथः, संवसथः, अवभृथः, निशीथः गोपीथः जलद्रोणी, अवगाथः प्रातःसवनम्, ग्रन्थः, ग्रन्थिः, कुन्थुः सूक्ष्मजन्तुः ।
नोपान्तस्य यथा—जनः, अभिजनः, देवनः, कर्केतनः गोमेदः, सिनः शरीरं वस्त्रं च स्यात्, भानुः, धनुः ʻअस्त्रियौ चापधनुषावासेष्वासौ धनुर्द्रुणम् इति वैजयन्ती (पृ। ११८, श्लो। १७२), स्नुः, वस्नः, बुध्न, रक्षोघ्नः श्वेतसर्षपः, अध्वानः ʻकरितुरगमनुष्यं यत्र चाध्वानदीपम्, अनुमानः ʻकोऽसावनुमानः’ इत्यमरभाष्यम्, अनः उच्छ्वासः, अपानः ॥
योपान्तस्य यथा—पायुः, मायुः, जायुः अगदः, जरायुः, मन्युः, जन्युः जन्म, कुलायः, विपूयः, विनीयः पापम्, उद्यः, भिद्यः ʻभिद्यद्यौ तदतिष्यपुष्य ॥ । इति पुस्तकान्तरपाठादपि स्यात पुंलिङ्गः । वीक्ष्यः नर्तकः, कुल्यः कुलीनः पूज्यः । हयमन्त्रश्वशुरवाचकत्वाद् वाच्यलिङ्गा न भवन्ति ॥ सकारोपान्तस्य यथा—कीकसः कृमिः ʻपुरुव्ü, पनसः कण्टकः ʻमुल्ल्ü, वाहसः ʻनीरुगण्डि, स्त्रीपुंसः शिखण्डी, मलीमसः अयः, नभश्चमसः इन्द्रजालम्, विभावसुः हारः, असुः, पांसुः, उत्सः, गुत्सः ॥ टकारोपान्तस्य यथा—पटः, कूटः, चेटः, किलाटः क्षीरविकारः, करहाटः, आरकूटः, कामकूटः वेश्याप्रणयः, परिकूटः पुरद्वारस्थमृत्कूटः, मत्कोटः ʻचीम्ö, चतुःषष्टिः गीतनृत्यादिकलाः, घरट्टः गोधूमयन्त्रम् ʻप्रतिहट्टपथे घरट्टजात् पथिकाह्वानदसक्तुसौरभैः’ इति नैषधः (२। ८५), कर्पटः, कङ्कटः, अवटः, चिपिटः, निष्कुटः, करटः, भरटः कुम्भकारः, वहटः तन्तूत्पादकयन्त्रम् ʻराट्नम्ü, अर्गटः अर्गलम् । क्वचित् स्थले न भवति । धाटी, भाटी वेश्या, कुक्कुटी ॥ गोत्राख्याः । गोत्रनामानि पुंलिङ्गानि । वात्स्यः, गार्ग्यः ॥ चरणाह्वयाः । शाखानामानि पुंलिङ्गानि । छन्दोगः कठः ॥ १४ ॥
[[०५.६९२]]
मूलम् - ०३.०५.०१५
अक्।०३.०५.०१५अब् नाम्न्यकर्तरि भावे च घञजब्नङ्णघाथुचः
अक्।०३.०५.०१५च्द् ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः ॥ १५ ॥
लिङ्ग-सूरी - AK.03.05.015
नाम्न्यकर्तरि—णघाथुचः । नाम्नि सञ्ज्ञायामकर्तरि कारके भावे च विहिता घञादिप्रत्ययान्ताः शब्दाः पुंलिङ्गे वर्तन्ते । घञन्तो यथा—पादः, रोगः वेश इत्यादि । कर्तृव्यतिरिक्तकारके यथा—प्रक्रियत इति प्रकारः । प्रसीदत्यस्मिन्निति प्रसादः । भावार्थे यथा—त्यागः, भोगः, योग इत्यादि । अच् प्रत्ययान्ता यथा—नयः, चयः, जय इत्यादि । अप्प्रत्ययन्ता यथा—करः, गरः, लव इत्यादि । नङ्प्रत्ययान्ता यथा—विज्ञः, यत्नः, प्रश्न इत्यादि । णप्रत्ययान्तो यथा—न्यादः इति । घप्रत्ययान्ता यथा—उरच्छदः, दन्तच्छद इत्यादि । अथुच् प्रत्ययान्ता यथा—आनन्दथुः, क्षवथुः, वेपथुरित्यादि ॥ ल्युः कर्तरि । कर्तर्यकारकार्थे विहितो ल्युप्रत्ययान्तो पुंलिङ्गो भवति । उदाहरणे—नन्दनः, रमण इत्यादि ॥ इमनिज्भावे । भावार्थे विहित इमनिच् प्रत्ययान्तः पुंसि भवति । उदाहरणे—प्रथिमा, लघिमा इत्यादि ॥ को घोः किः प्रादितोऽन्यतः । भावे विहितः कप्रत्ययान्तः पुंसि वर्तते । उदाहरणे—आखूत्थः, श्योनोत्थः इत्यादि । प्रादितः प्राद्युपसर्गाच्च अन्यतः उपसर्ग व्यतिरिक्ताच्च परः किप्रत्ययान्तो यो घुसञ्ज्ञको धातुः तदुपरि विहितः किप्रत्ययान्तशब्दश्च पुंसि भवति । प्रादित उदाहरणे—निधिः, विधिरिति । अन्यत इत्यत्रोदाहरणे—वार्धिः, जलधिरिति ॥ १५ ॥
नाम्न्यकर्तरि—णघाथुचः । नाम्नि कर्तृरूपार्थविषये तद्व्यतिरिक्तार्थविषये वा, सञ्ज्ञामात्रे, अकर्तरि सञ्ज्ञाव्यतिरिक्तार्थत्वेऽपि कर्तृव्यतिरिक्तकारकमात्रे भावे शुद्धे धात्वर्थमात्रे च यथासम्भवं घञ्, अच्, अप्, नङ्, ण, घ अथुच् इति सप्तप्रत्ययान्ताः पुंसि भवन्ति । तत्र कर्तरि सञ्ज्ञायां घञ्प्रत्ययान्तो यथा—ʻपदरुजविशस्पृशो घञ् (३। ३। १६) । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । अकर्तरि सञ्ज्ञाविषये यथा—प्रक्रियत इति प्रकारः । पच्यत इति पाकः ओदनः । अत एव केषाञ्चिद् यज्ञानां पक्वगुणकत्वेन पाकयज्ञसञ्ज्ञा । रज्यतेऽनेनेति रागो लाक्षा । प्रपतन्त्यस्मिन्निति प्रपातः तटम् । प्रतिहारो द्वारम् । विपथः काकोटिकाख्यः पर्याहारो वा इत्यादिकमुदाहार्यम् । ʻअकर्तरि च कारके सञ्ज्ञायाम् (३। ३। १९) इत्यत्र सूत्रे चकारः सञ्ज्ञाव्यभिचारार्थ इति वृत्तिकारेणाभिधानाद् (काशिका १, पृ। २१०) असञ्ज्ञायामपि कर्तृव्यतिरिक्ते घञ् प्रत्ययो यथा—दीयत इति दायः । लभ्यत इति लाभः ॥
केचित्तु—कर्तृव्यतिरिक्तार्थविषयस्य घञन्तस्य विशेष्यनिघ्नत्वम् । यथा—पङ्कं, काष्ठमिति । तथा नम इत्युच्यते यत्र वाक्ये, तत् नमोवाकम् । तथा च ʻअनुवाकादयः पुंसि वक्तव्याः’ इत्यत्र ʻभावे (३। ३। १८) इति सूत्रेण भावार्थेषु घञ्प्रत्ययान्तो यथा—पचनं पाकः । त्यजनं त्यागः । यजनं याग इत्यादि । सञ्ज्ञायामच् प्रत्ययान्ता यथा—क्षयन्ति निवसन्त्यस्मिन्निति क्षयः गृहम् । चीयत इति चयः प्रकारः । नीयतेऽर्थोऽनेनेति नयः नीतिः । भावे यथा—चयनं चयः । ʻएरच् (३। ३। ५६) । असञ्ज्ञायां यथा—चयः, जयः इति । ʻअज् विधौ भयादीनामुपसङ्ख्यानम् नपुंसके क्तादिनिवृत्त्यर्थम् (वा। ३। ३। ५६) इति विशेषविधानाद् अजन्तानामपि भयादीनां नपुंसकत्वम् । अप् प्रत्ययान्ता यथा—कीर्यत इति करः, राजग्राह्यो भागः । लवनं लवः । अत्र ʻऋदोरप् (३। ३। ५७) इति सूत्रेण अप् प्रत्ययः । नङ्प्रत्ययान्तस्तु—ʻयजयाचयतविच्छप्रच्छरक्षो नङ् (३। ३। ९०) इति । यज्ञः, यत्नः, विश्नः, प्रश्नः, रक्ष्णः । नङ्न्तस्यापि याच्ञाशब्दस्य रुपभेदलक्षणविशेषबाधेन स्त्रीलिङ्गत्वम् । ʻनौ ण च्ö (३। ३। ६०) इति । सूत्रेण णप्रत्ययान्तो यथा—नितरामद्यत इति न्यादः न्यदनं च । घप्रत्ययान्तो यथा—ʻपुंसि सञ्ज्ञायां घः प्रायेण्ö (३। ३। ११८) इति । उरश्छाद्यतेऽनेनेति उरश्छदः कवचः । दन्तच्छदः ओष्ठः । एत्य कुर्वन्त्यत्रेति आकरः । अथुच् प्रत्ययो यथा—क्षवथुः । वेपथुः । श्वयथुः इत्यादि । अत्र ʻट्वितोऽथुच् (३। ३। ८९) इत्यथुच् प्रत्ययः ॥
ल्युः कर्तरि । ʻनन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ (३। १। १३४) इति विहितो नन्द्यादिल्युप्रत्ययान्तः पुंस्येव । यथा—नन्दनः पुत्रः । रमणो भर्ता । दहनः पावकः । पवनो वायुरित्यादि । ये तु सञ्ज्ञायामेव नन्द्यादिल्युप्रत्ययमिच्छन्ति तन्मतेनेदमुक्तम् । केवलयौगिकत्वे तु विशेष्यनिघ्नत्वमेव । ʻकर्तरि इति स्वरूपकथनम् ॥ इमनिज्भावे कः । ʻपृथ्वादिभ्य इमनिज्वा’ (५। १। १२२) इति सूत्रेण विहिते भावार्थे य इमनिच्प्रत्ययः, यश्च भावार्थे कप्रत्ययः तदन्ताः पुंसि । यथा—पृथोर्भावः प्रथिमा । एवं महिमा, गरिमा इत्यादि । विशेषविधानात् प्रेमशब्दस्य नपुंसकत्वमपि । ʻसुपिस्थः’ (३। २। ४) इति योगविभागात् कप्रत्यये सति आखूनामुत्थानम् आखूत्थः । श्येनोत्थः (काशिका १, पृ। १७५) । यथा ʻघञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् (वा। ३। ३। ५८) इति वक्तव्यात् कप्रत्ययः । यथा—प्रस्थानं प्रस्थः । आविधः । विघ्नः इत्यादि । शब्दार्णवे तु—ʻआखूत्थशलभोत्थादि तत उत्थानमद्वयोः’ इति नपुंसकत्वमुक्तम् । भाव इति किम्? भरिमा पर्यङ्कः । भरिमा खट्वा । भरिमा पीठम् इत्यादेरौणादिकस्य कर्त्रर्थस्य विहिते तस्य इमनिच् प्रत्ययान्तस्य, गोदः, पार्ष्णिः, त्रिः इत्यादेः कप्रत्ययान्तस्य च विशेष्यनिघ्नयोर्व्यवच्छेदार्थम् ॥
घोः किः प्रादितोऽन्यतः । ʻदाधाघ्वदाप् (१। १। २०) इति केषाञ्चिद् धातूनां पूर्वाचार्यैः कृता घुसञ्ज्ञा । प्राद्युपसर्गपूर्वात् पदान्तपूर्वाच्च घुसञ्ज्ञकाद् धातोर्यः किप्रत्ययः तदन्तः पुंसि । प्रादितः किप्रत्यये यथा—विधिः, आधिः, उपाधिः, निधिः इत्यादि । उपसर्गव्यत्ययात् किप्रत्यये यथा—जलधिः, अब्धिः अम्बुधिः इत्यादि । अत्र ʻप्रादितः’ इत्यनेन ʻउपसर्गे घोः किः’ (३। ३। ९२) इति विहितः कप्रत्ययः ʻअन्यतः’ इत्यनेन ʻकर्मण्यधिकरणे च्ö (३। ३। ९३) इति विहित उक्तः । न तु तदन्यस्य ग्रहणम् । तथाहि—ʻकानच् क्तवसूचकिकिनौ भाषायां यङ्लुकावपि इति वाक्यपदीयवचनात् भाषायामपि किकिन् प्रत्ययदर्शनात् ʻआदृगमहनजनः किकिनौ लिट् च्ö (३। २। १७१) इति सूत्रे विहितस्य किप्रत्ययान्तस्य कर्तरि विहितस्य विशेष्यनिघ्नत्वादिति ॥ १५ ॥
मल्लि-नाथः - AK.03.05.015
नाम्न्यकर्तरि—णघाथुचः । सञ्ज्ञासु विहिताः घञादिप्रत्ययान्ताः शब्दाः पुंलिङ्गाः । भावे घञ्—पाकः, त्यागः । ʻएरच् (३। ३। ५६)—चयः, जयः । ʻऋदोरप् (३। ३। ५७) करः, गरः, भवः, स्तवः । ʻयजयाचयतविच्छप्रच्छरक्षो नङ् (३। ३। ९०) यज्ञः, प्रश्नः । ʻनौ ण च्ö (३। ३। ६०) न्यादः । ʻपुंसि सञ्ज्ञायां घः प्रायेण्ö (३। ३। ११८) उरश्छदः, दन्तच्छदः । ʻटितोऽथुच् (३। ३। ८९) श्वयथुः, वेपथुः ॥ ल्युः कर्तरि । कर्त्रर्थे विहितल्युप्रत्ययान्तः शब्दः पुंलिङ्गः । ʻनन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ (३। १। १३४) नन्दनः, शोभनः । इमनिज्भावे । भावार्थे विहित इमनिच्प्रत्ययान्तः शब्दः पुंलिङ्गः । ʻपृथ्वादिभ्य इमनिज्वा’ (५। १। १२२) प्रथिमा, म्रदिमा, अकिञ्चनिमा । कः । कप्रत्ययान्तः शब्दः पुंलिङ्गः । ʻघञर्थे कविधानं कर्तव्यम् (वा। ३। ३। ५८) प्रस्नः, विघ्नः । किप्रत्ययसान्निध्याद् घञर्थस्यैव ग्रहणम् । घोः किः प्रादितोऽन्यतः । प्रादिपूर्वस्य च कर्मपूर्वकस्य च घुसञ्ज्ञकधातोर्विहितः किप्रत्ययान्तः शब्दः पुंलिङ्गः । ʻउपसर्गे घोः किः’ (३। ३। ९२) विधिः, निधिः । ʻकर्मण्यधिकरणे च्ö (३। ३। ९३) जलधिः, इषुधिः ॥ १५ ॥
[[०५.६९५]]
मूलम् - ०३.०५.०१६
अक्।०३.०५.०१६अब् द्वन्द्वेऽश्वबडवावश्वबडवानसमाहृते ।
अक्।०३.०५.०१६च्द् कान्तः सूर्येन्दुपर्यायपूर्वोऽयःपूर्वकोऽपि च ॥ १६ ॥
लिङ्ग-सूरी - AK.03.05.016
द्वन्द्वेऽश्व—असमाहृते । इतरेतरशब्दयोगार्थे ऽश्वबडवयोः यः समासः तदात्मकः शब्दः पुंलिङ्गो भवति । अत्रोदाहरणे दर्शिते—अश्वबडवौ । अश्वबडवानिति ॥ कान्तः—अयःपूर्वकोऽपि च । सूर्यपर्यायपूर्वः, इन्दुपर्यायपूर्वः, अयःशब्दपूर्वकश्च कान्तशब्दः पुंलिङ्गे वर्तते । क्रमेणोदाहरणानि—सूर्यकान्तः, पतङ्गकान्तः, चन्द्रकान्तः, अयस्कान्तः इत्यादि ॥ १६ ॥
द्वन्द्वे—असमाहृते । असमाहृते समाहारद्वन्द्वादन्यत्र, अश्वश्च बडवा च इति इतरेतरयोगे द्वन्द्वसमासे परवल्लिङ्गबाधेन पूर्वपदलिङ्गत्वमनेनोच्यते । ʻपूर्ववदश्वबडवü (२। ४। २७) इति द्विर्वचनान्तस्योक्तत्वाद् अश्वबडवागतबहुत्वविवक्षायां पूर्वपदलिङ्गत्वं नास्तीति वा मन्दाशङ्कानिरासार्थम्, असन्दिग्धमुदाहरणद्वयम् । तत्र अश्वबडवौ इति प्रथमयोर्द्विचनम् । अश्वबडवानिति शसन्तं द्वितीयम् । समाहारद्वन्द्वे तु ʻस नपुंसकम् (२। ४। १७) इति नपुंसकलिङ्गत्वाद् असमाहृत इत्युक्तम् । कान्तः—अयःपूर्वकोऽपि च । सूर्यशब्दपूर्वकः, इन्दुशब्दपूर्वकः, तदुभयपर्यायपूर्वकश्च, अयःशब्दपूर्वकश्च कान्तशब्दः पुंलिङ्गः । यथा—सूर्यकान्तः, रविकान्तः, इन्दुकान्तः, चन्द्रकान्त इति । द्वामिमौ मणिविशेषौ । अयस्कान्तो लोहाविशेषप्रकृतिः चुम्बकशीला । कस्कादित्वात् (८। ३। ४८) विसर्जनीयस्य सत्वम् । अत्र केचित् ʻअपि च्ö इति समुच्चयदर्शनाद् अयःपर्यायात् लोहाशब्दाद् उत्तरस्यापि कान्तशब्दस्य पुंलिङ्गत्वमिच्छन्ति । यथा—लोहकान्त इति ॥ १६ ॥
मल्लि-नाथः - AK.03.05.016
द्वन्द्वे—अश्वबडवं तु समाहृते । इतरेतरयोगद्वन्द्वे ऽश्वबडवौ इति पुंलिङ्गः । समाहारद्वन्द्वे तु अश्वबडवमिति नपुंसकं स्यात् । ʻपरवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ (२। ४। २६) इति विहितपरवल्लिङ्गस्यापवादः ॥ कान्तः—अयःपूर्वकोऽपि च । सूर्येन्दुपर्यायपूर्वकश्च अयःपर्यायपूर्वकश्च कान्तशब्दः पुंलिङ्गः । यथा—सूर्यकान्तः, रविकान्तः, इन्दुकान्तः, अयस्कान्तः, लोहकान्तः ॥ १६ ॥
[[०५.६९७]]
मूलम् - ०३.०५.०१७
अक्।०३.०५.०१७अब् वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः ।
अक्।०३.०५.०१७च्द् पुङ्खो न्यूङ्खः समुद्गश्च विटपट्टधटाः खटः ॥ १७ ॥
लिङ्ग-सूरी - AK.03.05.017
वटकश्चानुवाकश्च—खटः । अत्र कांश्चित् पुंलिङ्गान् स्वरूपेणाह—वटक इति । वटको भक्ष्यविशेषः । अनुवाकः ऋक्सामयजुःसमूहः । रल्लकः कम्बलः । कुडङ्गो लतागहनम् । पुङ्खो बाणमूलम् । न्यूङ्खो नैरन्तर्येणोक्ताः षडोङ्काराः । समुद्गः सम्पुटकः । विटः कामुकानुचरः । पट्टो ललाटभूषणम् । धटो दारुतुला । खटः स्थूणाविशेषः ॥ १७ ॥
वटकश्चानुवाकश्च—खटः । अथ पूर्वाचार्यकृतलिङ्गानुशासनच्छायया पर्यायावसरे प्रागुक्ताननुक्तांश्च कांश्चित् पुंलिङ्गान् स्वरूपेणाह—वटक इति । वटको मरीचजीरकादिमिश्रितः पिष्टादिकृतो भक्ष्यविशेषः । निस्तलीकृतमृत्पाषाणौषधादि च । अनूच्यत इत्यनुवाकः । यथायोगम् ऋचां साम्नां यजुषां वा समूहः । यथा—रुद्रानुवाकः, काण्डानुवाकः, शान्त्यनुवाक इत्यादि । अत्रानुवाकशब्देन ʻअनुवाकादयः पुंसि वक्तव्याḵ इत्युक्तानां ग्रहणम् । यथा—सूक्तवाकः, शंयुवाक इत्यादि । रल्लकः कम्बलविशेषः । मृगभेदश्च । कुडङ्गो वृक्षलतादिच्छादितप्रदेशः । यथा—ʻअभिषेकजलेन दत्तसेकाः प्रमथाधीशजटाटवीकुडङ्गाḵ इति । स्वार्थे वृत्तपूरणार्थः कप्रत्ययः । पुङ्खः शरस्य ज्यासन्धानप्रदेशः । न्यूङ्खो नैरन्तर्येणोच्चारिताः षडोङ्काराः । सुन्दरे तु वाच्यलिङ्गः । तथा च चन्द्रः—ʻन्यूङ्खः साम्नि षडोङ्कारे त्रिषु सम्यङ्मनोहरḵ इति । दीर्घादिरयं शब्दः । समुद्गकः सम्पुटकः । विटः कामुकानुचरविशेषः । पट्टो ललाटभूषणविशेषः । शिलाविशेषश्च । धटः तुलाविशेषो दारुनिर्मितः । खटः करस्य प्रहारविशेषः । ʻखटः श्लेष्मण्यन्धकूपे प्रहारान्तरटङ्कयोḵ इति रभसः । प्रहारान्तरं मुष्टिविशेष इति सुभूतिचन्द्रः । शटस्तृणविशेष इति स्वामि (पृ। ३४९) सुबोधिनीकारौ ॥ १७ ॥
मल्लि-नाथः - AK.03.05.017
वटकश्चानुवाकश्च—खटः । वटकादयः पुंलिङ्गाः । वटकः ʻवडियम्ü । अनुवाको नाम अवच्छेदविशेषः ।
ʻअनुवाकश्च खण्डिका ।
ब्राह्मणं चेत्यवच्छेदा एकग्रन्थस्तु फक्किका ॥
इति वैजयन्ती (पृ। ८५, श्लो। ३२-३) । रल्लक उक्तः (१, पृ। ४३६) । कुडङ्गकः कुञ्जः । पुङ्खः शरस्य गरुत्सन्निवेशः । न्यूङ्खो नाम षडोङ्काराः । समुद्गको गतार्थः (१, पृ। ४४९) । विटपट्टशब्दावनेकार्थकौ ।
ʻविटोऽद्रौ लवणे षिङ्गे मूषके खदिरेऽपि च ।
ʻपट्टः पेषणपाषाणे व्रणादीनां च बन्धने ।
चतुष्पथे च राजादिशासनान्तरपीठयोः ॥
इत्युभयत्र विश्वः (पृ। ३६, श्लो। ७; पृ। ३७, श्लो। १४-५) । धटो दारुतुला । खटोऽन्धकूपः ॥ १७ ॥
[[०५.६९८]]
मूलम् - ०३.०५.०१८
अक्।०३.०५.०१८अब् कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् ।
अक्।०३.०५.०१८च्द् गडुः करण्डो लगुडो वरण्डश्च किणो घुणः ॥ १८ ॥
लिङ्ग-सूरी - AK.03.05.018
कोट्टारघट्ट—किणो घुणः । कोट्टाजिघुणान्ताः शब्दाः पुंलिङ्गाः भवन्ति । कोट्टो दुर्गः । अरघट्टो महाकूपः । हट्टो विपणिः । पिण्डो ग्रासः । गोण्डः तुन्दिलः । पिचण्डः कुक्षिः । गडुर्मांसविशेषः । करण्डः समुद्गः । लगुडो दण्डः । वरण्डो रोगः । किणो व्रणस्थानम् । घुणो दारुकृमिः ॥ १८ ॥
कोट्टारघट्ट—किणो घुणः । अत्र कोट्टारश्च घट्टश्च हट्टश्च इति विग्रहे प्रथमपदं त्र्यक्षरं रेफोपधं चाभिप्रेत्य सुभूतिचन्द्रो व्याचष्ट । भट्टग्रामन्यायेन टान्तेष्वपि रेफान्तस्य कोट्टारशब्दस्य पाठः । ʻकोट्टारो नागरे कूपे पुष्करिण्यां च पाटके इत्यभिधानात् (विश्व। पृ। १३९, श्लो। १७७) । ʻघट्टः शुल्कस्थानम् इति । स्वामी (पृ। ३४९) तु प्रकारान्तरेण पदं छित्वा व्याचष्ट—ʻकोट्टो दुर्गम् । अरघट्टः महाकूप्ö इति । हट्टः क्रयविक्रयस्थानम् । पिण्डः—
ʻपिण्डो देहे जपापुष्पे निवापे सिल्हकेऽपि च ।
पिण्डः स्यात्तगरेऽलाबुखर्जूरीभेदयोरपि ॥
इति विश्वप्रकाशः (पृ। ४४, श्लो। १४-५) । ʻगोण्डः पामरजातीये वृद्धनाभौ तु वाच्यवत् इति रुद्रः । पिचण्डः कुक्षिः । गडुः शरीरपृष्ठभागस्थो मांसग्रन्थिविशेषः । यथा—ʻकिमन्तर्गडुना’ इति (सर्व। सङ्ग्र।) । गण्ड इति पाठे गण्डः कपोलः । करण्डः कर्पूरादेराधारभूतः पात्रविशेषः । लगुडो लोहमयः प्रहरणविशेषः । वरण्डः तृणपत्रादिनिचयः । ʻफलकमुखरोगयोर्वरण्डः स्यात् इति रत्नकोशः । ʻवरण्डस्त्वन्तरावेद्यां सन्दोहमुखरोगयोḵ इति विश्वप्रकाशश्च (पृ। ४५, श्लो। २७) । किणो रोपितव्रणप्रदेशजन्यो मांसग्रन्थिः । घुणः काष्ठकीटः ॥ १८ ॥
मल्लि-नाथः - AK.03.05.018
कोट्टारघट्ट—किणो घुणः । कोट्टादयः पुंलिङ्गाः । कोट्टो दुर्गपुरम् । अरघट्टो घटीयन्त्रम् । यद्वा कोट्टारो जलकुण्डम् । ʻनिश्लकुण्ड्ö । घट्टो वनगिरिप्रायदेशः । हट्टः आपणवीथी । पिण्डोऽनेकार्थः । ʻपिण्डो देहे जपापुष्पे निवापे सिल्हकेऽपि च्ö इति विश्वः (पृ। ४४, श्लो। १४) । गोण्डः पामरजातिः । तुण्डिले वाच्यलिङ्गः । ʻगोण्डः पामरजातौ च वृद्धनाभौ च वाच्यवत् इति विश्वः (पृ। ४४, श्लो। १३) । पिचण्डो गतार्थः (१, पृ। ४१०) । अथवा पिचण्डः शय्या । ʻपिचण्डः कुक्षिशय्ययोḵ इति वैजयन्ती (पृ। २४३, श्लो। ५७) । गडुः ʻवेन्नुकोप्प्ü । करण्डः पुष्पपुटः । ʻकरेडे । करण्डीत्यपचयविवक्षायां स्त्रीत्वम् । लगुडो दण्डः । वरण्डस्त्वनेकार्थः । वरण्डोऽप्यन्तरावेदौ सन्दोहमुखरोगयोḵ इति विश्वः (पृ। ४५, श्लो। २७) । किणो व्रणलाञ्छनम् । ʻपुण्टिमत्स्ö । घुणो दारूपपरिवर्णालेखकीटः । ʻकुट्टिकपुरुव्ü ॥ १८ ॥
