४ अव्ययवर्गः

मूलम् - ०३.०४.००१

(०३.०४.००१अब्) चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः ।
(०३.०४.००१च्द्) मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ॥ १ ॥

लिङ्ग-सूरी - AK.03.04.001

अथाव्ययवर्गमुपक्रमते चिरायेति—अत्राद्यशब्देन प्रथामातृतीयापञ्चमीविभक्त्यन्तप्रतिरूपका अव्यया गृह्यन्ते । अत्र क्रमेणोदाहरणानि—ʻचिराय सन्तर्प्य समिद्भिरग्निम् इति (रघु। १३। ५५) । ʻचिररात्राय सञ्चितम् इति । ʻचिरस्य दृष्टेव मृतोत्थितेव्ö इति (कु। सं। ७। ४) । ʻचिरन्तनस्तावदभिन्यवीविशत् इति (शिशु। १। १५) । ʻचिरेण नाभिं प्रथमोदबिन्दवः’ इति (कु। सं। ५। २४) । ʻचिरात् सुतस्पर्शरसज्ञतां ययौ’ इति (रघु। ३। २६) ॥ मुहुर्मुहुः—असकृत्समाः । अत्रोदाहरणानि—ʻअवेक्षमाणं महतीं मुहुर्मुहुः’ इति (शिशु। १। १०) । ʻपुनः पुनः सूतनिषिद्धचापलम् इति (रघु। ३। ४२) । ʻवन्यवृत्तिरिमां शश्वत् इति (रघु। १। ८८) । ʻअभीक्ष्णमक्षुण्णतयातिदुर्गमम् इति (शिशु। १। ३२) । ʻअसकृदनवगीतं गीतमाकर्णयन्तः’ इति (शिशु। ११। १०) । एतानि मुहुरर्थे वर्तन्ते ॥ १ ॥

<AK.03.04.001>

चिराय चिररात्राय—चिरार्थकाः । अथैकार्थाव्यया उच्यन्ते । नानार्थाव्यया उक्ताः । अथैकार्थानव्ययानाह—चिरायेति । अत्र आद्यशब्देन चिरं चिरात् चिरेणेति विभक्त्यन्तप्रतिरूपका अव्यया गृह्यन्ते । चिरार्थकाः चिराकालार्थका इत्यर्थः । चिरार्थका इत्युक्तिभङ्ग्या चिरशब्दोऽव्ययोऽप्यस्तीति सूचितम् । अत एव ʻसायञ्चिरम्प्राह्णे ॥ । (४। ३। २३) इत्यत्र वृत्तावुक्तम्—सायादयो न व्यया अपीति (काशिका १, पृ। ३३६) । तथा च चिरपरिचयः, चिरायुः इत्यादयः प्रयोगा द्रष्टव्याः । क्रमेणोदारहणानि—चिराय यथा—ʻचिराय सन्तर्प्य समिद्भिरग्निम् इति (रघु। १३। ५५) । ʻसञ्चितं चिररात्राय्ö इति । ʻचिरस्य दृष्टेव मृतोत्थितेव्ö इति (कु। सं। ७। ४) । ʻचिरं न सहते स्थातुं परेभ्यो भेदशङ्कया’ इति (शिशु। २। २९) । ʻचिरेण नाभिं प्रथमोदबिन्दवः’ इति (कु। सं। ५। २४) । ʻचिरात् सुतस्पर्शरसज्ञतां ययौ’ इति (रघु। ३। २६) ॥ मुहुः पुनः—असकृत्समाः । यस्याः कस्याश्चित् क्रियाया अनुपरत एवाभ्यासवृत्तेः एतानि नामानि । यथा—ʻशरासनज्यां मुहुराममर्श्ö इति (कु। सं। ३। ६४) । ʻस्रस्तां नितम्बादवलम्बमाना पुनःपुनः केसरदामकाञ्चीम् इति (कु। सं। ३। ५५) । ʻशश्वत् प्रियमयं ब्रूते इति । अभीक्ष्णमिति मकारान्तमव्ययम् । यथा—ʻअभीक्ष्णमक्षुण्णतयातिदुर्गमम् इति (शिशु। १। ३२) । ʻअसकृद् भक्तिहितं हिताभिलाषी इति । शेषे—ʻवारंवारं शश्वदर्थे इति । ʻवारंवारेण चेष्यते इति त्रिकाण्डशेषश्च (पृ। ३७, श्लो। १०२३) । यथा—ʻवारं वारं तिरयति दृशावुद्गतो बाष्पपूरः’ इति (मालती। १। ३५) । ʻआस्ते नताननस्तूष्णीं वारं वारेण निश्वसन् इति ॥ १ ॥

मल्लि-नाथः - AK.03.04.001

चिराय चिररात्राय—चिरार्थकाः । एते चिरार्थकाः स्युः । चिरार्थो दीर्घकालः । ʻचिरेण चिररात्राय दीर्घकाले चिराच्चिरम् इति वैजयन्ती (पृ। २८७, श्लो। १) ॥ मुहुः पुनः—असकृत्समाः । एते पौनःपुन्यार्थकाः । वारंवारेण वारंवारं शब्दावपि । ʻवारंवारं शश्वदर्थे वारंवारेण चेष्यते इति त्रिकाण्डशेषः (पृ। ३७, श्लो। १०२३) । नपुंसकभूतोऽभीक्ष्णशब्दोऽप्यस्ति । ʻअभीक्ष्णमव्ययं वा स्यात् पौनःपुन्यभृशार्थयोः’ इति वैजयन्ती (पृ। २५०, श्लो। २) ॥ १ ॥

[[०४.६१२]]

मूलम् - ०३.०४.००२

(०३.०४.००२अब्) स्राग्झटित्यञ्जसाह्नायद्राङ्मङ्क्षुसपदि द्रुते ।
(०३.०४.००२च्द्) बलवत् सुष्ठु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥

लिङ्ग-सूरी - AK.03.04.002

स्राग्झटिति—द्रुते । एतानि द्रुतार्थे वर्तन्ते । स्राक्—ʻस्राग्वयो याति देहिनाम् । झटिति—सुतशतमत्यन्तदुर्लभं झटिति । अञ्जसा—अञ्जसा याति तुरगः। अह्नाय—ʻअह्नाय तावदरुणेन तमो निरस्तम् इति (रघु। ५। ७१) । द्राक्—ʻद्राग्भविष्यति सुखं तव प्रिये इति । मङ्क्षु—ʻमङ्क्षूदपाति परितः पटलैरलीनाम् इति (शिशु। ५। ३७) । सपदि—ʻवचसस्तस्य सपदि क्रिया केवलमुत्तरम् इति (शिशु। २। २२) ॥ बलवत्सुष्ठु—निर्भरे । एतानि निर्भरार्थे वर्तन्ते । अत्रोदाहरणानि । बलवत्—ʻपुनर्वशित्वाद् बलवन्निगृह्य्ö इति (कु। सं। ३। ६९) । सुष्ठु—सुष्ठु पीतं मया घृतम् । किमुत—किमुताद्य कृतं कार्यम् । सु—सुवृष्टिः सस्यवर्धनी । अति—ʻअतिवृष्टिरनावृष्टिः’ इति । अतीव—अतीव शोभते राजा ॥ २ ॥

<AK.03.04.002>

स्राग्झटिति—सपदि द्रुते । स्रागादयः सप्त शीघ्ररूपार्थे । क्रमेण यथा—स्राक् सरन्त्यभिसारिकाः (गणरत्न, पृ। ३६) । झटिति—ʻआनीय झडिति घटयति विधिरभिमतमभिमुखीभूतः’ इति (रत्ना। १। ५) । एष मूर्धन्यवर्गतृतीयमध्याक्षरः । झटितीति वर्गप्रथममध्याक्षरस्त्वपपाठः । अञ्जसा—सुवर्ग लोकमञ्जसा नयति । अह्नाय—ʻअह्नाय सा नियमजं क्लममुत्ससर्ज्ö इति (कु। सं। ५। ८६) । द्राक्—ʻपाताले द्रागहिभयमथास्त्येव नित्यम् इति । मङ्क्षु—ʻमङ्क्षूदपाति परितः पटलैरलीनाम् इति (शिशु। ५। ३७) । सपदि—ʻवचसस्तस्य सपदि क्रिया केवलमुत्तरम् इति (शिशु। २। २२) । झगितीति कण्ठ्यवर्गतृतीयमध्याक्षरोऽप्यस्ति । तथा च गणरत्नमहोदधौ द्वयमप्युक्तम्—ʻअह्नाय मङ्क्षु झगिति झडिति द्राक् स्राक् शैघ्र्ये इति । बलवत्—निर्भरे । बलवदादिषट्कं निर्भरेऽतिमात्रे । क्रमेण यथा—ʻबलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः’ इति (अभि। शा। १। २) । सुष्ठु—सुष्ठु पीतं मया घृतम् । किमुत—किमुत ब्रह्मविद् याज्ञवल्क्यः । गणरत्नमहोदधौ—ʻकिम्पुनरर्थेऽतिशये प्रश्ने पक्षान्तरेऽपि किमुत्ö इति (पृ। ७) । सु—सुवृष्टिः सस्यवर्धनी । अति—अतिवृष्टिरभूत् । अतीव—अतीव क्षुधितोऽतिथिः ॥ २ ॥

मल्लि-नाथः - AK.03.04.002

स्राग्झटिति—सपदि द्रुते । एते शीघ्रार्थे स्युः ॥ बलवत्—निर्भरे । एते षट् निर्भरे इति साधिकार्थे वर्तन्ते । ʻकिमुतातीव बलवदतिसुष्ठु सु साधिके इति वैजयन्ती (पृ। २८७, श्लो। ४) ॥ २ ॥

[[०४.६१३]]

मूलम् - ०३.०४.००३

(०३.०४.००३अब्) पृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने ।
(०३.०४.००३च्द्) यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन ॥ ३ ॥

लिङ्ग-सूरी - AK.03.04.003

पृथग्विना—वर्जने । अत्रोदाहरणानि । पृथक्—किञ्चिद् दत्त्वा पृथक्क्रियाम् । विना—ʻक्षणमप्युत्सहते न मां विना’ इति (कु। सं। ४। ३६) । अन्तरेण सुतं नास्ति सुखं संसारिणां भुवि । ऋते—ʻऋते रवेः क्षालयितुं क्षमेत कः’ इति (शिशु। १। ३८) । हिरुक्—हिरुक् कर्मणां मोक्षः । नाना—नाना विष्णुं मोक्षदो नास्ति देवः । एतानि वर्जनार्थे वर्तन्ते ॥ यत्तद्यतस्ततो हेतौ । अत्रोदाहरणानि । यत्—ʻव्यावृत्ता यत् परस्वेभ्यः’ इति (रघु। १। २७) । तत्—ʻतदिदं परिरक्ष शोभने भवितव्यप्रियसङ्गमं वपुः’ इति (कु। सं। ४। ४४) । यतः—ʻयतो बुधैः सर्वगतस्त्वमुच्यसे इति (कु। सं। ५। ५८) । ʻयतो गङ्गाम्भसि स्नातस्ततो निष्कल्मषो जनः’ इति । एतानि हेत्वर्थे वर्तन्ते ॥ असाकल्ये तु चिच्चन । अत्रोदाहरणे । चित्—करोति किञ्चिदभ्यासात् । चन—ʻअपात्रे कुशलैर्देयं न किञ्चन धनं सदा’ इति । एते असाकल्यार्थे वर्तेते ॥ ३ ॥

<AK.03.04.003>

पृथग्विना—वर्जने । पृथगादिषट्कं वर्जनरूपार्थे । पृथग् देवदत्तम् । पृथग् देवदत्तेन । पृथग् देवदत्तात् (काशिका। १, पृ। ११७) । ʻपृथग्विनानानाभिस्तृतीयान्यतरस्याम् (२। ३। ३२) इति द्वितीयातृतीयापञ्चम्यः । एवं विनानानाशब्दयोगेऽपि विभक्तित्रयम् । त्वामन्तरेण । ʻअन्तरान्तरेण युक्ते (२। ३। ४) इति द्वितीया । ऋते—ʻऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् इति (कु। सं। १। ५२) । ʻअन्यारादितरर्ते ॥ । इत्यादिना (२। ३। २९) ऋतेयोगे पञ्चमी । हिरुक्—ʻन हिरुक् कर्मणां मोक्षः’ इति । (गणरत्न। पृ। ३९) । कर्मणां वर्जने सति मोक्षो नास्तीत्यर्थः । नाना—ʻनाना नारीं निष्फला लोकयात्रा’ (गणरत्न। पृ। ४१), ʻनाना विष्णुं मोक्षदो नास्ति देवः’ । अत्र महोदधौ—ʻपृथग्विना च वर्जने नानानेकविनार्थयोः, अन्तरान्तरेण विनार्थौ हिरुग्वर्जने इति (पृ। ४१, पृ। ३९) ॥ यत्तद्यतस्ततो हेतौ । ʻयद् विद्यासु प्रगल्भोऽसि तत्सर्वैरपि पूज्यसे । ʻयतो मेघाः समुन्नादास्ततो वृष्टिर्भविष्यति इति ॥ असाकल्ये तु चिच्चन । असाकल्ये परितश्छिन्नपरिमाणे यथा । चित्—अत्र केचिदाहुः । चन—स्मृतिरन्येति केचन ॥ ३ ॥

मल्लि-नाथः - AK.03.04.003

पृथग्विना—वर्जने । एते षट् वर्जनार्थे ॥ यत्तद्यतस्ततो हेतौ । एते च हेत्वर्थे ॥ असाकल्ये तु चिच्चन । एतौ द्वौ असाकल्यार्थे ॥ ३ ॥

[[०४.६१५]]

मूलम् - ०३.०४.००४

(०३.०४.००४अब्) कदाचिज्जातु सार्धं तु साकं सत्रा समं सह ।
(०३.०४.००४च्द्) आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा ॥ ४ ॥

लिङ्ग-सूरी - AK.03.04.004

कदाचिज्जातु । अत्रोदाहरणे । ʻकदाचिदुपविष्टेन ज्ञायते जातु न श्रमः’ इति । एते एकदार्थे वर्तेते ॥ सार्धं तु साकं सत्रा समं सह । अत्रोदाहरणानि । सार्धम्—ʻसार्धमुद्धवसीरिभ्याम् इति (शिशु। २। २) । साकम्—पत्न्या साकं पतिर्भुङ्क्ते । सत्रा—सत्रा कलत्रेण सुखं समश्नुते । समम्—ʻसमं वधूभिर्वलभीर्युवानः’ इति (शिशु। ३। ५३) । सह—ʻनिःश्वासधूमं सह रत्नभाभिः’ इति (शिशु। ४। १) एतानि सहार्थे वर्तन्ते ॥ आनुकूल्यार्थकं प्राध्वम् । ʻसव्येतरं प्राध्वमितः प्रयुङ्क्ते इति (रघु। १३। ४३) । एतदानुकूल्यार्थे वर्तते ॥ व्यर्थके तु वृथा मुधा । वृथा—ʻप्रयुक्तमप्यस्त्रमितो वृथा स्यात् (रघु। २। ३४) । मुधा—ʻतत्र भ्रमत्येव मुधा षडङ्घ्रिः’ इति । एते व्यर्थकार्थे वर्तेते ॥ ४ ॥

अमर-पद-विवरणम् - AK.03.04.004

कदाचिज्जातु । अनियतकालस्यैते नामनी । यथा—ʻकदाचिदासन्नसखीमुखेन सा’ इति (कु। सं। ५। ६) । जातु—ʻतत्रानिशं निषण्णाप्ता जानकी जातु न श्रमम् इति ॥ सार्धं तु साकं सत्रा समं सह । पञ्चैतानि सहेत्यस्य नामानि । सार्धम्—ʻसार्धमुद्धवसीरिभ्याम् इति (शिशु। २। २) । साकम्—ʻसाकं शक्तिधरेण तत्रभवतो देवाद् भवानीपतेः’ इति । सत्रा—ʻसत्रा कलत्रमित्रैश्च गार्हस्थ्यं सुखमश्नुते इति । समम्—ʻसमं वधूभिर्वलभीर्युवानः’ इति (शिशु। ३। ५३) । सह—पुत्रेण सहागतः पिता (काशिका १, पृ। ११५) । एतैर्योगे ʻसहयुक्तेऽप्रधाने (२। ३। १९) इति तृतीया । समकं सजूरिति शब्दावप्यत्र । ʻसमकं चतुरङ्गसेनया’, ʻसजूर्देवैः’ इति ॥ आनुकूल्यार्थकं प्राध्वम् यथा—ʻसव्येतरं प्राध्वमितः प्रयुङ्क्ते (रघु। १३। ४३) । अत्र ʻप्राध्वं बन्धने (१। ४। ७८) इति बन्धनहेतुकमानुकूल्यमभिप्रेतम् । ततश्च सव्येतरं भुजमङ्गुलिबन्धनेनानुकूलं कृत्वा प्रयुङ्क्ते इत्यर्थः ॥ व्यर्थके तु वृथा मुधा । यथा—ʻवृथा कृथा मानिनि मा परिश्रमम् इति । मुधा—ʻमुग्धे मुधा मा कुपः’ इति । अयं वर्गचतुर्थोपध इत्याहुः ॥ ४ ॥

