मूलम् - ०३.०३.००१
(०३.०३.००१अब्) नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः ।
(०३.०३.००१च्द्) भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ १ ॥
लिङ्ग-सूरी - AK.03.03.001
अथ नानार्थवर्गमुपक्रमते—
नानार्थवर्गविवृतिर्वृत्तरूपेण कथ्यते ।
अनुक्ता ग्रन्थकारेण ग्रन्थगौरवभीरुणा ॥ १ ॥
तन्त्रान्तरस्थो नानार्थपदस्यार्थो यथामति ।
चापित्वादिपदाधाराद्विस्तरेणेह कथ्यते ॥ २ ॥
अस्यार्थः—अत्र कान्तखान्तादिवर्गेषु ये केऽपि कतिचिन्नानार्थाः शब्दाः कीर्तिताः । येषु पर्यायेष्वपि ये भूरिप्रयोगाः तेषु पर्यायेषु त एव भूरिप्रयोगाः शब्दा वक्ष्यन्ते । अत्र कान्ताः पूर्वमुच्यन्ते ॥ १ ॥
एकार्थानेकपर्यायाः प्रथमं प्रतिपादिताः ।
पदमेकमनेकार्थं सम्प्रति प्रतिपाद्यते ॥
ननु इतः प्रागेव तत्तत्पर्यायप्रस्तावेषु अनेकार्थशब्दानामप्युक्तत्वेन तेषामनेकार्थत्वस्यापि व्यक्तत्वाद् वक्तव्यान्तराभावेन व्यर्थोऽयं वर्गान्तरारम्भः । अथ मतम्—वक्ष्यमाणानां नाकादिशब्दानां प्रागाकाशादिपर्यायशब्देष्वेवाभिहितत्वाभावात् तादर्थ्यप्रतिपत्तये वर्गान्तरारम्भ इति । तर्हि तेषां स्वर्गादिरूपार्थत्वस्य कथितत्वाद् इह तादर्थ्याभिधानं व्यर्थमेव स्यात् । यदि शब्दश्रवणसमनन्तरमेव तेषामनेकार्थप्रतिपत्तये युगपदेव सङ्गृह्य सर्वार्थाभिधानमित्युच्यते तर्हि श्लोकसालावृकादिशब्दानामिव (श्लो। २। १२) नाकादिशब्दानामपि नानार्थवर्ग एव ग्रथनमात्रेण बह्वर्थताप्रतीतेः पर्यायकाण्डे तत्कथनप्रयासो निरर्थक एव स्यात् । किञ्च—इह कतिपयानामेव नानार्थशब्दानामभिधानं क्रियते, न सर्वेषाम् । तेषामपि न सर्वेऽप्यर्थाः पठ्यन्ते । किमनेनाभिधानवैरूप्येणेत्यत्राह—नानार्थाः—पर्यायेष्वपि तेषु ते ।
अस्यार्थः—शब्दानामर्थाभिधाने विरलप्रयोगत्वं प्रचुरप्रयोगत्वं चेति द्वैरूप्यम् । तत्र कतिपयशब्दा अत्र नानार्थवर्गान्तर्गतकान्तखान्ताद्यवान्तरवर्गेष्वेव तत्तदर्थवाचकत्वेन कीर्तिताः, न तु तत्पर्यायप्रस्तावे । कुतः? तत्प्रयोगस्य क्वाचित्कत्वेन यत्र क्वापि तदुक्तिमात्र एव तात्पर्यात् । यथा—ʻमारुते वेधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोः’ (श्लो। ५) इत्यादि । ये तु शब्दा येष्वर्थविशेषेषु भूरिप्रयोगाः प्राचुर्येण प्रयुक्ताः ते शब्दाः तेषु तदर्थवाचकेषु पर्यायेषु अपिशब्दात् कान्तादिवर्गेष्वपि कीर्तिता इत्यर्थः । अत्रायमभिप्रायः—नाकशब्दस्य स्वर्गरूपार्थ एव प्रचुरप्रयोगत्वाद् उभयत्राभिधानम् (१। १। ६, ३। ३। २) । आकाशरूपार्थे तु प्रयोगस्य क्वाचित्कत्वाद् नानार्थवर्ग एवाभिधानम् । गोशब्दस्य सौरभेय्यां प्रयोगप्राचुर्याद् उभयत्र कथनम् (२। ९। ६६, ३। ३। २५) । इष्वाद्यर्थेषु विरलप्रयोगत्वाद् नानार्थवर्ग एव निरूपणम् । सालावृकादिशब्दानां (श्लो। १२) तु वानराद्यर्थत्रयेऽपि क्वाचित्कप्रयोगत्वाद् अनेकार्थमध्य एव कथनम् । चित्रभानुभानुहंसादीनां सर्वार्थेषु प्रसिद्धसाम्याद् उभयत्राभिधानमित्यादि सर्वत्र विवेचनीयम् ।
अत्र केऽपीत्यनेनायमर्थः सूचितः । नाकादिशब्दानां प्रदर्शनमात्रपरत्वादत्रानुक्ता अपि सर्वज्ञेश्वरनादेयीप्रभृतयोऽपि शब्दाः पर्यायकाण्डे तत्पर्यायप्रत्यवेक्षणाद् अभिधानान्तरपरिशीलनाच्च नानार्थत्वेनोन्नेया इति कान्तादिवर्गेष्वित्यनेनैतत् सूचितम् । स्वग्रन्थे नानार्थकाण्डीयशब्देष्वन्तिमव्यञ्जननियम एव । न तु ग्रन्थान्तरे इव द्व्यक्षरत्र्यक्षरादिनियम इति । अस्य च नियमस्याकरणे ʻप्रतिष्ठा कृत्यमास्पदम् (श्लो। ९४) ʻउत्सेधः कार्य उन्नतिः’ (श्लो। ९६) ʻसञ्ज्ञा स्यात् चेतना नाम्ö (श्लो। ३३) इत्यादौ विधेयशब्दसन्देहः स्यात् ॥ १ ॥
मल्लि-नाथः - AK.03.03.001
पदनतविबुधालिः प्रोल्लसद्गण्डपाली
सुमगुणवृतचूली बाहुचञ्चन्मृणाली
पुरहरकुलपाली धामसिन्धुप्रणाली
हतदितिसुतमौलिर्भ्राजते भद्रकाली ॥
नानार्थाः—तेषु ते । पूर्वमेकस्मिन्नर्थे अनेके शब्दा उक्ताः । इदानीमनेकेष्वर्थेषु एकः शब्दः कथ्यते । तत् केन प्रकारेणेति चेदत्रैव कान्दादिवर्गेषु केऽपि कीर्तिताः । अस्मिन् वर्गे कान्तखान्तादिप्रकरणेषु केचन प्रदर्शिताः । ʻशरे खड्गे च सायकः’ (श्लो। २) इति ये केऽपि भूरिप्रयोगाः ते केऽपि पर्यायेष्वपि प्रदर्शिताः । किञ्च येष्वर्थेषु ये केचन शब्दाः भूरिशः काव्यनाटकादिप्रयुक्ताः तेष्वर्थेषु त एव शब्दाः केचन पर्यायेषूक्ताः । अपिशब्दो नियमप्रतीत्यर्थः । ʻसुरलोको द्योदिवौ द्वे (१। पृ। ६), ʻद्योदिवौ द्वे स्त्रियामभ्रम् (पृ। ५०) इति पर्यायेषूक्ता अत्रापि केचन कथिताः । ʻआशुगौ वायुविशिखौ’ (श्लो। १९) इत्येकतरस्य पर्यायोक्तावपि । ʻजम्बुकौ क्रोष्टुवरुणौ’ (श्लो। ३) इति मिलिता अपि केचन कीर्तिताः ॥ १ ॥
[[०३.२२२]]
मूलम् - ०३.०३.००२
(०३.०३.००२अब्) आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ।
(०३.०३.००२च्द्) पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥
लिङ्ग-सूरी - AK.03.03.002
अम्बरे सुरलोके च नाकशब्दः प्रकीर्तितः ।
न विद्यतेऽकं दुःखमत्रेति नाकः ।
ब्रह्मलोकादिके लोके जने लोक उदाहृतः ॥ ३ ॥
लोक्यते आलोक्यत इति लोकः । ʻलोकृ दर्शने ।
समाख्यावृत्तयोश्चैव श्लोकशब्द उदाहृतः ।
श्लोक्यत इति श्लोकः । ʻश्लोकृ सङ्घाते ।
बाणे खड्गान्तरे क्षीणे सायकः परिकीर्तितः ॥ ४ ॥
स्यति सायतीति वा सायकः । ʻषोऽन्तकर्मणि, ʻषै क्षये ॥ २ ॥
अथ नानार्थशब्दा उच्यन्ते—आकाशे त्रिदिवे नाकः । स्वर्गवदन्तरिक्षस्यापि पुण्यफलप्राप्यत्वाद् नास्ति अकं दुःखमत्रेति नाकः ।
शब्दा नानार्थवर्गीयाः पूर्वं कृतनिरुक्तयः ।
केचिन्नात्र निरुच्यन्ते ग्रन्थविस्तरतो भयात् ॥
लोकस्तु भुवने जने । भुवनशब्देन त्रीणि सप्त चतुर्दश वा भुवनानि विवक्षितानि । जनशब्देन च शिरःपाण्याद्यसंस्थानविशेषयुक्तं तिर्यग्व्यतिरिक्तं मनुष्यादिप्राणिमात्रमुच्यते । यथा—ʻअयं जनः प्रष्टुमनास्तपोधने (कु। सं। ५। ४०), ʻजनाय शुद्धान्तचराय शंसते (रघु। ३। १६), सुजनो दुर्जनः इत्यादिप्रयोगदर्शनात् । क्वचित्तु समुदायेऽपि प्रयुज्यते । यथा—ʻसखजनोद्वीक्षणकौमुदीसुखम् (रघु। ३। १), ʻअप्सरोजनसङ्कीर्णे विमाने इत्यादि । इह तु जनशब्दः समूहार्थः । तत्र लोकशब्दो यथा—ʻस्त्रीलोकः परिकलयाञ्चकार तुल्यम्, राजलोक इति ॥ पद्ये यशसि च श्लोकः । पद्ये पादबद्धे । यथा—ʻमा निषाद प्रतिष्ठां त्वमगमः’ (रामा। १। २। १५) इत्यादौ । श्लोक्यत इति श्लोकः । ʻश्लोकृ सङ्घाते । घञ् । यशसि च यथा—पुण्यश्लोकः इत्यादि ॥ शरे खड्गे च सायकः । स्यति प्रतिपक्षं नाशयतीति सायकः । ʻषोऽन्तकर्मणि । कर्तरि ण्वुल् (३। १। १३३) । ʻआतो युक् चिण्कृतोः’ (७। ३। ३३) इति युगागमः । चकारसूचितमर्थान्तरं शेषकारेण दर्शितम् । ʻसायको क्षेतृसातारौ त्रिलिङ्गौ’ इति । ʻक्षि क्षये इत्यस्मात् तृजन्तेन क्षेतृशब्देन क्षित उच्यते । सातृशब्देन नाशकरः । अस्मिन्नेवार्थद्वये त्रिलिङ्गौ वाच्यलिङ्गौ इत्यर्थः ॥ २ ॥
मल्लि-नाथः - AK.03.03.002
आकाशे—सायकः । [नाकः] भूम्यामपि स्यात् । ʻस्वर्गे भूम्यम्बरे नाकः’ इति हलायुधः (अ। मा। ५। १५) । ग्रन्धविस्तरभीत्या अत्र दुर्बोधांशमात्रस्यैव विवरणम् ॥ २ ॥
[[०३.२२३]]
मूलम् - ०३.०३.००३
(०३.०३.००३अब्) जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ ।
(०३.०३.००३च्द्) अलोकौ दर्शनोद्योतौ भेरीपटहमानकौ ॥ ३ ॥
लिङ्ग-सूरी - AK.03.03.003
वरुणे फेरवे नीचे जम्बुकोऽयमुदाहृतः ।
जमतीति जम्बुकः । ʻजमु अदने ।
भृष्टे तिलकृते भक्ष्ये शिशौ च पृथुको मतः ॥ ५ ॥
पृथु अत्यर्थं कायतीति पृथुकः । ʻकै शब्दे ॥
आलोको वर्तते दीप्तावीक्षणे वन्दिभाषणे ।
आलोक्यतेऽवधार्यत इत्यालोकः ।
आनको मुरजे भेर्यां पटहे गर्जदम्बुदे ॥ ६ ॥
आ समन्तादनितीत्यानकः । ʻअन प्राणने । ʻअण शब्दे इत्यस्माद् आणक इति वा पाठः ॥ ३ ॥
जम्बुकौ क्रोष्टुवरुणौ । जम्बुकश्च जम्बुकश्च जम्बुकौ इत्येकशेषः । सृगालोऽपि जम्बुकः, पश्चिमदिक्पतिरपि जम्बुक इत्यर्थः । एवमुत्तरत्रापि द्विवचनबहुवचनान्तानां विधेयशब्दानामेकशेषार्थोऽनुसन्धेयः । जमतीति जम्बुकः । ʻजमु अदने । शेषे—ʻअथ जम्बुकः । नीचे स्याज्जम्बुकस्तद्वत् । जम्बुकोऽपि तद्वत् जम्बुकशब्दवद् अर्थत्रयेऽपि वर्तत इत्यर्थः ॥ पृथुकौ चिपिटार्भकौ । भृष्टावहतव्रीह्यादिकृतो भक्ष्यविशेषः चिपिटः । अर्भकः शिशुः । तयोरुभयोः प्रत्येकं पृथुकशब्दः ॥ आलोकौ दर्शनोद्योतौ । चक्षुर्जन्यं ज्ञानं दर्शनम् । सौरादिकप्रकाश उद्योतः । तयोरर्थयोः क्रमेण भावे करणे च घञि आलोकः । शेषे—ʻबन्दिभाषण आलोकः’ । अवधारय आलोकयेत्यादिरूपे बन्दिभाषणे आलोकशब्दो वर्तत इत्यर्थः । आलोक्यते राजादिरनेनेत्यलोकः । करणे घञ् । ʻआलोकशब्दं वयसां विरावैः’ इति कालिदासः (रघु। २। ९) । अन्यत्रापि—
ʻस राजककुदव्यग्रपाणिभिः पार्श्वर्तिभिः ।
ययावुदीरितालोकः’ ॥
इति (रघु। १७। २७) ॥ भेरीपटहमानकौ । भेरी च पटहश्च वाद्यविशेषौ । तत्र प्रत्येकम् आनकशब्दो वर्तते । आनको दन्त्यपञ्चममध्याक्षरः । केचित्तु ʻअण शब्दे इत्यस्माद् अणति शब्दायत इति द्वितीयाक्षरं मूर्धन्यपञ्चममाहुः । भेरीपटहम् इत्यत्र ʻजातिरप्राणिनाम् (२। ४। ६) इत्येकवद्भावः । तूर्याङ्गिके तु मार्दङ्गिकपाणविकम् इत्यादि द्वन्द्व एवोदाहरणम् । शेषे—ʻमृदङ्गे स्वनदम्बुद आनकः’ इति । विश्वप्रकाशेऽपि—ʻआनकः पटहे भेर्यां मृदङ्गे स्वनदम्बुदे इति (पृ। ८, श्लो। ६९) ॥ ३ ॥
मल्लि-नाथः - AK.03.03.003
जम्बुकाविति—वरुणः पश्चिमदिक्पालः । नीचोऽपि । ʻजम्बुकः फेरवे नीचे प्रतीचीदिक्पतावपि इति विश्वः (पृ। १३, श्लो। १४१) ॥ चिपिट इति धानाः । ʻअटुकुलु’ ॥ (आलोकः) वन्दिभाषणेऽपि स्यात् । ʻआलोको दर्शने द्योते आलोको बन्दिभाषणे इति विश्वः (पृ। १०, श्लो। १०३) ॥ भेरीपटहम् । अत्र तूर्याङ्गत्वादेकवद्भावः ॥ आनकौ । मृदङ्गस्वनदम्बुदावपि स्याताम् । ʻआनकः पटहे भेर्यां मृदङ्गे स्वनदम्बुदे इति विश्वः (पृ। ८, श्लो। ६९) ॥ ३ ॥
[[०३.२२५]]
मूलम् - ०३.०३.००४
(०३.०३.००४अब्) उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः ।
(०३.०३.००४च्द्) तक्षको नागवर्धक्योरर्कः स्फटिकसूर्ययोः ॥ ४ ॥
लिङ्ग-सूरी - AK.03.03.004
स्थानान्तिकोरुचिह्नेषु कोपे रूपकभूषयोः ।
नाटकादिपरिच्छेदे चित्रे युद्धेऽङ्क उच्यते ॥ ७ ॥
अमन्ति बाला अस्मिन्निति अङ्कः । ʻअम गत्यादिषु’ ॥
सिंहाणनिन्दयोश्चिह्ने कलङ्कः परिकीर्तितः ।
कल्यतेऽङ्क्यत इति कलङ्कः । ʻकल शब्दसङ्ख्यानयोः’ ॥
तक्षको वृक्षभेदे स्याच्चक्षुःश्रवसि तक्षणि ॥ ८ ॥
तक्ष्णोतीति तक्षकः । ʻतक्षू त्वक्षू तनूकरणे ॥
अर्कः शक्रेऽर्कपर्णे स्यात् ताम्रे स्फटिकसूर्ययोः ।
अर्च्यत इत्यर्कः । ʻअर्च पूजायाम् ॥ ४ ॥
उत्सङ्गचिह्नयोरङ्कः । उत्सङ्ग ऊरुप्रदेशः । ʻवामोत्सङ्गगता देवी इत्यादिप्रयोगात् । चिह्नं लाञ्छनम् । ज्ञापकमिति यावत् । अङ्क्यत इत्यङ्कः । ʻअकि लक्षणे । क्रमात् कर्मणि करणे च घञ् । शेषे—ʻअङ्कश्चित्रयुद्धे भूषान्तिकपरिच्छिदि । स्थाने च रूपके क्रोडे इति । चित्रयुद्धं द्वन्द्वयुद्धम् । अत्र भूषाशब्देन गोपालस्त्रीभिः प्रकोष्ठे धारणीयो देशभाषायाम् अङ्काख्ययैव प्रसिद्ध आभरणविशेषो विवक्षितः । परिच्छिदीति क्लीबन्तशब्देन परिच्छेद उक्तः । स च नाटकादावेकाहचरितरूपकः शब्दसन्दर्भः । रूपकं तु नाटिकादिषु प्रसिद्धम् । क्रोडं भुजान्तरम् । विश्वप्रकाशेऽपि—
ʻअङ्कः स्थानेऽन्तिके मन्तौ रूपकोत्सङ्गलक्ष्मसु ।
नाटिकादिपरिच्छेदे चित्रयुद्धे च भूषणे ॥ (पृ। ५, श्लो। ३८)
इति ॥ कल्ङ्कोऽङ्कापवादयोः । अङ्कोऽत्र चिह्नम् । कल्यते क्षिप्यत इति कलः । ʻकल किल क्षेपे । अङ्क्यतेऽनेनेत्यङ्कः । कलश्चासावङ्कश्च कलङ्कः । शकन्ध्वादित्वात् पररूपम् (वा। १। १। ६४) । शेषे—ʻकलङ्को लोहकिट्टकः’ इति ॥ तक्षको नागवर्धक्योः । नागः सर्पविशेषः तक्षक नाम्ना प्रसिद्धः । तक्ष्णोति त्वगादिकमिति तक्षकः । ʻतक्षू त्वक्षू तनूकरणे ॥ अर्कः स्फटिकसूर्ययोः । अर्च्यत इत्यर्कः । ʻअर्च पूजायाम् । कर्मणि घञ् । विश्वप्रकाशे—ʻअर्कोऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ’ इति (पृ। ४, श्लो। २७) ॥ ४ ॥
मल्लि-नाथः - AK.03.03.004
उत्सङ्ग—अङ्कापवादयोः । उत्सङ्गशब्देन उपरिदेशोरूपरिदेशयोरत्न ग्रहणम् । ʻअङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः’ इति उरोदेशे माघः (शिशु। २। ५३) । ʻकलमधुरप्रलापिनी वीणेव गन्धर्वाणामङ्कादङ्कं सञ्चरन्ती इति ऊरूपरिदेशे बाणः (काद। पृ। २६०) ॥ अङ्कश्चिह्नम् । नागः सर्पविशेषः । [अर्कः] ज्येष्ठभ्रातर्यपि स्यात् । ʻअर्कोऽर्कपर्णे स्फटिके ज्येष्ठभ्रातरि भास्वति इति वैजयन्ती (पृ। २१४, श्लो। ४) ॥ ४ ॥
[[०३.२२७]]
मूलम् - ०३.०३.००५
(०३.०३.००५अब्) मारुते वैधसि ब्रध्ने पुंसि कः कं शिरोऽम्बुनोः ।
(०३.०३.००५च्द्) स्यात् पुलाकस्तुच्छधान्ये सङ्क्षेपे भक्तसिक्थके ॥ ५ ॥
लिङ्ग-सूरी - AK.03.03.005
ब्रह्मात्मानिलबर्ह्यग्निकृतान्तार्केषु पुंसि कः॥ ९ ॥
कं शीर्षजलसौख्येषु सर्वनाम्नि त्रिषु स्मृतः ।
कायते स्तूयत इति कः । ʻकै शब्दे ॥
पुलाकः क्षुद्रधान्ये स्यात् क्षिप्रे भक्तकणेऽपि च ॥ १० ॥
पुलति पाकेन महत्त्वमापद्यत इति पुलाकः । ʻपुल महत्त्वे ॥ ५ ॥
मारुते—शिरोऽम्बुनोः । पुंसि आत्मनीत्यर्थः । वायौ ब्रह्मणि सूर्ये आत्मनि इत्येवमर्थचतुष्टये रूपभेदादेव कशब्दः पुंलिङ्गः । मूर्धनि जले च नपुंसकलिङ्गः । कनति प्रकाशत इति कम् । ʻकनी दीप्तिकान्तिगतिषु’ । ʻअन्येष्वपि दृश्यते (३। २। १०१) इति डप्रत्ययः । अत्र विश्वप्रकाशः (पृ। ४, श्लो। २४)—ʻको ब्रह्मात्मानिलार्केषु ॥ ।सुखशीर्षजलेषु कम् इति । शिरोजलवाचकं कमित्यव्ययवर्गे वक्ष्यते (श्लो। २५०) ॥ स्यात् पुलाकः—सिक्थके । ʻतुच्छधान्यं तण्डुलशून्यं पलालम् इति सुभूतिचन्द्रः । ʻप्रियङ्गुश्यामाकादिक्षुद्रधान्यम् इति सुबोधिनीकारः । सङ्क्षेपो नाम विस्तरविरोधिसङ्कोच इति प्रसिद्धः । तथा च बुद्धचरिते प्रयोगः—ʻनिबोध किञ्चित्तु पुलाकमात्रं वाक्यं मुनेर्वाक्यविदां वरस्य्ö इति । भक्तसिक्थकं नाम स्थाल्यां पाकवशेन विक्लिन्नो महत्त्वमापन्नः तण्डुलपरिणाम ओदनरूपः । यथा—ʻस्थालीपुराकन्यायः’ इति । पुलति महत्त्वमापद्यत इति पुलाकः । ʻपुल महत्त्वे । ʻपिनाकादयश्च्ö इति उणादिषु (४। १५) निपातितः । अथवा इगुपधलक्षणे कप्रत्यये (३। १। १३५) पुलशब्देन महत्त्वपरिणामवद् द्रव्यं तण्डुलादिकमुच्यते । तदकतीति पुलाकः । ʻअक अग कुटिलायां गतौ’ । भावार्थे क्विपि पुलं महत्त्वम् अकतीति वा ॥ ५ ॥
मल्लि-नाथः - AK.03.03.005
मारुते—शिरोऽम्बुनोः । [कः] पुंस्यात्मन्यपि । ʻप्रजापत्यात्मवातार्के कः शिरोऽम्बुसुखेषु कम् इति रभसकोशः । स्यात् पुलाकः—सिक्थके । भक्तसिक्थकमन्नकणः । ʻपण्ट्टकं मेतुकु’ । ʻग्रासोद्गलितसिक्थेन किं न्यूनं करिणो भवेत् ॥ ५ ॥
[[०३.२२८]]
मूलम् - ०३.०३.००६
(०३.०३.००६अब्) उलूके करिणः पुच्छमूलोपान्ते च पेचकः ।
(०३.०३.००६च्द्) कमण्डलौ च करकः सुगते च विनायकः ॥ ६ ॥
लिङ्ग-सूरी - AK.03.03.006
पेचको गजलाङ्गूलमूले वायसवैरिणि ।
पचति स्वेन नेत्रज्योतिषा काकानिति पेचकः । ʻडुपचष् पाके ॥
कुण्डिदाडिमवर्षाश्मपक्षिभेदकरेषु च ॥ ११ ॥
कीकसे मस्तके चापि करकः परिकीर्तितः ।
कीर्यत इति करकः । ʻकॄ विक्षेपे ॥
विनायकस्तार्क्ष्यविष्णुविघ्नेशेषु गुरौ जिने ॥ १२ ॥
वीनां पक्षिणां नायको विनायकः । ʻणीञ् प्रापणे ॥ ६ ॥
उलूके—पेचकः ॥ पुच्छमूलस्य अधः समीपे गुदाच्छादकमांसपिण्ड इति सुभूतिचन्द्रः । ʻपेचको गजलाङ्गूलमूलपर्यन्तघूकयोः’ इति विश्वप्रकाशः (पृ। ९, श्लो। ८९) । केचित्तु पुच्छमूले पुच्छप्रान्ते चेत्यर्थद्वयपरत्वेन व्याचक्षते । तथा च प्रतापः—ʻउलूके गजलाङ्गूले मूलपर्यन्तयोरपि इति । अयं शब्दः प्रागेव व्युत्पादितः (२। ५। १५) । कमण्डलौ च करकः । कमण्डलुः कुण्डिका । चकारादन्यत्रापि । तथा च प्रतापः—
करकः पक्षिभेदे स्यात् कमण्डलुकरङ्कयोः ।
करदाडिमयोः पुंसि स्त्रियामपि घनोपले ॥
इति । पक्षिभेदः कृकराख्यः । ʻकरङ्को मस्तके शस्यनारिकेलफलास्थनि इति विश्वप्रकाशवचनात् (पृ। १४, श्लो। १४८) ॥ सुगते च विनायकः । चकारसमुच्चितोऽर्थः शेषे—ʻविनायकस्तु हेरम्बे गरुत्मति गुरावपि इति । वीनां पक्षिणां नायकत्वाद् विनायको गरुत्मान् । गुरावपि । विनेतृत्वाद् विनायकः ॥ ६ ॥
मल्लि-नाथः - AK.03.03.006
उलूके—पेचकः । कमण्डलौ च करकः । वर्षोपलदाडिमयोरपि स्यात् । चशब्दः उक्तसमुच्चये ऽनुक्तसमुच्चये च, अनूकूलवचनं लिखितम् ॥ सुगते च विनायकः । हेरम्बादयोऽपि । ʻविनायकस्तु हेरम्बे तार्क्ष्ये विज्ञे जिने गुरौ’ इति विश्वः (पृ। १७, श्लो। १८८) ॥ ६ ॥
[[०३.२२९]]
मूलम् - ०३.०३.००७
(०३.०३.००७अब्) किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः ।
(०३.०३.००७च्द्) प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥
लिङ्ग-सूरी - AK.03.03.007
वितस्तौ कुत्सिते किष्कुर्माने हस्तप्रकोष्ठके ।
किमपि कूयतेऽनेनेति किष्कुः । ʻकु शब्दे ॥
वृश्चिको भेषजे राशौ शूककीटे विषक्रिमौ ॥ १३ ॥
वृश्चतीति वृश्चिकः । ʻओव्रश्चू छेदने ॥
प्रतीकः प्रतिकूले स्यादङ्गे वैलोम्यभाषिणि ।
[प्रत्येति] प्रतिकूलमेतीति प्रतीकः । ʻइण् गतौ’ ॥ ७ ॥
किष्कुर्हस्ते वितस्तौ च । चतुर्विशत्यङ्गुलो हस्तः । वितस्तिः द्वादशाङ्गुलः । अत्र रुद्रोऽपि—ʻकिष्कुर्हस्ते वितस्तौ च प्रकोष्ठेऽप्यनपुंसकम् इति । किञ्चिदिति कूयते शब्द्यत इति किष्कुः । ʻकु शब्दे । बहुलग्रहणात् कर्मणि डुप्रत्ययः । ʻअविहितलक्षणः सुट् पारस्करादिषु द्रष्टव्यः’ इति सुडागमः ॥ शूककीटे च वृश्चिकः । पुच्छाग्रे शूकवान् कीटः शूककीटः । रक्तभ्रमर इत्यन्ये । चकाराद् द्रोणे इति प्रागुक्तः (१, पृ। ३३६) । शेषे—ʻवृश्चिकस्त्वौषधे राशौ’ इति । औषधम् ओषधिविशेषः । वृश्चिको राशिस्तुलाराशेरनन्तरः ॥ प्रतिकूले—पुंस्ययम् । प्रतीकः प्रतिकूलार्थश्चेद् विशेष्यानुराधात् त्रिलिङ्गः । एकदेशोऽवयवः । तत्र पुंलिङ्गः ॥ ७ ॥
मल्लि-नाथः - AK.03.03.007
किष्कुर्हस्ते—वृश्चिकः ।वृश्चिकेऽपि स्यात् ॥ प्रतिकूले—पुंस्ययम् । अनुकूलेऽपि त्रिलिङ्गः । ʻनाङ्गे प्रतीकस्त्रिषु तु प्रतिकूलानुकूलयोः’ इति वैजयन्ती (पृ। २६१, श्लो। ५४) ॥ ७ ॥
[[०३.२३०]]
मूलम् - ०३.०३.००८
(०३.०३.००८अब्) स्याद् भतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च ।
(०३.०३.००८च्द्) ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले ॥ ८ ॥
लिङ्ग-सूरी - AK.03.03.008
भूनिम्बे भूतिकं ध्यामे दीप्यके भूस्तृणे मतम् ॥ १४ ॥
भुवि ऊतिर्यस्येति भूतिकम् । ʻऊयी तन्तुसन्ताने ॥
कोशातकी कचे ज्योत्स्नाघण्टालीघोषकेषु च ।
मृदङ्गफलकाक्ष्वेडादेवतालीषु वर्तते ॥ १५ ॥
कोशमतति कोशातकी । ʻअत सातत्यगमने ॥ ८ ॥
स्याद् भूतिकं—भूस्तृणेऽपि च । भूनिम्बः किराततिक्तः । कत्तृणं देवजग्धाख्यं सौगन्धिकम् । भूस्तृणमपि प्रागुक्तम् (१, पृ। ३१९) । भुवि ऊतिरस्येति भूतिकम् । ʻअन्येषामपि दृश्यते (६। ३। १३७) । इति दीर्घे भूतीकमपि । तथा च विश्वप्रकाशे—ʻभूतीकमपि भूनिम्बे कर्पूरतृणदीप्ययोः’ इति (पृ। ११, श्लो। ११०) । कर्पूरतृणं भूस्तृणम् । स्वामी तु (पृ। २७०)—कत्तृणमित्यस्य स्थाने कट्फल इति पठित्वा कट्फलः श्रीपर्णीति व्याचष्ट ॥ ज्योत्स्निकायां—कोशातकी । ज्योत्स्निका पटोलिका । घोषोऽत्र धामार्गवाख्यस्तिक्तफलः लताविशेषः । तथा च माधवः—ʻघोषो धामार्गवे पल्ल्यां कोशातक्यां ध्वनावपि इति । कोशाख्यं जालाकारं बीजपिधानम् अतति व्याप्नोतीति कोशातकी । हरीतक्यादिः (४। ३। १६७) ॥ ८ ॥
मल्लि-नाथः - AK.03.03.008
स्याद् भूतिकं—भूस्तृणेऽपि च । भूतिकमिति दीर्घमध्यमपि । ʻभूतीकमपि भूनिम्बदीप्यकर्पूरकत्तृणे इति विश्वः (पृ। ११, श्लो। ११०) ॥ ज्योत्स्निकायां—कोशातकी । कोशातक्याः त्रयः ॥ ८ ॥
[[०३.२३१]]
मूलम् - ०३.०३.००९
(०३.०३.००९अब्) सिते च खदिरे सोमवल्कः स्यादथ सिह्लके ।
अक्।०३.०३.००९च्द् तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च ॥ ९ ॥
लिङ्ग-सूरी - AK.03.03.009
कैटर्ये खदिरे सोमवल्कशब्दोऽभिधीयते ।
सोमवत् श्वेतं वल्कमस्येति सोमवल्कः ।
पिण्याकस्तिलकल्के स्यात् कुङ्कुमे चैव सिह्लके ॥ १६ ॥
पिण्डवदकतीति पिण्याकः । ʻअक अग कुटिलायां गतौ’ । सिह्लः सल्लकीत्वगादिना कृतो धूपः ॥
याजकाङ्कुशवीरेषु हिङ्ग्वश्वविषयेषु च ।
बाह्लीकं बाह्लिकं चापि कुङ्कुमे च प्रकीर्तितम् ॥ १७ ॥
वीरमुशीरम् । प्रायेण बाह्लिकदेशभवत्वाद् बाहिलिकम् ॥ ९ ॥
अथ कट्फले—सोमवल्कः स्यात् । कट्फलः श्रीपर्णी । सित इति खदीरविशेषणम् । कदराख्यो वृक्षविशेष इत्यर्थः । सोमस्य यज्ञियलताविशेषस्य वल्कमिव वल्कं त्वगस्येति सोमवल्कः ॥ अथ सिल्हके—पिण्याकः । सल्लकीत्वक्सुगन्धादिकृतो धूपस्तु सिल्हक इत्युक्तलक्षणः (१, पृ। ४४३) ॥ तिलकल्कं चात्र यन्त्रनिष्पीडनेनोद्धृततैलं कल्कम् । पिण्डं पिण्डाकारमकतीति पिण्याकः । वर्णव्यत्ययः । शेषे—ʻपिण्याको हिङ्गुकुङ्कुमे । हिङ्गु च कुङ्कुमं चेति समाहारद्वन्द्वः । विश्वप्रकाशेऽपि—ʻपिण्याकः सिल्हके हिङ्गौ तिलचूर्णे च कुङ्कुमे (पृ। ९, श्लो। ८३) ॥ बाह्लीकं रामठेऽपि च । रामठं हिङ्गु । तत्र रूपभेदाद् नपुंसकलिङ्गः । प्रायेण बाह्लीकदेशे भवत्वाद् बाह्लीकम् । शेषे—ʻबाह्लीको विषयाश्वयोः । नप् कुङ्कुमे च वीरे च बाह्लीकं बाह्लिकं समम् इति । विषयो बाह्लीकाख्यो देशः । अश्वः तद्देशप्रभवः । तत्र उभयत्र रूपभेदात् पुंलिङ्गः । वीरम् उशीरम् । तत्र नप् नपुंसकलिङ्गमित्यर्थः । बाह्लीकमिति मध्यदीर्घोऽप्यस्ति । तथा च शब्दभेदप्रकाशे—ʻबाह्लीको बाह्लिकश्चापि गाण्डीवो गाण्डिवोऽपि च्ö इति ॥ ९ ॥
मल्लि-नाथः - AK.03.03.009
अथ कट्फले—रामठेऽपि च । चशब्देन पिण्याकेऽपि । ʻपिण्याकः सिल्हके हिङ्गौ तिलचूर्णे च कुङ्कुमे इति विश्वः (पृ। ९, श्लो। ८३) ॥ ९ ॥
[[०३.२३३]]
मूलम् - ०३.०३.०१०
अक्।०३.०३.०१०अब् महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ।
अक्।०३.०३.०१०च्द् रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु ॥ १० ॥
लिङ्ग-सूरी - AK.03.03.010
विश्वामित्रमुनौ शक्रे गुग्गुलावाहितुण्डिके ।
चण्डिकायां नदीभेदे कुशाख्यग्रन्थवेत्तरि ॥ १८ ॥
उलूके नकुले चैव खनके कौशिको भवेत् ।
कुशिकस्यापत्यं कौशिकः । अन्यत्र व्युत्पत्तिर्यथार्हमूह्या ॥
रोगातञ्चनशङ्कासु तापे चातङ्क इष्यते ॥ १९ ॥
आतञ्चनं क्षीरादिद्रव्यपरिणमनम् । आतङ्कत्यनेन कृच्छ्रेण जीवतीति आतङ्कः ।
ʻतकि कृच्छ्रजीवने गतौ च्ö ॥
स्वल्पघातुकनिःस्वेषु क्षुल्लकः परिकीर्तितः ।
क्षुधं लातीति क्षुल्लकः । ʻला आदाने ॥ १० ॥
महेन्द्र—कौशिकः । कोशो धनसमृद्धिः प्रयोजनमस्येति कौशिकः इन्द्रः, स एवात्र महेन्द्रशब्देनोक्तः । ʻमहान् वा अयमभूद्यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम् इति श्रुतेः (ऐ। ब्रा। ३। २१) । इन्द्रेण केनचित् कारणवशेन कदाचिद् उलूकवेषः परिगृहीत इति घूकोऽपि कौशिकः । कोशेन सर्पग्रहणपेटिकया व्यवहरतीति कौशिकः व्यालग्राही । गुग्गुलुवृक्षे प्रागुक्तः (१, पृ। २३६) । शेषे—
ʻकौशिको मुनिभेदे च नकुले कोशवत्यपि ।
उद्गातरि कुशाजीवे गौरीनद्योस्तु कौशिकी ॥
इति । मुनिभेदः विश्वामित्रः । नकुलो बभ्रुः। कोशो धनस्य समूहः । पुराणादिग्रन्थसन्दर्भो वा । सोऽस्यास्तीति वा कोशवान् । कोशं वेत्तीति वा कौशिकः । त्रिवृत्पञ्चदशादिस्तोत्रियेषु गणनायौदुम्बराः शङ्कवः कुशा उच्यन्ते । ताभिर्व्यवहरतीति कौशिकः । उद्गाता प्रथमः छन्दोगेषु । कुशो दर्भः, कुशं जलं, कुशीत्ययोविकारश्च । तेन जीवतीति कौशिकः । पार्वत्यां नदीभेदे च कौशिकीति ङीबन्तस्त्रीलिङ्गः । कुशिकात् जाता कौशिकी ॥ रुक्—आतङ्कः । आतङ्कति कृच्छ्रेण जीवत्यनेनेति आतङ्कः । ʻतकि कृच्छ्रजीवने । अधिकरणे करणे वा (३। ३। १२१) घञ् । रुग् रोगः । तापः पीडा । शङ्का भयम् । शेषे—ʻआतञ्चने स्यादातङ्कः’ । क्षीरस्य रूपपरिणामहेतुभूतं दध्यादिकमातञ्चनमुच्यते ॥ स्वल्पेऽपि क्षुल्लकस्त्रिषु । स्वल्पं सूक्ष्मम् । शेषे—ʻदरिद्रे क्षुल्लकस्त्रिषु’ । ʻक्षुध बुभुक्षायाम् । क्षुधं लातीति क्षुल्लकः ॥ १० ॥
मल्लि-नाथः - AK.03.03.010
महेन्द्र—कौशिकः । कौशिकस्य एते चत्वारः । रुक्—आतङ्कः । मुरजध्वनावपि स्यात् । ʻआतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ’ इति विश्वः (पृ। १४, श्लो। १५१) ॥ स्वल्पेऽपि क्षुल्लकस्त्रिषु । क्षुद्रशङ्खेऽपि । ʻशम्बूकास्ते क्षुल्लकाः क्षुद्रशङ्खाः’ इति हलायुधः (अ। मा। ३। ४२) ॥ १० ॥
[[०३.२३४]]
मूलम् - ०३.०३.०११
अक्।०३.०३.०११अब् जैवातृकः शशाङ्केऽपि खुरेऽप्ययश्वस्य वर्तकः ।
अक्।०३.०३.०११च्द् व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः ॥ ११ ॥
लिङ्ग-सूरी - AK.03.03.011
जैवातृकः पुत्रजलभेषज्यायुष्मदिन्दुषु ॥ २० ॥
जीवतीति जैवातृकः । ʻजीव प्राणधारणे ॥
वर्तका पक्षिभेदे स्याद् वर्तकोऽश्वखुरे मतः ।
भुवि वर्तत इति वर्तकः । ʻवृतु वर्तने ॥
व्याघ्रदिग्गजभैषज्यसितच्छत्रसिताम्बुजे ॥ २१ ॥
कोशकृज्जन्तुभेदे च पुण्डरीकोऽभिधीयते ।
पुणतीति पुण्डरीकः । ʻपुण कर्मणि शुभे ॥
मयूरस्य शिखायां च भूषणे जीरके तथा ॥ २२ ॥
प्रदीपेऽप्यजमोदायां दीपकः परिकीर्तितः ।
दीपयतीति दीपकः । ʻदीप दीप्तौ’ ॥ ११ ॥
जैवातृकः शशाङ्केऽपि । अपिशब्दाद् आयुष्मति प्रागुक्तः (२। १। ६) । विश्वप्रकाशे—ʻजैवातृकः कृषे चन्द्रे भेषज्यायुष्मतोरपि (पृ। १८, श्लो। २०४) इति । कृषः कृषकः । ʻजैवातृकः कुडुम्बी च क्षेत्रकृत् कृष इत्यपि इति शेषकारेण पर्यायकाण्डेऽभिधानात् ॥ खुरेऽप्यश्वस्य वर्तकः । अपिशब्दात् पक्षिभेदे प्रागुक्तः (१, पृ। ३५५) ॥ व्याघ्रेऽपि पुण्डरीको ना । पुण्डरीकपत्राकारचर्मगतरेखासादृश्यात् पुण्डरीकशब्देनोच्यते । तद्योगाद् अर्शआद्यचि (५। २। १२७) पुण्डरीको व्याघ्रः । अत्र विशेषाद् व्याघ्रवाचकः पुंलिङ्गः । सिताम्भोजे तु नपुंसकं प्रागुक्तम् (१। पृ। १८१) ʻपुण्डरीकं सिताम्भोजम् इति । ʻपुण्डरीको व्याघ्रभेदे दिग्गजेक्षुप्रभेदयोः’ इत्यजयः । यवान्यामपि दीपकः । यवानी अजमोदा । शेषे—ʻदीपकः स्यादलङ्कारे यवानीबर्हिचूडयोः’ इति । अलङ्कारे दीपकाख्यः प्रसिद्धः । शेषस्थेन यवानीशब्देन जीरको विवक्षितः । ʻदीपनीया दीपनी च यवानी जीरकोऽपि च्ö इति नामावल्यामभिधानात् । विश्वप्रकाशेऽपि—ʻदीपकस्त्वजमोदायां यवानीबर्हिचूडयोः’ (पृ। १२, श्लो। १२१) इति । बर्हिचूडा मयूरशिखाख्य ओषधिविशेषः ॥ ११ ॥
मल्लि-नाथः - AK.03.03.011
जैवातृकः शशाङ्केऽपि । ʻजैवातृकश्चन्द्रभिषगायुष्मत्सु कृषीवले इति वैजयन्ती (पृ। २७७, श्लो। ९) । खुरेऽप्यश्वस्य वर्तकः । वृत्तिकर्तरि त्रिलिङ्गः ॥ व्याघ्रेऽपि पुण्डरीको ना । व्याघ्रो व्याघ्रभेदः ।
ʻपुण्डरीकं सितच्छत्रे सिताम्भोजे च कीर्तितम् ।
पुण्डरीको व्याघ्रभेदे दिग्गजे क्षुद्रभेकयोः ॥
इति जयकोशः । यवान्यामपि दीपकः । जीरकेऽपि स्यात् । ʻअजाजी तु जया दीप्यो जीरको जीरणः सितः’ इति वैजयन्ती (पृ। १२९, श्लो। ८३) ॥ ११ ॥
[[०३.२३६]]
मूलम् - ०३.०३.०१२
अक्।०३.०३.०१२अब् सालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् ।
अक्।०३.०३.०१२च्द् पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते ॥ १२ ॥
लिङ्ग-सूरी - AK.03.03.012
कपौ शुनि च गोमायौ सालावृक उदाहृतः ॥ २३ ॥
स्यति वर्कते चेति सालावृकः । ʻषोऽन्तकर्मणि । ʻवृक आदाने ॥
पर्वतोद्भवधात्वादौ गैरिकं कनकेऽपि च ।
गिरौ भवं गैरिकम् ॥
व्यलीकमप्रियाकार्यवैलक्ष्यानृतपीडने ॥ २४ ॥
शुभं व्यलति निवारयतीति व्यलीकम् । ʻअल वारणे ॥
अलीकमनृते प्रोक्तं ललाटाप्रिययोरपि ।
अलतीत्यलीकम् । ʻअल भूषणपर्याप्तिवारणेषु’ ॥ १२ ॥
सालावृकाः—श्वानः । सालान् वृक्षादिवर्तिनो जीवान् आवर्कन्ते भक्षयन्तीति सालावृकाः । ʻवृक आदाने । दन्त्यादिः । वैजयन्त्यां नानार्थकाण्डे दन्त्यादिप्रकरणेऽभिधानात् । ʻइन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् इति श्रुतेः (ताण्ड्य। ८। १। ४) । तालव्यादिरिति सुभूतिचन्द्रः । स्वर्णेऽपि गैरिकम् । अपि शब्दाद् ʻगैरिकं तु विशेषतः’ इति प्रागुक्तधातुविशेषे (१, पृ। २१३) । गिरौ भवं गैरिकमिति अविरविकन्यायेन गिरिशब्देन विगृह्य गिरिकशब्दात् तद्धितोत्पत्तिः ॥ पीडार्थेऽपि व्यलीकं स्यात् । विशेषेण सौमुख्यमलति वारयतीति व्यलीकम् । ʻअल भूषणपर्याप्तिवारणेषु’ । ʻअलीकादयश्च्ö (उ। ४। २५) इतीकन्प्रत्ययान्तो निपातितः । पीडा दुःखमिति टीकासर्वस्वकारेण व्याख्यातम् (पृ। ७३) । दक्षिणावर्तस्तु—ʻव्यलीकनिश्वासमिवोत्ससर्ज्ö इति कुमारसम्भवश्लोकव्याख्याने (३। २५) व्यलीकं लज्जेति व्याख्याय तत्सम्मतित्वेन ʻव्रीडार्थेऽपि व्यलीकं स्यात् इत्यमरसिंहाभिधानं पपाठ । तथा च ʻसत्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् इति कालिदासप्रयोगः (रघु। ४। ८७) । शेषे—ʻव्यलीकमप्रियाकार्यवैलक्ष्यानृतकामजे इति । कामजः कामावेशकृतोऽपराधः ॥ अलीकं त्वप्रियेऽनृते । अप्रियमनिष्टम् । शेषे—ʻअलीकं तु ललाटे स्यात् इति ॥ १२ ॥