[[०५.७००]]
मूलम् - ०३.०५.०१९
अक्।०३.०५.०१९अब् दृतिसीमन्तहरिता रोमन्थोद्गीथबुद्बुदाः ।
अक्।०३.०५.०१९च्द् कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ ॥ १९ ॥
लिङ्ग-सूरी - AK.03.05.019
दृतिसीमन्त—सयूपकौ । दृत्यादियूपकान्ताः शब्दाः पुंलिङ्गा भवन्ति । दृतिर्भस्त्रिका । सीमन्तः केशपद्धतिः । हरितः पक्षिभेदः । मुनिर्वा । रोमन्थः पशूनां चर्वितचर्वणम् । उद्गीथः सामप्रवणः । बुद्बुदो जलस्फोटः । कासमर्दः शाकभेदः । अर्बुदः सङ्ख्याविशेषः । कुन्दो माघ्यपुष्पम् । फेनो डिण्डीरः । स्तूपो मृदालिन्दः । यूपको यूपस्तम्भः ॥ १९ ॥
दृतिसीमन्त—सयूपकौ । दृत्यादयः शब्दाः पुंलिङ्गाः । दृतिर्जलाधारश्चर्मविकारः । सीमन्तो ललाटस्योपरि वर्तमाना केशपद्धतिः । हरितः पक्षिभेदः । ऋषिविशेषश्च । रोमन्थः पशूनां चर्वितचर्वणम् । उद्गीथः सामभक्तिविशेषः । बुद्बुदो जलस्फोटः । कासमर्दो वन्यशाकविशेषः । ʻकसवन्दपेर्ü । अर्बुदो व्रणविशेषः । पर्वतभेदश्च । सङ्ख्यावचनत्वे तु पुन्नपुंसकत्वम् । कुन्दः पुष्पवृक्षविशेषः । ʻकुन्दश्चक्रभ्रमौ माघ्ये निधिभेदे मुरद्विषि इति विश्वप्रकाशः (पृ। ७८, श्लो। ९) । ʻमाघ्यं कुन्दम् (१, पृ। २५८) इत्यत्र कुन्दशब्दस्य नपुंसकत्वमुक्तम् । इह तु पुंलिङ्गत्वमित्युभयलिङ्गत्वम् । ʻमाघ्यं कुन्दोऽस्त्रियाम् इति वनौषधिवर्गे शेषकारेणोक्तम् । फेनो डिण्डीराख्यो जलपरिणामः । स्तूपो मृत्पाषाणादिकृत उन्नतप्रदेशः । गृहवंशरूपो दारुविशेषश्च । तथा च ʻगृहस्तूपे निदधाति इत्यापस्तम्बप्रयोगः । यूपः अग्नीषोमीयादिपशुबन्धनार्थं पालाशादिदारुविशेषः । तेन सह वर्तेत इति सयूपकौ । स्वार्थे कप्रत्ययः (५। ४। ५) । ʻसपूपकü इति पाठे पूपो गोधूमादिपिष्टविकारः पक्व उच्यते ॥ १९ ॥
मल्लि-नाथः - AK.03.05.019
दृतिसीमन्त—सयूपकौ । दृत्यादयः पुंलिङ्गाः । दृतिर्भस्त्रा । सीमन्तः केशवीथिः । हरितो मुद्गः । रोमन्थः पशूनां चर्वितचर्वणम् । ʻपसुलमेलुक्ü । उद्गीथः साम । बुद्बुदो जलस्फोटः । ʻनीरुबुड्ढल्ü । स्थासकोऽपि । ʻबुद्बुदस्थासकौ समü इति वैजयन्ती (पृ। १५५, श्लो। १३) । कासमर्द ओषधिविशेषः । ʻतगर्चचेट्ट्ü । भाषान्तरे ʻएलह्ü । अर्बुदो मांसकीलः । कुन्दस्त्वनेकार्थः । ʻकुन्दश्चक्रभ्रमौ माघ्ये निधिभेदे मुरद्विषि इति विश्वः (पृ। ७८, श्लो। ९) । फेनो गतार्थः (१, पृ। ६१५) । अथवा वज्रः इत्युणादिवृत्तिः । स्तूपः चैत्यम् । यूपो यज्ञीयस्तम्भः ॥ १९ ॥
[[०५.७०२]]
मूलम् - ०३.०५.०२०
अक्।०३.०५.०२०अब् आतपः क्षत्रिये नाभिः कणयक्षुरकेदराः ।
अक्।०३.०५.०२०च्द् पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ॥ २० ॥
लिङ्ग-सूरी - AK.03.05.020
आतपः —पुद्गलाः । आतपादिपुद्गलान्ताः शब्दाः पुंलिङ्गा भवन्ति । आतपोऽर्कद्योतः । क्षत्रिये नाभिः, नाभिशब्दः क्षत्रियविशेषे पुंसि वर्तते । अत्र क्षत्रियशब्दः प्राण्यङ्गव्यवच्छेदार्थः । कणयः कुन्तभेदः । क्षुरो वपनसाधनम् । केदरस्तरुविशेषः । पूरो जलोल्लासः । क्षुरप्रः शरविशेषः । चुक्रोऽम्लवेतसः । गोलो वर्तुलः पिण्डः । हिङ्गुलो रागद्रव्यम् । पुद्गलो जीवः ॥ २० ॥
आतपः—पुद्गलाः । आतपः सूर्यप्रकाशः । राजमण्डलमध्यस्थक्षत्रियवाचको नाभिशब्दः पुंलिङ्ग एवेति नियमः । अर्थान्तरे तु लिङ्गविवेकः प्रागेव कृतः (पृ। ६७८) । कणयः कुन्तायुधविशेष इति केचित् । शरभेद इत्यन्ये । क्षुरः केशवपनसाधनम् । केदरस्तरुविशेषः । केदारो व्रीहिक्षेत्रमिति कश्चित् । नद्यादौ जलार्थः स्वल्पः कूप इत्यन्ये । केदाराख्यतरुविशेष इत्यपरे । पूरो जलवृद्धिः । क्षुरप्रः शरविशेषः । खुर इव स्वसंयुक्तं देशं प्रति पूरयति खुरप्र इति कवर्गद्वितीयादिरयं शब्द इति केचित् । चुक्रः अम्लवेतसः । अन्यस्तु खुरश्च प्रचुक्रश्च इति त्र्यक्षरं रेफोपधं च विगृह्य प्रचुक्रो बुद्धिविशेषः इति व्याचष्ट । गोलो वर्तुलो मृत्पिण्डादिः । यथा—ब्रह्माण्डगोल इति । चक्षुरादीन्द्रियाधिष्ठानभूतः पार्थिवावयवविशेषश्च । यथा—चक्षुर्गोल इति । विधवापुत्रो गोल इत्युच्यते । यथा—ʻअवकीर्णी कुण्डगोलü इति (या। स्मृ। १। १०। २२२) । हिङ्गुलिः रागद्रव्यविशेषः । आकारान्तोऽयं शब्द इत्येके । पुद्गलो जीवात्मा जैनानां प्रसिद्धः । ʻदेहेऽध्यात्मनि पुद्गलḵ इति रुद्रः ॥ २० ॥
मल्लि-नाथः - AK.03.05.020
आतपः—पुद्गलाः । आतपादयः पुंलिङ्गाः । आतपो गतार्थः (१, पृ। ७२) । अथवा रवितापः । ʻअथातपो रौद्रमिद्धम् इति वैजयन्ती (पृ। १८, श्लो। २२) । नाभिः क्षत्रियः । क्षत्रिय इति शृङ्गग्राहिकया वचनं प्राण्यङ्गादिव्युदासार्थम् ।
ʻमुख्यराट् क्षत्रियो नाभिः पुंसि प्राण्यङ्गके द्वयोः ।
चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे ॥
इति रभसः । कणयः शरः । ʻअम्म्ü । क्षुरो नापितशस्त्रम् । ʻमङ्गलकत्ति । केदरः केदारः । ʻकेदारः केदरः क्षेत्रम् इति वैजयन्ती (पृ। १२४, श्लो। १७) । पूरस्तोयोल्लासः । क्षुरप्रो बाणविशेषः । ʻअर्धचन्द्रः क्षुरप्रः स्यात् इति हलायुधः (अ। मा। २। ३१४) । चक्रः समूहचक्रवाकयोरन्यतरः ॥
ʻचक्रः कोके व्रजे पुंसि चक्रं सैन्यरथाङ्गयोः ।
ग्रामजाले कुम्भकारभाण्डे राष्ट्रे च दृश्यते ॥
इति त्रिकाण्डशेषः (पृ। ३३, श्लो। ९०४) । गोलः ʻगोट्टिकल्ल्ü । हिङ्गुलो रागद्रव्यम् । ʻइङ्गिलिकम् । ʻहिङ्गुलं हंसपादं च कुरुविन्दं निगद्यते इति केषाञ्चिन्नपुंसकम् । पुद्गलो देहः ॥ २० ॥
[[०५.७०३]]
मूलम् - ०३.०५.०२१
अक्।०३.०५.०२१अब् वेतालमल्लभल्लाश्च पुरोडाशोऽपि पट्टिसः ।
अक्।०३.०५.०२१च्द् कुल्माषो रभसश्चैव सकटाहः पतद्ग्रहः ॥ २१ ॥
इति पुलिङ्गशेष
लिङ्ग-सूरी - AK.03.05.021
वेतालमल्ल—पतद्ग्रहः । वेतालादिपतद्ग्रहान्ताः शब्दाः पुंलिङ्गाः । वेतालो भूताविष्टशवः । मल्लो बाहुयोद्धा । भल्लः शरभेदः । पुरोडाशः पिष्टकृतहोमद्रव्यम् । पट्टिसः आयुधविशेषः । कुल्माषो यावकः । रभसः पौर्वापर्याविचारः । कटाहो जलपूरणार्हो घटविशेषः । पतद्ग्रहो गण्डूषताम्बूलादिग्रहणसाधनम् ॥ २१ ॥
इति पुंलिङ्गशेषप्रकरणम्
भेतालमल्ल—पतद्ग्रहः । भेतालः पिशाचविशेषः । मल्लो नियुद्धकुशलः । भल्लः स्थूलफलः शरविशेषः । पुरोडाशो दर्शपूर्णमासादिषु व्रीह्यादिपिष्टकृतोऽश्वशफमात्रः कूर्माकृतिराग्नेयादिहोमद्रव्यविशेषः । पट्टिसः आयुधविशेषः । कुल्मासोऽर्धपक्वो मुद्गगोधूमादिः । दन्त्योपधमध्यपाठात् कुल्मास इत्यस्य शब्दस्य साधुत्वमसन्दिग्धम् । ʻकुल्माषो यावके पुंसि काञ्जिके स्यान्नपुंसकम् इति मूर्धन्यान्ते रभसश्च । व्रीहिभेदे कुल्माष इति मूर्धन्यान्तं केचिदाहुः । अनालोचितार्थप्रारम्भो रभसः । ʻरभसो हर्षवेगयोḵ इति रुद्रः । तद्युक्ते तु वाच्यलिङ्गः । यथा—ʻरभसया तु दिगन्तदिदृक्षया’ इति भारविप्रयोगः (किरा। ५। १) । कटाहो नाम बहुद्रव्याधारो मृन्मयादिर्भाण्डविशेषः । सकटाहः कटाहशब्देन सहित इत्यर्थः । पतद्ग्रहो गण्डूषादिप्रक्षेपार्थः कांस्यादिनिर्मितः पात्रविशेषः । ʻपडिगम्ü ॥ २१ ॥
इति पुंलिङ्गविशेप्रकरणम्
मल्लि-नाथः - AK.03.05.021
वेतालमल्ल—पतद्ग्रहः । वेतालादयः शब्दाः पुंलिङ्गाः । वेतालो यमकिङ्करः । भूताविष्टमृतशरीरं वा । मल्लो बाहुयोद्धा भल्लो बाणभेदः ʻबाडम्म्ü । ʻस्नुहीदलफलो भल्लḵ इति वैजयन्ती (पृ। ११९, श्लो। १८२) । पुरोडाशो यज्ञीयपूपः । पट्टिस आयुधभेदः । ʻकुल्माषोऽर्धस्विन्नो माषादिḵ इति क्षीरस्वामी (पृ। ३५०) । अथवा कुल्माषो रत्नभेदः । ʻकुरुविन्दस्तु कुल्माषḵ इति वैजयन्ती (पृ। ४४, श्लो। ४०) । रभसो वेगः । कटाहः पात्रभेदः । ʻकाप्येर्ö । ʻकटाहः कर्परो लट्टḵ इति वैजयन्ती (पृ। १६३, श्लो। ५६) । पतद्ग्रहः कलाचिका । ʻपडिगम्ü । ʻपतद्ग्रहः प्रतिग्राहो वालोऽस्त्री दारुणा कृतḵ इति वैजयन्ती (पृ। १७१, श्लो। १६०) ॥ २१ ॥
इति पुंलिङ्गशेषः
[[०५.७०५]]
अथ नपुंसकशेषप्रकरणम्—
मूलम् - ०३.०५.०२२
अक्।०३.०५.०२२अब् द्विहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् ।
अक्।०३.०५.०२२च्द् शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् ॥ २२ ॥
लिङ्ग-सूरी - AK.03.05.022
द्विहीनेऽन्यच्च—बलम् । अथ नपुंसकलिङ्गशेषः । अन्यत् पूर्वोक्तादन्यद् नपुंसकलिङ्गशेषानुशासनमारभ्यत इत्यर्थः । खशब्दमारभ्य ध्वान्तशब्दान्ताः सर्वे सपर्यायाः सविशेषाः शब्दाः विशेषविधिनाबाधिताः सन्तः नपुंसकलिङ्गे वर्तन्ते ॥ २२ ॥
तृतीयेऽन्यच्च—बलम् । यत् शब्दरूपं स्त्रीलिङ्गे पुंलिङ्गे वा वर्तते, ततोऽन्यत् सर्वं तृतीये नपुंसकलिङ्गे भवतीत्यर्थः । तदेव विवृणोति—वज्रविमानबिम्बमण्डलादिशब्दानां सत्यपि नपुंसकलिङ्गत्वे तेषां स्त्रीपुंसयोरपि वृत्तेः तदन्यत्वाभावेन वक्ष्यमाणप्रकरणविषयत्वं नास्ति । किं तु केवलनपुंसकलिङ्गानामेवेति बोद्धव्यम् । खादयः शब्दा ध्वान्तपर्यन्ता एकोनपञ्चाशत् सपर्यायाः विशेषविधिबाधरहिताः सन्तो नपुंसकलिङ्गे वर्तन्ते । अत्र खशब्देन गगनमिन्द्रियं चेति द्वितयमपि विवक्षितम् । अरण्यं विपिनम् । पर्णं पत्रम् । श्वभ्रमवटः । हिमं प्रालेयम् । उदकं पानीयम् । शीतमुष्णं चेति द्वावपि स्पर्शविशेषौ । धर्मिवचनत्वे तु तयोर्वाच्यलिङ्गत्वम् । मांसमामिषम् । रुधिरं रक्तम् । मुखं वदनम् । [अक्षि नयनम्] । द्रविणं धनम् । बलं सैन्यं शौर्यं च ॥ २२ ॥
मल्लि-नाथः - AK.03.05.022
द्विहीनेऽन्यच्च—बलम् । द्विहीने नपुंसके । आबाह्लिकशब्दमधिकारः । अन्यदेवाह—खेति । खादीनि नपुंसकानि । खशब्देन इन्द्रियाकाशयोरेव ग्रहणम् । ʻहृषीकं विषयीन्द्रियम् (१, पृ। ९५); ʻइन्द्रियेऽपि खम् (२, पृ। २४७) । ʻव्योम पुष्करमम्बरम् ॥ ॥ सुरवर्त्म खम् (१। पृ। ५०) । ʻअरण्यं विपिनं गहनं काननं वनम् (१, पृ। २१५) । ʻपत्रं पलाशं छदनं दलं पर्णम् (१, पृ। २२३) । ʻछिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रम् (१, पृ। १४६) । ʻहिमं प्रालेयं तुहिनम् (१, पृ। ६२) । ʻउदकं जलं पयḵ (१, पृ। १५६-७) । शीतोष्णशब्दौ गुणमात्रनिष्ठौ । देवदत्तस्य शीतं वर्तते । गुणिनि गुणिलिङ्गावेव । शीतोऽपि चन्द्रो विरहिणामुष्ण एषः । मांसं पिशितम् । रुधिरं रक्तम् । मुखं वदनम् । अक्षि नेत्रम् । द्रविणं वित्तम् । वलं सैन्यम् ॥ २२ ॥
[[०५.७०६]]
मूलम् - ०३.०५.०२३
अक्।०३.०५.०२३अब् फलहेमशुल्बलोहं सुखदुःखशुभाशुभम् ।
अक्।०३.०५.०२३च्द् जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ॥ २३ ॥
लिङ्ग-सूरी - AK.03.05.023
फलहेम—अनुलेपनम् । फलादयः शब्दाः नपुंसकलिङ्गे वर्तन्ते ॥ २३ ॥
विवृतौ अधिकः पाठः—
भयामृतशकृद्वस्त्रचापाभरणलाञ्छनम् ।
दार्वौषधमृधापत्यहृदयोदरकाकुदम् ॥
पत्तनाजिनशृङ्गार्मद्वारबर्होडुमानसम् ।
ध्वान्तं चाव्यक्तलिङ्गस्य भणितौ यत्प्रयुज्यते ॥
अव्यक्तलिङ्गस्य इयं स्त्री, अयं पुमान् इति यस्य व्यक्तिर्नास्ति, अस्य भणितौ उक्तौ यत्प्रयुज्यते तत् नपुंसकं ज्ञेयम् । अत्रोदाहारणम्—ʻस्त्री वा पुमान् वा किं तस्य जातं तद् ब्रूहि पण्डित्ö इति ।
फलहेम—अनुलेपनम् । फलं चूतपनसादि । हेम हिरण्यम् । हलमिति पाठे हलं लाङ्गलम् । शुल्बं ताम्रम् । लोहशब्देनात्र गोबलीवर्दन्यायेन सुवर्णताम्रव्यतिरिक्तमेव त्रपुसीसादिकं गृह्यते । सुखं शर्म । तद्विपरीतं दुःखम् । शुभं कल्याणम् । अशुभममङ्गलम् । जलपुष्पाणि कमलोत्पलकुमुदादीनि । लवणं सैन्धवं सामुद्रादि । व्यञ्जनं तेमनं रसादिवस्तु, शाकादिकं च । अनुलेपनं चन्दनागरुकुङ्कुमादि ॥ २३ ॥
मल्लि-नाथः - AK.03.05.023
फलहेम—अनुलेपनम् । फलशब्दः पर्यायविशेषयोरेव वाचकः । फलं, सस्यं, पिप्पलं, पनसं, चूतं, कपित्थं, नारङ्गम् । हेम काञ्चनम् । शुल्बं ताम्रम् । लोहम् अयः । सुखदुःखशब्दौ धर्मवचनौ । देवदत्तस्य सुखमभूत् मा भूत् दुःखम् । धर्मिणि धर्मिलिङ्गावेव । सुखो वसन्तसमयः । दुःखो हेमन्तसमयः । शुभं मङ्गलम् । अशुभमरिष्टम् । जलपुष्पाणि कमलकुवलयादीनि । लवणव्यञ्जनानुलेपनानि स्वरूपविशेषाणि । सैन्धवं सामुद्रम् । व्यञ्जनं तेमनं, क्षीरं दधि घृतम् । अनलेपनं कुङ्कुमचन्दनादि । ध्वान्तं तिमिरम् । अव्यक्तलिङ्गस्य फणितौ यत् प्रयुज्यते तत्पदं नपुंसकम् । किमस्या गर्भे सञ्जातम् । किं करोषि भद्रक ॥ २३ ॥
[[०५.७०८]]
मूलम् - ०३.०५.०२४
अक्।०३.०५.०२४अब् कोट्याः शतादिः सङ्ख्यान्या वा लक्षा नियुतं च तत् ।
अक्।०३.०५.०२४च्द् द्व्यच्कमसिसुसन्नन्तं यदनान्तमकर्तरि ॥ २४ ॥
लिङ्ग-सूरी - AK.03.05.024
कोट्याः शतादिः—अकर्तरि । कोट्या अन्या शतसहस्रादिसङ्ख्या नपुंसके वर्तते । लक्षशब्दो विकल्पेन नपुंसकलिङ्गो भवति । नियुतपदं च लक्षशब्दार्थम् । द्वौ अचौ यस्य द्व्यच्कम् । द्व्यच्कमसन्तमिसन्तमुसन्तं, द्व्यच्कमन्नन्तं च नपुंसकलिङ्गं भवति । असन्तं यथा—तेज इत्यादि । इसन्तं यथा—हविरित्यादि । उसन्तं यथा—वपुरित्यादि । अन्नन्तं यथा—नामेत्यादि । यदनान्तमकर्तरि । अकर्तरि वर्तमानमनप्रत्ययान्तं यच्छब्दरूपं तन्नपुंसकं ज्ञेयम् । अत्रोदाहरणानि—साध्यतेऽनेनेति साधनम् । लवनम् । छेदनमित्यादि ॥ २४ ॥
कोट्याः शतादिसङ्ख्यान्या । कोटिपदव्यतिरिक्तं शतं सहस्रमित्यादिसङ्ख्यावाचकं पदं नपुंसकलिङ्गं भवतीत्यर्थः । कोट्या इति रूपनिर्देशात् कोटिशब्दस्य स्त्रीलिङ्गत्वम् । अत्र शतादिग्रहणात् ततोऽर्वाचीनानाम् एकादिविंशतिपर्यन्तानां वाच्यलिङ्गत्वम् । विंशत्यादीनां नवतिपर्यन्तानां स्त्रीलिङ्गत्वं च प्रागुक्तमवगन्तव्यम् (१, पृ।६०२-३) ॥ वा लक्षा नियुतं च तत् । लक्षशब्दः शतादित्वेऽपि रूपभेदाद् विकल्पेन स्त्रीलिङ्गः । यथा—
ʻकियती पञ्चसहस्री कियती लक्षाधिकोटिरपि कियती ।
औदार्योन्नतमनसां रत्नवती वसुमती कियती ॥
इति । स्त्रीत्वाभावपक्षे प्रकरणान्नपुंसकत्वम् । तदेव लक्षं नियुतमित्युच्यते । अत्रादित्यपुराणम्—
ʻएकं दश शतं चैव सहस्रं चेति सत्तमाः ।
यथोत्तरं दशगुणं सहस्राणि दशायुतम् ॥
तथा शतसहस्राणि प्रोच्यते नियुतं बुधैः ।
तथा शतसहस्राणि दशप्रयुतमुच्यते ॥
शतं शतसहस्राणि कोटिरित्यभिधीयते ॥
इति । द्व्यच्कमसिसुसन्नन्तम् । द्वावचौ स्वराख्यौ वर्णौ यस्य तद् द्व्यच्कम् । अन्तशब्दः प्रत्येकमभिसम्बध्यते । अस्, इस्, उस्, अन् इत्येवमन्तं शब्दरूपं द्व्यच्कं चेद् नपुंसकम् । असन्तं यथा—यशः, पयः, तेजः इत्यादि । बर्हिः, सर्पिः, रोचिः इत्यादिकमिसन्तम् । उसन्तं यथा—यजुः, वपुः, अरुः, परुः इत्यादि । अन्नन्तं यथा—साम, लोम, वर्म, चर्म इत्यादि । द्व्यच्कमिति किम् ? उशना, पुरूरवाः, मातरिश्वा इत्यत्र मा भूत् । वेधाः, बर्हिः, अयं धनुः इत्यादौ विशेषविधानाद् अन्यथात्वं विज्ञेयम् ॥
यदनान्तमकर्तरि । अनशब्देन ʻयुवोरनाकü (७। १। १) इति सूत्रप्राप्तमादिष्टरूपं विवक्षितम् । तेन घनः, विघनः, अभिजनः, सन्तानः, सम्मान इत्यादावप्रसङ्गः । अकर्तरि वर्तमाने अन इत्यन्तशब्दरूपं नपुंसकलिङ्गं भवति । अत्र कर्तृपदं कारकमात्रोपलक्षकं सर्वेषामपि कारकाणाम्
ʻस्वव्यापारेषु कर्तृत्वं सर्वेषामुपजायते ।
विक्लृद्यन्ति ज्वलन्तीति बिभर्तीति च दर्शनात् ॥
इति । विक्लृद्यन्ति तण्डुला इत्यत्र पचनरूपव्यापारे करणभूतानां काष्ठानां कर्तृत्वम् । ज्वलन्ति काष्ठानीत्यत्र ज्वलनाख्यव्यापारे करणभूतानां काष्ठानां कर्तृत्वम् । बिभर्ति स्थालीत्यत्र तण्डुलधारणरूपव्यापारेऽधिकरणभूतस्थाल्याः कर्तृत्वम् । ततश्च कारकव्यतिरिक्ते भावमात्रे विहितमनान्तं नपुंसकं भवतीत्युक्तम् । यथा—हरणम्, गमनम्, भोजनम् इत्यादि । अकारक इति किम्? नन्दयतीति नन्दनः, दहनः इत्यादि । अत्र ʻनन्दिग्रहि ॥ ॥ (३। १। १३४) इत्यादिना कर्तरि ल्युः । तथा मुखसहितया नासिकया उच्यत इति मुखनासिकावचनः । राजभिर्भुज्यन्त इति राजभोजिनः शालयः । अत्र ʻकृत्यल्युटो बहुलम् (३। ३। ११३) इति कर्मणि ल्युट् । तथा इध्मप्रव्रश्चनः कुठारः, पलाशशातन आयसनखः इति । अत्र ʻकरणाधिकरणयोश्च्ö (३। ३। ११७) इति करणे ल्युट् । तथा यत्र मांसं पच्यते सा मांसपचनी । अत्राधिकरणे ल्युट् । एवं निष्प्रवाणी तन्तुवायशलाका, प्रसाधनी कङ्कतिका, पृषदाज्यधानी इत्यादीनां कारकार्थानामनपुंसकत्वमवगन्तव्यम् । तस्य वाक्यस्य भाववचनमनान्तं नपुंसकमित्यत्रैव तात्पर्यात्, अन्यत्र चौदासीन्याद् भावार्थव्यतिरिक्तवृत्तेरनान्तस्यापि क्वचिन्नपुंसकलिङ्गत्वं न निषिध्यते । यथा—साध्यतेऽनेनेति साधनम्, गजतुरगाद्युपकरणम् । मेहनं शेफः । यानं तुरगशकटबलीवर्दादि । व्यञ्जनं श्मश्व्रादि । करणं साधकतमम् (१। ४। ४२) । करणं हेतुः पीयत इति पानम् । प्रह्रियतिऽनेनेति प्रहरणम् आयुधम् । आस्यत उपविश्यतेऽत्रेति आसनं पीठम् । शयनं मञ्चः इत्यादि तत्तत्प्रस्तावे लिङ्गानुशासनं कृतमेव । यत्र तु न कृतः तत्र शिष्टप्रयोगान्निर्णय इति ग्रन्थान्ते वक्ष्यति (श्लो। ४६) ॥ २४ ॥