मल्लि-नाथः - AK.03.04.004

कदाचिज्जातु । एतौ द्वौ विश्ष्याज्ञातकालार्थकौ । ʻओहमाटु’ ॥ सार्धं तु साकं सत्रा समं सह । एते पञ्च साहित्यार्थे । ʻकूडुट्ö । क्वचित्तु सत्राशब्दः सत्रमिति मान्तोऽपि । ʻसमकं तु सजूः साकं सार्धं सत्रं समं सह्ö इति वैजयन्ती (पृ। २८८, श्लो। १७) ॥ आनुकूल्यार्थकं प्राध्वम् । प्राध्वंशब्दः आनुकूल्यार्थकः । नम्रार्थेऽपि स्यात् । ʻप्राध्वं नम्रानुकूलयोः’ इति विश्वः (पृ। १८९, श्लो। ४६) ॥ व्यर्थके तु वृथा मुधा । व्यर्थक इति निष्फलार्थे ॥ ४ ॥

[[०४.६१६]]

मूलम् - ०३.०४.००५

(०३.०४.००५अब्) आहो उताहो किमुत विकल्पे कि किमूत च ।
(०३.०४.००५च्द्) तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥ ५ ॥

लिङ्ग-सूरी - AK.03.04.005

आहो उताहो—किमूत च । अत्रोदाहरणानि । आहो—ʻआहो स्विदासारयदच्युतोऽङ्गात् इति । उताहो—ʻउताहो ब्रह्म चोच्यते इति । किमुत—ʻकिमुत त्वं शिवो ब्रह्मा विष्णुर्वा यदि देवराट् इति । किम्—स्थाणुरयं किं पुरुषः । किमु—किमु ते कार्यमुतान्यदीयकार्यम् । उत—ʻउत येन बिभर्षि तत् (कु। सं। ६। २३) । एतानि विकल्पार्थे वर्तन्ते ॥ तु हि च स्म ह वै पादपूरणे । अत्रोदाहरणानि । तु—रामस्तु लक्ष्मणं प्राह । हि—अहं हि यास्ये नगरम् । च—स च प्राह च राजानम् । स्म—मया स्म भुक्तं सहसा । ह—रामः प्राह ह लक्ष्मणम् । वै—तेन वै राक्षसो हतः । एतानि पादपूरणार्थे वर्तन्ते ॥ पूजने स्वति । सु—सुपन्थाः । अति—अतिपन्थाः । एते पूजने वर्तेते ॥ ५ ॥

<AK.03.04.005>

आहो उताहो—किमूत च । यथा—ʻस्थाणुरयमाहो पुरुषः’ इति (गणरत्न। पृ। १०) । उताहो—ʻपरमात्माथवानन्त उताहो ब्रह्म उच्यते इति । किमुत—स्थाणुरयं किमुत पुरुषः । ʻशब्दः किं नित्योऽनित्यो वा किमु’ इति द्व्यक्षरो निपातः । यथा—ʻउत मुखं सुदृशः किमु वारिजम् इति । आहो इत्यादिषट्कं वितर्कसंशये वर्तते इत्यर्थः । आहो इति पदं दीर्घादि ह्रस्वादि च ॥ तु हि च स्म वै पादपूरणे । श्लोकपादे सार्थकाक्षरैरपरिपूरणे सति छन्दसःपूर्तये प्रकृतोपयुक्तार्थपरत्वाभावेऽपि स्तोभाक्षरवत् प्रयोक्तव्या इत्यर्थः । यथा—आख्यास्यामि तु ते वार्ताम् । हि—ʻउत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि इति (नागा। १। १३) । च—स च प्राह च राजानम् । स्म—ʻइति ह स्माहुराचार्याः’ । वै—ʻयो वै युवाप्यधीयानः’ इति (म। स्मृ। २। १५६) ॥ पूजने स्वति । यथा—सुपन्थाः, अतिपन्थाः इति । ʻन पूजनात् (५। ४। ६९) इति समासान्तप्रतिषेधः ॥ ५ ॥

मल्लि-नाथः - AK.03.04.005

आहो उताहो—किमूत च । एते षड् विकल्पार्थकाः । स्थाणुरयमाहो पुरुषः । ह्रस्वादिश्च दृष्टः । ʻआहो उताहो च विकल्पार्थे प्रयोक्तृभिः’ इति भागुरिः ॥ तु हि च—पादपूरणे । एते षट् पादपूरणार्थकाः ॥ पूजने स्वति । एतौ पूजनार्थे ॥ ५ ॥

[[०४.६१७]]

मूलम् - ०३.०४.००६

(०३.०४.००६अब्) दिवाह्नीत्यथ दोषा च नक्तं च रजनाविति ।
(०३.०४.००६च्द्) तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः ॥ ६ ॥
(०३.०४.००७अब्) स्युः पाट् प्याडङ्ग हे है भोः समया निकषा हिरुक् ।

लिङ्ग-सूरी - AK.03.04.006

दिवाह्नीति । दिवा—ʻकेचिद् दिवा तथा रात्रौ’ (देवीमा। १। ३६) । एतद् अह्नीति सप्तम्यर्थे एव वर्तते ॥ अथ दोषा—रजनाविति । दोषा—चोरा दोषा ययुः पथि । नक्तम्—ʻनक्तमापानभूमिषु’ इति (कु। सं। ६। ४२) । एतौ शब्दौ रजनौ रात्रौ सप्तम्यर्थेऽपि वर्तेते ॥ तिर्यगर्थे साचि तिरः । साचि—ʻचुम्बनायोद्यते पत्यौ वध्वा साचीकृतं मुखम् इति । तिरः—मेघैस्तिरोधीयते तीक्ष्णरश्मिः । एतौ तिर्यगर्थे वर्तेते ॥ अथ सम्बोधन—हे है भोः । अत्रोदाहरणानि । पाट्—पाट् प्रिये ह्येहि मेऽन्तिकम् । प्याट्—प्याट् पुत्र पठ सर्वदा । अङ्ग—ʻश्रूयतामङ्ग वामपि इति (शिशु। २। १२) । हे—हे वृक्ष किं कम्पसे । है—है वटो भैक्षमाहर । भो—भो रावण तिष्ठ ममाग्रतो युधि । एतानि सम्बोधनार्थं कथयन्ति ॥ समया निकषा हिरुक् । समया—समया पर्वतं नदी । निकषा—आपः खरांशुं निकषा न्यकार्षुः । हिरुक्—पर्वतस्य हिरुङ् नदी । एते समीपार्थे वर्तन्ते ॥ ६ ॥

<AK.03.04.006>

दिवाह्नीति । दिवेत्येतदव्ययम् अधिकरणे, प्रधान एव वाहःशब्दार्थे वर्तत इति दर्शयितुमितिकरणं कृतम् । यथा—ʻकेचिद् दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः’ (देवीमा। १। ३६) इति ॥ अथ दोषा च नक्तं च रजनाविति । अत्रापि दोषेत्याकारान्तम्, नक्तमिति मकारान्तं चेत्यव्ययद्वयम् । अधिकरणप्रधाने रजनिशब्दार्थे रात्रिरूपे वर्तत इति दर्शयितुमितिकरणं कृतम् । यथा—ʻदोषा चरन्ति चोरा नक्तञ्चराः’ इति ॥ तिर्यगर्थे साचि तिरोऽपि । यथा—ʻसाचि लोचनयुगं नमयन्ती इति (किरा। ९। ४४) । तिरः—तिरोऽञ्चतीति तिर्यक् । ʻतिरसस्तिर्यलोपे (६। ३। ९४) इति तिरि इत्ययमादेशो भवति ॥ अथ सम्बोधन—हे है भोः । सम्बोधनमभिमुखीकरणम् । प्याट्—प्याट् पुत्र पठ सत्वरम् । पाट्—शीघ्रमायाहि पाट् प्रिये । केचित्तु प्याट् पाडिति ओष्ठ्यवर्गप्रथममिदं पठन्ति । अपरे तु फाडिति द्वितीयमादिम् अन्तस्थरहितं चाहुः । पाट् पान्थ मद्गृहे भुङ्क्ष्व, फाट् सखे फलितो माकन्दः । अङ्ग—ʻमम तावन्मतमिदं श्रूयतामङ्ग वामपि इति (शिशु। २। १२) । हे—हे वृक्ष किं कम्पसे । है—है वटो भैक्षमाहर । भोः सप्तद्वीपवर्तिनो राजानश्चेतयध्वम् । अयं सकारान्तः, विसर्जनीयरहित ओकारान्तोऽप्यस्ति । यथा—ʻभो भो जामदग्न्य्ö इति । ननुबतशब्दावप्यत्र ॥ समया निकषा हिरुक् । एतत् त्रयं सामीप्ये वर्तते । वाराणसी गङ्गां समया । वाराणसी गङ्गायाः समीपे इत्यर्थः । निकषा—ʻविलङ्घ्य लङ्कां निकषा हनिष्यति इति (शिशु। १। ६८) । ʻअभितः परितः समया निकषा हा प्रतियोगेऽपि (वा। १। ४। ४८) इत्युभयत्र द्वितीया । हिरुक्—गङ्गाया हिरुक् वाराणसी । गङ्गासमीपे वाराणसीत्यर्थः । उत्तरत्र ʻनिकषान्तिके (श्लो। १९) इति निकषाशब्दस्य सामीप्यलक्षणार्थे वक्ष्यमाणत्वाद् इह समयादित्रयं मध्यरूपार्थे वर्तत इति सुभूतिचन्द्रः ॥ ६ ॥

मल्लि-नाथः - AK.03.04.006

दिवाह्नीति । दिवाशब्दोऽह्नीति सप्तम्यर्थे । अहर्मात्रेऽपि वदन्ति ॥ अथ दोषा—रजनाविति । दोषा नक्तं शब्दौ रजनाविति सप्तम्यर्थे । रजनीमात्रार्थेऽपि वदन्ति । अनव्ययावित्यपि वदन्ति । तथा च विश्वप्रकाशिका—(पृ। १७१, श्लो। ७; पृ। १९१, श्लो। ६४)—

ʻदोषः स्याद् दूषणे पापे दोषा रात्रौ भुजेऽपि च्ö ।

ʻदोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ’ ।

इति । ʻवसतिः स्थाननक्तयोः’ इति ध्वनिमञ्जरी ॥ तिर्यगर्थे साचि तिरः । तिर्यगर्थे स्त्रीलिङ्गः साचिशब्दोऽप्यस्ति । ʻतिर्यक् साचि स्त्रियाम् इति रत्नकोशः ॥ अथ सम्बोधन—हे है भोः । अये, हन्त, हंहो शब्दा अपि स्युः ।

ʻहंहो सिंहणभूप तावकयशः कर्पूरमुर्वीभृतां

विक्रीणन् कटकेषु जीवति चिरं श्रीमान् कलिङ्गः कविः ।

इति । रेशब्दः नीचसम्बोधनार्थकः ।

ʻरे रे कोकिल मा भज मौनं

किचिदुदञ्चय पञ्चमरागम् ॥ इति ।

समया निकषा हिरुक् । एते समीपार्थे ॥ ६ ॥

[[०४.६२०]]

(०३.०४.००७च्द्) अतर्किते तु सहसा स्यात् पुरः पुरतोऽग्रतः ॥ ७ ॥

मूलम् - ०३.०४.००८

(०३.०४.००८अब्) स्वाहा देवहविर्दाने श्रौषड् वौषड् वषट् स्वधा ।
(०३.०४.००८च्द्) किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ॥ ८ ॥

लिङ्ग-सूरी - AK.03.04.007-8

अतर्किते तु सहसा । यथा—ʻसहसा विदधीत न क्रियाम् इति (किरा। २। ३०) । अविचारितार्थस्य नाम ॥ स्यात् पुरः पुरतोऽग्रतः । पुरः—ʻपुरः सखीनाममिमीत लोचने इति (कु। सं। ५। १५) । पुरतः—पुरतोऽवलोक्य । अग्रतः—ʻप्रत्यर्थिनोऽग्रतो लेख्यम् (या। स्मृ। २। १। ६) इति । एतान्यग्रसमार्थानि ॥ स्वाहा देव—वषट् स्वधा । अत्रोदाहरणानि । स्वाहा—ʻअग्नये स्वाहा’ (तै। सं। १। ४। २८। १) श्रौषट्—ʻअस्तु श्रौषट् (तै। सं। १। ६। ११। १) वौषट्—ʻइन्द्राय वौषट् । वषट्—ʻशिखायै वषट् (वरद। उप। २। २) । ʻस्वधा—ʻस्वधा पितृभ्यः’ (तै। सं। १। १। ११। १) । एते देवेभ्यो हविर्दाने वर्तन्ते ॥ किञ्चिदीषन्मनागल्पे । किञ्चित्—ʻकिञ्चिद् विहस्यार्थपतिं बभाषे इति (रघु। २। ४६) । ईषत्—ईषदुष्णं पयः पिब । मनाक्—ʻमनागनभ्यावृत्त्या वा’ इति (शिशु। २। ४३) । एतान्यल्पार्थे वर्तन्ते ॥ प्रेत्यामुत्र भवान्तरे । ʻप्रेत्य स्वर्गे महीयते (रामा। १। १। ९९) । अमुत्र—ʻइह वामुत्र वैकेषां भावस्तत्र प्रयोजनम् इति (या। स्मृ। ३। ४। १३३) । एतौ जन्मान्तरे वर्तेते ॥ ७-८ ॥

<AK.03.04.007-8>

अतर्किते तु सहसा स्यात् । यथा—ʻसहसा विदधीत न क्रियाम् इति (किरा। २। ३०) ॥ पुरः पुरतोऽग्रतः । एते त्रयोऽग्रशब्दसमानार्थाः । पुरः—ʻपुरः सखीनाममिमीत लोचने इति (कु। सं। ५। १५) । पुरतः—पुरतोऽवलोक्य । अग्रतः—ʻप्रत्यार्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना’ इति (या। स्मृ। २। १। ६) ॥ स्वाहा देव—वषट् स्वधा । यदुद्देशेन पुरोडाशादिकं त्याज्यमिति श्रुतिवाक्येषु दृश्यते सा देवता देवताशब्देनोच्यते । एवं चायमर्थः सम्पन्नः । चोदितां देवतामुद्दिश्य द्रव्यप्रदाने प्रकाश्ये स्वाहादयः शब्दा वर्तन्ते । यथा—ʻअग्नये स्वाहा’ (तै। सं। १। ४। १८। १) । श्रौषट्—ʻअस्तु श्रौषट् (तै। सं। १। ६। ११। १) । वौषट्—ʻसोमस्याग्ने वीहि वौषट् (ऐ। ब्रा। ३। ५) । वषट्—ʻइन्द्राय वषट् (तै। सं। ३। ५। ४। ६) इति । स्वधा—ʻआ स्वधेत्याश्रावयति, अस्तु स्वधेति प्रत्याश्रावयति इति (तै। ब्रा। १। ६। ९। ५) ॥ किञ्चिदीषन्मनागल्पे । अल्पेऽल्पार्थे वर्तन्ते । यथा—ʻकिञ्चिद् विहस्यार्थपतिं बभाषे इति (रघु। २। ४६) । ईषत्—ʻईषदुष्णं पयः पिब्ö इति । मनाक्—ʻमनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी इति (शिशु। २। ४३) ॥ प्रेत्यामुत्र भवान्तरे । एतद् द्वयं भवान्तरे जन्मान्तरे । प्रेत्येति ल्यबन्तकप्रतिरूपकमव्ययमिदम् । ल्यबन्तत्वे तु जन्मान्तररूपार्थविरोधः स्यात् । भवो मरणानन्तरभाविवर्तमानशरीरासङ्गानन्तरपरिग्रह इत्यर्थः । ʻप्रेत्य स्वर्गे महीयते (रामा। १। १। ९९) इति । अमुत्र—ʻअमुत्र भविता यत्ते तच्चिन्तय शुभाशुभम् इति (स्वामी पृ। ३३९) ॥ ७-८ ॥