मल्लि-नाथः - AK.03.03.012
सालावृकाः—गैरिकम् । जाजिन्यपि स्यात् । व्रीडार्थेऽपि व्यलीकं स्यात् । प्रतारणेऽपि स्यात् । ʻव्यलीकं स्यात् प्रतारणम् इति हलायुधः (अ। मा। ४। ६३) । ʻपीडार्थेऽपि व्यलीकं स्यात् इति पाठे पीडनेऽपि स्यात् ॥ अलीकं त्वप्रियेऽनृते ॥ १२ ॥
[[०३.२३७]]
मूलम् - ०३.०३.०१३
अक्।०३.०३.०१३अब् शीलान्वयावनूके द्वे शल्के शकलवल्कले ।
अक्।०३.०३.०१३च्द् साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥
अक्।०३.०३.०१४अ दीनारेऽपि च निष्कोऽत्री
लिङ्ग-सूरी - AK.03.03.013
गतजन्मन्यनूकः स्यादनूकं शीलवंशयोः ॥ २५ ॥
अनूच्यत इत्यनूकम् । ʻउच समावाये ॥
शकले वल्कले चैव शल्कशब्द उदाहृतः ।
शलतीति शल्कम् । ʻशल आशुगमने ॥
सुवर्णाष्टोत्तरशते वक्षोभूषणकर्षयोः ॥ २६ ॥
स्वर्णदीनारपलयोर्निष्कः स्यात् पुन्नपुंसकम् ।
नितरां कायते स्तूयत इति निष्कः । ʻकै शब्दे ॥ १३ ॥
शीलान्वयावनूके । शीलं स्वभावः । अन्वयः वंशः । उभयत्र रूपभेदाद् नपुंसकम् । अनूच्यति प्रजासु समवैति इत्यनूकम् । ʻउच समवाये । कप्रत्ययः (३। १। १३५) । न्यङ्क्वादिः (७। ३। ५३) । शेषे—ʻअनूकं गतजन्मनि इति । शेषस्थं केचित् पुंलिङ्गं पठन्ति ॥ द्वे शल्के शकलवल्कले । शकलं खण्डम् । वल्कं वृक्षादित्वक् । ते उभे शल्कवाच्ये । ʻसामयं गतेनाशनिना मघोनः शशाङ्कशल्काकृतिपाण्डुरेण्ö इति शल्कशब्दस्य खण्डवाचकत्वे भारविप्रयोगः (किरा। १७। ५१) । ʻशल्कैस्तां रात्रिमग्निमिन्धते इति श्रुतिश्च । अथवा शकलं मत्स्यानां कवचप्राया त्वक् । तद्योगाद् मत्स्यः शकलीत्युच्यते । ʻतथा पाठीनराजीवसशल्काश्च द्विजातिभिः’ इति प्रयोगः (या। स्मृ। १। ७। १७७) । शलन् गच्छन् कायति शल्कम् । ʻशल आशुगमने । ʻकै शब्दे ॥ साष्टे शते—निष्कोऽस्त्री । अष्टाभिः सह वर्तत इति विग्रहे तेन सहेति तुल्ययोगे (२। २। २८) इति बहुव्रीहिसमासे सति साष्टन्शब्दात् सप्तम्येकवचने आत्वे नपुंसकह्रस्वत्वे च साष्टे इति भवति । नकारान्तमिदम् । अत्र ʻबहुव्रीहौ सङ्ख्येये डज् ॥ । इत्यादिना (५। ४। ७३) डच्प्रत्यये साष्टमित्यकारान्तमिति केचित् । तदुक्तम्—ʻसङ्ख्यायाव्यय ॥ । (२। २। २५) इति यो बहव्रीहिः तस्येदं ग्रहणमिति काशिकाकारेण (१, पृ। ९५) डच्प्रत्ययविधायकसूत्रे व्याख्यातत्वात् प्रत्येकं कर्षपरिमितानां सुवर्णानां साष्टे अष्टोत्तरशत इत्यर्थः । हेम्नि पलषोडशांशपरिमिते हेम्नीत्यर्थः । ʻगवामभावे निष्कः स्यात् इत्यादौ तथाभूते प्रयोगदर्शनात् परिमाणविशेषमनादृत्य हेममात्र एवेति केचित् । उरोभूषणमिह पदकसञ्ज्ञया लोके प्रसिद्धो वक्षोभूषणविशेषः । ʻहरिचक्रेण तनास्य कण्ठे निष्कमिवार्पितम् इति कालिदासप्रयोगः (कु। सं। २। ४९) । अत्र पलशब्देन राजतं पलं विवक्षितम् । ʻद्वे कृष्णले रूप्यमाषः’ (या। स्मृ। १। १३। ३६४) इत्यादिरजतपरिमाणाधिकारे ʻनिष्कं सुवर्णाश्चत्वारः’ (या। स्मृ। १। १३। ३६५) इति याज्ञवल्क्येनाभिधानात् । तत्रैव विज्ञानेश्वरेणापि ʻपूर्वोक्ताश्चत्वारः सुवर्णा एको राजतनिष्को भवति इति व्याख्यातत्वाच्च । दीनारो देशान्तरे स्वनाम्नैव प्रसिद्धः इति सर्वानन्दः (टी। स। पृ। ७७) । ʻदीनारमाहतं हेमसप्तत्या कृष्णलैर्मतम् इत्यपरे । अत्रार्थपञ्चके प्रत्येकं निष्कशब्दो वर्तते । अपिशब्दात् पलचतुर्थांशोऽपि । तथा च वैजयन्त्याम् (पृ। २३३, श्लो। ४५)—
निष्कोऽस्त्री हेम्नि दीनारे साष्टकर्षशते पले ।
वक्षोभूषणे कर्षे ॥
इति । निश्चयेन कायति स्तूयत इति निष्कः । कः (३। १। १३६) ॥ १३ ॥
मल्लि-नाथः - AK.03.03.013
शीलान्वयावनूके द्वे । गतजन्मनि पुंलिङ्गः । ʻअनूकं तु कुले शीलेऽप्यनूको गतजन्मनि इति विश्वः (पृ। ११, श्लो। ११४) ॥ शल्के शकलवल्कले । वल्केऽपि स्याताम् । ʻवल्कं तु वल्कले खण्डे शल्कं शकलवल्कयोः’ इति विश्वः (पृ। ६, श्लो। ४३) ॥ साष्टे शते—निष्कोऽस्त्री ॥ १३ ॥
[[०३.२३९]]
मूलम् - ०३.०३.०१
अक्।०३.०३.०१४ब् कल्कोऽस्त्री शमलैनसोः ।
अक्।०३.०३.०१४च्द् दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः ॥ १४ ॥
लिङ्ग-सूरी - AK.03.03.014
विट्किट्टेभदम्भेषु कल्कः शमलपापयोः ॥ २७ ॥
शमलं विनीयाख्यं द्रवचूर्णम् । पापं कलयतीति कल्कः । ʻकल सङ्ख्याने ॥
त्रिशूले पांसुवर्षे स्यात् पिनाको हरकार्मुके ।
अपि नाकतीति पिनाकः । ʻअक अग कुटिलायां गतौ’ ॥ १४ ॥
कल्कोऽस्त्री—दम्भेऽपि । कषायपानकादिद्रव्ये वस्त्रनिष्पीडनेन निःस्राविते सति यद्वस्त्रलग्नमवशिष्टं सद्रवमौषधचूर्णं शमलशब्देन विवक्षितम् । पुरीषं च । एनः पापम् । स्वभावतो दोषयुक्तस्य सभ्यवेषाभिनयो दम्भः । सर्वानन्दस्तु—मलेन पापेन सह वर्तत इति ʻसमलः पापाशयः’ इति दन्त्यादिं पठित्वा व्याचष्ट (टी। स। पृ। ७७) । तथा च रुद्रः—ʻत्रिषु पापाशये कल्कोऽस्त्री विट् किट्टेभदम्भयोः’ इति ॥ कल्यते क्षिप्यते निरस्यत इति कल्कः । ʻकल किल क्षेपे । ʻमुञ्जकल्कहलिषु’ (३। १। ११७) इति निर्देशात् साधुः ॥ अथ पिनाको—धन्वनोः । शूलम् आयुधविशेषः । साहचर्यात् तदपि शाङ्करमेवेति स्वामी (पृ। २७२) ॥ १४ ॥
मल्लि-नाथः - AK.03.03.014
कल्कोऽस्त्री—शङ्करधन्वनोः । धन्वसाहचर्यात् शूलमायुधविशेषः । ʻपिनाको हरकोदण्डे पांसुवर्षत्रिशूलयोः’ इति विश्वः (पृ। ९, श्लो। ८३) ॥ १४ ॥
[[०३.२४०]]
मूलम् - ०३.०३.०१५
अक्।०३.०३.०१५अब् धेनुका तु करेण्वां च मेघजाले च कालिका ।
अक्।०३.०३.०१५च्द् कारिका यातनावृत्त्योः* कर्णिका कर्णभूषणे ॥ १५ ॥
अक्।०३.०३.०१६अब् करिहस्ताङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे ।
लिङ्ग-सूरी - AK.03.03.015
करेणुगौर्योर्धेन्वां च कृपाण्यां धेनुका मता ॥ २८ ॥
वत्सो धयत्येनामिति धेनुः । ʻधेट् पाने । धेनुरेव धेनुका ॥
मेघवृन्दे श्यामिकायां योगिन्यां च मलीमसे ।
बुद्धाभिधान्यां धूमाल्यां कृष्णायां नववारिदे ॥ २९ ॥
रोमालिवृश्चिकावल्योः सुरायां काकयोषिति ।
क्रमदेयद्रव्यमूल्ये काकमूलीपटोलयोः ॥ ३० ॥
ज्वालामालाख्यभैषज्ये कालिका परिकीर्तिता ।
कालवर्णत्वात् कालिका ॥
क्रियाविवरणश्लोकशिल्पेषु नटयोषिति ॥ ३१ ॥
नारकीवेदनायां च कारिकाशब्द उच्यते ।
क्रियत इति कारिका ॥
क्रमुकादिजटांशे च कुट्टिन्यां कर्णभूषणे ॥ ३२ ॥
पद्मकोश्यां हस्तिहस्ते मध्याङ्गुल्यां च कर्णिका ।
कृणाति स्त्रीमस्तकादि यया सा कर्णिका ॥ १५ ॥
धेनुका तु करेण्वां च । धयत्येनां वत्स इति धेनुका । ʻधेट् पाने । शेषे—ʻधेनुका त्वश्वयोषिति । भवान्यां च कृपाण्यां च प्रसूतायां पशौ गवि इति । अश्वयोषिद् बडवा ॥ मेघजाले च कालिका । मेघजालं मेघसङ्घः । कृष्णवर्णत्वात् कालिका । जानपदादिसूत्रेण (४। १। ४२) कालशब्दाद् वर्णरूपार्थे ङीषि तदन्तादेव ʻप्रातिपदिकस्य ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् (परिभाषा ४। १। १) इति न्यायेन ʻकालाच्च्ö (५। ४। ३३) इति स्वार्थिके कन्-प्रत्यये ʻकेऽणः’ (७। ४। १३) इति ह्रस्वे च कालिका । न च वाच्यं विप्रतिषेधात् तद्धितबलीयस्त्वम् इति ङीषं बाधित्वा तद्धित एव प्राप्नोतीति । ʻङ्याप्प्रातिपदिकात् (४। १। १) इत्यत्र ङीप्ग्रहणसामर्थ्याद् ङ्यन्तादेव तद्धितोत्पत्त्युपपत्तेः । ङ्याप्प्रातिपदिकाद् इत्यत्र ङीप्ग्रहणं प्रत्याख्यातवतो महाभाष्यकारस्य मते तु कालशब्दाद् वर्णवचनाद् अर्शआद्यचि (५। २। १२७) द्रव्यवचनात् ʻकालाच्च्ö (५। ४। ३३) इति स्वार्थिके कन्प्रत्यये सति ततः स्त्रीत्वविवक्षायां टापि ʻप्रत्ययस्थात् ॥ । (७। ३। ४४) इति इत्वे च कालिकाशब्दसिद्धिः । कालितरेत्यादौ तु ङीपोऽन्तरङ्गस्य बहिरङ्गेण तरपा सह नास्ति विप्रतिषेधः । परनित्यान्तरङ्गेति न्यायात् (परिभाषा १। ३। ११) । ततश्च ङीप्युत्पन्ने लिङ्गविशिष्टादपि प्रातिपदिकात् प्रातिपदिकत्वनिबन्धनात् तद्धितोत्पत्तिरित्यलमेतावता । चशब्दार्थः शेषे—
ʻदोषे स्वर्णादिधातूनां कृष्णावृद्धिसुरासु च ।
क्रमदेये वस्तुमूल्ये योगिन्यम्बिकयोरपि ॥
पटोलशाखारोमालीमांसीकाकीषु कालिका ॥
इति । धातुदोषः श्यामिकाख्यः । कृष्णा कृष्णवर्णा काचित् मषीमृदादिका । ऋणग्रहणकाले धनिकाधमर्णसम्प्रतिपत्त्या कृतकाले देया वृद्धिः कालिकेति स्मृतिषु प्रसिद्धा । सुरा मद्यम् । वस्तुनः क्रयकालेऽस्य पण्यस्य क्रयमेतावदियता कालेन दिनक्रमेण मासक्रमेण दास्यामीति क्रायिकेण सम्प्रतिपद्य देयं मूल्यम् । योगिनी चतुःषष्टिसङ्ख्यासु योगिनीषु कालिका नाम महाकालस्थाने प्रसिद्धा । अम्बिका पार्वती । रोमाली नाभिदेशादूर्ध्वस्था रोमराजिः । धूमालिरिति क्वचित्पाठः । तत्र धूमरेखेत्यर्थः । मांसी जटामांसी । काकी काकस्त्री । काकमाची नाम गुल्मविशेष इति केचित् ॥ कारिका यातनावृत्त्योः । यातना नरकदुःखम् । कारिका श्लोकरूपेण कृता व्याख्यावृत्तिः । यथा—शाबरभाष्ये प्रथमपादस्य भट्टपादैः कृता । यथा वा आपस्तम्बीयकल्पसूत्रस्य त्रिकाण्डी । ʻकॄ हिंसायाम् ʻडुकृञ् करणे । क्रमेण धात्वर्थनिर्देशे ण्वुलि (वा। ३। ३। १०८) कारिका । शेषे—ʻकारिका नटयोषायां दिवाकिर्त्यादिशिल्पके इति । श्मश्रुकर्मचेलधावनादिरूपं शिल्पम्, दिवाकीर्त्यादिशिल्पकरणं च कारिका ॥ कर्णिका—बीजकोश्याम् । कर्णिका तालपत्रे पूर्वमुक्ता (१, पृ। ४२८) । अङ्गुलिरग्रभागः । तत्र तु किरति जलमिति कर्णिका । ʻकॄ विक्षेपे । नप्रत्यये (उ। ३। १०) स्वार्थे कः (५। ४। ५) । पद्मबीजकोशी वराटकाख्या कर्णिकासदृशाकारत्वात् कर्णिका ॥ १५ ॥
मल्लि-नाथः - AK.03.03.015
धेनुका तु करेण्वां च । सद्यःसूतगवादिकेऽपि स्यात् ॥ मेघजाले च कालिका । स्वर्णदोषे सुरायां च काल्यां कालीत्वे च स्यात् ॥ कारिका यातनावृत्त्योः । वृत्तिर्नाम विवरणश्लोकः । ʻवृत्तौ विवरणश्लोके यातनायां च कारिका । नापितादिकशिल्पेऽपि इति विश्वः (पृ। १५, श्लो। १६०) ॥ कर्णिका—बीजकोश्याम् । पद्मबीजकोश्यां पुंलिङ्गश्च स्यात् । ʻकर्णिका कर्णिकश्चाथ पद्माक्षं पद्मकर्कटी इति वैजयन्ती (पृ। १५७, श्लो। ४६) । अन्यत्र स्त्रीलिङ्ग एव । ʻकर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि । क्रमुकादिच्छटांशे च कर्णिका कर्णभूषणे इति विश्वः (पृ। १५, श्लो। १५७-८) ॥ १५ ॥
[[०३.२४३]]
अक्।०३.०३.०१६च्द् वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥
मूलम् - ०३.०३.०१७
अक्।०३.०३.०१७अब् स्याद् दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः ।
अक्।०३.०३.०१७च्द् लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ १७ ॥
(भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ।
रोमाञ्चे क्षुद्रशत्रौ च तरोरङ्गे च कण्टकः ॥)
इति कान्तवर्ग।
लिङ्ग-सूरी - AK.03.03.016-17
मनोज्ञमुख्यदेवेषु वृन्दारक उदाहृतः ॥ ३३ ॥
प्रशस्तं वृन्दमस्यास्तीति वृन्दारकः ॥
सङ्ख्यासङ्ख्येयमुख्यान्यासहायेष्वेक उच्यते ।
स्वयमेव एतीत्येकः । ʻइण् गतौ’ ॥
दाम्भिकोऽत्यन्तविक्षिप्तदृष्टौ कौक्कुटिकेऽपि च ॥ ३४ ॥
दम्भः प्रयोजनमस्येति दाम्भिकः । कौक्कुटिको मायावी ॥
कार्याशक्ते स्वामिभावदर्शी लालाटिकः स्मृतः ।
कोपप्रसादचिह्नं प्रभुललाटं पश्यतीति लालाटिकः ॥
कटकः कङ्कणे शैलनितम्बे राष्ट्रकेऽपि च ॥ ३५ ॥
कटतीति कटकः । ʻकटे वर्षावरणयोः’ ॥
द्रुमस्य तीक्ष्णावयवे सूच्यग्रक्षुद्रवैरिणोः ।
रोमाञ्चे परुषालापे कण्टकः परिकीर्तितः ॥ ३६ ॥
कणत्यनेन ताडित इति कण्टकः । ʻकण शब्दे ॥ १६-१७ ॥
इति कान्तवर्गः
वृन्दारकौ रूपिमुख्यौ । रूपी सुरूपः । मुख्यः श्रेष्ठः । प्रशस्तं वृन्दं स्वोपसर्जनीभूतमस्यास्तीति वृन्दारकः । ʻशृङ्गवृन्दाभ्यामारकन् वक्तव्यः’ (वा। ५। २। १२२) । लिङ्गत्रयेऽप्युदाहार्यम् । स्त्रीत्वविवक्षायां तु ʻन यासयोः’ (७। ३। ४५) इति सूत्रे ʻवा सूतकापुत्रकावृन्दारकाणामुपसङ्ख्यानम् (वा। ७। ३। ४५) इति वचनादापि परतः इत्वप्रतिषेधेऽस्य वैकल्पिकत्वादत्र स्त्रीलिङ्गे वृन्दारका वृन्दारिकेति रूपद्वयमस्ति । देवतापर्यायेषु प्रागुक्तः (१, पृ। ९) ॥ एके मुख्यान्यकेवलाः । मुख्ये यथा—सर्वसत्त्वैकबन्धुः । अन्यार्थे यथा—इत्येके प्राहुः । केवलः सहायरहितः । तत्र यथा—ʻएकोऽजयद् रिपुपुराणि हरः खरादीन् इति । एति गच्छति इत्येकः । ʻइण् गतौ’ । औणादिकः कन् (उ। ३। ४३) । शेषे—ʻएकः सङ्ख्येयभेदे स्यात् इति । एको घटः । इत्यादि ॥ स्याद् दाम्भिकः—ईक्षणः । दम्भः प्रयोजनमस्येति दाम्भिकः । तदुक्तम्—
ʻमृषैव यायजूकादिवेषमालम्ब्य जीवति ।
आत्मस्तुतिपरो यश्च स हि दाम्भिक उच्यते ॥
इति । यश्च परिव्राजकादिर्गमनसमये कुक्कुटवत् चक्षुःसंयमनेन किञ्चित् किञ्चित् पुरोदेशं पश्यन् शनैगच्छति स अदूरेरितेक्षणः । तावुभौ कौक्कुटिकशब्देनोच्येते । ʻमिथ्याचर्या कल्पना स्यात् कुक्कुटिः कुहना तथा’ इति रत्नकोशे । कुक्कुटिं कुहनां पश्यतीति कौक्कुटिकः । ʻसञ्ज्ञायां ललाटकुक्कुट्यौ पश्यति (४। ४। ४६) इति ठकि कौक्कुटिको दाम्भिकः । कुक्कुटवन्मन्दं मन्दं चरतीति कौक्कुटिको द्वितीयः। एष स्वाभाविकचेष्टायुक्तः, प्रथमस्तु प्रतारक इत्यनयोर्भेद इति सुभूतिचन्द्रः ॥ लालाटिकः—कार्याक्षमश्च यः । भालं ललाटम् । प्रभोः कोपप्रसादाभिव्यञ्जकभ्रूकुटिरेखादिपरिज्ञानाय भालं ललाटं यः पश्यति स लालाटिकः । भावदर्शीति पाठे भावोऽभिप्रायः, तदर्थमिति ललाटमेव पश्यतीति लालाटिकः । ʻसञ्ज्ञायां ललाटकुक्कुट्यौ पश्यति (४। ४। ४६) इति ठक्प्रत्ययः । यश्च स्वकीयमन्यदीयं वा कर्तुं न शक्नोति, किं तु ʻयथा ललाटे लिखितं तत्तथा न तदन्यथा’ इति सर्वदा स्वललाटमेव पश्यति, न तु क्वचिदप्युद्युङ्क्ते, सोऽपि लालाटिकः ॥ ʻभूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् । भूभृतः पर्वतस्य नितम्बो मध्यभागः इत्येकमभिधेयम्, वलयः करभूषणं, चक्रं सैन्यम् । एषु कटकद्वयसारविच्चक्रं राष्ट्रम् इत्यपरे । यथा—आन्ध्रकटकं, कर्णाटककटकम् इति । सुभूतिचन्द्रसर्वानन्दौ तु—भूभृन्नितम्बेत्यादिकं श्लोकार्धं प्रक्षिप्तं मन्यमानौ न व्याचक्रतुः । अत एव त्रिषूत्तरे इत्यत्र कान्तवर्गसमाप्तिपर्यन्ताः शब्दाः वाच्यलिङ्गा इति व्याचक्रतुश्च । सुबोधिनीकारादयस्तु—पठित्वा व्याख्यातवन्तः । ʻरोमाञ्चे क्षुद्रशत्रो च तरोरङ्गे च कण्टकः’ । कं सुखं टङ्कयति बध्नातीति कण्टकः । ʻटकि बन्धने । एतदपि श्लोकार्ध प्रक्षिप्तमेव नामरसिंहीयमिति सम्प्रदायः ॥ १६-१७ ॥
इति कान्तवर्गः
मल्लि-नाथः - AK.03.03.016-17
वृन्दारकौ रूपिमुख्यौ । त्रिषूत्तरे इत्यधिकारात् त्रिलिङ्गः । वृन्दारिका कन्या वृन्दारकं कुलमिति वरयितुर्भाग्यम् । एके मुख्यान्यकेवलाः । ʻदेवेष्वेको महादेवो देवानेकान्न मन्महे ॥ स्याद् दाम्भिकः—ईक्षणः । दाम्भिकौ दूरेरितेक्षणौ पुरुषौ कौक्कुटिकौ स्याताम् ॥ लालाटिकः—अक्षमश्च यः । यः प्रभोर्भावदर्शी, भावजिज्ञासः प्रभोः, कार्याक्षमः कार्यालसः स लालाटिकः स्यात् ॥ १६-१७ ॥
अनुक्तम्—
कृपायामपि शूकः स्यादपयाने सृगालिका ।
अपयानं पलायनम् ॥
द्रावकस्तु विदग्धेऽपि मातुल्यामपि चाम्बिका ॥
वा द्रोण्यां कविवेकः स्यान्मृणालेऽपि च कोरकम् ।
कवाटकुटकेऽपि स्यात् कूचिकाथ कनीनिका ॥
स्वल्पाङ्गुलौ चालिरुते वस्त्रभङ्गेऽपि चोर्मिका ।
स्वल्पाङ्गुलिः कनिष्ठिका । वस्त्रभङ्गः ʻनेरि ।
करिण्यां चापि गणिका बन्धकी नर्तकी तथा ॥
स्याद् रत्नकङ्कणाङ्गारशकट्योरपि पुष्पकम् ।
भयानकस्तु शार्दूले सिंहिकातनयेऽपि च ॥
सिंहिकातनयो राहुः ॥
कौतुकं हस्तसूत्रे स्यान्नर्मण्यपि च विस्मये ।
भवेज्जलकरङ्कस्तु नारिकेलफलेऽम्बुदे ॥
लोचकस्त्वक्षितारे स्याद् भुवि रक्तांशुके जने ।
पुलको हस्तिकबले रोमाञ्चे सूक्ष्मजन्तुषु ॥
घोलको भग्नभाण्डे स्याद् भटानां च शिरस्त्रके ।
नालीकं स्यात् पद्मषण्डे पद्मे च विशिखे पुमान् ॥
नालिको ग्रामकूटे स्याद् विधवायां तु जालिका ।
रुण्डिका दूतिकायां स्याद् रणभूमौ च रुण्डिका ॥
रक्तको रक्तवस्त्रे स्यादनुरक्तेऽपि रक्तकः ।
अनुरागे स्त्रीजिते स्यात् काकरूकश्च निर्धने ॥
रुचकौ भूषणरवौ खड्गिखड्गौ करालिकौ ।
खनकौ चोरवित्तज्ञौ कर्कौ कुलिरदर्पणौ ॥
भवेद् गुणनिका नृत्ये पाठस्यावर्तनेऽपि च ।
स्यात्तु घर्घरिका क्षुद्रघण्टिकाभृष्टधान्ययोः ॥
खद्योते चिलिमिलिका कण्ठिका विद्युति स्रजि ।
कण्ठिका कण्ठमाला ॥
इति कान्ताः
[[०३.२४७]]
अथ खान्तवर्गः
मूलम् - ०३.०३.०१८
अक्।०३.०३.०१८अब् मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ ।
अक्।०३.०३.०१८च्द् शङ्खो निधौ ललाटास्थ्नि कम्बौ न स्त्रीन्द्रियेऽपि खम् ॥ १८ ॥
अक्।०३.०३.०१९अ घृणिज्वाले अपि शिखे ।
इति खान्ताः
लिङ्ग-सूरी - AK.03.03.018
रश्मिकान्त्योर्मयूखः स्याज्ज्वालायां ज्वलनस्य च ।
मिनोत्यन्धकारमिति मयूखः । ʻडुमिञ् प्रक्षेपणे ॥
मधुव्रते रणे बाणे शिलीमुख उदाहृतः ॥ ३७ ॥
शिली शल्यं मुखे यस्य शिलीमुखः ॥
शङ्खः कम्बौ ललाटास्थिनिधिसङ्ख्यौषधेष्वपि ।
शं सुखं खनति जनयतीति शङ्खः । ʻखनु अवदारणे ।
इन्द्रियस्वर्गनगरसुखक्षेत्राम्बरेषु च ॥ ३८ ॥
संवेदने शून्यविन्दौ खशब्दः परिकीर्तितः ।
खन्यत इति खम् ।
ज्वालाकिरणचूडासु शिफायां च शिखा स्मृता ॥ ३९ ॥
शाखतीति शिखा । ʻशाखृ व्याप्तौ’ ॥ १८ ॥
इति खान्तवर्गः
मयूख—ज्वालासु । त्विट् कान्तिमात्रम् । करः किरणः । ज्वाला वह्निशिखा ॥ अलिबाणौ शिलीमुखौ । अलिः भ्रमरः ॥ शङ्खो—न स्त्री । निधिः शङ्खाख्यो निधिविशेषः । ललाटास्थि ललाटस्य प्रान्तभागस्थमस्थि । ʻललाटास्थिनिस्तोदशङ्खयोस्तथा’ इति वाग्भटः । रूपभेदादर्थद्वयेऽपि पुंलिङ्गः । कम्बुवाचकश्चेत् पुन्नपुंसकलिङ्गः । शं सुखं खनति जनयतीति शङ्खः । ʻखनु अवदारणे । डप्रत्ययः (३। २। १०१) ॥ इन्द्रियेऽपि खम् । इन्द्रियं चक्षुरादिकं खन्यत इति खम् । व्याडिश्च—ʻखं क्लीबे शून्यबिन्दौ च स्वर्गाकाशेन्द्रियेषु च्ö इति । ʻतस्मिन् गते ख सुकृतोपपन्नम् इति स्वर्गे प्रयोगो रघुवंशे (१८। २२) ॥ घृणिज्वाले अपि शिखे । घृणिः मरीचिः । ज्वाला वह्निसम्बन्धिनी । ʻकचबन्धे शिफारश्म्योश्चूडाग्निज्वालयोः शिखा’ इत्यजयः ॥ १८ ॥
इति खान्तवर्गः
मल्लि-नाथः - AK.03.03.018
मयूख—ज्वालासु । त्विट् प्रभा । करः किरणः ॥ अलिबाणौ—इन्द्रियेऽपि खम् । ʻखमिन्द्रियसुखे स्वर्गे शून्ये बिन्दौ विहायसि इति विश्वः (पृ। २२, श्लो। १) ॥ घृणि—शिखे । ʻशिखा ज्वालाकेकिमौल्योः शिखा शाखाग्रमौलिषु’ इति वैजयन्ती (पृ। २२३, श्लो। ४०) ॥ अनुक्तम्—
उपलेपे च गोमुखम् ।
मुख्योपायद्वार्षृ मुखं सुखमानन्दतोययोः ।
नपुंसकं तु पातले पुंस्यौर्वे वडवामुखः ॥
त्रिशिखं शेखरे शूले प्रेङ्खाश्वगतिनृत्तयोः ॥ १८ ॥
इति खान्ताः
[[०३.२४९]]
अथ गान्तवर्गः—
मूलम् - ०३.०३.०१
अक्।०३.०३.०१९ब् शैलवृक्षौ नगावगौ ।
अक्।०३.०३.०१९च्द् आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १९ ॥
लिङ्ग-सूरी - AK.03.03.019
गिरिद्रुमार्कसर्पेषु नगागौ परिभाषितौ ।
न गच्छतीति नगः । अगश्च । ʻगम्लृ सृप्लृ गतौ’ ॥
जङ्घाले मारुते बाणेऽप्याशुगः परिकीर्तितः ॥ ४० ॥
आश गच्छतीत्याशुगः ॥
बाणार्कपक्षिदेवेषु ग्रहेषु च खगो मतः ।
खे गच्छतीति खगः ॥ १९ ॥
शैलवृक्षौ नगावगौ । अगशब्दो नगशब्दश्च प्रत्येकं पर्वते पादपे च वर्तते । न गच्छतीति नगः । ʻनगोऽप्राणिष्वन्यतरस्याम् (६। ३। ७७) इति विकलपेन नञः प्रकृतिभावः । तदभावपक्षे नलोपे सत्यगः । ʻअगो भुजङ्गे शैले च वृक्षभास्करयोरपि इति प्रतापः । आशुगौ वायुविशिखौ । विशिखो बाणः । जङ्घालेऽप्याशुगशब्दः । आशु गच्छति । डः (वा। ३। २। ४८) ॥ शरार्कविहगाः खगाः । शरो बाणः । विहगः पक्षिमात्रम् । ʻखगो विहङ्गशरयोर्ग्रहसूर्यामरेष्वपि इति प्रतापः ॥ १९ ॥
मल्लि-नाथः - AK.03.03.019
शैलवृक्षौ नगावगौ । शैलवृक्षौ नगौ अगौ च स्याताम् ।आशुगौ—खगाः । ʻपतङ्गः शलभे शालौ मार्जारेऽग्नौ रवौ खगे इति वैजयन्ती (पृ। २४२, श्लो। ४०) ॥ १९ ॥
[[०३.२५०]]
मूलम् - ०३.०३.०२०
अक्।०३.०३.०२०अब् पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः ।
अक्।०३.०३.०२०च्द् पशवोऽपि मृगा वेगः प्रवाहजवयोरपि ॥ २० ॥
लिङ्ग-सूरी - AK.03.03.020
दिवाकरे शालिभेदे विशेषे विहगस्य च ॥ ४१ ॥
पारदे शलभे चैव पतङ्गः परिकीर्तितः ।
पततीति पतङ्गः । ʻपत्लृ गतौ’ ॥
क्रमुकाख्यद्रुमे वृन्दे पूगशब्दः प्रकीर्तितः ॥ ४२ ॥
पुनातीति पूगः । ʻपूञ् पवने ॥
पशौ नक्षत्रभेदे च हरिणे कुञ्जरान्तरे ।
मृगयायां च याच्ञायां मृगशब्दोऽभिधीयते ॥ ४३ ॥
मृग्यत इति मृगः । ʻमृग अन्वेषणे ॥
बले नदीप्रवाहे च महाकालफलेऽपि च ।
विण्मूत्रादिप्रवृत्तौ स्याद् वेगः शृङ्गारभावने ॥ ४४ ॥
विज्यत इति वेगः । ʻओविजी भयचलनयोः’ ॥ २० ॥
पतङ्गौ पक्षिसूर्यौ च । पक्षी शलभाख्यः प्रागुक्तः (१, पृ। ३५१) । पततीति पतङ्गः । शेषे—ʻशालिभेदे पक्षिमात्रे पतङ्गः पारदेऽपि च्ö इति ॥ पूगः क्रमुकवृन्दयोः । इह क्रमुकशब्देन ब्रह्मदारु गुवाकश्चेत्युभयं विवक्षितं वनौषधिवर्गे (पु। २४०, ३२२), तदुभयपर्यायेषु क्रमुकपूगशब्दयोकरपि पाठात् । एकजातीयानामेककर्मोपजीविनां समूह एव पूगशब्दस्य मुख्योऽर्थः । ʻनृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च्ö इत्यादिषु च (या। स्मृ। २। २। ३०) प्रसिद्धः । समूहमात्रे तूपचारात् प्रयोगः । फले तु क्लीबम् ॥ पशवोऽपि मृगाः । पशवः गोमहिष्यादयः । अपिशब्दात् सिंहप्रभृतयश्च सिंहादिवर्गे मृगशब्देनोक्ताः (पृ। ३३४) । तद्विशेषः कुरङ्गः । तथा च प्रतापः—ʻमृगो नक्षत्रभेदे स्यात् कुरङ्गे कुञ्जरान्तरे । मृगव्ययाच्ञापशुषु’ इति । नक्षत्रभेदो मृगशीर्षाख्यः । कुञ्जरान्तरं च गजविशेषः । तदुक्तम्—
ʻभद्रो मन्द्रो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।
वनप्रचारसारूप्यसत्त्वभेदविनिश्चिताः ॥
इति ॥ वेगः प्रवाहजवयोरपि । विजते चलत्यनेनेति वेगः । ʻओविजी भयचलनयोः’ । करणे घञ् । कुत्वं च (७। ३। ५२) । प्रवाहे यथा—ʻनदी वेगेन शुध्यति (मनु। ५। १०८) । शेषे यथा—ʻवेगो महाकालफले विण्मूत्रादिविनिर्गमे इति । महाकालफलः किम्पाकसञ्ज्ञो वृक्षविशेषः । ʻवेगान्न धारयेद् वातविण्मूत्रक्षवतृट्क्षुधाः’ इति विष्ठादेर्बहिःप्रवृत्तौ ॥ २० ॥
मल्लि-नाथः - AK.03.03.020
पतङ्गौ—मृगाः। पशवः सिंहादयः । ʻगवेषणायां सिंहादौ सौम्यर्क्षे हरिणे मृगः’ इति रुद्रः । वेगः प्रवाहजवयोरपि ॥ २० ॥
[[०३.२५१]]
मूलम् - ०३.०३.०२१
अक्।०३.०३.०२१अब् परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ।
अक्।०३.०३.०२१च्द् गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥ २१ ॥
लिङ्ग-सूरी - AK.03.03.021
चन्दने पुष्परजसि धूलिस्नानीयचूर्णयोः ।
उपरागेऽस्तशैले च परागः परिकथ्यते ॥ ४५ ॥
परागच्छतीति परागः । ʻगम्लृ गतौ’ ॥
नागकेसरपुन्नागनागदन्तगजेषु च ।
क्रूराचारे पन्नगे च वारिदे वायुसेनयोः ॥ ४६ ॥
रङ्गे स्त्रीकरणे चैव नागशब्दोऽभिधीयते ।
स्त्रीकरणं नाम रतिकालक्रियमाणनागबन्धः । नाग इव क्रूरो नागः ॥
दन्तावले च चण्डाले मातङ्गः समुदाहृतः ॥ ४७ ॥
मतङ्गात् जायत इति मातङ्गः ॥
अपाङ्गस्तिलके च स्यान्नेत्रप्रान्ताङ्गहीनयोः ।
अपगतमङ्गं यस्येत्यपाङ्गः ॥ २१ ॥
परागः—रजस्यपि । कौसुम इति रेणुविशेषणम् । पुष्पप्रभवं रज इत्यर्थः । स्नानकाले शरीरोद्वर्तनार्थ सुगन्धि चूर्णं स्नानीयम् । आदिशब्देन पटवासकुन्तलवासकादिकं गृह्यते । रजःशब्देन रेणुमात्रं विवक्षितम् ॥ गजेऽपि नागमातङ्गौ । नागो मादङ्गश्चेति शब्दद्वयमत्र प्रतिपाद्यम् । तत्र नागशब्दस्य अपिशब्दसूचितोऽर्थः शेषे—
ʻनागकेसरपुन्नागनागदन्तेषु पन्नगे ।
क्रूराचारे च मेघे च वायौ नागः पुमान् भवेत् ॥
नागं स्त्रीकरणे रङ्गसीसयोः स्त्री तु योषिति ।
इति । नागकेसरश्चाम्पेयः । पुन्नागो देववल्लभः । नागदन्तो निर्यूहाख्यः । एषु त्रित्वर्थेषु नामैकदेशन्यायेन नागशब्दो वर्तते । पन्नगः काद्रवेयः प्रागुक्तः (पु। १४८) । उपमानात् क्रूरकर्मणि । अगो गमनरहितो न भवतीति व्युत्पत्त्या वायुमेघयोः । एष्वर्थेषु पुंलिङ्गः । स्त्रीकरणं नाम सुरतसमये स्त्रीपुंसयोरवयवसंश्लेषविशेषः नागबन्धाख्यम् । रङ्गं त्रपु । सीसं प्रसिद्धम् । अस्मिन्नर्थत्रये रूपभेदाद् नपुंसकम् । योषिच्छब्देन तद्विशेषो विवक्षितः । गजजातीयसर्पजातीयवृत्तौ वर्तमानश्चेत् स्त्रीलिङ्गः । तत्र जानपदादिसूत्रेण (४। १। ४२) नागी स्थौल्यार्थी । ʻजातेरस्त्री ॥ । (४। १। ६३) इति ङीषि नागी । स्थूला गजी गजयोषिद्वेत्यर्थः । मातङ्गशब्दस्तु चण्डाले प्रागुक्तः (पृ। ६३१) ॥ अपाङ्गस्तिलकेऽपि च । तिलकः तमालपत्रम् (१, पृ। ४४०) । अपि शब्दाद् नेत्रान्ते । अपगतोऽङ्गाद् अपाङ्गः । अपजनपूर्वाङ्गपदे पुंलिङ्गे । ʻनित्यमिमनिजन्ताश्च्ö इति लिङ्गानुशासनवचनात् पुंलिङ्गत्वम् । अङ्गहीने तु वाच्यलिङ्गः ॥ २१ ॥
मल्लि-नाथः - AK.03.03.021
परागः—रजस्यपि । स्नानीयं गन्धचूर्णम् गजेऽपि नागमातङ्गौ । ʻग्राहाभ्राहिगजा नागाः’ इति वैजयन्ती (पृ। २१६, श्लो। ३०) । ʻपार्वत्यामपि मातङ्गी इति वैजयन्ती (पृ। २७२, श्लो। १४) । अपाङ्गस्तिलकेऽपि च । अपिशब्देन नेत्रान्तेऽपि स्यात् ॥ २१ ॥
[[०३.२५३]]
मूलम् - ०३.०३.०२२
अक्।०३.०३.०२२अब् सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु ।
अक्।०३.०३.०२२च्द् योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु ॥ २२ ॥
लिङ्ग-सूरी - AK.03.03.022
स्वभावे निश्चये मोक्षे सृष्टौ त्यागात्मनोरपि ॥ ४८ ॥
अध्याये च तथोत्साहे सर्गशब्दोऽभिधीयते ।
सृज्यत इति सर्गः । ʻसृज विसर्गे ॥
अपूर्ववस्तुसम्प्राप्तावुपायध्यानयुक्तिषु ॥ ४९ ॥
वपुःस्थैर्ये सन्नहने द्रव्ये विस्रम्भघातिनि ।
कार्मणौषधयोर्योगो विष्कम्भादौ च सङ्गतौ ॥ ५० ॥
युज्यत इति योगः । ʻयुजिर् योगे ॥ २२ ॥
सर्गः—सृष्टिषु । अनागन्तुको धर्मः स्वभावः । उत्पत्तिसिद्ध इत्यर्थः । यथा जलस्य शैत्यं निसर्गः । निर्मोक्षः त्यागः । यथा बाणविसर्गः । निश्चयोऽध्यवसायः । यथा—ʻगृहाण शस्त्रं यदि सर्ग एष ते (रघु। ३। ५१) इति । अध्यायो नाम रामायणादिमहाकाव्येषु कथानां विश्रान्तिस्थानम् । यथा—ʻसर्गबन्धो महाकाव्यम् (काव्यादर्श १। १४) । सृष्टिरुत्पादनम् । यथा—ʻसर्गस्थित्यन्तकारणम् इति । ʻसृज विसर्गे इति धातोर्यथायथं कर्मणि करणे भावे च घञि सर्गः ॥ योगः—युक्तिषु । महाकर्मसु सम्भृतसम्भारस्य तदेकतानत्वं सन्नहनम् । यथा—ʻसेतुबन्धे कृतोद्योगः’ इति । सन्नहनं कवचादिकमिति केचित् । सामदानादिरुपायः । यथा—ʻतन्त्रावापविदा योगैर्मण्डलान्यधितिष्ठता’ इति माघकाव्ये (शिशु। २। ८८) । ध्यानं चित्तवृत्तिनिरोधः । यथा—ʻयोगेनान्ते तनुत्यजाम् इति रघुवंशे (१। ८) । सङ्गतिः संश्लेषः । यथा—रत्नवियोगः काञ्चनस्य इति । युक्तिः योग्यता, यथार्हत्वमित्यर्थः । यथा—यथायोगमितरेषाम् इति । ʻयुजिर् योगे इति धातोर्यथायथं भावे कर्मणि करणे च घञि योगः । शेषे—ʻयोगः सूत्रे द्रव्यलाभे विष्कम्भादौ च भेषजे इति । पाणिन्यादीनां सूत्रे यथा योगविभागादिष्टसिद्धिः इति । अलब्धद्रव्यलाभे यथा—ʻउपेयादीश्वरं चैव योगक्षेमार्थसिद्धये (या। स्मृ। १। ५। १००) । ʻविष्कम्भः प्रीतिरायुष्मान् इत्यादयः सप्तविंशतिर्योगाः ज्योतिःशास्त्रे प्रसिद्धाः । भेषजमौषधम् । यथा—गुग्गुलुयोगः, पिप्पल्यादियोगः ॥ २२॥
मल्लि-नाथः - AK.03.03.022
सर्गः—सृष्टिषु । निर्मोक्षस्त्यागः । निश्चयो निर्णयः । ʻगृहाण शस्त्रं यदि सर्ग एष ते (रघु। ३। ५१) । अध्यायः काव्यपरिच्छेदः । सृष्टिर्निर्माणम् ॥ योगः—युक्तिषु । सन्नहनं कवचम् । ʻजागरः कङ्कटो योगः सन्नाहः स्यादुरच्छदः’ इति रत्नकोशः । उपायः सामादिः । सङ्गतिः सङ्गः । अपूर्वसम्प्राप्तेरन्यः । ʻयोगोऽपूर्वार्थसम्प्राप्तौ सङ्गतिध्यानयुक्तिषु’ इति विश्वः (पृ। २४, श्लो। ११) । युक्तिर्युजिर्धात्वर्थः, नियोगोपयोगादिः ॥ २२ ॥
[[०३.२५५]]
मूलम् - ०३.०३.०२३
अक्।०३.०३.०२३अब् भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः ।
अक्।०३.०३.०२३च्द् चातके हरिणे पुंसि सारङ्गः शबले त्रिपु ॥ २३ ॥
लिङ्ग-सूरी - AK.03.03.023
सुखे वेश्याभृतौ रिक्थे फणिनः फणदेहयोः ।
रक्षणेऽभ्यवहारे च वर्तने भोग उच्यते ॥ ५१ ॥