मल्लि-नाथः - AK.03.05.024
कोट्याः शतादिसङ्ख्यान्या । कोटिसङ्ख्याया अन्या शतादिसङ्ख्या नपुंसकम् । शतं सहस्रमयुतं लक्षम् । वा लक्षा । पक्षे लक्षशब्दः स्त्रीलिङ्गश्य स्यात् । नियुतं च स्यात् । नियुतमित्यप्युच्यते ॥ द्व्यच्कमसिसुसन्नन्तम् । द्व्यच्काः असन्ता इसन्ता उसन्ता अन्नन्ताश्च नपुंसकाः । असन्तस्य यथा—वचः, तपः, यशः, वयः, विवः । ʻविवांसि भान्वोरिव बिभ्रतोस्तयोḵ इति । इसन्तस्य यथा—हविः, ज्योतिः, छर्धिः, सर्पिः, । उसन्तस्य यथा—अरुः, परुः, धनुः, वपुः । अन्नन्तस्य यथा—दाम, धाम, नाम, व्योम, लोम । द्व्यच्करणाद् अन्यत्र न भवति । सुगन्धयः सुमनसः, चन्द्रमाः । ʻप्रक्षिप्योदर्चिषं कक्षे (शिशु। २। ४२) । उदर्चिर्नाम वर्हिर्मुखः । सञ्चख्युषो हि सभामण्डनम् । सञ्चख्युषो विद्वांसः । सुधर्माणमतिशेते भूसुरसभा । सुधर्मा देवसभा ॥ यदनान्तमकर्तरि । अकर्त्रर्थेऽनान्तो यः शब्दोऽस्ति स नपुंसकः । साध्यतेऽनेनेति साधनम् । अधिक्रियते ऽस्मिन्नित्यधिकरणम् । पाकः पचनम् । त्यागः त्यजनम् । क्वचिन्न भवति । राजभोजनाः शालयः । गोदोहनी स्थाली ॥ २४ ॥
[[०५.७११]]
मूलम् - ०३.०५.०२५
अक्।०३.०५.०२५अब् त्रान्तं सलोपधं शिष्टं रात्रं प्राक्सङ्ख्ययान्वितम् ।
अक्।०३.०५.०२५च्द् पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः ॥ २५ ॥
लिङ्ग-सूरी - AK.03.05.025
त्रान्तं—सङ्ख्ययान्वितम् । लकरोपधेन सहितं त्रान्तं शब्दरूपं शिष्टं पूर्वोक्तात् त्रान्तात् लकारोपधाच्च व्यतिरिक्तं नपुंसकलिङ्गं भवति । उदाहरणानि । त्रान्तं यथा—पात्रम्, मित्रम्, पत्रम् इत्यादि । लकारोपधानि यथा—फलम्, जलम्, कुलमित्यादि ॥ रात्रान्तं सङ्ख्यापूर्वकं शब्दरूपं नपुंसकलिङ्गं भवति । उदाहरणानि—त्रिरात्रम्, पञ्चरात्रम्, गणरात्रम् इत्यादि । पात्राद्यदन्तैः—अनुसारतः । पात्रादिभिरदन्तैरेकार्थः समाहारो द्विगुसमासो लक्ष्यानुसारतः प्रयोगानुसारेण नपुंसकलिङ्गो भवति । उदाहरणानि—त्रियुगम्, त्रिपात्रम्, त्रिभुवनमित्यादि ॥ २५ ॥
त्रान्तं सलोपधं शिष्टम् । त्र इति सरेफमसंयुक्तमक्षरम् अन्ते यस्येति तत् त्रान्तम् । सकारो लकारो वा उपधा यस्य तत् सलोपधम् । तत् त्रिविधं नपुंसकलिङ्गं भवति । त्रान्तं यथा—पत्रम्, पतत्रम्, पात्रम्, गात्रम्, गोत्रम्, मित्रम्, कलत्रम्, चित्रम्, तोत्रम् इत्यादि । सकारोपधं यथा—बिसम्, बुसम्, साध्वसम्, साहसम्, कीकसम्, महानसम्, श्वःश्रेयसम्, ब्रह्मवर्चसम्, निःश्रेयसम् इत्यादि । लकारोपधं यथा—आवालम्, आलवालम्, कमलम्, कूलम्, कौतूहलम्, पलम्, पललम्, पातालम्, फलम्, बलम्, लाङ्गलम्, लाङ्गूलम् इत्यादि । ननु कथं तर्हि पुत्रः, मन्त्रः, मित्रः सूर्यः, शात्रवोऽमित्रः, मात्रा, गोत्रा, गजस्य जङ्घादेशो गात्राः; तथा घासः, कासः, प्रासः, व्यासः, मासः, रसः, हसः; तथा तालः, कालः, कोलः, फालः, सालः, हालः, वेला, शिला, शाला, कला, माला, हेला, डोला, लीला, फेला, खला, बला, बाला, जाला, इत्यादीनां लिङ्गान्तरत्वमित्यत आह—शिष्टमिति । स्त्रीलिङ्गत्वेन पुंलिङ्गत्वेन वा तत्र तत्रानुशिष्टाद् यत् शिष्टम् अवशिष्टम् अन्यदेव त्रान्तं सलकारोपधं च तद् नपुंसकमित्यर्थः ॥
रात्रं प्राक्सङ्ख्ययान्वितम् । सङ्ख्यावाचकपदपूर्वकं रात्रान्तं नपुंसकम् । यथा—तिसृणां रात्रीणां समाहारः त्रिरात्रम् । पञ्चरात्रम् । गणरात्रमित्यादि । ʻअहःसर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेḵ (५। ४। ८७) इति चकारेण समासान्तोऽच्प्रत्ययः समाहार इत्येव । द्वयोः रात्र्योः समाहारः द्विरात्रम् । प्राक्सङ्ख्ययान्वितमिति किम्? अहोरात्रः । अतिरात्रः इत्यादि । रात्रान्ताः प्राक्सङ्ख्याका इत्यनेन सङ्ख्यापूर्वस्य पुंस्त्वे निषिद्धे किंलिङ्गत्वमिति जिज्ञासायामिदमुच्यते । इदं च नपुंसकत्वं कात्यायनमतानुसारेणेति द्रष्टव्यम् । पाणिनीयाचार्यमते तु—ʻरात्राह्नाहाः पुंसि (२। ४। २९) इत्यत्रोपपदविशेषानुपपादनात् प्रत्युत वृत्तिकारेण (काशिका १, पृ। १३३) द्विरात्रः त्रिरात्रः इति सङ्ख्यापूर्वस्यैवोदाहृतत्वाच्च पुंस्त्वमेवाभिप्रेतमिति गम्यते । वक्ष्यमाणेन समनन्तरवचनेनैव अस्यार्थस्य सिद्धत्वेऽपि पुंस्त्वनपुंसकत्वलक्षणमतभेदसूचनार्थमत्राप्याभिधानमित्यवगन्तव्यम् ॥
पात्राद्यदन्तैः—अनुसारतः । पूर्वम् ʻअदन्तैर्द्विगुरेकार्थḵ (पृ। ६५६, श्लो। ३) इति प्राप्तस्य स्त्रीत्वस्य, ʻन स पात्रयुगादिभिḵ (श्लो। ३) इति प्रतिषेधः कृतः । तर्हि किं लिङ्गं भवतीति जिज्ञासायामिदमारभ्यते । पात्रादिभिरकारान्तैः उत्तरपदभूतैः समाहारार्थे सङ्ख्याशब्दानां यो द्विगुसमासः स प्रयोगानुसारेण नपुंसकलिङ्गो भवति । यथा—त्रिपात्रम्, चतुर्युगम्, त्रिभुवनम्, द्विचन्द्रम् इत्यादि । तथा—पञ्चानां गवां समाहारः पञ्चगवम्, षड्गवम् इत्यादि । अत्र ʻगोरतद्धितलुकि (५। ४। ९२) इति समासान्तः । अत्र केचिदाहुः—प्रथमतः समासान्तविधिः, ततः समास इति तत्र कृता पदयोजना । यत्तु मतम्—समासोत्तरकालं समासान्तविधिः इति । तत्र तु अदन्तैः अकारान्त्यावयत्वेनोपलिक्षतैर्यो द्विगुरेकार्थः इति योजनीयम् । पात्रादिग्रहणं किम्? पञ्चपूली, दशपूली इति । अदन्तैरिति किम्? त्रिखट्वम्, त्रिखट्वी इत्यत्र ʻवा टाबन्त्ö (श्लो। ४१) इति विकल्पो न स्यात् । एकार्थ इति किम्? पञ्चकपालः पुरोडाशः इत्यत्र तद्धितार्थविषयद्विगुसमासे नपुंसकत्वं मा भूत् । द्विगुरिति किम्? लक्ष्यानुसारत इत्यनेन पात्रादेराकृतिगणत्वं दर्शितम् । अत एव ʻपात्रादिराकृतिगणḵ इति कैयटः ॥ २५ ॥
मल्लि-नाथः - AK.03.05.025
त्रान्तं सलोपधं शिष्टम् । अवशिष्टानि त्रान्तानि लोपधानि च नपुंसकानि । त्रान्तं यथा—पात्रम्, क्षेत्रम्, दात्रम्, गात्रम्, कलत्रम्, खनित्रम्, भटित्रम्, धवित्रम् । लोपधानि यथा—कुलम्, बिलम्, शिलम्, सिलम् । लूनकेदारशेषं तु शिलसिलमिति स्मृतम् । मूलम्, जालम्, कूलम्, मङ्गलम्, लाङ्गलम्, जाङ्गलम्, त्र्यङ्गुलम्, चतुरङ्गुलम् । शिष्टग्रहणादत्र न भवति—यात्रा, मात्रा, होत्रा, वरत्रा, शाला, डोला, माला, हेला, उलङ्कलः ʻचलिचिम्ö, कमली मञ्जूषा, काकलः ʻकाकितम्ü, तैतिलः ʻमन्दगि ॥ रात्रं प्राक्यसङ्ख्ययान्वितम् सङ्ख्यापूर्वको रात्रिशब्दो नपुंसकः । त्रिरात्रम्, गणरात्रम् । पात्राद्यदन्तैः—अनुसारतः । पात्राद्यदन्तैः कृतः समाहारद्विगुः शिष्टप्रयोगगम्यः ॥ २५ ॥
[[०५.७१३]]
मूलम् - ०३.०५.०२६
अक्।०३.०५.०२६अब् द्वन्द्वैकत्वाव्ययीभावौ पथः सङ्ख्याव्ययात्परः ।
अक्।०३.०५.०२६च्द् षष्ठ्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा ॥ २६ ॥
लिङ्ग-सूरी - AK.03.05.026
द्वन्द्वैकत्वाव्ययीभावौ । द्वन्द्वैकत्वं समाहारे द्वन्द्वसमासः, अव्ययीभावसमासश्च नपुंसकलिङ्गौ भवतः । द्वन्द्वैकत्वं यथा—पाणिपादम्, समित्कुशम् (कु। सं। ५। ३३) इत्यादि । अव्ययीभावसमासो यथा—यथाशक्ति, यावदमित्रमित्यादि ॥ पथः सङ्ख्याव्ययात्परः । सङ्ख्यावाचिपदादव्ययाच्च परः समासान्तः पथशब्दो विशेषविधिना अवाधितो नपुंसकलिङ्गो भवति । सङ्ख्यापरो यथा—त्रिपथम्, चतुष्पथमित्यादि । अव्ययात्परो यथा—उत्पथम्, सत्पथमित्यादि । षष्ठ्याश्छाया—विच्छायम् । षष्ठ्याः षष्ठीतत्पुरुषात् परो यः छायाशब्दो बहूनां चेद् बहूनां छाया चेत् नपुंसकलिङ्गो भवति । अत्रादाहरणे—इक्षूणां छाया इक्षुच्छायम् (रघु। ४। २०) । वीनां पक्षिणां छाया विच्छायम् ॥ संहतौ सभा । अत्र सभाशब्दः समूहार्थः, शालार्थश्च । समूहार्थे वर्तमानः सभाशब्दान्तः षष्ठीतत्पुरुषो नपुंसकलिङ्गो भवति । अत्रोदाहरणम्—स्त्रीणां सभा स्त्रीसभम् । स्त्रीसमूह इत्यर्थः ॥ २६ ॥
द्वन्द्वैकत्वाव्ययीभावौ । द्वन्द्वस्यैकत्वं समाहाररूपोऽर्थः । अर्थे लिङ्गविध्यसम्भवात् तद्वाचिनो नपुंसकत्वविधिरित्यवसेयम् । ततश्च समाहारार्थद्वन्द्वसमासोऽव्ययीभावश्च नपुंसकलिङ्गौ स्यातामित्यर्थः । अश्वश्च बलीवर्दश्च अश्वबलीवर्दम् । धवखदिरपलाशम् । अत्र समाहारः समासार्थः । तथा—ʻद्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् (२। ४। २) इति समाहारार्थे द्वन्द्वः । पाणिपादम् । शिरोग्रीवम् । मार्दङ्गिकपाणविकम् । गजाश्वम् । गजारोहम् । अश्वारोहमित्यादि समासार्थैकत्वाद्, एकवचनम् । ʻस नपुंसकम् (२। ४। १७) ʻअव्ययीभावश्च्ö (२। ४। १८) इति च सूत्रेण अव्ययीभावसमासस्य समाहारस्यापि नपुंसकत्वम् । यथा—अधिपीठम् इति । विभक्त्यर्थेऽव्ययीभावः (२। १। ६) । अन्वहम् इति यथार्थे । शाकस्य मात्रा शाकप्रति इति ʻसुप्रतिना मात्रार्थे (२। १। ९) । उपकुम्भमिति समीपार्थे निर्मक्षिकमित्यभावे । ʻह्रस्वो नपुंसके प्रातिपदिकस्य्ö (१। २। ४७) इति ह्रस्वत्वम् । अव्ययीभावस्य लिङ्गविधानं शब्दशास्त्रे कृतम् । निघण्टुकारैस्तु लिङ्गविधानं निर्मक्षिकं मुखमित्यादौ अव्ययीभावविशेषणानां नपुंसकलिङ्गानामेव साधुत्वमिति ज्ञापयितुमित्यवगन्तव्यम् ॥
पथः सङ्ख्याव्ययात्परः । सङ्ख्यावाचिनः शब्दा अव्ययाश्च, कृतसमासान्तः पथशब्दो नपुंसकलिङ्गः । यथा—त्रयाणां पन्थाः त्रिपथम् । द्वयोः पन्थाः द्विपथम् । ʻपथः सङ्ख्याव्ययादेः क्लीबतेष्यते (वा। २। ४। १८) इत्यत्र पदमञ्जरीकारः शिवभक्तो हरदत्ताचार्यः—ʻत्रिपथमिति षष्ठीसमासोऽयम्। द्विगौ तु पात्रादित्वात् सिद्धम् इति (पदम। पृ। ६१) । अव्ययात् परो यथा—उत्पथम् । प्रपथम् । दुष्पथमित्यादि । अत्र ʻकुगतिप्रादयḵ (२। २। १८) इति समासः । न त्वव्ययपरत्वे सत्येव विपथकापथशब्दयोः भूवर्गोक्तं पुंस्त्वम् (१, पृ। १९३) अनेन विरुध्यते । न च वाच्यम्—शृङ्गग्राहिकया भूवर्गोक्तं शब्दद्वयमपहाय अयं नपुंसकविधिः उत्पथादिष्ववतिष्ठत इति ।
ʻदुरध्वस्तु कदध्वा स्याद् व्यध्वौ विपथकापथौ ।
न स्त्रियौ स्ताम् ॥
इति प्रतापमार्ताण्डे विपथकापथशब्दयोः नपुंसकलिङ्गत्वमप्यङ्गीकृतत्वात् । अयमत्र समाधिः—शब्दद्वयस्यापि प्राक् पुंलिङ्गत्वमुक्तम् (१, पृ। १९३) । इह तु क्लाबत्वमुच्यत इत्युभयलिङ्गत्वं विपथकापथयोः अमरसिंहनाथेनाभिप्रेतमिति । ʻपथः सङ्ख्याव्ययादेः क्लीबतेष्यते (वा। २। ४। १८) इति लिङ्गविधायकसूत्रविरोधस्तु शेषकारेण परिहृतः—
ʻइह द्वैधं जयादित्यः पथः सङ्ख्याव्ययात्परम् ।
नपुंसकमुवाचामुं पुमांसं वामनोऽब्रवीत् ॥
इति । अस्यार्थः—कृतसमासान्तोऽकारान्तः पथशब्दः सङ्ख्यावाचकाद् अव्ययाच्च परश्चेत् तं पथशब्दं जयादित्यो नपुंसकमाह । तथा च तस्य ग्रन्थः—ʻपथः सङ्ख्याव्ययादेरिति नपुंसकमिति प्रकृतेन सम्बन्धḵ इति । वामनस्तु अमुं पथशब्दं पुमांसमाह । तथा च तस्य ग्रन्थः—ʻसङ्ख्याव्ययात्पूर्वकश्च पथः इति पुंसि प्रकृतेनान्वयḵ इति । जयादित्यमतेन नपुंसकत्वमुक्तम् । भूवर्गे तु वामनमतेन पुंलिङ्गत्वमिति न पूर्वोत्तरविरोध इति । एवं वामनमतेन पुंस्त्वं प्रागुक्तम् (१, पृ। १९३) । इह तु जयादित्यमतेन क्लीबत्वमुक्तमिति ज्ञेयम् । सुभूतिचन्द्रस्तु प्रकारान्तरेण विरोधं परिजहार । ʻपादः पथश्च मार्गश्च्ö इति त्रिकाण्डशेषे दर्शनात् (पृ। ९, श्लो। १९९) पथिपर्यायोऽदन्तशब्दः पुंलिङ्गः पथशब्दोऽप्यस्ति । तथा च ʻकुपथं तं विजानीयात् इति महाभारतप्रयोगश्च (१३। ६३७। ६) । तथा च विरुद्धः पथो विपथः इति पथशब्देनैव विग्रहे पुंलिङ्गत्वमेव । यथा पथिन् शब्देनैव विगृह्य समासान्तविधिः तथा ʻपथः सङ्ख्याव्ययादेḵ इति नपुंसकत्वमिति । सङ्ख्याव्ययादेरिति किम्? राजपथः । जनपथः । घण्टापथः । कृतसमासान्तग्रहणं किम्? अपन्थाः, सुपन्थाः इति ॥
षष्ठ्याश्छाया—विच्छायम् । अत्र षष्ठ्या इति पदं ʻकन्थोशीनरनामस्ü (श्लो। २८) इत्येतदन्तमधिक्रियते । षष्ठीविभक्त्यन्तपूर्वपदात् परो यः छायाशब्दः तदन्तः तत्पुरुषसमासो नपुंसकलिङ्गः सा छाया बहूनां सम्बन्धिनी भवति चेत् । ʻछाया बाहुल्ये इति (२। ४। २२) सूत्रामूलमेतत् । अत्र स्वयमेवोदाहरति । वीनां पक्षिणां छाया विच्छायमिति । एवं शलभच्छायमित्यादि । ʻअप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी इति कालिदासः (रघु। १२। ५०) । कुड्यस्य छाया इत्यादौ छायाया एकमात्रसम्बन्धित्वे ʻविभाषा सेनासुराच्छायाशालानिशानाम् (२। ४। २५) इति विकल्पेन स्त्रीलिङ्गत्वमपि स्यात् । तन्निवृत्त्यर्थं बहूनामित्युक्तम् । षष्ठ्या इति किम्? शुद्धा चासौ छाया च शुद्धच्छाया । बह्वर्थवचनषष्ठ्यन्तपूर्वपदत्वेऽपि उत्तरपदार्थविवक्षायां नपुंसकत्वं नास्तीति सुभूतिचन्द्रः ॥ संहतौ सभा । सभाशब्दः शालावचनः, समूहवचनश्च । तत्र समूहवाची सभाशब्दान्तः षष्ठीतत्पुरुषसमासो नपुंसकलिगः । यथा—स्त्रीणां सभा स्त्रीसभम्, स्त्रीसङ्घात इत्यर्थः । ʻअशाला च्ö (२। ४। २४) इति, सूत्रेण नपुंसकत्वम् । संहताविति किम्? अनाथसभा, अनाथशालेत्यर्थः । षष्ठ्या इति किम्? शुद्धा चासौ सभा च शुद्धसभा ॥ २६ ॥
मल्लि-नाथः - AK.03.05.026
द्वन्द्वैकत्वाव्ययीभावौ । समाहारद्वन्द्वश्च अव्ययीभावश्च नपुंसकौ । यथा—पाणिपादम्, तिष्ठद्गु ॥ पथः सङ्ख्याव्ययात्परः । सङ्ख्याया अव्ययेभ्यश्च परः पथशब्दो नपुंसकः । यथा—त्रिपथम् । उत्पथम् ॥ षष्ठ्याश्छाया—विच्छायम् । बहुसम्बन्धि स्याच्चेत् षष्ठीतत्पुरुषात् परः छायाशब्दो नपुंसकः । विच्छायमिति तदुदाहरणम् । वीनां पक्षिणां छाया विच्छायम् । अवहुसम्बन्धि चेन्न भवति । वृक्षस्य छाया वृक्षच्छाया इति ॥ संहतौ सभा । संहतिरर्थश्चेत् षष्ठ्याः परः सभाशब्दो नपुंसकः । दासीनां सभा दासीसभम् । शालार्थे न भवति । दास्याः सभा दासीसभा । दासीशालेत्यर्थः ॥ २६ ।
[[०५.७१७]]
मूलम् - ०३.०५.०२७
अक्।०३.०५.०२७अब् शालार्थापि परा राजामनुष्यार्थादराजकात् ।
अक्।०३.०५.०२७च्द् दासीसभं नृपसभं रक्षःसभमिमा दिशः ॥ २७ ॥
लिङ्ग-सूरी - AK.03.05.027
शालार्थापि—अराजकात् । अराजकाद् राजशब्दवर्जिताद् राजामनुष्यार्थाद् राजपर्यायाद् अमनुष्याद् रक्षःपिशाचपर्यायाच्च परा शालार्था सभा, अपिशब्दात् समूहार्थापि षष्ठीतत्पुरुषे सति नपुंसकलिङ्गे वर्तते । नृपाणां सभा संहतिः शाला वा नृपसभम् । अत्रोदाहरणानि स्वयमेव दर्शयति—दासीसभम्—इमा दिशः । दासीसभमिति ʻसंहतौ सभा’ (श्लो। २६) इत्यस्योदाहरणम् । नृपसभमिति राजपर्यायस्योदाहरणम् । रक्षःसभमिति अमनुष्यार्थस्योदाहरणम् ॥ इमा दिश इति इमान्युदाहरणानीत्यर्थः ॥ २७ ॥
शालार्थापि—अराजकात् । अराजकाद् राजशब्दवर्जिताद् राजार्थाद् राजपर्यायाद् अमनुष्यार्थाद् रक्षःपिशाचपर्यायाच्च परा सभा शालार्था, अपिशब्दाद् अशालार्थापि, तदन्तः षष्ठीतत्पुरुषसमासो नपुंसकलिङ्गो भवति । ʻसभा राजामनुष्यपूर्वा’ (२। ४। २३) इति सूत्रेण नपुंसकत्वम् । ʻअत्रामनुष्यशब्दो रक्षःपिशाचेषु रूढḵ इति काशिका (१, पृ। १३२) । अत्र वेदभाष्यकर्ता हरदत्ताचार्यः—ʻतत्र पूर्वसूत्रेण राजामनुष्यपूर्वत्वे शालावचनस्यापि भविष्यति; ʻअशाला च्ö इत्यत्र तु अशालावचनत्वे राजामनुष्यपूर्वत्वाभावेऽपीति (पदम। पृ। ६३) । अत्रोदाहरणानि स्वयमेव दर्शयति—दासीसभं—इमा दिशः । अत्र दासीसभमित्येतत् ʻसंहतौ सभा’ (श्लो। २६) इत्यस्योदाहरणम् । नृपसभमित्येतद् राजव्यतिरिक्तराजपर्यायोत्तरस्य । रक्षःसभमित्येतदमनुष्योत्तरस्य । ʻअशाला च्ö (२। ४। २४) इति निषेधाद् दासीसभं दासीसमूहमित्यर्थः । नृपाणां संहतिः शाला च नृपसभम् । राजपूर्वस्य तु ʻनाभी राजसभापि च्ö इति स्त्रीलिङ्गत्वमुक्तम् (पृ। ६७८, श्लो। ९) । तस्माद् अराजकादित्युक्तम् । अत्र राजशब्देन राजपर्यायाणामेव ग्रहणम् । न तु तद्विशेषाणाम् । तेन ब्रह्मगुप्तसभा, हरिश्चन्द्रसभा इत्यादौ स्त्रीलिङ्गत्वमेव । अमनुष्याणां रक्षसां संहतिः शाला वा रक्षःसभम् । इमा दिशः उदाहरणप्रकारा इत्यर्थः । तत उदाहरणान्तराण्यपि उन्नेयानीति भावः । यथा—स्त्रीणां समूहः स्त्रीसभम्, ईश्वरसभम्, राक्षससभम्, पिशाचसभमित्यादि । षष्ठ्या इति किम्? दासीप्रधाना सभा दासीसभा इति ॥ २७ ॥
मल्लि-नाथः - AK.03.05.027
शालार्थापि—इमा दिशः । राजशब्दवर्जितराजार्थकेभ्यः अमनुष्यार्थकेभ्यश्च षष्ठ्याः परः सभाशब्दः संहतिशालार्थयोः नपुंसकलिङ्गो भवति । राजार्थषष्ठ्याः उदाहरणम्—नृपसभमिति । नृपाणां संहतिः शाला चेत्यर्थः । रक्षःसभमिति अमनुष्यार्थषष्ठ्या उदारहणम् । रक्षसां संहतिः शाला चेत्यर्थः । अमनुष्यशब्दो रूढ्या रक्षःपिशाचादिवचनः । अन्यत्र तु ʻस्यात् सुधर्मा देवसभा’ इति (१, पृ। ३४) ॥ २७ ॥
[[०५.७१८]]
मूलम् - ०३.०५.०२८
अक्।०३.०५.०२८अब् उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने ।
अक्।०३.०५.०२८च्द् कोपज्ञकोपक्रमादि कन्थोशीनरनामसु ॥ २८ ॥
लिङ्ग-सूरी - AK.03.05.028