मल्लि-नाथः - AK.03.04.007-8

अतर्किते तु सहसा । सहसाशब्दः अतर्कितार्थे । अकस्माच्छब्दोऽपि स्यात् । अकस्मात् कुप्यति भवान् ॥ स्यात् पुरः पुरतोऽग्रतः । एते अग्रार्थे ॥ स्वाहा देव—वषट् स्वधा । एते देवतानां हविर्दानार्थे ॥ किञ्चिदीषन्मनागल्पे । एते अल्पार्थे ॥ प्रेत्यामुत्र भवान्तरे । एतौ भवान्तरार्थे ॥ ७-८

[[०४.६२१]]

मूलम् - ०३.०४.००९

(०३.०४.००९अब्) वद् वा यथा तथेवैवं साम्येऽहो ही च विस्मये ।
(०३.०४.००९च्द्) मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ९ ॥

लिङ्ग-सूरी - AK.03.04.009

वद् वा यथा तथेवैवं साम्ये । अत्रोदारहणानि । वत्—ʻसोमवत् प्रियदर्शनः’ (रामा। १। १। १८) इति । वा—ʻपुष्पेक्षणैर्बिम्बितलोचनैर्वा’ इति । यथा—ʻतस्यार्तस्य यथौषधम् इति (रघु। १। २८) । तथा—ʻयथा तथैवावरजेषु वृत्तिम् इति (रघु। १४। २१) । इव—ʻइन्दुः क्षीरनिधाविव्ö इति (रघु। १। १२) । एवम्—ʻअग्निरेवं द्विजो भस्मसात्कुर्यादवमानितः’ इति । एतानि साम्ये वर्तन्ते ॥ अहो हि च विस्मये । ʻअहो मे सौभाग्यं मम च भवभूतेश्च भणितम् इति (भो। प्र। पृ। ५६, श्लो। २५३) । ही—ʻहतविधिलसितानां ही विचित्रो विपाकः’ इति (शिशु। ११। ६४) । एते विस्मये वर्तेते ॥ मौने तु तूष्णीं तूष्णीकाम् । तूष्णीम्—ʻतूष्णीमेताः क्रियाः स्त्रीणाम् इति (या। स्मृ। १। २। १३) । तूष्णीकाम्—ʻजपन्नास्ते मुनिर्देवीं तूष्णीकां जलमध्यगः’ इति । एते मौनस्य नामनी ॥ सद्यः सपदि तत्क्षणे । सद्यः—ʻसद्यो हतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते मे इति (रघु। १६। १५) सपदि—ʻसारुन्धतीकाः सपदि प्रादुरासन् पुरः प्रभोः’ इति (कु। सं। ६। ४) एते तत्क्षणार्थे वर्तेते ॥ ९ ॥

<AK.03.04.009>

वद् वा यथा तथेवैवं साम्ये । अत्र वच्छब्देन वतिप्रत्ययान्ता गृह्यन्ते । ʻतेन तुल्यं क्रिया चेद्वतिः’ (५। १। ११५) इति । यथा—ʻपुंवत्प्रगल्भा’ इति (रघु। ६। २०) । ʻतत्र तस्येव्ö (५। १। ११६) इति वतिः । यथा—ब्राह्मण इव ब्राह्मणवत् । वा—ʻविशेषको वा विशिशेष यस्यां श्रियं त्रिलोकीतिलकः स एव्ö इति (शिशु। ३। ६३) । यथा—ʻतस्यार्तस्य यथौषधम् इति (रघु। १। २८) । तथा—ʻशिवः पूज्यस्तथा गुरुः’ इति । इव—कमलमिव मुखम् । एवम्—यथा गौरेवं गवय इति ॥ अहो हीति विस्मये । साम्ये अहो इत्यकारप्रश्लेषः । अहो इति द्व्यक्षरो निपातः । ʻअहो मे सौभाग्यम् इति (भो। प्र। पृ। ५६, श्लो। २५३) । ही—ʻहतविधिलसितानां ही विचित्रो विपाकः’ इति (शिशु। ११। ६४) ॥ मौने तु तूष्णीं तूष्णीकाम् । मौने वाग्वृत्तिपरित्यागे यथा—तूष्णीमास्ते इत्यादि । ʻतूष्णीमः काम् प्रत्ययो वक्तव्यः’ (वा। ५। ३। ७१) इति काम् प्रत्यये तूष्णीकामास्ते (काशिका। २, पृ। ७०) । काम् प्रत्ययस्याज्ञानकुत्सानुकम्पाद्यर्थविशेषविवक्षायामेव विधानात् तूष्णीकां शब्दस्य मौनविशेषोऽर्थः । तूष्णींशब्दस्य मौनमात्रमर्थ इत्यर्थभेदे सत्यपि प्रधानमात्रस्याभेदात् पर्यायत्वमुक्तमिति विज्ञेयम् ॥ सद्यः सपदि तत्क्षणे । तत्क्षणे तत्काले । यथा—ʻसद्यो हतन्यङ्कुभिरस्रदिग्धम् इति (रघु। १६। १५) । सपदि—ʻसपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या’ इति (कु। सं। ३। ७६) ॥ ९ ॥

मल्लि-नाथः - AK.03.04.009

वद् वा यथा तथेवैवं साम्ये । एते साम्यार्थे ॥ अहो हीति विस्मये । एतौ विस्मयार्थे । तन्त्रात् हिशब्दस्यापि ग्रहणम् । ʻअहो हि हो अहहा च नना पश्यत विस्मये इति शृङ्गारप्राकाशिका ॥ मौने तु—सपदि तत्क्षणे । एतौ तत्क्षणार्थे ॥ ९ ॥

[[०४.६२३]]

मूलम् - ०३.०४.०१०

(०३.०४.०१०अब्) दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा ।
(०३.०४.०१०च्द्) अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ॥ १० ॥

लिङ्ग-सूरी - AK.03.04.010

दिष्ट्या समुपजोषं चेत्यानन्दे । यथा—ʻदिष्ट्या त्वमसि मे धात्रा भीतेनेवोपपादितः’ इति (रघु। १५। १८) । ʻसमुपजोषं भवान् जयति इति । एते आनन्दस्य नामनी ॥ अथान्तरे—मध्ये स्युः । अत्रोदाहरणानि । अन्तरे—ʻआवयोरन्तरे जाताः सरित्सागरपर्वताः’ इति (महानाटक ५। २५) । अन्तरा—ʻअन्तरा त्वां च मां च कमण्डलुः’ (सर। कण्ठा। पृ। ५८) । अन्तरेण—ʻमृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः’ इति (शिशु। ३। ३) । एतानि मध्यार्थे वर्तन्ते ॥ प्रसह्य तु हठार्थकम् । यथा—ʻप्रसह्य दास्यभिगमे इति (या। स्मृ। २। २४। २९१) । एतद् हठार्थस्य बलात्कारस्य नाम ॥ १० ॥

<AK.03.04.010>

दिष्ठ्या शमुपजोषं चेत्यानन्दे । इतिशब्दोऽत्र शब्दस्वरूपनिर्देशार्थः । नवानन्दार्थः । ततश्च दिष्ट्यादयस्त्रयः आनन्दे चित्रहर्षे वर्तन्त इति सूभूतिचन्द्रः । यथा—ʻदेव दिष्ठ्या वर्धसे इति । शमिति तालव्यादि मान्तमव्ययं च । ʻशं नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः’ इति (तै। आ। ४। ४२। १) । ʻशङ्करः शं करोतु नः’ इति । उपजोषम्—ʻउपजोषमिहास्महे इति । तथा च वैजयन्ती—ʻसुखे दिष्ट्योपजोषं शम् इति (पृ। २८८, श्लो। १७) । सुबोधिनीकारस्तु—ʻदिष्ट्या समुपजोषम् इति पठित्वा द्वितीयं शब्दं पञ्चाक्षरदन्त्योष्ठ्यादि च मन्वानो ʻदिष्ट्या समुपजोषं च्ö इत्यव्ययद्वयमानन्दे वर्तत इति व्याख्याय उदाजहार—ʻदिष्ट्या पुत्रो जातः, समुपजोषं शुभं चेति मकारान्तमव्ययद्वयमप्यत्र विज्ञेयमिति ॥ अथान्तरे—मध्ये स्युः । अन्तरे इति सप्तम्यन्तप्रतिरूपकमेकारान्तमव्ययम् । तदादाय त्रयः शब्दा यत्किञ्चिद्द्वयापेक्षया मध्यरूपार्थे वर्तन्ते । यथा—अन्तरे पर्वतयोः नदी । अन्तरा—ʻअन्तरा त्वां च मां च कमण्डलुः’ (सर। कण्ठा। पृ। ५८) । अन्तरेण—ʻमातरं पितरं चान्तरेण पुत्रः’ इति । ʻअन्तरान्तरेण युक्ते (२। ३। ४) इति द्वितीया । अत्र गणरत्नमहोदधिकारः—ʻअन्तरान्तरेणेति मध्यमाधेयप्रधानमाचक्षते इति (पृ। ३२) ॥ प्रसह्य तु हठार्थकम् । प्रसह्येति ल्यबन्तप्रतिरूपको निपातो बलात्कारशब्दसमानार्थ इत्यर्थः । यथा—ʻप्रसह्य सिंहः किल तां चकर्ष्ö इति (रघु। २। २७) ॥ १० ॥

मल्लि-नाथः - AK.03.04.010

दिष्ट्या समुपजोषं चेत्यानन्दे । एतौ आनन्दार्थे । जोषंशब्दो नानार्थवर्गे गतः (पृ। ५९८, श्लो। २५१) ॥ अथान्तरे—मध्ये स्युः । एते मध्यार्थे ॥ प्रसह्य तु हठार्थकम् । प्रसह्यशब्दो बलात्कारार्थे ॥ १० ॥

[[०४.६२४]]

मूलम् - ०३.०४.०११

(०३.०४.०११अब्) युक्ते द्वे साम्प्रतं स्थानेऽभीक्ष्णं शश्वदनारते ।
(०३.०४.०११च्द्) अभावे नह्य नो नापि मास्म मालं च वारणे ॥ ११ ॥

लिङ्ग-सूरी - AK.03.03.011

युक्ते द्वे साम्प्रतं स्थाने । यथा—ʻस्वयं छेत्तुमसाम्प्रतम् इति (कु। सं। २। ५५) । स्थाने यथा—ʻस्थाने भावानेकनराधिपः सन्नकिञ्चनत्वं मखजं व्यनक्ति इति (रघु। ५। १६) । एते द्वे युक्तार्थे वर्तेते ॥ अभीक्ष्णं शश्वदनारते । यथा—ʻअभीक्ष्णमुष्णैरपि तस्य सोष्मणः’ इति (शिशु। १। ६५) । शश्वद् भवः शाश्वतः । एतावनारतार्थं कथयतः ॥ अभावे नहि नो नापि । अपिशब्दाद् नञपि । यथा—ʻनहि स्वात्मारामं विषयमृगतृष्णा मृगयते इति । नो—ʻनो चक्री किं कुलालः’ इति । न—ʻन मे किञ्चन दह्यते इति । अ—ʻअराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः’ इति (या। स्मृ। २। १६। १९७) । एते ऽभावे नास्तीत्यर्थे वर्तन्ते ॥ मास्म मालं च वारणे । अत्रोदाहरणानि । मास्म —ʻसौधोत्सङ्गप्रणयविमुखो मास्म भूरुज्जयिन्याः’ इति (मेघ। १। २८) । मा—ʻमा भूदाश्रमपीडेति (रघु। १। ३७) । अलम्—ʻअलं महीपाल तव श्रमेण्ö इति (रघु। २। ३४) । एतानि वारणार्थे वर्तन्ते ॥ ११ ॥

<AK.03.04.011>

युक्ते द्वे साम्प्रतं स्थाने । साम्प्रतमिति मकारान्तम्, स्थाने इत्योकारान्तं चेत्यव्ययमिति युक्तरूपार्थे वर्तेते । यथा—ʻविषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् इति (कु। सं। २। ५५) । युक्तं भवतीत्यर्थः । स्थाने यथा—ʻस्थाने भवानेकराधिपः सन्नकिञ्चनत्वं मखजं व्यनक्ति इति (रघु। ५। १६) ॥ अभीक्ष्णं शश्वदनारते । अनारते सर्वकाल इत्यर्थः । यथा—अभीक्ष्णमन्नं ददाति । अजस्रं ददातीत्यर्थः । शश्वद् भवः शाश्वतः ॥ अभावे नह्य नो नापि । नह्यादिचतुष्कमभावे निषेधे वर्तते । नहीति द्व्यक्षरमेकं पदम् । यथा—ʻनहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति इति । अकारः केवलः प्रतिषेधे । यथा—स्वयमपचन्ति परिव्राजकाः । स्वयं न पचन्तीत्यर्थः । ʻहासकरमिदमधनुते नितरां शिरसीव कङ्कणमुपोढमूर्धजे इति माघकाव्ये च । नो—ʻनो चक्री किं कुलालः’ इति । न—ʻन मे किञ्चन दह्यते इति । अपिशब्दाद् नञ् निषेधे यथा—ʻअनादिरन्तः’ इत्यादि । ʻनलोपो नञः’ (६। ३। ७३) इति नकारलोपः । अत्र सुभूतिचन्द्रः—अनशब्दोऽपि निषेधे । यथा—ʻअनोपमा ते बुद्धिः’ इति शृङ्गारप्रकाशे इति ॥ मास्म मालं च वारणे । मास्मेत्यादयस्त्रयो निवारणार्थे वर्तन्ते । यथा—ʻसौधोत्सङ्गप्रणयविमुखो मास्म भूरुज्जयिन्याः’ इति (मेघ। १। २८) । मा—ʻमा भूदाश्रमपीडेति परिमेयपुरःसरौ’ इति (रघु। १। ३७) । अलम्—ʻअलं महीपाल तव श्रमेण्ö इति (रघु। २। ३४) । माङ्व्यतिरिक्तः केवलोऽपि माशब्दो निपातः प्रतिषेधवचनः । यथा—ʻमा चापलायेति गणान् व्यनैषीत् इति (कु। सं ३। ४१) ॥ ११ ॥

<AK.03.03.01

yukte dve sāṃprataṃ sthāne . ete yukte iti ucitārthe .. abhīkṣṇaṃ śaśvadanārate . anāratārthe ‘vicchede’rthe .. abhāve nahya no nāpi . ete’bhāvārthe .. māsma mālaṃ ca vāraṇe . etāni vāraṇe iti niṣedhārthe . caśabdād nahyādayo’pi syuḥ . ʻna hi no anamā māsma pratiṣedhe prakīrtitāḥ prakīrtitāः’ iti trikāṇḍaśeṣaḥ (pṛ. 36, ślo. 1017) .. 11 ..