भुज्यत इति भोगः । ʻभुज पालनाभ्यवहारयोः’ ॥
सारङ्गो हरिणे भृङ्गे चातके शवले गजे ।
सारं गच्छतीति सारङ्गः ॥ २३ ॥
भोगः—काययोः । सुखं सुखानुभवः । यथा—ʻभोगी परिजनैः सह्ö इति । वश्यस्त्रीणां रिरंसुभिः देयं धनादिमूल्यं स्त्र्यादिभृतिः । यथा—ʻभोगं तु म आचक्ष्व यस्मादिह स्त्रियो भोगमेव हारयन्ते इति । आदिशब्देन स्वकीयधानायादिप्रापणार्थं परकीयाणां घोटकबलीवर्दादीनाम् अध्वयोजनानुसारेण कल्पितं मूल्यं गृह्यते । ʻभुज परिपालनाभ्यवहारयोः’ इति धातोः भावादौ घञि भोगः । शेषे—ʻकौटिल्ये पालने च स्याद् दाने च द्रविणेऽपि च्ö इति । ʻभुजो कौटिल्ये इति धातोः निष्पन्नस्य कौटिल्यमर्थः ॥ चातके—शबले त्रिषु । चातकः पक्षिविशेषः प्रागुक्तः (पृ। ३४०) । हरिणः कुरङ्गः । शबलः कर्बुरवर्णः । शेषे—ʻहस्तिभृङ्गौ च सारङ्गौ’ इति । विश्वप्रकाशेऽपि—ʻसारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे (पृ। २७, श्लो। ४९) इति । सजातीयैररम् अत्यर्थं गच्छतीति सारङ्गः (वा। ३। २। ३८) । सारणि श्रेष्ठानि अङ्गान्यवयवानि अस्येति वा सारङ्गः । शकन्ध्वादित्वात् पररूपत्वम् (वा। ६। १। ९४) ॥ २३ ॥
मल्लि-नाथः - AK.03.03.023
भोगः—काययोः । स्त्र्यादिभृतिर्नाम लञ्जिकादिवेतनम् । ʻचिरडुपुमुदलैनदि ॥ चातके—शबले त्रिषु । भृङ्गकुरङ्गगजेषु च पुंलिङ्गः । ʻसारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे इति विश्वः (पृ। २७, श्लो। ४९) ॥ २३ ॥
[[०३.२५६]]
मूलम् - ०३.०३.०२४
अक्।०३.०३.०२४अब् कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे ।
अक्।०३.०३.०२४च्द् यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥
लिङ्ग-सूरी - AK.03.03.024
शाखामृगे च मण्डूके प्लवगः सूर्यसारथौ ॥ ५२ ॥
प्लवैरुल्लङ्घनैर्गच्छतीति प्लवगः ॥
पराभवे चाभिषङ्गस्तथैव क्लेशशापयोः ।
अभिषज्यत इत्यभिषङ्गः । ʻषञ्ज सङ्गे ॥
युगो रथाद्यवयवे युगं हस्तचतुष्टये ॥ ५३ ॥
कृतत्रेतादिके चैव युग्मे वृद्ध्याख्यभेषजे ।
युज्यत इति युगः । ʻयुजिर् योगे ॥ २४ ॥
कपौ च प्लवगः । प्लवैरुल्लङ्घनैर्गच्छतीति प्लवगः । चशब्दाद् मण्डूके । यस्तु प्लवेनोडुपेन गच्छति, यश्च उत्प्लुत्य गच्छति सोऽपि प्लवगः ॥ शापे—पराभवे । अपकारिणामनिष्टाशंसनं शापः । मिथ्याभिशंसनं वा । तिरस्कारः पराभवः । दोषाणामभिषञ्जनम् अभिषङ्गः । ʻषञ्ज सङ्गे । घञ् (३। ३। १८, ८। ३। ६५) । ʻआक्रोशे शपथेऽपि स्यादभिषङ्गः पराभवः’ इति रुद्रः ॥ यानाद्यङ्गे—कृतादिषु । यानं रथः । आदिशब्देन शकटलाङ्गलादेः ग्रहणम् । तस्याङ्गे उपकरणे तुरगबलीवर्दादिस्कन्धनिधेये काष्ठविशेष इत्यर्थः । तत्र युगशब्दः पुंलिङ्गः । पाणिपादादिवस्तुद्वयसमुदायरूपे युग्मम् । कृतत्रेताद्वापरकलिषु वर्तमानो नपुंसकलिङ्गः । युगशब्दः प्रागेव व्युत्पादितः (पृ। ३५८) । शेषे—ʻयुगं हस्तचतुष्के स्यादौषधे वर्षपञ्चके इति । ʻयुगेन पतितं त्यजेत् इति हस्तचतुष्टये प्रयोगः । औषधे वृद्धिसञ्ज्ञे । ʻइमे हि षष्टिः प्रभवादयोऽब्दाः युगानि हि द्वादश पञ्चकं च्ö इति ज्योतिःशास्त्रप्रसिद्धो वर्षपञ्चके युगशब्दः ॥ २४ ॥
मल्लि-नाथः - AK.03.03.024
कपौ च प्लवगः । ʻप्लवगो वानरे भेके सारथौ चोष्णदीधितेः’ इति विश्वः (पृ। २६, श्लो। २८) । शापे—पराभवे । शापशब्देन शपथाक्रोशयोरेव ग्रहणम् । ʻआक्रोशे शपथेऽपि स्यादभिषङ्गः पराभवे इति वैजयन्ती (पृ। २६५, श्लो। १०) ॥ यानाद्यङ्गे—कृतादिषु । हस्तचतुष्टयेऽपि नपुंसकम् । ʻयुगं हस्तचतुष्केऽपि रथसीराङ्गयोर्युगः’ इति विश्वः (पृ। २४, श्लो। ४) ॥ २४ ॥
[[०३.२५७]]
मूलम् - ०३.०३.०२५
अक्।०३.०३.०२५अब् स्वर्गेषुपशुवाग्वज्रदिग्नेत्रघृणिभूजले ।
अक्।०३.०३.०२५च्द् लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः ॥ २५ ॥
लिङ्ग-सूरी - AK.03.03.025
पशुदिग्वज्रनेत्रेषु स्वर्गबाणजलेषु च ॥ ५४ ॥
मेदिन्यां किरणे वाचि गोशब्दः परिकीर्तितः ।
गोशब्दस्य लक्ष्यदृष्ट्या यथार्हं लिङ्गमुन्नेयम् । गच्छतीति गौः ।
साङ्ख्योक्तप्रकृतौ चिह्ने तथा शेफानुमानयोः ॥ ५५ ॥
शिमूर्तिविशेषे च लिङ्गशब्दोऽभिधीयते ।
लिङ्गति लयं गच्छत्यस्मिन् जगदिति लिङ्गम् ॥ २५ ॥
स्वर्गेषु—पुंसि गौः । इषुः बाणः । पशुः गोत्वजात्याक्रान्ता व्यक्तिः स्त्री च पुमांश्च । स वज्रः कुलिशः । घृणिः रश्मिः । गोशब्दः स्वर्गादिष्वर्थेषु वर्तमानो लक्ष्यदृष्ट्या प्रयोगानुसारेणार्थविशेषेषु स्त्रीलिङ्गः पुंलिङ्गश्च विज्ञेय इत्यर्थः । अत्र लिङ्गव्यवस्था सर्वानन्दसुभूतिचन्द्रोदाहृतत्रिकाण्डशेषाभिधाने (पृ। २४, श्लो। ६११-२) र्दाशता । तथा हि —
ʻस्वर्गे रश्मौ वज्रे च बलीवर्दे च गौः पुमान् ।
स्त्री बाणरोहिणीदृग्दिग्वाग्भूमिष्वप्सु भूम्नि च ॥
इति । स्वर्गाद्यर्थचतुष्टये पुंलिङ्गः । बाणाद्यर्थेषु षट्सु स्त्रीलिङ्गः । अप्सु जले स्त्रीलिङ्गो बहुवचनान्तश्च भवतीत्यर्थः ॥ लिङ्गं चिह्नशेफसोः । चिह्नम् अनुमितिसाधनम् । यथा—धूमोऽग्नेर्लिङ्गम् इति । असाधारणधर्ममात्रं च चिह्नम् । यथा—ʻस वर्णिलिङ्गी विदितः समाययौ’ इति (किरा। १। १) । ʻयद्विष्णोर्लिङ्गधारणम् इति च । शेफो मेहनम् । यथा—ʻअन्तर्लिङ्गं न शोधयेत्, ʻएका लिङ्गे गुदे तिस्रः’ इति (मनु। ५। १३६) । लिङ्गति ज्ञापयति गूढमर्थ गमयतीति लिङ्गम् । ʻलिगि गतौ’ । घञ् । साङ्ख्योक्तप्रकृतौ च लिङ्गस्य व्यवहारः । शिवमूप्तिविशेषश्च । ʻबाणलिङ्गे शिवः साक्षात् इति ॥ २५ ॥
मल्लि-नाथः - AK.03.03.025
स्वर्गेषु—चिह्नशेफसोः । स्वर्गादिषु पुंलिङ्गः । इष्वादिषु स्त्रीलिङ्गः ।
ʻगौः स्वर्गे वृषभे रश्मौ वज्रे चन्द्रमसि स्मृतः ।
अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौः स्मृता ॥
इति विश्वः (पृ। २४, श्लो। १) ॥ २५ ॥
[[०३.२५८]]
मूलम् - ०३.०३.०२६
अक्।०३.०३.०२६अब् शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः ।
अक्।०३.०३.०२६च्द् भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥
इति गान्तवर्गः
लिङ्ग-सूरी - AK.03.03.026
सानौ विषाणे प्राधान्य शिखरे पर्वतस्य च ॥ ५६ ॥
क्रीडाम्बुजलयन्त्रे च शृङ्गशब्दः प्रयुज्यते ।
शृणातीति शृङ्गम् । ʻशॄ हिंसायाम् ॥
मातङ्गेऽपि वराङ्गं स्याद् गुह्ये मूर्ध्नि गुडत्वचि ॥ ५७ ॥
वरं च तदङ्गं च वराङ्गम् ॥
भगो माहात्म्यवीर्यश्रीकीर्तिवैराग्ययुक्तिषु ।
ज्ञानेच्छायत्नगुह्येषु धर्मे चैश्वर्यसूर्ययोः॥ ५८ ॥
भज्यते सेव्यत इति भगः । ʻभज सेवायाम् ॥ २६ ॥
इति गान्तवर्गः
शृङ्गं प्राधान्यसान्वोश्च । प्रधानस्य भावःप्राधान्यम् । प्रभुत्वमिति यावत् । यथा—ʻशृङ्गं स दृप्तविनयाधिकृतः परेषामत्युच्छ्रितं न ममृषे न तु दीर्घमायुः’ (रघु। ९। ६२) इति । सानु गिरिशिखरम्, प्रस्थश्च । तथा च कात्यः—ʻशृङ्गं शिखरं सान्वपि इति । शृङ्गशब्दः पुंलिङ्गेऽप्यस्ति । तथा च वैजयन्त्याम् (पृ। २३७, श्लो। ८७)—ʻक्रीडाम्बुयन्त्रे शृङ्गोऽस्त्री पर्वताग्रप्रभुत्वयोः । पश्वङ्गे च्ö इति । कूर्चशीर्षे पुंलिङ्गः प्रागुक्तः (पृ। ३०२) । मद्गुरस्य प्रियायां (पृ। २७२) विषायां च (पृ। २७३) ङीबन्तः प्रागुक्तः ॥ वराङ्गं मूर्धगुह्ययोः । गुह्यं योनिः । अवयवेषु श्रैष्ठ्यादुभयोर्वराङ्गत्वम् । ʻगुडत्वचि वराङ्गं स्याद् योनौ मूर्ध्नि गजे तु ना’ इति रभसः ॥ भगः—कीर्तिषु । श्रीः सम्पत्तिः कान्तिश्च । कामो योनिः इच्छा च । माहात्म्यशब्देन ज्ञानवैराग्यैश्वर्ययोगो विवक्षितः । वीर्यमकुण्ठिता शक्तिः । यत्न उत्साहः । अर्कः सूर्यः । कीर्तिः साधुवादः । रूपभेदात् पुंलिङ्ग इति सुभूतिः । रभसकोशे तु—ʻभगं श्रीयोनिवीर्येषु ज्ञानवैराग्यधर्मयोः’ इत्यादि नपुंसककाण्डेऽभिहितम् । रुद्रस्तु—ʻज्ञानवैराग्ययोर्योनौ भगमस्त्री रवौ तु ना’ इति । भज्यत इति भगः । ʻभज सेवायाम् । घप्रत्ययः (३। ३। ११८) ॥ २६ ॥
इति गान्तवर्गः
मल्लि-नाथः - AK.03.03.026
शृङ्गं—सान्वोश्च । प्राधान्यं प्रभुत्वम् । सानुः पर्वताग्रम् ।
ʻप्रभुत्वे पर्वतस्याग्रे पशोरवयवेऽपि च ।
क्रीडापानीययन्त्रे च शृङ्गं ना कूर्चशीर्षके ॥
इति रभसः । वराङ्गं—कीर्तिषु ।
ʻभगमैश्वर्यमाहत्म्यज्ञानवैराग्ययोनिषु ।
यशोवीर्यप्रयत्नेच्छाश्रीधर्मरविमुक्तिषु ॥
इति विश्वः (पृ। २४, श्लो। ३) । ʻभगं योन्यां भगो यत्नयशोवीर्यार्कभूतिषु’ इति वैजयन्ती (पृ। २३४, श्लो। ११५) । ʻज्ञानवैराग्ययोर्योनौ भगमस्त्री तु भास्करे इति रुद्रः । अनुक्तम्—
रागोऽनुरागे मात्सर्ये गानाङ्गे रोचनादिषु ।
अनुरागे—वीतरागो जनः मात्सर्ये—सपत्न्यौ व्यतिरज्येते । गानाङ्गे—गुर्जरीरागेण गायति । रोचनादिषु—रोचनिकं वस्त्रम् । हारिद्रं वस्त्रम् ॥ रङगो रणाजिरे नृत्येऽपि । अवसरसङ्गररङ्गे रङ्गत्वे तुरङ्गमास्तुङ्गाः ॥
अमुख्योपाययोरङ्गं कालिङ्गो राजसर्पयोः ।
छत्रभङ्गस्तु वैधव्येऽस्वातन्त्र्ये च नृपात्यये ।
कथाप्रसङ्गस्तु विषवैद्ये वाताधिकेऽपि च ॥ २६ ॥
इति गान्तवर्गः
[[०३.२६१]]
अथ घान्तवर्गः—
मूलम् - ०३.०३.०२७
अक्।०३.०३.०२७अब् परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये ।
अक्।०३.०३.०२७च्द् मूल्ये पूजाविधावर्धोऽंहोदुःखव्यसनेष्वधम् ॥ २७ ॥
अक्।०३.०३.०२८अ त्रिष्विष्टेऽल्पे लघुः
लिङ्ग-सूरी - AK.03.03.027
अर्गले काचकलशे योगे प्राकारगोपुरे ।
अस्त्रे घट्टे मुद्गरे च परिघः परिकीर्त्यते ॥ ५९ ॥
परिहन्यत इति परिघः । ʻहन हिंसागत्योः’ ॥
ओघः परम्परावृन्दवार्वेगेषु लयान्तरे ।
उह्यत इति ओघः । ʻवह प्रापणे ॥
अर्घः पूज्योपहारे च मूल्ये द्रव्यस्य वर्तते ॥ ६० ॥
अर्ह्यतेऽनेनेत्यर्घः । ʻअर्ह पूजायाम् ॥
अघं दुःखे किल्विषे स्यादक्षादिव्यसनेऽपि च ।
कारिणमङ्घत इत्यघम् । ʻअघि गत्याक्षेपे ॥
इष्टाल्पासारशीघ्रेषु स्पृक्कायामगुरौ लघुः ॥ ६१ ॥
लङ्घ्यत इति लघुः । ʻलघि गतौ’ ॥ २७ ॥
इति घान्तवर्गः
परिघः—अस्त्रेऽपि । परितो हननं परिघातः । परितो हन्यतेऽनेनेति व्युत्पत्त्या परिघशब्देन सर्वतो लोहवलयबद्धं लगुडाख्यमस्त्रमुच्यते । ʻपरौ घः’ (३। ३। ८४) इति भावकर्मणोरर्थयोः हन्तेरप्प्रत्यये घत्वम् ।
ʻपरिघः काचकलशे घट्टे प्राकारगोपुरे ।
परिघाते योगभेदे मुद्गरार्गलयोरपि ॥
इति नानार्थसङ्ग्रहः । काचनिर्मितः कलशः काचकलशः । गिर्यरण्यादिप्राचुर्येण दुष्प्रवेशस्थलं घट्टम् । योगभेदो विषकम्भादिष्वन्यतमः । अर्गलं द्वारपिधानस्य विष्कम्भः ॥ ओघो—रये । ʻवह प्रापणे । पचाद्यचि (३। १। १३४) न्यङ्क्वादित्वात् (७। ३। ५३) साधुः ॥ मूल्ये पूजाविधावर्धः । महार्घः पट इति मूल्ये । ʻतमर्घ्यमर्घादिकयादिपूरुषः’ (शिशु। १। १४) इति पूजायाम् । विक्रेयः पटादिर्गुर्वादिर्वा अर्घः । ʻअर्ह पूजायाम् । ʻपुंसि सञ्ज्ञायां घः प्रायेण्ö (३। ३। ११८) इति घः । न्यङ्क्वादिः । (७। ३। ५३) ॥ अंहो—अघम् । अंहः पापम् । व्यसनं मद्यपानद्यूतादि । ʻअघि गतौ’ इति धातोः पचाद्यच् (३। १। १३४) ॥ त्रिष्विष्टेऽल्पे लघुः । इष्टे यथा—ʻदर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः’ इति (रघु। ११। १२) । अल्पे यथा—लघ्वाहार इति ॥
ʻकृष्णागरुणि शीघ्रे च क्लीबे लघ्वगुरौ त्रिषु ।
निःसारे च मनोज्ञे च स्पृक्कायां च लघुः स्त्रियाम् ॥
इति । शीघ्रत्वगुणयुक्ते तु त्रिलिङ्गः प्रागुक्तः (१, पृ। ४४) । अगुरौ गुरुत्वगुणरहिते तृणतूलादौ । निःसारे सारांशरहिते शिग्रुकाष्ठादौ ॥ २७ ॥
इति घान्तवर्गः
मल्लि-नाथः - AK.03.03.027
परिघः—अस्त्रेऽपि । परिघातो घातः । ʻपरिघो मुद्गरे शस्त्रे कथ्यतेऽर्गलघातयोः’ इति जयकोशः । ओघो—रये । परम्परायामपि स्यात् । ʻओघः परम्परायां स्याज्जलस्रोतसि सञ्चये इति वैजयन्ती (पृ। २१४, श्लो। १०) ॥ मूल्ये—अल्पे लघुः । अपराध्यर्थेऽपि त्रिलिङ्गः । ʻलघु त्वसारगुरुणोरिष्टे क्षिप्रमनोज्ञयोः’ इति वैजयन्ती (पृ। २२९, श्लो। १५) ॥ २७ ॥
इति घान्तवर्गः
[[०३.२६३]]
अथ चान्तवर्गः—
मूलम् - ०३.०३.०२
अक्।०३.०३.०२८ब् काचाः शिक्यमृद्भेददृग्रुजः ।
अक्।०३.०३.०२८च्द् विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः ॥ २८ ॥
अक्।०३.०३.०२९अब् मास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिपु ।
अक्।०३.०३.०२९च्द् अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ २९ ॥
लिङ्ग-सूरी - AK.03.03.028-29
दृग्रोगमणिशिक्येषु मृद्भेदे काच इष्यते ।
शिक्यं रज्जुयन्त्रम् । कच्यत इति काचः । ʻकच दीप्तिवन्धनयोः’ ।
सञ्चये च विपर्यासे प्रपञ्चो विस्तरे मतः ॥ ६२ ॥
विपर्यासो मायाप्रतरणम् । प्रपञ्च्यत इति प्रपञ्चः । ʻपचि विस्तारवचने ।
शृङ्गारघर्मयोर्वह्नावुपधौ शुद्धमन्त्रिणि ।
आषाढमासे मेध्ये च शुभ्रे शचिरुदाहृतः ॥ ६३ ॥
शुच्यति शुद्धो भवतीति शुचिः । ʻशुचिर् पूतीभावे ॥
रागेच्छारश्मिशोभासु ज्वालायां च रुचिर्मता ।
रोचत इति रुचिः । ʻरुच दीप्तौ’ ॥ १८-९ ॥
इति चान्तवर्गः
काचाः—दृग्रुजः । घटादिधारणार्थो रज्जुकृतो यन्त्रविशेषः शिक्यम् । मृद्भेदस्तु दरिद्रयोषिदादीधारणीयानां वलयाङ्गुलीयकादीनां प्रकृतिभूतो मृत्तिकाविशेषः । दृशः नेत्रस्य रुग् रोगः काचाख्यः प्रसिद्धः । ʻकच दीप्तिबन्धनयोः’ इति धातोः कर्मण्यधिकरणे च यथायोगं घञ् । ʻन क्वादेः’ (७। ३। ५९) इति कृत्वप्रतिषेधः ॥ विपर्यासे—प्रपञ्चः । अतस्मिन् तदिति प्रत्ययो विपर्यासः । यथा—ʻप्रपञ्चस्य लयो ज्ञानात् इति । विस्तरःशब्दबाहुल्यम् । यथा—ʻअलमतिप्रपञ्चेन्ö इति । पदार्थप्रपञ्चः इत्यादौ शब्दव्यतिरिक्ते प्रपञ्चे शब्द औपचारिकः । ʻपचि विस्तारवचने इत्यस्मात् चौरादिकात् ʻएरजण्यन्तानाम् इति ण्यन्तपर्युदासस्य प्रायिकत्वाद् एरचि (३। ३। ५६) प्रपञ्चः ॥ पावके—सिते त्रिषु । अत्र मासिशब्देनाषाढमासो विवक्षितः । ʻशौचाचारपरिज्ञानममात्यानामुपधा’ इति कौटिल्यः (अर्थशास्त्रे १। १०) । परिज्ञानोपायश्च क्षत्रियवर्गे प्रपञ्चितः (पृ। ४९६) । तामतिक्रान्तोऽत्युपधः, उपधाशद्ध इति यावत् । पावकाद्यर्थत्रये पुंलिङ्गः । पवित्रे धवलद्रव्ये च वाच्यलिङ्गः । शृङ्गाररसेऽपि शुचिशब्दः पुंलिङ्गः प्रागुक्तः (१, पृ। १३१) ॥ अभिषङ्गे—रुचिः स्त्रियाम् । अभिषङ्गः आसक्तिः । यथा—वेदाभ्यासरुचिः इति । स्पृहा वाञ्छा । यथा—ʻभिन्नरुचिर्हि लोकः’ इति (रघु। ६। ३०) । तिग्मरुचिरिति गभस्तौ । ʻरुच दीप्तौ’ इत्यस्माद् ʻइगुपधात् कित् (उ। ४। १२०) इतीन्प्रत्यये रुचिः ॥ २८-९ ॥
इति चान्तवर्गः
मल्लि-नाथः - AK.03.03.028-29
काचाः—दृग्रुजः । मृद्भेदः । ʻगाजु’ ॥ विपर्यासे—प्रपञ्चः । विस्तरः शब्दविस्तृतिः ॥ पावके—त्रिषु । अत्युपधशब्दोऽमात्यविशेषणम् ।
ʻशुचिः शब्देऽनुपहते शृङ्गाराषाढयोः सिते ।
ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि ॥
इति विश्वः (पृ। ३०, श्लो। ६) ॥ अभिषङ्गे—रुचिः स्त्रियाम् । अभिषङ्गो ऽत्यासक्तिः । स्पृहा बुभुक्षा ॥ अनुक्तम्—
श्मश्रुण्यपि च कूर्चः स्यात् कचः शुष्कव्रणेऽपि च ।
पिशाचः स्याद् बिडालेऽपि नाराचोऽम्बुकरिण्यपि ॥
चञ्चः किरातभेदे स्याच्चञ्चा स्त्री तृणपूरुषे ।
कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च ॥
रतनारीचः शुनके सीत्कारे च नतभ्रुवाम् ।
इति चान्तवर्गः
परिधानाञ्चले कच्छः पार्श्वे पुष्पवनेऽपि च ।
पुच्छः पश्चात्प्रदेशेऽपि म्लेच्छः पापरतेऽपि च ॥ २८-९ ॥
इति छान्ताः
[[०३.२६५]]
अथ जान्तवर्गः—
मूलम् - ०३.०३.०३०
अक्।०३.०३.०३०अब् केकितार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः ।
अक्।०३.०३.०३०च्द् अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः ॥ ३० ॥
लिङ्ग-सूरी - AK.03.03.030
अहिभुङ्नकुलेऽपि स्याद् वैनतेयमयूरयोः ॥ ६४ ॥
अहिं भूङ्क्त इत्यहिभुक् ॥
त्रैवर्णिकेषु दन्तेषु पक्षिसर्पादिषु द्विजः ।
रेणुकायां च भार्ग्यां च द्विजाशब्द उदाहृतः ॥ ६५ ॥
द्विर्जायत इति द्विजः । ʻजनी प्रादुर्भावे ॥
हरे हरौ विधौ कामे छागे रघुसुतेऽप्यजः ।
विधिर्ब्रह्मा । न जायत इत्यजः ॥
गोस्थानाध्वसमूहेषु व्रजशब्दोऽभिधीयते ॥ ६६ ॥
व्रजतीति व्रजः । ʻव्रज गतौ’ ॥ ३० ॥
अनन्तरमच्छकच्छतुच्छादीनां सद्भावेऽपि तेषां प्रयोगप्राचुर्याभावात् तानुपेक्ष्य जान्तानाह—केकितार्क्ष्यावहिभुजौ । निगदव्याख्यातम् । नकुलेऽप्यहिभुक्शब्दः ॥ दन्तविप्राण्डजा द्विजाः । विप्रग्रहणं त्रैवर्णिकोपलक्षणम् । तथा च स्मृतिः—
ʻमातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ʻतत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ।
ʻब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ।
इति । अत एव द्विर्जाता द्विजाः । वृत्तिविषये सुच्प्रत्ययस्य लोपः । अण्डजाः पक्षिसर्पाद्याः । भार्ग्यां रेणुकायां च द्विजा स्त्रीलिङ्गा प्रागुक्ता (पृ, २६८, २८६) ॥ अजा विष्णुहरच्छागाः । न जायत इत्यजः । अजति गच्छतीति वा अचः । ʻविधीशविष्णुकामेषु पुंस्यजः प्रकृतौ स्त्रियाम् इति नानार्थसङ्ग्रहः । रघुपुत्रोऽप्यजः प्रसिद्धः ॥ गोष्ठाध्वनिवहा व्रजाः । गोष्ठं गोस्थानम् । निवहः समूहे । व्रजन्त्यस्मिन्निति व्रजः । ʻगोचरसञ्चरवहव्रजव्यजापणनिगमाश्च्ö (३। ३। ११९) इति घप्रत्ययान्तो निपातितः ॥ ३० ॥
मल्लि-नाथः - AK.03.03.030
केकितार्क्ष्य—मयूरयोः । अण्डजः पक्षी ॥ अजा विष्णु—व्रजाः । ब्रह्मपितामहानादयोऽपि । ʻअजः पितामहेऽनादौ छागे विष्णौ हरे रवौ’ इति वैजयन्ती (पृ। २३०, श्लो। ४) ॥ ३० ॥
[[०३.२६६]]
मूलम् - ०३.०३.०३१
अक्।०३.०३.०३१अब् धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् ।
अक्।०३.०३.०३१च्द् बलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना ॥ ३१ ॥
लिङ्ग-सूरी - AK.03.03.031
धर्मराजो जिनेऽपि स्याद् युधिष्ठिरकृतान्तयोः ।
धर्मस्य राजा धर्मराजः ॥
गजदन्ते निकुञ्जे च सानौ कुञ्ज उदाहृतः ॥ ६७ ॥
कुञ्जतीति कुञ्जः । ʻकुञ्ज शब्दे ॥
सस्यक्षेत्रे पुरद्वारे समरे वलजं मतम् ।
वलजा वरकान्तायां मेदिन्यामपि सम्मता ॥ ६८ ॥
बलेन जायत इति वलजा । ʻजनी प्रादुर्भावे ॥ ३१ ॥
धर्मराजौ जिनयमौ । जिनः सुगतः । युधिष्ठिरेऽपि धर्मराजशब्दः ॥ कुञ्जो दन्तेऽपि न स्त्रियाम् । कुजिः लौकिको धातुः आवरणार्थ इति सुबोधिनी । कुञ्जति आवृणोति स्वावासस्थानमिति कुञ्जः । दन्ते गजदन्ते । यथा कुञ्जर इति । अपिशब्दात् ʻलतादिपिहितोदरे इति प्रागुक्तः (१, पृ। २१३) ॥ वलजे—वल्गुदर्शना । क्षेत्रं च नगरद्वारं च प्रत्येकं नपुंसकलिङ्गेन वलजशब्देनोच्यते । वल्गुदर्शना वामलोचना । योषेति यावत् । सा स्त्रीलिङ्गस्य वलजाशब्दस्यार्थः । बले जातं वलजम् । वबयोरभेदः ।
ʻवलजं गोपुरे क्षेत्रे सस्यसङ्गरयोरपि ।
वलजा वारयोषायां वसुमत्यामपि स्मृता ॥
इति विश्वप्रकाशिका (पृ। ३३, श्लो। १७) । ʻवलजं धान्यराशौ स्यात् इति वैजयन्ती (पृ। १२८, श्लो। ६५) । ʻकर्षकेण वलजं पुपूषता’ इति माघः (शिशु। १४। ७) ॥ ३१ ॥
मल्लि-नाथः - AK.03.03.031
धर्मराजौ जिनयमौ । युधिष्ठिरोऽपि स्यात् । ʻधर्मराजो यमे बुद्धे धर्मराजो युधिष्ठिरे इति विश्वः (पृ। ३४, श्लो। ३०) ॥ कुञ्जो दन्तेऽपि न स्त्रियाम् । दन्तो गजदन्तः । ʻयेनुगदवड्ö ॥ ʻकुञ्जो निकुञ्जेऽपि हनौ भवेद् दन्ते च दन्तिनाम् इति विश्वः (पृ। ३३, श्लो। १२) ॥ वलजे—वल्गुदर्शना । वलजेति तन्त्रेण स्त्रीनपुंसकयोरेव ग्रहणम् । ʻवलजा वरनार्यां स्त्री क्षेत्रे द्वारे च सा न ना’ इति वैजयन्ती (पृ। २६३, श्लो। ७८) ॥ ३१ ॥
[[०३.२६८]]
मूलम् - ०३.०३.०३२
अक्।०३.०३.०३२अब् समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात् सन्ततौ जने ।
अक्।०३.०३.०३२च्द् अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ॥ ३२ ॥
लिङ्ग-सूरी - AK.03.03.032
युद्धे च समभभागे क्षणेऽप्याजिः प्रकीर्तितः ।
अजन्ति क्षिपन्ति शस्त्राण्यत्रेत्याजिः । ʻअज गतिक्षेपणयोः’ ॥
जनेऽप्यभिजने चैव प्रजाशब्दः प्रकीर्तितः ॥ ६९ ॥
प्रजायत इति प्रजा । ʻजमी प्रादुर्भावे ॥
अब्जो धन्वन्तरौ शङ्खे पद्मेन्दुनिचुलेषु च ।
अद्भ्ये जातोऽब्जः ॥
सनातने स्वकीये च निजशब्द उदाहृतः ॥ ७० ॥
नितरां जायत इति निजः । ʻजनी प्रादुर्भावे ॥ ३२ ॥
इति जान्तवर्गः
समे क्ष्मांशे रणेऽप्याजिः। समपदं भूभागस्य विशेषणम् । ʻआजिः समभुवि स्त्रियाम् इति भूवर्गे शेषकारेणोक्तत्वात् । रणः युद्धम् । अपिशब्दात् क्षणरूपकाल इति सुबोधिनी । ʻयुद्भूभागक्षणेष्वाजिः’ इति दुर्गोक्तेश्च ॥ प्रजा स्यात् सन्ततौ जने । सन्ततिरपत्यपरम्परा । यथा—प्रजावान् भूयासमिति । जने यथा—ʻअथ प्रजानामधिपः प्रभाते इति (रघु। २। १) ॥ अब्जौ शङ्खशशाङ्कौ च । शेषे—ʻअब्जो निचुलवैद्ययोः’ इति । निचुलो हिज्जलः । वैद्यः धन्वन्तरिः । रूपभेदादेष्वर्थेषु पुंलिङ्गः । व्यक्तयोगश्च । ʻशङ्खे धन्वन्तरौ चन्द्रे पुंस्यब्जः क्लीबमम्बुजे इति सङ्ग्रहः ॥ स्वके नित्ये निजं त्रिषु । स्वकं निजसम्बन्धि । यथा—निजगृहम् । निजं वस्त्रमिति । नित्यं यावद् द्रव्यभावि गुणादिकम् । यथा—निजो धर्मः । निजं गाम्भीर्यमिति । नितरां जायत इति निजम् । त्रिषु वाच्यलिङ्ग इत्यर्थः ॥ ३२ ॥
इति जान्तवर्गः
मल्लि-नाथः - AK.03.03.032
समे क्ष्मांशे—जने । सन्ततिरपत्यम् ॥ अब्जौ शङ्खशशाङ्कौ च । ʻअब्जो धन्वन्तरौ शङ्खे चन्द्रे क्ली लवणेऽम्बुजे इति वैजयन्ती (पृ। २३०, श्लो। ३) ॥ स्वके नित्ये निजं त्रिषु । स्वभावे नपुंसकम् । ʻसहजं निजमाजानं धर्मसर्गौ निसर्गवत् इति वैजयन्ती (पृ। १९२, श्लो। १) ॥ अनुक्तम्—
जूराकाशे सरस्वत्यां पिशाच्यां ना तु राक्षसे ।
अङ्गजं रुधिरे क्लीबं पुमान् पुत्रमनोजयोः ।
कारुजः करिपोते स्यात् स्वयञ्जाततिलेऽपि च ।
परञ्जस्तैलयन्त्रे स्याद् डिण्डिरे छुरिकाफले ।
पटहेऽपि च गुञ्जा स्यात् कस्तूर्यामपि चाण्डजा ।
पक्षिसर्पादिषु पुंलिङ्गः ।
राजराजः शशाङ्केऽपि लाजः स्याच्चार्द्रतण्डुले ।
भृष्टधान्ये बहुवचनान्तः ॥ ३२ ॥
इति जान्तवर्गः
[[०३.२७०]]
अथ ञान्तवर्गः—
मूलम् - ०३.०३.०३३
अक्।०३.०३.०३३अब् पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः ।
अक्।०३.०३.०३३च्द् सञ्ज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना ॥ ३३ ॥
लिङ्ग-सूरी - AK.03.03.033
प्रवीणे चात्मनि तथा क्षेत्रज्ञः समुदाहृतः ।
क्षेत्रं जानातीति क्षेत्रज्ञः । ʻज्ञा अवबोधने ॥
सञ्ज्ञा स्याद् भानुभार्यायां गायत्र्यां चैव नामनि ॥ ७१ ॥
चेतनायां च हस्ताद्यैः सूचनायां च वस्तुनः ।
सम्यक् ज्ञायत इति सञ्ज्ञा ॥ ३३ ॥
इति ञान्तवर्गः
अनन्तरं झान्तानां क्लिष्टकल्प्यतया तानुपेक्ष्य ञान्तानाह—पुंस्यात्मनि—वाच्यलिङ्गकः । क्षेत्रं शरीरं स्वभोगसाधनत्वेन जानातीति क्षेत्रज्ञो जीवात्मा । क्षेत्रं स्थानविशेषं जानातीति क्षेत्रज्ञो निपुणः ॥ सञ्ज्ञा स्यात्—अर्थसूचना । चेतना ज्ञानम् । नाम नामधेयम् । आद्यशब्देन भ्रूनिकोचादेर्ग्रहणम् । तैरर्थस्य प्रयोजनस्य वस्तुनो वा सूचना ज्ञापनमित्यर्थः । सम्पूर्वात् जानातेः ʻआतश्चोपसर्गे (३। ३। १०६) इति यथायोगमर्थत्रये भावे करणे च अङि सञ्ज्ञा ।
ʻसञ्ज्ञा स्याद् भानुभार्यायां गायत्र्यां चैव नामनि ।
चेतनायां च हस्ताद्यैः सूचनायां च वस्तुनः ॥
इति नानार्थसङ्ग्रहः । शेषे—ʻनामस्मृत्योरभिज्ञा स्यात् ज्ञस्तु सौम्ये विपश्चिति इति ॥३३ ॥
इति ञान्तवर्गः
मल्लि-नाथः - AK.03.03.033
पुंस्यात्मनि—अर्थसूचना । चेतना नाम मूर्च्छाविपर्ययः ।
ʻमूर्च्छासु मूर्खासु तिरोभवन्ति कपालमिन्दुः करिचर्मनागाः ।
काश्यामथो कण्ठगतस्य जन्तोः ॥
अनुक्तम्—
दोषज्ञौ वैद्यविद्वांसौ ज्ञो विद्वान् सोमजोऽपि च ।
सोमजो बुधः ।
सर्वज्ञौ सुगतेशानौ कालज्ञौ ज्ञानिकुक्कुटौ ॥ ३३ ॥
इति ञान्तवर्गः
[[०३.२७१]]
अथ टान्तवर्गः—
मूलम् - ०३.०३.०३४
अक्।०३.०३.०३४अब् काकेभगण्डौ करटौ गजगण्डकटी कटौ ।
अक्।०३.०३.०३४च्द् शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ३४ ॥
लिङ्ग-सूरी - AK.03.03.034
गजगण्डे वाद्यभेदे कुसुम्भे निन्द्यजीवने ॥ ७२ ॥
एकादशाहश्राद्धे च वायसे करटो मतः ।
के रटतीति करटः । ʻरट परिभाषणे ॥
अतिरेके शवे प्रेतक्रियाकर्तृकिलिञ्जयोः ॥ ७३ ॥
कटः श्मशाने समये श्रोणिमातङ्गगण्डयोः ।
कट्यत इति कटः । ʻकटे वर्षावरणयोः’ ॥
नारायणे महेशाने खर्वाटे दुष्टचर्मणि ॥ ७४ ॥
शिपिविष्टस्तु पिशुनवादिन्यपि च वर्तते ।
शिपौ चर्मणि विष्टं दोषव्याप्तिरस्येति शिपिविष्टः । ʻविप्लृ व्याप्तौ’ ॥ हरिहरपक्षे यथा—शिपिषु पशुषु जनेषु विष्टो व्याप्त इति शिपिविष्टः ॥ ३४ ॥
काकेभगण्डौ करटौ । के रटति शब्दं करोतीति करटः । ʻरट परभाषणे । करोति मदमिति करटः गजकपोलः । ʻशकादिभ्योऽटन् (उ। ४। ८२) इति अटन् । अत्र प्रतापः—
ʻकरटो वाद्यभेदे स्यात् कुसुम्भकरिगण्डयोः ।
एकादशे च श्राद्धे च वायसे निन्द्यजीविनि ॥
इति ॥ गजगण्डकटी कटौ । कटिः श्रोणिः । शेषे—
ʻकटोऽतिरेकशवयोः क्रियाकारिश्मशानयोः ॥
किलिञ्जे समये स्त्री तु कटिः श्रोण्यां कटी च सा ॥
इति । अतिरेके यथा—प्रकटो विकटः । शवे यथा—वर्जयेत् कटधूममिति । क्रियाकारिणि प्रेतकर्मकारिणि यथा—ʻसकटान्नं च नाश्नीयात् (या। स्मृ। ३। १। १५) इति । किलिञ्जके यथा—कटे शेते । समये यथा—ʻवक्तव्यमिह बौद्धकटरूढै इति ॥ शिपिविष्टस्तु—महेश्वरे । खलतिः केशोत्पत्तिरहितशिरोभागयुक्तः पुरुषः । निकृत्तमेहनावरणचर्मा दुश्चर्मा । कुष्ठीत्येके । ʻशिपिविष्टस्तु दुश्चर्मखल्वाटहरिशङ्कराः’ इति नानार्थसङ्ग्रहे । दोषव्याप्तं शिपिरुच्यत इति स्वामी (पृ। २७७) । तेन विष्टं व्याप्तं शरीरमस्येति शिपिविष्टः । महेश्वरे तु—ʻयज्ञो वै विष्णुः पशवः शिपिः’ इति श्रुतौ दर्शनात् पशवः शिपिशब्देनोच्यन्ते । तैर्विष्टो व्याप्तः सेवितः, तत्पतिरिति यावत् । तदुक्तं स्कान्दपुराणे—
ʻआत्मानः पशवः प्रोक्ताः सर्वे संसारवर्तिनः ।
तेषां पतित्वाद् विश्वेशो भवः पशुपतिः स्मृतः ॥
इति । ʻशिपयो रश्मयः, तैर्विष्टो व्याप्त इति शिपिविष्टो विष्णुः’ इति सहस्रनामभाष्ये (पृ। ७८) व्याख्यातम् । ʻविष्णुः शिपिविष्टः’ इति श्रुतिश्च (वाज। सं। ८। ५५) ॥ ३४ ॥
मल्लि-नाथः - AK.03.03.034
काकेभगण्डौ—महेश्वरे । खलतिः इन्द्रलुप्तव्याधिमान् । ʻबट्टतलवाण्डु’ । ʻखल्वाटः खलतिर्बभ्रुः’ इति वैजयन्ती (पृ। १८५, श्लो। १४७) ॥ ३४ ॥
[[०३.२७३]]
मूलम् - ०३.०३.०३५
अक्।०३.०३.०३५अब् देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः ।
अक्।०३.०३.०३५च्द् रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ ३५ ॥
लिङ्ग-सूरी - AK.03.03.035
अमराणां वर्धकौ च सूर्ये त्वष्टा प्रकीर्तितः ॥ ७५ ॥
त्वक्षति तनूकरोतीति त्वष्टा । ʻत्वक्षू तनूकरणे ॥
दैवेऽतिसर्जने काले दिष्टशब्दोऽभिधीयते ।
दिश्यते निर्दिश्यत इति दिष्टम् । ʻदिश अतिसर्जने ॥
रसे सुगन्धे पुंसि स्यादकार्ये न द्वयोः कटुः ॥ ७६ ॥
स्त्री क्षवे रोहिणीकङ्ग्वोस्त्रिषु मत्सरतीक्ष्णयोः ।
क्षवोऽत्र कृष्णसर्षपः । कटतीति कटुः । ʻकटि गतौ’ ॥ ३५ ॥
देवशिल्पिन्यपि त्वष्टा । देवशिल्पी विश्वकर्मा । अपिशब्दात् सूर्ये । वर्धकिमात्रे तु प्रागुक्तः (पृ। ६२५) ॥ दिष्टं दैवेऽपि न द्वयोः । दैवं पुराकृतं कर्म । न द्वयोरिति निषेधो नित्यानुवादः पादपूरणार्थः । अपिशब्दात् काले पुंलिङ्गः प्रागुक्तः (१, पृ। ७३) । दिश्यते निर्दिश्यत इति दिष्टः । अतिसृष्टे तु त्रिलिङ्गः ॥ रसे कटुः—तीक्ष्णयोः । रसे शुण्ठीमरीचादिसम्बन्धिनि पुंलिङ्गः प्रागुक्तः (१। पृ। ६९) । अकार्ये कर्तुमनर्हे दण्डपारुष्यादौ तु रूपभेदान्नपुंसकलिङ्गः । यथा—कटु कर्म करोतीति । बोपालितस्तु—ʻअकार्याप्रिययोः कटुः’ इति वाच्यलिङ्गप्रकरणे प्राह । सङ्ग्रहे तु—अन्यदीयशुभद्वेषो मत्सरः । तद्युक्ते तीक्ष्णे कृपाणादौ च वाच्यलिङ्गः । तीक्ष्णशब्देन कटुरसयुक्तं सर्षपादिकमिति विवक्षितम् । तत्रापि वाच्यलिङ्गः । तीक्ष्णशब्देन कटुरसयुक्तं सर्षपादिकमिति विवक्षितम् । तत्रापि वाच्यलिङ्गः । तीक्ष्णशब्देन निष्ठुरशब्दोऽपि विवक्षितः । यथा—कटु रटति काकः इति । कटति वर्षति दुःखमिति वा, कटत्यावृणोति परोत्कर्षमिति वा कटुः । शेषे—ʻक्षवे प्रियङगुरोहिण्यां स्त्रियां गन्धे पुमान् कटुः’ इति । क्षवः सर्षपो राजिकाख्यः । प्रियङगुः फलिनी । रोहिणी कटुरोहिणी । गन्धे यथा—कटुगन्धा निर्गुण्डी इति ॥ ३५ ॥
मल्लि-नाथः - AK.03.03.035
देवशिल्पिन्यपि त्वष्टा । अपिशब्दाद् वर्धकावपि स्यात् ॥ दिष्टं दैवेऽपि न द्वयोः । काले पुंलिङ्गः ॥ रसे कटुः—तीक्ष्णयोः । रसे रसविशेषे ॥ ३५ ॥
[[०३.२७४]]
मूलम् - ०३.०३.०३६
अक्।०३.०३.०३६अब् रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे ।
अक्।०३.०३.०३६च्द् मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ॥ ३६ ॥