उपज्ञोपक्रम—प्रकाशने । आद्यं ज्ञानमुपज्ञा । उपक्रम्यत इत्युपक्रमः । इमावन्तौ यस्य समासस्य स उपज्ञोपक्रमान्तः । तदादित्वप्रकाशने—तयोः उपज्ञोपक्रमयोः आदित्वप्रकाशने उपज्ञेयस्य उपक्रम्यार्थस्य च प्रकाशने द्योत्ये सति नपुंसकं भवति । उदाहरणे स्वयमेव दर्शयति—कोपज्ञकोपक्रमादि इति । कस्य ब्रह्मणः उपज्ञा कोपज्ञम् वेदः । कस्य ब्रह्मणः उपक्रमः कोपक्रमं सर्गः । आदिग्रहणात् प्राचेतसोपज्ञं रामायणमित्यादि ॥ कन्थोशीनरनामसु । उशीनरदेशे या कन्था षष्ठ्याः परा तदन्तः समासः सञ्ज्ञायां नपुंसकलिङ्गो भवति । अत्रोदाहरणे—सुशमस्यापत्यानि सौशमयः । तेषां कन्था सौशमिकन्थम् ॥ २८ ॥
उपज्ञोपक्रम—प्रकाशने । अत्राप्युपदेशमन्तरेण प्राग्भवीयसंस्कारादिना स्वेनैव उपज्ञायत इत्युपज्ञा, स्वयमेव प्रतिभातं वस्तु । उपक्रम्यत इत्युपक्रमः । अन्योपदेशं विना स्वत एव प्रक्रान्तं वस्तु । अनयोरर्थयोः अभिधायकौ उपज्ञोपक्रमशब्दान्तौ यस्य षष्ठीसमासस्य असौ उपज्ञातः उपक्रान्तश्च । तयोः उपज्ञोपक्रमयोः आदित्वे प्राथम्ये गम्यमाने नपुंसकलिङ्गो भवति । तदुक्तम्—ʻउपज्ञोपपक्रमं तदाद्याचिख्यासायाम् (२। ४। २१) इति ॥ स्वयमेवोदाहरति—कोपज्ञकोपक्रमादि । कस्य ब्रह्मणः उपज्ञा कोपज्ञं वेदः । कस्य ब्रह्मणः उपक्रमणं कोपक्रमं सर्गः । आदिशब्दात् ʻप्राचेतसोपज्ञं रामायणम् (रघु। १५। ६३) । मनूपज्ञं लोकव्यवहारः । नन्दस्य उपक्रमाः नन्दोपक्रमाणि मानानि । ʻतिर्यञ्चमप्यञ्च मृषानभिज्ञरसज्ञतोपज्ञसमज्ञमज्ञम् इति नैषधकाव्ये (३। ६४) । ʻरामोपक्रममाचख्यौ रक्षःपरिभवं नवम् इति कालिदासः (रघु। १२। ४२) । तदादित्वप्रकाशने इति किम्? देवदत्तोपज्ञो ग्रन्थार्थः । यज्ञदत्तोपक्रमः स्वाध्यायः इति । अत्र क्रियासम्बन्धमात्रस्य विवक्षितत्वात् तदादित्वप्रकाशनमविवक्षितम् । षष्ठ्या इत्येव त्वदुपक्रमः मदुपक्रमः इत्यत्र विशेषणसमासे पुंलिङ्गत्वमेव ॥
कन्थोशीनरनामसु । उशीनरो नाम देशविशेषः । तत्प्रतिबद्धा ग्रामा अपि उशीनरनामसञ्ज्ञाः । उशीनराश्च नाम चेति बहुवचनानुपपत्तेः । अयमर्थः कन्थाशब्दान्तः षष्ठीतत्पुरुषो नपुंसकलिङ्गः स्यात्, सञ्ज्ञायां विषये सा चेत् कन्था उशीनरेषु उशीनराख्ये देशे भवति । तथा ʻसञ्ज्ञायां कन्थोशीनरेष्ü (२। ४। २०) इति नपुंसकत्वम् । यथा—सौशमिकन्थम् । आह्वरकन्थम् इति । सुशमस्यापत्यानि सौशमयः, तेषां कन्था इति शब्दसाधुत्वार्थं व्युत्पत्तिमात्रकथनम् । वस्तुतस्तु—कन्थाविशेषस्येयं प्रसिद्धा सञ्ज्ञा । एवम् आह्वरकन्थम् । उशीनरेष्विति किम्? दाक्षेरिति प्रसिद्धस्थ कस्यचित् देशान्तरभवा कन्था दाक्षिकन्थेति सञ्ज्ञया प्रसिद्धा, तत्र मा भूत् । नाम्नीति किम्? उशीनरदेशेष्वेव, वरिणानां कन्था इति योगवशादेव वरिणकन्थेति प्रयुज्यते । तत्र नपुंसकन्वं मा भूत् इति ॥ २८ ॥
मल्लि-नाथः - AK.03.05.028
उपज्ञोपक्रम—प्रकाशने । उपज्ञायत इत्युपज्ञा । उपक्रम्यत इत्युपक्रमः । उपज्ञोपक्रमयोः प्राथम्ये गम्यमाने तदन्ताः तत्पुरुषा नपुंसकलिङ्गाः । कोपज्ञकोपक्रमादि इति तदुदाहरणम् । कस्य ब्रह्मणः उपज्ञा कोपज्ञं, कोपक्रमं वा सृष्टिः । वाल्मीक्युपज्ञं वाल्मीक्युपक्रमं वा श्लोकः । प्राथम्यागम्ये चेन्न भवति । देवदत्तोपज्ञा देवदत्तोपक्रमो वा तटाकस्नानम् ॥ कन्थोशीनरनामसु । कन्थान्त्रः तत्पुरुषो नपुंसकलिङ्गः, स चेद् उशीनरदेशोत्पन्नायाः कन्थायाः सञ्ज्ञा । सौशमिकन्थम् । आह्लिकन्थम् । उशीनरग्रहणदत्र न भवति—दाक्षिकन्था । नामग्रहणादत्र न भवति—चैत्रकन्था ॥ २८ ॥
[[०५.७२०]]
मूलम् - ०३.०५.०२९
अक्।०३.०५.०२९अब् भावे नणकचिद्भ्योऽन्ये समूहे भावकर्मणो ।
अक्।०३.०५.०२९च्द् अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९ ॥
लिङ्ग-सूरी - AK.03.05.029
भावे नणकचित्—अदन्तप्रत्ययाः । अदन्तप्रत्यया ये भावार्थे विहिताः नणकचिद्भ्योऽन्ये नप्रत्ययणप्रत्ययकप्रत्यय-चकारानुबन्धकप्रत्ययेभ्यः इतरे कृत्सञ्ज्ञकाः, ये च समूहार्थे भावकर्मणोश्चार्थे विहिताः तद्धितसञ्ज्ञकाः, तेऽदन्तप्रत्यया नपुंसकलिङ्गा भवन्ति । अत्रोदाहरणानि—सांराविणं वर्तते । समन्ताद् रावो वर्तत इत्यर्थः । साङ्कूटिनं वर्तते । भिक्षाणां समूहो भैक्षम् । भावकर्मणोर्यथा—ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् इत्यादि । पुण्यसुदिनाभ्यामहःपरम् । पुण्यं च सुदिनं च पुण्यसुदिने । ताभ्यां परमुत्तरभूतम् अहरिति पदं कृतसमासान्तं नपुंसकलिङ्गं भवति । अत्र सुदिनशब्दः शोभनवचनः । उदाहरणे—पुण्याहम्, सुदिनाहमिति ॥ २९ ॥
भावे नणकचित्—अदन्तप्रत्ययाः । अत्र नणकचिद्भ्यः इत्युपलक्षणम् । ततश्च नप्रत्ययणप्रत्ययकप्रत्ययचकारानुबन्धप्रत्ययेभ्यः स्त्रीलिङ्गपुंलिङ्गप्रकरणोक्तघञबाधितप्रत्ययेभ्यश्चान्ये ये धात्वर्थलक्षणभावार्थविहिताः कृत्सञ्ज्ञकाः, ये च समूहाद्यर्थत्रये विहिताः तद्धितसञ्ज्ञकाः अदन्तप्रत्ययाः ते तदन्ताः शब्दाः नपुंसकलिङ्गा भवन्ति । तत्र भावमात्रे यथा—समन्ततो रावणमिति विग्रहे, ʻरु शब्दे इति सम्पूर्वः, ʻअभिविधौ भाव इनुण् (३। ३। ४४) इति इनुण्प्रत्ययः । तदन्तात् स्वार्थे ʻअणिनुणḵ (५। ४। १५) इत्यण् । ʻनस्तद्धिते (६। ४। १४४) इति प्राप्तस्य टिलोपस्य, ʻइनण्यनपत्ये (६। ४। १६४) इति प्रकृतिभावात् प्रतिषेधः । एवं सांराविणम् । एवं साङ्कोटिनम् इति । तथा ʻभुवो भावे इति क्यप् प्रत्यये ब्रह्मभूयम्, देवभूयम् इत्यादि । तथा ʻनपुंसके भावे क्तḵ (३। ३.११४) इति भावे क्तप्रत्यये हसितम्, जल्पितम् इत्यादि । ʻयजयाच ॥ । (३। ३। ९०) इत्यादिना विहितनङ्प्रत्ययान्तानां स्वप्नयज्ञप्रश्नादीनां, ʻनौ ण च्ö (३। ३। ६०) इति णप्रत्ययान्तस्य, घञर्थे कप्रत्ययान्तानां (वा। ३। ३। ५८) आखूत्थादीनां चकारानुबन्धप्रत्ययानां चयजयादीनामन्येषां चोपलक्षणप्रसक्तघञादिप्रत्ययान्तानां पाकादीनां च भावविहितकृत्प्रत्ययान्तत्वे सत्यपि पर्युदाससामर्थ्यात् तेषां नपुंसकत्वं न भवति ।
समूहे यथा—भिक्षाणां समूहो भैक्षम् । ʻभिक्षादिभ्योऽण् (४। २। ३८) इति । युवतीनां समूहो यौवतमिति । भिक्षादिषु पाठसामर्थ्यादेव पुंवद्भावो नास्तीति काशिका (१, पृ। ३०९) । महाभाष्ये तु—ʻभस्याढे तद्धिते (वा। ६। ३। ३५) इति पुंवद्भावे, ʻप्रकृत्याके राजन्यमनुष्ययुवानḵ (वा। ७। १। १) इति प्रकृतिभावे टिलोपाभावे च यौवतमित्युक्तम् । तथा च वार्त्तिकम्—ʻभिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात् इति । तथा ʻगोत्रोक्षोष्ट्रोभ्र॥ । (४। २। ३९) इत्यादिना वुञ्प्रत्यये गर्गाणां समूहो गार्गकम् । उक्ष्णां समुहः औक्षकम् । एवं औष्ट्रकमित्यादि । तथा ʻकेदाराद्यञ्च्ö (४। २। ४०) इति कैदार्यम्, कैदारकम् इत्यादि । अत्र द्वितीयभावशब्देन प्रवृत्तिनिमित्तं विवक्षितम् । यथा—गोर्भावो गोत्वम् । ʻतस्य भावस्त्वतलü (५। १। ११९) इति त्वप्रत्ययः । अश्वत्वम्, घटत्वमिति । ʻवर्णदृढादिभ्यः ष्यञ् च्ö (५। १। १२३) इति ष्यञ् । शौक्ल्यम्, कार्ष्ण्यम्, दाढर्य्म् इति । कर्मव्यापारे यथा—ʻगुणवचनब्राह्मणादिभ्यः कर्मणि च्ö (५। १। १२४) इति ष्यञ्प्रत्ययः । यथा—राज्ञो भावः कर्म वा राज्यम् । आधिपत्यम् । युवादित्वाद् अण् प्रत्ययो भवति (५। १। १३०) । कौशलम्, कौशल्यम्; चापलम्, चापल्यम्; पैशुनम्, पैशुन्यम् इत्याद्युदाहार्यम् । अदन्तग्रहणं स्पष्टार्थम् ॥
पुण्यसुदिनाभ्यां त्वहः परः। पुण्यसुदिनाभ्यां परः कृतसमासान्तोऽहःशब्दो नपुंसके । यथा—पुण्यं च तदहश्चेति पुण्याहम् । सुदिनं च तदहश्चेति सुदिनाहम् । सुदिनशब्दः शोभनमात्रवचनः । तथा—ʻसुदिनासु सभासु कार्यमेतत् परिचिन्वीत विशेषतः स्वयं च्ö इति प्रयोगः । तथा च ʻभवन्तु सुदिनाहःक्रियाḵ इति च । ʻअह्नाहान्ताḵ इति प्रागुक्तस्य (श्लो। १२) अपवादोऽयम् । तथा च ʻपुण्यसुदिनाभ्यामह्नः क्लीबतेष्यते (वा। २। ४। १७) इति नपुंसकत्वम् ॥ २९ ॥
मल्लि-नाथः - AK.03.05.029
भावे नणकचिद्भ्योऽन्ये । भावे विहिता नणकचिद्व्यतिरिक्ता कृत् प्रत्ययाः अदन्ताः नपुंसकलिङ्गाः । ʻअभिविधौ भाव इनुण् (३। ३। ४४) । ʻअणिनुणḵ (५। ४। १५) । समन्ताद् रावः सांराविणं वर्तते । ʻभुवो भावे (३। १। १०७) इति क्यप् । ब्रह्मणो भावः ब्रह्मभूयं गतः । अदन्तग्रहणादत्र न भवति—सन्धिः, व्यवधिः इति ॥ समूहे—अदन्तप्रत्ययाः । समूहे च भावकर्मणोश्च विहिताः तद्धितप्रत्ययान्ताः नपुंसकाः । समूहे यथा—काकानां समूहः काकम् । भैक्षम् । औक्षकम् । कैदार्यम् । कावचिकम् । अदन्तग्रहणादत्र न भवति—खलानां समूहः खलिनी । भावकर्मणोर्यथा—शुक्लस्य भावः कर्म वा शौक्ल्यम् । मार्दवम् । मानोज्ञकम् । ब्रह्मत्वम् । अदन्तग्रहणादत्र न भवति—पृथोर्भावः प्रथिमा ॥ पुण्यसुदिनाभ्यां त्वहः परः । पुण्यसुदिनाभ्यां परः अहःशब्दो नपुंसकः । पुण्यमहः पुण्याहम् । सुदिनमहः सुदिनाहम् । ʻसुदिनं शोबनार्थे स्याद् दुर्दिनं तद्विपर्यये ॥ २९ ॥
[[०५.७२२]]
मूलम् - ०३.०५.०३०
अक्।०३.०५.०३०अब् क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके ।
अक्।०३.०५.०३०च्द् चोचं पिच्छं गृहस्थूणं तिरीटं मर्मयोजने ॥ ३० ॥
लिङ्ग-सूरी - AK.03.05.030
क्रियाव्यय—एकत्वेऽपि । क्रियाविशेषणानि अव्ययविशेषणानि च । अपिशब्दात् क्रियाव्ययाश्च नपुंसकलिङ्गा भवन्ति । तान्येकत्वे एकवचने वर्तन्ते । क्रियाविशेषणानि यथा—शोभनं पचति । मन्दं पचति । साधु वदतीत्यादि । अव्ययविशेषणानि यथा—पुरस्ताद्रमणीयम् । प्राग्गन्तव्यम् इत्यादि । क्रियाव्यया यथा—पचतिरूपम् । पचतिकल्पम् । पचतिदेश्यम् इत्यादि । अत्र कांश्चिन्नपुंसकलिङ्गान् स्वरूपेणाह—उक्थतोटके—मर्मयोजने । उक्थं सामविशेषः । तोटकं वृत्तविशेषः । चोचं लवङ्गाख्यगन्धद्रव्यम् । उक्तमेकाक्षरं छन्दः । गृहस्थूणं गृहस्तम्भः । किरीटं शिरोवेष्टनम् । मर्म सन्धिस्थानम् । योजनं क्रोशचतुष्टयम् ॥ ३० ॥
क्रियाव्यय—एकत्वेऽपि । धात्वर्थलक्षणक्रियाणाम् अव्ययार्थस्य च यानि भेदकानि विशेषणानि तदभिधायकानि शब्दरूपाणि नपुंसकलिङ्गानि एकवचनानि च भवन्तीत्यर्थः । क्रियाया अव्ययार्थस्य चासत्त्वरूपत्वेन लिङ्गसङ्ख्याभावात् तद्विशेषणमपि अलिङ्गसङ्ख्यत्वे प्राप्ते इदमारब्धम् । क्रियाविशेषणानि यथा—शोभनं पचति । सन्ततं पठति । ʻमन्दं नुदति पवनḵ इति (मेघ। १। १०) । अव्ययविशेषणानि यथा—निर्मलं प्रातः । शोभनं श्वः इत्यादि । तथा—ʻतिङश्च्ö (५। ३। ५६) इति वर्तमाने ʻप्रशंसायां रूपप् (५। ३। ६६) । यथा—पचतिरूपम्, पचतोरूपम्, पचन्तिरूपम् इति । तथा—ʻईषदसमाप्तौ कल्पब्देश्यदेशीयरḵ (५। ३। ६७) इति । पचतिकल्पम्, पचतःकल्पम्, पचन्तिकल्पम् इति । अत्र काशिका (२, पृ। ६९)—ʻक्रियाप्रधानमाख्यानं भवति । एका च क्रियेति रूपप् प्रत्ययान्ताद् द्विवचनबहुवचने न भवतः । नपुंसकलिङ्गं तु भवति, लोकाश्रयत्वाल्लिङ्गस्य्ö इति । अत्र न्यासः (२, पृ। १२७)—ʻयदि तर्हि एका क्रिया, पचतः पचन्तीति द्विवचनबहुवचने न भवतः; नैतत् साधनाश्रये भविष्यतः । रूपप् प्रत्ययान्तात्तु तिङन्तेनैवोक्तत्वाद् न भविष्यतः, एकवचनं तु भवति । “एकवचनमुत्सर्गतः करिष्यति” इति न्यायात् तस्यौत्सर्गिकत्वादिति ।
अथ कानिचिद् नपुंसकानि लिङ्गानि स्वरूपेण निर्दिशति—उक्थतोटके—मर्म योजनम् । उक्थं नाम सुत्याहे होत्रादिभिः शंस्यः सप्रतिगरमृक् समूहः । यथा—ʻआज्यमुक्थमव्यथयत् (तै। सं। ४। ४। २। १), ʻप्र उगमुक्थमव्यथयत् (तै। सं। ४। ४। २। १) इत्यादि । तोटकं रूपकभेदः, छन्दोभेदो वा । ʻइह तोटकमम्बुधिसैः प्रमितम् इत्युक्तलक्षणवृत्तविशेषश्च । चोचं लवङ्गाख्यं गन्धद्रव्यम् । ʻचोचं भुक्तफलावशेषḵ इति चन्द्रः । तालफलमित्यपरे । उल्बं प्रागुक्तलक्षणम् (१, पृ। ३८३) । पिच्छमिति पाठे मयूरस्य शिखण्डः । गृहस्य स्थूणा गृहस्थूणमिति विग्रहे षष्ठीतत्पुरुषस्य परलिङ्गत्वबाधेन नपुंसकत्वमुच्यते । वामनीयलिङ्गानुशासनेऽप्युक्तम्—ʻऊर्णास्थूणे शशगृहपरे इति शशगृहशब्दाभ्यां ये ऊर्णास्थूणे शब्दौ तदन्तः षष्ठीतत्पुरुषो नपुंसकलिङ्ग इत्यर्थः । तिरीटं वेष्टनम् । किरीटं शिरोवेष्टनमिति केचित् पठन्ति । शिरोभूषणमित्यरुणदत्तः । मर्म प्राणसञ्चरणस्थानम् । योजनं क्रोशचतुष्टयम् ॥ ३० ॥
मल्लि-नाथः - AK.03.05.030
क्रियाव्यय—एकत्वेऽपि । क्रियाविशेषणानि अव्ययविशेषणानि च नपुंसकानि । यथा—स्तोकं पचति । पुरो रमणीयम् । एकत्वेऽपीत्यनेन उभयत्रैकवचनम् । उक्थतोटके—मर्मयोजने । उक्थादीनि नपुंसकानि । उक्थं सामभेदः । तोटकं वृत्तभेदः । ʻइह तोटकमम्बुधिसैः प्रमितम् । चोचं नारिकेलफलम् । उक्तं वचनम् । छन्दोभेदो वा । ʻउक्तमेकाक्षरं छन्दस्युक्तं स्याद् भाषितेऽपि च्ö इति विश्वः (पृ। ५९, श्लो। ३५) । गृहस्थूणं गृहमध्यस्तम्भः । ʻनिह्रड्ü । वेश्मस्थूणा गृहस्थूणमुल्बस्थूणा तु पादिका’ इति वैजयन्ती (पृ। १६२, श्लो। ३९) । गृहस्य स्थूणा गृहस्थूणमित्येवम्प्रकारेण ब्रह्मणि चर्या ब्रह्मचर्यम् । तिरीटं किरीटम् । मर्म जीवस्थानम् । ʻजीवस्थानं भवेन्मर्म्ö इति हलायुधः (अ। मा। २। ३७४) । योजनं क्रोशचतुष्टयम् ॥ ३० ॥
[[०५.७२५]]
मूलम् - ०३.०५.०३१
अक्।०३.०५.०३१अब् राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः ।
अक्।०३.०५.०३१च्द् माणिक्यभाष्यसिन्दूरचीरचीवरपञ्जरम् ॥ ३१ ॥
अक्।०३.०५.०३२अब् लोकायतं हरितालं विदलं स्थालबाह्लवम् ।
इति नपुंसकलिङ्गशेषः
लिङ्ग-सूरी - AK.03.05.031
राजसूयं—स्थालबाह्लवम् । राजसूयादिशब्दा नपुंसकाः । राजसूयवाजपेयौ यज्ञविशेषौ । कवेः कृतौ कविविरचिते गद्यपद्ये वर्तेते । गद्यमपादबद्धम् । पद्यं पादबद्धम् । माणिक्यं मणिविशेषः । भाष्यं सूत्रव्याख्यानम् । सिन्दूरं नागसम्भवम् । चीरं वल्कलवस्त्रम् । चीवरं मुनिवासः । पञ्जरं पक्ष्यादिवन्धनम् । लोकायतं चार्वाकतर्कशास्त्रम् । हरितालं धातुविशेषः । विदलं दाडिमफलकणम् । स्थालं भोजनपात्रम् । बाह्लीकं देशभेदः ॥ ३१ ॥
इति नपुंसकलिङ्गशेषः
राजसूयं—बाह्लकम् । राजसूयवाजपेयशब्दयोः यज्ञविशेषवचनयोः पुंलिङ्गत्वेन सर्वत्र प्रसिद्धत्वाद् इह ताभ्यामन्नविशेषावेव विवक्षिताविति सुबोधिनीकारः । कवेः कृतौ काव्ये वर्तमानौ गद्यपद्यशब्दौ नपुंसकलिङ्गौ । ʻअपादः पदसन्तानो गद्यम् (काव्यादर्शः १। २३) । पद्यं तु पादबद्धम् । कविकृतेरन्यत्र तु ʻगदमद॥ ॥ इत्यादिना (३। १। १००) यत्प्रत्यये गद्या वाक्, गद्यः श्लोकः, गद्यं वचनमिति । तथा—ʻपदमस्मिन् दृश्यम् (४। ४। ८७) इति यत्प्रत्यये पद्या धूलिः, पद्यः कर्दमः, पद्यं रजः इति विशेष्यनिघ्नत्वमेव । मणिशब्दात् प्रशंसायां कन्प्रत्यये, ततः स्वार्थे ष्यञि माणिक्यं रत्नविशेषः । भाष्यं सूत्रव्याख्यानरूपो ग्रन्थः । तदुक्तम्—
ʻसूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः ।
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥
इति । सिन्दूरं स्त्रीणां सीमन्तप्रसाधनार्थो रक्तद्रव्यविशेषः । चीरं वल्कलादिवस्त्रम् । ʻअध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि इति रघुवंशे (१३। २२) । चीवरं जीर्णत्यक्तवस्त्रम् । ʻप्रेतचीवरवसा स्वनोग्रया’ इति च तत्रैव (रघु। ११। १६) । पञ्जरं वंशशलाकादिकृतं शुकशारिकादिपलायनप्रतिबन्धनार्थं यन्त्रम् । लोकायतं चार्वाकशास्त्रम् । हरीतालं हरिद्रासदृशवर्णो धातुविशेषः । हरितालमिति ह्रस्वद्वितीयाक्षरशब्दस्तु प्रागुक्तः (१, पृ। ६१४) । अत एव ʻहरितालं हरीतालम् इति शब्दभेदप्रकाशे द्वयमप्युक्तम् । द्विधाकृते मुद्गमाषकलायादिधान्ये, द्विधाकृते वेणुवेत्रादौ च विदलशब्दो वर्तते । ʻविदलं दाडिमबीजकणḵ इति सुबोधिनीकारः । स्थलं कांस्यादिनिर्मितं विस्तृतं भोजनपात्रम् । ʻस्थालानीव प्रेतराजस्य्ö इति माघकाव्ये (शिशु। १८। ६७) । बाह्लकं कुङ्कुमम् । बाह्लवं देशविशेष इति सुबोधिनीकारः । बाहुभवम् । अङ्गदादिपरिष्कारजातं बाहुभवमिति सुभूतिचन्द्रः ॥ ३१ ॥
इति नपुंसकलिङ्गशेषप्रकरणम्
मल्लि-नाथः - AK.03.05.031
राजसूयं—स्थालबाह्लिकम् । राजसूयादिबाह्लिकान्ताः शब्दाः नपुंसकाः । राजसूयं वाजपेयं यज्ञभेदौ । गद्यपद्ये द्वे कविकृती स्याताम् । अन्यत्र गद्या स्त्री । गदितव्येत्यर्थः । पद्या शर्करिला पादाहितेत्यर्थः । माणिक्यं मणिः । पल्ल्यां तु नपुंसकं न । ʻटट्टनी मुसली पल्ली माणिक्या गृहगोधिका’ इति वैजयन्ती (पृ। १५०, श्लो। ३०) । भाष्यं विवरणभेदः । सिन्दूरं गतार्थम् (१, पृ। ६१५) । चीरचीवरे द्वे वस्त्रभेदौ । ʻचीरं खण्डकमस्त्रियाम् इति, ʻचीवरं भिक्षुसङ्घाटी इत्युभयत्र वैजयन्ती (पृ। १६९, श्लो। १३०, १२८) । पञ्जरं पक्षिनीडम् । ʻपिट्टगूड्ü । लोकायतं चार्वाकमतम् । हरितालं गतार्थम् (१। पृ। ६१४) हरिताली च गतार्था (?) । ʻहरिताली नभोरेखादूर्वाखड्गलतासु च्ö इति विश्वः (पृ। १६१, श्लो। १५५) । विदलं ʻम्राकुविडिके । ʻविदलं दारु पाटितम् इति वैजयन्ती (पृ। ४६, श्लो। १४) । दाडिमफलमिति क्षीरस्वामी (पृ। ३५३) । स्थालं भोजनपात्रम् । बाह्लिकं कुङ्कुमम् ॥ ३१ ॥
इति नपुंसकलिङ्गशेषः
[[०५.७२७]]
अथ पुन्नपुंसकसङ्ग्रहः—
अक्।०३.०५.०३२च्द् पुन्नपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ॥ ३२ ॥
मूलम् - ०३.०५.०३३
अक्।०३.०५.०३३अब् मोदकस्तण्डकष्टङ्कः शाटकः खर्वटोऽर्बुदः ।