[[०४.६२६]]

मूलम् - ०३.०४.०१२

(०३.०४.०१२अब्) पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् ।
(०३.०४.०१२च्द्) प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १२ ॥

लिङ्ग-सूरी - AK.03.03.012

पक्षान्तरे चेद्यदि च । यथा—ʻसत्यं चेत् तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् इति (नी। श। ३७) । एतौ पक्षान्तरे वर्तेते ॥ तत्त्वे त्वद्धाञ्जसा द्वयम् । उदाहरणे । अद्धा—ʻआराधितोऽद्धा मनुरप्सरोभिः’ इति । (सर। कण्ठा। पृ। ५८) । अञ्जसा—ʻअञ्जसेति रुरुधुः कचग्रहैः’ इति (रघु। १९। ३१) । एतौ तत्त्वे निश्चये वर्तेते ॥ प्रकाशे प्रादुराविः स्यात् । यथा—ʻप्रादुरासीद् वसुन्धरा’ इति (रघु। १५। ८३) । ʻआविर्बभूव कुशगर्भमुखं मृगाणां यूथम् इति (रघु। ९। ५५) । एते प्रकाशस्य नामनी ॥ ओमेवं परमं मते । यथा—ʻओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभः’ इति (शिशु। १। ७५) । एवम्—ʻएवं यदात्थ भगवन् इति (कु। सं। २। ३१) । परमम्—ʻततः परममित्युक्त्वा’ इति (कु। सं। ६। ३५) । एते मते ऽङ्गीकारे वर्तन्ते ॥ १२ ॥

<AK.03.04.012>

पक्षान्तरे चेद्यदि च । अनेकपक्षसम्भावनायाम् अन्यतरपक्षविशेषपरिग्रहरूपार्थे द्वावेतौ शब्दौ वर्तेते । यथा च ʻकोटिद्वयनिपाते एककोटिपरिग्रहः यद्यर्थः’ इति वल्लभाचार्यः । यथा—ʻसत्यं चेत् तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् इति (नी। श। ३७) ॥ तत्त्वे त्वद्धाञ्जसा द्वयम् । यथा ʻअद्धा श्रियं पालितसङ्गराय प्रत्यर्पयिष्यत्यनघां स साधुः’ इति (रघु। १३। ६५) । अञ्जसा—ʻअञ्जसा वक्ति सज्जनः’ इति ॥ प्रकाशे प्रादुराविः स्यात् । यथा—ʻप्रादुरासीत् प्रजापतिः’ इति । आविः—ʻआविर्भूतप्रथममुकुलाः’ इति (मेघ। १। २१) ॥ ओमेवं परमं मते । मतेऽङ्गीकारे ओमिति । यथा—ʻओमित्युक्तवतोऽथ शार्ङ्गिणः’ इति (शिशु। १। ७५) । एवम्—ʻओं तथा । एवमेतद् यथात्थ त्वम् इति । परमम्—ʻततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् इति (कु। सं। ६। ३५) ॥ १२ ॥

मल्लि-नाथः - AK.03.03.012

पक्षान्तरे चेद्यदि च । एतौ पक्षान्तरार्थे । ʻच पादपूरणे पक्षान्तरे हेतौ विनिश्चये इति त्रिकाण्डशेषः (पृ। ३६, श्लो। १०१८) ॥ तत्त्वे त्वद्धाञ्जसा द्वयम् । एतद् द्वयं तत्त्वे इति परमार्थे ॥ प्रकाशे प्रादुराविः स्यात् । एते द्वे प्रकाशे इति प्राकट्यार्थे । प्रादुरभूत् । साक्षादिति पाठे व्यवहितेऽपि स्याताम् । ʻअभवन् युगपद् विलोलजिह्वायुगलीढोभयसृक्कभागमाविः’ इति (शिशु। २०। ४२) ॥ ओमेवं परमं मते । एतानि मताथ ॥ १२ ॥

[[०४.६२७]]

मूलम् - ०३.०४.०१३

(०३.०४.०१३अब्) समन्ततस्तु परितः सर्वतो विष्वगित्यपि ।
अक्।०३.०४.०१३च्द् अकामानुमतौ काममसूयोपगमेऽस्तु च ॥ १३ ॥

लिङ्ग-सूरी - AK.03.04.013

समन्ततस्तु—विष्वगित्यपि । उदाहरणानि । ʻसमन्ततो वर्षति मेघसङ्घः’ इति । परितः—ʻआयान्ति परितः स्त्रियः’ इति । सर्वतः—ʻत्वं सर्वतोगामि च साधकं च्ö इति । (कु। सं। ३। १२) । विष्वक्—ʻविष्वक् तटेषु पतति स्फुटमन्तरिक्षम् इति । एतानि सर्वतोऽर्थे वर्तन्ते ॥ अकामानुमतौ कामम् । यथा—ʻकामं क्षाम्यतु यः क्षमी इति (शिशु। २। ४३) एतदकामानुमतौ अनिश्चयाङ्गीकृतौ वर्तते ॥ असूयोपगमेऽस्तु च । चकाराद् भवत्वित्यपि । अत्र उदाहरणे । अस्तु—ʻतथाविधस्तावदशेषमस्तु सः’ इति (कु। सं। ५। ८२) । भवतु—ʻभवतु भवत्वसुहृज्जनः सकामः’ इति । एतावसूयया अङ्गीकारे वर्तेते ॥ १३ ॥

<AK.03.04.013>

समन्ततस्तु—विष्वगित्यपि । समन्तत इत्यादिचतुष्टयं क्रियायाः सर्वदेशसम्बन्धित्व । यथा—ʻसमन्ततो वर्षति मेघसङ्घः’ इति । परितः—ʻआयान्ति परितः श्रियः’ इति । सर्वतः—सर्वतोऽवलोक्य । विष्वक्—ʻविष्वक्तटेषु पतति स्फुटमन्तरिक्षम् इति । इतिशब्दः एवंविधाव्ययान्तरप्रदर्शनार्थः । यथा—समन्तादवलोक्य इत्यादि ॥ अकामानुमतौ कामम् । कामम् आत्मन इच्छाया अभावेऽपि परानुरोधाद् बलाद्वा कृतमङ्गीकरणम् अनुमतिः । यथा—ʻमनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी इति (शिशु। २। ४३) । कदाचिदपि क्षमा न करणीयेति तन्मतम् । यदि करणीयेति परस्य मतं, तर्हि क्वचिदेव क्रियतामित्यर्थः काममिति मान्तेनाव्ययेन प्रकाश्यते । सुभूतिचन्द्रस्तु ʻआकामानुमतौ कामम् इति दीर्घादिं पठित्वा निकामानुमताविति व्याचष्ट । तथा च ʻकामं कामाभ्यनुज्ञायाः’ इति त्रिकाण्ड्यामुक्तम् । रुद्रस्तु उभयमप्याह—ʻआकामानुमतौ काममसूयोपगमेऽपि च्ö इति ॥ असूयोपगमेऽस्तु च । असूयापूर्वकेऽङ्गीकारे यथा—ʻअलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः’ इति (कु। सं। ५। ८२) । चशब्दाद् भवतुशब्दोऽपीति सुबोधिनीकारः । यथा—ʻभवतु को दोषः’ इति ॥ १३ ॥

मल्लि-नाथः - AK.03.04.013

समन्ततस्तु—विष्वगित्यपि । एतानि सर्वत्रार्थे । समन्ताच्छब्दोऽप्यस्ति । ʻपरितः सर्वतो विष्वक् समन्ताच्च समन्ततः’ इति वैजयन्ती (पृ। २८७, श्लो। ३) ॥ अकामानुमतौ कामम् । कामंशब्दः अकामपूर्वकानुमतौ । असूयोपगमेऽस्तु च । अस्तुशब्दोऽसूयापूर्वकाभ्युपगमेऽपि स्यात् । ʻअस्तु स्यादभ्युपगमेऽप्यसूयापीडयोरपि इति विश्वः (पृ। १८६, श्लो। १५) ॥ १३ ॥

[[०४.६२९]]

मूलम् - ०३.०४.०१४

अक्।०३.०४.०१४अब् ननु च स्याद् विरोधोक्तौ कच्चित् कामप्रवेदने ।
अक्।०३.०४.०१४च्द् निःषमं दुःषमं गर्ह्ये यथास्वं तु यथायथम् ॥ १४ ॥

लिङ्ग-सूरी - AK.03.04.014

ननु च स्याद् विरोधोक्तौ । ʻननु चात्रं तुगागमः कथं भवति इति । ननु चेति विरोधोक्तौ वर्तते ॥ कच्चित् कामप्रवेदने । यथा—ʻआमृश्यते जानपदैर्न कच्चित् इति (रघु। ५। ९) । एतत् कामप्रवेदने इष्टपरिप्रश्ने वर्तते ॥ निःषमं दुःषमं गर्ह्ये । यथा—निःषमं वक्ति मूर्खः । दुःषमं वर्तते वधूः । एतौ गर्ह्ये निन्दार्थे वर्तेते ॥ यथास्वं तु यथायथम् । यथा—ʻयथास्वमाश्रमैश्चक्रे इति (रघु। १७। ६५) । यथायथं पलायन्तः । एतावात्मन्यात्मीये वर्तेते ॥ १४ ॥

<AK.03.04.014>

ननु च स्याद् विरोधोक्तौ । यथा—ननु च नित्या वेदाः; त्वदुक्तं वेदानामाप्तप्रणीतत्वं विरुद्धमित्यर्थः ॥ कच्चित् कामप्रवेदने । स्वाभिप्रायाविष्करणं कामप्रवेदनम् । यथा—ʻकच्चिज्जीवति ते माता कच्चिज्जीवति ते पिता’ इत्यादावपि भवदीयपित्रोर्जीवनं ममाभिमतमित्यादिरर्थोऽवगन्तव्यः । केचित्तु—कामप्रवेदनशब्द इष्टपरिप्रश्ने लक्षणया वर्तत इत्याहुः ॥ निःषमं दुःषमं गर्ह्ये । निर्गतं समं निःषमम् । दुष्टं समं दुःषमम् । ʻतिष्ठद्गुप्रभृतीनि च्ö (२। १। १७) इत्यव्ययीभावे ʻसुविनिर्दुर्भ्यः सुपिसूतिसमाः’ (८। ३। ८८) इति षत्वम् । तथा च महोदधौ—(पृ। १३३) ʻनिर्गतं समं निर्गतत्वं समस्येति वा समान्निष्क्रान्तो वा निःषमम् । ʻदुष्टं समं, दुष्टत्वं वा समस्य दुःषमम् । (पृ। १३५) । ʻअव्ययीभावश्च्ö (२। ४। १८, १। १। ४१) इति नपुंसकत्वमव्ययत्वं चेत्यनयोः शब्दान्तरेण समासो नास्तीति ʻतिष्ठद्गुप्रभृतीनि च्ö (२। १। १७) इति ʻचकारेणावधारितम् । अन्ये त्वाहुः—ʻनिर्गता बहवः समाः संवत्सरा यस्मिन् शरत्संवत्सराद्यात्मके काले स कालो निःषमम् । यथा—निःषमं वक्ति मूर्खः । बहुकालसाध्यमर्थं स्वल्पावशिष्टकाले वक्तीत्यर्थः तथा दुःषमशब्दोऽपि कालवाचनः । यथा—दुःषमं वर्तत इति । दुष्टसमावेशात् कालस्य दुष्टत्वम् । दुष्टः कालो वर्तत इत्यर्थः । उभयोरपि पुर्ववदेवाव्ययीभावत्वं षत्वं च । निःषमदुःषमकालोऽप्यतिरिक्ते गर्ह्यमात्रे तूपचाराद् निःषमदुःषमशब्दौ वर्तेते इति बोद्धव्यम् ॥ यथास्वं तु यथायथम् । अत्र स्वशब्द आत्मीयवचनः । तेन यो य आत्मा यो य आत्मीयो वा तत्रोभयत्रापि यथास्वं यथायथमिति शब्दद्वयं वर्तते । ʻयथास्वमिति वीप्सायामव्ययीभावः’ इति काशिका । यथास्वं यथायथमिति यथाशब्दस्य द्विर्वचनं नपुंसकत्वं च निपात्यते (काशिका। २, पृ। ३७६) । अत एव ʻह्रस्वो नपुंसके प्रातिपदिकस्य्ö (१। २। ४७) इति ह्रस्वत्वस्याव्ययगणे पाठादव्ययत्वम् । तत्रात्मवचनत्वे यथा—ʻयथास्वं कृतविक्रमाः’ इति । ʻतत्प्रसादादमी भावा ज्ञाताः सर्वे यथायथम् इति । सर्वे पदार्थाः स्वरूपतो ज्ञाता इत्यर्थः । आत्मीयवचनत्वे यथा—ʻअध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि इति (रघु। १३। २२) । ʻयथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितशैलवीरुधः’ इति (किरा। ८। २) ॥ १४ ॥

मल्लि-नाथः - AK.03.04.014

ननु च स्याद् विरोधोक्तौ । ननुचशब्दो विरोधोक्तौ स्यात् । प्रश्नेऽपि स्यात् । तथा च विश्वः ʻननुच प्रश्नदृष्ट्योक्त्योः’ इति (पृ। १८६, श्लो। ११) ॥ कच्चित् कामप्रवेदने । कच्चिच्छब्दः कामप्रवेदनायाम् । प्रश्नवितर्कयोरपि स्यात् । ʻकच्चित् प्रश्नवितर्कयोः’ इति विश्वः (पृ। २८७, श्लो। १५) ॥ निःषमं दुःषमं गर्ह्ये । एते गर्ह्यार्थे स्याताम् ॥ यथास्वं तु यथायथम् । स्वेषां स्वेषामित्यस्मिन्नर्थे स्याताम् ॥ १४ ॥

[[०४.६३१]]

मूलम् - ०३.०४.०१५

अक्।०३.०४.०१५अब् मृषा मिथ्या च वितथे यथार्थं तु यथातथम् ।
अक्।०३.०४.०१५च्द् स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ॥ १५ ॥

लिङ्ग-सूरी - AK.03.04.015

मृषा मिथ्या च वितथे । यथा—ʻभवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः’ इति (शिशु। ४। १०) । मिथ्या—ʻतामूचतुस्ते प्रियमप्यमिथ्या’ इति (रघु। १४। ६) । एतावनृते वर्तेते ॥ यथार्थं तु यथातथम् । यथा—यथार्थमुक्तवानासीत् । यथातथम्—गुरुर्यथातथं वक्ति । एतौ सत्ये वर्तेते ॥ स्युरेवं—धारणवाचकाः । यथा—ʻएवमेतद् यथा प्राह विष्णुस्तु जगदीश्वरः’ इति । तु—ʻरावणं तु दुरात्मानमवधीद् राघव पुनः’ इति । वा—ʻव्यासो वा सर्वधर्मज्ञः’ इति । एव—ʻत्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि इति (शिशु। १। ३१) । एतेऽवधारणे निश्चयार्थे वर्तन्ते ॥ १५ ॥

<AK.03.04.015>

मृषा मिथ्या च वितथे । वितथेऽप्रामाणिके वचसि वस्त्वन्तरे वा यथा—मृषा भाषसे, मिथ्या वदसि । मिथ्याभूतमिदं जगत्, प्रपञ्चो मिथ्या इति । यथार्थं तु यथातथम् । अर्थं वस्तुतत्त्वमनतिक्रम्य यथार्थम् ॥ʻतथाशब्दः सत्यवचने इति महोदधौ (पृ। ४२२) । तथा सत्यमनतिक्रम्य यथातथम् । ʻयथातथयथापुरयोः पर्यायेण्ö (७। ३। ३१) इति निपातनात् साधुत्वम् ॥ स्युरेव तु—धारणवाचकाः । एवशब्दादयः पञ्च स्वेतरनिषेधगर्भितनिश्चयज्ञानवाचकाः । यथा—ʻन वैव द्रव्याणि इति । केचित् एवमिति सबिन्दुकं पठित्वोदाहरन्ति—ʻएवमेतत् कः सन्देहः’ इति (रत्ना। १। ७-) । तु—ʻआत्मा सव तु पश्यति इति । आत्मैव पश्यतीत्यर्थ । पुनः—ʻविप्रः पुनः पूज्यतमः समस्तैः’ इति । विप्र एव पूज्य इत्यर्थः । वै—ʻन वै ब्राह्मणे श्री रमते इति । न रमत एवेत्यर्थः । च —ʻआत्मा च सच्चिदानन्दः’ इति प्रामाणिकप्रथा । केचित्तु वैवेत्यन्तिमं शब्दं पठन्ति । यथा—ʻसा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम्ö इति (कु। सं। २। ६०) । अत्र न तृतीया व्यक्तिरित्यवधारणं द्वाभ्यां वाशब्दाभ्यां गम्यते ॥ १५ ॥

मल्लि-नाथः - AK.03.04.015

मृषा मिथ्या च वितथे । एते वितथार्थे स्याताम् ॥ यथार्थं तु यथातथम् । एते सत्यार्थे ॥ स्युरेव तु—धारणवाचकाः । एते पञ्च अवधारणार्तकाः स्युः ॥ १५ ॥

[[०४.६३२]]

मूलम् - ०३.०४.०१६

अक्।०३.०४.०१६अब् प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् ।
अक्।०३.०४.०१६च्द् संवद् वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ॥ १६ ॥

लिङ्ग-सूरी - AK.03.04.016

प्रागतीतार्थकम् । यथा—ʻप्रपेदिरे प्राक्तनजन्मविद्याः’ इति (कु। सं। १। ३०) । एतदतीतार्थके वर्तते ॥ नूनमवश्यं निश्चये द्वयम् । यथा—ʻनूनं मत्तः परं वंश्याः’ इति (रघु। १। ६६) । अवश्यम्—ʻअवश्यं यातारश्चिरतरमुषित्वापि विषयाः’ इति (वै। श। पृ। ६१, श्लो। १५७) । एतौ निश्चये वर्तेते ॥ संवद् वर्षे । यथा—ʻरामः पञ्चदशे संवदयोध्यां प्रविवेश ह्ö इति । एतद् वर्षे संवत्सरे वर्तते ॥ अवरे त्वर्वाक् । यथा—ʻअर्वाक् सपिण्डीकरणं यस्य संवत्सराद् भवेत् इति (या। स्मृ। १। २०। २५५) । एतदवरार्थे वर्तते ॥ आमेवम् । यथा—ʻआं करोमि तव प्रियम् इति । एतदेवमर्थेऽङ्गीकारे वर्तते ॥ स्वयमात्मना । यथा—ʻस्वयङ्कृतप्रसादस्य्ö इति (शिशु। २। ११०) । एतदात्मना इति तृतीयार्थे वर्तते ॥ १६ ॥