अक्।०३.०३.०३७अब् अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् ।
लिङ्ग-सूरी - AK.03.03.036
अशुभे कुशले रिष्टमभावे च प्रकीर्तितम् ॥ ७७ ॥
रिष्यत इति रिष्टम् । ʻरिष हिंसायाम् ॥
तक्रे निम्बद्रुमे काके शुभे मरणलक्षणे ।
अशुभे सूतिकागेहेऽप्यरिष्टः फेनिलद्रुमे ॥ ७८ ॥
न रिष्यत इत्यरिष्टः ॥
मायायामनृते यन्त्रे तुच्छे पुच्छे च कैतवे ।
राशावयोघने दम्भे हलाङ्गे लोहमुद्गरे ॥ ७९ ॥
शैलशृङ्गे गोपुरे च निश्चले कूट उच्यते ।
कूट्यत इति कूटः ʻकूट आप्रदाने ॥ ३६ ॥
रिष्टं क्षेमाशुभाभावेषु । क्षेमं कल्याणम् । अशुभममङ्गलम् । अभावो नाशः । रिष्यति दुःखमिति वा रिष्टम् । ʻरिष हिंसायाम् ॥ अरिष्टे तु शुभाशुभे । मिथोविरुद्धशुभाशुभवचनस्य रिष्टशब्दस्य नञ्समासे सति अरिष्टशब्दस्यापि शुभाशुभवचनत्वम् ।
ʻक्लीबं शुभेऽशुभे तक्रे सूत्यगारान्तचिह्नयोः ।
अरिष्टो लशुने काके निम्बफेनिलवृक्षयोः ॥
इति रभसः । अन्तचिह्नं मरणचिह्नम् । यथा—स्वस्थारिष्टमशिरस्कपुरुषच्छायादर्शनम् इति ॥ माया—कूटमस्त्रियाम् । मायादीनां सप्तानां द्वन्द्वः । यन्त्रमन्त्रौषधादिप्रयोगेण परव्यामोहजननं माया । निश्चलं निर्विकारम् । यथा—ʻकूटस्थोऽक्षर उच्यते (भ। गी। १५। १६) इति । यन्त्रं मृगपक्षिबन्धनसाधनम्, यत्सम्बन्धाद् वैतंसिकस्य कौटिक इति सञ्ज्ञा । इषुर्बाणः । वस्तुस्वरूपस्य कपटेनान्यथाकरणं कैतवम् । यथा—कूटलेख्यः कृतः इति । अनृतमसत्यवचनम् । यथा—कूटसाक्षी इति । राशिः धान्यपुञ्जः । यत्र निधाय तप्तं लोहं हन्यते स अयोघनः यथा—ʻत्वष्टुः कूटे भविष्यति चन्द्रमाः’ इति मुरारिः (अ। रा। २। ८०) । शैलशृङ्गं गिरिशिखरम् । सीराङ्गं वक्रदारुरूपम् । फाल इत्येके । ʻकूट कौटिल्ये इति धातोः इगुपधलक्षक प्रत्यये (३। १। १३५) कूटः कौटिल्यं कुसृतिबन्धश्च इति धातुवृत्तौ । पृषोदरादित्वाद् उपधादीर्घः । केषुचिदर्थेषु ʻकूट दाहे इति धातुः ॥ ३६ ॥
मल्लि-नाथः - AK.03.03.036
रिष्टं—शुभाशुभे ।
ʻअरिष्टः फेनिले निम्बे लशुने वायसे तथा ।
अरिष्टं सूतिकागारे तक्रे वाप्यशुभे शुभे ॥
इति कथ्यमानेतरार्थाः पर्यायेष्वेव प्रकीर्तिताः ॥ मायानिश्चल—कूटमस्त्रियाम् । निश्चलमविकारमाकाशादि । यन्त्रं मृगग्रहणदारुपञ्जरम् । ʻवोनु’ । इषुः शरव्यभेदः ॥ ३६ ॥
[[०३.२७६]]
अक्।०३.०३.०३७च्द् सूक्ष्मैलायां त्रुटिः स्त्री स्यात् कालेऽल्पे संशयेऽपि सा ॥ ३७ ॥
मूलम् - ०३.०३.०३८
अक्।०३.०३.०३८अब् अर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा ।
अक्।०३.०३.०३८च्द् व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥ ३८ ॥
लिङ्ग-सूरी - AK.03.03.037-38
सूक्ष्मैलायामल्पकाले त्रुटिः सन्देहलेशयोः ॥ ८० ॥
त्रुट्यत इति त्रुटिः । ʻत्रुट छेदने ॥
अश्रौ च खड्गधारायां कोटिरुत्कर्षसङ्ख्ययोः ।
अश्रिः धनुष्कोटिः । कुट्यत इति कोटिः । ʻकुट कौटिल्ये ॥
अत्यन्तश्लिष्टकेशेषु शिफायां च जटा मता ॥ ८१ ॥
जटति सङ्घीभवतीति जटा । ʻजट सङ्घाते ॥
व्युष्टिः प्रयोजने स्तोत्रे समृद्धौ च प्रकीर्तिता ।
व्युच्छ्यते समाप्यत इति व्युष्टिः । ʻउच्छी विवासे ॥
ज्ञानलोचनयोश्चैव दर्शने दृष्टिरुच्यते ॥ ८२ ॥
दृश्यतेऽनयेति दृष्टिः । ʻदृशिर् प्रेक्षणे ॥ ३७-८ ॥
सूक्ष्मैलायां—संशयेऽपि सा । सूक्ष्मैला नाम काचिदेलावान्तरजातिभेदः । कालः कालविशेषः । स च सूच्यग्रेण सरोजदलाष्टकस्य व्यतिभेदपरिच्छिन्नः । लघ्वक्षरोच्चारणपरिच्छिन्नः कालस्त्रुटिरिति केचित् । अल्पे लेशे यथा—ʻत्रुटिमात्रं सुवर्णस्य लिङ्गस्यादाय मूर्धनि इति पुराणम् (भागवत। १०। १३। ४०) । संशयोऽत्र मरणविषय एवेति । यथा—ʻत्रुटिं प्राप्तो रोगी इति । स्वोपाधिना त्रुट्यते परिच्छिद्यत इति त्रुटिः कालविशेषः । त्रुट्यते तत्त्वज्ञानेन भिद्यत इति त्रुटिः संशयः । ʻत्रुटिः स्त्री संशये लेशे सूक्ष्मैलाकालभेदयोः’ इति विश्वप्रकाशः (पृ। ३८, श्लो। २८) ॥ अर्त्युत्कर्षाश्रयः कोट्यः । अर्तिः चापाग्रम् । यथा—धनुःकोटिः इति । उत्कर्षोऽतिशयः यथा—परां कोटिमारूढ इति । अश्रिः कोणः । यथा—शतकोटिर्वज्र इति । शतिलक्षात्मकः सङ्ख्याविशेषश्च कोटिरुच्यते । कोटिशब्दः क्षत्रवर्गे व्युत्पादितः (पृ। ५३३, ५३९) । कोटिशब्दात् कृदिकारादिति ङीषि (ग। सू।) कोटीशब्दस्यापि विद्यमानत्वाद् वृत्तानुरोधेन कोटीशब्दोऽपि ङीषन्तः प्रयुक्तः । एतेन ह्रस्वोपधकोटिशब्दस्य स्त्रीलिङ्गत्वं व्यक्तीकृतम् ॥ मूले लग्नकचे जटा । वृक्षसम्बन्धिनी शिफा मूलम् । लग्नाः परस्परं संश्लिष्टाः कचाः केशा यस्मिन् केशसमूहे स लग्नकचः । जटति संहतीभवतीति जटा । ʻजट सङ्घाते ॥ व्युष्टिः फले समृद्धौ च । फलं कर्मसाध्यं सुकृतादि । यथा (रामा। ६। ९५। २९)—
ʻतस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः ।
नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ॥
इति सर्वानन्ददर्शितः प्रयोगः (टी। स। पृ। ८६) । ʻएषा व्युष्टिः समाख्याता’ इति वामनवृत्तौ प्रयोगः । व्युच्छ्यते समाप्यते व्यापारोऽनेनेति व्युष्टिः । ʻउच्छी विवासे । विवासः समाप्तिरिति धातुवृत्तौ (पृ। ९७) । विपूर्वः करणे स्त्रियां क्तिन् (३। ३। ९४), व्रश्च ॥ । इत्यादिना (८। २। ३६) षत्वं च । चकारात् स्तोत्रेऽपीति स्वामी (पृ। २७८) ॥ दृष्टिर्ज्ञानेऽक्ष्णि दर्शने । अक्ष्णि नेत्रे । करणे क्तिन्प्रत्ययः (३। ३। ९४) । दर्शनं ज्ञानम् । भावे क्तिन् । यथा—न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते इति ॥ ३७-८ ॥
मल्लि-नाथः - AK.03.03.037-38
सूक्ष्मैलायां—संशयेऽपिसा । कालोलघ्वक्षरचतुर्भागोच्चारणकालः । अल्पो लेशः ॥ आर्त्युत्कर्षाश्रयः कोट्यः । आर्तिरटनिः । ʻनिण्ट्टुकोप्पु’ । ʻकोटिरश्रौ प्रकर्षेऽग्रे सङ्ख्यायामटनौ तथा’ इति वैजयन्ती (पृ। २२०, श्लो। ११) ॥ मूले लग्नकचे जटा । लग्नकचस्तपस्विनां जटा । ʻजुड्ö ॥ व्युष्टिः फले—दर्शने । फलं हेतुकृतम् । ʻतस्यैव तपसो व्युष्टिः प्रसादो हि स्वयम्भुवः’ ॥ ३७-८ ॥
[[०३.२७८]]
मूलम् - ०३.०३.०३९
अक्।०३.०३.०३९अब् इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु ।
अक्।०३.०३.०३९च्द् कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु ॥ ३९ ॥
अक्।०३.०३.०४०अ पटुर्द्वौ वाच्यलिङ्गौ च
इति टान्तवर्गः
लिङ्ग-सूरी - AK.03.03.039
यज्ञे च सङ्ग्रहश्लोके काङ्क्षायामिष्टिरुच्यते ।
इष्यत इति इष्टिः ।ʻइष इच्छायाम् ॥
सृष्टं बहुनियुक्ते च निर्मिते निश्चिते मतम् ॥ ८३ ॥
सृज्यत इति सृष्टम् । ʻसृज विसर्गे ॥
कृच्छ्रे गहनसामादौ कष्टशब्दोऽभिधीयते ।
कषिष्यति कृच्छ्रं भविष्यतीति कष्टम् । ʻकष हिंसायाम् ॥
प्रवीणे रोगरहिते धृष्टे च पटुरुच्यते ॥ ८४ ॥
पटतीति पटुः । ʻपट गतौ’ । पटुकष्टशब्दौ वाच्यलिङ्गौ ॥ ३९ ॥
इति टान्तवर्गः
इष्टिर्यागेच्छयोः । ʻश्रुयजिदृशिस्तुभ्यः करणे (वा। ३। ३। ९४) इति यजतेर्धातोः क्तिन्प्रत्यये इष्टिः यागः । ʻइषु इच्छायाम् । भावे क्तिनि ष्टुत्वे च (८। ४। ४१) इष्टिरिच्छा । ʻमृजेरजादौ सङ्क्रमे विभाषा वृद्धिरिष्यते इति वार्तिककारीयवचनविशेषेऽपि इष्टिशब्दः ॥ सृष्टं निश्चिते बहुनि त्रिषु । निश्चितमसन्दिग्धम् । यथा—घृतसृष्टं भोजनम् इति । घृतप्रचुरमित्यर्थः । ʻसृष्टं तु निश्चिते प्राज्ये मुक्तिनिर्मितयोस्त्रिषु’ इति रुद्रः । सृज्यते स्म सृष्टम् । क्तः ॥ कष्टे तु कृच्छ्रगहने । कृच्छ्रं दुःखम् । गहनं दुष्प्रवेशस्थानम् । कषिष्यति पीडयिष्यतीति कष्टम् । ʻकष हिंसायाम् । कष्टं भविष्यतीत्याहुरिति महाभाष्यकारेण भविष्यदर्थे क्तप्रत्ययान्तशब्दप्रयोगाद् भविष्यदर्थे क्तप्रत्ययः । ʻकृच्छ्रगहनयोः कषः’ (७। २। २२) इति इडागमप्रतिषेधः ॥ दक्षामन्दा—वाच्यलिङ्गौ च । पटुर्दक्षः क्षिप्रकारी । अमन्दः आलस्यरहितः । अगदो रोगरहितः । पाटयतीति पटुः । ʻफलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च्ö (उ। १। १८) इत्यौणादिकसूत्रेण ʻपट गतौ’ इति धातोः ण्यन्तादुप्रत्ययः । धातोः पटादेशश्च । द्वौ वाच्यलिङ्गौ पूर्वोक्तौ कष्टपटुशब्दावित्यर्थः ॥ ३९ ॥
इति टान्तवर्गः
मल्लि-नाथः - AK.03.03.039
इष्टि—बहुनि त्रिषु । बहुनि प्राज्ये । ʻमुक्तनिर्मितयोः प्राज्ये त्रिषु सृष्टं च निश्चिते इति रुद्रः ॥ कष्टे तु—वाच्यलिङ्गौ च । कष्टमसत्त्वे त्रिलिङ्गम् । दुःखे नपुंसकम् ॥ अनुक्तम्—
घटा गोष्ठीघटनयोः कृपीटमुदरे जले ।
हृष्टो हृषितवद्रोमाञ्चितविस्मितयोस्त्रिषु ॥
स्याद् भृष्टिः शून्यवाट्यां स्याददृष्टोऽतिशयेऽपि च ।
चिपिटः पिच्छितेऽपि स्यादवटः स्यात् प्रहावपि ॥
प्रहिः कूपः ।
कुक्कुटोऽग्निकणेऽपि स्यात् कुकुटिः कपटेऽपि च ।
वर्णाटो गायने चित्रकरे स्त्रीकृतजीवने ॥
कुण्डकीटस्तु दार्यां च मृषावादविचक्षणे
कीकटौ निःस्वकृपणौ शैलाटौ सिंहदेवलौ ॥
रेवटं दक्षिणावर्तशङ्खं रेणुस्तु रेवटः ॥ ३९ ॥
इति टान्तवर्गः
[[०३.२८०]]
अथ ठान्ताः —
मूलम् - ०३.०३.०४
अक्।०३.०३.०४०ब् नीलकण्ठः शिवेऽपि च ।
अक्।०३.०३.०४०च्द् पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ ४० ॥
लिङ्ग-सूरी - AK.03.03.040
महेश्वरे मयूरे च दात्यूहे खञ्जने तथा ।
कलविङ्के चैव नीलकण्ठशब्दोऽभिधीयते ॥ ८५ ॥
नीलः कण्ठो यस्य नीलकण्ठः ।
जठराभ्यन्तरे चैव भवनाभ्यन्तरे तथा ।
अश्मीये च कुसूले च कोष्ठशब्दः प्रवर्तते ॥ ८६ ॥
कुष्यतेऽस्मादिति कोष्ठः । ʻकुष निष्कर्षे ॥ ४० ॥
नीलकण्ठः शिवेऽपि च । शिवे शङ्करे । अपिशब्दाद् ʻदात्यूहे ग्रामचटकखञ्जरीटमयूरेषु’ इति सुभूतिचन्द्रः । पुंसि—अन्तर्गृहं तथा । अन्तर्जठरं कुक्षेरन्तःप्रदेशः । कुसूलो मृदादिनिर्मितो धान्यावपनस्थानम् । अन्तर्गृहं गृहमध्यगतमपवरकाख्यम् । कुष्यते निष्कृष्यते मलादिकमस्मादिति कोष्ठः । ʻकुष निष्कर्षे । निष्कर्षणं निःसारणमिति धातुवृत्तौ । ʻउषिकुषिगर्तिभ्यः स्थन् (उ। २। ४।) इति स्थन्प्रत्यये गुणः ष्टुत्वं च ॥ ४० ॥
मल्लि-नाथः - AK.03.03.040
नीलकण्ठः शिवेऽपि च । मयूरेऽपि स्यात् ॥ पुंसि—अन्तर्गृहं तथा । कुसूलो धान्यभाण्डारम् । ʻधान्यकोष्ठे कुसूलोऽस्त्री इति वैजयन्ती । (पृ। १६४, श्लो। ६४) ॥ ४० ॥
[[०३.२८१]]
मूलम् - ०३.०३.०४१
अक्।०३.०३.०४१अब् निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि ।
अक्।०३.०३.०४१च्द् त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ॥ ४१ ॥
इति ठान्तवर्गः
लिङ्ग-सूरी - AK.03.03.041
निष्ठा कार्यस्य निष्पत्तौ याच्ञायां प्रत्ययेऽपि च ।
नाशान्तयोर्निर्वहणे निष्ठा स्यात् परमागतौ ॥ ८७ ॥
नियतं तिष्ठतीति निष्ठा । ʻष्ठा गतिनिवृत्तौ’ ॥
मर्यादायां कालभेदे स्थितौ दारुहरिद्रयोः ।
प्राच्यादिदिशि चोत्कर्षे काष्ठाशब्दः प्रकीर्त्यते ॥ ८८ ॥
काशत इति काष्ठा । ʻकाशृ दीप्तौ’ ॥
ज्येष्ठोऽग्रजेऽतिविख्याते नक्षत्रे मासवृद्धयोः ।
अतिशयेन वृद्धो ज्येष्ठः ॥
अतिस्वल्पेऽवयस्थे च कनिष्ठो वाच्यलिङ्गकः ॥ ८९ ॥
अतिशयेनाल्पः कनिष्ठः ॥ ४१ ॥
इति ठान्तवर्गः
निष्ठा निष्पत्तिनाशान्ताः । निष्पत्तिः निर्वहणम् । नाशो दर्शनाभावः । अन्तो विनाशः । यथा—नैष्ठिक इति । तिष्ठतेः सोपसर्गाद् ʻआतश्चोपसर्गे (३। ३। १०६) इत्यङि निष्ठा । ʻक्तक्तवतू निष्ठा’ (१। १। २६) इति परिभाषितप्रत्ययोऽपि निष्ठा ॥ काष्ठोत्कर्षे स्थितौ दिशि । स्थितिः मर्यादा । काशत इति काष्ठा । ʻहनिकुषिनिरमिकाशिभ्यः क्थन् इति थन्प्रत्ययः (उ। २। २) । षत्वष्टुत्वे (८। २। ३६, ८। ४। ४१) । दारुणि नपुंसकलिङ्गःप्रागुक्तः (१, पृ। २२२) । अष्टादशनिमेषाः काष्ठा इति प्रागुक्ता (१, पृ। ७९) ॥ त्रिषु ज्येष्ठोऽतिशस्तेऽपि । ʻज्य च्ö (५। ३। ६१) इति सूत्रेण प्रशस्यशब्दस्य ज्यादेशे इष्ठन्प्रत्यये (५। ३। ५५) च ज्येष्ठः । वृद्धशब्दादप्यतिशायनार्थे ʻवृद्धस्य च्ö (५। ३। ६२) इति इष्ठन्प्रत्यये ज्यादेशे च ज्येष्ठशब्दोऽत्यन्तवृद्धवचनः । शेषे—ʻज्येष्ठोऽग्रजे स्त्रियां ज्येष्ठा देवीनक्षत्रभेदयोः’ इति ॥ कनिष्ठोऽतियुवाल्पयोः । यूनि अत्यल्पे चेत्यर्थः । ʻयुवाल्पयोः कनन्यतरस्याम् (५। ३। ६४) इति युवाल्पशब्दाभ्यामतिशायनार्थे इष्ठन्प्रत्यये कनित्यादेशे कनिष्ठः ॥ ४१ ॥
इति ठान्तवर्गः
मल्लि-नाथः - AK.03.03.041
निष्ठा निष्पत्तिनाशान्ताः । निष्पत्तिः परिसमाप्तिः। नाशोऽदर्शनम् । अन्तः प्रध्वंसः ॥ काष्ठोत्कर्षे स्थितौ दिशि । स्थितिर्मर्यादा ॥ त्रिषु ज्येष्ठो—युवाल्पयोः । ʻज्यायान् ज्येष्ठश्चाग्रजन्मन्यतिशस्तादिवृद्धयोः’ इति वैजयन्ती (पृ। २२८, शलो। ७) ॥ अनुक्तम्—
भिक्षापात्रेऽपि कमठं जरठस्तु जरत्यपि ।
कच्छपे पुंलिङ्गः [कमठः] ॥
पृष्ठं चरममात्रेऽपि षष्ठी गिरिसुतापि च ॥
काण्डपृष्ठः कीर्तिसुते गतेऽपि च कुलात्कुलम् ।
अजातपाणिग्रहणे वण्ठः स्याद् वामनेऽपि च ॥ ४१ ॥
इति ठान्तवर्गः
[[०३.२८३]]
अथ डान्ताः—
मूलम् - ०३.०३.०४२
अक्।०३.०३.०४२अब् दण्डोऽस्त्री लगुडेऽपि स्याद् गुडो गोलेक्षुपाकयोः ।
अक्।०३.०३.०४२च्द् सर्पमांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः ॥ ४२ ॥
लिङ्ग-सूरी - AK.03.03.042
उपाये दमने मन्थे व्रतिभिर्धार्यवेणुके ।
लगुडे व्यूहभेदे च दण्डशब्दो विवक्षितः ॥ ९० ॥
दाम्यत्यनेनेति दण्डः । ʻदमु उपशमने ॥
हस्तिसन्नहने गोले गुलिकेक्षुविकारयोः ।
गुडः स्नुह्याख्यवृक्षे स्याद् व्याडो मांसात्पशावहौ ॥ ९१ ॥
गुडतीति गुडः । ʻगुड रक्षायाम् ॥ मांसात्पशुर्व्याघ्रादिः । व्यडति हन्तुमुद्युङ्क्त इति व्याडः । ʻअड उद्यमने ॥
बुधपत्न्यामिडा चेला गवि वाचि क्षितौ तथा ।
इल्यत इति इला इडा च । ʻइल स्वप्नक्षेपणयोः’ ॥ ४२ ॥
दण्डोऽस्त्र लगुडेऽपि स्यात् । दम्यतेऽनेन पुरुष इति दण्डः । ʻदमु उपशमे । ʻञमन्ताड्डः’ (उ। १। ११९) । शेषे—ʻदण्डस्तु मानभेदे स्यात् सैन्योपायदमेषु च्ö इति । मानभेदो जलसारसङ्ग्रहेऽभिहितः ʻक्षेत्रज्ञैः कथितो दण्डः सविंशतिशताङ्गुलः’ इति । ʻसामदाने भेददण्डौ’ इत्युपायः प्रागुक्तः (पृ। ४९६) । दमो नाम दुष्टनिग्रहार्थं राजभिः क्रियमाणो धिग्दण्डादिः प्राणवियोजनान्तम् । यथा—ʻदण्डं दुष्टेषु पातयेत् (या। स्मृ। १। ३। ३६८) । धरणिग्रन्थेऽपि—
ʻदण्डो लगुडमन्थानसैन्योपायदमेषु च ।
व्यूहभेदे मानभेदे चण्डांशोः पारिपार्श्वके ॥
इति (पृ। ४५, श्लो। २९७) ॥ गुडे गोलेक्षुपाकयोः । गोलो नाम मृत्पिण्डादिकृतो वृत्तावयवसन्निवेशो गुलिकाख्यः । इक्षुपाकस्तु फाणितादप्युत्कृष्टः शर्कराया अपकृष्टो घनीभूतो गुडाख्यया प्रसिद्धः । ʻगुड रक्षायाम् इत्यस्माद् इगुपधलक्षणे कप्रत्यये (३। १। १३५) गुडः । गुडाशब्दष्टाबन्तः स्नुहीवचनः प्रागुक्तः (१, पृ। २७६) । ʻगुडः स्याद् गोलके हस्तिसन्नाहेक्षुविकारयोः’ इति विश्वप्रकाशः (पृ। ४३, श्लो। १) ॥ सर्पमांसात्पशू व्याडौ । मांसभक्षकः पशु मांसात्पशुः सिंहव्याघ्रादिः । सर्पश्च मांसात्पशुश्चेति द्वन्द्वः । विशेषेणामुख्येनाडति प्राणिवधार्थमुद्युङ्क्त इति व्याडः । ʻअड उद्यमने । अच्प्रत्ययः (३। १। १३४) ॥ भूगोवाचस्त्विडा इलाः । अत्र गोशब्देन स्त्रीव्यक्तिरेव विवक्षिता । भूम्यादित्रयं प्रत्येकं शब्दद्वयेनोच्यते । लडयोरभेदाद् उभयोः शब्दयोरर्थसाम्याचच लाघवार्थमन्तस्थोपधाशब्दस्यापि प्रकरणादुत्कृष्यात्रैवानुशासनं कृतम् । इलन्ति स्वपन्त्यत्रेति भूः इला, इल्यते क्षिप्यत इति गौर्वाक् च । ʻइल स्वप्नक्षेपणयोः’ (३। १। १३५) । लडयोरभेदादेकस्मादेव धातोः शब्दद्वयम् । इलाशब्दो बुधभार्यायामपि, यस्याः पुत्रः पुरूरवाः ॥ ४२ ॥
मल्लि-नाथः - AK.03.03.042
दण्डोऽस्त्री लगुडेऽपि स्यात् । ʻदण्डोऽस्त्री शासने राज्ञां हिंसायां लगुडे दमे इति वैजयन्ती (पृ। २३३, श्लो। ३८) ॥ गुडो गोलेक्षुपाकयोः । गोलो मृच्छिलादिपिण्डः । इक्षुपाकः इक्षुविकारः । ʻगुडः स्याद् गोलके, हस्तिसन्नाहेक्षुविकारयोः’ इति विश्वः (पृ। ४३, श्लो। १) ॥ सर्पमांसात्पशु व्याडौ । मांसात्पशुः व्याघ्रः । ʻव्याडो व्याघ्रे खले सर्पे इति जयकोशः ॥ भूगोवाचस्त्विडा इलाः । बुधयोषिदपि स्यात् ॥ ४२ ॥
[[०३.२८४]]
मूलम् - ०३.०३.०४३
अक्।०३.०३.०४३अब् क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे ।
अक्।०३.०३.०४३च्द् काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ॥ ४३ ॥
अक्।०३.०३.०४४अब् स्याद् भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने ।
इति डान्तवर्गः
लिङ्ग-सूरी - AK.03.03.043
कर्णरोगे विषे ध्वाने दुर्लभे कुटिले शणे ॥ ९२ ॥
लोहिताक्षे फले चैव भटानां सिंहनिस्वने ।
क्ष्वेडा वंशशलाकायां भटे दन्तोष्ठवाद्यके ॥ ९३ ॥
क्ष्वेडयतीति क्ष्वेडा । ʻक्ष्वेड अव्यक्ते शब्दे ।
दूर्वाप्रणाल्योर्नाडी स्यात् सिराङ्गान्ते व्रणान्तरे ।
नाडी षट्क्षणकाले च चर्यायां कुरनस्य च ॥ ९४ ॥
नालयतीति नाडी । ʻणल गन्धने बन्धने च्ö ॥
नाले बाणेऽर्वति जले वर्गावसरयोरपि ।
गजानां बन्धनस्तम्भे रहस्ये काण्ड उच्यते ॥ ९५ ॥
अर्वात्र कुत्सितः । काम्यत इति काण्डः । ʻकमु कान्तü ॥
नदीपाते भूषणे च तुरङ्गाणां च भूषणे ।
मूलद्रव्येऽपि वणिजो भाजने भाण्डमिष्यते ॥ ९६ ॥
भण्डयतीति भाण्डम् । ʻभडि कल्याणे ॥ ४३ ॥
इति डान्तवर्गः
क्ष्वेडा वंशशलाकापि । छत्रपञ्जरादिनिर्माणार्थं पुनः पुनः विपाट्य तनूकृता वंशशलाका क्ष्वेडेति शब्दायते । ʻक्ष्वेड अव्यक्ते शब्दे । शेषे—ʻदन्तोष्ठवाद्ये क्ष्वेडा स्त्री पुंसि कर्णमले विषे इति ॥ नाडी कालेऽपि षट्क्षणे । कालः घटिकारूपेः । अपिशब्दात् शरीरगतशि[सि]रायां च प्रागुक्ता (पृ। ४०२) ॥ काण्डोऽस्त्री—वारिषु । दण्डे यथा—कदलीकाण्डः सूरणकाण्ड इति । बाणे यथा—अकाण्डवातजानां लोकप्रहाराणाम् इति । अर्वा कुत्सित इति सुबोधिनीकारादयो व्याकृतवन्तः । वर्गो महाप्रबन्धेषु वक्तव्यसमुदायैकदेशः । यथा—सप्तकाण्डं रामायणम् । त्रिकाण्डोऽमरकोश इति । अवसरे यथा—अकाण्डे ताण्डवम् इति । वारिणि जले यथा—ʻरामायणकथेव विविक्तकाण्डा शरदः’ इति नलचरिते श्लेषार्थे । काम्यत इति काण्डः । ʻकमु कान्तü । ʻञमन्ताड्डः’ (उ। १। ११९) । हस्तिबन्धनस्तम्भेऽपि ॥ स्याद् भाण्डं—वणिग्धने । सुवर्णादिकृतमश्वाभरणमात्रं चामरादिकं वा भाण्डशब्दार्थः । अमत्रं मृन्मयमन्यद्वा कांस्यादिपात्रमात्रम् । यथा—भाण्डशुद्धिरिति । वस्त्रधान्यादिपण्यक्रयणकाले वणिजा विक्रेत्रे दत्तं धनं मूलवणिग्धनम् । यद्वा—देशान्तरे कालान्तरे वा भाविलाभार्थं वणिजा स्थापितं विक्रेयं धान्यादिरूपं धनं मूलवणिग्धनम् । यथा—ʻतरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् इति माघकाव्ये (शिशु। ३। ७६) ॥ ४३ ॥
इति डान्तवर्गः
मल्लि-नाथः - AK.03.03.043
क्ष्वेडा वंशशलाकापि । सिंहनादेऽपि स्यात् ॥ नाडी कालेऽपि षट्क्षणे । सिरायामपि स्यात् ॥ काण्डोऽस्त्री—वारिषु । दण्डः पलाशादिः । अर्व निकृष्टम् । तच्च ʻनिकृष्टप्रतिकृष्चार्व॰ इत्युक्तमेव (पृ। ७६) ॥ स्याद् भाण्डम्—वणिग्धने । आभरणमात्रेऽपि स्यात् । ʻवणिङ्मूलधने पात्रे भाण्डं भूषाश्वभूषयोः’ इति वैजयन्ती (पृ। २२५, श्लो। २३) ॥ अनुक्तम्—
कुण्डं जलाग्न्योश्चाधारे मुण्डः स्याच्च विधुन्तुदं ।
चण्डी प्रियतमायां च रण्डा वारस्त्रियामपि ॥
शिरस्रजि च पीडा स्याच्चूडा बाह्वोश्च भूषणे ।
मारुण्डोऽण्डे भुजङ्गीनां गोमायूनां च मण्डले ॥
जलरुण्डो जलावर्ते जलरेणौ जलोरगे ॥ ४३ ॥
इति डान्तवर्गः
[[०३.२८७]]
अथ ढान्ताः—
अक्।०३.०३.०४४च्द् भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः ॥ ४४ ॥
मूलम् - ०३.०३.०४५
अक्।०३.०३.०४५अब् शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ ।
लिङ्ग-सूरी - AK.03.03.044
अङ्गीकारे भृशार्थे च बाढशब्दोऽभिधीयते ।
बाहत इति बाढम् । ʻबाहृ प्रयत्ने ॥
प्रगाढः स्याद् भृशार्थे च कृच्छ्रे वलयुते दृढे ॥ ९७ ॥
कृच्छ्रं कष्टम् । प्रगाहत इति प्रगाढम् । ʻगाहू विलोडने ॥
भृशे स्थूले प्रगाढे च शक्ते त्रिषु दृढः स्मृतः ।
दृंहतीति दृढः । ʻदृहि वृद्धü ॥
संहते रचिते व्यूढः पृथुले वाच्यलिङ्गकः ॥ ९८ ॥
व्यूहत इति व्यूढः । ʻऊह वितर्के ॥ ४४ ॥
इति ढान्तवर्गः
भृशप्रतिज्ञयोर्बाढम् । भृशमत्यर्थम् । प्रतिज्ञा अङ्गीकारः । ʻक्षुब्धस्वान्त ॥ । इत्यादिना (७। २। १८) भृशार्थे बाढशब्दो निपातितः ॥ प्रगाढं भृशकृच्छ्रयोः । कृच्छ्रं गहनम् । प्रयत्नेन गाह्यते प्रविश्यत इति प्रगाढम् । ʻगाहू विलोडने । क्तः ॥ शक्तस्थूलौ—संहतौ । शक्तो बलवान् । स्थूलः पीनः । ʻदृढस्थूलबलयोḵ इति निपातितः (७। २। २०) । विन्यस्तं रचनाविशेषेण स्थापितं चतुरङ्गबलम् । यथा—व्यूढा सेना । संहतः मिलितः । यथा—व्यूढा ब्राह्मणा इति । शेषे—ʻव्यूढस्तु पृथुले त्रिष्ü इति । पृथुले यथा—ʻव्यूढोरस्कḵ इति (रघु। १। १३) । प्रगाढादयश्चत्वारः शब्दा वाच्यलिङ्गाः ॥ ४४ ॥
इति ढान्तवर्गः
मल्लि-नाथः - AK.03.03.044
भृशप्रतिज्ञयोर्बाढम् । बाढेन कृतम् । ʻबाढं त्वनुमतौ भृशे इत्यव्ययेषु जयकोशः । बाढं कृतम् ॥ प्रगाढं—संहतौ ॥ ४४ ॥
इति ढान्तवर्गः
[[०३.२८८]]
अथ णान्ताः—
अक्।०३.०३.०४५च्द् भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे ॥ ४५ ॥
मूलम् - ०३.०३.०४६
अक्।०३.०३.०४६अब् कणोऽति सूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः ।
लिङ्ग-सूरी - AK.03.03.045
स्त्रीणां गर्भे च शिशुके भ्रूणशब्दोऽभिधीयते ।
मात्रा भ्रियत इति भ्रूणः । ʻडुभृञ् धारणपोषणयोḵ ॥
बाणो दैत्ये पृषत्के च शराङ्गे केवले भवेत् ॥ ९९ ॥
बणतीति बाणः । ʻबण शब्दे ॥
कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके कणा
कणतीति कणः । ʻकण शब्दे ॥
सङ्ख्यायां प्रथमे स्तोमे सैन्याङ्गे गण उच्यते ॥ १०० ॥
गण्यत इति गणः । ʻगण सङ्ख्याने ॥ ४५ ॥
भ्रूणोऽर्भके स्त्रैणगर्भे । अर्भको बालः । व्रीह्यादिगर्भनिवृत्त्यर्थं स्त्रैणग्रहणम् ॥ बाणो बलिसुते शरे । बलिसुतो बाणासुरः । झिण्टीवचनः बाणशब्दः स्त्रीपुंसयोः प्रागुक्तः (१, पृ। २५९) ॥ कणोऽतिसूक्ष्मे धान्यांशे । अतिसूक्ष्मेऽत्यल्पे यथा—ʻचिच्छेद कणशः शरान् इति । धान्यस्य व्रीहितण्डुलादेरेकदेशे यथा—कणभुक् इति । पिप्पल्यां जीरके च स्त्रीलिङ्गः प्रागुक्तः (१, पृ। २७२, ५७६) । सङ्घाते प्रमथे गणः । सङ्घातः समूहः । प्रमथा रुद्रानुचरा भृङ्गिरिटिप्रमुखाः । गण्यत इति गणः । ʻगण सङ्ख्याने । गुल्मत्रिगुणरूपे सेनाविशेषे गणः प्रागुक्तः (१, पृ। ५३०) ॥ ४५ ॥
मल्लि-नाथः - AK.03.03.045
भ्रूणोऽर्भके स्त्रैणगर्भे । गर्भिणीश्रोत्रिययोरपि स्यात् । ʻभ्रूणोऽर्भके स्त्रैणगर्भे गर्भिण्यां श्रोत्रियद्विजे इति वैजयन्ती (पृ। २१७, श्लो। ४०) । कणोऽतिसूक्ष्मे—गणः ॥ ४५ ॥
[[०३.२८९]]
अक्।०३.०३.०४६च्द् पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ४६ ॥
मूलम् - ०३.०३.०४७
अक्।०३.०३.०४७अब् मौर्व्यां द्रव्याश्रिते सत्त्वशुक्लसन्ध्यादिके गुणः ।
लिङ्ग-सूरी - AK.03.03.046
द्यूताद्युत्सृष्टधनयोर्मूल्यवेतनयोरपि ।
कार्षिके व्यवहारे च पणशब्दः प्रकीर्तितः ॥ १०१ ॥
पण्यत इति पणः । ʻपण व्यवहारे स्तुतौ च्ö ॥
मौर्व्यां सूदे भीमसेने कूपस्तम्भाप्रधानयोः ।
सन्ध्यादौ स्पर्शरूपादौ शौर्यविद्यादिकेऽपि च ॥ १०२ ॥
द्रव्याश्रिते च शुक्लादौ गुणः सत्त्वादिकेऽपि च ।
सन्ध्यादिः सन्धिविग्रहादिः । गुण्यत इति गुणः । ʻगुण अभ्यासे ॥ ४६ ॥
पणो द्यूत—धनेऽपि च । आदिशब्देन कुक्कुटयुद्धादिपरिग्रहः । द्यूतादीनामुपक्रमकाले जितवते पराजितेन देयतया सम्प्रतिपन्नरूपकादिकं द्यूतादिषूत्सृष्टमुच्यते । भृतिर्वेतनम् । वस्त्रादिक्रयणकाले विक्रेतुर्देयं धनं मूल्यम् । तद्व्यतिरिक्तं धनमात्रं च । ʻताम्रिके कार्षिके पणḵ इति प्रागुक्तः (पृ। ६०७) ॥ मौर्व्यां—गुणः । गुणाश्रयो द्रव्यमिति काणादाः । पृथिव्यादिद्रव्यसमवेतेषु चतुर्विशतिसङ्ख्याकेषु रूपरसादिषु । आदिशब्दः प्रत्येकं सत्त्वादित्रयेण सम्बध्यते । ततश्च साङ्ख्यप्रसिद्धेषु सत्त्वरजस्तमोगुणेषु सर्वप्रसिद्धेषु धैर्यशौर्यगाम्भीर्यादिषु, नीतिशास्त्रप्रसिद्धेषु क्षत्रियवर्गोक्तसन्ध्यादिषु षट्सु (पृ। ४९४) चेत्यर्थः । शेषे—ʻगुणोऽभ्यासाप्रधानयोḵ इति । अभ्यास आवृत्तिः । यथा—द्विगुणः, त्रिगुण इति । अप्रधाने यथा—वयमिह गुणभूताः; दधिलक्षणो गुणः इति । औदनिके (पृ। ५७०), रज्जौ (पृ। ६३६), कूपके च (पृ। १६३) प्रागुक्तः॥ ४६ ॥
मल्लि-नाथः - AK.03.03.046
पणो द्यूत—धनेऽपि च । अत्र चोत्सृष्टे द्यूतग्लहे । ʻपणो विक्रेयशाकादिमुष्टौ द्यूतग्लहे भृतü इति जयकोशः । मौर्व्यां—गुणः । द्रव्याश्रितं रूपादि । द्रव्यशब्दस्य भव्यत्ववाचकत्वाद् विद्याशौर्यादिकं च द्रव्याश्रितम् ।
ʻगुणोऽप्रधाने रूपादौ मौर्व्यां सूदे वृकोदरे ।
शुल्बे सत्त्वादिसन्ध्यादिविद्यादिहरितादिषु ॥
इति विश्वः । शुल्बं रज्जुः । सत्त्वादिकं सत्त्वरजस्तमांसि । सन्ध्यादिकं सन्धिविग्रहादि ॥ ४६ ॥
[[०३.२९०]]
अक्।०३.०३.०४७च्द् निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥ ४७ ॥
मूलम् - ०३.०३.०४८
अक्।०३.०३.०४८अब् वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु चाक्षरे ।
लिङ्ग-सूरी - AK.03.03.047
निर्व्यापारासने भृत्ये पूर्णिमादिकपर्वणि ॥ १०३ ॥
उत्सवे कालभेदे च क्षणशब्दः प्रकीर्तितः ।
क्षण्यत इति क्षणः । ʻक्षणु हिंसायाम् ॥
विप्रक्षत्रियवैश्यादौ शुक्लादौ कीर्तिलेपयोः ॥ १०४ ॥
स्तुतौ कुथायां वर्णः स्यादक्षरे वर्णमद्धयोः ।
वर्ण्यत इति वर्णः । ʻवर्ण वर्णक्रियाविस्तारगुणवचनेष्ü ॥ ४७ ॥
निर्व्यापार—क्षणः । व्यापारान्तरपरित्यागेन क्वचित्कर्मणि एकतानत्वं निर्व्यापारस्थितिः । यथा—ʻश्राद्धे क्षणः क्रियताम् इति । कालविशेषः त्रिंशत्कलात्मकः । अत्यल्पकालमात्रेऽपि क्षणशब्दः । यथा—ʻक्षणं निमील्य चक्षुḵ इति ॥ वर्णो—तु वाक्षरे । प्रथमेनादिशब्देन क्षत्रवैश्यशूद्रा विवक्षिताः । द्वितीयेन नीलपीतलोहितादयो वर्णविशेषाः । स्तुतिः प्रशंसा । अस्मिन्नर्थत्रये रूपभेदात् पुंलिङ्गः । अकारककाराद्यक्षरेषु तु विकल्पेन । यथा—ʻदलेषु विलिखेद् वर्णान् इति पुंलिङ्गे । ʻह्रस्वमवर्णं प्रयोगे इति नपुंसके । शेषे—
ʻवर्णस्तालविशेषे स्याद् ब्रह्मचर्ये विशेषणे ।
विलेपने कुथायां च ॥
इति । विलेपनमङ्गरागः । विशेषणं व्यावर्तनम् । यथा—ʻध्वजं वानरवर्णितम् इति ॥ ४७ ॥
मल्लि-नाथः - AK.03.03.047
निर्व्यापार—क्षणः । कालविशेषो मुहूर्तादिः ।
ʻमुहूर्तद्वादशांशे च मुहूर्ते पर्ववेलयोः ।
अल्पकाले च विद्वांसः क्षणशब्दं प्रयुञ्जते ॥
वर्णो द्विजादौ—वर्णं तु वाक्षरे ॥ ४७ ॥
[[०३.२९१]]
अक्।०३.०३.०४८च्द् अरुणो भास्करेऽपि स्याद् वर्णभेदेऽपि च त्रिषु ॥ ४८ ॥
मूलम् - ०३.०३.०४९
अक्।०३.०३.०४९अब् स्थाणुः शर्वेऽपि च द्रोणः काकेऽपि च रवे रणः ।
लिङ्ग-सूरी - AK.03.03.048
अव्यक्तरागे कपिले सन्ध्यारागे दिवाकरे ॥ १०५ ॥
अनूरुकुष्ठनिःशब्देष्वरुणो गुणिनि त्रिषु ।
इयर्तीत्यरुणः । ʻऋ गतü ॥
स्थिरे पिनाकपाणौ च शङ्कौ स्थाणुरुदाहृतः ॥ १०६ ॥
चिरं तिष्ठतीति स्थाणुः । ʻष्ठा गतिनिवृत्तü ॥
आचार्याढकमानेषु काकोले द्रोण उच्यते ।
द्रोणी स्याद् देशभेदेऽम्बुवाहिन्यां गोस्तृणस्थले ॥ १०७ ॥
द्रवत्यत्र द्रोणः । ʻद्रु गतü ॥
भेरीवादनकोणे च रवे युद्धे रणो मतः ।
रणतीति रणः । ʻरण शब्दे ॥ ४८ ॥
अरुणो—अपि च त्रिषु । ʻअव्यक्तरागस्त्वरुणḵ इति प्रागुक्ते (१, पृ। १००) वर्णविशेषे पुंलिङ्गः । वर्णस्य भेदो विशेषोऽस्येति समासे सति द्रव्यवचनत्वे वाच्यलिङ्गः । तथा च प्रतापः —
ʻअरुणः कपिले कुष्ठे सन्ध्यारागेऽर्कसारथौ ।
अव्यक्तरागे निःशब्दे द्रव्ये त्रिषु निरूपितः ॥
इति ॥ स्थाणुः शर्वेऽपि । शर्वे महादेवे । अपिशब्दाद् ध्रुवे पुंलिङ्गः । नपुंसकलिङ्गः प्रागुक्तः (१, पृ। २१९) ॥ अथ द्रोणः काकोलेऽपि । काकोलः काकशब्दः प्रागुक्तः (पृ। ३४४) । अत्र विश्वप्रकाशः (पृ। ४८, श्लो। ७-८)—
ʻद्रोणः कृपीपतौ कृष्णवायसे पर्वतेऽपि च ।
आढकानां चतुष्केऽपि द्रोणः स्यान्नीवृदन्तरे ॥
द्रोणी काष्ठाम्बुवाहिन्यां गवां घासपरिस्थले ॥
इति । कृपीपतिर्द्रोणाचार्यः । पर्वतविशेषो द्रोण इति प्रसिद्धः । नीवृदन्तरं देशविशेषः ॥ रवे रणः । ʻरण शब्दे । ʻवशिरण्योरुपसङ्ख्यानम् (वा। ३। ३। ५८) इत्यप् । पूर्ववाक्यानुषक्तेन अपिशब्देन युद्धे प्रागुक्तः (पृ। ५४५) । विश्वप्रकाशे—ʻरणः कोणक्वणादिष्ü इति । कोणो वीणादिवादनदण्डः ॥ ४८ ॥
मल्लि-नाथः - AK.03.03.048
अरुणो—स तु त्रिषु । आदिशब्देन भास्करसारथावपि ॥ स्थाणुः शर्वेऽपि च । शाखाशून्यवृक्षविशेषेऽपि स्यात् ॥ द्रोणः काकेऽपि । ʻपरिमाणे दारुपात्रे द्रोणोऽस्त्री वायसे पुमान् इति वैजयन्ती (पृ। २३३, श्लो। ४०) ॥ अथ रवे रणः । युद्धे नपुसकं च ॥ ४८ ॥