अक्।०३.०५.०३३च्द् पातकोद्योगचरकतमालामलका नडः ॥ ३३ ॥
लिङ्ग-सूरी - AK.03.05.032-33
पुन्नपुंसकयोः शेषः । पुन्नपुंसके प्रागनुशिष्टेभ्यः शिष्टाः अर्धर्चादिशब्दाः पुन्नपुंसकयोः वर्तन्ते । के ते शब्दाः—अर्धर्चपिण्याक—आमलका नडः । ऋचोऽर्धमर्धर्चः । पिण्याकः उद्धततैलपिष्टम् । कण्टकः तीक्ष्णाग्रस्वल्पखदिराद्यवयवः । मोदको भक्ष्यविशेषः । तण्डकः परिकरः । टङ्कः पाषाणभेदकः । शाटकः स्वल्पवस्त्रम् । खर्वटः चतुःशतग्रामसङ्ग्रहस्थानम् । अर्बुदो दन्तरोगः । सङ्ख्याविशेषो वा । पातको ब्रह्महत्यादि । उद्योग उत्साहः । चरको वैद्यशास्त्रभेदः । तमालो वृक्षभेदः । आमलको धात्रीफलम् । नडः तृणविशेषः ॥ ३२-३ ॥
पुन्नपुंसकयोः शेषः । पुन्नपुंसकोभयलिङ्गत्वेन प्रागनुशिषेटेभ्यः शेषो वक्ष्यमाणोऽर्धर्चादिः पुन्नपुंसकयोः वर्तत इत्यर्थः । अत्र कश्चिदाह—ʻपुन्नपुंसकयोः इत्येकमेव पदं आप्रकरणमधिक्रियते । शेषशब्दोऽर्धर्चादिशब्दवद् विधेयभूत एव । उपयुक्तादन्यः शेषः । “शेषो बहुव्रीहिः” (२। २। २३) “शेषं पूर्ववत्” इत्यादौ शेषशब्दस्याप्युभयलिङ्गत्वदर्शनात् इति । तदसङ्गतम् ।
ʻशेषोऽप्रधानेऽनन्ताख्ये सर्पराजेऽथ शार्ङ्गिणः ।
अवतारान्तरेऽपत्ये त्रिष्वन्यत्रोपयुक्ततः ।
माल्याक्षतादिदाने तु स्त्री शेषा ॥
इति केशवस्वामिना (नाना। सं। १। पृ। १६३, श्लो। १४१५-१६) उपयुक्ताद् अन्यस्मिन्नर्थे त्रिलिङ्गत्वाभिधानात् केवलपुन्नपुंसकप्रकरणे शेषशब्दस्य पाठायोगाद् उपयुक्तादन्यः इत्यत्रापि शेषशब्दस्य लिङ्गविशेषः सूत्रस्थान्यशब्दवदेव प्राकरणिकविशेष्याभिप्रायेणोक्तः । इहापि ʻकृतः कर्तर्यसञ्ज्ञायाम् (श्लो। ४५) इति विशेष्यनिघ्नत्वं वक्ष्यते । अत एव—ʻशेषान् मासान् गणय चतुरो लोचने मीलयित्वा’ इति कालिदासः (मेघ। २। ५०) । ʻतया नभः पुष्यतु कोरकेण्ö इति नैषधकाव्ये (३। ११४) स्त्रीलिङ्गप्रयोगो विशेष्यानुरोधादेव । ʻसप्तर्षिहस्तावचितावशेषाणि इति (कु। सं। १। १६) नपुंसके ॥
तानेव शब्दानाह—अर्धर्चपिण्याक—आमलका नडः । अर्धं ऋचः अर्धर्चम्, अर्धर्चः । एवं तद्गणपठितानां सर्वेषां लिङ्गद्वये रूपद्वयं द्रष्टव्यम् । पिण्याकम् उद्धृततैलपिष्टम् । कण्टको नाम खदिरबर्बरादिवृक्षाणां तीक्ष्णाग्रावयवविशेषः । ʻरोमाञ्चे क्षुद्रशत्रौ च द्रुमाङ्गे कण्टकोऽस्त्रियाम् इपि रुद्रः । कङ्कट इति मूर्धन्यप्रथमोपधान्तपाठे कङ्कट उरच्छदः । मोदको भक्ष्यविशेषः । तण्टकः परिकरः । दण्डक इति दन्त्यवर्गतृतीयादित्वपाठे दण्डकः समासप्रयोगगद्यविशेषः । टङ्कः पाषाणदारणः । शाटकोऽल्पवस्त्रम् । खर्वटः चतुःशतग्रामजनसङ्ग्रहस्थानमिति सुबोधिनी । ग्रामजनवास्तव्यजनोपजीव्यो ग्रामः खर्वट इति सुभूतिचन्द्रः । खर्वटः प्रचुरकण्टकसन्तानो ग्राम इति विज्ञानेश्वरः (या। स्मृ। २। १०। १६७) । कर्पट इति पाठे स्वल्पमुपसंव्यानम् । कर्पटः कौपीनमित्येके । अर्बुदं दन्तरोगविशेषः । सङ्ख्याविशेषश्च । पातकः पापविशेषः । उद्योग उद्यमः । चरकं वैद्यशास्त्रविशेषः । तमालं वृक्षविशेषः । आमलकं धात्री । नलो नडो वा तृणविशेषः ॥ ३२-३ ॥
मल्लि-नाथः - AK.03.05.031-32
पुन्नपुंसकयोः—आमलका नडः । अर्धर्चादयः पुन्नपुंसकलिङ्गाः । अर्धर्चः ऋचोऽर्धम् । पिण्याको गतार्थः (पृ। २३१, नाना। ९) । कण्टको वेण्वादिः । ʻवेणौ द्रुमाङ्गे रोमाञ्चे क्षुद्रशत्रौ च कण्टकḵ इति पुंलिङ्गाध्याये वैजयन्ती (पृ। २४०, श्लो। १४) । मोदको लड्डुकः । तण्डको गृहदारु । समासप्रायवचनं वा । ʻतण्डको दण्डकḵ इति क्षीरस्वामी (पृ। ३५४) । टङ्को गतार्थः (१, पृ। ६४०) । शाकटो नाम प्रत्ययः । तद्ग्रहणात् तदन्तस्यैव ग्रहणम् । शाकस्य क्षेत्रं शाकशाकटम् । खर्वटो ग्रामभेदः । अर्बुदः सङ्ख्याभेदः । ʻअथ स्त्री कोटिरर्बुदे इति कोटिसङ्ख्यायां वैजयन्ती (पृ। १८८, श्लो। २९) । ʻदशकोटिषु चार्बुदम् इति दशकोटौ विश्वः (पृ। ७९, श्लो। २३) । पातको ब्रह्महत्यादिः । उद्योगो यत्नः । चरकं वैद्यशास्त्रम् । तमालं तमालपत्रम् । आमलकमामलकफलम् । नडो गतार्थः (१, पृ। ३१६) ॥ ३२-३ ॥
[[०५.७२९]]
मूलम् - ०३.०५.०३४
अक्।०३.०५.०३४अब् कुष्ठ मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम् ।
अक्।०३.०५.०३४च्द् सङ्गमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३४ ॥
लिङ्ग-सूरी - AK.03.05.034
कुष्ठं मुण्डं—ताण्डवम् । कुष्ठादयः पुन्नपुंसकलिङ्गाः । कुष्ठः त्वग्दोषः । मुण्डः कबन्धः । शीधुः मद्यविशेषः । पुस्तः लेख्यादिकर्म । क्ष्वेडितो विषविशेषः । क्षेमः कुशलम् । कुट्टिमो मणिबद्धभूमिः । सङ्गमो नद्यादिमेलनम् । शतमानः पलपरिमितम् । हेमरूपं वा । अर्म अक्षिरोगः । शम्बलः पाथेयम् । अव्ययः स्वरादिनिपातरूपाः चादयः । ताण्डवो नृत्तविशेषः ॥ ३४ ॥
कुष्ठं मुण्डं—ताण्डवम् । कुष्ठं गन्धद्रव्यविशेषः । रोगविशेषश्च । मुण्डं [छिन्न]मस्तकम् । तद्युक्ते तु वाच्यलिङ्गः । मुण्डो ब्रह्मचारी । मुण्डा विधवा इत्यादि । शीधु मद्यविशेषः । पुस्तं पुस्तकम् । ʻबुस्तं लेख्यकर्मविज्ञानयोरपि इति स्वामी (पृ। ३५४) । क्ष्वेडितमुत्साहर्जासहनादः । क्षेमं कुशलम् । कुट्टिमं मणिपाषाणसुधादिबन्धनेन निर्वृत्तं स्थलम् । सङ्गमं सम्बन्धः । नद्यादिमेलश्च । शतमानं पलपरिमितं रजतम् । तच्च रजतमानप्रस्तावे याज्ञवल्क्यः (या। स्मृ। १। १३। ३६४-५)—
ʻद्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ।
शतमानं तु दशभिर्धरणैः पलमेव तु ॥
इति । अर्म नेत्ररोगविशेषः । तस्य द्विलिङ्गत्वेऽपि नपुंसकलिङ्ग एव प्रयोगप्राचुर्यदर्शनात् ʻपत्तनाजिरशृङ्गार्म्ö (पृ। ७०७) इति केवलनपुंसकलिङ्गमध्येऽपि पाठः कृत इति न विरोधः । शम्बलं पाथेयम् । अव्ययमलिङ्गसङ्ख्यं शब्दरूपम् । तदुक्तम्—
ʻसदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
इति ताण्डवमुद्धतनृत्यम् ॥ ३४ ॥
मल्लि-नाथः - AK.03.05.034
कुष्ठं मुण्डं—ताण्डवम् । कुष्ठो गतार्थः (१, पृ। ३९४) । मुण्डं शिरः । शीधुर्गतार्थः (१, पृ। ६४४) । पुस्तं पुस्तकम् । अथवा बुस्तमिति मांसशष्कुली । ʻबुस्तं मांसशष्कुली इति क्षीरस्वामी (पृ। ३५४) । क्ष्वेडितं सिंहनादः । ʻपिडिबोब्ब्ö । क्षेमं गतार्थम् (१, पृ। ८८) । कुट्टिमं निबद्धभूमिः । ʻरायिगट्टिननेल्ö । सङ्गमं सङ्गः । शतमानं पलम् । ʻशतमानं तु कर्षे द्वे इति वैजयन्ती (पृ। १९०, श्लो। ५०) । अथवा शतमाने सङ्ख्याभेदपरिमाणभेदे । अर्म पक्ष्ममध्यकेशः ʻकोटिरेप्पल्ü । शम्बलं पाथेयम् । ʻपाथेयं शम्बलं मतम् इति हलायुधः (अ। मा। २। २०३) । अव्ययं स्वरादिशब्दः । ताण्डवं गतार्थम् (१, पृ। १२६) ॥ ३४ ॥
[[०५.७३१]]
मूलम् - ०३.०५.०३५
अक्।०३.०५.०३५अब् कवियं कन्दकार्पासं पारावारं युगन्धरम् ।
अक्।०३.०५.०३५च्द् पूयं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३५ ॥
लिङ्ग-सूरी - AK.03.05.035
कवियं—चमसचिक्कसे । कवियम् अश्वमुखबन्धनम् । कन्दो मूलविशेषः । कार्पासं बादरम् । पारावारम् उभयतटौ । युगन्धरं रथकाष्ठम् । पूयं क्लिन्नरुधिरम् । प्रग्रीवो वातायनम् । पात्रीवो यज्ञोपकरणम् । यूषं मुद्गादिनिर्यासः । चमसं यज्ञपात्रम् । चिक्कसं यवादिपिष्टम् ॥ ३५ ॥
कवियं—चमसचिक्कसे । कवियमश्वमुखबन्धनम् । कन्दं सूरणादिमूलविशेषः इति सुबोधिनीकारः । सुभूतिचन्द्रस्तु—कर्मेति पाठेनाह । ʻकर्म क्रिया । “कर्म व्याप्यक्रियायां च पुन्नपुंसकयोर्मतम्” इति रुद्रḵ इति । कार्पासं वस्त्रयोनिः । फलविशेषे च । पारं नद्याः परो देशः । ʻअवारमवाग्देशḵ इति टीकाकृत् । युगन्धरः कूबरः । ईषाग्रमित्यन्ये । पर्वतविशेष इत्यपरे । पूयं क्लिन्नशोणितम् । सुभूतिचन्द्रस्तु यूपमिति पठित्वा यूपं पशुबन्धकाष्ठमिति व्याचष्ट । प्रग्रीवो वातायनम् इति स्वामी (पृ। ३५४) । ʻप्रग्रीवो मत्तवारणḵ इति प्रतापः । पात्रीवशब्दस्तु अप्रसिद्धार्थः । यूषं मुद्गकुलुत्थादिनिर्यूहः । चमसः सोमाधारणपात्रविशेषः । स्त्रीलिङ्गप्रकरणेऽपि चमसीति ङीबन्त उक्तः (पृ। ६७९, श्लो। १०) । चिक्कसं यवादिपिष्टम् ॥ ३५ ॥
मल्लि-नाथः - AK.03.05.035
कवियं—चमसचिक्कसे । कवियादयः पुन्नपुंसकाः । कवियं खलीनम् । ʻगुर् पुकश्लिम्ü । ʻकवियोऽस्त्री खलीनोऽस्त्री पञ्चाङ्गी कविका कवी इति वैजयन्ती (पृ। ११३, श्लो। ११३) । कर्म नाम करणम् । ʻचेसुट्ö । ʻकरणं क्लीबे कृत्यं कर्म नृशंस्ये क्रियाविला’ इति गोपालितः । कार्पासो गतार्थः (१, पृ। ४३२) । ʻप्रत्ति । पारावारमुभयतटम् । ʻपारावारः समुद्रे च पारावारं तटद्वयम् इति विश्वः (पृ। १४६, श्लो। २५८) । युगन्धरं गतार्थम् (१, पृ। ५१८) । पूयं शुक्लरक्तम् । ʻपूयं तु कुणपं दूष्यम् इति वैजयन्ती (पृ। १८२, श्लो। ११८) । प्रग्रीवोऽनेकार्थः । ʻप्रग्रीवमस्त्री कलशे ग्रीवाप्रासादयोरपि इति वैजयन्ती (पृ। २६१, श्लो। ५६) । पात्रीवं यज्ञोपकरणम् । यूषः पक्वधान्यरसः । ʻपुल्वकट्ट्ü । ʻयूषो ऽस्त्री यूः पुमान् रसे इति वैजयन्ती (पृ। १६७, श्लो। १००) । चमसं यज्ञपात्रविशेषः । चिक्कसं यवपिष्टम् । ʻयवपिण्डि ॥ ३५ ॥
[[०५.७३३]]
मूलम् - ०३.०५.०३६
अक्।०३.०५.०३६अब् अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् ।
अक्।०३.०५.०३६च्द् तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥ ३६ ॥
इति पुन्नपुंसकसङ्ग्रहः
लिङ्ग-सूरी - AK.03.05.036
अर्धर्चादौ—शेषवत् । अर्धर्चादौ अर्धर्चादिगणे घृतादीनां घृतक्षीरामृतादीनां यद्वैदिकं पुंस्त्वं पुंलिङ्गत्वं ध्रुवं निश्चितं, तदिह केवललौकिकशब्दावधि कुर्वन् अस्मिन् ग्रन्थे नोक्तम्, लौकिकेऽपि च तत् पुंलिङ्गमस्ति चेत् तर्हि शेषवदस्तु, तल्लिङ्गशेषत्वाद् अङ्गीकरोमीत्यर्थः ॥ ३६ ॥
इति पुन्नपुंसकलिङ्गशेषप्रकरणम्
ननु अर्धर्चादिगणपठितानां घृतामृतक्षीरादिशब्दानां तत्तत्पर्यायकथनप्रस्तावे नपुंसकलिङ्गत्वमात्रमेवोक्तम् । तत् ʻअर्धर्चाः पुंसि च्ö (२। ४। ३१) इति सूत्रेण विरुद्धमित्याशङ्क्य परिहरति—अर्धर्चादौ—तन्नोक्तमिह । इह ग्रन्थे घृतामृतक्षीरादिशब्दानाम् अर्धर्चादिगणपठितत्वेन पुन्नपुंसकोभयलिङ्गत्वेनानुशिष्टानामपि यस्मात् पुंलिङ्गत्वे वैदिकं छन्दोविषयत्वमेवेति ध्रुवं निश्चितम् । लोके घृतादिशब्दानां नपुंसकत्वेनैव प्रयोगदर्शनाद् इति भावः । तस्मात् कारणाद् अस्मदीयग्रन्थस्य लोकप्रसिद्धमात्रसुशब्दानुशासनपरत्वात् तेषां शब्दानां पुंलिङ्गत्वमत्र नेष्यते ।
ननु चात्यन्तविदुषोऽपि लोकप्रसिद्धसकलप्रयोगपरिज्ञानसाधर्म्याभावात् कथमुच्यते पुंस्त्वं वैदिकमेवेत्यत आह—लोके तु तच्चेदस्त्यस्तु शेषवत् । अत्र घृतादिशब्दानां लोके पुंलिङ्गत्वं यदि महाजनप्रयोगेषु विद्येत तदप्यस्तु । न वयं निर्बन्धेन तेषां पुंस्त्वं निराकरिष्याम इति भावः । तस्मात् कारणाद् अस्यास्मदीयग्रन्थस्य लोकप्रसिद्धमात्रसुशब्दानुपरत्वादिति । शेषवदिति दृष्टान्तः । शेषं नपुंसकत्वं यथा तेषामङ्गीक्रियते, तद्वत् पुंलिङ्गत्वमपीत्यर्थः । अथवा शेषवत् शेषाणामेवेत्यर्थः। यथा—पर्यायप्रस्तावे कुष्ठमुण्डशीधुपुस्तादीनां केवलनपुंसकत्वेनानुशिष्टानामप्यत्र कुष्ठं मुण्डं शीधु पुस्तम् इत्यादिनोभयलिङ्गत्वमुच्यते । तद्वद् घृतादिशब्दानामिति भावः । अथवा इह ग्रन्थे प्रमादाद् विस्तरभयाद्वा छन्दोभङ्गभयाद्वा यदनुक्तं तच्छेषम् । तच्च शिष्टप्रयोगतो ज्ञेयमिति ग्रन्थान्ते वक्ष्यति । तद्वद् घृतादिशब्दानामपि पुंलिङ्गत्वं लोकेऽपि शिष्टप्रयोगतोऽङ्गीकरणायमिति ॥ ३६ ॥
इति पुन्नपुंसकलिङ्गशेषप्रकरणम्
मल्लि-नाथः - AK.03.05.036
अर्धर्चादौ—शेषवत् । अर्धर्चादिगणपठितानां घृतामृतरजतादिशब्दानां पुंस्त्वं यत् तद् वैदिकम् । यच्च लौकिकं भवति चेत् शेषवदस्तु । इह लौकिकम्, तद्वैदिकं नोक्तम् ॥ ३६ ॥
इति पुन्नपुंसकलिङ्गशेषः
[[०५.७३४]]
अथ स्त्रीपुंससङ्ग्रहः—
मूलम् - ०३.०५.०३७
अक्।०३.०५.०३७अब् स्त्रीपुंसयोरपत्यान्ता द्विचतुःषट्पदोरगाः ।
अक्।०३.०५.०३७च्द् जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ॥ ३७ ॥
लिङ्ग-सूरी - AK.03.05.037
स्त्रीपुंसयोरपत्यान्ताः । अपत्यप्रत्ययान्ताः शब्दाः स्त्रीपुंसयोर्वर्तन्ते । अत्रोदाहरणानि—उपगोरपत्यम् औपगवः । औपगवी । एवं भैदः, भैदी ॥ द्विचतुः—जातिभेदाः । द्विपदचतुष्पदषट्पदोरगरूपजातिविशेषाः स्त्रीपुंसयोर्वर्तन्ते । द्विपदानामुदाहरणानि—नरः, नारी । कुक्कुटः, कुक्कुटी इत्यादि । चतुष्पदादीनामुदाहरणानि—भ्रमरः, भ्रमरी इत्यादि । उरगाणामुदाहरणानि—पन्नगः, पन्नगी । नागः, नीगी । इत्यादि ॥ पुमाख्याश्च स्त्रीयोगैः सह । पुमाख्या गणकमहामात्राद्याः स्त्रीयोगैः सह स्त्रीणां पुंयोगनिमित्तकाख्याभिः सह स्त्रीपुंसलिङ्गयोर्वर्तन्ते । अत्रोदाहरणानि—गणकः पुरुषः, तस्य स्त्री गणकी । महामात्रः पुरुषः, तस्य स्त्री महामात्री । आदिशब्दाद् इन्द्रः, इन्द्राणी इत्यादि । कांश्चित् स्त्रीपुंसलिङ्गान् शब्दान् स्वरूपेणाह—मल्लक इति । मल्लकः मल्लकी दीपपात्रम् ॥ ३७ ॥
स्त्रीपुंसयोरपत्यान्ताः । अधिकारोऽयम् । उत्तरप्रकरणाद् अपत्यान्ताः अपत्यप्रत्ययान्ताः शब्दाः स्त्रियां पुंसि च भवन्ति । यथा—उपगोरपत्यं पुमान् औपगवः, औपगवी स्त्री । भिदस्यापत्यं पुमान् भैदः, भैदी स्त्री । यद्यप्यत्र न्यासकारेण (पञ्जिका १, पृ। ८६२) ʻगोत्रं सर्वलिङ्गभाग् भवति इत्युक्त्वा ʻनाडायनः पुमान्, नाडायनी स्त्री, नाडायनं नपुंसकम् इत्यादि लिङ्गत्रयेऽप्युदाहृतम्, यदाप्येवं त्रिलिङ्गत्वेऽपि स्त्रीलिङ्गत्वसद्भाववादोऽत्र नानुपपन्नः । यथा—पात्रादयः स्त्रीलिङ्गा अप्यर्धर्चादौ पठिताः । सुभूतिचन्द्रस्त्वाह—ʻनहि नपुंसकत्वमप्यत्राप्युपदेशार्हम् । किं तर्हि? यैरेव पूर्वजाःसन्तानोत्पादनद्वारेण ʻपुन्नाम्नो नरकाद् घोरात् त्रायन्ते (म। स्मृ। ९। १३८) इति तान्येव अपत्यप्रत्ययोत्पत्तिस्तु सम्बन्धमात्राभिप्रायेण्ö इति । तथा कम्बोजादिभ्य इति उत्तरस्यापत्यप्रत्ययस्याञः ʻकम्बोजाल्लुक् (४। १। १७५) इति लोपेऽपि प्रत्ययलक्षणन्यायेनापत्यप्रत्ययान्तत्वमेव ʻकम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम् (वा। ४। १। १७५) । कम्बोजः, कम्बोजी । चोलः, चोली इत्यादि ॥
द्विचतुः—जातिभेदाः । द्विचतुःषट्पदोरगाः द्विपदचतुष्पदषट्पदरूपजातिविशेषवाचकाः सर्पजातिविशेषवाचकाश्च शब्दाः स्त्रीपुंसयोर्वर्तन्त इत्यर्थः । क्रमेण यथा—मानुषः, मानुषी । कुक्कुटः, कुक्कुटी । मयूरः, मयूरी । मृगः, मृगी । शार्दूलः, शार्दूली । भ्रमरः, भ्रमरी । मधुकरः, मधुकरी । उरगः, उरगी । पन्नगः पन्नगी इत्यादि । द्विपदादिग्रहणं मत्स्यादीनामुपलक्षणम् । तेन मत्स्यः, मत्स्यी इत्याद्यपि द्रष्टव्यम् ।
पुमाख्याश्च स्त्रीयोगैः । पुंसः आचष्ट इति पुमाख्यः । अत्र सोपसर्गत्वाद् ʻआतोऽनुपसर्गे कḵ (३। २। ३) इति कप्रत्ययस्याभावः । ʻकर्मण्यणि (३। २। १) तु प्रकृतरूपसिद्धिः । तस्माद् मूलविभुजादिलक्षणः कप्रत्ययः, पुंसामाख्या इति वा (वा। ३। २। ५) । पुरोगत्वादिगुणविशिष्टपुरुषेष्वेव प्रयुक्तत्वाद् अत्र पुमाख्यशब्देन प्रष्ठमहामात्रगणका उच्यन्ते । सत्रीति भिन्नं पदम् । स्त्रीकर्तृयोगैः स्वस्वपुरुषसम्बन्धैः स्वस्वामिभावादिभिर्हेतुभूतैः पुमाख्याः, स्वस्वपुरुषाख्या लभते पुरुषे वर्तमानं प्रातिपदिकम् । तत्सम्बन्धायां स्त्रियामपि वर्तत इत्यर्थः । तथा चैकस्यैव लिङ्गद्वयवृत्तित्वमित्याशयः । यथा—प्रष्ठस्य भार्या प्रष्ठी । महामात्रस्य भार्या महामात्री । गणकस्य भार्या गणकी इत्यादि । तथा च जयादित्यः—ʻपुंयोगाद्धेतोः प्रातिपदिकं पुमांसमाख्याभूतं स्त्रियां वर्तते इति (काशिका १, पृ। २७३) । अत्र न्यासकारः—ʻयथैव ह्यसौ स्त्री तद्योगात् स्नानोद्वर्तनाभिषेकान् लभते तथैव ताच्छब्द्यमपि इति (पञ्जिका १, पृ। ८४९) यथा पुमाख्यास्तद्योगात् स्त्रीषु वर्तन्ते तथा ʻपुंयोगादाख्यायाम् (४। १। ४८) इति ङीष् । अन्यस्तु व्याचष्ट—ʻस्त्रीयोगैरित्यनन्तरस्य सहशब्दस्य पूर्वेण सम्बन्धः, पुमाख्याः प्रष्ठगणकमहामात्रेन्द्रवरुणशर्वाद्याः शब्दाः स्त्रीयोगैः सह स्त्रीणां पुंयोगनिमित्ताख्याभिः सह प्रष्ठी गणकी महामात्री इन्द्राणी वरुणानी शर्वाणी इत्यादिभिः सह स्त्रीपुंसयोर्वर्तन्ते इति । अत्र पूर्वापरानुसन्धानरहितः कश्चिद् व्याचष्ट—प्रष्ठजवनमहामात्राद्या अजातिवाचकाः शब्दाः स्त्रीणां पुरोगत्वशीघ्रत्वादिगुणयोगैः हेतुभिः स्त्रीष्वपि वर्तमानाः स्त्रियां पुंसि च वर्तन्ते । यथा—प्रष्ठः पुरुषः, प्रष्ठा स्त्री । जवनः पुरुषः, जवना स्त्री इत्याद्यूहनीयम् इति । तदसङ्गतम् । ʻउक्ता भूरिप्रयोगत्वात् (१, पृ। ६४७) इत्यत्रैव सकलयौगिकशब्दानां लिङ्गनिर्णयस्योक्तत्वाद् यौगिकशब्दानां लिङ्गत्रयवृत्तित्वेन स्त्रीपुंसप्रकरणानुपपत्तेश्च इत्यलमतिप्रसङ्गेन ॥
अथ कांश्चित् स्त्रीपुंसलिङ्गान् स्वरूपेणाह—सहमल्लक इति । मल्लकेन सह वर्तते इति सहमल्लकः ॥ ३७ ॥
मल्लि-नाथः - AK.03.05.037