<AK.03.04.016>

प्रागतीतार्थकम् । यथा—ʻप्रपेदिरे प्राक्तनजन्मविद्याः’ इति प्रागुक्तम् (कु। सं। १। ३०) ॥ नूनमवश्यं निश्चये द्वयम् । यथा—ʻनूनं हन्तास्मि रावणम् इति । अवश्यम्—ʻअवश्यं यातारश्चिरतरमुषित्वापि विषयाः’ इति (वै। श। १५७) ॥ संवद् वर्षे । वर्षे वत्सरे । यथा—ʻरामः पञ्चदशे संवदयोध्यां प्रविवेश ह्ö इति । ʻसंवत्तृतीये चूडाकर्म्ö इति; तृतीये वर्षे चूडाकरणं कर्तव्यमित्यर्थः ॥ अपरे त्वर्वाक् । परस्मादुत्कृष्टादन्योऽपरः । अवर इत्यन्तस्थमध्याक्षरपाठेऽप्ययमर्थः । यथा—ʻअर्वाक् तु ब्रह्महत्यायाः षडब्दं कृच्छ्रमाचरेत् इति ॥ आमेवं । आमेवमिति द्वयं परोदीरितार्थस्याङ्गीकारे वर्तते । ओमेवं परममिति प्रागुक्तम् (पृ। ६२६, श्लो। १२) । शब्दद्वयं तु स्वपरयोरुभयोरपि सम्मतस्याङ्गीकारे इति भेदः । यथा—आं किं करोमि, एवं करोमि इति ॥ स्वयमात्मना । तृतीयैकवचनान्तस्यात्मशब्दस्य यावानर्थः तत्र स्वयमित्यव्ययं वर्तत इत्यर्थः । यथा—ʻस्वयङ्कृतप्रसादस्य्ö इति (शिशु। २। ११०) ॥ १६ ॥

मल्लि-नाथः - AK.03.03.016

प्रागतीतार्थकम् । प्राक्शब्दोऽतीतार्थकः स्यात् ॥ नूनमवश्यं निश्चये द्वयम् । एते द्वे निश्चयार्थे स्याताम् ॥ संवद् वर्षे । संवच्छब्दः संवत्सरार्थे ॥ अवरे त्वर्वाक् । अर्वाक् शब्दः अवरे इत्यधस्तादर्थे ॥ आमेवम् । एते द्वे ऽनुज्ञार्थे वर्तेते ॥ स्वयमात्मना । एतदेकमात्मनेति तृतीयान्तार्थे ॥ १६ ॥

[[०४.६३३]]

मूलम् - ०३.०४.०१७

अक्।०३.०४.०१७अब् अल्पे नीचैः महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः ।
अक्।०३.०४.०१७च्द् सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने ॥ १७ ॥

लिङ्ग-सूरी - AK.03.04.017

अल्पे नीचैः । यथा—ʻतथापि नीचैर्विनयादृश्यत्ö इति (रघु। ३। ३४) । एतदल्पार्थे वर्तते ॥ महत्युच्चैः । यथा—ʻशृङ्गमुच्चैर्गिरेरिदम् इति । एतद् महदर्थे वर्तते ॥ प्रायो भूम्नि । यथा—ʻप्रायो नववधूः कान्ता’ इति । एतद् भूमार्थे वर्तते ॥ अद्रुते शनैः । यथा—आलिङ्गति शनैः शनैः । एतदद्रुतेऽशीघ्रार्थे वर्तते ॥ सना नित्ये । यथा—सनातनः । एतन्नित्यार्थं कथयति ॥ बहिर्बाह्ये । यथा—ʻदासीकुम्भं बहिर्ग्रामान्निनयेरन् स्वबान्धवाः’ इति (या। स्मृ। ३। ५। २९४) । एतद् बाह्यार्थे वर्तते ॥ स्मातीते । यथा—ʻसेवते स्म शयनं पराङ्मुखी (कु। सं। ८। २) इति । एतदतीतार्थे वर्तते ॥ अस्तमदर्शने । यथा—ʻअस्तमेति युगभग्नकेसरैः’ इति । एतददर्शननाम ॥ १७ ॥

<AK.03.04.017>

अल्पे नीचैः । ʻयथा—तथापि नीचैर्विनयाददृश्यत्ö इति (रघु। ३। ३४) ॥ महत्युच्चैः । यथा—महान् वातो वातीत्यर्थे उच्चैर्वातो वाति । सकारान्तावेतौ ॥ प्रायो भूम्नि । भूम्नि बाहुल्ये । यथा—ʻप्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः’ इति (कु। सं। ६। २०) । अकारान्तः प्रायशब्दः यान्तेषु प्रागुक्तः (पृ। ४३३, नाना। १५३) । अद्रुते शनैः । अद्रुते शीघ्ररहित इत्यर्थः । यथा—शनैश्चर इति ॥ सना नित्ये । यथा—ʻपूर्णं ब्रह्म सनातनम् इति । नित्यमित्यर्थः ॥ बहिर्बाह्ये । अनावृतो देशो बाह्यम् । तत्र यथा—ग्रामाद् बहिरिति । स्मातीते । अतीतकालसम्बन्धिनि भूतार्थ इत्यर्थः । ʻसेवते स्म शयनं पराङ्मुखी (कु। सं। ८। २) इति ॥ अस्तमदर्शने । अदर्शनं दर्शनाभावो नाशप्रयुक्तः तिरोभावप्रयुक्तो वा । तत्राभयत्र मान्तमव्ययं वर्तते । यथा—अस्तं गतो रावणः, अस्तं गतो भास्करः इति ॥ १७ ॥

मल्लि-नाथः - AK.03.04.017

अल्पे नीचैः । नीचैःशब्दोऽल्पार्थे नीचार्थे चापि स्यात् ॥ महत्युच्चैः । उच्चैःशब्दो महदर्थे स्यात् । उच्चार्थेऽपि स्यात् ॥ प्रायो भूम्नि । प्रायःशब्दो भूमार्थे ॥ अद्रुते शनैः । शनैःशब्दोऽशीघ्रार्थे ॥ सना नित्ये । सनाशब्दो नित्यार्थे वर्तते ॥ बहिर्बाह्ये । बहिःशब्दो बाह्यार्थे ॥ स्मातीते । स्मशब्दोऽतीतार्थे स्मृतिनिषेधयोरपि स्यात् । ʻस्मृतौ वृत्ते निषेधे स्म्ö इति वैजयन्ती (पृ। २५४, श्लो। ७) ॥ अस्तमदर्शने । अस्तंशब्दोऽदर्शनार्थे ॥ १७ ॥

[[०४.६३४]]

मूलम् - ०३.०४.०१८

अक्।०३.०४.०१८अब् अस्ति सत्त्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि ।
अक्।०३.०४.०१८च्द् हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ ॥ १८ ॥

लिङ्ग-सूरी - AK.03.04.018

अस्ति सत्त्वे । यथा—ʻआस्तिकः श्रद्दधानश्च्ö इति (या। स्मृ। १। १०। २६८) । एतत् सत्त्वे सतोभावे वर्तते ॥ रुषोक्तौ हुम् । ʻप्रसह्य हुङ्कारनिवर्तितः पुरा’ इति (कु। सं। ५। ५४) । उमिति वा पाठः । यथा—ʻउमित्युवाच पुरतः पुरुषस्य कान्ता’ इति । एतद् रुषोक्तौ वर्तते ॥ उ प्रश्ने । ʻउ आगतः शत्रुः’ इति । एतत् प्रश्नार्थे वर्तते ॥ अनुनये त्वयि । यथा—ʻअयि क्रियार्थं सुलभं समित्कुशम् इति (कु। सं। ५। ३३) । एतदनुनये वर्तते ॥ तर्के तु स्यात् । यथा—ʻस्याच्चेत् किं नोपपद्यते इति (कु। सं। ६। ६१) । ʻतर्के नु स्यात् इति वा पाठः । यथा—रामो नु लक्ष्मणो नु इति । एतौ तर्के वर्तेते ॥ उषा रात्रेरवसाने । यथा—उषा जनाः प्रबध्यन्ते इति । एतत् प्रभाते वर्तते ॥ नमो नतौ । यथा—नमो विष्णवे । एतन्नत्यर्थे वर्तते ॥ १८ ॥

<AK.03.04.018>

अस्ति सत्त्वे । अस्तीति कालसामान्ये तिङन्तप्रतिरूपकमव्ययं सत्तावाचकम् । यथा—ʻषण्णां पदानामस्तित्वम् ʻअस्तिक्षीरा ब्राह्मणी (काशिका। १, पृ। १०६) इति ॥ रुषोक्तौ हुम् । रोषेण वचसि हुमिति निपातो वर्तते । यथा—ʻवृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते इति भवभूतिः (उत्तर। ५। ३५) । अनुचितभवदीयवचनश्रवणेनास्माकं रोषोक्तिर्वर्तत इत्यर्थः । अन्ये तु रुषोक्तावूम् इति मकारान्तं दीर्घमोष्ठ्यं स्वरं पठन्ति । यथा—ऊं सैव भवतः प्रिया । भवतो मनसि या वर्तते सैव प्रिया नाहं प्रियेत्यर्थः ॥ उं प्रश्ने । परोदीरितं मनसिकृत्य प्रकृतप्रसङ्गविशेषजिज्ञासाविष्करणमिह प्रश्नशब्देन विवक्षितम् । अत्र उमिति ह्रस्वो मान्तो निपातो वर्तते । ʻउङ्कोनुटु पेरु’ ॥ अनुनयो त्वयि । यथा—ʻअयि जीवितनाथ जीवसि इति (कु। सं। ४। ३) । ʻअयि मुग्धे इति च ॥ तर्के नु स्यात् । द्वयमूहे । यथा—ʻअस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु’ इति (किरा। ९। ७) । स्यात्—ʻयद्यग्निर्न स्यात् तर्हि धूमोऽपि न स्यात् इति ॥ उषा रात्रेरवसाने । रात्रेश्चतुर्थप्रहरोत्तरार्धे घटिकाचतुष्टये । यथा—ʻउषातनो वायुरुपैति मन्दम् इति । नमो नतौ । नतौ प्रणामे । यथा—ʻनमो धर्माय महते नमः कृष्णाय वेधसे इति (भागवत। १२। १२। १) । ʻनमः स्वस्ति ॥ । इत्यादिना (२। ३। १६) चतुर्थी । ʻसाक्षात्प्रभृतीनि च्ö (१। ४। ७४), ʻविभाषा कृञि (१। ४। ७२) इति गतिसञ्ज्ञापक्षे ʻनारायणं नमस्कृत्य्ö इत्यादौ ʻउपपदविभक्तेः कारकविभक्तिर्बलीयसी (परि। २। ३। १६) इति द्वितीयैव भवति । ʻनमोवरिवश्चित्रङ क्यच् (३। १। १९) इति क्यच्प्रत्यये तु ʻनारायणं नमस्यति । ʻस्वयम्भुवे नमस्कृत्य्ö, ʻब्राह्मणेभ्यो नमस्कृत्य्ö इत्यादयः प्रयोगाः ʻपत्ये शेते ʻयुद्धाय सन्नह्यति इत्यादिवदुपपादनीयाः ॥ १८ ॥

मल्लि-नाथः - AK.03.04.018

अस्ति सत्त्वे । अस्तिशब्दः सत्त्वे इति विद्यमानतायां वर्तते । अस्ति देवदत्तः, अभूत् भवति भविष्यति वा इत्यर्थः । ʻअस्त्याह कालसामान्ये तिङन्तप्रतिरूपकम् इति त्रिकाण्डशेषः (पृ। ३७, श्लो। १०२५) ॥ रुषोक्तावूम् । ऊंशब्दो रोषोक्तौ दीर्घादिः ॥ उं प्रश्ने । उं शब्दः प्रश्नार्थे ह्रस्वादिः ॥ अनुनये त्वयि । अयिशब्दो ऽनुनयपूर्वकः प्रश्नार्थे । ʻअयि प्रश्नेनानुनये इत्यमरमाला ॥ तर्के नु स्यात् । नुस्याच्छब्दौ तर्कार्थे ॥ उषा रात्रेरवसाने । उषाशब्दो रात्रिशेषे । उषःशब्दोऽप्यस्ति । ʻउषा स्याद् रजनीशेष उष इत्यपि दृश्यते इति रभसः ॥ नमो नतौ । नमःशब्दो नत्यर्थे । अनव्ययनमःशब्दोऽप्यस्ति । ʻयत्तन्नमः किमपि शुश्रुम देवताभ्यः’ इति । ʻत्वामन्तरेण नमसामवसानभूमिम् इति च ॥ १८ ॥

[[०४.६३६]]

मूलम् - ०३.०४.०१९

अक्।०३.०४.०१९अब् पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने ।
(आमानुगुण्ये स्मरणेऽये फड् विघ्ननिराकृतौ ।

अङ्गीकृतौ स्यादधिकं हीनसम्बोधने तु रे ॥)

अक्।०३.०४.०१९च्द् सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ॥ १९ ॥

लिङ्ग-सूरी - AK.03.04.019

पुनरर्थेऽङ्ग । यथा—ʻमूर्खस्तु नावमन्तव्यः किमङ्ग विद्वान् इति (स्वामी पृ। ३४१) । एतत् पुनरर्थे वर्तते । निन्दायां दुष्ठु । यथा—दुष्ठुवृत्तिर्दुर्जनः स्यात् । एतन्निन्दायां वर्तते ॥ सुष्ठु प्रशंसने । यथा—सुष्ठु भुक्तं मया गृहे । एतत् प्रशंसायां वर्तते ॥ आमानुगुण्ये । यथा—आम वर्तते । एतदानुगुण्ये स्ववशत्वे वर्तते । स्मरणेऽये । यथा—अये पूर्वं कृतं मया । एतत् स्मरणे वर्तते ॥ फड् विघ्ननिराकृतौ । ʻअस्त्राय फट् इति (वरदपूर्वतापन्युपनिषत् २। २) । एतद् विघ्ननिराकरणे वर्तते ॥ अङ्गीकृतौ स्यादथ किम् । यथा—देवदत्त घटं करोषि? अथ किम् । एतदङ्गीकारे वर्तते ॥ हीनसम्बोधने तु रे । यथा—रेरे पापिन् ममान्तिकादपसर । एतत् हीनसम्बोधने वर्तते ॥ सायं साये । यथा—ʻविन्यस्तसायन्तनमल्लिकासु’ इति । एतत् साये दिनान्ते वर्तते ॥ प्रगे प्रातः प्रभाते । यथा—ʻइत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद् बहिः’ इति (शिशु। १२। १) । प्रातः—ʻप्रातः सन्ध्यामुपासीत्ö इति (या। स्मृ। १। ५। ९८) । एतौ प्रभाते वर्तेते ॥ निकषान्तिके । यथा—ʻविलङ्घ्य लङ्कां निकषा हनिष्यति इति (शिशु। १। ६८) । एतत् समीपार्थे वर्तते ॥ १९ ॥