[[०३.२९३]]
अक्।०३.०३.०४९च्द् ग्रामणीर्नापिते पुंसि त्रिषु श्रेष्ठेऽधिपे त्रिषु ॥ ४९ ॥
मूलम् - ०३.०३.०५०
अक्।०३.०३.०५०अब् ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवौ ।
लिङ्ग-सूरी - AK.03.03.049
ग्रामाधिपे श्रेष्ठपुंसि नापिते भोगिकेऽपि च ॥ १०८ ॥
पण्याङ्गनानीलिकयोर्ग्रामणीर्ग्रामकारिणि ।
ग्रामं स्ववशं नयतीति ग्रामणीः । ʻणीञ् प्रापणे ॥
अजमेषादिलोम्न्यूर्णा भ्रूमध्यावर्तके तथा ॥ १०९ ॥
ऊर्णोत्याच्छादयतीत्यूर्णा । ʻऊर्णुञ् आच्छादने ॥ ४९ ॥
ग्रामणीः—ग्रामाधिपे त्रिषु । नापितः क्षुरकर्मोपजीवी । तत्र पुंलिङ्गः । अर्थान्तरे वाच्यलिङ्गः । श्रेष्ठो यूथपतिः । यथा—अश्वग्रामणीः । पुरुषग्रामणीः इति । ग्रामं नयति तत्तत्कार्यार्थं स्वस्थानं नयतीति ग्रामणीः । ʻसत्सूद्विष॥ । इत्यादिना (३। २। ६१) नयतेः क्विप् । ʻअग्रग्रामाभ्यां नयतेर्णो वक्तव्यḵ (वा। ३। २। ६१) इति णत्वम् ॥ ऊर्णा—चान्तरा भ्रुवौ । आदिशब्देन शशकमूषकादीनां ग्रहणम् । भ्रुवावित्यत्र ʻअन्तरान्तरेण युक्ते इति द्वितीया (२। ३। ४) । भ्रूद्वयमध्यवर्तिरोमावर्त इत्यर्थः । यथा नागानन्दे—ʻउष्णीषः स्फुट एष मूर्धनि विभात्युर्णेयमन्तर्भ्रुवोḵ इति (१। १७; ५। ३२) । ऊर्णोति आच्छादयतीत्यूर्णा । ʻऊर्णुञ् आच्छादने । ऊर्णोतेर्डप्रत्ययः (३। २। १०१) ॥ ४९ ॥
मल्लि-नाथः - AK.03.03.049
ग्रामणीर्नापिते—चान्तरा भ्रुवौ ॥ ४९ ॥
[[०३.२९४]]
अक्।०३.०३.०५०च्द् हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥ ५० ॥
मूलम् - ०३.०३.०५१
अक्।०३.०३.०५१अब् त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः ।
लिङ्ग-सूरी - AK.03.03.050
हरिणी सुरयोषायां वृत्तभेदपिशङ्गयोः ।
कनकप्रतिमायां च मृगीहरितयोरपि ॥ ११० ॥
हरिणः कृष्णसारे स्यात् पीतपाण्डुरयोरपि ।
मनो हरतीति हरिणः । ʻहृञ् हरणे ॥
स्थूणा लोहप्रतिकृतौ गृहस्तम्भे गदान्तरे ॥ १११ ॥
चिरं तिष्ठतीति स्थूणा । ʻष्ठा गतिनिवृत्तü ॥ ५० ॥
हरिणी—हरिता च या । हरिणशब्दाद् मृगपर्यायात् ʻजातेरस्त्रीविषयात् ॥ । इत्यादिना (४। १। ६३) ङीषि हरिणी कुरङ्गी । हरति मन इति विग्रहे हरतेः औणादिके इनच्प्रत्यये (उ। २। ४८) गौरादिङीषि (४। १। ४१) हरिणी स्वर्णप्रतिमा । हरितशब्दात् पलाशवर्णवचनाद् ʻवर्णादनुदात्तात्तोपधात्तो नḵ (४। १। ३९) इति ङीपि प्रत्यये उपधातकारस्य नत्वे च या काचन स्त्रीलिङ्गपदाभिधेया दूर्वालतिका हरिणीत्युच्यते । शेषे—ʻहरिणी वृत्तभेदेऽपि यूथिकासुरयोषितोḵ इति । ʻरसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी मता’ इति वृत्तरत्नाकरोक्तलक्षणविशेषो (३। ९६) वृत्तविशेषः । सुरयोषिति यथा—ʻप्रतिघाय समाधिभेदिनी हरिरस्मै हरिणीं सुराङ्गनाम् (रघु। ८। ७९) इति । हरिणशब्दः पाण्डुवर्णे द्रव्ये वाच्यलिङ्गः (१, पृ। ९९) । वर्णमात्रे तु पुंसीति प्रागुक्तः (१। पृ। १०१) ॥ स्थूणा स्तम्भेऽपि वेश्मनः । स्थूणा गृहस्तम्भः । चकारात् लोहप्रतिमायां प्रागुक्ता (पृ। ६४१) ॥ ५० ॥
मल्लि-नाथः - AK.03.03.050
हरिणी—हरिता च या । हरितवर्णा काञ्चनमयीत्यर्थः ॥ त्रिषु पाण्डौ च हरिणः । कृष्णसारेऽपि स्यात् ॥ स्थूणा स्तम्भेऽपि वेश्मनः । लोहप्रतिमायामपि ॥ ५० ॥
[[०३.२९५]]
अक्।०३.०३.०५१च्द् तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे ॥ ५१ ॥
मूलम् - ०३.०३.०५२
अक्।०३.०३.०५२अब् वणिक्पथे च विपणिः सुरा प्रत्यक् च वारुणी ।
लिङ्ग-सूरी - AK.03.03.051
उदन्यातर्षयोस्तृष्णा निन्दाकारुण्ययोर्घृणा ।
तृष्यत्यनयेति तृष्णा । ʻञितृष पिपासायाम् ॥ घृण्यतेऽनयेति घृणा । ʻघृणु दीप्तü ॥
आपणे पण्यवीथ्यां च पण्ये विपणिरुच्यते ॥ ११२ ॥
विपणन्त्यत्रेति विपणिः । ʻपण व्यवहारे ॥
प्रतीचीमद्ययोर्गण्डदूर्वायां वारुणी मता ।
वरुणस्येयं वारुणी ॥ ५१ ॥
तृष्णे—द्वे । अभिलाषमात्रं स्पृहा । यथा—धनतृष्णा विद्यातृष्णेति, यद्विशेषः पिपासा । यथा—ʻअम्भोधिनापि किं तेन येन तृष्णा न शाम्यति इति । ʻञितृष पिपासायाम् इति धातोः पिपासावृत्तित्वेऽपि तृष्णाशब्दस्य निरूढलक्षणतया मुख्यतुल्यत्वाद् नानार्थत्वं युक्तम् । एवमेव तर्षतृषातृट्शब्दाश्च नानार्थतया बोद्धव्याः ॥ जुगुप्साकरुणे घृणे । अत्र जुगुप्साशब्देन बीभत्सरसस्थायिभावो गृह्यते । करुणा दया ॥ वणिक्पथे च विपणिः । वणिक्पथो हट्टः । ʻआपणे पण्यवीथ्यां च पण्ये च विपणिः स्त्रियाम् इति रुद्रः । ʻनाडित्रोट्याजिराजिभ्रुकुटिविपणयो दीधितिर्धूलिरालिḵ इति स्त्रीलिङ्गप्रकरणे वाचस्पतिलिङ्गानुशासनं च ॥ सुरा प्रत्यक् च वारुणी । प्रत्यगिति दिग्वाचकमव्ययम् । वरुणस्येयमिति वारुणी । प्रतीची दिक् । ʻसुरा च वरुणात्मजा’ इत्यागमः । अत एव सुरापर्यायेषु वरुणात्मजा इत्युक्तम् (पृ। ६४३) ॥ ५१ ॥
मल्लि-नाथः - AK.03.03.051
तृष्णे स्पृहा—विपणिः । ʻआपणे पण्यवीथ्यां च पण्ये च विपणिः स्त्रियाम् इति रुद्रः ॥ सुरा प्रत्यक् च वारुणी ॥ ५१ ॥</Amarapadaparijata
%%p. 03.296
AK.03.03.052cd kareṇuribhyāṃ strī nebhe draviṇaṃ tu valaṃ dhanam .. 52 ..
AK.03.03.053ab śaraṇaṃ gṛharakṣitroḥ śrīparṇaṃ kamale’pi ca .
लिङ्ग-सूरी - AK.03.03.052
करेणुः कर्णिकारे स्याद्धस्तिनीगयोरपि ॥ ११३ ॥
के रेणुरस्येति करेणुः ॥
बले पराक्रमेऽपि स्याद् द्रविणं काञ्चने धने ।
द्रवतीति द्रविणम् । ʻद्रु गतü ॥
शरणं वधरक्षित्रोर्गृहरक्षणयोरपि ॥ ११४ ॥
शीर्यत इति शरणम् । ʻशॄ हिंसायाम् ॥
श्रीपर्णमग्निमन्थाब्जभद्रपर्णीषु कथ्यते ।
श्रीयुतपर्णत्वात् श्रीपर्णम् ॥ ५२ ॥
करेणुरिभ्यां स्त्री नेभे । हस्तिन्यां करेणुशब्दः स्त्रीलिङ्गः । पुङ्गजे तु ना पुंलिङ्ग इत्यर्थः । मत्तावस्थायां के मूर्ध्नि विक्षिप्तो रेणुरस्येति करेणुः ॥ द्रविणं तु बलं धनम् । बलं शौर्यम् । धनं सुवर्णरजतादिवित्तमात्रम् । तद्विशेषे काञ्चनेऽपीति केचित् ॥ शरणं गृहरक्षित्रोः शृणाति विपदं हिनस्तीति शरणम् । ʻशॄ हिंसायाम् । ʻकृत्यल्युटो बहुलम् (३। ३। ११३) इति कर्तरि ल्युट् । ʻप्रतिशरणमशीर्णज्योतिरग्न्याहितानाम् इति प्रयोगः (शिशु। ११। ४१) । ʻशरणं तरुणेन्दुशेखर्ö इति रक्षके । रूपभेदाद् नपुंसकत्वम् । ʻशरणं रक्षणे वधे इति विश्वप्रकाशः (पृ। ५०, श्लो। ३७) ॥ श्रीपर्णं कमलेऽपि च । श्रीः शोभा पर्णेष्वस्येति श्रीपर्णम् । अपिशब्दाद् अग्निमन्थाख्यवृक्षे प्रागुक्तम् (१, पृ। २५४) । भद्रपर्ण्यां कट्फले लच ङीबन्तोऽपि प्रागुक्तः (पृ। २३७, २३९) ॥ ५२ ॥
मल्लि-नाथः - AK.03.03.052
करेणुरिभ्यां—बलं धनम् । काञ्चनेऽपि स्यात् । ʻद्रविणं काञ्चने वित्ते द्रविणं च पराक्रमे इति विश्वः (पृ। ५१, श्लो। ४४) ॥ शरणं गृहरक्षित्रोः । रक्षणवधयोरपि स्यात् । ʻशरणं वधरक्षित्रोः शरणं रक्षणे गृहे इति विश्वः (पृ। ५०, श्लो। ३७) ॥ श्रीपर्णं कमलेऽपि च । वृक्षविशेषेऽपिल स्यात् ॥ ५२ ॥
[[०३.२९७]]
अक्।०३.०३.०५३च्द् विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु ॥ ५३ ॥
मूलम् - ०३.०३.०५४
अक्।०३.०३.०५४अब् प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ।
लिङ्ग-सूरी - AK.03.03.053
तीक्ष्णं तिग्मे विषे क्रूरे शस्त्राभिमरयोरपि ॥ ११५ ॥
अभिमरो मारकं युद्धम् । तेजयतीति तीक्ष्णम् । ʻतिज निशाने ॥
मर्यादाहेतुशास्त्रेषु नित्येयत्ताप्रमातृषु ।
सत्यवादिन्येकतायां प्रमाणं हिंसके भवेत् ॥ ११६ ॥
प्रमीयत इति प्रमाणम् । ʻमाङ् माने । हिंसके तु ʻमीञ् हिंसायाम् इति धातुः ॥ ५३ ॥
विषाभिमर—खरे त्रिषु । विषं कालकूटादिकम्, सहजं कृत्रिमं च । अभिमरो युद्धम् । लोहः शस्त्रकम् । अर्थत्रयेऽपि रूपभेदाद् नपुंसक्तवम् । खरे दुःसहे सूरकिरणादौ विशेष्यनिघ्नः । ʻते तीक्ष्णा ये धनेच्छातो युध्यन्ति द्विरदादिभिḵ इति नीतिषट्साहस्र्याम् ॥ प्रमाणं—प्रमातृषु । अत्र हेतुशब्देन ज्ञप्तिकारणं विवक्षितम् । यथा—ʻसम्यगनुभवसाधनं प्रमाणम् इति । मर्यादा अवधिः । यथा—ग्रामयोरनयोः पर्वतः प्रमाणमिति । शास्त्रे यथा—अस्मिन्नर्थे मनुवचनं प्रमाणमिति । ज्ञानसाधनत्वाकारेण शास्त्रस्यापि हेतूपदेशेनैव ग्रहणेऽप्यलौकिकाकारेण ततो वैलक्षण्यात् पृथगुपादानं कृतम् । अथवा शास्त्रशब्देन तद्विशेषो विवक्षितः यथा—ʻपदवाक्यप्रमाणज्ञḵ इति (मा। माध। ७) । इयत्ता अवच्छेदः । यथा—ʻकियत्प्रमाणमुदकम् इति । (भो। प्र। पृ। ४०, श्लो। १८५) । प्रमातरि प्रमाश्रये यथार्थानुभवयुक्त इत्यर्थः । यथाहुर्नैयायिकाः—ʻप्रमासाधनप्रमाश्रययोरन्यतरत्वं प्रमाणलक्षमम् इति । ʻतन्मे प्रमाणं शिवḵ इति च । रभसोऽपि—
ʻइयत्ताहेतुशास्त्रेषु प्रमाणं सत्यवादिनि ।
मर्यादानित्ययोश्च स्यादेकतायां प्रमातरि ॥
इति । प्रमातर्यभिधेये तद्गतबहुत्वे सत्यपि तद्विशेषणस्य प्रमाणशब्दस्य नित्यमेकवचनान्तमेवेत्यर्थः । यथा—मन्वादयः प्रमाणम् इति । सत्यवादिमात्रे यथा—प्रमाणभूतो देवदत्त इति । नित्ये यथा—ʻवाचा विरूप नित्यया’ (ऋग्वेद ८। ७५। ६) इति । प्रमाणभूतयेत्यर्थः । ʻमाङ् माने इति धातोर्यथायोगं भावकरणादौ ल्युट् (३। ३। ११५, ११७, ११३) । क्वचिदर्थविशेषे तु—ʻमीञ हिंसायाम् इति धातोः ʻमीनातिमिनोति ॥ । (६। १। ५०) इत्यात्वम् ॥ ५३ ॥
मल्लि-नाथः - AK.03.03.053
विषाभिमर—खरे त्रिषु । अभिमरो युद्धम् । खरमुष्णम् । ʻतीक्ष्णमुष्णे क्ष्णुते युद्ध आत्मत्यजि विषेऽयसि इति वैजयन्ती (पृ। २३३, श्लो। ३७) ॥ प्रमाणं—प्रमातृषु । हेतौ—अग्निज्ञाने धूमः प्रमाणम् । मर्यादायाम्—ग्रामयोर्नदी प्रमाणम् । शास्त्रे—वेदान्तः प्रमाणम् । इयत्तायाम्—स्तनयोः कञ्चुकं प्रमाणम् । प्रमातरि एकवचनमेव । ʻप्रमाणमन्तःकरणप्रवृत्तयḵ (शाकु। १। २२) ʻइयत्ताहेतुशास्त्रेषु प्रमाणं सत्यवादिनि इति रभसकोशः ॥ ५३ ॥
[[०३.२९९]]
अक्।०३.०३.०५४च्द् करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ॥ ५४ ॥
मूलम् - ०३.०३.०५५
अक्।०३.०३.०५५अब् प्राण्युत्पादे संसरणमसम्बाधचमूगतौ ।
अक्।०३.०३.०५५च्द् घण्टापथेऽथ वान्तान्ने समुद्धरणमुन्नये ॥ ५५ ॥
लिङ्ग-सूरी - AK.03.03.054-55
अङ्गहारे क्रियाभेदे गीते कर्मेन्द्रियेष्वपि ।
संवेशे साधकतमे करणं क्षेत्रगात्रयोः ॥ ११७ ॥
शूद्राविशोरपत्येऽपि कायस्थे करणो भवेत् ।
किरन्त्यत्रेति करणम् । ʻकॄ विक्षेपे ॥
घण्टापथे रणारम्भे संसारे पुरनिर्गमे ॥ ११८ ॥
पुरद्वारे संसरणमसङ्कटचमूगतौ ।
संसरन्त्यस्मादिति संसरणम् । ʻसृ गतü ॥
समुद्धरणमुन्मूलवान्तान्नोन्नयनेष्वपि ॥ ११९ ॥
समुद्ध्रियत इति समुद्धरणम् ॥ ५४-५ ॥
करणं—इन्द्रियेष्वपि । क्रियाप्रसिद्धौ प्रकृष्टोपकारकः कारकविशेषः साधकतमः । यथा—ʻकरणादिकरणयोश्च्ö (३। ३। ११७) । क्रियते संस्क्रियते कृषीवलैरिति कर्मणि ल्युटि (३। ३। ११५) करणं क्षेत्रम् । किरति बीजमत्रेति वा । अर्थान्तरेषु करणे ल्युट् (३। ३। ११७) । गात्रं शरीरम् । इन्द्रियं चक्षुरादिकं त्वगादिकं च । शेषे—ʻकरणं रतिबन्धेषु नृत्तसंस्थानकर्मणोḵ इति । रतिबन्धाः कामशास्त्रप्रसिद्धाः नागबन्धजृम्भितादयः । सङ्गीतसारे—
ʻनृत्तवादित्रगीतानां प्रयोगवशभेदिनाम् ।
संस्थानभेदान् नाट्यज्ञाः करणानि प्रचक्षते ॥
इति । यथा कुमूरसम्भवे (६। ४०)—
ʻशिखराबद्धमेघानां व्यज्यन्ते यत्र वेश्मनाम् ।
अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः ॥
इति । कर्मणि यथा—नवीकरणम्, शिथिलीकरणम् इति । प्राण्युत्पादे—घण्टापथे । जीवानां स्वस्वकर्मवशेन नरतिर्यगादीनां योनिषु सम्भवः प्राण्युतपादः । संसार इति यावत् । मार्गे विपुलतया असम्बाधेन परस्परानुपमर्देन सेनायाः प्रसरणमसम्बाध चमूगतिः । सम्यगसम्बाधेन सरन्त्यत्रेति संसरणम् । घण्टापथः रथ्या । शेषे—ʻरणारम्भे संसरणं गोपुरे पुरनिर्गमे इति ॥ अथ वान्तान्ने—उन्नये । उद्ध्रियते कुक्षिकुहरादूर्ध्वं नीयत इति समुद्धरणं छर्दितान्नम् । भावसाधनत्वे तु उन्नय उत्तोलनम् । ʻतत्रोद्धृतममत्रेभ्यḵ (४। २। १४) इत्यत्र काशिका (पृ। ३०५) ʻभुक्तोज्झितमुद्धृतमुच्यते, यस्योद्धरणमिति प्रसिद्धिḵ इति । केचित्तु—सम्यगुद्धरणं समुद्धरणमिति विगृह्य मूलग्रन्थं पठित्वा व्याचक्षते ॥ ५४-५ ॥
मल्लि-नाथः - AK.03.03.054-55
करणं—इन्द्रियेष्वपि ।
ʻकरणं कारणे काये साधनेन्द्रियकर्मसु ।
कायस्थे व्रतबन्धे च नाट्यगीतप्रभेदयोः ॥
इत्यजयः ॥ प्राण्युत्पादे—घण्टापथे । प्राण्युत्पादः संसारः ।
ʻसंसरणं रणारम्भे पुरनिर्गमगोपुरे ।
घण्टापथे च संसारेऽप्यसम्बाधचमूगतौ ॥
इति विश्वः (पृ। ५४, श्लो। ८७-८) ॥ अथ वान्तान्ने समुद्धरणमुन्नये । उन्नय उद्धारः । ʻउद्धरणं समुद्धारवान्तान्नोन्मूलनेष्वपि इति विश्वः (पृ। ५४, श्लो। ८६) ॥ ५४-५ ॥
[[०३.३०१]]
मूलम् - ०३.०३.०५६
अक्।०३.०३.०५६अब् अतस्त्रिषु विषाणं स्यात् पशुशृङ्गेभदन्तयोः ।
अक्।०३.०३.०५६च्द् प्रवणः क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ॥ ५६ ॥
अक्।०३.०३.०५७अब् सङ्कीर्णौ निचिताशुद्धावीरिणं शून्यमूषरम् ।
इति णान्तवर्गः
लिङ्ग-सूरी - AK.03.03.056
विषाणं पशुशृङ्गेऽपि क्रोडदंष्ट्रेभदन्तयोः ।
अजशृङ्ग्याख्यौषधेऽपि विषाणी परिकथ्यते ॥ १२० ॥
विषाणशब्दः सत्त्ववति त्रिषु लिङ्गेषु वर्तते । स विशेष्याश्रयात् । वेवेष्टीति विषाणम् । ʻविष्लृ व्याप्तü ॥
क्रमनिम्नक्षितितले क्षान्तप्रगुणयोरपि ।
प्रह्वे चतुष्पथे चैव प्रवणो वाच्यलिङ्गकः ॥ १२१ ॥
प्रवणतीति प्रवणः । ʻवण शब्दे ॥
अपवित्रे च निचिते सङ्कीर्णः समुदाहृतः ।
सम्यक् कीर्णो व्याप्तः सङ्कीर्णः ॥
ईरिणं शून्यदेशे स्यादूषरे चापि सम्मतम् ॥ १२२ ॥
ईरयतीति ईरिणम् । ʻईर क्षेपे ॥ ५६ ॥
इति णान्तवर्गः
अथ त्रिषु—इभदन्तयोः । अथ णकारान्तसमाप्तिपर्यन्तं चत्वारः शब्दा लिङ्गत्रये वर्तन्ते । त्रिलिङ्गत्वमात्रे साधर्म्यम् । न तु सर्वदा । ततश्च विषाणशब्दः तटमण्डलादिशब्दवत् स्वभावादेव त्रिलिङ्गः । इतरे तु विशेष्यनिघ्नाः ॥ पशूनां गामहिष्यादीनां शृङ्गे गजदन्ते च विषाणम् । विशेषेण स्यति नाशयति विरोधिनमिति विषाणम् । ʻषोऽन्तकर्मणि । ल्युः (३। १। १३४) । ʻउपसर्गात् सुनोतिसुवतिस्यति ॥ । (८। ३। ६५) इति षत्वम् । स्त्रिलिङ्गे तु शृङ्गवचनस्य अजादिपाठात् टाबन्तत्वे विषाणा । ʻकृष्णविषाणया कण्डूयते इति टाबन्तस्य प्रयोगः । अशृङ्गिवचनत्वे तु पिप्पल्यादिपाठाद् विषाणीति ङीषन्तः प्रागुक्तः (१। पृ। २८६) । विश्वप्रकाशे (पृ। ५२, श्लो। ६४-५)— ʻविषाणा तु क्रोडद्विरददंष्ट्रयोḵ इति ॥ प्रवणं—चतुष्पथे । पुरोभागे किञ्चिन्दवनतायां भूमौ वाच्यलिङ्गः । न तु विषाणशब्दवद् स्वभावतः । यथा—प्राचीनप्रवणो देशः, उदक्प्रवणा भूमिः । इत्यादि । चतुष्पथे तु ना पुंलिङ्ग इति त्रिलिङ्गत्वस्यापवादः । विशेषेण क्लेशराहित्येन प्रवन्ते जना अत्रेति प्रवणः । ʻप्रुङ् गतü । प्रकर्षेण वनुते वा । ʻप्रनिरन्तःशर ॥ । इत्यादिना (८। ४। ५) णत्वम् । प्रह्वे यथा—भक्तिप्रवण इति । विद्याप्रवणो धर्मप्रवण इत्यादौ अनुकूलार्थे लक्षणया प्रयोगः ॥ सङ्कीर्णौ निचिताशुद्धौ । निचितो व्याप्तः । यथा—म्लेच्छसङ्कीर्णो देश इति । अशुद्धे यथा—सङ्कीर्णा जातिरिति ॥ इरिणं शून्यमूषरम् । शून्यं मानुषपश्वादिसञ्चाररहितं गृहादिकम् । क्षारमृत्तिकाप्रायं स्थलमूषरं च । इयर्ति सस्याभावादनिरुद्धो गच्छत्यत्रेति इरिणः । ʻऋ गतü । ʻअर्तेः किदिच्च्ö (उ। २। ५५) इति इनन्प्रत्ययः, धातोरिरित्यादेशश्च । कित्त्वाद् गुणाभावः । ह्रस्वादिरयं शब्दः । ʻतत्स्वकृतमिरिणोऽभवत् इति श्रुतौ दर्शनात् । ʻईरिणं शून्यमूषरम् इति दीर्घादौ रभसः पठितवान् इति सुभूतिचन्द्रः ॥ ५६ ॥
इति णान्तवर्गः
मल्लि-नाथः - AK.03.03.056
अथ त्रिषु—इभदन्तयोः । सत्रीलिङ्गे गौरादित्वाद् ङीष् । प्रवणं—चतुष्पथे । अथ त्रिष्वित्यधिकारात् चतुष्पथवर्जं त्रिलिङ्गः । प्रवणो देशः । प्रवणा भार्या । तत्परेत्यर्थः । ʻउच्यते प्रवणः प्रह्वस्तत्परश्च परायणḵ इति हलायुधः (अ। मा। २। १९७) ॥ सङ्कीर्णे—इरिणं शून्यमूषरम् । ʻइरिणं तूषणं शून्यमिष्वासोऽस्त्रमिषुक्षिपा’ इति ह्रस्वादिषु जयकोशः । ʻईक्षणं दर्शने दृष्टावीरिणं शून्यमूषरम् इति दीर्घादिषु रभसकोशः ॥
अनुक्तम्—
पार्ष्णिः पाश्चात्यभागेऽपि वृष्णिः पाषण्डकेऽपि च ।
परश्वधेऽपि द्रुघणा निकषेऽपि च रोषणः ।
मुद्गरे द्रुघणः पुंलिङ्गः । रोषणः त्रिलिङ्गः ॥
ज्यारवेऽपि व्याकरणं सुरतेऽपि च धर्षणम् ।
वयःसन्धौ च नारीणां गर्भे दोहदलक्षणम् ।
वातरायण उन्मत्ते पुरुषे चाप्रयोजने ॥ ५६ ॥
इति णान्तवर्गः
[[०३.३०३]]
अक्।०३.०३.०५७च्द् देवसूर्यौ विवस्वन्तौ सरस्वन्तौ नदार्णवौ ॥ ५७ ॥
मूलम् - ०३.०३.०५८
अक्।०३.०३.०५८अब् पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ ।
लिङ्ग-सूरी - AK.03.03.057
अमरे चापि मार्ताण्डे विवस्वानभिधीयते ।
प्रभया विवस्त इति विवस्तेजोऽस्यास्तीति वा विवस्वान् । ʻवस आच्छादने ॥
नदे समुद्रे रसिके सरस्वान् परिकीर्त्यते ॥ १२३ ॥
गोवाङ्नदीभारतीषु स्त्रीरत्ने च सरस्वती ।
सरः सर्वतः सरणमस्यास्तीति सरस्वान् ॥
वैनतेये विहङ्गे च गरुत्मान् समुदाहृतः ॥ १२४ ॥
गरुतः पक्षा अस्य सन्तीति गरुत्मान् ॥
शकुन्तः कीटभेदे स्याद् रक्तकाके विहङ्गमे ।
गन्तुं शक्नोतीति शकुन्तः । ʻशक्लृ शक्तü ॥ ५७ ॥
देवूसूर्यौ विवस्वन्तौ । देवशब्देन देवतामात्रमुच्यते ॥ सरस्वन्तौ नदार्णवौ । सरस्वानित्येव प्रसिद्धो नदविशेष इति केचित् । शोणादिनदमात्रमित्यपरे । अत्र प्रतापः—
ʻसरस्वती नदीभेदे गोवाग्देवतयोर्गिरि ।
स्त्रीरत्ने धनदे पुंसि सरस्वान् रसिके बुधौ ॥
इति । नदीभेदः कुरुक्षेत्र सरस्वत्याख्ययैव प्रसिद्धा । गवि यथा—ʻइडे रन्तेऽदिते सरस्वति इति (तै। सं। ७। १। ६। ८) । वाग्देवता शारदा । गिरि वचसि यथा—ʻव्याजहार सरस्वतीम् इति । स्त्रीरत्नं श्रेष्ठा स्त्री । रसिकः सहृदयः । पक्षितार्क्ष्यौ गरुत्मन्तौ । पक्षिजातीयो यः कश्चित् । तार्क्ष्यो वैनतेयः ॥ शकुन्तौ भासपक्षिणौ । भासो गृध्रसदृशः पक्षिविशेषः । पक्षी विहगमात्रम् ॥ ५७ ॥
मल्लि-नाथः - AK.03.03.057
देवसूर्यौ—नदार्णवौ । नदी सरस्वती । ʻसरस्वती स्यात् स्त्रीरत्ने नद्यां नद्यन्तरे गवि इति जयकोशः । पक्षितार्क्ष्यौ—भासपक्षिणौ । भासो नाम गोष्ठकुक्कुटः । ʻनिगद्यते गोष्ठकुक्कुटो भासḵ इति रत्नमाला ॥ ५७ ॥
[[०३.३०५]]
अक्।०३.०३.०५८च्द् अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ ५८ ॥
मूलम् - ०३.०३.०५९
अक्।०३.०३.०५९अब् हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ ।
लिङ्ग-सूरी - AK.03.03.058
उत्पाते धूमकेतुः स्यात् पावकग्रहभेदयोः ॥ १२५ ॥
धूमः केतुर्यस्यासौ धूमकेतुः ॥
वृततिकाराद्रिशक्रेषु जीमूतो गर्जदम्बुदे ।
जीवो मूयतेऽत्रेति जीमूतः । ʻमूङ् बन्धने ॥
पाणौ केशकलापे स्याद्धस्तस्तारेभहस्तयोः ॥ १२६ ॥
हन्यतेऽशुकादिरनेनेति हस्तः । ʻहन हिंसागत्योḵ ॥
समीरणे निर्जरेऽपि मरुच्छब्दः प्रकीर्तितः ।
कुपितेनानेन म्रियत इति मरुत् । ʻमृङ् प्राणत्यागे ॥ ५८ ॥
अग्न्युत्पातौ धूमकेतू । धूमलिङ्गत्वेन धूमकेतुरग्निः । यस्यां तारकायां धूमसदृशो रश्मिरुत्पद्यते स तारकाविशेषो धूमचिह्नत्वाद् धूमकेतुः । जगदनिष्टकारित्वाद् उत्पातशब्देनोक्तः । ʻउपप्लवाय लोकानां धूमकेतुरिवोत्थितḵ इति कालिदासः (कु। सं। २। ३२) ॥ जीमूतौ मेघपर्वतौ । जीवनस्य जलस्य मूतो बन्धकविशेषो जीमूतः । पृषोदरादित्वेन शेषलोपः (६। ३। १०९) । देवताडे प्रागुक्तः (१। पृ। २५६) ॥ हस्तौ तु पाणिनक्षत्र । पाणिः पञ्चशाखः । हस्ताख्यं नक्षत्रं च । कचपर्यायोत्तरत्वे तु प्रशंसावचनः (पृ। ४२५) । यथा—केशहस्त इति ॥ मरुतौ पवनामरौ । अमरो देवतामात्रम् । यथा—ʻइन्द्रो मरुत्वान् इति (१, पृ। ३०) । स्पृक्कायां तु मरुच्छब्दः स्त्रीलिङ्गः प्रागुक्तः (१, पृ। २९५) ॥ ५८ ॥
मल्लि-नाथः - AK.03.03.058
अग्न्युत्पातौ—पवनामरौ । पर्वतोऽपि मरुत् । ʻशिखरी त्रिककुन्मरुत् इति धनञ्जयः ॥ ५८ ॥
[[०३.३०६]]
अक्।०३.०३.०५९च्द् यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि ॥ ५९ ॥
मूलम् - ०३.०३.०६०
अक्।०३.०३.०६०अब् यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते ।
लिङ्ग-सूरी - AK.03.03.059
हस्त्यारोहे सारथौ च यन्तृशब्दोऽभिधीयते ॥ १२७ ॥
यच्छतीति यन्ता । ʻयम उपरमे ॥
पोषके दानशीले च भर्तृशब्दोऽभिधीयते ।
बिभर्तीति भर्ता । ʻडुभृञ् धारणपोषणयोḵ ॥
यानपात्रे बालके च पोतः समभिधीयते ॥ १२८ ॥
पुनातीति पोतः । ʻपूञ् पवने ॥
प्रेतस्तु प्राप्तपञ्चत्वे भवेन्नारकदेहिनि ।
प्रकृष्टमितः प्रेतः । ʻइण् गतü ॥ ५९ ॥ </Amarapadavivrti
यन्ता हस्तिपके सूते । हस्तिपको हस्त्यारोहः । सूतः सारथिः ॥ भर्ता धातरि पोष्टरि । बिभर्ति । ʻडुभृञ् धारणपोषणयोḵ । तृच् (३। १.१३३) । धारके यथा—वज्रस्य भर्ता । पोष्टा पोषकमात्रम् । पत्यौ प्रागुक्तः (पृ। ३८२) ॥ यानपात्रे शिशौ पोतः । यानपात्रं वहित्रम् । शेषे—ʻदशवर्षे गज पोतḵ इति । यथा—करिपोतः ॥ प्रेतः प्राण्यन्तरे मृते । प्राण्यन्तरं नरकलोकस्थः प्राणिविशेषः प्रागुक्तः (१, पृ। १५३) । अथवा मरणादूर्ध्वमकृतसपिण्दीकरणे प्रेतशब्दः । यथा—ʻसपिण्डीकरणादूर्ध्वं प्रेतत्वं विनिवर्तते इति । मृतमात्रेऽपि यथा—प्रेतसंस्कार इति ॥ ५९ ॥
मल्लि-नाथः - AK.03.03.059
यन्ता—प्राण्यन्तरे मृते ॥ ५९ ॥
[[०३.३०७]]
अक्।०३.०३.०६०च्द् ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ ६० ॥
मूलम् - ०३.०३.०६१
अक्।०३.०३.०६१अब् स्थपतिः कारुभेदेऽपि भूभृद् भूमिधरे नृपे ।
लिङ्ग-सूरी - AK.03.03.060
उत्पाते स्याद् ग्रहे केतुः कान्तौ लक्ष्मणि केतने ॥ १२९ ॥
कित्यते ज्ञायत इति केतुः । ʻकित ज्ञाने ॥
पार्थिवे तनये चैव सुतशब्दः प्रकीर्तितः ।
सूयत इति सुतः । ʻषु प्रसवैश्वर्ययोḵ ॥
स्थपतिर्यष्टुभेदे स्यात् सूतकञ्चुकितक्षसु ॥ १३० ॥
यष्टा बृहस्पतिसवनयाजी । स्थापयतीति स्थपतिः । तिष्ठत्यस्मिन्निति स्थः । स्थश्चासौ पतिश्चेति वा स्थपतिः ॥
पर्वते पार्थिवे चापि भूभृत् समभिधीयते ।
भुवं बिभर्तीति भूभृत् ॥ ६० ॥
ग्रहभेदे ध्वजे केतुः । नवमो ग्रहविशेषः केतुसञ्ज्ञकः । धवजो लिङ्गम् । धूमकेतुरग्निः । कित्यते ज्ञायतेऽनेनेति केतुः । ʻकित ज्ञाने । पताकायामपि । यथा—केतुदण्डः इति ॥ पार्थिवे तनये सुतः । सौति सर्वस्येश्वरो भवतीति सुतः । ʻषु प्रसवैश्वर्ययोḵ । क्तः । अभिषुतोऽपि । यथा—सुतः सोम इति ॥ स्थपतिः कारुभेदेऽपि । कारुभेदः शिल्पिविशेषः तक्षा । अपिशब्देन ʻस गीष्पतीष्ट्या स्थपतिḵ इति प्रागुक्तः (१, पृ। ४५५) । तिष्ठत्यत्र व्यापार इति स्थः । ʻधञर्थे कविधानम् (वा। ३। ३। ५८) इति कः । स्थश्चासौ पतिश्च स्थपतिः । कञ्चुकिन्यपि । अन्तःपुररक्षणेऽधिकृतः कञ्चुकी ॥ भूभृद् भूमिधरे नृपे । भूमिधरः पर्वतः । व्यक्तयोगश्च ॥ ६० ॥
मल्लि-नाथः - AK.03.03.060
ग्रहभेदे ध्वजे केतुः । ग्रहभेदे केषाञ्चित् तस्यैव बहुवचनमिष्टम् । ʻकेतवो ब्रह्मपुत्राः स्युः राहुकाः शिखिनश्च ते ॥ पार्थिवे—कारुभेदेऽपि । ʻस्थपतिः शिल्पिभेदेऽपि स्थपतिः कञ्चुकिन्यपि इति विश्वः (पृ। ६८, श्लो। १५४) ॥ भूभृद् भूमिधरे नृपे ॥ ६० ॥
[[०३.३०८]]
अक्।०३.०३.०६१च्द् मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमेऽपि च ॥ ६१ ॥
मूलम् - ०३.०३.०६२
अक्।०३.०३.०६२अब् विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ ।
लिङ्ग-सूरी - AK.03.03.061
ब्राह्मणात् क्षत्रियाजाते प्रधाने क्षत्रियेऽपि च ॥ १३१ ॥
मूर्धाभिषिक्तो राजन्ये सारथावपि वर्तते ।
मूर्धनि अभिषिक्तो मूर्धाबिषिक्तः । ʻषिच क्षरणे ॥
ऋतुर्धीरे मासि कालभेदे सत्रीरजसि स्मृतः ॥ १३२ ॥
इयर्तीति ऋतुः । ʻऋ गतü ॥
अजितो वल्लभेऽपि स्यादपराजितबुद्धयोः ।
न जितोऽअजित ।
प्रधाने शङ्करे विष्णो महदादिकमूर्खयोः ॥ १३३ ॥
परमात्मन्यस्फुटे स्यादव्यक्तस्त्वभिधेयवत् ।
न व्यक्तोऽव्यक्तः ॥
जाते जातौ सम्यगूते तक्ष्णि सारथिनुन्नयोः ॥ १३४ ॥
ब्राह्मण्यां क्षत्रियाज्जाते सूतो वन्दिनि पारदे ।
पारदः पादरसः । सूयत इति सूतः ॥ ६१ ॥
मूर्धाभिषिक्तो भूपेऽपि । पट्टाभिषिक्ते राजनि क्षत्रियमात्रे प्रागुक्तः (पृ। ४८४) मुख्यामात्येऽपि मूर्धाभिषिक्त उच्यते । मूर्धावसिक्त इति पाठे ब्राह्मणेन क्षत्रियस्त्रियामुत्पादितः पुत्रोऽपिशब्दार्थः ॥ ऋतुः स्त्रीकुसुमेऽपि च । इयर्ति नियतकालं प्राप्नोतीति ऋतुः । ʻऋ गतü । स्त्रीणां प्रतिमासं जायमानं रजःपुष्पं स्त्रीकुसुमम् । अपिशब्दाद् वसन्तग्रीष्मादिरिति ॥ विष्णावप्यजिता व्यक्तौ । न जीयते केनापि नाभिभूयत इत्यजितो विष्णुः । अपिशब्दाद् अपराजितश्च । न व्यज्यत इक्यव्यक्तो विष्णुः
ʻअव्यक्तः शङ्करे विष्णावव्यक्तं महदादिके ।
आत्मन्यपि स्यादव्यक्तमस्फुटे त्वभिधेयवत्॥
इति शाश्वतः । ʻत्रिष्वस्फुटे स्यादव्यक्तं क्लीबं तु परमात्मनि इति रुद्रश्च । सूतस्त्वष्टरि सारथौ । सूते रथादिकं जनयतीति सूतः तक्षा । ʻषूञ् प्राणिप्रसवे । सुवति प्रेरयत्यश्वादिकमिति सूतः सारथिः । शेषे—ʻसूतो रसे जातिभेदे बन्दिसुष्ठूतयोरपि इति । रसः पारदः । जातिभेदस्तु—ʻब्राह्ण्यां क्षत्रियात् सूतḵ इति (या। स्मृ। १। ४। ९३) । सुष्ठु ऊयते शब्दं करोतीति सूतो बन्दी । सुष्ठु ऊतमुतं वेति विग्रहे ʻऊयी तन्तुसन्ताने ʻवेञ् तन्तुसन्ताने इति धातुद्वयाद् निष्ठायां सूतशब्दो विशेष्यनिघ्नः ॥ ६१ ॥
मल्लि-नाथः - AK.03.03.061
मूर्धाभिषिक्तो भूपेऽपि । ʻमूर्धाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च्ö इति विश्वः (पृ। ७५, श्लो। २२८) ॥ ऋतुः—अजिताव्यक्तौ । अजितशब्दोऽनिर्जितेऽपि स्यात् । अव्यक्तशब्दोऽस्फुटेऽपि स्यात् ॥ सूतस्त्वष्टरि सारथौ । ʻक्षत्रियाद् ब्राह्मणीजाते सूतः पारदबन्दिनोḵ इति विश्वः (पृ। ५७, श्लो। ११) ॥ ६१ ॥
[[०३.३१०]]
अक्।०३.०३.०६२च्द् व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभे शास्त्रनिदर्शने ॥ ६२ ॥
मूलम् - ०३.०३.०६३
अक्।०३.०३.०६३अब् क्षत्ता स्यात् सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ।
लिङ्ग-सूरी - AK.03.03.062
मनीषिणि स्फुटे चापि व्यक्तशब्दोऽभिधीयते ॥ १३५ ॥
व्यज्यत इति व्यक्तः । ʻअञ्जू व्यक्तिम्रक्षणकान्तिगतिष्ü ॥
दृष्टान्तो वर्तते शास्त्रे शास्त्रोदाहरणेऽपि च ।
दृष्टोऽन्तः निश्चयोऽत्रेति दृष्टान्तः ॥
क्षत्रियाशूद्रजे द्वाःस्थे भुजिष्यातनये तथा ॥ १३६ ॥
क्षत्ता स्याद् देवरन्यायप्रजासृजि च सारथौ ।
क्षदतीति क्षत्ता । ʻक्षदि गतिहिंसनयोḵ ॥ ६२ ॥
व्यक्तः प्राज्ञेऽपि । प्राज्ञः प्रतिभावान् । स हि सर्वत्र प्रसिद्धत्वाद् व्यक्तः । स्पष्टार्थे प्रागुक्तः (पृ। ११२) । ʻव्यक्तः स्फुटमनीषिणोḵ इति विश्वप्रकाशः (पृ। ५९, श्लो। ३५) ॥ दृष्टान्तावुभे शास्त्रनिदर्शने । शास्त्रं व्याकरणादि । निदर्शनं वादिनोः सम्प्रतिपत्तिस्थानम् । यथा—धूमवत्त्वेनाग्निमत्त्वे साधने महानसादिकम् । दृष्टः सम्प्रतिपन्नोऽन्तो निश्चयोऽत्रेति दृष्टान्तः ॥ क्षत्ता स्यात्—शूद्रजे । द्वाःस्थे द्वारपालके । वैश्यायामपि शूद्रजः इति केषाञ्चित् पाठो भ्रान्तिमूलः । तथा च याज्ञवल्क्यः—ʻक्षत्रिया मागधं वैश्याच्छूद्रात् क्षत्तारमेव च्ö इति (या। स्मृ। १। ४। ९४) । ʻक्षत्तार्याशूद्रयोः सुतḵ इति शूद्रवर्गस्योक्तस्यापि (पृ। ६२१) यथा न विरोधः तथा तत्रैव व्याख्यातम् । क्षदतीति क्षत्ता । ʻक्षदिर् गतिहिंसनयोḵ ॥ ६२ ॥
मल्लि-नाथः - AK.03.03.062
व्यक्तः प्राज्ञेऽपि । स्फुटेऽपि स्यात् ॥ दृष्टान्त—शूद्रजे । आर्याशूद्रजे पर्यायपठितः (पृ। ६२१) ॥ ६२ ॥
[[०३.३११]]
अक्।०३.०३.०६३च्द् वृत्तान्तः स्यात् प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः ॥ ६३ ॥
मूलम् - ०३.०३.०६४
अक्।०३.०३.०६४अब् आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः ।
लिङ्ग-सूरी - AK.03.03.063
कार्त्स्न्ये विशेषवार्तायां भावे प्रकरणे तथा ॥ १३७ ॥
वृत्तान्तः स्यादवसरे प्रवृत्त्येकान्तकर्मसु ।
वृत्तोऽन्तो यस्येति वृत्तान्तः ॥
आनर्तो देशभेदे स्याद् नृत्तस्थाने रणे जले ॥ १३८ ॥
आनृत्यन्त्यत्रेत्यानर्तः । ʻनृती गात्रविक्षेपे ॥ ६३ ॥
वृत्तान्तः—वार्तयोः । वृत्तो निवृत्तोऽन्तः स्वरूपमत्रेति वृत्तान्तः । प्रकरणं प्रस्ताव इत्यर्थः । निष्पन्नः सन्दिग्धार्थविषयो निश्चयोऽनेनेति वृत्तान्तः । प्रकारो विशेषो व्यावर्तकधर्म इति यावत् । निर्वृत्तोऽन्तो विच्छेदोऽत्रेति वृत्तान्तः कृत्स्नम् । अलङ्कारवृत्तान्तो भोजराजपर्यवसित इति; साकल्यमित्यर्थः । वार्ता जनश्रुतिः । आख्यायिका च ॥ आनर्तः—विशेषयोः । नृत्तस्थानं रङ्गशालामण्डपादि । नीवृद्विशेषो देशभेदः पश्चिमाम्बुधिसमीपगतः । समन्ताद् नृत्यन्त्यत्र यथार्हं कबन्धा नर्तका वा जना वात्रेत्यानर्तः । ʻनृती गात्रविनामे । अधिकरणे घञ् (३। ३। १२१) । आनर्तदेशवासी जनोऽप्यानर्तः ॥ ६३ ॥