स्त्रीपुंसयोरपत्यान्ताः । स्त्रीपुंसयोरिति आकुटीशब्दमधिकारः । अपत्यप्रत्ययान्ताः शब्दाः स्त्रीपुंसलिङ्गाः । औपगवः, औपगवी ॥ द्विचतुःषट्पदोरगाः । एते स्त्रीपुंसलिङ्गाः । कुक्कुटः कुक्कुटी । गर्दभः गर्दभी । भ्रमरः, भ्रमरी । सर्पः, सर्पी । जातिभेदाः । एते स्त्रीपुंसलिङ्गाः । ब्राह्मणः, ब्राह्मणी ॥ पुमाख्याश्च स्त्रीयोगैः सह । स्त्रीयोगैः सार्धं पुमाख्याः स्त्रीपुंसलिङ्गाः । इन्द्रः, इन्द्राणी ॥ मल्लकः । मल्लकादयः स्त्रीपुंसलिङ्गाः । मल्लः, मल्ली । ʻमल्लो मल्ली च कोशिका’ इति वैजयन्ती (पृ। १६३, श्लो। ५७) ॥ ३७ ॥
[[०५.७३६]]
मूलम् - ०३.०५.०३८
अक्।०३.०५.०३८अब् मुनिर्वराटकः स्वातिर्वल्लको झाटलिर्मनुः ।
अक्।०३.०५.०३८च्द् मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी ॥ ३८ ॥
इति स्त्रीपुंलिङ्गशेषप्रकरणम्
लिङ्ग-सूरी - AK.03.05.038
मुनिर्वराटकः—कटी कुटी । एते शब्दाः स्त्रीपुंसलिङ्गाः । अयं मुनिः तपस्वी । इयं मुनिः । वराटकः, वराटिका पद्मकोशः । स्वातिः, स्वाती नक्षत्रभेदः । वल्लकः, वल्लकी वीणा । झाटलिः, झाटली वृक्षभेदः । अयं मनुः इयं मनुः, स्वायम्भुवः तस्य पत्नी च । मूषः, मूषा च धातुद्रवीकरणपात्री । सृपाटः, सृपाटी सरित् । अयं कर्कन्धूः, इयं कर्कन्धूः वदरी । अयं यष्टिः, इयं यष्टिः दण्डः । शाटः, शाटी वस्त्रम् । कटः, कटी च श्रोणी । कुटः, कुटी च पर्णशाला ॥ ३८ ॥
इति स्त्रीपुंलिङ्गशेषप्रकरणम्
योनिर्वराटकः—कटी कुटी । योनिशब्दः स्त्रीपुंसयोरित्यर्थः । सहशब्दस्य पूर्ववाक्यशेषत्वपक्षे मल्लक इति पदं दीपभाजनम् । मल्लिका च । योनिः स्त्रीपुंसयोर्व्यञ्जनम् । वराटः कपर्दिकायाम्, पद्मकोशे च । स्त्रियां तु वराटिका । स्वातिर्नक्षत्रविशेषः । स्वाती च । वल्लको वीणा, वल्लकी च । वर्णक इति पाठे नील्यादिलेपनद्रव्यम्, वर्णिका च । झाटलिर्वृक्षविशेषः । स्त्रियां झाटली च । अयं मुनिर्वाचंयमः । इयं मुनिः । मनुरिति पाठे मनुष्याणामाद्यभूता स्त्री पुरुषो वा मनुशब्दार्थः । अयं मनुः । इयं मनुः । मूषः स्वर्णादिविलेपनपात्रम् । अजादित्वात् टापि मूषा च । सृपाटिशब्दोऽप्रसिद्धार्थ इति सुबोधिनी । परिमाणविशेष इति सुभूतिः । असिधारा इत्यन्ये । सरिदित्यपरे । स्त्रियां तु ङीषि गौरादिपाठे सृपाटी । इयमयं वा कर्कन्धूः बदरी । इयमयं वा यष्टिर्दण्डः । शाटोऽल्पवस्त्रम् । शाटी च । कटः श्रोणी कटी च । कुटोऽल्पगृहम् । कुटी च ।
ʻस्त्रीपुंसयोरशन्यूर्मियोनिश्रोणिमरीचयः ।
इषुर्धरणिकर्कन्धूवस्तिशाल्मलिमृत्यवः ।
मणिबाणशाटयष्टित्रुटिकीटकुटीषवः ॥
इत्यादि ॥ ३८॥
इति स्त्रीपुंसशेषप्रकरणम्
मल्लि-नाथः - AK.03.05.038
मुनिर्वराटकः—कटी कुटी । मुनिर्गतार्थः (१, पृ। ४७४) । वराटकः कपर्दः । ʻकपर्दस्तु वराटकḵ इति वैजयन्ती (पृ। १५२, श्लो। ५७) । स्वातिरिति नक्षत्रम् । भल्लको बाणः । ʻभल्लो भल्ली च बाणे स्यात् इति विश्वः (पृ। १५१, श्लो। ३०) । पुनः पाठः मतान्तराङ्गीकारार्थः । तेनेतरत्राभिहिताः शब्दाश्चाङ्गीकृताः ।
ʻशाटी रेणुहरेणूरुजलूकाकोलिधूलयः
उत्कण्ठा कङ्कती कन्दूर्वितस्ती रयिरञ्जलिः ॥
इति वैजयन्ती (पृ। २९१, श्लो। २६-७) ।
ʻतिथिमणिधृणिकेलीशाल्मलीस्वातिवस्ती-
रशनिमुनिगभस्तीराशियोन्यूर्मिवार्ष्णीः
विरणिमणिमरीचिश्रेण्यणिर्मुष्टियष्टीः
कुटिमिषुधिमवीचीं पाटलीं पुंसि चाहुः ॥
इति रभसकोशः । झाटिलिः कुञ्जः । ʻअनिपाद्ö । मनुर्देवता । मूषाशब्दो गतार्थः (१, पृ। ६४०) । सृपाटी तुण्डम् । ʻचञ्चुस्त्रोटिः सृपाटिका’ इति वैजयन्ती (पृ। ३०, श्लो। ५०) । कर्कन्धूर्गतार्थः (१। पृ। २३७) । यष्टिरनेकार्थः । यष्टिर्हारलताशस्त्रभेदयोर्ध्वजदण्डके इति विश्वः (पृ। ३७, श्लो। २३) । शाटीकटीकुटीशब्दाः शाटककटकुटार्थकाः ॥ ३८ ॥
इति स्त्रीपुंलिङ्गशेषः
[[०५.७३८]]
अथ स्त्रीनपुंसकशेषप्रकरणम्—
मूलम् - ०३.०५.०३९
अक्।०३.०५.०३९अब् स्त्रीनपुंसकयोर्भावक्रिययोः ष्यञ् क्वचिच्च वुञ् ।
अक्।०३.०५.०३९च्द् औचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः ॥ ३९ ॥
लिङ्ग-सूरी - AK.03.05.039
स्त्रीनपुंसक—क्वचिच्च वुञ् । शब्दप्रवृत्तिनिमित्तो भावः, क्रिया व्यापारः । तयोर्भावकर्मणोरन्यतरार्थे वर्तमानः ष्यञ्प्रत्ययान्तो वुञ्प्रत्ययान्तश्च स्त्रीनपुंसकयोर्वर्तते । क्वचित् प्रत्यययोगानुसारेण स्त्रियां वर्तते । अत्रोदाहरणानि दर्शयति—औचित्यमौचिती—प्रागुदाहृतः । ष्यञ्प्रत्ययान्तो यथा—उचितस्य भावः कर्म वा औचित्यम्, औचिती च । एवं मैत्र्यं मैत्री । वुञ् प्रत्ययान्तस्तु प्राग् वैरमैथुनिकादिवुन् (पृ। ६५८, श्लो। ४) इत्यत्रोदाहृतः ॥ ३९ ॥
स्त्रीनपुंसक—क्वचिच्च वुञ् । त्रिलिङ्गशेषावधितया (श्लो। ४२) अधिकारो वेदितव्यः । भावकर्मणोः ष्यञ्, क्वचिच्च वुञ् । भावः शब्दप्रवृत्तिनिमित्तभूतो वस्तुधर्मः । क्रिया कर्मव्यापार इत्यर्थः । ʻतस्य भावस्त्वतलü (५। १। ११९) इत्यतो भाव इति वर्तमाने, ʻवर्णदृढादिभ्यः ष्यञ् च्ö (५। १। १२३) इत्यतो भावे ष्यञ् । ʻगुणवचनब्राह्मणादिभ्यः कर्मणि च्ö (५। १। १२४) इति भावकर्मणोः ष्यञ् भावकर्माधिकारे; ʻयोपधाद् गुरूपोत्तमाद् वुञ् (५। १। १२३), ʻद्वन्द्वमनोज्ञादिभ्यश्च्ö (५। १। १३३) इति भावकर्मणोः वुञ्प्रत्ययान्ताश्च शब्दाः स्त्रीनपुंसकलिङ्गा भवन्ति । क्वचिदिति विशेषणमसाकल्यार्थम् । ततश्च उचितादिसम्बन्धिनोरेव ष्यञ्वुञ्प्रत्यययोरुभयलिङ्गत्वम् । न तु शुक्लादिसम्बन्धिनोरपीति प्रयोगानुसारेण विज्ञेयमित्यर्थः ।
स्वयमेवोदाहरति—औचित्यमौचिती मैत्र्यं मैत्री । उचितशब्दाद् गुणवचनाद् भावकर्मणोरर्थयोः ष्यञ्प्रत्यये औचित्यम् । स्त्रीविवक्षायां तु षित्वाद् ङीष्प्रत्यये भसञ्ज्ञायामकारयकारयोर्लोपे औचिती । मित्रशब्दाद् ब्राह्मणादिष्यञि पूर्ववदेव मैत्र्यं मैत्री इति रूपद्वयम् ॥ वुञ् प्रागुदाहृतः । पूर्वं मानुष्यकराजन्यकादिशब्दा (२, पृ।२१७; १, पृ। ४८५) समूहार्थे बुञन्ताः, तत्तत्प्रस्तावेषु दर्शिताः । तद्वदेव भावकर्मणोरपि योपधादिभ्यो बुञ् ऊहितुं शक्य इति उदाहृत इत्युक्तम् । उदाहृत इति उदाहृतप्राय इत्यर्थः । अथवा—आहोपुरुषिकाचौरिकादिशब्दानां (१, पृ। ५४३, ६३५) मनोज्ञादिपठितानामुक्तत्वाद् (५। १। १३३) उदाहृत इत्यक्तेर्न विरोधः । अथवा स्त्रीलिङ्गशेषे ʻवैरमैथुनिकादिवुन् (पृ। ६५८, श्लो। ४) इत्यत्र वुन्ग्रहणस्योपलक्षणत्वेन व्याख्यानाद् वुञ्प्रत्ययान्ताः केवलस्त्रीलिङ्गा दर्शिताः । नपुंसकशेषप्रकरणे तु—ʻसमूहे भावकर्मणोरदन्तप्रत्ययाḵ (पृ। ७२०, श्लो। २९) इति वाक्येन वुञ्प्रत्ययोऽपि सामान्येन नपुंसकलिङ्ग उक्तः । अतो वुञ्प्रत्ययान्तस्य स्त्रीनपुंसकयोरुभयलिङ्गत्वं क्वाचित्कमिति प्रकटयितुं ʻवुञ् प्रागुदाहृतḵ इत्युक्तम् । क्वचित्तु स्त्रीलिङ्गत्वेन, क्वचिच्च नपुंसकलिङ्गत्वेनोदाहृतः इत्यर्थः ॥
इह ष्यञन्तवुञन्तशब्दयोर्मध्ये केषामुभयलिङ्गत्वम्, केषां केवलस्त्रीलिङ्गत्वम् केषां नपुंसकलिङ्गत्वमिति जिज्ञासायां क्वचिच्छब्दसञ्जातशङ्कां वारयितुं स्वयं शेषकार आह—
ʻस्यादौचित्यं मैत्र्यं शैल्यानुपूर्व्यवैदग्ध्यसामग्र्यम् ।
चातुर्यं वाणिज्यं पारिख्यात्यमपि सामाचार्यम् ॥
वैदुष्यं मौखर्यं याथाकाम्यार्हन्त्यसाहित्यम् ।
स्यादौचिती च मैत्री च शैल्यानुपूर्वी च वैदग्धी ॥
स्यात् सामग्री चातुरी स्याद् वाणिजी पारिख्यात्यपि ।
सामाचारी वैदुषी च याथाकामी च मौखरी ॥
आर्हन्ती साहितीति स्युरिति पञ्चदश ष्यञि ।
स्त्रीनपुंसकयोरेवं चौरिका चौरिकं तथा ॥
धौर्तकं धौर्तिका शारपत्रिका शारपत्रकम् ।
कौलपुत्रिका कौलपुत्रकमेते स्त्रियां नपि ॥
आहोपुरुषिका च स्यादामुष्यकुलिका तथा ।
आमुष्युपुत्रिका चादोरूपिका वैश्वदेविका ॥
कुमारिका पुत्रिका च कुलिका च कुलालिका ।
षण्डिका चेति पञ्च स्युर्ग्रामशब्दात् परे स्त्रियाम् ॥
परिशिष्टं मनज्ञादौ नपुंसकमिति स्थितिः ॥
इति । अस्यार्थः—उचितस्य भावः कर्म वा औचित्यम् । स्त्रीत्वविवक्षायां ङीषि औचिती । एवं मैत्र्यं मैत्री । शीलमस्यास्तीति शीलः । अर्शआदिभ्योऽच् । शीलस्य भावः कर्म वा शैल्यम्, शैली । ʻइयमाचार्याणां शैली इति पञ्चपादिकायां प्रयोगः । पूर्वं पूर्वं सङ्गताः अनुपूर्वाः । तेषां भावः आनुपूर्व्यम्, आनुपूर्वी च । विदग्धस्य भावः कर्म वा वैदग्ध्यम्, वैदग्धी च । समग्रस्य भावः कर्म वा सामग्र्यम् सामग्री च । चतुरशब्दात् चातुर्यं चातुरी च । वणिजो भावः कर्म वा वाणिज्यम् वाणिज्या च । स्त्रियां तु अजादित्वात् टाबिति वामनः । परितः ख्यातः परिख्यातः । तस्य भावः कर्म वा पारिख्यात्यम् । पारिख्याती च । सम्यग् आचारो यस्य सः समाचारः । तस्य भावः कर्म वा सामाचार्यम्, सामाचारी च । विदुषो भावः कर्म वा वैदुष्यम्, वैदुषी च । मुखरो वाचालः, तस्य भावः कर्म वा मौखर्यम्, मौखरी च । यथाभूतः कामो यस्य यथाकामः । ततो याथाकाम्यम्, याथाकामी च । अर्हन् पूज्यः । तस्य भावः कर्म वा आर्हन्त्यम्, आर्हन्ती च । सहितयोः शब्दार्थयोरन्वययोः भावः साहित्यम्, साहिती च । एते पञ्चदशशब्दाः ष्यञन्ताः भावकर्मणोः स्त्रीपुंसकयोर्वर्तन्ते । ततोऽन्ये ब्राह्मण्यम्, शौक्ल्यम्, दार्ढ्यम्, जाड्यम्, शैत्यमित्यादयो नपुंसकलिङ्गा एव ।
अथ वुञ् । चोरस्य भावः कर्म वा चौरिका, चौरिकं च । धूर्तशब्दात् कितववचनाद् धौर्तिका, धौर्तकं च । शरपत्रशब्दात् शारपत्रिका, शारपत्रकं च । कुलपुत्रशब्दात् कौलपुत्रिका, कौलपुत्रकम् । एते वुञन्ताः चत्वारः शब्दाः स्त्रीनपुंसकयोर्भवन्ति । अमुष्य पुत्रस्य भावः करम वा आमुष्यपुत्रिका । ʻआमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति चालुग्वक्तव्यḵ (वा। ६। ३। २१) इत्यलुक् ॥
आदोरूपिकाशब्दः प्रशस्तवचनः इति गणकारः । वैश्वदेवशब्दाद् वैश्वदेविका । कुमारिकादयस्तु पञ्चशब्दा ग्रामशब्दात् परभूता एवेति नियमः । यथा—ग्रामकुमारस्य भावः कर्म वा ग्रामकुमारिका । एवं ग्रामपुत्रिका, ग्रामकुलालिका इति । षण्डो वृषः । ग्रामषण्डिका, आमुष्यपुत्रिकादयः त्रयः, ग्रामशब्दोत्तरः पञ्च इत्येवमष्टौ शब्दा वुञन्ताः स्त्रियामेवेति नियमः । मनोज्ञादिगणपठिता अवशिष्टाः सर्वे वुञन्ता नपुंसकलिङ्ग एव । यथा मानोज्ञकमित्यादि । चातुर्वर्ण्यादौ अर्थान्तरे ष्यञि लिङ्गनियमनिवृत्त्यर्थं भावकर्मणोरित्युक्तम् ॥
मल्लि-नाथः - AK.03.05.039
स्त्रीनपुंसक—क्वचिच्च वुञ् । एतौ प्रत्ययान्तौ स्त्रीनपुंसकलिङ्गौ ॥ औचित्यं—मैत्र्यम् । एवं पाण्डित्यम्, पाण्डिती । साहित्यम्, साहिती । एतानि ष्यञ उदारहणानि ॥ बुञ् प्रागुदाहृतः । ʻवृद्धसङ्घेऽपि वार्द्धकम् (१, पृ। ३८५) इति क्वचिद्ग्रहणात् स्त्रीलिङ्गो न भवति । ʻचौरिका स्तैन्यचौर्ये च्ö (१, पृ। ६३५) इति क्वचिद्ग्रहणाद् नपुंसकं न भवति । भैषज्यानन्त्यावसथ्यैतिह्यशब्दा यदि स्त्रियाम्, सूरजादौ द्रष्टव्या इति शाकटायनमते । एते स्त्रीनपुंसकलिङ्गाः । भेषजमेव भैषज्यम्, भैषज्या वा । भिषज्यमिति कण्ड्वादिः ॥ ३९ ॥
[[०५.७४२ ]]
मूलम् - ०३.०५.०४०
अक्।०३.०५.०४०अब् षष्ट्यन्तप्राक्पदाः सेनाच्छायाशालासुरानिशाः ।
अक्।०३.०५.०४०च्द् स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक् ॥ ४० ॥
लिङ्ग-सूरी - AK.03.05.040
षष्ठ्यन्तप्राक्पदाः—स्युर्वा । अत्र वाशब्दः स्त्रीलिङ्गोदाहारणसमुच्चयार्थः । षष्ठ्यन्तपूर्वपदाः छायाशालासुरासेनानिशा इत्येते शब्दा वा स्त्रीनपुंसकयोः स्युः । अत्रोदाहरणानि स्वयमेव दर्शयति—नृसेनं—इतरे च दिक् । नृणां सेना नृसेनम्, नृसेना । एवं श्वनिशम्, स्वनिशा । गोशालम्, गोशाला । इतरे च दिक् । इतरे च छायासुरे अपि दिक् उदाहार्ये । वृक्षच्छायम्, वृक्षच्छाया । यवसुरम्, यवसुरा ॥ ४० ॥
षष्ठ्यन्तप्राक्पदाः—इतरे च दिक् । षष्ठीतत्पुरुषसमासे उत्तरपदभूताः सेनादयः पञ्च शब्दाः स्त्रीनपुंसकयोरित्यर्थः । स्वयमेवोदाहरति—स्यादिति । वा विकल्पेन निर्दिष्टाः । तदभावपक्षे स्त्रीलिङ्गान्ताः । इतरे छायासुरान्ताः शब्दाश्च दिक् उदाहरणानि भवन्तीत्यर्थः । नृणां सेना नृसेनम्, नृसेना च । शुनो निशा श्वनिशम्, श्वनिशा च । यत्र श्वानः कस्याञ्चित् कृष्णचतुर्दश्यामुपवसन्ति तत् श्वनिशमिति क्वचित् प्रसिद्धिः । गवां शाला गोशालम्, गोशाला च । एवं वृक्षस्य छाया वृक्षच्छायम् । छायाया बहुद्रव्यसम्बन्धित्वे विच्छायमिति केवलनपुंसकत्वं प्रागुक्तम् (श्लो। २६) । तदन्यसबन्धित्वे तूभयलिङ्गत्वमत्रोच्यत इति न विरोधः । तथा गुडस्य सुरा गुडसुरम्, गुडसुरा । एवमेव कपिसेनम्, कपिसेना । शिवनिशम्, शिवनिशा । अश्वशालम्, अश्वशाला । यवसुरम्, यवसुरा इत्यादिकमप्युदाहार्यमिति दिक्पदेन सूचितम् । ʻविभाषा सेनासुराच्छायाशालानिशानाम् (२। ४। २५) इति सूत्रमूलमेतत् ॥ ४० ॥
मल्लि-नाथः - AK.03.05.040
षष्ठ्यन्तप्राक्पदाः—स्याद्वा । षष्ठ्यन्तपूर्वपदाः सेनादयः स्त्रीनपुंसकलिङ्गाः । नृसेनम्—इतरे च दिक् । नृसेनादीनि तदुदाहरणानि । नृणां सेना नृसेनम् । वाग्रहणाद् नृसेना । एवमन्येऽपि ॥ ४० ॥
[[०५.७४३]]
मूलम् - ०३.०५.०४१
अक्।०३.०५.०४१अब् आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् ।
अक्।०३.०५.०४१च्द् त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि ॥ ४१ ॥
इति स्त्रीनपुंसकलिङ्गशेषः
लिङ्ग-सूरी - AK.03.05.041
आवन्नन्तोत्तर—नश्च लुप् । आबन्तोत्तरपदोऽन्नन्तोत्तरपदश्च द्विगुः द्विगुसमासः अपुंसि स्त्रिनपुंसकयोर्वर्तते । नश्च उत्तरपदस्थनकारस्य च लुप् लोपो भवति । उदाहरणानि स्वयमेव दर्शयति । त्रिखट्वं—त्रितक्ष्यपि । तिसृणां खट्वानां समाहारः त्रिखट्वम् । त्रिखट्वी च । त्रयाणां तक्ष्णां समाहारः त्रितक्षम्, त्रितक्षी च ॥ ४१ ॥
इति स्त्रीनपुंसकशेषप्रकरणम्
आबन्नन्तोत्तर—नश्च लुप् । अत्र आब् ग्रहणेन लोप एव ग्रहणम् । ʻअनो नलोपश्च वा द्विगुः स्त्रियाम् (वा। २। ४। १७) इत्येतन्मूलत्वाद् अस्य विधेराबन्तोत्तरपदो द्विगुसमासः, अन्नन्तशब्दोत्तरपदश्च समाहारद्विगुः अपुंसि स्त्रिनपुंसकयोर्भवति । अन्नन्तोत्तरपदस्य यो नकारः तस्य लोपो भवति । तेन लोपविधानं लिङ्गशास्त्रे यद्यपि न वक्तव्यम्, तथापि, अस्य लिङ्गविधेः ʻअनो नलोपश्च वा द्विगुः स्त्रियाम् इति वक्तव्यमूलत्वप्रत्यभिज्ञानार्थमिति ज्ञेयम् । अपुंसि इत्यधिकृतस्यैवानुवादो वृत्तानुसारेण पादपूरणार्थ इति ॥ द्विविधस्यापि द्विगोरुदाहरणे स्वयमेव दर्शयति त्रिखट्वम्—त्रितक्ष्यपीति । तिसृणां खट्वानां समाहारः त्रिखट्वम् । ʻह्रस्वो नपुंसके प्रातिपदिकस्य्ö (१। २। ४७) इति ह्रस्वत्वम् । स्त्रित्वविवक्षायां ʻद्विगोḵ (४। १। २१) ङीपि त्रिखट्वी । त्रयाणां तक्ष्णां समाहारः त्रितक्षम् त्रितक्षी इति । दिङ्मात्रमेतत् । तेन दशमालम्, दशमाली । पञ्चकर्म, पञ्चकर्मी इत्याद्यप्युदाहरणीयम् ॥ ४१ ॥
इति स्त्रीनपुंसकलिङ्गशेषः
मल्लि-नाथः - AK.03.05.041
आबन्नन्तोत्तर—नश्च लुक् । आबन्तोत्तरपदः आबन्त उत्तरपदः अन्नन्तोत्तरपदश्च द्विगुः अपुंसि स्त्रीनपुंसकलिङ्गः ॥ त्रिखट्वं—त्रितक्ष्यपि । त्रिखट्वं त्रिखट्वी च इति द्वे आबन्तोदाहरणे । त्रितक्षं त्रितक्षी । एते द्वे अन्नन्तोदाहरणे । नश्च लुक् इत्यनेन अन नकारस्य लोपः ॥ ४१ ॥
इति स्त्रीनपुंसकलिङ्गशेषः
[[०५.७४४]]
अथ त्रिलिङ्गशेषः—
मूलम् - ०३.०५.०४२
अक्।०३.०५.०४२अब् त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ ।
लिङ्ग-सूरी - AK.03.05.042
त्रिषु पात्री—कुवलदाडिमौ । पात्रादयः शब्दाः त्रिषु लिङ्गषु वर्तन्ते । उदाहरणानि । पात्री पात्रः पात्रं भोजनसाधनम् । पुटी पुटः पुटमाच्छादनम् । वाटी वाटो वाटं शाकाद्युत्पत्तिस्थानम् । पेटी पेटः पेटं मञ्जूषा । कुवली कुवलः कुवलं बदरी । दाडिमी दाडिमः दाडिमं विदलम् ॥
इति त्रिलिङ्गशेषप्रकरणम्
त्रिषु पात्री—कुवलदाडिमौ । पात्रादयः षट् शब्दाः लिङ्गत्रयेऽपि भवन्ति । यथा—पात्रः पात्री पात्रम्, भाजनम् । पुटः पुटी पुटम्, पलाशपत्रादिरचितं द्रव्याधारपात्रम् । पट इति पाठे वस्त्रम् । ʻविस्तारयन्ति कुशलाश्चित्रां वाचं पटीमिव्ö इति माघकाव्ये (शिशु। २। ७४) । वाटः वाटी वाटम्, वृक्षाद्यावासस्थानम् । यथा—चूतवाटी, पुष्पवाटी इत्यादि । पङ्कितिवचनश्च, यथा—ब्राह्मणवाटी, विटपवाटी, विद्वद्वाटी इत्यादि । पेटः पेटी पेटम्, वस्त्रादिरक्षणार्थं दारुवेणुवेत्रादिनिर्मितं मञ्जूषाख्यम् । स्त्रियां तु गौरादित्वाद् ङीष् । कुवलदाडिमशब्दौ विशेषवाचिनौ स्त्रियां ङीबन्तौ । अजादिपाठाच्च पेटा इति टाबन्तोऽप्यस्ति ॥
इति त्रिलिङ्गशेषः
मल्लि-नाथः - AK.03.05.042
त्रिषु पात्री—कुवलदाडिमौ । पात्र्यादयः त्रिलिङ्गाः । पात्री पात्रः पात्रम् । पुटी पुटः पुटम् । पुटी पुष्पकरण्डः । ʻपुव्वुलकरेड्ü । ʻकरण्डी तु पुटी त्रयी इति वैजयन्ती (पृ। १३८, श्लो। ३३) । वाटी शाकाद्यारामः । ʻकूरगायलतोण्ट्ö । ʻपुष्पवाटी त्वमात्यादेस्त्रयी वाटी फलाय चेत् इति वैजयन्ती (पृ। ४५, श्लो। ४) पेटी पेटः पेटम्, पेटिका । ʻपेट्टि । कुवलं वदरम् । दाडिमी दाडिमः दाडिमम्, ʻदाडिम्वम् ॥