<AK.03.04.019>

पुनरर्थेऽङ्ग । अत्र पुनरर्थे भेदरूपः। यथा—ʻमूर्खोऽपि नावमन्तव्यः किमङ्ग विद्वान् इति मुरारिनाटके । ʻनारकेऽपि तं चोत्तिष्ठमानं पौरजानपदाः प्रकृतयो ऽप्यनूत्तिष्ठेरन् किमङ्ग सम्बन्धिबान्धवाः’ इति । किम्पुनः सम्बन्धिबान्धवा इत्यर्थः ॥ निन्दायां दुष्ठु । यथा—दुष्ठु जल्पति । गर्हितं वदतीत्यर्थः ॥ सुष्ठु प्रशंसने । यथा—सुष्ठु भाष्यकारेण इति ॥ आमानुगुण्ये । आनुगुण्ये आनुकूल्ये । यथा—आम मैथिलि । आम इति ह्रस्वान्तोऽयं निपातितः स्मरणेऽये । यथा—ʻअये पूर्व कृतम् इति पूर्वं मया कृतं स्मृतमित्यर्थः ॥ फड विघ्ननिराकृतौ । यथा —ʻहुं फट् ʻअस्त्राय फट् (वरद। उप। २। २।) ॥ अङ्गीकृतौ स्यादथ किम् । यथा—ʻदेवदत्त किं भोक्ष्यसे इति पृष्ट आह ʻअथ किम् इति ॥ हीनसम्बोधने तु रे । यथा—ʻरे रे रावण्ö इति । केचित् ʻहीनसम्बोधने त्वरे इति स्वरादिद्व्यक्षरं पठित्वोदाहरन्ति—यथा—ʻरे रे वानर को भवानहमरे त्वत्सूनुहन्ताहवे इति । इह कैश्चित् टीकाकारैः ʻआमानुगुण्ये इत्यादिश्लोको न व्याख्यातः न पठितश्च । सायं साये । अत्र साय इति सप्तम्या विनिर्दिशन्ननव्ययोऽप्यकारान्तः सायशब्दोऽस्तीति दर्शयति । कालवर्गेऽप्यकारान्त उक्तः (पृ। ७४) स च सायाह्न इत्यादौ दिनान्ते वर्तते । ʻसायमण्डनमभि त्वरयन्त्यः’ (किरा। ९। ६) इत्यादौ निशामुखे । अत्रोभयत्रापि सायमिति मान्तमव्ययं भवति । यथा—ʻसायन्तन्यपरत्र चेन्मृततिथिः प्रत्याब्दिके मासिके सा ग्राह्या’ इति दिनान्ते । ʻसायं प्रातरग्निहोत्रं जुहोति इति निशामुखे ॥ प्रगे प्रातः प्रभाते । प्रगे इत्येकारान्तमव्ययम् । यथा—ʻप्रगेतनो वायुरुपैति मन्दम् इति । प्रातः—ʻप्रातःसन्ध्यामुपासीत्ö इति (या। स्मृ। १। ५। ९८) ॥ निकषान्तिके । यथा—ʻविलङ्घ्य लङ्कां निकषा हनिष्यति इति (शिशु। १। ६८) । लङ्कायाः समीपे इत्यर्थः । ʻअभितःपरितःसमयानिकषा हाप्रतियोगेषु च दृश्यते (वा। १। ४। ४८) इत्यनेन निकषाशब्दयोगे लङ्काशब्दस्य द्वितीया ॥ १९ ॥

मल्लि-नाथः - AK.03.04.019

पुनरर्थेऽङ्ग । अङ्गशब्दः पुनरर्थे ॥ निन्दायां दुष्ठु । दुष्ठुशब्दो निन्दार्थे ॥ सुष्ठु प्रशंसने । सुष्ठुशब्दः प्रशंसायाम् ॥ सायं साये । सायंशब्दः साये इति दिवसावसाने ॥ प्रगे प्रातः प्रभाते । एते द्वे दिवसादौ ॥ निकषान्तिके । निकषाशब्दः समीपार्थे ॥ अनुक्तम्—अत्यन्ताय स्यान्नितान्ते । अत्यन्तायशब्दो नितान्तार्थे स्यात् ॥ १९ ॥

[[०४.६३८]]

मूलम् - ०३.०४.०२०

अक्।०३.०४.०२०अब् परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति ।
अक्।०३.०४.०२०च्द् अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥
अक्।०३.०४.०२१अब् तथाधरान्यान्यतरेतरात् पूर्वेद्युरादयः ।

लिङ्ग-सूरी - AK.03.04.020

परुत्परारि—पूर्वतरे यति । पूर्वे पूर्वतरे यति वर्तमाने च क्रमेण परुच्छब्दः परारिशब्द ऐषमःशब्दश्च वर्तते । अत्रोदाहरणे श्लोकः—

ʻपरारिसञ्चितं वित्तं परुन्नष्टमभोगतः ।

ऐषमश्चीयते यत्नात् तस्य किं वा भविष्यति ॥

इति ॥ अद्यात्राह्नि । अत्राह्नि अस्मिन् वर्तमानेऽहनि अद्यशब्दो वर्तते । यथा—ʻअरावणमरामं वा जगदद्येति निश्चितः’ इति (रघु। १२। ८३) ॥ अथ पूर्वेऽह्नीत्यादौ—पूर्वेद्युरादयः । अस्यार्थः—पूर्वोत्तरापरात् तथा अन्यान्यतरेतरात् शब्दाच्च पूर्वेऽह्नीत्यादौ पूर्वेद्युरादयः शब्दा वर्तन्ते । अत्र क्रमेणोदाहरणानि—पूर्वेद्युः—ʻनिमन्त्रयेत पूर्वेद्युः’ इति (या। स्मृ। १। १०। २२५) । उत्तरेद्युः—ʻनान्दीमुखादुत्तरेद्युर्विवाहः’ इति । अपुरेद्युः, अधरेद्युः—ʻआगतानपरेद्युस्तानधरेद्युः समागताः’ इति । अन्येद्युः—ʻअन्येद्युरात्मानुचरस्य भावम् इति (रघु। २। २६) । अन्यतरेद्युः—ʻपञ्चमीषष्ठ्योरन्यतरेद्युः पितरं द्रक्ष्यसि । इतरेद्युः—कष्टदिनादितरेद्युः प्रियो द्रष्टव्यः ॥ २० ॥

<AK.03.04.020>

परुत्परारि—पूर्वतरे यति । पूर्वस्मिन्नब्दे परुच्छब्दः । पूर्वतरे वर्षे परारिशब्दः । यति वर्तमाने वर्षे ऐषमः इत्यर्थः । ʻसद्यःपरुत् परार्यैषमः॥ । (५। ३। २२) इत्यत्र काशिका (२, पृ। ६१)—ʻपूर्वपूर्वतरयोः परभावो निपात्यते उदारी च प्रत्ययौ संवत्सरेऽभिधेये । पूर्वस्मिन् संवत्सरे परुत्, पूर्वतरे संवत्सरे परारि । इदम इश् भावः समसण्प्रत्ययो निपात्यते संवत्सरेऽभिधेये । “इदम इश्” (५। ३। ३) इतीशादेशः आदिवृद्धिश्च । अस्मिन् संवत्सरे ऐषमः । यथा—

ʻपरारिसञ्चितं वित्तं परुन्नष्टमभोगतः ।

ऐषमश्चीयते यत्नात् तस्य किं वा भविष्यति ॥

तथा च—

ʻपरारिसन्दर्शितसन्निवेशौ परुत्पराभूतसरोजकोशौ ।

इमावियन्तौ पुनरैषमस्ते कुचौ कियन्तौ पुरतो भवेताम् ॥

इति ॥ अद्यात्राह्नि । अत्र वर्तमानेऽहनि, अधिकरणार्थप्रधाने । यथा—ʻअद्याहं वसन्तोत्सवे सबहुमानमाहूय्ö इति (रत्ना। १। ५-) । अथ पूर्वेऽह्नीत्यादौ—पूर्वेद्युरादयः । अस्यार्थः—पूर्व उत्तर अपर इत्येतेभ्यः, अधर अन्य अन्यतर इतर इत्येतेभ्यश्च सप्तभ्यः शब्देभ्यः क्रमेण पूर्वेऽह्नि उत्तरेऽह्नि अपरेऽह्नि इत्याद्यधिकरणत्वविशिष्टार्थविवक्षायाम् एद्युसिप्रत्यये, पूर्वेद्युः उत्तरेद्युः अपरेद्युः अधरेद्युः अन्येद्युः अन्यतरेद्युः इतरेद्युः इत्येते सप्त शब्दा भवन्ति । ʻसद्यः परुत् परार्थैषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः’ (५। ३। २२) इति निपातनादेषां साधुत्वम् । यथा—ʻपूर्वेद्युर्नान्दीमुखम् इति । ʻपूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरे इति रुद्रवाक्यात् पूर्वेद्युशब्दः प्रातरर्थेऽपि वर्तते । उत्तरेद्युः—नान्दीमुखादीनामुत्तरेद्युर्विवाहः । अपरेद्युः—तस्मिन्नपरेद्युर्वा गृहप्रवेशः । अधरेद्युः—सर्वत्रोपवासदिनाधरेद्युरेकभुक्तं कुर्यात् । अन्येद्युः—ʻअन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः’ इति (रघु। २। २६) । अन्यतरेद्युः—ʻप्रतिपत्पञ्चदश्योरन्यतरेद्युरागमिष्यत् प्रभाकरः’ इति । इतरेद्युः—ʻरिक्ततिथेरितरेद्युर्द्रष्टव्यो राजा’ इति ॥ २० ॥

मल्लि-नाथः - AK.03.04.020

परुत्परारी—पूर्वतरे यति । परुत् परारि ऐषमः इत्येते शब्दाः पूर्वपूर्वतरवर्तमानवर्षेषु स्युः । यथा—

ʻपरारिसन्दर्शितसन्निवेशौ परुत्पराभूतसरोजकोशौ ।

तथैषमस्तालफलोपमौ तौ स्तनौ कियन्तौ पुरतो भवेताम् ॥

इति ॥ अद्यात्राह्नि । अद्यशब्दोऽत्राह्नीत्येतस्मिन्नथ स्यात् ॥ अथ पूर्वेऽह्नीत्यादौ—पूर्वेद्युरादयः । पूर्वेद्युरादिशब्दाः पूर्वादिशब्देभ्यः सकाशात् पूर्वेऽह्नीत्याद्यर्थेषु स्युः । पूर्वेद्युः पूर्वाह्णश्च पूर्वदिवसश्च स्युः । ʻपूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरः’ इति रुद्रः । उत्तरेद्युः उत्तरेऽह्नीत्यर्थः । अपरेद्युरपरेऽह्नि । अधरेद्युरधरेऽह्नि । अन्येद्युरन्यस्मिन्नहनि । अन्यतरेद्युरन्यतरस्मिन्नहनि । इतरेद्युरितरस्मिन्नहनीत्यर्थः ॥ २० ॥

[[०४.६४१]]

अक्।०३.०४.०२१च्द् उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि ॥ २१ ॥

मूलम् - ०३.०४.०२२

अक्।०३.०४.०२२अब् ह्योऽतीतेऽनागतेऽह्नि श्वः परश्वस्तत्परेऽहनि
अक्।०३.०४.०२२च्द् तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २२ ॥

लिङ्ग-सूरी - AK.03.04.021-22

उभयद्युश्चोभयेद्युः । एतावुभयोरह्नोरित्यस्मिन्नर्थे वर्तेते । यथा—उभयद्युरुपोषणम् । उभयेद्युरुत्सवः ॥ परे त्वह्नि परेद्यवि । परेऽह्नीत्यर्थे परेद्यवि इत्यव्ययं वर्तते । यथा—परेद्यवि दृष्टस्ते सखा ॥ ह्योऽतीते । गतेऽह्नि ह्यः इत्यव्ययं वर्तते । यथा—ह्यः सर्वमभवत् ॥ अनागतेऽह्नि श्वः । अनागते वर्तमानानन्तरदिवसे श्वः शब्दो वर्तते । यथा—ʻश्वःकार्यमद्य कुर्वीत्ö इति ॥ परश्वस्तत्परेऽहनि । श्वोदिनानन्तरेऽहनि परश्वःशब्दो वर्तते । यथा—परश्वो वा भविष्यति ॥ तदा तदानीम् । एतौ तस्मिन् काले इत्यर्थे वर्तेते । यथा—ʻतदा चक्षुष्मतां प्रीतिरासीत् समरसा द्वयोः’ इति (रघु। ४। १८) । तदानीम्—ʻयदा स्यात् प्रियया सङ्गस्तदानीमेव मे सुखम् इति ॥ युगपदेकदा । एतौ तुल्यकाल इत्यस्मिन्नर्थे वर्तेते । यथा—ʻयुगपद्व्यानशे दिशः’ इति । एकदा—एकदा मिलिता द्विजाः ॥ सर्वदा सदा । एतौ सर्वस्मिन् काल इत्यर्थे वर्तेते । यथा—ʻसर्वदा सर्वदोऽसीति याचते याचकः सदा’ ॥ २१-२ ॥

<AK.03.04.021-22>

उभयद्युश्चोभयेद्युः । उभयस्मिन् अह्नीत्यर्थे ʻद्युश्चोभयाद्वक्तव्यः’ (वा। ५। ३। २२) इति द्युःप्रत्यये उभयद्युः, तदभावपक्षे ʻसद्यःपरुत् परारि॥ । (५। ३। २२) इत्यादिनिपातनात् एद्युसिप्रत्यये उभयेद्युः । यथा—ʻउभयेद्युर्जलूकाभिरसृङ्मोक्षः प्रशस्यते इति ॥ परे त्वह्नि परेद्यवि । पूर्ववदेव निपातनात् साधुः । यथा—ʻहन्तास्मि लङ्काधिपतिं परेद्यवि इति ॥ ह्यो गते । अह्नीत्यनुकृष्यते । गतेऽनन्तरातीते दिने । यथा—ʻह्योगोदोहोद्भवं घृतम् इति ॥ अनागतेऽह्नि श्वः । सन्निहित एव भविष्यति दिवसे । यथा—ʻश्वोभूते ब्राह्मणं वृणीते इति । ʻश्वो न हन्यां जयद्रथम् इति च । ह्यस् श्वस् शब्दावुभावपि सकारान्ताव्ययौ ॥ परश्वस्तत्परेऽहनि । तस्मात् श्वःशब्दवाच्यात् परेऽनन्तरेऽहनि परश्वः । पारस्करादित्वेन (६। १। १५७) परशब्दादुत्तरस्य श्वःशब्दस्य सुडागमे श्चुत्वे च परश्श्वः । यथा—ʻपरश्वोऽपि वाहनोत्सवः’ इति ॥ तदा तदानीम् । द्वयं तस्मिन् काले इत्यर्थे वर्तते । ʻतदो दा च्ö (५। ३.१९) इति वर्तमानकाले वर्तमानात् सप्तम्यन्तात् तच्छब्दाद् दाप्रत्ययः । चकाराद् दानीम्प्रत्ययश्च (५। ३। १८) । यथा—ʻतदैव प्रातःसवनाय प्रसर्पन्ति इति । तदानीम्—ʻतदानीं कलहो महान् इति ॥ युगपद् एकदा । बह्वीनां क्रियाणामवच्छेदकन्यूनातिरेकरहिते काले द्वयं वर्तते । तत्र युगपत् इत्यव्युत्पन्नं प्रातिपदिकम् । यथा—युगपद् व्रजन्ति, युगपदागच्छन्ति इति । एकदा । ʻसर्वैकान्यकिंयत्तदः काले दा’ (५। ३। १५) इति दाप्रत्ययः । यथा—एकदा कर्म कुर्वन्ति इति ॥ सर्वदा सदा । सर्वस्मिन् काले इत्यर्थे द्वयम् । ʻसर्वैकान्य॥ । इत्यादिना (५। ३। १५) सर्वशब्दात् सप्तम्यन्तात् काले वर्तमानाद् दाप्रत्यये सर्वदा । यथा—सर्वदा क इव वा सहिष्यते । ʻसर्वस्य सोऽन्यतरस्याम् (५। ३। ६) इति विकल्पेन सभावे सदा । यथा—सदातन इति ॥ २१-२ ॥

मल्लि-नाथः - AK.03.04.021-22

उभयद्युश्चोभयेद्युः । एते द्वे उभयस्मिन्नहनीत्यर्थे स्याताम् ॥ परेद्यवि परेऽहनि । परेद्यविशब्दः परेऽहनीत्यर्थे स्यात् ॥ ह्यो गते । ह्यःशब्दो भूतदिवसार्थे स्यात् । ʻनिन्ननु’ ॥ अनागतेऽह्नि श्वः । श्वःशब्दोऽनागतदिवसार्थे स्यात् । ʻरेपु’ ॥ परश्वस्तु परेऽहनि । परश्वःशब्दःश्वःपरदिवसार्थे स्यात् । ʻमर्नाडु’ ॥ तदा तदानीम् । एते द्वे तस्मिन् काले इत्यर्थे स्याताम् । ʻअप्पुडु’ ॥ तर्हिशब्दोऽपि स्यात् । ʻयदा यर्हि तदा तर्हि इति वैजयन्ती (पृ। २८७, श्लो। ५) ॥ युगपदेकदा । एते द्वे एकस्मिन् काले इत्यर्थे स्याताम् । ʻओहप्पुडु’ ॥ सर्वदा सदा । एते द्वे सर्वस्मिन् काले इत्यर्थे स्याताम् । ʻयल्लप्पुडुन्नु’ ॥ २१-२ ॥

[[०४.६४३]]