मल्लि-नाथः - AK.03.03.063
वृत्तान्तः—वार्तयोः । प्रकरणं प्रक्रिया । प्रकारो विशेषः । ʻवृत्तान्तः प्रक्रियायां स्यात् कार्त्स्न्ये वार्ताविशेषयोḵ इति रुद्रः ॥ आनर्तः—विशेषयोः । नृत्तस्थानं नाट्यशाला ॥ ६३ ॥
[[०३.३१२]]
अक्।०३.०३.०६४च्द् कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ६४ ॥
मूलम् - ०३.०३.०६५
अक्।०३.०३.०६५अब् श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः ।
अक्।०३.०३.०६५च्द् इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥ ६५ ॥
लिङ्ग-सूरी - AK.03.03.064-65
परेतनायके चापि शास्त्रसिद्धान्तयोरपि ।
अक्षेमकर्मणि क्रूरे कृतान्तः स्याच्छुभाशुभे ॥ १३९ ॥
कृतोऽन्तोऽनेनेति कृतान्तः ॥
शब्दादौ हरितालादौ वातश्लेष्मादिकेऽपि च ।
मनःशिलाहिरण्यादौ श्रोत्राद्ये भूतपञ्चके ॥ १४० ॥
भूवादिशब्दयोनौ स्याद् धातू रक्तरसादिके ।
धत्ते मिथो व्यावर्तनं रूपमिति धातुः । ʻडुधाञ् धारणपोषणयोḵ ॥ ६४-५ ॥
कृतान्तो—कर्मसु । यमो वैवस्वतः । कपिलकणादादिभिराचार्यैः स्वकृतग्रन्थेष्वभ्युपगतार्थः सिद्धान्तः । दैवं प्राग्भवीयं शुभाशुभकर्म । साम्प्रतिकं तु प्राणिहिंसनादिकमकुशलकर्म । अलसमूर्खादिभिः कृतं कर्म अकुशलकर्मेति केचित् । कृतस्यान्तो नाशो निश्चयः स्वरूपं फलं वा यथायथमत्रेति कृतान्तः ॥ श्लेष्मादि—धातवः । श्लेष्मादीत्यनेन वातपित्तश्लेष्मणां ग्रहणम् । अशितपीताहारस्य सारो विकारो रसः । आदिशब्देन ʻवसासृङ्मांसमेदोऽस्थिमज्जाशुक्लानि घातवḵ इति वैद्यकोक्तानां ग्रहणम् (वाग्भट १। ८) । रसशब्दस्यानेकार्थत्वात् तन्मात्रग्रहणे द्रवद्रव्याद्यर्थान्तरप्रतिशङ्कावारणाय रसरक्तयोर्द्वयोरुपादानं कृतम् । महाभूतानि पृथिव्यादीनि पञ्च । तद्गुणाः पृथिव्यादिगुणा गन्धरसरूपस्पर्शशब्दाः । इन्द्रियाणि चक्षुःश्रोत्रादीनि । अश्मविकृतिर्गैरिकमनःशिलादिः शब्दयोनिरिति जात्यभिप्रायमेकवचनम् । तेन धातुगणपठिताः क्रियावचना भूवादय उक्ताः । एतानि श्लेष्मादीनि धातुशब्दवाच्यानि । दधाति शरीरादिकमिति धातुः । ʻडुधाञ् धारणपोषणयोḵ । ʻसितनिगमि ॥ । इत्यादिना (उ। १। ७२) तुन्प्रत्ययः ।
ʻसुवर्णं रजतं ताम्रमारकूटं तथैव च ।
लोहं त्रपु तथा सीसं धातवः सप्त कीर्तिताः ॥
इत्युक्ता धातवः चशब्देन सूचिताः ॥ ६४-५ ॥
मल्लि-नाथः - AK.03.03.064-65
कृतान्तो—कर्मसु । सिद्धान्तः शास्त्रभेदः । दैवं शुभाशुभप्रदातृ । अकुशलकर्म पापव्यापारः ॥ श्लेष्मादि—धातवः ॥ महाभूतानि, तद्गुणाः शब्दस्पर्शादयः । अश्मविकृतिः हेममनःशिलादिः । शब्दयोनिर्भूवादिः ॥ ६४-५ ॥
[[०३.३१३]]
मूलम् - ०३.०३.०६६
अक्।०३.०३.०६६अब् कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे ।
अक्।०३.०३.०६६च्द् कासूसामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ॥ ६६ ॥
लिङ्ग-सूरी - AK.03.03.066
सर्वागम्यागारमध्ये शुद्धान्तोऽन्तःपुरो भवेत् ॥ १४१ ॥
शुद्धो रक्षितोऽन्तोऽस्येति शुद्धान्तः ॥
प्रभुमन्त्रादिके कास्वां सामर्थ्ये शक्तिरुच्यते ।
कासूः सर्वलाख्यमायुधम् । शक्यतेऽनया जेतुमिति शक्तिः ।ʻशक्लृ शक्तü ॥
मूर्तिर्बन्धे मोहमित्योः काठिन्योच्छ्रायवर्ष्मसु ॥ १४२ ॥
मूर्च्छ्यत इति मूर्तिः । ʻमुर्च्छा मोहसमच्छ्राययोḵ । ʻमुर्वी बन्धने इति वा धातुः ॥ ६६ ॥
कक्ष्यान्तरे—गोचरे । सप्तम्यन्तपदद्वयं समानाधिकरणं रहस्यभूते राजसम्बन्धिनि प्रकोष्ठ इत्यर्थः । तथा च अजयः—ʻशुद्धान्तोऽन्तःपुरे गुह्यकक्ष्याभेदे च भूपतेḵ इति । अन्तःपुरे प्रागुक्तः (१, पृ। २०२) । शुद्धान्तःकरणे च ॥ कासूसामर्थ्ययोः शक्तिः । कासूः सर्वलाख्य आयुधविशेषः । सामर्थ्यं नाम प्रभुत्वमन्त्रोत्साहजाः शास्त्रप्रसिद्धाः तिस्रः शक्तयः । यथा—ʻषड्गुणाः शक्तयस्तिस्रḵ इति माघः (शिशु। २। २६) । अथवा प्रतिवस्तुगतः कश्चिदतीन्द्रियो धर्मविशेषः सामर्थ्यम् । यथा—अग्नेर्दाहकत्वशक्तिरिति । शब्दस्य वाचकत्वं शक्तिरित्यादि । ʻशक्लृ शक्तü ।करणे भावे क्तिन् (३। ३। ९४) ॥ मूर्तिः काठिन्यकाययोः । काठिन्यं दृढत्वम् । शेषे—ʻउच्छ्रायमोहबन्धेषु मूर्तिः परिमितावपि इति । ʻमुर्च्छा मोहसमुच्छ्राययोḵ । ʻमुर्वी बन्धने । आभ्यां क्तिन् । परिच्छेदः परिमाणं च ॥ ६६ ॥
मल्लि-नाथः - AK.03.03.066
कक्षान्तरे—गोचरे । अन्तःपुरे ॥ कासूसामर्थ्ययोः शक्तिः । कासूरायुधविशेषः । ʻतोमरोऽस्त्री लोहहालदण्डे कासूश्च सर्वला’ इति वैजयन्ती (पृ। ११७, श्लो। १६६) ॥ मूर्तिः काठिन्यकाययोः ॥ ६६ ॥
[[०३.३१५]]
मूलम् - ०३.०३.०६७
अक्।०३.०३.०६७अब् विस्तारवल्ल्योर्व्रततिर्वसती रात्रिवेश्मनोः ।
अक्।०३.०३.०६७च्द् क्षयार्चयोरपचितिः सातिर्दानावसानयोः ॥ ६७ ॥
लिङ्ग-सूरी - AK.03.03.067
लतायामपि विस्तारे व्रततिः परिकीर्त्यते ।
प्रतनोतीति व्रततिः । ʻतनु विस्तारे । पकारस्य वकारः ॥
अवस्थाने मन्दिरे च यामिन्यां वसतिर्भवेत् ॥ १४३ ॥
वसन्त्यत्रेति वसतिः । ʻवस निवासे ॥
पूजायां स्यादपचितिः क्षये त्यागे च निष्कृतौ ।
अपचायनमपचितिः । ʻचायृ पूजानिशामनयोḵ ॥
अवसाने क्षये चापि सातिर्दानेऽपि कथ्यते ॥ १४४ ॥
स्यतीति सातिः । ʻषोऽन्तकर्मणि ॥ ६७ ॥
विस्तारवल्ल्योः प्रततिः । प्रकृष्टा ततिः प्रततिरिति विग्रहे विस्तारार्थत्वम् । बहुव्रीहिसमासेऽपि लतार्थत्वम् । ʻविस्तारे प्रततिवल्ल्याम् इति पवर्गप्रथमादिषु रभसः । केचित्तु व्रततिरिति दन्त्योष्ठ्यमन्तःस्थमाहुः । तथा च व्रतव्रातव्रतत्याद्यर्थं व्रतिधातुरुन्नेय इति श्रीभोजराजः ॥ वसती रात्रिवेश्मनोः । वसन्त्यस्मिन्निति वसतिः । ʻवस निवासे । ʻवहिवस्यर्तिभ्यश्चित् (उ। ४। ६०) इत्यतिप्रत्ययः । शेषे—ʻवसतिः स्यादवस्थाने इति । यथा—ʻवने वसतिरस्माकम् इति ॥ क्षयार्चयोरपचितिः । क्षयः शरीरादेरवयवापगमः । ʻचिञ् चयने इत्यतः क्तिन्प्रत्यये (३। ३। ९४) अपचितिः । उपसर्गवशादर्थान्तरे वृत्तिः । अर्चा पूजा । तत्र तु ʻचायृ पूजानिशामनयोḵ इति धातोः प्राक् व्युत्पादिता (पृ। ४७०) ॥ सातिर्दानावसानयोः । ʻषणु दाने इति धातोर्भावे क्तिनि ʻजनसन ॥ । इत्यादिना (६। ४। ४२) नकारस्याकारादेशे सातिर्दानम् । ʻषोऽन्तकर्मणि इत्यस्माद् ʻऊतियूतिजूतिसातिहेतिकीर्तयश्च्ö (३। ३। ९७) इति सातिरवसानम् । विराम इत्यर्थः । ʻक्षै क्षये इति धातोः ʻआदेच उपदेशेऽशिति (६। १। ४५) इत्यात्वे क्षातिशब्दः (३। ३। ९४) क्षये वर्तते ॥ ६७ ॥
मल्लि-नाथः - AK.03.03.067
विस्तार—अवसानयोः । वेश्मशब्देन जिनवेश्मनोऽपि ग्रहणम् । ʻवसतिस्तु निशि स्थित्यां जैनानामाश्रमे गृहे इति वैजयन्ती (पृ। २४८, श्लो। २३) ॥ ६७ ॥
[[०३.३१६]]
मूलम् - ०३.०३.०६८
अक्।०३.०३.०६८अब् आर्तिः पीडाधनुष्कोट्योर्जातिः सामान्यजन्मनोः ।
अक्।०३.०३.०६८च्द् प्रचारस्यन्दयो रीतिरीतिर्डिम्बप्रवासयोः ॥ ६८ ॥
लिङ्ग-सूरी - AK.03.03.068
धनुष्कोटौ च पीडायामार्तिशब्दोऽभिधीयते ।
अर्द्यतेऽनयेत्यार्तिः । ʻअर्द तर्द पीडायाम् ॥
चुल्लीकम्पिल्लगोत्रेषु छन्दःसामान्यजन्मसु ॥ १४५ ॥
मालतीजातिफलयोर्जातिर्धात्र्यामलङ्कृतौ ।
धात्री आमलकी । जायन्ते नानारूपाण्यत्रेति जातिः । ʻजनी प्रादुर्भावे ॥
आरकूटे प्रचारे च मर्यादाव्यवहारयोः ॥ १४६ ॥
स्यन्दे च लोहकिट्टे च रीतिशब्दोऽभिधीयते ।
रीयत इति रीतिः । ʻरि गतü ʻरीङ् स्रवणे वा ॥
ईतिः स्यादतिवृष्ट्यादौ डिम्बे प्रवसनेऽपि च ॥१४७ ॥
ईयत इतीतिः । ʻईङ् गतü ॥ ६८ ॥
आर्तिः पीडाधनुष्कोट्योः । ʻअर्द गतौ याचने च्ö इत्यत्र याचने चेति एके पेठुरित्युक्तं धातुपारायणे । तस्माद् भाववचनाद् आर्तिः पीडा (३। ३। ९४) । अर्द्यतेऽनयेति व्युत्पत्त्या धनुःकोटिरर्थः । मौर्वीसन्धानप्रदेश इति यावत् । ह्रस्वादिरयं शब्द इति सुभूतिचन्द्रादयः । ʻशिरोऽर्ति नाशयत्याशु रसोऽयं मुचुकुन्दकḵ इत्यादिप्रयोगाश्च तैरेव दर्शिताः । अपरे तु धातोराङ्पूर्वत्वमाश्रित्य दीर्घादिमाहुः । तथा च—ʻयस्य सायं दुग्धं हविरार्तिमार्च्छति इति प्रयोगः ॥ जातिः सामान्यजन्मनोः । भिन्नेष्वभिन्नाभिधानप्रत्ययहेतुद्रव्यादिनिष्ठो धर्मः सामान्यम् इति प्रागभिहितम् (१। ४। ३१) । उत्पत्तिः जन्म । जनेर्धातोः क्रमेण भावे करणे च क्तिन्प्रत्यये ʻजनसनखनाम् ॥ । इत्यात्वे (६। ४। ४२) जातिः । शेषे—ʻजातिर्धात्र्यां च कम्पिल्ले छन्तोऽलङ्कारभेदयोḵ इति । धात्री आमलकी । छन्दोभेदो वृत्तविशेषेषु छन्दोविचित्यां प्रसिद्धः । अलङ्कारविशेषश्च । मालत्यां तु प्रागुक्ता (१, पृ। २५८) ॥ प्रचारस्यन्दयो रीतिः । प्रचारो व्यवहारः । यथा—ʻसतां रीतिमनुस्मरन् इति । ʻप्रकारस्यन्दयोḵ इति केचित् पठन्ति । तत्र तु प्रकारः स्वभाव इत्यर्थः । यथा—चापलं योषितां रीतिरिति । नूतनघटादावतिसूक्ष्मजलकणानां बहिर्निःसरणं स्यन्दः । ʻरि गतü इत्यस्मात् क्तिनि रीतिः । आरकूटे प्रागुक्तः (पृ। ६११) । ʻप्रवाहस्यन्दयो रीतिर्लोहकिट्टारकूटयोḵ इति रुद्रश्च ॥ ईतिर्डिम्बप्रवासयोः । डयन्ते पलायन्तेऽनेनेति डिम्बः उपद्रवः । ʻडीङ् विहायसा गतü । डिम्बप्रत्ययः । स चोपद्रवो बहुविधः ।
ʻअतिवृष्टिरनावृष्टिः शलभा मूषिकाः शुकाः ।
अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥
इत्युक्तः । स्वग्रामादन्यत्र वासः प्रवासः । ईयन्ते देशान्तरं गच्छन्त्यनयेति ईतिः । ʻईङ् गतü । दिवादिः ॥ ६८ ॥
मल्लि-नाथः - AK.03.03.068
अर्तिः पीडाधनुष्कोट्योः । पीडायां दीर्घादिश्च स्यात् । अर्तेराङ्पूर्वत्वात् क्तिनि प्रादीनाम ʻऋति धातü (६। १। ९१) इत्यात्वमिति षिद्भिदादिसूत्रे (३। ३। १०४) जिनेन्द्रः ॥ जातिः सामान्यजन्मनोः । सामान्यं गोत्वादि । प्रचारस्यन्दयो रीतिः । प्रचारः कुलाचारः ॥ ईतिर्डिम्बप्रवासयोः । डिम्बः अतिवृष्ट्यादिः ॥ ६८ ॥
[[०३.३१८]]
मूलम् - ०३.०३.०६९
अक्।०३.०३.०६९अब् उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे ।
अक्।०३.०३.०६९च्द् वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि ॥ ६९ ॥
लिङ्ग-सूरी - AK.03.03.069
महोदये व्यधिगमे प्राप्तिशब्दोऽभिधीयते ।
प्राप्यत इति प्राप्तिः । ʻआप्लृ व्याप्तü ॥
अग्नीनां त्रितये त्रेता युगेऽपि परिकथ्यते ॥ १४८ ॥
त्रीन् धर्मपादानग्नीन् इता प्राप्ता त्रेता ॥
विशाले च त्रिलिङ्ग्यां स्याद् महद् राज्य तु न द्वयोः ।
शततन्त्रीविपञ्च्यां तु महती परिकीर्तिता ॥ १४९ ॥
मंहत इति महती । ʻमहि बृहि वृद्धü ॥
प्राप्तौ मातङ्गशृङ्गारे सत्तायामवकल्कने ।
सम्पत्तिभस्मजननेष्वपि भूतिरुदाहृता ॥ १५० ॥
भवतीति भूतिः । ʻभू सत्तायाम् । ʻभू अवकल्कने ॥ ६९ ॥
उदयेऽधिगमे प्राप्तिः । उदयो लाभः । अधिगमः सम्बन्धः । प्रपूर्वादाप्नोतेः क्तिनि प्राप्तिः (वा। ३। ३। ९४) । शक्तिशब्दाद्या (श्लो। ६६) एतदन्ता एकादश प्रत्ययवशेन स्त्रीलिङ्गाः ॥ त्रेता त्वग्नित्रये युगे । अग्नित्रयं गार्हपत्यादिकम् । त्रेता साध्ययज्ञानुष्ठानयोगाद् युगमपि त्रेताशब्देनोच्यते । तदुक्तम्—ʻध्यायन् कृते यजन् यज्ञैस्त्रेतायाम् इत्यादि । अथवा—त्रीन् धर्मस्य पादान् इता प्राप्ता त्रेता । तदुक्तम्—ʻत्रेतायुगे समायाते धर्मः पादोनतां गतḵ इति । पृषोदरादित्वाद् वर्णव्यत्ययः ॥ वीणाभेदेऽपि महती । नारदसम्बन्धिनी वीणेत्यर्थः । तदुक्तं स्वरप्रकरणे—
ʻविश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती ।
महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥
इति । मह्यत इति महती । ʻमह पूजायाम् । ʻवर्तमाने पृषन्महद्बृहत् ॥ । इत्यादिना (उ। २। ८४) शतृवद्भावे ङीप् । अपिशब्दाद् महत्त्वगुणयुक्ता शालामालादिका या काचित् ॥ भूतिर्भस्मनि सम्पदि । भस्म भसितम् । भवत्यनया श्रीमानिति भूतिः । भवतादिति वा । ʻक्तिच्क्तौ च सञ्ज्ञायाम् (३। ३। १७४) इति कर्तरि क्तिच् । ʻभूतिर्मातङ्गशृङ्गारे सत्तायामपि जन्मनि इति । ʻभू सत्तायाम् ʻभू प्राप्तü ʻभुवोऽवकल्कने यथायोगं धातवः । ऐश्वर्ये प्रागुक्ता (१। पृ। २७) ॥ ६९ ॥
मल्लि-नाथः - AK.03.03.069
उदयेऽधिगमे प्राप्तिः । अधिगमो लाभः । त्रेता—महती । ʻमहद् राज्ये विशाले च महती वल्लकीभिदि इति विश्वः (पृ। ६७, श्लो। १३८) ॥ भूतिर्भस्मनि सम्पदि । मातङ्गशृङ्गारेऽपि स्यात् । ʻभूतिर्मातङ्गशृङ्गारे जातौ भस्मनि सम्पदि इति विश्वः (पृ। ६१, श्लो। ५७) ॥ ६९ ॥
[[०३.३१९]]
मूलम् - ०३.०३.०७०
अक्।०३.०३.०७०अब् नदीनगर्योर्नागानां भोगवत्यथ सङ्गरे ।
अक्।०३.०३.०७०च्द् सङ्गे सभायां समितिः क्षयवासावपि क्षितिः ॥ ७० ॥
लिङ्ग-सूरी - AK.03.03.070
नदीपुर्योभुजङ्गानां मानवंशजयोषिति ।
स्याद् भोगवती कौटिल्यभुक्तिरक्षावतीषु च ॥ १५१ ॥
भोगो भुक्तिः कौटिल्यं वास्यास्तीति भोगवती ॥
समितिः स्यात् सभायां च समाने युधि सङ्गमे ।
समानमिति युक्तम् । संयच्छन्ते सङ्गच्छन्तेऽत्रेति समितः । ʻयम उपरमे ॥
क्षये वासे गतौ भूम्यां हिंसायां क्षितिरुच्यते ॥ १५२ ॥
क्षीयत इति क्षितिः । ʻक्षि निवासगत्योḵ । ʻक्षि क्षये । ʻक्षिणु हिंसायाम् ॥ ७० ॥
नदी—भोगवती । नागलोके तत्रस्थनदीविशेषे च सर्पशरीरयोगाद् उपभोगयोगाद्वा प्रत्येकं भोगवतीशब्दः । भोगशब्दस्य कौटिल्याद्यनेकार्थवृत्तित्वाद् मतुप्प्रत्यये भोगयोगिन्यां स्त्रियामपि भोगवतीशब्दो वेदितव्यः ॥ अथ सङ्गरे—समितिः । सम्भूय यन्ति गच्छन्त्यत्रेति समितिः युद्धम् । सभा च । सम्बन्धरूपार्थे तु भाववचनः । ʻइण् गतü । क्तिन् । युद्धपर्यायेषु समितिशब्दोक्त्या प्रत्ययतः स्त्रीलिङ्गत्वम् ॥ क्षयवासावपि क्षितिः । क्षयो नाशः । वासो गृहम् । ʻक्षि क्षये इति धातोः भावे क्तिनि नाशार्थत्वम् । क्षियन्ति निवसन्त्यत्रेति अधिकरणार्थे विवक्षायां क्षितिः गृहम् । ʻक्षिणु हिंसायाम् इति धातोः क्तिनि ʻअनुदात्तोपदेश ॥ । इत्यादिना (६। ४। ३७) अनुनासिकलोपे क्षितिशब्दो हिंसावचनः । भूमिपर्यायेषु प्रागुक्तः (पृ। १८५ ) ॥ ७० ॥
मल्लि-नाथः - AK.03.03.070
नदीनगर्योः—क्षितिः ॥ ७० ॥
[[०३.३२०]]
मूलम् - ०३.०३.०७१
अक्।०३.०३.०७१अब् रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः ।
अक्।०३.०३.०७१च्द् जगती जगति च्छन्दोविशेषेऽपि क्षितावपि ॥ ७१ ॥
लिङ्ग-सूरी - AK.03.03.071
वह्नौ तेजसि सूर्यांशौ शस्त्रे हेतिरुदाहृतः ।
हिनोतीति हेतिः । ʻहि गतौ वृद्धौ च्ö ॥
छन्देभेदे क्षितौ चैव जने च जगती मता ॥ १५३ ॥
विष्टपे जङ्गमे वाते जगच्छब्द उदाहृतः ।
जङ्गम्यत इति जगती । ʻगम्लृ सृप्लृ गतü ॥ ७१ ॥
रवेरर्चिश्च—हेतयः । हन्यतेऽनया तमः शत्रुर्वेति हेतिः । ʻऊतियूतिजूतिसातिहेतिकीर्तयश्च्ö (३। ३ ९७) इति निपातितः । क्तिन्नन्तस्यापि शस्त्रवचनस्य पुंलिङ्गत्वमस्ति । तथा च—ʻहेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् इति रघुवंशे (१०। १२) । ʻनिमार्ष्ट्यसौ नीतिमयेन हेतिना’ इति कप्फणाभ्युदयेऽपि (२। ३८) ॥ जगती—क्षितावपि । जगती भुवनमात्रे, छन्दोविशेषे द्वादशाक्षरपादे च । क्षतिर्भूमिः (पृ। १८८) ॥ ७१ ॥
मल्लि-नाथः - AK.03.03.071
रवेरर्चिंश्च—क्षितावपि । ʻजगति भुवने क्ष्मायां छन्दोभेदे जनेऽपि च्ö इति विश्वः (पृ। ६७, श्लो। १३९) ॥ ७१ ॥
[[०३.३२१]]
मूलम् - ०३.०३.०७२
अक्।०३.०३.०७२अब् पङ्क्तिश्छन्दोऽपि दशमं स्यात् प्रभावेऽपि चायतिः ।
अक्।०३.०३.०७२च्द् पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः ॥ ७२ ॥
लिङ्ग-सूरी - AK.03.03.072
पङ्क्तिः स्याद् दशमच्छन्दोदशसङ्ख्यावलीष्वपि ॥ १५४ ॥
पञ्च्यत इति पङ्क्तिः । ʻपचि विस्तारे ॥
आगामिकाले यमने प्रभावे दैर्घ्य आयतिः ।
यमनं संयमः । आयम्यत इत्यायतिः ॥
गतौ वीरे सैन्यभेदे पदातौ पत्तिरुच्यते ॥ १५५ ॥
पद्यत इति पत्तिः । ʻपद गतü ॥
अर्धमासस्य मूले स्यात् पक्षमूले च पक्षतिः ।
पक्षयोर्मूलं पक्षतिः ॥ ७२ ॥
पङ्क्तिश्छन्दोऽपि दशमम् ।
ʻउक्तात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥
इति (छ। म। १। १६) पाठक्रमेण पङ्क्तिच्छन्दसो दशमत्वम् । द्वे परिमाणेऽस्य छन्दस इति पङ्क्तिः । ʻपङ्क्तिविंशतित्रिंशत् ॥ । इत्यादि (५। १। ५९) निपातनात् साधुः । ʻवीथ्यालिरावलिः पङ्क्तिḵ इत्युक्तम् (पृ। २१६) । पङ्क्तेः शतसहस्रादित्यादिना दशत्वसङ्ख्यायामप्युक्तः ॥ स्यात् प्रभावेऽपि चायतिः । प्रभावः प्रभुत्वशक्तिः । ʻआयतिस्तूत्तरे काले स्याद् दीर्घत्वप्रभुत्वयोḵ इत्यजयः । पत्तिर्गतौ च । गतिर्गमनम् । ʻपद गतü । ʻपत्लृ गतü इति वा । क्तिन् । ʻपत्तिः पदातौ पुंसि स्यात् सैन्यभेदे गतौ स्त्रियाम् इति नानार्थसङ्ग्रहः । ʻएकेभैकरथा’ इति प्रागुक्तः (पृ। ५२९) ॥ मूले तु पक्षतिः पक्षभेदयोः । इह पक्षशब्दस्य द्वावर्थौ । शुक्लः कृष्णो वा अर्धमासरूपकः । अपरस्तु हंसमयूरादिपत्त्ररूपः । तयोरुभयोः पक्षयोर्मूलयोः प्रतिपदि गरुत्प्ररोहभङ्गे च प्रत्येकं पक्षतिशब्दो वर्तत इत्यर्थः ॥ ७२ ॥
मल्लि-नाथः - AK.03.03.072
पङ्क्तिश्छन्दोऽपि दशमम् । आवलिदशसङ्ख्ययोरपि स्यात् ॥ स्यात् प्रभावेऽपि चायतिः । आयामागामिकालयोरपि स्यात् । पत्तिर्गतौ च । पदातावपि स्यात् ॥ मूले—पक्षभेदयोः । पक्षभेदौ गरुत्तिथिसमुदायौ । तयोर्मूले ॥ ७२ ॥
[[०३.३२३]]
मूलम् - ०३.०३.०७३
अक्।०३.०३.०७३अब् प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः ।
अक्।०३.०३.०७३च्द् सिकताः स्युर्वालुकापि वेटे श्रवसि च श्रुतिः ॥ ७३ ॥
लिङ्ग-सूरी - AK.03.03.073
प्रजायां धातुलिङ्गादौ सहजे परमात्मनि ॥ १५६ ॥
अमात्ये च प्रधाने च योनौ प्रकृतिरुच्यते ।
योनिरुपादानकारणम् । प्रक्रियत इति प्रकृतिः ॥
कैशिकीभारतीत्यादौ कृष्यादौ वर्तनेऽपि च ॥ १५७ ॥
काशिकादौ विवरणे वृत्तिशब्दोऽभिधीयते ।
वर्ततेऽनयेति वृत्तिः । ʻवृतु वर्तने ॥
शर्करायां वालुकायां रोगभेदे तथैव च ॥ १५८ ॥
वालुकान्वितदेशेऽपि सिकताः परिकीर्तिताः ।
सिकताशब्दव्युत्पत्तिरुन्नेया ॥
शास्त्रे स्वराङ्गे श्रवणे वेदवृत्तान्तयोरपि ॥ १५९ ॥
श्रोत्रे श्रोत्रक्रियायां च श्रुतिशब्दोऽभिधीयते ।
श्रूयत इति श्रुतिः । ʻश्रु श्रवणे ॥ ७३ ॥
प्रकृतिर्योनिलिङ्गे च । घटाद्युपादानं मृदादिकं योनिः । यथा भूतप्रकृतीनि शरीराणि । लिङ्गं स्त्रीपुन्नपुंसकमिति । यथा—तृतीया प्रकृतिः । प्रक्रियतेऽनया कार्यमिति प्रकृतिः (३। ३। ९४) । प्रधाने (१, पृ। ८९), राज्याङ्गेषु सप्तसु (पृ। ४९३), स्वभावे च (पृ। १४४) प्रागुक्ता । कृत्तद्धितप्रत्ययानां प्रथमभागादौ तु प्रातिपदिकादिभागाश्च प्रकृतिशब्देनोच्यन्ते । यथा—ʻप्रकृतिप्रत्यययोरिवानुबन्धḵ इति भारविः (किरा। १३। १९) । ʻदर्शपूर्णमासाविष्टीनां प्रकृतिḵ इत्यादौ प्रकृतिशब्दः स्वभाववचनः । विकृतिभूतानामन्वारम्भणीयानां देवतायामितिकर्तव्यतायां वा यत्किञ्चिद्वैरूप्याद् विकृतित्वम् ॥ कैशिक्याद्याश्च वृत्तयः । आद्यशब्देन—
ʻकैशिकी सात्वती चैव भारत्यारभटी तथा ।
चतस्रो वृत्तयस्तेषां यासु नाट्यं प्रतिष्ठितम् ॥
इत्युक्तानां (ना। शा। ६। २५) ग्रहणम् । तल्लक्षणानि च सङ्गीतसारे कथितानि—
ʻएवं नाट्ये विधातव्यो नायकः सपरिच्छदः ।
तद्व्यापारात्मिका वृत्तिश्चतुर्धा तत्र कैशिकी ॥
गीतनृत्तविलासाद्यैर्मृदुशृङ्गारचेष्टितैः ।
सात्वती कार्यसंरोषत्यागधैर्यदयोज्ज्वलैः ॥
भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ।
मायेन्द्रजालसङ्ग्रामक्रोधभ्रान्त्यादिचेष्टितैः ॥
विज्ञेयारभटी तज्ज्ञैः ॥
इति । ʻस्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयḵ इत्युक्ताः (पृ। ५५४) जीविकायामपि । स्वभावे यथा—साधुवृत्तिरिति । सूत्रव्याख्याने च यथा—काशिकावृत्तिः, लघुवृत्तिरिति ॥ सिकताः स्युर्वालुकापि । वालुकाशब्देन शुष्कनदीमध्यगतः सर्षपादप्यल्पपरिमाणः पाषाणप्रायो मृद्विशेषः उच्यते । सा बहुवचनान्तेन स्त्रीलिङ्गेन सिकताशब्देनोच्यते । ʻबहवश्च समाः सिकताḵ इति वामनीयलिङ्गानुशासनोक्तेर्बहुवचननियमः (पृ। १६, श्लो। २३) । अपि च ʻषिच क्षरणे इति सिच्यन्ते जलैरिति व्युत्पत्त्या सूत्रनिर्देशात् (५। २। १०४) सिकताशब्दः साधुरिति केचिदाहुः । ʻछन्दसि निष्टर्क्य ॥ । इति सूत्रे (३। १। १२३) कसेः सिकताशब्द इति महाभाष्यकारः (म। भा। पृ। ८७) । अपिशब्देन सिकतावान् देशोऽपि सिकताः । अत्र हि ʻसिकताशर्कराभ्यां च्ö (५। २। १०४) इत्युत्पन्नस्य मत्वर्थीयस्य ʻदेशे लुबिलचौ च्ö (५। २। १०५) इति लुपि सति व्यक्तिवचनयोः युक्तवद्भावेन स्त्रीत्वे बहुत्वे च सिकता इत्येव, एकवचनान्तेन पुण्ड्रेक्षुविकारः सिकता शर्करोच्यत इत्याहुः ॥ वेदे श्रवसि च श्रुतिः । श्रवसि कर्णे । चशब्देन षड्जादिस्वरांशे यथा—ʻपृथग्विभिन्नश्रुतिमण्डलैः स्वरैḵ इति (शिशु। १। १०) । श्रवणक्रियायां वार्तायां च ॥ ७३ ॥
मल्लि-नाथः - AK.03.03.073
प्रकृतिर्योनिलिङ्गे च । लिङ्गं तत्त्वविशेषः । ʻलिङ्गं चिह्नेऽनुमानेऽपि साङ्ख्योक्तप्रकृतावपि इति विश्वः (पृ। २५, श्लो। २०) । कैशिक्याद्यश्च वृत्तयः । ʻवृत्तिर्विवरणे जीव्ये कैशिक्यादिषु चेष्यते इति विश्वः (पृ। ६१, श्लो। ५८) सिकताः स्युर्वालुकापि । वालुकावत्प्रदेशेऽपि स्यात् । बहुत्वं केषाञ्चिदसम्मतम् ।
ʻसिकता वालुकायां स्युः सिकताप्यामयान्तरे ।
सिकतान्वितदेशे च शर्करायां च कीर्तिता ॥
इति विश्वः (पृ। ६८, श्लो। १५०) ॥ वेदे श्रवसि च श्रुतिः । श्रवः श्रवणकर्मण्यपि स्यात् ॥ ७३ ॥
[[०३.३२५]]
मूलम् - ०३.०३.०७४
अक्।०३.०३.०७४अब् वनिता जनितात्यर्थानुरागायां च योषिति ।
अक्।०३.०३.०७४च्द् गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः ॥ ७४ ॥
लिङ्ग-सूरी - AK.03.03.074
याचिते सेविते प्राप्ते वनितं स्यात् त्रिलिङ्गकम् ॥ १६० ॥
अत्यन्तजातानुरागयोषायां वनिता भवेत् ।
वन्यत इति वनिता । ʻवन षण सम्भक्तü । ʻवनु याचने ॥
कारागृहे शैलदुर्गे गुप्तिर्भूगर्तरक्षयोः ॥ १६१ ॥
गुप्यत इति गुप्तिः । ʻगुपू रक्षणे ॥
योगान्तरे धारणे च सप्ततन्तौ सुखेऽपि च ।
धैर्यसन्तोषयोश्चैव धृतिशब्द उदाहृतः ॥ १६२ ॥
ध्रियत इति धृतिः । ʻधृञ् धारणे । ʻधृङ् अवस्थाने ॥ ७४ ॥
वनिता—योषिति । स्वकीयपुरुषे जनित उत्पादितोऽतिशायितो ऽनुरागः प्रेमा । तथाभूतायां स्त्रियां योषिन्मात्रे च वनिताशब्दः । ʻवन सम्भक्तü । ʻवनु याचने इति धातुभ्यां क्तप्रत्यये वनिताशब्दो वाच्यलिङ्गोऽवगन्तव्यः ॥ गुप्तिः क्षितिव्युदासेऽपि । क्षितिव्युदासो भूगर्तः । तथा च शाश्वतः—ʻगुप्तिः कारा च रक्षा च दीर्णं च विवरं भुवḵ इति । कारा बन्धनागारम् । ʻगुप्तिस्फोटमर्कः करोति इति प्रयोगः । रक्षणम् । ʻगुपू रक्षणे इत्यस्माद् अधिकरणे भावे च क्तिन् (३। ३। ९४) ॥ धृतिर्धारणधैर्ययोः । द्रव्यस्य पतनप्रतिबन्धकरणं धारणम् । सत्यपि दुःखकारणे विषादराहित्यं धैर्यम् । ध्रियतेऽवतिष्ठतेऽनेनेति धृतिर्धैर्यम् । शेषे—ʻधृतिः स्त्रियां योगभेदे छन्दोभेदे सुखेऽध्वरे इति । योगभेदो विष्कम्भादिष्वष्टमः । छन्दोभेदो ऽष्टादशाक्षरपादः । सुखे यथा—ʻकामिभिर्बहुरसा धृतिरूपे इति (किरा। ९। ४०) ॥ ७४ ॥
मल्लि-नाथः - AK.03.03.074
वनिता—योषिति । योषिन्मात्रेऽपि स्यात् ॥ गुप्तिः क्षितिव्युदासेऽपि । क्षितिव्युदासो भूगर्तः । ʻपान्तर्ö । ʻगुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणे यमे इति विश्वः (पृ। ६१, श्लो। ६१) ॥ धृतिर्धारणधैर्ययोः । सुखेऽपि स्यात् । ʻधृतिः सौख्येऽपि धारणे इति वैजयन्ती (पृ। २२१, श्लो। २०) ॥ ७४ ॥
[[०३.३२७]]
मूलम् - ०३.०३.०७५
अक्।०३.०३.०७५अब् बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि ।
अक्।०३.०३.०७५च्द् वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ ७५ ॥
लिङ्ग-सूरी - AK.03.03.075
कण्टकार्यां वारीधान्यां छन्दोवसनवाक्षु च ।
बृहती क्षुद्रवार्ताक्यां महत्यां त्रिषु कीर्तिता ॥ १६३ ॥
बृहतीति बृहती । ʻबृह बृहि वृद्धü ॥
करिण्यामङ्गनायां च वाशिता वासिता मता ।
वाश्यत इति वाशिता । ʻवश कान्तü । ʻवाशृ शब्दे ॥
वृत्तावुदन्ते कृष्यादौ वार्ताशब्दः प्रकीर्तितः ॥ १६४ ॥
कृष्यादिवृत्तिरत्रास्तीति वार्ता । ʻवृतु वर्तने ॥ ७५ ॥
बृहती—महत्यपि । क्षुद्रवार्ताकी हिङ्गुली । छन्दोविशेषो नवाक्षरपादः । ʻषट्त्रिंशदक्षरा बृहती इति श्रुतेः (जै। ब्रा। २। ३०) । सा हि अनुष्टुबपेक्षया बृहत्त्वात् बृहती । बृहत्त्वगुणयुक्ता या काचन स्त्रीलिङ्गाभिधेया रथ्याशाखादिका । अपिशब्दात् कण्टकारी च (पृ। १, २७०) ॥ वासिता स्त्रीकरिण्योश्च । स्त्री योषिन्मात्रम् । करिणी हस्तिनी । रक्षणार्थं गृहे वास्यत इति वासिता । ʻवस निवासे । दन्त्योष्ममध्यः । ʻस्त्रियां स्त्रीमात्रवर्तिन्योर्वासिता भाविते त्रिष्ü इति रुद्रोक्तत्वात् । अत्रैव शेषकारोऽप्याह—ʻवासितं कृतवासे स्याच्छादिते स्तम्भित त्रिष्ü इति । कृतवासे कर्पूरादिद्रव्यान्तरमिश्रणेन सुरभीकृत इत्यर्थः । ʻतुल्ये भावितवासिते (पृ। ५८१) इत्यत्र ʻवासितं भावितं त्रिष्ü (पृ। ४४५) इत्यन्यत्र वायं शब्दो दर्शितः । छादिते तु ʻवस आच्छादने इति धातुः । स्तम्भितार्थे तु ʻवसु स्तम्भे इति धातुः । उभाभ्यां णिचि कर्मणि क्तप्रत्ययः । वाशितेति तालव्यमध्यं पठित्वा कश्चिदाचष्ट । तत्र किं वा मूलमिति स एव प्रष्टव्यः । वार्ता वृत्तौ जनश्रुतौ । वृत्तिः जीवनोपायः । जनश्रुतिः किंवदन्ती । उभयत्र रूपभेदात् स्त्रीलिङ्गः । वृत्तिर्वर्तनमस्त्यत्रेति वार्ता । ʻप्रज्ञाश्रद्धार्चावृत्तिभ्यो णḵ (५। २। १०१) इति णप्रत्ययः ॥ ७५ ॥
मल्लि-नाथः - AK.03.03.075
बृहती—महत्यपि । वासिता स्त्रीकरिण्योश्च । दन्त्यमध्यः । ʻवासिता करिणीनार्योर्वासितं सुरभीकृते इति विश्वः (पृ। ६८, श्लो। १५१) ॥ वार्ता वृत्तौ जनश्रुतौ ॥ ७५ ॥
[[०३.३२८]]
मूलम् - ०३.०३.०७६
अक्।०३.०३.०७६अब् वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते ।
अक्।०३.०३.०७६च्द् कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥
लिङ्ग-सूरी - AK.03.03.076
आरोग्यफल्गुनोर्वार्तं नपुंसकमुदाहृतम् ।
घृतमाज्ये प्रदीप्ते च सलिलेऽपि त्रिलिङ्गकम् ॥ १६५ ॥
जिघर्तीति घृतम् । ʻघृ क्षरणदीप्त्योḵ ॥
अमृतं यज्ञशेषे च पीयूषे सलिले घृते ।
अयाचिते च मोक्षे च षट्सु क्लीबमुदाहृतम् ॥ १६६ ॥
पथ्या धात्री गुलूची स्त्री ना तु धन्वन्तरौ सुरे ।
न म्रियतेऽनेनेत्यमृतम् ॥
कलधौतं रूप्यहेम्नोः कलधौतः कलध्वनौ ॥ १६७ ॥
कलः कालिका धौतोऽस्येति कलधौतम् । ʻधावु गतिशुद्ध्योḵ ॥
हेतौ च लक्षणे चैव निमित्तं परिकथ्यते ।
नितरां मीयत इति निमित्तम् । ʻमाङ् माने ॥ ७६ ॥
वार्तं—त्रिषु । फल्गुनि निःसारे रूपभेदाद् नपुंसकत्वम् । यथा—वार्तरहितमेतत् इति । रोगरहिते तु वाच्यलिङ्गः ॥ अप्सु च घृतामृते । घृतममृतं चेति शब्दद्वयं जले । चशब्दाद् घृतशब्द आज्ये प्रदीप्ते च । यथा—घृतप्रतीकः इति (तै। ब्रा। १। २। १। ११) । अमृतशब्दः पीयूषादौ । तथा च व्याडिः—
ʻअमृतं वारिसुरयोर्निर्वाणे चातिसुन्दरे ।
अयाचिते यज्ञशेषे पुंसि धन्वन्तरौ भवेत् ॥
इति । अभयागुलूच्यामलकीषु स्त्रीलिङ्गाः प्रागुक्ताः (पृ। २५०, २६४, २४८) ॥ कलधौतं रूप्यहेम्नोः । रूप्यं रजतम् । हेम सुवर्णम् ॥ निमित्तं हेतुलक्ष्मणोः । हेतुः कारणम् । यथा—विद्यानिमित्तो धनलाभः । लक्ष्म शुभाशुभावेदकं भुजनेत्रस्पन्दनादिकम् । ʻनिमित्तं सूचयित्वा’ इति । ʻनिमित्तं कारणे चिह्नम् इत्यजयश्च । हेतुलक्ष्ययोः इति पाठे लक्ष्यं शरव्यम् । यथा—
ʻनिमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् । (शिशु। २। २७ ब्।)
ʻवेध्यं लक्ष्यं शरव्यं च निमित्तं च समं विदुः ॥
इति रङ्गराजोदाहृतमभिधानं च । नितरां मेद्यति स्म निमित्तम् । ʻञिमिदा स्नेहने । ʻस्नुक्रमोरनात्मनेपदनिमित्ते (७। २। ३६) इति निर्देशाद् निष्ठानत्वस्याभावः ॥ ७६ ॥
मल्लि-नाथः - AK.03.03.076
वार्तं—त्रिषु । अरोगे तु त्रिष्विति रोगरहिते त्रिलिङ्गः । आरोग्ये नपुंसकमेव । ʻवृत्तिमन्नीरुजोर्वार्ता वार्तमारोग्यफल्गुनोḵ इति विश्वः (पृ। ६०, श्लो। ४६) ॥ अप्सु च घृतामृते । आज्यपीयूषयोरपि स्याताम् । कलधौतं रूप्यहेम्नोः । कलस्वने त्रिलिङ्गः । ʻकलधौतं रूप्यहेम्नोः शण्डे त्रिषु कलध्वनü इति वैजयन्ती (पृ। २७७, श्लो। ५) ॥ निमित्तं हेतुलक्ष्मणोः । लक्ष्म शुभाशुभसूचकम् । ʻशकुनं च निमित्तं च सुखादेः सूचकेऽपि च्ö इति वैजयन्ती (पृ। २७४, श्लो। १६) ॥ ७६ ॥ </Amarapadaparijata
%%p. 03.330
AK.03.03.077ab śrutaṃ śāstrāvadhṛtayoryugaparyāptayoḥ kṛtam .