इति त्रिलिङ्गशेषः
[[०५.७४५]]
अक्।०३.०५.०४२च्द् परलिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥ ४२ ॥
लिङ्ग-सूरी - AK.03.05.042
परलिङ्गं—अपि तत् । अथ परलिङ्गप्रकरणम् । स्वप्रधाने द्वन्द्वे इतरेतरयोगद्वन्द्वसमासे तत्पुरुषसमासे च उत्तरपदस्य यल्लिङ्गं तद्भवति । द्वन्द्वस्योदाहरणानि—पारिवतीपरमेश्वरौ । जायापती । कुक्कुटमयूर्यौ । मयूरीकुक्कुटावित्यादि । तत्पुरुषे यथा—अर्धं पिप्पल्याः अर्धपिप्पली । अर्धं कोशातक्याः अर्धकोशातकी । वृक्षशाखेत्यादि ॥ ४२ ॥
इति परलिङ्गशेषप्रकरणम्
अनेकलिङ्गपदात्मकसमासरूपं प्रातिपदिकं किंलिङ्गकमिति जिज्ञासायामिदमारभ्यते—परलिङ्गं—तत्पुरुषेऽपि च । समाहारद्वन्द्वस्य नपुंसकलिङ्गत्वात् तद्व्यवच्छेदार्थं स्वप्रधान इत्युक्तम् । समाहारद्वन्द्वो हि समस्यमानपदार्थैः गम्यमानसमुदाये तात्पर्यान्न स्वप्रधानः । इतरेतरद्वन्द्वस्तु समस्यमानपदार्थेषु तात्पर्यात् स्वप्रधानः । तथाभूतद्वन्द्वे इतरेतरयोगलक्षणे तत्पुरुषसमासे च परस्य पदस्य यल्लिङ्गं तद् भवतीत्यर्थः । तदुक्तम्—ʻपरवल्लिङ्गं द्वन्द्वतत्पुरुषयोḵ (२। ४। २६) इति । यथा—पार्वतीपरमेश्वरौ । पृथिव्यप्तेजोवाय्वाकाशानि । कुक्कुटमयूर्यौ । मयूरीकुक्कुटाविमौ । तत्पुरुषे यथा—नीलं च तदुत्पलं च नीलोत्पलम् । मुखमेव चन्द्रो मुखचन्द्रः । ग्रामं प्राप्तः ग्रामप्राप्तः । शङ्कुलया खण्डः शङ्कुलाखण्डः । रुद्राय बलिः रुद्रवलिः । चोराद् भयं चोरभयम् । देवदत्तस्य कन्या देवदत्तकन्या । अर्धं पिप्पल्याः अर्धपिप्पली । अक्षेषु शौण्डः अक्षशौण्डः इत्यादि ॥ ४२ ॥
इति परलिङ्गप्रकरणम्
मल्लि-नाथः - AK.03.05.042
परलिङ्गं स्वप्रधाने द्वन्द्वे । इतरेतरयोगद्वन्द्वे परवल्लिङ्गं स्यात् । कुक्कुटमयूर्यौ । मयूरीकुक्कुटौ । तत्पुरुषेऽपि तत् । तत्पुरुषविशेषेऽपि तद्वत् इति परवल्लिङ्गः स्यात् । कुलविप्रः, विप्रकुलम् । स्वप्रधान इति वचनाद् अत्र न । पाणिपादमित्यादि ॥ ४२ ॥
इति परलिङ्गशेषः
[[०५.७४६]]
मूलम् - ०३.०५.०४३
अक्।०३.०५.०४३अब् अर्थान्ताः प्राद्यलम्प्राप्तापन्नपूर्वाः परोपगाः ।
अक्।०३.०५.०४३च्द् तद्धितार्थे द्विगुः सङ्ख्यासर्वनामतदन्तकाः ॥ ४३ ॥
लिङ्ग-सूरी - AK.03.05.043
अर्थान्ताः । अर्थशब्दान्ताः परोपगा वाच्यलिङ्गा भवन्ति । अर्थान्ता यथा—ब्राह्मणाय धनं ब्राह्मणार्थं धनम् । सन्तानाय विधिः । भटाय भटार्था भृतिः इत्यादि ॥ प्राद्यलम्प्राप्तापन्नपूर्वा परोपगाः । प्रादयश्च अलंशब्दश्च प्राप्तशब्दश्च आपन्नशब्दश्च येषां समासशब्दानां पूर्वपदानि भवन्ति ते परोपगाः विशेष्यनिघ्ना भवन्ति । प्रादिपूर्वा यथा—प्रगत आचार्यो यस्य प्राचार्यः । प्राचार्या नर्तकी । प्राचार्य शिष्यकुलम् । एवं कोकिलया अवशिष्टं अवकोकिलं पुष्पम् । अवकोकिला कलिका । अवकोकिलः कुड्मलः । परिश्रान्तोऽध्ययनाय पर्यध्ययनो माणवकः । पर्यध्ययना शिष्यसंहतिः । पर्यध्ययनं शिष्यकुलम् इत्यादि । अलम्पूर्वा यथा—अलं जीवनाय, अलञ्जीवनः कोशः । अलञ्जीवना भूः । अलञ्जीवनं धनमित्यादि ।प्राप्तपूर्वा यथा—प्राप्तो जीविकां प्राप्तजीविकः पुरुषः । प्राप्तजीविका स्त्री । प्राप्तजीविकं नटकुलमित्यादि । आपन्नपूर्वा यथा—आपन्नं सत्त्वमापन्नसत्त्वः । आपन्नसत्त्वा सिंही । आपन्नसत्त्वं भटकुलमित्यादि ॥
तद्धितार्थो द्विगुः । तद्धितार्थो द्विगुसमासः परोपगो भवति । अत्रोदाहरणानि—पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः, पञ्चकपाला, पञ्चकपालमित्यादि ॥ सङ्ख्यासर्वनामतदन्तकाः । सङ्ख्यावाचिनः शब्दाः परोपगा भवन्ति । एको घटः । एका शाटी । एकं मित्रमित्यादि । द्वौ कुचौ । द्वे स्त्रियौ । द्वे लोचने । त्रयः पुरुषाः । तिस्रः स्त्रियः । त्रीणि फलानि । चत्वारः समुद्राः । चतस्रो विद्याः । चत्वारि पदानि इत्यादि । सर्वनामशब्दाः सङ्ख्यान्ताः सर्वनामान्तशब्दाश्च परोपगा भवन्ति । उदाहरणानि—सर्वः पुमान् । सर्वा नारी । सर्वं जगत् । विश्वो जनः । विश्वा जनता । विश्वं कुलमित्यादि ॥ सङ्ख्यान्ता यथा—द्वित्राः पुरुषाः । द्वित्राः स्त्रियः । द्वित्राणि पदानि । एवं द्विचतुराः, त्रिचतुराः, पञ्चषाः इत्यादि । सर्वनामान्ता यथा—आभ्यामन्यः तदन्यः । तदन्या स्त्री । तदन्यं कुलमित्यादि ॥ ४३ ॥
अथ विशेष्यनिघ्नशेषः । अर्थान्ताः । अर्थशब्दोऽन्तो येषां चतुर्थीसमासान्ते अर्थान्ताः । अर्थशब्दान्ताः चतुर्थीसमासाः परोपगा इत्युत्तरवाक्यस्थं पदमेतत्प्रकरणस्थैः पूर्वोत्तरवाक्यैः यथायोगं सम्बध्यते । विशेष्यनिघ्ना इत्यर्थः । तदुक्तम्—ʻअर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या’ (वा। २। १। ३६) इति । यथा—ब्राह्मणार्थः सूपः । ब्राह्मणाय सूप इत्यर्थः । जलार्था वापी । जलार्थमुदपानमित्यादि ॥ प्राद्यलम्प्राप्तापन्नपूर्वाः परोपगाः । प्राद्यन्यतमोपसर्गपूर्वकाः, अलंशब्दपूर्वाः, प्राप्तपूर्वकाः, आपन्नपूर्वकाश्च परोपगा भवन्ति । अत्र परशब्देन श्रेष्ठवाचिनः प्रधानभूतं विशेष्यं विवक्षितम् । तेन च तल्लिङ्गं लक्ष्यते । परलिङ्गमुपगच्छन्तीति परोपगाः । विशेष्यवाचकशब्दानुसारिलिङ्गवचना इत्यर्थः । अथवा परशब्दोऽन्यार्थः । अन्याधीनलिङ्गाः, न तु स्वाधीनलिङ्गा इत्यर्थः । कस्यान्यस्य लिङ्गमनुसरतीत्याकाङ्क्षायां सन्निधिप्रयुक्तस्य स्वावच्छेद्यस्य विशेष्यस्यैवेत्यवगम्यते । क्रमेणोदाहरणानि—अतिक्रान्तः खट्वाम् अतिखट्वः पुरुषः । अतिखट्वा स्त्री । अतिखट्वं कलत्रमिति । ʻअत्यादयः क्रान्ताद्यर्थे द्वितीयया’ (वा। २। २। १८) इति समासः । अवकृष्टः कोकिलया अवकोकिलः पुष्पस्तबकः । अवकोकिला मञ्जरी । अवकोकिलं फलम् इत्यादि । ʻअवादयः कृष्टाद्यर्थे तृतीयया’ (वा। २। २ १८) इति समासः । परिश्रान्तोऽध्ययनाय पर्यध्ययनो माणवकः । पर्यध्ययना वटुसंहतिः । पर्यध्ययनं कठवृन्दम् इति । ʻपर्यादयो ग्लानाद्यर्थे चतुर्थ्य्ȫ (वा। २। २। १८) इति समासः । निष्क्रान्तो ग्रामाद् निर्ग्रामः पशुगणः । निर्ग्रामा सेना । निर्ग्राममजाविकुलम् । प्रच्युतः आचारात् प्राचारो ब्राह्मण इति । ʻनिरादयः क्रान्ताद्यर्थे पञ्चम्या (वा। २। २। १८) इति समासः । अलं जीविकायै अलञ्जीविको ग्रामः । अलञ्जीविका भूमिः । अलञ्जीविकं धनमित्यादि । आकृतिगणत्वेन अलं शब्दस्य पर्यादिष्वनुप्रवेशात् ʻपर्यादयः ग्लानाद्यर्थे चतुर्थ्य्ȫ (वा। २। २। १८) इति समासः । प्राप्तो धनं प्राप्तधनः पुत्रः । प्राप्तं गर्भं प्राप्तगर्भा पत्नी । प्राप्तं धनं प्राप्तधनं विप्रवृन्दम् । आपन्नो ग्राममापन्नग्रामः पुरुषः । आपन्नग्रामा स्त्री । आपन्नग्रामं कलत्रम् इत्यादि । ʻप्राप्तापन्ने च द्वितीयय्ȫ (२। २। ४) इत्युभयत्र समासः ॥
तद्धितार्थे द्विगुः । परोपग इति वचनविपरिणामेनानुषज्यते । ʻतद्धितार्थोत्तरपदसमाहारे च्ö (२। १। ५१) इति सूत्रेण सङ्ख्यावाचिशब्दानां समानाधिकरणेन यो द्विगुसमासः तद्धितार्थे विषयभूते तद्धितप्रत्यये कर्तव्ये सति विशेष्यनिघ्न इत्यर्थः । यथा—पञ्चकपालः पुरोडाशः । एककपालं हविरित्यादि । अत्रोत्पन्नस्य तद्धितस्य ʻद्विगोर्लुगनपत्ये (४। १। ८८) इति लुकि कृते द्विगारणाद्यन्ताभावात् तस्य परोपगत्वं न स्यात् इति शङ्कां वारयितुमिदमारब्धम् । अर्थान्तरविहितद्विगोः परोगत्वाभावात् तद्धितार्थ इत्युक्तम् ॥
सङ्ख्यासर्वनामतदन्तकाः । सङ्ख्यावाचिनः शब्दाः, सङ्ख्यान्तशब्दाः, सर्वनामशब्दाः, सर्वनामान्तशब्दाश्च इति चतुर्विधाः परोपगा इति सम्बन्धः । अत्र सङ्ख्यावाचिनां मध्ये ʻतासु चाववतेः स्त्रियḵ (१, पृ। ६०३) इति विंशत्यादीनां स्त्रीलिङ्गत्वमुक्तं वैश्यवर्गे । शतादीनां त्वत्रैव वर्गे ʻकोट्याः शतादिः सङ्ख्यान्य्ȫ (पृ। ७०८, श्लो। २४) इत्यादिना नपुंसकत्वमुक्तम् । अतोऽत्र सङ्ख्याशब्देन एकाद्या अष्टाविंशान्ता बहुशब्दश्च गृह्यन्ते । ननु—अत्रापि ʻषट्सञ्ज्ञकास्त्रिषु सम्ȫ (श्लो। ४६) इति पञ्चन्नादीनामष्टादशान्तानां त्रिलिङ्गत्वावगमात् प्रकृते सङ्ख्याशब्देन एकादिचतुरन्तानामेव ग्रहणमिति वाच्यम् । पञ्चन्नादीनां तत्प्रायपठिततिङव्ययसाधारण्याद् अलिङ्गत्वप्रतिपादनमात्रेणापि वक्ष्यमाणवाक्यार्थपर्यवसानस्य वक्तुं शक्यत्वात् । तर्हि ʻसङ्ख्याः सङ्ख्येये ह्यादश त्रिष्ü (१, पृ। ६०२) इत्यनेन पौनरुक्त्यं स्यादिति चेत् सत्यम् । तत्रैकादिसङ्ख्यानां त्रिलिङ्गत्वमात्रमुक्तम् । न तु परोपगत्वमिति । तच्च त्रिलिङ्गम् । तटमण्डलादिशब्दवदाविष्टलिङ्गत्वेनाप्युपपद्यत इति परोपगत्वमिदानीमुच्यत इति सर्व सुस्थम् ॥
सङ्ख्याशब्दे यथा—एको घटः । एका वापी । एकं गृहम् । द्वौ घटौ । द्वे जाये । त्रयो लोकाः । तिस्र आहुतयः । त्रीणि सवनानि । चत्वार ऋत्विजः । चतस्रो दिशः । चत्वारि कृष्णलानि इत्यादि । सर्वनामशब्दाः द्विविधाः सर्वादयः प्रथमचरमादयश्च इति । तत्राद्या यथा—सर्वे जनाः । सर्वा पृथिवी । सर्वं जगत् । विश्वे देवाः । विश्वा आशाः । विश्वानि भुवनानि । प्रथमः सर्गः । प्रथमा सृष्टिः । प्रथमं कलत्रम् । पूर्वः पुरुषः । स्वं कलत्रम् इत्यादि । सङ्ख्यान्ता यथा—परमैकः पुरुषः । परमत्रयो नराः । परमतिस्रो नार्यः इति । सर्वनामान्ता यथा—परमसर्वः पुमान् । परमसर्वा नारी । परमसर्वं कुलमित्यादि ॥ ४३ ॥
मल्लि-नाथः - AK.03.05.043
अर्थान्ताः—परोपगाः । अर्थान्ताश्च प्रादिप्रभृतिपूर्वकाश्च वाच्यलिङ्गाः स्युः । अर्थान्तानां यथा—ब्राह्मणाय ब्राह्मणार्था यवागूः । ब्राह्मणार्थः सूपः । ब्राह्मणार्थं भक्ष्यम् । प्रादिप्रभृतिपूर्वकाणां यथा—प्रगत आचार्योऽस्याः प्राचार्या । अतिक्रान्तः खट्वाम् अतिखट्वः । अलं जीविकायै अलञ्जीविकः । प्राप्तजीविकः । आपन्नो जीविकामापन्नजीविकः इत्यादि ॥ तद्धितार्थे द्विगुः । तद्धितार्थद्विगुर्वाच्यलिङ्गः । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । पञ्चकपाला अपूपिका ॥ सङ्ख्यासर्वनामतदन्तकाः । सङ्ख्याश्च सर्वनामानि च सङ्ख्यासर्वनामान्ताश्च वाच्यलिङ्गाः । सङ्ख्यायां यथा—एका, एकः, एकम् । सर्वनाम्नो यथा—सा, सः, तत् । तदन्तानां यथा—ऊनास्तिस्रो यासां ताः ऊनतिस्रः, ऊनत्रयः । सर्वनामान्ता यथा—एकामतिक्रान्तः अत्येकः, अत्येका, अत्येकम्; द्वाभ्यामन्या द्व्यन्या, द्व्यन्यः, द्व्यन्यमित्यादि ॥ ४३ ॥
[[०५.७५०]]
मूलम् - ०३.०५.०४४
अक्।०३.०५.०४४अब् बहुव्रीहिरदिग्नाम्नामुन्नेयं तदुदाहृतम् ।
अक्।०३.०५.०४४च्द् गुणद्रव्यक्रियायोगोपाधयः परगामिनः ॥ ४४ ॥
लिङ्ग-सूरी - AK.03.05.044
बहुव्रीहिरदिग्नाम्नाम् । दिङ्नामव्यतिरिक्तानां शब्दानां यो बहुव्रीहिसमासः स परोपगो भवति । अत्रोदाहरणानि—चित्रः पटो यस्य चित्रपटो जनः । चित्रपटा सेना । चित्रपटं सद इत्यादि ॥ उन्नेयं तदुदाहृतम् । शेषाणाम् ʻअर्थान्ताḵ इत्यादीनामेतदन्तानामुदाहरणमुन्नेयम् । गुणद्रव्य—परगामिनः । गुणश्च द्रव्यं च क्रिया च तेषां योगः सम्बन्धः, स एवोपाधिर्येषां शब्दानां ते शब्दाः परगामिनो वाच्यलिङ्गा भवन्ति । गुणयोगोपाधयो यथा—शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रमित्यादि । द्रव्ययोगोपाधयो यथा—दण्डी पुरुषः । दण्डिनी स्त्री । दण्डि सैन्यमित्यादि । क्रियायोगोपाधयो यथा—पाचकः पुरुषः । पाचिका स्त्री । पाचकं कुलमित्यादि ॥ ४४ ॥
बहुव्रीहिरदिङ्नाम्नाम् । अदिङ्नाम्नां दिङ्नामव्यतिरिक्तानां यो बहुव्रीहिः स परोपगो भवति । चित्रः पटो यस्य सः चित्रपटः पुरुषः । चित्रपटा सेना । चित्रपटं कलत्रम् । वीरपुरुषो ग्रामः । वीरपुरुषं पुरम् । कण्ठे कालो यस्य कण्ठेकालः । कण्ठेकाला मूर्तिरित्यादि । ʻअनेकमन्यपदार्थे (२। २। २४) इति बहुव्रीहिसमासः । अदिङ्नाम्नामिति किम्? दक्षिणपूर्वा । दक्षिणपरा । उत्तरपूर्वा । उत्तरपरा इत्यादि । अत्र ʻदिङ्नामान्यन्तराले (२। २। २६) इति सूत्रेण अवान्तरदिशि वाच्ये बहुव्रीहिविधानाद् अवान्तरदिशां च केवलस्त्रीलिङ्गवाच्यत्वेन चित्रपटादिवत् परोपगनिवृत्त्यर्थम् । अत एव काशिकाकारेण (१। पृ। १०७)—ʻदक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा दिक् । एवं पूर्वोत्तरा, उत्तरपश्चिमेति केवलस्त्रीलिङ्गान्येवोदाहरणानि दर्शितानि ॥
इह वर्गे कतिचिल्लिङ्गलक्षणानां कानिचिदुदाहरणानि मूलग्रन्थ एवोक्तानि । यत्र तु ʻअर्थान्ताḵ (श्लो। ४३) इत्यादौ लक्षणमात्रमेवोक्तम्, तत्र लक्ष्याणामुन्नेतुं शक्यत्वात् तन्मात्रमेवोक्तमित्यभिप्रायेणाह—उन्नेयं तदुदाहृतम् इति । एकवचनमविवक्षितम् । तेषामदर्शितलक्ष्याणामुदाहरणमुन्नेयमुन्नेतुं शक्यमित्यर्थः । अथवा—चित्रगुः, चित्रपटः, इत्यादीनामेव बहुव्रीहित्वेनाबालं प्रसिद्धत्वात् परोपगत्वबुद्धेस्तन्मात्रविश्रान्ततापरिहारेण व्याकरणलक्षणसिद्धबहुव्रीह्यन्तराण्यपि परोपगत्वेनोदाहर्तव्यानीत्यमुमर्थं सूचयितुं बहुव्रीहिप्रकरण एवोन्नयनस्य कर्तव्यताकथनं कृतमित्यनुसन्धेयम् ।
तथा हि—ʻसङ्ख्ययाव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये (२। २ २५) इति बहुव्रीहिः । यथा—उपगता दश उपदशाः घटाः । उपदशा इमा नार्यः । उपदशानीमानि फलानि । उपविंशाः । आसन्नविंशाः । अदूरदशाः । अधिकदशाः । अधिकविंशाः । एको वा द्वौ वा एकद्वाः शूराः । द्वौ वा त्रयो वा द्वित्राः । त्रिचतुराः । चतुःपञ्चा इत्यादि ॥ ʻतेन सहेति तुल्ययोगे (२। २। २८) इति बहुव्रीहिः । यथा—पुत्रेण सहागत इति सपुत्रः । सशिष्यः । सवधूकः । सभर्तृका योषित इति ॥ ʻप्रादिभ्यो धातुजस्योत्तरपदस्य लोपश्च वा बहुव्रीहिर्वक्तव्यḵ (वा। २। २। २४) । यथा—प्रगत आचार्यो यस्य प्राचार्यः शिष्यः । प्राचार्या नर्तकी इत्यादिकमुन्नेयमिति ॥
गुणद्रव्य—परगामिनः । योगः सम्बन्धः । गुणसम्बन्धः, द्रव्यसम्बन्धः, क्रियासम्बन्धो वा येषां शब्दानां प्रवृत्तिनिमित्तम्, तैः प्रवृत्तिनिमित्तैर्हेतुभूतैः ये शब्दाः, ते शब्दाः परोपगाः इत्यधिकृतेन सम्बन्धः । उपाधय इति पाठे बहुव्रीहिसमाश्रयणेन शब्दपरत्वेन योज्यम् । अत्र योगपदं प्रयुञ्जानस्यायमभिप्रायः । यदा गुणद्रव्यादिव्यक्तयस्तद्गताकृतयो वा मतभेदेन शब्दानां प्रवृत्तिनिमित्तानि भवन्ति, यदा न वाच्यलिङ्गत्वम्, तदा न गुणलिङ्गत्वम् । अत एव ʻगुणे शुक्लादयःपुंसि (१, पृ। १०१), ʻक्लीबे शीघ्राद्यसत्त्वं स्यात् (१, पृ। ४६) इत्यादिना तत्तत्प्रस्तावे शुक्लादिशब्दानां स्वप्रधानत्वेन नियतलिङ्गत्वमुक्तम् । यथा—पटस्य शुक्लः । अपां शुक्लो रूपम् । हिमस्य शीतम् । गुडस्य मधुरो रसः । ʻमनोऽधिकं शीघ्रमिहाश्ववृन्दम् इत्यत्र यथातथात्व एव शब्दाः मतुब्लोपाद् अभेतोपचाराद्वा सामानाधिकरण्येन गुणिनि वर्तन्ते । तथा गुणयोगोपाधिनैव विशेष्यनिघ्नः । यथा शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । शीतो वायुः । शीता आपः । शीतं जलमित्यादि ।
किं च येषां समर्थकुशलनिपुणादिशब्दानां सर्वत्रापि परप्रधानत्वेन केवलं धर्मिसामानाधिकरण्येनैव प्रयोगः, तेषामप्युत्साहविवेचकत्वादिगुणयोग एव वाच्यलिङ्गत्वे निमित्तम् । यथा—समर्थः कुशलश्च पुरुषः । समर्था सेना । समर्थं कलत्रमित्यादि । येषां रूपरसादिशब्दानां सर्वथा स्वार्थप्रधानतया धर्मिणा सह वैयधिकरण्येनैव प्रयोगः, तेषामपि स्वार्थप्रवृत्तौ रूपत्वरसत्वादिरेव प्रवृत्तिनिमित्तत्वेन गुणयोगलक्षणोपोधेरभावाद् न वाच्यलिङ्गत्वशङ्कावकाशः । न च रूपरसादिशब्दानां शुक्लादिशब्दवदेव मतुबारोपाद्वा अर्शआदित्वाद्वा अभेदोपचाराद्वा धर्मिसामानाधिकरण्यमस्तीति वाच्यम् । अनभिधानशिरस्कत्वात् सामानाधिकरण्ये । अभिधानलक्षणा हि कृत्तद्धितसमासा इति शाब्दिकन्यायः । यथा च ततो रूपरसादिशब्देभ्यो मत्त्वर्थीयप्रत्ययोत्पत्त्या धर्मिपरत्वेन श्रूयते । तथा गुणयोगलक्षणोपाधिसद्भावात् तेषां परोपगत्वमप्रतिहतमेव । यथा रूपवान् पुत्रः । रूपवती भार्या । रूपवत् कलत्रम् । गन्धवान् वायुः । गन्धवती पृथिवी । ज्ञानी मुनिः । ज्ञानवान् मुनिः । स्मृतिमानित्यादि ।
द्रव्ययोगे यथा—दण्डी देवदत्तः । दण्डिनी स्त्री । दण्डि यदुकुलमिति । क्रियायोगे यथा—ʻक्रियां कुर्वद्धि कारकम् इति क्रियायोगः कारकमात्रस्यास्ति । तत्र कर्तरि यथा—वाचकः पुरुषः । वाचिका जाया । वाचिकं कलत्रम् इति । कर्मणि यथा—पचति स्म पक्वमन्नम् । पक्वा शष्कुली । पक्व ओदन इति । करणे यथा—वृश्चते येन वृश्चिकः परशुः । वृश्चनं शस्त्रम् । वृश्चनी शस्त्री । अपादाने यथा—यो बिभेति यस्मात् स भीमः पुरुषः । भीमो राक्षसः । भीमं दुर्गम् । अधिकरणे यथा—पच्यतेऽत्रेति पचनः पिठरः । पचनी स्थाली । पचनं कुण्डमित्यादि ॥ ४४ ॥
मल्लि-नाथः - AK.03.05.044