मूलम् - ०३.०४.०२३

अक्।०३.०४.०२३अब् एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा ।
अक्।०३.०४.०२३च्द् दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ २३ ॥
इत्यव्ययवर्गः

लिङ्ग-सूरी - AK.03.04.023

एतर्हि सम्प्रति—साम्प्रतं तथा । एते पञ्चशब्दा अस्मिन् काले इत्यर्थे वर्तन्ते । यथा—एतर्हि क्रियते कार्यम् । सम्प्रति—ʻसम्प्रत्यसाम्प्रतं वक्तुम् इति (शिशु। २। ७०) । इतानीम्—ʻइदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः’ इति (भ। गी। ११। ५१) । अधुना—ʻवलावलेपादधुनापि पूर्ववत् इति (शिशु। १। ७२) । साम्प्रतम्—तत्पापो धाम साम्प्रतम् ॥ दिग्देशकाले—प्रत्यगादयः । अस्यार्थः—पूर्वादौ पूर्वपश्चिमोत्तराधरेषु दिग्देशकाले दिगर्थे देशार्थे कालार्थे गम्यमाने प्रागुदक्प्रत्यगादयः प्राक् उदक् प्रत्यक्, आदिशब्दादधस्तात् अर्वाक् इति पञ्चाव्यया भवन्ति । अत्रोदहरणानि—दिशि यथा । प्राक्—ʻआयुष्यं प्राङ्मुखो भुङ्क्ते इति (म। स्मृ। २। ५२) । देशे यथा—ʻप्राग्भागतः पतदिहेदमुपत्यकासु’ इति (शिशु। ४। ४९) । काले—ʻप्राक्सृष्टेः केवलात्मने इति (कु। सं। २। ३) । एवमुदक्प्रत्यगादिष्वपि कालवर्जमुदाहरणानि द्रष्टव्यानि ॥ २३ ॥

इति श्रीवङ्गललिङ्गयसूरिविरचितायाममरकोशपदविवृतावव्ययवर्गः

<AK.03.04.023>

एतर्हि सम्प्रति—साम्प्रतं तदा । एते पञ्च शब्दाः अस्मिन् काले इत्यर्थे वर्तन्ते । ʻइदमो र्हिल् (५। ३। १६) इति र्हिल्प्रत्ययः । ʻएतेतौ रथोः’ (५। ३। ४) इति इदम एतादेशश्च । सम्प्रतिशब्दस्य तिष्ठद्गुप्रभृतित्वेन (२। १। १७) निःषमादिशब्दवदव्ययीभावत्वम् । ʻदानीं च्ö (५। ३। १८) इति सप्तम्यन्ताद् इदंशब्दात् काले वर्तमानात् दानीम्प्रत्यये इदादेशे च इदानींशब्दसिद्धिः । ʻअधुना’ (५। ३। १७) इति निपातनाद् इदंशब्दात् काले वर्तमानात् सप्तम्यन्तात् धुनाप्रत्ययः प्रकृतेरशादेशे च अधुनाशब्दः साधुः । ʻतद्धितश्चासर्वविभक्तिḵ (१। १। ३८) इत्यव्ययत्वम् । सम्प्रतिशब्दादेव स्वार्थिकेऽण् प्रत्यये साम्प्रतम् । यथा—एतर्हि क्रियते । सम्प्रत्येवागतं मया । इदमिदानीं निरूप्यते । उपयोगोऽधुनोच्यते । ʻकोन्वस्मिन् साम्प्रतं लोके इति (रामा। १। १। २) ॥ दिग्देशकाले—प्रत्यगादयः । अस्यार्थो यथा—ʻदक्षिणोत्तराभ्यामतसुच् (५। ३। २८) इत्यत्र सूत्रे दिग्देशकालेषु इत्यर्थत्रयानुवृत्तावपि दक्षिणशब्दस्य काले वृत्त्यसम्भवाद् उत्तरशब्दादेवार्थत्रयवृत्तेरतसुच्प्रत्ययविधिरङ्गीकृतो वृत्तिकारादिभिः (काशिका २, पृ। ६२) । एवं प्रकृतेऽपि दिग्देशकाल इत्यविशेषणोक्तावपि प्राक्पदस्यैवार्थत्रये विधिः । उदगादिशब्दानां तु कालरूपार्थे वृत्त्यसम्भवाद् अर्थद्वय एव विधिः । यथा—ʻप्राङ्मुखोऽन्नानि भुञ्जीत्ö इति प्राच्यां दिशि । ʻप्राग्भागतः पतदिहेदमुपत्यकासु’ इति (शिशु। ४। ४९) प्राग्देशः । ʻप्राक्सृष्टेः केवलात्मने (कु। सं। २। ३) इति पूर्वकाले । कण्ठस्थब्रह्मसूत्र उदङ्मुख इति उदीच्यां दिशि । उदक्प्रवण इति देशे । प्रत्यगा तारकोदयादिति प्रतीच्यां दिशि, प्रत्यगुन्नत इति देशे । आदिशब्देन अर्वाक् अधराक् इत्यादि । यथा—ʻप्राग् अवाग् उदग् अधराक् सर्वतस्त्वा दिश आधावन्तु’ इति श्रुतिः (तै। सं। १। ४। १। २) । तथा ʻदिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिḵ (५। ३। २७) इति प्राची अवाची उदीची अधरा इत्येतेभ्यो यथासम्भवं दिग्देशकालेषु वर्तमानेभ्यः अस्तातिप्रत्यये सति ʻअञ्चेर्लुक् (५। ३। ३०) इति दिक्शब्दस्य उत्तरस्यास्तातिप्रत्ययस्य लुक् । ततो ʻलुक् तद्धितलुकि (१। २। ४९) इति स्त्रीप्रत्ययस्य लुकि प्राक् अर्वाक् प्रत्यक् अधराक् इति भवति । इदानीं शेषकारेणोक्ता निरूप्यन्ते ।

ʻउक्ता ग्रन्धकृता केचित् प्रत्ययान्ताव्यया इह ।

तत्प्रसङ्गान्निरूप्यन्ते प्रत्ययान्ताव्ययाः परे ॥

इत्यव्ययवर्गनिरूपणप्रस्तावे परुत्परारितदातदानीमित्यादयः केचित् प्रत्ययान्ताव्ययाः अमरसिंहनाथेन प्रदर्शिताः । तत्प्रसङ्गादपरेऽपि प्रत्ययान्ता अव्यया निरूप्यन्त इत्यर्थः । तानेव श्लोकेन सङ्गृह्णाति—

सुच्कृत्वसुच्त्रातसित्रल्दादामेधार्हिलाहयः ।

साच्चिवडाज्धमुञश्चक्त्वाशस्वतिमान्तकृदव्ययम् ॥

इति । एतेषां च सुजन्तप्रभृति मान्तकृदन्तपर्यन्तानां ʻस्वरादिनिपातमव्ययम् (१। १। ३७) इत्यधिकारे सूत्रवार्त्तिकभाष्यकारैरव्ययत्वकथनात्,

ʻसदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।

वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥

इति (काशिका १, पृ। १४) अव्ययलक्षणस्य सद्भावाच्च सुस्पष्टमव्ययत्वम् । सुजादिप्रत्ययान्ता अव्ययीभावसमासश्च अव्यया इत्यर्थः । एषां क्रमेणोदारहणानि । सुच्—ʻद्वित्रिचतुर्भ्यः सुच् (५। ४। १८) । ʻद्विर्भुङ्क्ते त्रिर्भुङ्क्ते, चतुरवत्तं हविḵ इति । कृत्वसुच्—ʻसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (५। ४। १७) । यथा—ʻपञ्चकृत्वस्ते नमḵ इति (तै। आ। ४। २८। १) । षट्कृत्वः, सप्तकृत्वः । त्रा—ʻतदधीनवचने (५। ४। ५४) ʻदेये त्रा च्ö (५। ४। ५५) । ब्राह्मणाधीनं देयं करोति ब्राह्मणत्रा करोति । ब्राह्मणत्रा भवति । ब्राह्मणत्रा स्यात् (काशिका २, पृ। ९१) । अत्र कृभ्वस्तियोगनियमः । ʻदेवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तभ्योर्बहुलम् (५। ४। ५६) इति त्रा । अत्र धातुनियमो नास्ति । यथा—देवान् गच्छति, देवत्रा गच्छति । देवेषु गच्छति, देवत्रा गच्छति इत्यादि (काशिका २, पृ। ९१) । एवं मनुष्यादयोऽप्युदाहार्याः । बहुलग्रहणाद् ʻबहुत्रा जीवतो मनḵ (ऋग्वेद। १०। १६४। २) इत्याद्यपि भवति । तसिल्—ʻपञ्चम्यास्तसिल् (५। ३। ७) कस्मादित्यर्थे कुतः । सर्वस्मादित्यर्थे सर्वतः । यस्मादित्यर्थे यतः इत्यादि । ʻपर्यभिभ्यां च्ö (५। ३। ९) इत्यत्र सर्वोभयार्थे वर्तमानाभ्यां प्रत्यय इष्यते । परितः, अभितः इति । तथा—ʻप्रतियोगे पञ्चम्यास्तसिḵ (५। ४। ४४) । ʻप्रद्युम्नो वासुदेवतः प्रति (काशिका २, पृ। ८८) । माषानस्मै तिलतः प्रति यच्छति इति । ʻतसिप्रकरणे आद्यादिभ्य उपसङ्ख्यानम् (वा। ५। ४। ४४) इति । आदौ आदितः । मध्ये मध्यतः । पार्श्वे पार्श्वतः । पृष्ठे पृष्ठतः इत्यादि ॥

त्रल्—ʻसप्तम्यास्त्रल् (५। ३। १०) इति सप्तम्यर्थे । यथा—कस्मिन्नित्यर्थे कुत्र । यत्र, तत्र इत्यादि ॥ दा—ʻसर्वैकान्यकिंयत्तदः काले दा’ (५। ३। १५) इति । सर्वदा, सदा, एकदा ॥ अत्—ʻकिमोऽत् (५। ३। १२) । किमः ʻक्वाति (७। २। १०५) इति क्वभावः । कस्मिन्नर्थे क्व ॥ आम्—ʻकिमेत्तिङ्व्ययघादाम्वद्रव्यप्रकर्षे (५। ४। ११) इति । किन्तराम् । किन्तमाम् । प्रगेतराम् । प्रगेतमाम् । पचतितराम् । पचतितमाम् । उच्चैस्तराम् । उच्चैस्तमाम् (काशिका २। पृ। ८२) इति ॥ एधा—ʻद्वित्र्योश्च धमुञ् (५। ३। ४५) इति वर्तमाने, ʻएधाच्च्ö (५। ३। ४६) इति एधाजादेशः । द्वेधा, त्रेधा इत्यादि । ʻसङ्ख्याया विधार्थे धा’ (५। ३। ४ २) इति । द्विधा करोति । त्रिधा दृश्यते । बहुधा भाषते इत्यादि । अत्र धाग्रहणमन्यस्यापि धाप्रत्ययादेशस्योपलक्षणम् । ततश्च ʻएकाद्धो ध्यमुञन्यतरस्याम् (५। ३। ४४) इति ध्यमुञ्प्रत्यये ʻतद्धितेष्वचामादेḵ (७। २। ११७) इति ञिति तद्धितप्रत्ययस्य परत्वादादिवृद्धिः । ऐकध्यम् । एकधा इति भवति ॥

र्हिल्—ʻइदमो र्हिल् (५। ३। १६) इत्यस्मिन् काले इत्यर्थे ʻएतेतौ रथोḵ (५। ३। ४) इति इदम एतादेशः । ʻअनद्यतनेर्हिलन्यतरस्याम् (५। ३। २१) इति किमादेः सप्तम्यन्ताद् अनद्यतने वा र्हिल् । कदेत्यर्थे कर्हि । यदेत्यर्थे यर्हि इत्यादि । पक्षे दादि (५। ३। १५) कदा, यदा ॥ आ—ʻदक्षिणादाच् (५। ३। ३६) इति । दक्षिणा वसति, दक्षिणस्यां दिशि वसतीत्यर्थः । दक्षिणा दिगिति वा ॥ आहि—आहयः इत्यत्र (शेषकारश्लोके) आकारस्यापि सवर्णदीर्घे आहिप्रत्ययनिर्देशसिद्धिः । ʻआहि च दूरे (५। ३। ३७) इति, चकारात् आच्प्रत्ययः । दक्षिणाहि वसति । दक्षिणस्यां दिशि दूरे इत्यर्थः । दक्षिणाहि पर्वतो दूरे । दक्षिणाहि रमणीयम् इति । ʻउत्तराच्च्ö (५। ३। ३८) इति आजाही प्रत्ययौ । उत्तरस्यां दिशि दूरे वसतीत्यर्थे उत्तराहि वसति । उत्तराहि पर्वतः । उत्तराहि रमणीयम् इति ॥

सात्—ʻविभाषा साति कार्त्स्न्ये (५। ४। ५२) इति । सर्वं लवणमुदकमापद्यत इत्यर्थे उदकसाद्भवति लवणम् । पक्षे उदकीभवति । अग्निसाद्भवति । पक्षे—अग्नीभवति । ʻअभिविधौ सम्पदा च्ö (५। ४। ५३) इति सातिप्रत्यये अग्निसात् सम्पद्यते । ʻतदधीनवचने (५। ४। ५४) इति सातिप्रत्यये अग्निसात् भवति । राजाधीनं करोति राजसात् करोति । राजसाद्भवति । राजसात् सम्पद्यते । राजसात् स्यात् । तथा ʻदेये त्रा च्ö (५। ३। ५५) इति सातिः । ब्राह्मणाधीनं देयं करोति ब्राह्मणसात्करोति, पात्रसात्करोतीत्यादि (काशिका २, पृ। ९०-१) ॥ च्विः—ʻअभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विḵ (५। ४। ५०) इति । अशुक्लः शुक्लः सम्पद्यत इत्यर्थे शुक्लीभवति, शुक्ली स्यात्, शुक्लीकरोति इति । तथा ʻअरुमनश्चक्षुश्चेतोरहोरजसां लोपश्च्ö (५। ४। ५१) इति च्विः । प्रातिपदिकस्य च लोपः । अनरुररुर्भवति अरूभवति । उन्मनीभवति । प्रचक्षूभवति । प्रचेतीकरोति । विरजीकरोति इत्यादि ॥ डाच्—ʻअव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (५। ४। ५७) इति । दमदमा भवति । सिमसिमा करोति इत्यादि । तथा ʻकृञो द्वितीयतृतीयशम्बबीजात् कृषौ’ (५। ४। ५८) इति डाच् । द्वितीया करोति । द्वितीयलेखनं करोतीत्यर्थः । एवं तृतीया करोति । शम्बा करोति । अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं तिर्यग् वा कृषतीत्यर्थः इत्यादि । ʻमद्रात् परिवापणे (५। ४। ६७), ʻभद्राच्चेति वक्तव्यम् (वा। ५। ४। ६७) इति डाच् । मद्रा करोति, भद्रा करोति; मङ्गलार्थं मुण्डनं करोतीत्यर्थः । इत्यादयो डाजन्ताः ॥

धमुञ्—धाप्रत्ययस्य विधार्थे ʻद्वित्र्योश्च धमुञ् (५। ३। ४५) इति । द्वैधम् । त्रैधम् इति । ʻधमुञश्च्ö इति शेषग्रन्थे चकारो विकल्पार्थः । धमुञ्प्रत्ययान्तो विकल्पनाव्यय इत्यर्थः । तथा च ʻधमुञन्तात् स्वार्थे डदर्शनम् (वा। ५। ३। ४५) इति डप्रत्यये सत्यकारान्तनपुंसकत्वमपि विकल्पेन भवति । यथा—द्वैधस्य विषयः, त्रैधस्य विषयः इति ॥