AK.03.03.077cd atyāhitaṃ mahābhītiḥ karma jīvānapekṣi ca .. 77 ..
लिङ्ग-सूरी - AK.03.03.077
श्रुतं शास्त्रे चावधृते नपुंसकमुदाहृतम् ॥ १६८ ॥
श्रूयते विद्वद्भिरिति श्रुतम् ॥
कृतं युगेऽपि पर्याप्ते विहिते हिंसिते फले ।
क्रियतेऽनेनेति कृतम् । ʻडुकृञ् करणे ॥
अत्याहितं महाभीतौ जीवानाकाङ्क्षिकर्मणि ॥ १६९ ॥
आहितमतिक्रान्तमत्याहितम् ॥ ७७ ॥
श्रुतं शास्त्रावधृतयोः । शास्त्रं व्याकरणादि । यथा—बहुश्रुतो विप्रः । अवधृतमाकर्णितम् । यथा—बहुधाश्रुतोऽयमर्थ इति । ʻश्रु श्रवणे । कर्मणि क्तः (३। २। १०२) ॥ युगपर्याप्तयोः कृतम् । कृतं युगाख्यं प्रथमम् । पर्याप्तमिति भावे निष्ठा । पर्याप्तिः निवारणमित्यर्थः । शेषे—ʻकृतं फले क्रियायां च वाच्यवद्विहिते हते इति । फले यथा—ʻतपसः कृतमेतद्धि यदीश तव दर्शनम् इति । क्रियायां यथा—कृतस्य प्रतिकृतमासीदिति । विहिते यथा—कृतमाह्निकमिति । हते यथा—उपाकृतः पशुरिति । ʻकृते पशौ पुरोडाशं निर्वपति इति ॥ अत्याहितं—जीवानपेक्षि च । पुत्रमरणाद्यनिष्टशङ्काजनितं भयमत्याहितम् । जीवानपेक्षि कर्म भृगुपतनव्याघ्रयोधनादिसाहसम् । दधातिरुपसर्गद्वयवशादर्थविशेषे वर्तते । शेषे—ʻअत्याहितमुपश्लिष्टे इति । अत एव अत्याधानमुपश्लेषणम् इति काशिका च (१। ४। ७५, पृ। ७८) ॥ ७७ ॥
मल्लि-नाथः - AK.03.03.077
श्रुतं—जीवानपेक्षि च ॥ ७७ ॥
[[०३.३३१]]
मूलम् - ०३.०३.०७८
अक्।०३.०३.०७८अब् युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु ।
अक्।०३.०३.०७८च्द् वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ॥ ७८ ॥
लिङ्ग-सूरी - AK.03.03.078
भूतं क्ष्मादौ पिशाचादौ न्याये सत्यसमानयोः ।
समेऽतीते देवलके वृत्ते प्राप्तेऽभिधेयवत् ॥ १७० ॥
भवतीति भूतम् ॥
वृत्तोऽतीते दृढे ख्याते वर्तुलेऽपि वृते मृते ।
वाच्यवद् वर्तते वृत्तं चारित्रच्छन्दसोरपि ॥ १७१ ॥
वृत्यत इति वृत्तम् । ʻवृतु वर्तने ॥ ७८ ॥
युक्ते—समे त्रिषु । युक्तं न्यायम् । युक्ते यथा—ʻविद्वांसो भूतकारिणḵ इति । क्ष्मादौ पृथिव्यादिपञ्चके यथा—ʻपञ्चानामपि भूतानाम् इति (रघु। ४। ११) । ऋते सत्ये यथा—ʻभूतमप्यनुपन्यस्तं हीयते व्यवहारतḵ इति (या। स्मृ। २। २। १९) । अत्रार्थत्रयेऽपि रूपभेदाद् नपुंसकलिङ्गो भूतशब्दः । प्राण्यतीत इति द्वन्द्वैकवद्भावः । तत्र प्राणिशब्देन तद्विशेषः । ʻपिशाचो गुह्यकः सिद्धो भूतḵ इत्युक्ताः विवक्षिताः (१, पृ। १०) । तत्र स्वभावादेव भूतशब्दः स्त्रीलिङ्गः । यथा—ʻये भूताः प्रचरन्ति दिवानक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याḵ (तै। आ। १०। ६७। २) इति । ʻभूतानि यानीह वसन्ति तानि इति । अतीते निष्पन्ने यथा—भूतो घटः, भूतमन्नम्, प्रभूता सम्पत् । समे सदृशे यथा—पितृभूतो ज्येष्ठः, मातृभूता भगिनी, गृहभूतं तरुतलम् इत्यादि । भूतशब्दस्य समासोत्तरपदत्वे सत्येव तादृशार्थत्वम् । न तु विगृहीतस्य । ʻस्युरुत्तरपदेत्वमी निभसङ्काश्ö इत्यादिना (पृ। ६४२) प्रागप्ययमर्थो दर्शितः । सुभूतिचन्द्रस्तु—प्राण्यतीत इत्यत्र प्राणीति प्रथमान्तं छित्वा सकलमपि शरीरमात्रं रूपभेदादेव नपुंसकलिङ्गभूतवाच्यमिति व्याचष्ट । यथा—ʻतं भूतान्यभ्यक्रोशन् इति । ʻयां सदा सर्वभूतानि इति । शेषे—ʻभूतो देवलके पुंसि त्रिषु प्राप्तेऽवकल्किते इति । प्राप्ते यथा—कञ्चित्प्रकारं प्राप्त इत्थम्भूतः । ʻभू प्राप्तü इति धातुश्च । ʻभुवोऽवकल्कने इत्यत्र अवकल्कनं चिन्तनमिति धातुवृत्तौ । यथा—ʻत्वद्भूताः सुखमेधन्ते मम प्रकृतयः सदा’ इति । त्वद्भूताः त्वया चिन्तिता इत्यर्थः । विकल्कन इति पाठे विकल्कनं विपापकरणम् । यथा—ʻतपोभूतात्मनो युष्मान् इति । तपसा निष्पापी कृतात्मन इत्यर्थः । अनुकल्कन इति पाठेऽनुकल्कनं मिश्रीकरणम् । यथा—दध्ना भूत ओदन इति । विश्वप्रकाशेऽपि —
ʻभूतं क्ष्मादौ पिशाचादौ न्याय्ये सत्योपमानयोः ।
भूतो देवलके प्राप्ते तथा वृत्तेऽभिधेयवत् ॥
इति (पृ। ५७-८, श्लो। १७) ॥ वृत्तं—दृढनिस्तले । पद्यं छन्दोबद्धपादम्, इन्द्रवज्रादि । चरित्रं शीलम् । उभयत्र रूपभेदाद् नपुंसकम् । दृढे यथा—वृत्तावयवसंस्थाने इति । निस्तलं वर्तुलम् । अतीताद्यर्थत्रये वाच्यलिङ्गः ॥ ७८ ॥
मल्लि-नाथः - AK.03.03.078
युक्ते—समे त्रिषु । त्रिष्विति यथासम्भवं विशेषणम् । ʻखादौ जन्तौ च भूतं क्ली समातीतोचिते त्रिष्ü इति वैजयन्ती (पृ। २३५, श्लो। ५९) । अथवा प्राणीति सप्तम्यन्तम् । क्ष्मादिषु पञ्चसु भूतन्यायसमीचीनजन्तुषु प्रथमेति क्लीवकाण्डेषु गोपालितः ॥ वृत्तं—दृढनिस्तले ॥ ७८ ॥
[[०३.३३२]]
मूलम् - ०३.०३.०७९
अक्।०३.०३.०७९अब् महद्राज्यं चावगीतं जन्ये स्याद् गर्हिते त्रिषु ।
अक्।०३.०३.०७९च्द् श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ॥ ७९ ॥
लिङ्ग-सूरी - AK.03.03.079
वीणाभेदेऽपि महती महद् राज्यविशालयोः ।
मह्यत इति महती । ʻमह पूजायाम् ॥
श्वेतं रूप्ये वाच्यलिङ्गं द्वीपभेदाद्रिभेदयोः ॥ १७२ ॥
श्वेतत इति श्वेतम् । ʻश्विता वर्णे । श्वयति मनोऽस्मिन्निति वा श्वेतम् । ʻटुओश्वि गतिवृद्ध्योḵ ॥
सुवर्णे धवले रूप्ये रजतं स्यात् त्रिलिङ्गकम् ।
नपुंसकं दन्तिदन्ते हारतारकयोरपि ॥ १७३ ॥
रज्यते ताम्रादिकमनेनेति रजतम् । ʻरञ्ज रागे ॥ ७९ ॥
महद् राज्यं च । राज्ञः कर्म जनपदपरिपालनादिरूपं राज्यम् । यथा—ʻसादिताखिलनृपं महन्महः सम्प्रति स्वनयसम्पदैव ते इति माघकाव्ये (शिशु। १४। १३) । राज्यं तेज इत्यर्थः । महामहदिति पाठे महाराज्यमित्यर्थः । यत्किञ्चिदपेक्षया बहुदेशव्यापकं गृहमहीधराकाशादिकमपि चशब्दार्थः । बुद्धितत्त्ववचने तु पुंलिङ्गः । तथा हि—ʻप्रकृतेर्महान् इति साङ्ख्याः । महति मह्यते वा सर्वैरिति महत् । ʻमह पूजायाम् ॥ अवगीतं—त्रिषु । जनस्य जल्पो जन्यम् । निन्देति यावत् । यथा—ʻआत्मव्यापादनं श्लाध्यमवगीतेन जीवनात् इति । तत्र रूपभेदात् पुंलिङ्गः । गर्हिते निन्दिते निषिद्धभक्षणादौ वाच्यलिङ्गः । अवगीयते कुत्सितं शब्द्यत इति अवगीतम् । ʻगै शब्दे । क्तप्रत्ययः (३। २। १०२) ॥ श्वेतं रूप्येऽपि । रूप्यं रजतम् । रूपभेदेन क्लीबम् । श्वेतत इति श्वेतम् । ʻश्विता वर्णे । शेषे—ʻद्वीपाद्रिकुष्ठनागेषु श्वेतो ना स्त्री वराटके इति । द्वीपः श्वेतद्वीप इति प्रसिद्धः । कुष्ठविशेषः श्वित्राख्यः । नागः सर्पविशेषः । यथा—ʻअप श्वेत पदा जहि इति श्रुतौ (आपस्तम्बमन्त्रपाठः २। १७। २६) । तथा—ʻश्वेताय वैदर्वाय नमḵ इति (आ। पाठ। २। १७। २७) । नागो गजविशेषः ऐरावत इति केचित् । तदापस्तम्बीयमन्त्रपठनानुसन्धानवैयर्थ्यनिबन्धनभ्रान्तिमूलमित्युपेक्षणीयम् । कपर्दिकायां तु स्त्रीलिङ्गः । ओषधिविशेषे प्रागुक्तः (१, पृ। २७९) । धवलवर्णे तद्वति चोक्तः (१। पृ। ९९) ॥ रजतं—त्रिषु । सिते धवले वाच्यलिङ्गः । ʻरजतां त्वा हरितगर्भाम् इति श्रुतौ प्रयोगः । ʻरजतं विशदे दन्तिदन्ते हारतारकयोरपि इति विश्वप्रकाशः (पृ। ६३, श्लो। ८६) । तारकं नक्षत्रम् ॥ ७९ ॥
मल्लि-नाथः - AK.03.03.079
श्वेतं रूप्येऽपि । अपिशब्दाद् धवलवर्णेऽपि स्यात् ॥ रजतं—त्रिषु । हेमनामा द्रुमः । ʻरजतं धवले रूप्ये शोणिते द्रुमहारयोḵ इति जयकोशः ॥ ७९ ॥
[[०३.३३४]]
मूलम् - ०३.०३.०८०
अक्।०३.०३.०८०अब् त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादिरागि च ।
अक्।०३.०३.०८०च्द् अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ ८० ॥
लिङ्ग-सूरी - AK.03.03.080
अवदातः सिते पीते शुद्धे च प्रचलेऽपि च ।
अवदायत इत्यवदातः । ʻदैप् शोधने ॥
सितः समाप्ते धवले निबद्धज्ञानयोरपि ॥ १७४ ॥
सिनोतीति सितः । ʻषिञ् बन्धने ॥ ८० ॥
त्रिष्वितः । इतःपरं वक्ष्यमाणा जगदादयः समाहितान्तास्तकारान्ताः वाच्यलिङ्गा इत्यर्थः ॥ जगदिङ्गेऽपि । इङ्गं स्वाभाविकचलनयुक्तम् । ʻवर्तमाने पृषत् ॥ । इत्यादिना (उ। २। ८४) जगच्छब्दो निपातितः । ʻस्याज्जगद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिष्ü इति रुद्रः । जगन्मृगकदम्बकम् । जगती हरिणीत्यादि ॥ रक्तं नील्यादिरागि च । शुक्लस्य वर्णान्तरकरणं रञ्जेरर्थ इति न्यासकारः (पञ्जिका पृ। ९२७) । नीलीमञ्जिष्ठाहरिद्रादिरागयुक्तं नील्यादिरागि । शेषे—ʻअसृक्कुङ्कुमयोः क्लीबं रक्तं त्रिष्वनुरागिणि इति । रक्ताः प्रजाः, रक्तं भृत्यकुलमित्यादि । शोणवर्णे तु प्रागुक्तः (१, पृ। १००) ॥ अवदातः—निर्मले यथा—अवदातचरित इति । ʻदाप् लवने इति धातोरवदातः समूलभिन्नः ॥ बद्धार्जुनौ सितौ । बद्धो रज्ज्वादिना सन्दानितः । अर्जुनो धवलः । ʻषिञ् बन्धने । ʻषोऽन्तकर्मणि इत्यतश्चेद् अवसितः समाप्तः । अवसितोऽर्थ इति ज्ञानेऽपि । शेषे—ʻश्वित्रे सितं भार्गवे ना शर्करायां सिता स्त्रियाम् इति ॥ ८० ॥
मल्लि-नाथः - AK.03.03.080
त्रिष्वितो—इङ्गेऽपि । वायुभुवनयोरपि । अधिकारस्य उक्तमात्रविषयत्वात् जगद् इङ्ग एव त्रिलिङ्गकम् । रक्तं नील्यादिरागि च । रुधिरकुङ्कुमे रक्ते स्याताम् । पूर्वन्यायाद् नील्यादिरागवचनमेव त्रिलिङ्गम् । नील्या रक्तं वस्त्रम् । लाक्षया रक्तोऽधरः ॥ अवदातः—सितौ । अर्जुनो वर्णः ॥ ८० ॥
[[०३.३३५]]
मूलम् - ०३.०३.०८१
अक्।०३.०३.०८१अब् युक्तेऽतिसंस्कृते मर्षिण्यभिनीतोऽथ संस्कृतम् ।
अक्।०३.०३.०८१च्द् कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ॥ ८१ ॥
लिङ्ग-सूरी - AK.03.03.081
युक्तेऽतिसंस्कृते मर्षिण्यभिनीत उदाहृतः ।
अभिनीयत इति अभिनीतः । ʻणीञ् प्रापणे ॥
संस्कृतं कृत्रिमे शस्ते भूषिते लक्षणान्विते ॥ १७५ ॥
संस्क्रियत इति संस्कृतम् ।
विष्णुशेषानवधिषु पुंसि व्योम्नि नपुंसकम् ।
भूगुडूचीहैमवतीलाङ्गलीशारिबासु च ॥ १७६ ॥
दूर्वाविशल्ययोः स्त्री स्यादनन्तः कथ्यते बुधैः ।
न विद्यतेऽन्तो यस्यासावनन्तः ॥ ८१ ॥
युक्ते तु संस्कृते मर्षिण्यभिनीतः । शास्त्रोक्तानुकरणमभिनयं नीतः प्रापितोऽभिनीतः युक्तार्थः । लौकिकेन वैदिकैन वा कर्मणि प्रापितातिशयत्वाद् अभिनीतशब्दः संस्कृतवचनः । भिया भयेन रहितमिति विग्रहे तर्जनभर्त्सनादिकमभिशब्देनोच्यते । तत्कर्म नीतः प्रापितोऽभिनीत इति रोमहर्षणार्थः ॥ अथ—लक्षणोपेतेऽपि । द्रव्यान्तरसंसर्गकरणादिलौकिकव्यापारेण वा प्रोक्षणादिवैदिकव्यापारेण वा निष्पादितगुणाधानं वस्तु कृत्रिमम् । यथा—मरीचजीरकादिभिर्व्यञ्जनानि संस्कृतानि । प्रोक्षणादिना व्रीह्यादयः संस्कृताः । पाणिन्याद्युक्तलक्षणयुक्तं सुशब्दादिकं लक्षणोपेतम् । यथा—संस्कृतं भाषा । संस्कृतं काव्यमिति । सम्पूर्वात् करोतेः कर्मणि निष्ठायां ʻसम्पर्युपेभ्यः करोतौ भूषणे (६। १। १३७) इति ʻसम्पूर्वस्य क्वचिदभूषणेऽपि सुडिष्यते इति सुडागमः ॥ अनन्तोऽवधावपि । अवधिः इयत्तावच्छेदः । तद्रहितो दिक्कालादिः अनवधिः । नास्त्यन्त उत्तरावधिरस्येत्यनन्तः । यथा—अनन्ता वै वेदाः इति । विश्वप्रकाशे (पृ। ६६-७, श्लो। १२९-३०)—
अनन्तः शेषविष्णोः स्यादनन्तं सुरवर्त्मनि ।
अनन्ता शारिबादूर्वाविशल्यालाङ्गलीषु च ।
अनन्ता हैमवत्यां च गुडूच्यां चावनावपि ॥
इति । हैमवती हरीतकी ॥ ८१ ॥
मल्लि-नाथः - AK.03.03.081
युक्ते तु संस्कृतेऽमर्षिण्यभिनीतः । अमर्षी असहिष्णुः । अथ—लक्षणोपेते । कृत्रिमं घटादिकार्यम् । लक्षणोपेतो वृक्षः तिष्ठतीत्यादिशब्दः ॥ अनन्तोऽनवधावपि । अनन्तो मार्गः । अनन्ता सरणिः । अनन्तं वर्त्म । भूमौ स्त्रीलिङ्गः । आकाशे नपुंसक एव ॥ ८१ ॥
[[०३.३३७]]
मूलम् - ०३.०३.०८२
अक्।०३.०३.०८२अब् ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे ।
अक्।०३.०३.०८२च्द् विविक्तौ पूतविजनौ मूर्च्छितौ मूढसोच्छ्रयौ ॥ ८२ ॥
लिङ्ग-सूरी - AK.03.03.082
प्रसादख्यातहृष्टेषु प्रतीतः परिकीर्तितः ॥ १७७ ॥
प्रख्यातिमितः प्राप्तः प्रतीतः ॥
विद्वत्कुलजयोर्जातो जातं जात्यौघजन्मसु ।
जायत इति जातः ॥
विविक्तमपसंवृत्तपूतान्वितरहःसु च ॥ १७८ ॥
विविच्यते कार्याकार्यमत्रेति विविक्तम् । ʻविचिर् पृथग्भावे ॥
दृढसोच्छ्रायमूढेषु मूर्च्छितः परिकीर्तितः ।
मूर्च्छास्य सञ्जातेति मूर्च्छितः । ʻमूर्च्छा मोहसमुच्छ्राययोḵ ॥ ८२ ॥
ख्याते हृष्टे प्रतीतः । ख्यातः प्रसिद्धः । हृष्टः सन्तुष्टः । ज्ञातार्थेऽपि प्रतीतशब्दः ॥ अभिजातस्तु कुलजे बुधे । कुलजो महाकुलप्रसूतः । बुधः सकलस्तुत्यत्वेनाभिहितः । सर्वतः प्रादुर्भूतत्वाद् अभिजातः ॥ विविक्तौ पूतविजनौ । अपाकृतहेयभागं धान्यादिकं पूतम्, शुद्धमित्यन्ये । यथा—विविक्ता पदार्था इति । विगतो जनोऽस्मादिति विजनो रहस्यस्थानम् । विविच्यते निरसनीयद्रव्यात् पृथक् क्रियत इति विविक्तः । मूर्च्छितौ मूढसोच्छ्रयौ । मोह उच्छ्रायश्च मूर्च्छितशब्दस्यार्थः । मूर्च्छास्य सञ्जाता मूर्च्छितः ॥ ८२ ॥
मल्लि-नाथः - AK.03.03.082
ख्याते हृष्टे प्रतीतः । दृष्टे प्रतीत इति क्वचित् पाठः । ʻप्रथिते दृष्टे च ज्ञाते मनीषिते इति जयकोशः ॥ अभिजातस्तु—मूढसोच्छ्रयौ । ʻमूर्च्छितो मूढवृद्धयोḵ इति जयकोशः ॥ ८२ ॥
[[०३.३३८]]
मूलम् - ०३.०३.०८३
अक्।०३.०३.०८३अब् द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ ।
अक्।०३.०३.०८३च्द् सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ॥ ८३ ॥
लिङ्ग-सूरी - AK.03.03.083
आम्ले च परुषे पूते शुक्तः स्याद् वाच्यलिङ्गकः ॥ १७९ ॥
शुच्यत इति शुक्तः । ʻ(ई) शुचिर् पूतीभावे ॥
मेचके धवले चैव शितिशब्दः प्रकीर्तितः ।
शीयत इति शितिः । ʻशिञ् निशाने ॥
सत् प्रशस्ते विद्यमाने सत्याभ्यर्हितसाधुषु ॥ १८० ॥
अस्तीति सत् । ʻअस भुवि ॥ ८३ ॥
द्वौ चाम्लपरुषौ शुक्तौ । इहाम्लशब्देन चिरकालपरिवाससञ्जातरसान्तर ओदनषाडवादिरम्लविशेष उच्यते । निष्ठुरो वाग्विशेषः परुषः । परिहरणीयत्वेनाम्लसदृशत्वात् परुषवाक्ये शुक्तशब्दस्यौपचारिकत्वेऽपि निरूढत्वेन मुख्यतुल्यत्वाद् नानार्थत्वेनाभिधानम् । अत एव स्वामी (पृ। २८९)—ʻपरुषे शुक्तशब्द उपचारात् इति । शुच्यते क्लिन्नो भवतीति शुक्तः । (ई) शुचिर् पूतीभावे । ईदित्वादिडागमस्याभावः ॥ शिती धवलमेचकौ । शिनोति स्वबाहुल्येन वर्णान्तरं तनूकरोतीति शितिः । ʻशिञ् निशातने । अथवै ʻशो तनूकरणे । ʻशाछोरन्यतरस्याम् (७। ४। ४१) इतीत्वम् ॥ सत्ये साधौ—च सत् । सत्ये यथा—सद्ब्रह्म । साधौ‒सत्पुत्र इति । सन् घटः, सदाकाशम् इति विद्यमाने । सत्कर्मेति प्रशस्ते । अभ्यर्हितः पूजितो यथा—सत्पुरुषः । शेषे—ʻभवान्यां तु सती स्त्री स्यान्नक्षत्रे तु नपुंसकम् इति । ʻगगनमिव सत्पथोपशोभि । नगरमिति शेषः । अस्तीत् सन् । ʻअस भुवि । शतृप्रत्ययः । ʻश्नसोरल्लोपḵ (६। ४। १११) इत्यकारलोपः ॥ ८३ ॥
मल्लि-नाथः - AK.03.03.083
द्वौ चाम्लपरुषौ—अभ्यर्हिते च सत् । सत्ये इति धर्मवचनम् । धर्मे नपुंसकमेव । ʻसत् प्रशस्ते विद्यमाने त्रिषु क्ली सत्यतारयोḵ इति शश्वतः ॥ ८३ ॥
[[०३.३३९]]
मूलम् - ०३.०३.०८४
अक्।०३.०३.०८४अब् पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते ।
अक्।०३.०३.०८४च्द् निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ ८४ ॥
लिङ्ग-सूरी - AK.03.03.084
पुरस्कृतः स्वीकृते चाप्यभियुक्तेऽग्रतः कृते ।
अभिग्रस्ते पूजिते च शक्ते चाप्यभिधीयते ॥ १८१ ॥
पुरस्क्रियत इति पुरस्कृतः ॥
निवातो दृढसन्नाहस्थानावातसुवर्मसु ।
निर्गतो वातोऽत्रेति निवातः ॥ ८४ ॥
पुरस्कृतः—अग्रतः कृते । पुरस्कृते गौरवबुद्धिविषये, शत्रुणा अभीक्रान्ते, पुरोभागावस्थापितमात्रे च । ʻपुरोऽव्ययम् (१। ४। ६७) इति गतिसञ्ज्ञायाम्, ʻनमस्पुरसोर्गत्योḵ (८। ३। ४०) इति विसर्जनीयस्य सकारः ॥ निवातौ—वर्म यत् । नियतं वायते गम्यत इति निवातः आश्रयः । यथा—ʻनिवात एषामभये स्याम्ö इति श्रुतिः (तै। सं। ५। ७। २। ४) । निषिद्धो वातोऽत्रेति व्युत्पत्त्या वातरहितो देशो निवातः । ʻनिवातपद्मस्तिमितेन चक्षुषा’ इति कालिदासः (रघु। ३। १७) । अभेद्यकवचे यथा—निवातकवचा इति ॥ ८४ ॥
मल्लि-नाथः - AK.03.03.084
पुरस्कृतः—वर्म यत् । आश्रयावातौ—निवातो देशः । निवाता वसतिः । शस्त्राभेद्यवर्मणि—निवातं तनुत्रम्, निवाता त्रातिः ॥ ८४ ॥
[[०३.३४०]]
मूलम् - ०३.०३.०८५
अक्।०३.०३.०८५अब् जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी ।
अक्।०३.०३.०८५च्द् वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ ॥ ८५ ॥
इति तान्तवर्गः
लिङ्ग-सूरी - AK.03.03.085
उच्छ्रितो वृद्धियुक्ते च प्रोद्धृतोत्पन्नयोरपि ॥ १८२ ॥
उच्छ्रीयत इति उच्छ्रितः । ʻश्रिञ् सेवायाम्
आदृतः सादरेऽपि स्यादर्चिते वाच्यलिङ्गकः ।
आद्रियत इत्यादृतः । ʻदृङ् आदरे ॥
उदास्थितः प्रतीहारेऽप्यध्यक्षे प्रणिधौ चरे ॥ १८३ ॥
ऊर्ध्वमास्थीयत इति उदास्थितः ॥
समाहितो योगभेदे समाधिस्थे यथात्मनि ।
वाच्यवन्निहिते सिद्धे समाधाने समाहितम् ॥ १८४ ॥
समाहीयत इति समाहितम् । ʻहि गतौ वृद्धौ च्ö ॥ ८५ ॥
इति तान्तवर्गः
जातोन्नतप्रवृद्धा स्युरुच्छ्रिताः । जात उत्पन्नः । उन्नतश्च । उद्धतमिति पाठे गर्वितः । प्रवृद्धो बहुलत्वं गतः । यथा—प्रवृद्धो निदाघः इति । ʻश्रिञ् सेवायाम् इत्यतः उत्पूर्वात् क्तः ॥ उत्थितास्त्वमी—उत्पन्नाः । वृद्धिमान समृद्धः । यथा—उत्थितो राजा । प्रोद्यत उद्यतः, उपविष्टः उद्गतश्च । यथा—शयनादुत्थितः । उत्पन्नो जातः । यथा—उत्थितः कोलाहलः । तिष्ठतेरुत्पूर्वात् क्तप्रत्ययः । ʻउदः स्थास्तम्भोḵ (८। ४। ६१) इति सलोपः ॥ आदृतौ सादरार्चितौ । आदरेण सह वर्तते विषयत्वेनेति सादरशब्देनादरस्य कर्मकारकं विवक्षितम् । यथा—शिष्टैरादृतो मनुः इति । ʻदृङ् आदरे । कर्मणि क्तः । अथवा सादरशब्देन कर्ता विवक्षितः । यथा—आदृतः करोति इति । तत्र कर्माविवक्षायां ʻगत्यर्थाकर्मक ॥ । इत्यादिना (३। ४। ७२) कर्तरि क्तप्रत्ययः । तथा च पदमञ्जरी (पृ। ३३२)— ʻसकर्मकेभ्यः कर्मविवक्षायामन्यत्रापि क्तḵ इति । अर्चितः पूजितः । यथा—लोकादृतोऽयं देव इति ॥ ८५ ॥
इति तान्तवर्गः
मल्लि-नाथः - AK.03.03.085
जातोन्नद्ध—सादरार्चितौ । अनुक्तम्—
सौहार्देऽपि प्रीतिभक्ती प्राणिद्यूतं रणेऽपि च ।
पङ्केऽपि पलितं कीर्तिः पद्धतिश्चेति च त्रयम् ॥
श्वेते तिलेऽपि जामाता यमेऽपि पृथिवीपतिः ।
स्वैरिण्यामपि मुक्ता स्याद् रिक्तं स्यात् काननेऽपि च ॥
तातः स्यादनकम्प्येऽपि मातापि गुहमातरि ।
कन्तुः कुसूलकेऽपि स्याद् वृतं स्याच्चूचुकेऽपि च
कामुक्यां च त्रिगर्ता स्यादक्षतं षण्डकेऽपि च ।
देशविशेषे पुंलिङ्गः ।
उद्धूतोऽङ्घ्रेश्चालनेऽप्युषितं व्युषितेऽपि च ॥
व्युषितं नाम पर्युषितम् ॥
स्तिमितं निश्चलेऽपि स्यात् सूनृतं मङ्गलेऽपि च ।
द्वौ पृषत्पृषतौ स्यातां वेदबिन्दुयुतेऽपि च ॥
विनीतो वाणिजेऽपि स्यान्निऋतिर्नैऋतेऽपि च ।
कुट्टन्यां च किराती स्यात् किरातोऽल्पतनावपि ॥
अल्पतनुः पृश्निः । ʻकालुचेयिमणिगिनवाण्ड्ü ॥
विच्छित्तिरङ्गरागेऽप्यलक्ते पल्लवितं तथा ।
चर्मण्वती च कदली लक्ष्मीपतिरगेऽपि च ॥
अगे सहकारे ॥
रतध्वनौ तु हारितं कोकिलक्वणितेऽपि च ।
रङ्गमाता तु लाक्षायां कुट्टन्यामपि सा भवेत् ॥
वसन्तदूती वासन्त्यां चूतकोकिलयोऽस्तु ना ।
अस्वन्तं मरणे चुल्ल्यां द्वास्थेऽध्यक्षेऽप्युदास्थितः ।
कच्छपे पञ्चगुप्तः स्याच्चार्वाकाणां मतेऽपि च ।
धान्यादिबन्धने मूतं राज्ञां हस्तोपधानके ॥
उत्पातः प्रतिबन्धे स्यादुत्खातं विषमस्थले ।
दिवाभीतस्तु चोरे स्यादुलूके कुमुदाकरे ॥ ८५ ॥
इति तान्तवर्गः
[[०३.३४२]]
मूलम् - ०३.०३.०८६
अक्।०३.०३.०८६अब् अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ।
अक्।०३.०३.०८६च्द् निपानागमयोस्तीर्थमृषिजृष्टजले गुरौ ॥ ८६ ॥
लिङ्ग-सूरी - AK.03.03.086
अर्थः प्रकारे विषये वित्तकारणवस्तुषु ।
अभिधेये च शब्दानां निमित्ते च प्रयोजने ॥ १८५ ॥
अर्थ्यत इत्यर्थः । ʻअर्थ याच्ञायाम् ॥
तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु ।
अवतारर्षिजुष्टाम्भोनिपानस्त्रीरजःसु च ॥ १८६
जवेन पापानि तरन्त्यनेनेति तीर्थम् । ʻतॄ प्लवनतरण्योḵ ॥ ८६ ॥
अर्थो—निवृत्तिषु । अभिधेयः शब्दप्रत्याय्यः । यथा—शब्दार्थौ काव्यम् इति । राः धनम् । यथा—न्यायेनार्जनमर्थानाम् इति । वस्तु प्रमाणसिद्धं स्वरूपम् । यथा—षट् पदार्थाः, षोडश पदार्थाः इति । प्रयोजनमुद्देश्यम् । यथा—ओदनार्थास्तण्डुलाः । ओदनप्रयोजना इत्यर्थः । धर्मार्था पत्नी । किमर्थं गमनम् । कोऽर्थोऽनेन साध्यते । ʻएका क्रिया द्व्यर्थकरी प्रसिद्धा’ (म। भाष्य। १। १। १) । निवृत्तिवचनस्यार्थसिद्धस्य नित्यसमासनियमः । तथा च शब्दप्रकाशे भोजराजः—ʻबहुव्रीहावुत्तरः स्यादर्थशब्दो निवृत्तिवाक् इति । निवृत्तिवचनस्यार्थशब्दस्य समस्तत्वमुत्तरपदत्वं च नियतमित्यर्थः । यथा—मशकार्थो धूमः । तस्करार्थोऽर्गलबन्धः इत्यादि । अर्थ्यते प्रार्थ्यत इत्यर्थः । अथवा ʻऋ गतü । ʻउषिकुषिगार्तिभ्यस्थन् (उ। २। ४) इति । इन्द्रियार्थे रूपादयः । अर्थोल्लेखि ज्ञानमित्यादौ विषयरूपार्थेऽप्यर्थशब्दः । तत्र विषयप्राकट्यस्य प्रयोजनत्वात् कथञ्चित् प्रयोजनपदेनैव सङ्गृहीतः ॥ निपान—गुरौ । ʻनिपानमाहावḵ इति प्रागुक्तम् (पृ। १७३) । यथा—ʻवेदतीर्थमिदं शास्त्रं सुलभं धर्ममिच्छताम् इति । ʻनिदानागमयोḵ इति केचित् पठन्ति । तत्र निदानं मूलकारणम् । यथा—ज्ञानतीर्थं गुरोर्वचः इति । आगमः शास्त्रम् । यथा—तीर्थकर इति । महर्षिसेवितजले—तीर्थयात्राप्रसक्तोऽयमिति । गुरौ यथा—तीर्थाप्तविद्य इति । तरत्यनेन पापमज्ञानं वेति तीर्थम् । ʻतॄ प्लवनतरणयोḵ । थक्प्रत्ययः । ʻऋत इद्धातोḵ (७। १। १००) इतीत्वम् । ʻर्वोरुपधायाः दीर्घ इकḵ (८। २। ७६) इति दीर्घः । अन्यत्रापि—
ʻतीर्थं शास्त्रेऽध्वरे क्षेत्रोपायोपाध्यायमन्त्रिषु ।
अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च शब्द्यते ॥
इति । अध्वरे यज्ञे । यथा—तीर्थेष्वालभते पशून् इति । उपाध्याये यथा—ʻबलवान् प्रकृतिस्थोऽपि विना तीर्थं विनश्यति । मन्त्रिणि यथा—सत्तीर्थन्यस्तभार इति । अत्र मन्त्रिग्रहणं मन्त्रिसेनापतिपुरोहितादीनां नीतिशास्त्रप्रसिद्धानामष्टादशानामप्युपलक्षणम् । तेषामुद्देशलक्षणविषये ग्रन्थगौरवभयादुपरम्यते । अवतारो जलावतरणमार्गः । यथा—ʻकृततीर्थः पयसामिवाशयḵ (किरा। २। ३) इति । स्त्रीरजसि यथा—ʻचण्डालीसदृशी ज्ञेया सतीर्था प्रथमेऽहनि इति । ʻतीर्थं सत्रिणि पात्रे च्ö इति स्वामी (पृ। २९०) । सत्रिणि दीक्षिते यथा—ʻनास्ति तीर्थस्य सूतकम् इति । पात्रे यथा—ʻतीर्थगामि करवै विधानतḵ इति माघकाव्ये ॥ ८६ ॥
मल्लि-नाथः - AK.03.03.086
अर्थो—निवृत्तिषु । अभिधेयं शब्दवाच्यम् । रै इति धनम् । वस्त्विति पदार्थः । प्रयोजनं कार्यं च कारणं च स्यात् । ʻकार्ये हेतौ प्रयोजनम् इति वैजयन्ती (पृ। २७३, श्लो। ८) । धर्मार्थं धनम् । निवृत्तिः प्रवृत्तिविपर्ययः ।
मशकार्थो धूमः ॥ निदान—गुरौ । निदानमुपायः । आगमः शास्त्रम् । ऋषिजुष्टजलं पावनोदकम् । गुरुरुपाध्यायः
ʻतीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने ।
पात्रोपायावतारेषु स्त्रीपुष्पे योनियज्ञयोḵ ॥
इति वैजयन्ती (पृ। २२५, श्लो। १३) ॥ ८६ ॥
[[०३.३४४]]
मूलम् - ०३.०३.०८७
अक्।०३.०३.०८७अब् समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च ।
अक्।०३.०३.०८७च्द् दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ॥ ८७ ॥
लिङ्ग-सूरी - AK.03.03.087
समर्थस्त्रिषु शक्तिस्थे सम्बन्धार्थे हितेऽपि च ।
समर्थ्यत इति समर्थः ॥
दशमीस्थो नष्टबीजे स्थविरेऽपि प्रचक्षते ॥ १८७ ॥
दशम्यां तिष्ठतीति दशमीस्थः ॥
वीथी गृहाङ्के पङ्क्तौ च रूपकान्तरवर्त्मनोः ।
वियन्ति गच्छन्त्यनयेति वीथी । ʻवी गत्यादü ॥ ८७ ॥
समर्थस्त्रिषु शक्तिष्ठे सम्बन्धार्थे हितेऽपि च । इष्ठन्प्रत्ययान्तेन शक्तिष्ठशब्देन शक्त्यतिशयसम्पन्न उच्यते । यथा—समर्थः कार्यनिर्णय इति । सम्बन्धार्थोऽन्वितार्थः । यथा—ʻसमर्थः पदविधिḵ (२। १। १) । हिते यथा—एतत् समर्थं तव यन्मयोदितम् इति । समर्थयते उपकारं सम्पादयतीति समर्थः । ʻअर्थ उपयाच्ञायाम् ॥ दशमीस्थौ क्षीणरागवृद्धौ । दशम्यां वयोऽवस्थायां नवतिवयस उपरितन्यां तिष्ठतीति दशमीस्थः वृद्धः । चक्षुःप्रीत्यादिकामुकावस्थानां दशानां मध्ये दशम्यामवस्थायां मूर्च्छावस्थाया उत्तरस्यां मरणोद्योगलक्षणायां तिष्ठतीति दशमीस्थः । स च प्राप्त्याशाविच्छेदेन मरणोद्युक्ततया प्रक्षीणगौरवत्वेन क्षीणरागशब्देनोक्तः । ʻक्षीणरागो नष्टबीजḵ इति सुभूतिचन्द्रः । सोऽपि वृद्धसादृश्यात् लक्षणया वृद्धशब्देनोक्तः ॥ वीथी पदव्यपि । पदवी मार्गः । वियन्ति गच्छन्त्यनयेति वीथी । ʻवी गतिप्रजनकान्त्यसनखादनेष्ü । ʻवियः क्थिḵ । यथा—राजवीथी इति । शेषे—ʻवीथी पङ्क्तावश्वगतौ नाट्यभेदे गृहाङ्गणे इति । पङ्क्तौ यथा—ʻरसालवीथ्यामिह सञ्चरामḵ इति । अश्वगतौ यथा—ʻसिद्धं मुखे नवसु वीथिषु कश्चिदश्वम् इति माघे (शिशु। ५। ६०) । नाट्यभेदः ʻनाटकं सप्रकरणम् ॥ । (दशरू। १। ८) इत्यादिनोक्तोऽष्टमो रूपकभेदः ॥ ८७ ॥