बहुव्रीहिरदिग्नाम्नाम् । अदिङ्नाम्नां बहुव्रीहिर्वाच्यलिङ्गः । चित्रा गावो यस्य चित्रगुः पुमान्, चित्रगुः स्त्री । अदिग्नाम्नामित्यनेन दिङ्नामबहुव्रीहौ न भवति । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा । पूर्वोत्तरा इत्यादि ॥ गुणद्रव्य—परगामिनः । गुणद्रव्यक्रियाभिः योगोपाधयः योगप्रवृत्तिनिमित्तभूतशब्दा वाच्यलिङ्गाः । शुक्लः पटः । शुक्ला पटी । शुक्लं पटम् । दण्डिनी गोपालिका । दण्डी गोपालकः । दण्डि गोपकुलम् । पाचिका देवदत्ता । पाचको देवदत्तः । पाचकं कलत्रमित्यादि ॥ ४४ ॥
[[०५.७५३]]
मूलम् - ०३.०५.०४५
अक्।०३.०५.०४५अब् कृतः कर्तर्यसञ्ज्ञायां कृत्याः कर्तरि कर्मणि ।
अक्।०३.०५.०४५च्द् अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥
इति वाच्यलिङ्गशेष
लिङ्ग-सूरी - AK.03.05.045
कृतः कर्तर्यसञ्ज्ञायाम् । असञ्ज्ञायां कर्तृकारके विहिताः कृतः कृत्सञ्ज्ञकाः परगामिनो भवन्ति । उदाहरणानि—भर्ता, भर्त्री, भर्तृ । साधकः, साधिका, साधकमित्यादि । कृत्याः कर्तरि कर्मणि । कर्तरि कर्मणि च कारके विहिताः कृत्यप्रत्ययान्ताः शब्दाः असञ्ज्ञायां वर्तमानाः परगामिनो वाच्यलिङ्गा भवन्ति । कर्तरि कृत्यप्रत्ययान्तो यथा—वास्तव्या लक्ष्मीः । वास्तव्यं धनमित्यादि । कर्मणि कृत्यप्रत्ययान्तो यथा—कर्तव्यः कटः । कर्तव्या शाटी । कर्तव्यं वस्त्रमित्यादि ॥ अणाद्यन्तास्तेन रक्ताद्यर्थे । तेन रक्तमित्येतस्मिन्नर्थे आदिग्रहणात् तेन युक्तमित्यर्थे च विहिता अणादिप्रत्ययान्ताः शब्दा असञ्ज्ञायां वर्तमानाः परगामिनः स्युः । अण् प्रत्ययो यथा—काषायः पटः । काषायी पटी । काषायं वस्त्रमित्यादि । ठक्प्रत्ययो यथा—लाक्षया रक्तः पटः लाक्षिकः । लाक्षिकी । लाक्षिकम् इत्यादि ॥ नानार्थभेदकाः । ये नानार्थानां भेदकाः ते शब्दाः परगामिनो भवन्ति । अत्रोदाहरणानि—शिवो रुद्रः । शिवा गौरी । शिवं भद्रमित्यादि ॥ ४५ ॥
इति वाच्यलिङ्गशेषप्रकरणम्
कृतः कर्तर्यसञ्ज्ञायाम् । कर्तृकारकविहिताः कृत्प्रत्ययान्ताः सञ्ज्ञाव्यतिरिक्तार्थाः परोपगा भवन्ति । यथा—सुखकरो वायुः । सुखकरी वृष्टिः । सुखकरं सज्जनसम्भाषणमित्यादि । कर्तरि यथा—कर्ता, कर्त्री, कर्तृ इत्यादि । असञ्ज्ञायामिति किम्? हिनस्तीति सिंहः । व्याजिघ्रतीति व्याघ्रः इत्यादीनां परोपगत्वं मा भूत् ॥ कृत्याः कर्तरि—नानार्थभेदकाः । ʻतव्यत्तव्यानीयरḵ (३। १। ९६) इत्यादिपाणिन्याचार्यपठिताः चित्याग्निचित्यादयश्च (३। १। १३२) कृत्यसञ्ज्ञकाः । तदन्ताः परोपगा भवन्ति । ते च कृत्याः कर्तरि कर्मणि वा भवन्ति । अत्राप्यसञ्ज्ञायामित्येव । कर्तरि यथा—ʻवसेस्तव्यत् कर्तरि णिच्च्ö (वा। ३। १। ९६) इति वास्तव्यो विप्रः । वास्तव्या लक्ष्मीः । वास्तव्यं ब्राह्मणवृन्दम् । ʻभव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापत्या व्ȫ (३। ४। ६८) इति । भवतीति भव्यम् । गायतीति गेयम् । गेयो माणवकः साम्नामित्याद्युदाहरणानि द्रष्टव्यानि (काशिका। १, पृ। २५२) ।
कर्मणि कृत्या यथा—ʻतयोरेव कृत्यक्तखलर्थाḵ (३। ४। ७०) इति । तयोः भावकर्मणोरित्यर्थः । पक्तव्यास्तण्डुलाः । पक्तव्यं पायसम् । पचनीय ओदनः । पचनीया यवागूः इति । ʻअचो यत् (३। १। ९७) इति यत्प्रत्ययः । वह्यो रथः । वह्या अशीतिः । वह्यं शतमित्यादौ करणार्थेऽपि कृत्यप्रत्ययान्तस्य परोपगत्वमस्ति । अणाद्यन्ता इति । अत्राप्यसञ्ज्ञायामित्यनुवर्तते । अस्यार्थः—ʻतेन रक्तं रागात् (४। २। १) इत्यारभ्य ʻनिष्प्रवाणिश्च्ö (५। ४। १६०) इत्येतदन्तेषु सञ्ज्ञाव्यतिरिक्तार्थेषु विहिता ये अणादयः प्रत्ययाः, तदन्ताः शब्दा नानार्थभेदकाः, अनेकेषामर्थानां भेदका विशेषेण प्रतिपादकाः सन्तः परोपगा भवन्ति । यथा—कषायेण रक्तः काषायः । कुसुम्भेन रक्तः कौसुम्भः । माञ्जिष्ट इत्यादौ ʻतेन रक्तं रागात् (४। २। १) इत्यण् । तथा—ʻलाक्षारोचनाशकलकर्दमाट्ठक् (४। २। २) इति ठक् । लाक्षिकः, रौचनिक इति । ʻशकलकर्दमाभ्यामणपीष्यते (वा। ४। २। २) इति शाकलिकः, शाकलः; कार्दमिकः, कार्दमः इत्यादि । तथा—ʻनील्या अन् वक्तव्यḵ (वा। ४। २। २) इति । नीलः पटः । नीला शाटी । नीलं वस्त्रमित्यादि ।
ʻनक्षत्रेण युक्तः कालḵ (४। २। ३) इत्यनेन कृत्तिकाभिर्युक्तमहः कार्तिकमहः । कार्तिको दिवसः । कार्तिकी तिथिः इत्यादि । ʻपरिवृतो रथḵ (४। २। १०) इति । वस्त्रेण परिवृतो रथः वास्त्रो रथः । ʻपाण्डुकम्बलादिनिḵ (४। २। ११) इति । पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली इति । ʻद्वैपवैयाघ्रादञ् (४। २। १२) इति । द्वीपिनो विकारो द्वैपम् । तेन परिवृतो रथः द्वैपो रथः । एवं वैयाघ्रः । ʻसास्य देवत्ȫ (४। २। २४) इति । इन्द्रो देवता अस्येति ऐन्द्रं हविः । ऐन्द्रः पुरोडाशः । ऐन्द्री दिक् इत्यादीनि बहून्युदाहरणानि ज्ञेयानि । असञ्ज्ञायामिति किम्? ʻसास्मिन् पौर्णमासीति सञ्ज्ञायाम् (४। २। २१) इति सञ्ज्ञायां कन् । तस्य सञ्ज्ञाविषयत्वात् कार्त्तिको मास इति पुंलिङ्गत्वमेव । न तु अयनसङ्क्रान्त्यादिव्यावर्तकतया लिङ्गान्तरत्वम् । तथा—ʻकुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेष्ü (४। २। ९६) इति । कौलेयकः सारमेयः । कौक्षेयकः खङ्गः । ग्रैवेयकं कण्ठभूषा इत्यादिसञ्ज्ञाविषये विशेष्यनिघ्नत्वाभावात् । नानार्थभेदका इति किम्? नामैव नामधेयमित्यादौ स्वार्थे कप्रत्ययानां प्रकृतिलिङ्गत्वम् । ʻस्वार्थिकाः प्रकृतितो लिङ्गवचनान्यप्यतिवर्तन्ते इति । अपीति वचनात् चत्वारो वर्णाः चातुर्वर्ण्यम् । देव एव देवता इत्यादौ प्रकृतिलिङ्गातिवृत्तिरपि भवति । तथा दौस्तिकम्, औष्ट्रकम्, राजकम्, गव्या, गोत्रा, पाश्या, गल्या इत्यादीनामणाद्यन्तभेदकत्वाभावात् नियतलिङ्गत्वमेव । न तु परोपगत्वमित्यादि विवेचनीयम् ॥ ४५ ॥
इति परोपगलिङ्गप्रकरणम्
मल्लि-नाथः - AK.03.05.045
कृतः कर्तर्यसञ्ज्ञायाम् । कर्त्रर्थे विहिताः कृतो वाच्यलिङ्गाः । कर्ता, कर्त्री, कर्तृ । कारकः, कारिका, कारकम् । असञ्ज्ञायामित्यनेन सञ्ज्ञायां न भवति । हिनस्तीति सिंहः । व्याजिघ्रतीति व्याघ्रः ॥ कृत्याः कर्तरि कर्मणि । कर्तृकर्मणोर्विहिताः कृत्यप्रत्यया वाच्यलिङ्गाः । भव्यः, भव्या, भव्यम् । वसतीति वास्तव्यः । वास्तव्यम् । क्रियत इति कर्तव्यः । कर्तव्यम् । असञ्ज्ञायामेव । तिष्यः । सूर्यः ॥ अणाद्यन्तास्तेन रक्ताः । ʻतेन रक्तं रागात् (४। २। १) इत्याद्यर्थे विहिता अणाद्यन्ता वाच्यलिङ्गाः । हरिद्रया रक्तो हारिद्रः पटः । हारिद्रं वस्त्रम् । इन्द्रो देवता अस्य ऐन्द्रचरुः । ऐन्द्रं हविरित्यादि । असञ्ज्ञायामेव । कार्तिकी पौर्णमासी ॥ नानार्थभेदकाः । नानार्थविशेषणानि वाच्यलिङ्गानि । पुण्यो लोकः । पुण्यमहः ॥ ४५ ॥
इति वाच्यलिङ्गशेषः
[[०५.७५६]]
मूलम् - ०३.०५.०४६
अक्।०३.०५.०४६अब् षट्सञ्ज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् ।
अक्।०३.०५.०४६च्द् परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ४६ ॥
(इत्यमरसिंहकृतौ नामलिङ्गानुशासने ।
सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः ॥)*
- अयं श्लोकः दाक्षिणात्यव्याख्यानेषु न दृश्यते ।
लिङ्ग-सूरी - AK.03.05.046
षट्सञ्ज्ञकाः—तिङव्ययम् । षट्सञ्ज्ञकाः षकारान्ताः नकारान्ताः सङ्ख्याशब्दाः युष्मदस्मच्छब्दाः तिङन्ताश्च शब्दाः अव्ययसञ्ज्ञकाश्च शब्दा त्रिषु लिङ्गेषु समा एकरूपाः । लिङ्गनिबन्धनरहिता इत्यर्थः । षट्सञ्ज्ञा यथा—पञ्च बाणाः । पञ्च स्त्रियः । पञ्च फलानि । युष्मदस्मच्छब्दा यथा—त्वं पुमान् । त्वं स्त्री । त्वं नपुंसकम् इत्यादि । अहं पुमान् । अहं स्त्री । अहं नपुंसकमित्यादि । तिङन्तो यथा—स तिष्ठति । सा तिष्ठति । तत् तिष्ठति । अव्ययसञ्ज्ञका यथा—नाना पुरुषाः । नाना स्त्रियः । नाना रूपाणि ॥ परं विरोधे । अस्मिन् वर्गे पूर्वापरविरोधे सति परं परलिङ्गं भवति । शेषं तु ज्ञेयं शिष्टप्रयोगतः । इहास्मिन् लिङ्गादिसङ्ग्रहवर्गे शेषमनुक्तं लिङ्गशेषं शिष्टप्रयोगतः वृद्धव्यवहारतो ज्ञेयम् । यथा—अयं पचति । इयं पचति । वेदाः प्रमाणमित्यादि सर्वमनवद्यम् ॥ ४६ ॥
इति श्रीवङ्गलकामयभट्टोपाध्यायसूनुलिङ्गयसूरि-
विरचितायाममरकोशपदविवृतौ लिङ्गादिसङ्ग्रहवर्गः
इह हि शब्दा द्विविधाः । व्यक्तलिङ्गाः, अव्यक्तलिङ्गाश्च । तत्र व्यक्तलिङ्गानामनुशासनं कृतम् । अन्येषामप्यभिधेयतया प्रतिज्ञाताया अनभिधाने लिङ्गानुशासनपूर्णतोक्तेर्व्याहतिः स्यादिति मन्वानः सम्प्रत्यलिङ्गान् निरूपयति—षट्सञ्ज्ञकाः—तिङव्ययम् इति । ʻष्णान्ता षट् (१। १। २४), ʻडति च्ö (१। १। २५) इति सूत्रद्वयेन पाणिन्यादिभिराचार्यैः षकारान्तस्य षट्शब्दस्य नकारान्तानां पञ्चादीनामष्टादशपर्यन्तानां कतिशब्दस्य च षट्सञ्ज्ञया व्यवहारः कृतः । ʻतिप् तस् झि इत्यादीनां लादेशानामष्टादशानां प्रत्ययानां ʻतिङ् इति सञ्ज्ञा परिभाषिता । तदुभयानुसारेणेदमुच्यते । षट्सञ्ज्ञकाः शब्दाः युष्मदस्मच्छब्दाश्च तिङन्ताश्च अव्ययसञ्ज्ञकाश्च त्रिषु लिङ्गेषु समाः एकरूपाः, लिङ्गभेदनिबन्धनरूपविशेषरहिता इत्यर्थः । यथा—षट् कुम्भाः । षड् योषितः । षट् कुण्डानि । इमे पञ्च । इमाः पञ्च । इमानि पञ्च । दश पुत्राः । दश योषितः । दश कलत्राणि इत्यादि । ʻसङ्ख्यासर्वनामतदन्तकाḵ (श्लो। ४३) इति परोपगप्रकरणोक्तानामेव केषाञ्चित् सङ्ख्यासञ्ज्ञादिशब्दानां लिङ्गत्रयेऽप्यैकरूप्याद् अव्यक्तलिङ्गत्वेनेहाभिधानमित्यवधेयम् ।
तथा त्वं पुमान् । त्वं भार्या । त्वं नपुंसकम् । अहं पुमान् । अहं भार्या । अहं कलत्रम् । अयं पचति । इयं पचति । इतं कलत्रं पचति । उच्चैर्वृक्षः । उच्चैः शाला । उच्चैर्गृहम् । नाना पुरुषाः । नाना स्त्रियः । नाना कुलानीत्यादि । अत्र शेषकारः—ʻषड्युष्मदस्मदन्ताश्च तत्प्रधानाः समास्त्रिष्ü इति । तत्प्रधानाः युष्मदस्मच्छब्दप्रधानाः, षड्युष्मदस्मच्छब्दान्ताः त्रिषु लिङ्गेषु समा समाना भवन्ति । यथा—परमपञ्च । परमषट् । परमसप्त । परमत्वम् । परमाहमित्यादि । तत्प्रधाना इति किम्? पञ्चषानिमान् पश्य । पञ्चषा इमाः पश्य । पञ्चषाणीमानि पश्येति । उपपञ्चान् । उपपञ्चाः । उपपञ्चानि । युष्मानतिक्रान्तान् अतियुष्मान् । अत्यस्मानिति ॥
इत्यलिङ्गप्रकरणम्
इह ग्रन्थे लिङ्गविशेषविधेरेव पूर्वविध्यपेक्षया प्राबल्यमुक्तम् । अधुना लिङ्गविशेषस्थयोरेव विध्योर्मिथो विरोधे कस्य प्राबल्यमित्यपेक्षायामाह—परं विरोधे । अत्र वर्गे पूर्वापरविरोधे परमेव लिङ्गं भवतीत्यर्थः । यथा—ʻपुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराḵ (श्लो। ११) इति । सुरासुरवाचकशब्दानां पंलिङ्गत्वमुक्तम् । अनन्तरं तेषामेव शब्दानां ʻद्विचतुःषट्पदोरगाः जातिभेदाḵ (श्लो। ३७) इति स्त्रीपुंसकत्वमुक्तम् । तथा असुरपर्यायतया रक्षःशब्दस्य पुंलिङ्गत्वमुक्तम् । अनन्तरं ʻद्व्यच्कमसिसुसन्नन्तम् (श्लो। २४) इति नपुंसकलिङ्गत्वमुक्तम् । तयोर्विरोधे परत्वाद् नपुंसकमेव भवतीत्यादि ॥
इह आचार्यः स्वग्रन्थे नाम्नां लिङ्गानामनुशासनस्य साकल्येनाकृतत्वाद् न्यूनतादोषमाशङ्क्य ʻसम्पूर्णमुच्यते (१, पृ। ३) इति स्वकृतिप्रतिज्ञाया व्याहतिं परिहरति—शेषं तु ज्ञेयं शिष्टप्रयोगतः इति । अयमर्थः—इहास्माभिरज्ञानाद् अस्मरणाद् अत्यन्तोपयोगाभावेन ग्रन्थगौरवभयाद्वा यद् नाम्नां नानुशिष्टं तत् सर्व शिष्टानां महाकवीनां प्रयोगानालोच्य शिष्टानुशिष्टग्रन्थानप्याकलय्य सम्यगवगन्तव्यमिति । यथा—विष्णुपर्यायेषु मुञ्जकेशादयः शब्दा नाभिहिताः । शम्भुपर्यायेषु अहिर्बुध्न्यादयो नोक्ताः । समुद्रभेदेषु क्षीरोदवाचककलशाम्बुधिशब्दः परित्यक्तः । बिन्दूपर्यायेषु तुन्तुरुषशब्दो न स्मृतः । एवमादयः शब्दा बहवः तत्पर्यायानुशासनप्रस्तावेषु न गणिताः । तथा वृक्षलतापक्षिसरीसृपभेदा नानुशिष्टाः ।
तथा नानार्थवर्गेऽपि कतिचिदेव नानार्थवाचकाः शब्दाः कथिताः । तेषामपि अन्त्यवर्णस्यैव नियमतो वर्गीकरणम् । वर्गान्तरस्य तदर्थानामपि कियतामेवाभिधानम् । न तु सर्वेषामर्थानाम् । तथा कोरकमौक्तिकादिशब्दानां विद्यमानेऽप्यनेकलिङ्गत्वं नाभिहितम् । किञ्च लिङ्गसङ्ग्रहेऽपि बहुवक्तव्यमस्ति । यथा—ʻइक्श्तिपौ धातुनिर्देशे (वा। ३। ३। १०८) इत्यनेन धातुमात्रनिर्देशे प्रत्ययद्वयं शास्त्रे कथितम् । तदिह नोक्तम् । अपि च स्वार्थिकप्रत्ययानामपि कतिचिदेव नानार्थवाचकाः शब्दाः कथिताः । केषाञ्चित् प्रकृतिलिङ्गातिवृत्तिर्दृश्यते । यथा—चत्वारो वर्णा एव चातुर्वर्ण्यम् । छन्दसामण् प्रत्यये गायत्र्येव गायत्रम् । त्रिष्टुबेव त्रैष्टुभम् । जगत्येव जागतम् । तथा समासविधेः तयप्प्रत्ययान्तस्य स्त्रीनपुंसकोभयलिङ्गत्वं दृश्यते । यथा—ʻअतद्द्वयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे (नैषध। १। २३) । ʻस्तनद्वयं चारु तथा प्रवृद्धम् (कु। सं। १। ४०) । ʻजगत्त्रयीपण्डितमण्डितैषा सभा न भूता न च भाविनी स्ȫ (नैषध। १०। ७१) । ʻभुवनत्रयसुभ्रुवामसौ दमयन्ती कमनीयतामदम् (नैषध। २। १८) इत्यादि । अथ नियतलिङ्गाः—वेदाः प्रमाणम् । स्मृतयः प्रमाणम् । तन्मे प्रमाणं शिवः । प्रमाणमियं ब्रह्मणि । गमने मङ्गलं ब्राह्मणाशिषः । विप्राशिषो भद्रमित्यादिकमनेकमिह शब्दराशेर्निबन्द्धुमशक्यतया सामान्यतः प्रकृतिप्रत्ययमुखेनैव चिरन्तनशिष्टानुशिष्टप्रबन्धपरिशीलिना च नामलिङ्गानि परिज्ञातव्यानीत्युपदेशः नामलिङ्गानुशासनप्रभेद एवेति तदुक्तिप्रतिज्ञाया न काचिद् व्याहतिः । किन्तु सम्पूर्णतैव निर्व्यूढेत्यभिप्रायः ॥ ४६ ॥
इत्यमरसिंहकृतौ नामलिङ्गानुशासने ।
तृतीयकाण्डः सामान्यः साङ्ग एव समर्थितः ॥
निगदव्याख्यानमेतत् ।
व्याचष्टामरसिंहोक्ते नामलिङ्गानुशासने ।
बोम्मगण्ट्यप्पयाचार्यो वर्गं लिङ्गादिसङ्ग्रहम् ॥
इह यत् त्यक्तमज्ञानादालस्याद् यदुपेक्षितम् ।
प्रमादादन्यथोक्तं यद् विद्वद्भिस्तद् विशोध्यताम् ॥
अद्दितिओनल् वेर्सेस् इन् ग्म्१, ग्म्३।
आद्यो वेदविदां कणादकपिलव्यासाहिराडङ्घ्रिदृ-
ग्जैमिन्यादिसमष्टिमूर्तिरवधिः स्मार्तक्रियावेदिनाम् ।
व्याचष्टामरसिंहनाथरचितं ग्रन्थं निघण्टूत्तमं
ख्यातं शिष्यहितार्थमप्पयसुधीः श्रीमारपोताभिधः ॥
रेचर्लवंशसम्भूतेरास्थान्यां शिङ्गभूपतेः ।
बोम्मगण्ड्यप्पयाचार्यमूर्त्या जागर्ति शारदा ॥
कुमारशिङ्गभूपेन लक्ष्यलक्षणवेदिना ।
शोधितश्चेदयं ग्रन्थः किं शोध्यं शोधकान्तरैः ॥
कुमारशिङ्गभूपेन यः कदापि न शोधितः ।
स ग्रन्थः शोधितोऽप्यन्यैः किं बुधैर्व्यवह्रियते ॥
काव्यालङ्कारनानार्थतत्त्वभावितमानसः ।
कुमारशिङ्गभूपाल एक एवास्ति नापरः ॥
कुमारशिङ्गभूपालकृतयस्तस्य नित्यशः ।
एधयन्ति मुदं दृष्टा दृश्टान्ताकृतिनः परम् ॥
जैवातृकं बुधगुरुं निलयं कलानां
सर्वज्ञमूर्धमणिमाश्रितशुद्धपक्षम् ।
श्रीबोम्मकण्ठ्युपपदाङ्कितमप्ययार्यं
सर्वेष्टितोषितसुरं द्विजराजमाहुः ॥
व्याख्यद् यो गौतमीयं कणभु ॥ । शास्त्रं समस्तं
येन व्याकारि भाष्यं फणिपतिगदितं कैयटं वीक्ष्य ॥ ।
॥ यत्नप्रयोगः शबरमुनिमतं व्याकृतं द्विप्रभेदं
व्याकर्ता व्यासवाचां स जयति भुवने बोम्मगण्ट्यप्पयार्यः ॥
थे स्च्रिबे अद्द्स् -
श्रीबोम्मकण्ठ्यप्पयवाक्यवृत्तिं
सञ्जीवनीं संसदि शाब्दिकानाम् ।
मत्वा तदीयामरसिंहटीकां
पतञ्जलिः प्रौढमुखो लिलेख ॥
सौम्यनामसंवत्सर वैशाख शु। सोमवारं वरकु व्रासिनेनु ।
मल्लि-नाथः - AK.03.05.046
षट्सञ्ज्ञकास्त्रिषु समाः । षट्सञ्ज्ञकाः शब्दाः त्रिलिङ्गेषु समाः सरूपाः । पञ्च नराः । पञ्च स्त्रियः । कति नराः । कति स्त्रियः । युष्मदस्मत्तिङव्ययम् । युष्मदादयः त्रिलिङ्ग्यां सरूपाः । त्वं पुमान् । त्वं स्त्री । त्वमपत्यम् । अहं पुमान् । अहं स्त्री । स गच्छति । सा गच्छति । स इव । सेव ॥ परं विरोधे । पूर्वलिङ्गपरलिङ्गयोः विप्रतिषेधे परलिङ्गं ग्राह्यम् । द्व्यहः । त्र्यहः । ʻअदन्तैद्विगुरेकार्थḵ (पृ। ६५६, श्लो। ३) इति स्त्रीलिङ्गं न भवति ॥ पुण्याहम्, सुदिनाहम् । ʻअह्नाहान्त्ȫ (पृ। ६८४, श्लो। १२) इति पुंलिङ्गं न भवति ॥ शेषं तु ज्ञेयं शिष्टप्रयोगतः । अनुक्तशेषलिङ्गानि शिष्टप्रयोगाद् बोध्यानि । तथा चोक्तम्—
ʻवक्ता वाचस्पतिर्यत्र श्रोता शक्रस्तथापि तौ ।
शब्दपारायणस्यान्तं न गतौ तत्र के वयम् ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचिते
अमरपदपारिजाते लिङ्गादिसङ्ग्रहवर्गः
श्रीवत्सान्वयमान्येन मल्लिनाथेन निर्मिते ।
व्याख्यानेऽमरसिंहस्य तृतीयः काण्ड उम्भितः ॥
वामां वामाङ्कभूषामधरमधुसुधां याचिते पुष्टिराजे
रत्नैरापूर्णकुम्भं मम दिशसि यदि त्वं गृहाणेत्यवादीत् ।
नेत्येवं तां व्रुवाणे जठरफणिपतेर्दर्शमात्रे स तस्मिन्
केशीभारं मयूरं गतवति च सदा सान्त्वयन् वः पुनातु ॥
पद्मानि बोधयत्यर्कः काव्यानि कुरुते कविः ।
तत्सौरभं नभस्वांश्च सन्तो जानन्ति तद्गुणान् ॥
कवेरमरसिंहस्य कृतिरेषा सुनिर्मला ।
आचन्द्रतारकं स्थेयान्नामलिङ्गानुशासनम् ॥
प्रागल्भ्यं प्रकटीकृतं पदकलाकूपारपारीणधी-
गन्धाढ्यैर्बुधसिन्धुरैरमरकृद्भावार्थजात्यन्धकैः ।
तैः किं नो जगतीतले विधिवचोलीलीसुधीः ॥ ।
जानीते नितरां स एव तदनु श्रीमल्लिनाथः स्वयम् ॥
अमरकोशः समाप्तः