क्त्वा—ʻअलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा’ (३। ४। १८) इति । यथा—ʻआलप्यालम् इति (शिशु। २। ४०) नालपितव्यमित्यर्थः । खलु—ʻखलूक्तवा खलु’ (शिशु। २। ७०) । वाचिकं न वक्तव्यमित्यर्थः । तथा ʻउदीचां माङो व्यतीहारे (३। ४। १९) इति क्त्वा । यथा—अपमित्य याचते । याचित्वापमयते इत्यर्थः । ʻसमानकर्तृकयोः पूर्वकाले (३। ४। २१) इति क्त्वा । यथा—भुक्त्वा व्रजति । पीत्वा गच्छति (काशिका १, पृ। २४३) । व्यादाय स्वपिति । सम्मील्य स्वपिति इत्युपसङ्ख्यानम् । अत्र अपूर्वकालत्वादिति आद्युदाहरणानि [अपमित्य याचते इत्यादि] ॥ शस्—ʻबह्वल्पार्थाच्छस्कारकादन्यतरस्याम् (५। ४। ४२) इति । बह्वर्थाद् मङ्गलवचनम् । यथा—बहुशो ददाति । पक्षे बहूनि ददाति । भूरिशो ददाति । भूरि ददातीति । अल्पार्थादमङ्गलवचनम् । यथा—अल्पशो ददाति । पक्षे अल्पं ददाति । स्तोकशो ददाति । पक्षे स्तोकं ददाति । (काशिका। २, पृ। ८८) । एवं कारकान्तरेष्वुदाहार्यम् । ʻसङ्ख्यैकवचनाच्च वीप्सायाम् (५। ४। ४३) इति शस् । यथा—द्वौ द्वौ ददातीत्यर्थे द्विशो ददाति । त्रींस्त्रीन् ददातीत्यर्थे त्रिशो ददाति । कर्षापणं कर्षापणं ददातीत्यर्थे कर्षापणशो ददाति । माषशो ददाति । प्रस्थशो ददाति इत्यादि (काशिका। २, पृ। ८८) ॥

वतिः—इवार्थे वतिः प्रागुक्तः । ʻतेन तुल्यं क्रिया चेद् वतिḵ (५। १। ११५) । ब्राह्मणवत् । राजवत् । ʻतत्र तस्येव्ö (५। १। ११६) इति वतिः । मथुरायामिव मथुरावत् । देवदत्तस्येव देवदत्तवत् ॥

मान्तकृत्—ʻआभीक्ष्ण्ये णमुल् च्ö (३। ४। २२) । यथा—भोजं भोजं व्रजति । पायं पायं व्रजति । तथा ʻविभाषाग्रेप्रथमपूर्वेषु’ (३। ४। २४) । अग्रे भोजं व्रजति । अग्रे भुक्त्वा व्रजतीत्यर्थः ॥ तथा ʻकर्मण्याक्रोशे कृञः खमुञ् (३। ४। २५) चोरङ्कारमाक्रोशति । चोरोऽसि इत्याक्रोशतीत्यर्थः । तुमुन्—ʻशकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (३। ४। ६५) । यथा—शक्नोति भोक्तुम् इत्यादि । ʻतुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३। ३। १०) इति तुमुन् । यथा—भोक्तुं व्रजति इति (काशिका। १, पृ। २०८) ॥ शेषे—इति तुमुन् । यथा—भोक्तुं व्रजति इति (काशिका। १, पृ। २०८) ॥ शेषे—

ʻथाल्थमुस्तादेनबसादव्ययीभाव आसि च्ö

इति । थाल्प्रत्ययादिसप्तप्रत्ययान्तं शब्दरूपम् अव्ययीभावसमासश्चेत्यष्टविधम् अव्ययसञ्ज्ञमिति पूर्वेणान्वयः । तत्र थाल्—ʻप्रकारवचने थाल् (५। ३। २३) । तेन प्रकारेणेत्यर्थे तथा । एवं, यथा सर्वथा इति ॥ थमु—ʻइदमस्थमुḵ ʻकिमश्च्ö (५। ३। २४-५) इति । यथा—इत्थम्, कथम् इति ॥ अस्तातिः—ʻदिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिḵ (५। ३। २७) । पूर्वस्यां दिशीत्यर्थे पुरस्तात्, पूर्वस्या दिशः पुरस्तात्, पूर्वा दिक् पुरस्तात् इतियादि ॥ एनप्—ʻएनबन्यतरस्यामदूरेऽपञ्चम्याḵ (५। ३। ३५) इति । यथा—उत्तरस्यां दिश्यदूरे वसतीत्यर्थे उत्तरेण वसति इति । एवं दक्षिणेन, अधरेण इत्यादि दिग्देशकालेषु विभक्त्यन्तरे द्रष्टव्यम् । अपञ्चम्या इति निषेधात् तत्राभावः ॥ अस्—ʻपूर्वाधरावराणामसि पुरधवश्चैषाम् (५। ३। ३९) इति । पुरः । पूर्वस्यां दिशीत्यर्थः । एवम् अधः, अवः इति दिग्देशकाले विभक्तित्रयं द्रष्टव्यम् ॥ आत्—ʻउत्तराधर दक्षिणादातिḵ (५। ३। ३४) इति अस्तातेरर्थे आतिः । उत्तरस्यां दिशि वसति, उत्तराद् वसति । अधराद् वसति । दक्षिणाद् वसति इति ॥ अव्ययीभावः—अव्ययीभावो नाम समासविशेषः । ʻअव्ययं विभक्तिसमीप ॥ । (२। १। ६) इत्यादिसूत्रसन्दर्भविहितः । यथा—अधिपीठम्, उपकुम्भम्, प्रत्यर्थमित्यादि ॥ आसि—ʻइण आसिḵ (उ। ४। २२३) । अयाः ॥ अनन्तरं केचिदव्ययाः शेषकारेण दर्शिताः । यथा—प्रत्यारम्भे सह इति । अचोदितस्यावधिकरणे न प्रतिषेधः प्रत्यारम्भः । यथा—सह भोक्ष्यस इति ॥ शेषे—

ʻभगो हे हंहो भो हो च सम्बुद्धिḵ

इति । एते पञ्च सम्बुद्धिः सम्बोधने । यथा—भगो गुरवः । हे वृक्ष किं कम्पसे । हंहो पश्यत । भो देवदत्त । उपहूतो हो इत्याह इति ॥ शेषे—ʻदुष्टसम्बोधने अघो स्यात् । यथा—अघो दुरात्मन् इति ॥ शेषे—ʻत्वया ते मे मयेति च्ö । इति-शब्दस्य त्वयेत्यनेनाप्यन्वयं दर्शयितुं चशब्दः । ततश्च त्वयेत्यर्थे तेशब्दो वर्तते । मयेत्यर्थे मेशब्दो वर्तत इत्यर्थः । यथा—ʻश्रुतं ते राजशार्दूल श्रुतं मे भवतो गुरो इति ॥ शेषे—ʻयेन तेनेति हेतौ स्तḵ इति । साधनत्वावस्थापन्ने हेतौ अभिधेये तृतीयैकवचनप्रतिरूपकौ येन तेनेत्यव्ययौ स्त इत्यर्थः । ʻवितर गिरमुदारां येन मूकाः पिकाः स्युḵ इति । तेन—अयं वादेषु प्रगल्भते तेन श्लाध्यः इति ॥ शेषे—ʻन ह वै तु निषेधने । यथा—ʻन ह वा एतस्यार्चा न यजुषा न साम्नाऽर्थोऽस्ति, यः सावित्रं वेद्ö इति । शेषे—ʻशुभं शुभे । यथा‒शुभंयुः इति ।

शेषे—ʻविशेषे तु’ इति । यथा—अयं तु वक्ता इति ॥ शेषे—ʻवितर्के नु वै स्मृतḵ इति । यथा—ʻको नु वा अन्तरिक्षे वाचं विसृजति इति ॥ शेषे—ʻहेतावृतं निमित्तर्ते इति । निमित्तं च ऋतं च निमित्तर्तम् इति द्वन्द्वैकवद्भावः । हेतौ इत्यव्ययं निमित्ते वर्तते । ऋतमित्यव्ययम् ऋते सत्ये वर्तते इत्यर्थः । हेतौ यथा—हेतौ तुष्यति भवान् इति । केनापि निमित्तेन तुष्यतीत्यर्थः । यथा—ऋतंवदः । सत्यवादीत्यर्थः ॥ शेषे—ʻसम्यगर्थे पशुः स्मृतḵ इति । यथा—ʻबोधं नयन्ति पशुम्मन्यमानाḵ इति । सम्यक् प्रतिपाद्यमाना इत्यर्थः ॥ शेषे—ʻमात्रायां परिमाणार्थे इति । यथा—मात्रायां भुङ्क्ते इति ॥ शेषे—ʻशुकं शीघ्रे इति । यथा—शुकं गच्छति इति ॥ शेषे—ʻममत्ववान् मम्ö । ममेत्यव्ययम् । ममत्वं वक्तीत्यर्थः । यथा—ʻनिर्ममो निरहङ्कारḵ इति (भ। गी। २। ७१) ॥ शेषे—ʻप्राह्णे अह्न आरम्भे इति । अह्नः प्रारम्भे प्राह्णेशब्दः । यथा—ʻप्राह्णे देवानाम् इति । पूर्वाह्णे देवानामित्यर्थः ॥

शेषे—ʻअथान्योन्यस्य परस्परे इति । अन्योन्यस्येत्यव्ययं परस्परशब्दार्थे वर्तते । यथा—ʻछन्दांस्यन्योन्यस्य लोकमभ्यध्यायन् इति ॥ शेषे—ʻयथा कथा चानादृत्याम् इति । अनादृत्यामनादरे । यथा—ʻयथा कथा च दीयते । यथा कथा च दक्षिणा’ इति (गण। महो। पृ। १५) ॥ शेषे—ʻमर्यादा स्यात् सीमबन्धने इति । सीम्नि दीयमानतया मर्यादाशब्दो निर्व्यूढः । ʻमर्या इति सामबन्धने । मर्या आदीयते मर्यादा’ इति महोदधिश्च (पृ। १५) ॥ शेषे—ʻहिं प्रस्तावे इति । प्रस्तावः सामभक्तिविशेषः । यथा—ʻहिं करोति इति । (हिं साम गीयते इति महोदधौ पृ। १९) ॥ शेषे—ʻकत् प्रकर्षे इति । यथा—ʻकद् रुद्राय प्रचेतसे इति (तै। आ। १०। १७। १) ॥ शेषे—ʻशोः कुत्सायाम् इति । यथा—ʻशोः करोति इति ॥ शेषे—ʻसुखे तु शम् इति । यथा—शङ्करः शम्भुः इति ॥

शेषे—ʻअन्तरिक्षे भुवḵ इति । सकारान्तोऽयम् । ʻभुवो वायुनान्तरिक्षेण साम्ना’ इति श्रुतिः (आपस्तम्बमन्त्रपाठः २। २१। ३) । रेफान्त इत्यपरे । यथा—ʻभुवर्देवांस्तर्पयामि इति । एतच्चोदाहरणद्वयं भ्रान्तिमूलमित्यन्ये ॥ शेषे—ʻकौ भूḵ इति । भूरित्यव्ययं रेफान्तं कौ भूमौ वर्तत इत्यर्थः । यथा—भूर्लोकः इति ॥ शेषे—ʻमिथुने मिथुनं विदुḵ इति । यथा—ʻमिथुनम्भाव उभयोḵ इति ॥ शेषे—ʻसमानार्थे प्रशान् इति । यथा—प्रशान् देवदत्तेन यज्ञदत्तः इति ॥ शेषे—ʻयुक्तं न्याय्ये इति । यथा—ʻन तव युक्तं दुष्टभावḵ इति ॥ शेषे—ʻक्षान्तौ क्षमा भवेत् इति । यथा—क्षमाकरोति; इत्यादयोऽवगन्तव्याः । अव्ययगणेषु विभक्तिस्वरप्रतिरूपकाश्च निपाता इत्युक्ता अव्ययाः । त इदानीं प्रदर्श्यन्ते । यथा—आस बभूवार्थे । यथा—ʻलावण्य उत्पाद्य इवास यत्नḵ इति (कु। सं। १। ३५) ॥ न यातीति न शक्यते इत्यर्थे । यथा—इदं ते कर्तुं न याति इति । यातीति शक्यार्थे । इदं कर्तुं याति ॥ वर्तते इति सोल्लुण्ठन्यङ्गवचने । यथा—ʻवृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते इति (उत्तर। ५। ३५) । न वर्तते इति मङ्गलप्रतिषेधे । यथा—ʻसमराभिमुखे पत्यावश्रुपातो न वर्तते (गण। महो। पृ। ३०) इति । मङ्गलं न सम्भवतीत्यर्थः ॥ भवति सत्तायाम् । यथा—ʻभवति नाम तत्रभवान् वृषलं याजयिष्यति इति (गण। महो। पृ। ३०) ॥ मन्ये वितर्के । यथा—ʻमन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुमुत्सुकḵ इति (गण। महो। पृ। ३०) । नास्तीति सत्तानिषेधे । यथा—नास्ति मतिरस्य नास्तिकः इति ॥ अस्मीत्यस्मदर्थानुवादे । यथा—ʻअविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाḵ इति (योगसू। २। ३) । ʻत्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति इति काव्यप्रकाशिकायाम् ॥ एहि मन्ये प्रहासादौ । यथा—एहि मन्ये रथेन यास्यसि इति । एहि न त्वया जल्पिष्यामीत्यनादरे । असि त्वमर्थवाक्यालङ्कारयोः । त्वमर्थे यथा मालतीमाधवे—ʻकल्याणानां त्वमसि महतां भाजनं विश्वमूर्ते इति (१। ३) । ʻआसते शतमधिक्षिति भूपास्तोयराशिरसि ते खलु कूपाḵ इति नैषधकाव्ये (५। १००) । त्वं तोयराशिरित्यर्थः । वाक्यालङ्कारे यथा—ʻयदपूपुजस्त्वमसि पार्थ्ö इति (शिशु। १५। २४) ॥

पूर्यते इति निषेधे । यथा—ʻपूर्यते प्राणायामेन्ö इति (गण। महो। पृ। ३०) । अलं प्राणायामेनेत्यर्थः ॥ अस्ति सत्तायाम् । यथा—अस्ति परलोके मतिरस्येत्यास्तिकः । अस्तिक्षीरा ब्राह्मणी (काशिका १, पृ। १०६) इति । शङ्के इति वितर्के । यथा—ʻशङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते (मेघ। २। २८) इति । शङ्के शशाङ्कोऽयम् इति च । विद्यते इति भवत्यर्थे । यथा—विद्यते क्षीरा ब्राह्मणी इति । पश्य, पश्यत इति पूजायाम् । यथा—

ʻमहीं सागरपर्यन्तां भो राजन् पश्य पालय ।

गुरवः पश्यतासन्ने मयि दत्त कृपां दृशा ॥

इति । आह इत्युवाचेत्यर्थे । यथा—ʻअथाह वर्णी विदितो महेश्वरḵ इति (कु। सं। ५। ६५) । इति तिङन्तप्रतिरूपका उक्ताः ।

अथ विभक्तिप्रतिरूपकाः केचिदुच्यन्ते—प्रायः, अहम्, त्वम्, शुभम्, कृतम्, पर्याप्तम्, येन, तेन, चिरेण अन्तरेण, चिराय, चिररात्राय, अकस्मात्, अकृत्या, अन्योन्यस्य, चिरस्य, मम, प्राह्णे, प्रगे, हेतौ, वेलायाम्, मात्रायाम् इति विभक्तिप्रतिरूपकाः । एवमादयो गणपाठेषु निघण्ट्वन्तरे च द्रष्टव्याः । ग्रन्थगौरवभयादिह न लिख्यन्ते ॥ २३ ॥

नानैकार्थविशेषाद् वर्गद्वयवन्तमव्ययसमूहम् ।

शेषोक्तादिसमेतं प्रव्यक्तं व्याख्यदप्पयाचार्यः ॥

इह यत्त्यक्तमज्ञानादालस्याद्यदुपेक्षितम् ।

प्रमादादन्यथोक्तं यत् तद्विद्वद्भिर्विशोध्यताम् ॥

आद्याव्ययवर्गीयश्लोका अष्टोत्तरा दश ।

चिराद्यव्ययवर्गीयश्लोका नेत्रपयोधयः ॥

नानार्थाव्ययसंयुक्ताश्चत्वरिंशदधिद्विकाः ।

इति श्रीबोम्मगण्ट्यप्पयाचार्यकृतनामलिङ्गानुशासनविवरणेऽव्ययः समाप्तः

मल्लि-नाथः - AK.03.04.023

एतर्हि सम्प्रति—साम्प्रतं तदा । एतानि एतस्मिन् काले इत्यर्थे स्युः । ʻइप्पुडु’ । दिग्देशकाले—प्रत्यगादयः । प्रागादिशब्दाः पूर्वादिग्देशकालेषु स्युः । पूर्वदिग्देशकालाः। प्राक्—प्रागागतः । प्राग्वसति । प्राग्रमणीयम् । उत्तरदिग्देशकालाः । उदक्, प्रत्यक् । आदिपदात् अधरदिगादिः । अधस्तात् । उपरि उपरिष्टात् इत्यादि ॥ २३ ॥

इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचितेऽमरपदपारिजातेऽव्ययवर्गः

[[०५.६५२]]