मल्लि-नाथः - AK.03.03.087
समर्थस्त्रिषु—रागवृद्धौ । क्षीणरागो नष्टबीज इति सुभूतिटीका ॥ वीथिः पदव्यपि । ʻवीथिः गृहालौ पङ्क्तौ च नाट्यरूपकवर्त्मनोḵ इति विश्वः (पृ। ७६, श्लो। ११) ॥ ८७ ॥
[[०३.३४६]]
मूलम् - ०३.०३.०८८
अक्।०३.०३.०८८अब् आस्थानीयत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः ।
इति थान्तवर्गः
अक्।०३.०३.०८८च्द् अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ ॥ ८८ ॥
लिङ्ग-सूरी - AK.03.03.088
आस्था चालम्बनास्थानयत्नापेक्षासु कथ्यते ॥ १८८ ॥
आस्थीयत इत्यास्था ॥
प्रस्थोऽस्त्री शिखरे माने सानौ च परिकीर्तितः
प्रस्थीयत इति प्रस्थः ॥
इति थान्तवर्गः
छन्दो वशेऽभिप्राये हृदाख्याचित्तवृत्तयोः ॥ १८९ ॥
छन्द्यत इति छन्दः । ʻछदि संवरणे ॥
अब्दः संवत्सरे मेघे गिरिभेदे च मुस्तके ।
अपो ददातीति अब्दः ॥ ८८ ॥
आस्थानीयत्नयोरास्था । आतिष्ठन्त्यस्यां सभायामित्यास्था । ʻव्यवस्थायामसञ्ज्ञायामिति ज्ञापकात् (३। ३। ९५, काशिका पृ। २२१) तिष्ठतेः ʻआतश्चोपसर्गे (३। ३। १०६) इत्यधिकरणे भावे चाङ् प्रत्ययः । प्रतिज्ञायां तात्पर्ये च ॥ प्रस्थोऽस्त्री सानुमानयोः । सानुः पर्वतोपरितनः समदेशः । मानमिति आढकचतुर्थांशो मानविशेषः ॥
इति थान्तवर्गः
अभिप्रायवशौ छन्दौ । अभिप्राय आशयः । यथा—ʻमूर्खं छन्दानुवृत्तितḵ (चाणक्य। १५१) । वशे यथा—स्वच्छन्दहृदयः ॥ अब्दौ जीमूतवत्सरौ । जीमूतः मेघः । शेषे—ʻगिरिदर्पणयोरब्दḵ इति ʻसाधुरब्द इव भूतिसङ्गमान्निर्मलो ननु सुवृत्ततां वहन् इति धर्माभ्युदये दर्पणे प्रयोगः ॥ ८८ ॥
मल्लि-नाथः - AK.03.03.088
आस्थानी—सानुमानयोः । मानं परिमाणविशेषः । अनुक्तम्—
शास्त्रद्रविणयोर्ग्रन्थः संस्था चारे स्थितौ मृतौ ।
द्रविणं द्रव्यम् । ʻग्रन्थो द्रव्यं वचः शास्त्रं द्वात्रिंशद्वर्णसञ्चयḵ इति वैजयन्ती (पृ। २१५, श्लो। २१) ॥ स्थितिर्मर्यादा ॥
अश्वत्थः पूर्णिमायां च ब्राह्मणे च चतुष्पथः ।
ग्रन्थिः कुटिलतायां च रथः स्याच्चरणेऽपि च ।
निशीथो रात्रिमात्रे च स्यादमर्षेऽपि चातिथिः ।
अनीकस्थो रणखले स्फीतमर्दलकेऽपि च ।
अपार्थवाच्यपि कथा स्यादश्रद्धेयवाचि च ।
पीथं तु वक्त्रनीते स्यात् पाथस्यपि पयस्यपि ॥ ८८ ॥
इति थान्तवर्गः
[[०३.३४७]]
मूलम् - ०३.०३.०८९
अक्।०३.०३.०८९अब् अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ ।
अक्।०३.०३.०८९च्द् पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः ॥ ८९ ॥
लिङ्ग-सूरी - AK.03.03.089
अपवादस्तु निन्दायामाज्ञाविस्रम्भयोरपि ॥ १९० ॥
अपवदतीत्यपवादः । ʻवद व्यक्तायां वाचि ॥
दायादो बान्धवेऽपि स्यात् सुतेऽपि परिकीर्तितः ।
दायमत्तीति दायादः । ʻअद भक्षणे ॥
पादो बुध्ने तुरीयांशे शैले प्रत्यन्तपर्वते ॥ १९१ ॥
चर्णे च मयूखे च क्षोदो रजसि पेषणे ।
पद्यत इति पादः । ʻपद गतü ॥ क्षुद्यत इति क्षोदः ॥
चन्द्रेऽपि सूर्ये वह्नौ च तमोनुत् परिकीर्तितः ॥ १९२ ॥
तमो नुदतीति तमोनुत् । ʻणुद प्रेरणे ॥ ८९ ॥
अपवादौ तु निन्दाज्ञे । निन्दायां प्रागुक्तः (१, पृ। १११) । अवनतान् प्रति वादो वदनं कार्ये नियोजनमाज्ञा । शासनमित्यर्थः ॥ दायादौ सुतबान्धवौ । दीयत इति दायो धनम् । तथाभूतं रिक्थमप्रतिबन्धमादत्त इति दायादः पुत्रः । स्वामिनाशे सति दायमादत्त इति दायादो बान्धवः पत्नीभ्रात्रादिसपिण्डः ॥ पादा रश्म्यङ्घ्रितुर्यांशाः । रश्मिः किरणः । तुर्यांशः चतुर्थभागः । कर्तरि ʻपदरुजविशस्पृशो घञ्ö (३। ३। १६) कर्मकरणादौ च भवति ॥ शेषे—ʻपादः स्याद् बुध्नपूज्ययोḵ इति । बुध्नो वृक्षमूलम् । पूज्ये यथा—तातपादा इति । ʻपादाः प्रत्यन्तपर्वताḵ इति गतम् (१, पृ। २१३) ॥ चन्द्राग्न्यर्कास्तमोनुदः । अर्कः सूर्यः । ʻणुद प्रेरणे इत्यस्मात् क्विपि तमोनुत् ॥ ८९ ॥
मल्लि-नाथः - AK.03.03.089
अभिप्राय—सुतबान्धवौ । बान्धवः सपिण्डः । पादा—तमोनुदः । रश्मिः किरणः ॥ ८९ ॥
[[०३.३४९]]
मूलम् - ०३.०३.०९०
अक्।०३.०३.०९०अब् निर्वादो जनवादेऽपि शादो जम्बालशष्पयो॥
अक्।०३.०३.०९०च्द् सारावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ९० ॥
लिङ्ग-सूरी - AK.03.03.090
निर्वादः स्यात् परीवादे परिनिष्ठितवादयोः ।
नितरां वदतीति निर्वादः ॥
शादो बालतृणेऽपि स्याज्जम्बाले च प्रकीर्तितः ॥ १९३ ॥
शद्येते पादावत्रेति शादः । ʻशद्लृ शातने ॥
आक्रन्दो दारुणे शुद्धे मित्रे त्रातरि रोदने ।
आरावेऽपि समाख्यातस्तन्त्रान्तरविशारदैः ॥ १९४ ॥
आक्रन्दयतीत्याक्रन्दः । ʻक्रदि आह्वाने रोदने च्ö ॥ ९० ॥
निर्वादो जनवादेऽपि । जनवादो निन्दा । निषिद्धो वादः निर्वादः । शेषे—ʻनिर्वादो निश्चिते वादे वादाभावे नबव्ययम् इति । वादस्याभावो निर्वादः । ʻअव्ययं विभक्ति ॥ । इत्यादिना (२। १। ६) भावार्थेऽव्ययीभावे सति नपुंसकम् । ʻअव्ययीभावश्च्ö (२। ४। १८) इति नपुंसकाव्ययोभयरूपत्वमित्यर्थः ॥ शादो जम्बालशष्पयोः । जम्बालः पङ्कः । शष्पं नवतृणम् । शद्यते छिद्यत इति शादः । ʻशद्लृ शातने ॥ सारावे—रणे । रुदितमिति भावे निष्ठा । आराव आक्रोशः । तत्सहिते रोदने इत्यर्थः । सुबोधिनीकारस्तु—आराव इत्यजादिं पठित्वा पक्ष्यादिशब्द आराव इति व्याचष्ट । पार्ष्णिग्राहकृताद् भयाद् विजिगीषुं यो रक्षति स त्राता । तदुक्तम्—ʻपार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरḵ इति केचित् । त्रातृशब्देन रक्षकमात्रमुच्यत इति केचित् । यथा—ʻनिराक्रान्दमिदं जगत् इति (टी। स। पृ। १०५) । दारुण इति युद्धविशेषणम् । ʻक्रदि आह्वाने रोदने च्ö इत्यस्माद् यथायोगं भावे कर्मण्यधिकरणे च घञ् ॥ ९० ॥
मल्लि-नाथः - AK.03.03.090
निर्वादो जनवादेऽपि । निन्दायामपि स्यात् ॥ शादो—दारुणे रणे । रुदिते इति विषयसप्तमी । रुदितस्यारावे इत्यर्थः । दारुणे इति विशेषणम् ॥ ९० ॥
[[०३.३५०]]
मूलम् - ०३.०३.०९१
अक्।०३.०३.०९१अब् स्यात् प्रसादोऽनुरोधेऽपि सूदः स्याद् व्यञ्जने त्रिषु ।
अक्।०३.०३.०९१च्द् गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः ॥ ९१ ॥
लिङ्ग-सूरी - AK.03.03.091
प्रसादोऽनुग्रहे कार्ये प्रसक्तौ चानुवर्तते ।
प्रसीदत्यनेनेति प्रसादः । ʻषद्लृ विशरणगत्यवसादनेष्ü
सूदस्तु सूपकारे च सूपे च व्यञ्जनेऽपि च ॥ १९५ ॥
सूदयति हिङ्गुमरीचादिगताल्पप्राणिन इति सूदः । ʻषूद क्षरणे ॥
गोविन्दो वासुदेवे स्याद् गवाध्यक्षे बृहस्पतौ ।
गा विन्दतीति गोविन्दः । ʻविद्लृ लाभे ॥
मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः ॥ १९६ ॥
आमोदमद्ययोश्चैव मदनीये च वस्तुनि ।
मदयतीति मदः । ʻमदी हर्षग्लपनयोḵ ॥ ९१ ॥
स्यात् प्रसादोऽनुरोधेऽपि । अनुरोधोऽनुग्रहः । यथा—ʻप्रसादाभिमुखो वेधाḵ इति (कु। सं। २। १६) । शेषे—ʻस्वास्थ्ये प्रसादः काव्यस्य प्राणे नैर्मल्यहर्षयोḵ इति । स्वस्थत्वे यथा—प्रसन्नं हृदयम् । काव्यस्य प्राणो नाम ʻश्लेषः प्रसादः समता’ (काव्यादर्शे १। ४१) इत्याद्यनुक्रम्य ʻप्रसादो व्यासमार्दवम् इत्यालङ्कारिकोक्तलक्षणः । निर्मलत्वे यथा—सप्रसादं जलमिति । प्रसीदत्यनेनेति प्रसादः । करणे घञ् ॥ सूदः स्याद् व्यञ्जनेऽपि च । व्यञ्जनं निष्ठानादि । सूद्यते पच्यत इति सूदः । ʻषूद क्षरणे हिंसायां च्ö । अपिशब्दाद् औदनिके प्रागुक्तः (पृ। ५७०) ॥ गोष्ठाध्यक्षेऽपि गोविन्दः । अपिशब्दाद् विष्णौ बृहस्पतौ च । गा विन्दते लभत इति गोविन्दः । ʻविद्लृ लाभे । ʻगवादिषु विन्देः सञ्ज्ञायाम् (वा। ३। १। १३८) इति शप्रत्ययः ॥ हर्षेऽप्यामोदवन्मदः । आमोदशब्दो यथा हर्षे वर्तते तथा मदशब्दोऽपीत्यर्थः । अपिशब्दाद् ʻआमोदः सोऽतिनिर्हारी इत्युक्तम् (पृ। ९७) । आ समन्ताद् मोदन्तेऽनेनेति आमोदः । ʻमुद हर्षे । घञ् ॥ माद्यन्त्यनेनेति मदः । ʻमदी हर्षे । ʻमदोऽनुपसर्गे (३। ३। ६७) इत्यप् । शेषे—ʻमदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोḵ इति ॥ ९१ ॥
मल्लि-नाथः - AK.03.03.091
स्यात् प्रसादोऽनुरोधेऽपि । ʻप्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्यप्रसक्तिष्ü इति विश्वः (पृ। ७९, श्लो। २०) ॥ सूदः स्याद् व्यञ्जनेऽपि च । ʻसूदस्तु सूपवत् सूपकारे च व्यञ्जनेऽपि च्ö इति विश्वः (पृ। ७८, श्लो। ७) ॥ गोष्ठाध्यक्षेऽपि गोविन्दः । विष्णावपि स्यात् ॥ हर्षेऽप्यामोदवन्मदः । आमोदः परिमलेऽपि स्यात् । मदो गजदानेऽपि स्यात् ॥ ७१ ॥
[[०३.३५१]]
मूलम् - ०३.०३.०९२
अक्।०३.०३.०९२अब् प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् ।
अक्।०३.०३.०९२च्द् स्री संविज्ज्ञानसम्भाषाक्रियाकाराजिनामसु ॥ ९२ ॥
लिङ्ग-सूरी - AK.03.03.092
प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् ॥ १९७ ॥
कं शिर इव तिष्ठतीति ककुत् । ककुदश्च । ʻष्ठा गतिनिवृत्तü ॥
स्त्री संविज्ज्ञानसम्भाषाक्रियाकाराजिनामसु ।
सम्यग् विद्यतेऽनयेति संवित् । ʻविद ज्ञाने ॥ ९२ ॥
प्राधान्ये—अस्त्रियाम् । प्रधानमेव प्राधान्यम् । स्वार्थिकः ष्यञ् । यथा—ʻइक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् इति कालिदासः (लघु। ६। ७१) । राजलिङ्गं कनकच्छत्रचामरादि । यथा—ʻनृपतिककुदं दत्त्वा यूने सितातपवारणम् इति (रघु। ३। ७०) । वृषभस्य पृष्ठभागे ग्रीवामूलस्थोऽवयवविशेषो वृषाङ्गम् । यथा—ʻककुदे वृषस्य कृतबाहुम् इति (किरा। १२। २०) । कं सुखं कुं भूमिं च ददातीति ककुदम् । ककुच्छब्दो दकारान्तोऽप्येष्वर्थेषु वर्तते । तथा च रुद्रः—ʻस्त्री ककुत् ककुदोऽस्त्री राट्चिह्ने श्रेष्ठवृषाङ्गयोḵ इति । के शिरसि कुदतीति (?) ककुत् ॥ स्त्री संवित्—आजिनामसु । सम्यग् भाषणं सम्भाषा । सङ्केत इति केचित् । क्रियाकारो निश्चयः । यथा—ʻधर्मतत्त्वस्य सन्देहे वर्तयेद् वृद्धसंविदा’ इति । अत्र प्रतापः—
ʻसंविज् ज्ञाने प्रतिज्ञायां सङ्केताचारनामसु ।
सम्भाषणे तोषणे च क्रियाकारे च सङ्गरे ॥
इति । ज्ञाने यथा—ʻएकसंविदि विभाति भेदधीḵ इति । सङ्केते यथा—संविद्व्यतिक्रमः इति । सम्भाषणे यथा—ʻप्रौढः संविदि गोष्ठिष्ü इति ॥ ९२ ॥
मल्लि-नाथः - AK.03.03.092
प्राधान्ये—अस्त्रियाम् । प्राधान्यं प्रधानम् । ʻश्रेष्ठे वृषाङ्गे राजाङ्के ककुतोऽस्त्री ककुन्न षण् इति वैजयन्ती (पृ। २७९, श्लो। २८) ॥ स्त्री संवित्—आजिनामसु । सम्भाषा सम्भाषणम् । क्रियाकारः क्रियानियमः । आजिर्युद्धम् । ʻसंविद् युद्धे प्रतिज्ञायां सङ्केताचारनामस्ü इति वैजयन्ती (पृ। २२३, श्लो। ४१) ॥ ९२ ॥
[[०३.३५३]]
मूलम् - ०३.०३.०९३
अक्।०३.०३.०९३अब् धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् ।
अक्।०३.०३.०९३च्द् पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ॥ ९३ ॥
लिङ्ग-सूरी - AK.03.03.093
भवेदुपनिषद् धर्मे वेदान्तेऽपि रहस्यपि ॥ १९८ ॥
सर्वमत्र निषीदतीत्युपनिषत् । ʻषद्लृ विशरणादü ॥
ऋतौ संवत्सरे चैव शरच्छब्दः प्रकीर्तितः ।
पङ्कं जलं च शृणातीति शरत् । ʻशृ हिंसायाम् ॥
पदं शब्दे च वाक्ये च व्यवसायापदेशयोः ॥ १९९ ॥
पादान्तचिह्नयोस्त्राणस्थानयोरङ्कवस्तुनोः ।
पद्यत इति पदम् । ʻपद गतü ॥ ९३ ॥
धर्मे रहस्युपनिषत् । रह इति निगूढार्थवचनम् । अप्रकाशमाने यस्मिन् कस्मिंश्चिदर्थ इत्यर्थः । यथा—ʻमन्मथोपनिषदं मधुव्रताḵ इति । वेदान्तानां रहस्यभूते ब्रह्मप्रतिपादकभागेऽपि उपनिषच्छब्दः । यथा—ʻएषा वेदोपनिषत् इति (तै। उप। १। ११। ४) । तत्त्वेऽपि । यथा—ʻधर्मस्योपनिषत् परा’ । उपनिषच्छब्दः स्त्रीलिङ्गः । स्यादृतौ वत्सरे शरत् । ऋतुः आश्वयुजकार्त्तिकमासात्मकः । वत्सरे—ʻशरदामयुतं ययü (रघु। १०। १) ॥ पदं—वस्तुषु । व्यवसितं व्यवसायः । उद्योग इत्यर्थः । यथा—ʻकृत्याकृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् इति माघः (शिशु। २। १११) । त्राणं रक्षणम् । यथा—ʻपदं यदा पतिमृतिḵ इति । स्थानम् आश्रयः । यथा—शिरसि लब्धपदं कुसुमम् । लक्ष्म चिह्नम् । यथा—ʻनवनखपदमङ्गं गोपस्यंशुकेन्ö इति (शिशु। ११। ३४) । अङ्घ्रौ पादे यथा—न्यस्तं पदं शिरसि विद्विषाम् इति । वस्तुमात्रे यथा—विवादपदं द्रव्यम् इति । शाश्वतकोशेऽपि (पृ। ५, श्लो। ३७)—
ʻव्यवसाये परित्राणे पादतच्चिह्नयोरपि ।
वस्तुस्थानापदेशेषु पदं स्याद्वाक्यशब्दयोः ॥
इति । अपदेशे व्याजे यथा—ʻक्षितिपदेन निवृत्तिमुपेयिवान् इति । शब्दः सुबन्ततिङन्तात्मकः । यथा—ʻसुप्तिङन्तं पदम् इति (१। ४। १४) । वाक्ये यथा—ʻवाक्यं वेदोपमम् इति । पदचिह्ने यथा—ʻक्षितिषु ददृशिरे पदानि जिष्णोररहितकेतुरथाङ्गलाञ्छनानि इति ॥ ९३ ॥
मल्लि-नाथः - AK.03.03.093
धर्मे रहस्युपनिषत् । रहो रहस्यार्थः । ʻरहस्यार्थे तूपनिषद् धर्मवेदान्तयोरपि इति वैजयन्ती (पृ। २७१, श्लो। ३) ॥ स्यादृती वत्सरे शरत् । स्त्रीति एतावदधिकारः ॥ पदं—वस्तुषु । लक्ष्म सिकतादिप्रदेशे दृश्यमानं पादचिह्नम् ।
पदं स्थाने परित्राणे व्यवसायापदेशयोः ।
वाक्ये वस्तुनि शब्दे च पादतच्चिह्नयोरपि ॥
इति जयकोशः ॥ ९३ ॥
[[०३.३५४]]
मूलम् - ०३.०३.०९४
अक्।०३.०३.०९४अब् गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् ।
अक्।०३.०३.०९४च्द् त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ ६४ ॥
लिङ्ग-सूरी - AK.03.03.094
सेविते चैव माने च गोष्पदं परिकीर्तितम् ॥ २०० ॥
गोः पदं गोष्पदम् ॥
आस्पदं तु पदे कृत्ये प्रतिष्ठायां प्रकीर्तितम् ।
आ समन्तात् पद्यत इत्यास्पदम् ॥
स्वादुर्मनोज्ञे हृष्टे च मधुरे च त्रिलिङ्गकः ॥ २०१ ॥
स्वाद्यते आस्वाद्यत इति स्वादुः । ʻष्वद आस्वादने ॥
अतीक्ष्णेऽपि मृदुः प्रोक्तः कोमले विशिखेऽपि च ।
मृद्यत इति मृदुः । ʻमृद क्षोदे ॥ ९४ ॥
गोष्पदं सेविते माने । गावः पद्यन्ते यस्मिन् देशे, स हि सेवितशब्देनोच्यते । यथा—गोष्पदान्यरण्यानीति । मीयतेऽनेनेति मानं गोखुरश्वभ्रम् । यथा—ʻगोष्पदपूरं वृष्टो देवḵ इति (काशिका पृ। १४७) । गोष्पदमात्रे क्षेत्रमिति । ʻगोष्पदं सेवितासेवितप्रमाणेष्ü (६। १। १४५) इति साधुः । अत्र काशिकाकारः (पृ। १४७)—ʻनात्र गोष्पदं स्वार्थमुपादीयते । किं तर्हि । क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्ताम् इति ॥ प्रतिष्ठा कृत्यमास्पदम् । आत्मयापनाय स्थापनं प्रतिष्ठेति काशिका (पृ। १४७) । आस्पदमनेन लब्धम् । प्रतिष्ठा अनेन लब्धेत्यर्थः । ʻआस्पदं प्रतिष्ठायाम् (६। १। १४६) इति साधुः ॥ कृत्यं कार्यम् । तत्र तूपचाराद् वृत्तिः ॥ त्रिष्विष्टमधुरौ स्वादू । त्रिषु । इत ऊर्ध्वं वक्ष्यमाणाः स्वादुशब्दप्रभृतयः दान्तवर्गसमाप्तिपर्यन्ता विशेष्यनिघ्ना इत्यर्थः । इष्टो मृष्टः । यथा—स्वादु भुङ्क्ते । मधुरो रसविशेषवान्, कदलीफलादिः । मधुरशब्देन मनोज्ञश्च विवक्षितः । अत एव ʻस्वादुर्मृष्टमनोज्ञयोḵ इत्यजयः । रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः इत्यादौ धर्ममात्रवचनः स्वादुशब्दः केवलपुंलिङ्गः । स्वदते स्वादुः । ʻष्वद लआस्वादने । ʻकृवापाजिमिस्वदि ॥ । (उ। १। १।) इत्यादिना उण्प्रत्ययः ॥ मृदू चातीक्ष्णकोमलौ । अतीक्ष्णः कृपावान् । यथा—मृदुप्रकृतिरिति । कोमलः सुखस्पर्शः । यथा—मृदूनि कुसुमानीति ॥ ९४ ॥
मल्लि-नाथः - AK.03.03.094
गोष्पदं सेविते माने । सेवितो गोसञ्चारप्रदेशः । मानं गोखुरश्वभ्रम् ॥ प्रतिष्ठा कृत्यमास्पदम् । प्रतिष्ठेति स्थानम् । कृत्यं नाम कार्यम् ॥ त्रिष्विष्टमधुरौ स्वादू । त्रिष्विति विशारदशब्दान्तमधिकारः ॥ मृदू—कोमलौ ॥ ९४ ॥
[[०३.३५६]]
मूलम् - ०३.०३.०९५
अक्।०३.०३.०९५अब् मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ ।
अक्।०३.०३.०९५च्द् प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ॥ ९५ ॥
इति दान्तवर्गः
लिङ्ग-सूरी - AK.03.03.095
मन्दः खले च मूर्खे च स्वैरे चाभाग्यरोगिणोः ॥ २०२ ॥
अथाल्पेऽपि च मातङ्गगजजातिप्रभेदयोः ।
मूढे पङ्गौ समाख्यातस्तन्त्रान्तरविशारदैः ॥ २०३ ॥
आलस्येन मन्दते स्वपितीति मन्दः । ʻमदि स्वप्ने ॥
शारदः पीतमुद्गे स्याच्छालीनेऽप्रतिभे नवे ।
वर्षे च जलपिप्पल्यां सप्तपर्णे प्रकीर्तितः ॥ २०४ ॥
शरदि भवः शारदः ॥
विशारदो बुधे हृष्टे सुप्रगल्भे प्रकीर्तितः ।
विगतः शारदः प्रतिभाहीनत्वदोषोऽस्येति विशारदः ॥ ९५ ॥
इति दान्तवर्गः
मूढाल्प—मन्दा स्युः । मूढः प्रज्ञाहीनः । यथा—ʻमन्दः कवियशःप्रार्थी इति (रघु। १। ३) । अग्निमान्द्यमिति अल्पे । अपटुः व्याधितः । यथा—मन्दं चिकित्सति भिषक् इति । निर्भाग्यो भाग्यहीनः । यथा—नास्ति मन्दस्य काङ्क्षितम् इति । शेषे—ʻमन्दो मन्दे मन्दकार्ये स्वैरकारीभभेदयोḵ इति । इभभेदः, ʻभद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाḵ इत्युक्तलक्षणः । शनैश्चरग्रहोऽपि मन्द उच्यते ॥ द्वौ तु —अप्रतिभौ । शरदि भवः शारदः । लक्षणया अन्यत्रापि । अप्रतिभः प्रज्ञारहितः । शेषे —
ʻशारदः सप्तपर्णे स्यात् सरस्वत्यां तु शारदा ।
शारदी गजपिप्पल्यामृतुवर्षभवे त्रिषु ॥
इति । ऋतुभवे वर्षभवे च वाच्यलिङ्ग इत्यर्थः ॥ विद्वत्सुप्रगल्भौ विशारदौ । विशिष्टा शारदा अस्येति विद्वान् । विगतः शारदः प्रतिभाराहित्यलक्षणो दोषोऽस्येति विशारदः सुप्रगल्भः ॥ ९५ ॥
इति दान्तवर्गः
मल्लि-नाथः - AK.03.03.095
मूढाल्प—मन्दाः स्युः । अपटुशब्देन क्षुद्रवचस्करोगिणोरेव ग्रहणम् । ʻमन्दं ॥ ।मूढक्षुद्रवाग्रोगिष्ü इति सज्जनः ॥ द्वौ तु—अप्रतिभौ । अप्रतिभोऽधृष्टः । विद्वत्सुप्रगल्भौ विशारदौ । सुप्रगल्भः सुधृष्टः ॥ अनुक्तम्—
कुरुविन्दः पुमान् पद्मरागदर्पणयोरपि ।
अन्दूस्तु पादाभरणपादवन्धनयोः स्त्रियाम् ।
अष्टापदस्तु शरभे भवेच्छाखामृगेऽपि च ।
अर्धेन्दुर्गलहस्ते स्यान्नखाङ्केऽङ्गुलिमैथुने ।
जने च स्याज्जनपदो कुमुदं चारुणाम्बुजे ॥ ९५ ॥
इति दान्तवर्गः
[[०३.३५८]]
मूलम् - ०३.०३.०९६
अक्।०३.०३.०९६अब् व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः ।
अक्।०३.०३.०९६च्द् पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ ९६ ॥
लिङ्ग-सूरी - AK.03.03.096
न्यग्रोधो व्यामवटयोर्न्यग्रोधश्च शमीतरौ ॥ २०५ ॥
न्यग्रोधी वृषपर्ण्यां च मोहनाख्यौषधेऽपि च ।
न्यक् तिर्यग् रुणद्धीति न्यग्रोधः । ʻरुधिर् आवरणे ॥
उत्सेधः स्यादुच्छ्रयेऽपि काये च परिकीर्तितः ॥ २०६ ॥
उत्साधयतीति उत्सेधः । ʻषिधु गत्याम् ॥
विवधो वर्तते मार्गे पर्याहारे च वीवधः ।
पर्याहारः तण्डुलादिवधः । विविधो वधो गतिर्जीवनं वात्रास्तीति विवधः वीवधश्च । ʻहन हिंसागत्योḵ ॥ ९६ ॥
व्यामो वटश्च न्यग्रोधौ । व्यामः प्रागुक्तलक्षणः (१, पृ। ४१७) तिर्यक्प्रसारितभुजयोर्मध्यम् । वटः तरुविशेषः । न्यक् तिर्यक् रोहतीति न्यग्रोधः । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö ॥ उत्सेधः काय उन्नतिः । कायो देहः । उन्नतिः उच्छ्रायः । ऊर्ध्वं सेधनम् उत्सेधः । ʻषिधु गत्याम् ॥ पर्याहारश्च—वीवधौ च तौ । विक्रेतृभिः देशान्तरादाहृतं विक्रयस्थानस्थं तण्डुलादिद्रव्यं पर्याहारः । मार्गः पन्थाः । तावुभौ प्रत्येकं विवधवीवधशब्दाभ्यामुच्येते । विविधो वधो गमनमत्रेति विवधः । ʻविभाषा विवधवीवधात् (४। ४। १७) इति निर्देशाद् वैकल्पिके दीर्घे वीवधश्च । अत्र सूत्रे काशिकाकारः—विवधवीवधशब्दौ पथि पर्याहारे च वर्तेते इति (पृ। ३६६) । अत्र न्यासकारः—परित आह्रियत इति पर्याहारः तण्डुलादिरर्थ इति (भाग १, पृ। १०३३) । अपरस्त्वाह—परित आह्रियतेऽनेनेति पर्याहारशब्देन कोटिद्वयग्रथितशिक्यद्वययुक्तं तण्डुलाद्याहरणसाधनं काकोटिकाख्यं काष्ठवेण्वादिकमुच्यत इति । विविधो वधो वहनदुःखमत्रेति विवधः । निर्देशबलादेव दीर्घे वीवधश्च ॥ ९६ ॥
मल्लि-नाथः - AK.03.03.096
व्यामो—उन्नतिः । उन्नतिरिति ऊर्ध्वमानम् ॥ पर्याहारश्च—वीवधौ च तौ । पर्याहारः क्षीरदधिकावटिका । धान्यानामाधानं च ॥ ९६ ॥
[[०३.३५९]]
मूलम् - ०३.०३.०९७
अक्।०३.०३.०९७अब् परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ।
अक्।०३.०३.०९७च्द् बन्धकं व्यसनं चेतःपीडाधिष्ठानमाधयः ॥ ९७ ॥
लिङ्ग-सूरी - AK.03.03.097
चक्रे प्रान्ते च परिधिः प्रतिसूर्यक एव च ॥ २०७ ॥
यज्ञार्हवृक्षशाखायां परिवेषे च वर्तते ।
परिधीयत इति परिधिः । ʻडुधाञ् धारणपोषणयोḵ ॥
बन्धकेऽप्याधिराधारे चेतःपीडातिदुःखयोः ॥ २०८ ॥
आधीयत इत्याधिः ॥ ९७ ॥
परिधिः—उपसूर्यके । यज्ञार्हस्य तरोः शाखायां ʻत्रयः परिधयः—पलाशकाश्मर्यखदिरोदुम्बरबिल्वरोहितकविकङ्कतानाम् (आप। श्रौ। ५। ६) इत्यापस्तम्बाद्युक्तलक्षणाः शाखाः । सूर्यमण्डलसमीपस्थं प्रतिसूर्याख्यं मण्डलम् उपसूर्यकमण्डलं परिधिः । अग्नेः सूर्यस्य वा परितो धीयत इति परिधिः (३। ३। ९२) ॥ बन्धकं—आधयः । ऋणग्रहणसमये विश्वासार्थमधमर्णेन धनिकहस्ते स्थाप्यमानं सुवर्णभूषणादिकं बन्धकमुच्यते । अधमर्णेन आधीयत इति आधिः । सर्वस्वहरणपुरनिर्वासनादिकं व्यसनं चेतसः पीडा । दीर्घकालानुषक्तम् अधिष्ठानमाधारः । अधिकरणे किप्रत्ययः (३। ३। ९२) ॥ ९७ ॥
मल्लि-नाथः - AK.03.03.097
परिधिः—उपसूर्यके । यज्ञियतरुशाखेति पशुवन्धनार्थं निखातत्वक्सहितकाष्ठम् । त्वग्रहितकाष्ठं यूपः ॥ वन्धकं—आधयः । बन्धकं नाम प्रतिशीर्षकम् । ʻकुदव्ö । ʻप्रत्याशाप्याधिरुच्यते इति त्रिकाण्डशेषः (पृ। २८, श्लो। ७३७) । प्रत्याशेत्यागमाशा ॥ ९७ ॥
[[०३.३६०]]
मूलम् - ०३.०३.०९८
अक्।०३.०३.०९८अब् स्युः समर्थननीवाकनियमाश्च समाधयः ।
अक्।०३.०३.०९८च्द् दोषोत्पादेऽनुबन्धः स्यात् प्रकृत्यादिविनश्वरे ॥ ९८ ॥
अक्।०३.०३.०९९अब् मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ।
लिङ्ग-सूरी - AK.03.03.098
अङ्गीकारे वैश्यभेदे चित्तैकाग्र्यसमर्थने ।
नियमे वचनाभावे समाधिः परिकथ्यते ॥ २०९ ॥
समाधीयत इति समाधिः ॥
दोषोत्पादे स्यात् प्रकृतिप्रत्ययादिविनश्वरे ।
प्रकृतस्यानुवृत्तौ च शिशौ मुख्यानुयायिनि ॥ २१० ॥
अनुबन्धस्तु हिक्कायामनुबन्धी च तर्षणे ।
तर्षणं तृष्णा । अनुवध्यत इत्यनुवन्धः । ʻवध संयमने ॥ ९८ ॥
स्युः समर्थन—समाधयः । परेणाक्षिप्तस्यार्थस्य प्रतिविधानं समर्थनम् । यथा—अत्रायं समाधिरिति । नीवाको वचनाभावः । नियमो व्रतोपवासादिः । अथवा नियमोऽङ्गीकारः । ʻनियमाश्रवसंश्रवाḵ इत्यादिना (१, पृ। ९४) नियमसमाधिशब्दयोः पर्यायत्वाभिधानात् । समाधानं समाधिः (३। ३। ९२) । सम्यगाधीयते मनोऽत्रेति वा । शेषे—ʻसमाधिर्हृदयैकाग्र्ये वैश्यभेदप्रकारयोḵ इति । मार्कण्डेयपुराणे ʻसमाधिर्नाम वैश्योऽहम् (दे। माहा। १। २५) इत्युक्तो वैश्यविशेषः । ʻतं वेधा विदधे नूनं महाभूतसमाधिना’ (रघु। १। २९) इति प्रकारे ॥ दोषोत्पादे—प्रकृतस्यानुवर्तने । दोषाणां रागद्वेषादीनामुत्पादे प्रादुर्भावे । यथा—सानुबन्धावच्छिन्नपापानां विनिवृत्तये । प्रकृतिप्रत्ययागमादिषु विनश्वरे लोप्यावयवे इत्सञ्ज्ञके । यथा—इकानुबन्धकग्रहणे न द्व्यनुबन्धकस्येति । शिशाविति मुख्यं प्रधानमनुसरतो गुणीभूतमात्रस्योपलक्षणम् । यथा—धनमौदार्यमनुबध्नाति । केचित् तमनुवर्तमाने यत्र क्वचन शिशौ बाले चेति अर्थद्वयपरत्वेन व्याचक्षते । प्रकृतस्य प्रारब्धस्यानुवर्तने पुनरप्यनुक्रमणे यथा—वैरानुबन्धः इति । अनिवर्तने इति क्वचित् पाठः । निवर्तनस्य समापनस्याभाव इत्यर्थः । ʻबधि संयमने इत्यस्मादनुपूर्वाद् यथायोगं कर्मणि कर्तरि च घञ्प्रत्ययः (३। ३। १९) ॥ ९८ ॥
मल्लि-नाथः - AK.03.03.098
स्युः समर्थन—समाधयः । समर्थनं दुर्घटप्रतिघटनम् । नीवाकः अर्थोत्कृष्टहेतुषु जनादरः । चशब्दसङ्गृहीतं ध्यानम् आत्मनःसन्धानम् ॥ ʻसमाधिः ध्याननीवाकनियमेषु समर्थने इति रभसः ॥ दोषोत्पादे—प्रकृतस्यानुवर्तने । दोषोत्पादो दोषप्रकटनम् । मुख्यानुयायी शिशुः । मातापितृप्रभृतीनां पृष्ठमनुसृत्य गच्छत्सुतः । प्रकृतानुवर्तनं प्रस्तुतानुरोधः ॥ ९८ ॥
[[०३.३६१]]
अक्।०३.०३.०९९च्द् विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः ॥ ९९ ॥
अक्।०३.०३.०१००अब् विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे ।
अक्।०३.०३.०१००च्द् बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ॥ १०० ॥
लिङ्ग-सूरी - AK.03.03.099-100
विष्णौ चन्द्रे च कर्पूरे राक्षसे विधुरुच्यते ॥ २११ ॥
विध्यतीति विधुः । ʻव्यध ताडने ॥
कालावधानसीमासु परिच्छेदे विलेऽवधिः ।
अवधीयत इत्यवधिः ।
कल्पे विधाने दैवेऽपि प्रकारे चतुरानने ॥ २१२ ॥
विधिर्विधायकवचःकालयोः परिकीर्त्यते ।
विधीयत इति विधिः ।
प्रार्थने गूढचारे चाप्यवधाने च वीरुधि ॥ २१३ ॥
वर्तते स्कन्धशाखायां प्रणिधिः स्थापने तथा ।
प्रणिधीयत इति प्रणिधिः ॥
बुधः सौम्ये च विबुधे जिनपण्डितयोरपि ॥ २१४ ॥
बुध्यत इति बुधः । ʻबुध अवगमने ॥
वृद्धः स्याच्छैलजे जीर्णे प्रख्याते च मनीषिणि ।
वर्धत इति वृद्धः । ʻवृधु वृद्धü ॥
तनुप्रकाण्डयोरंसे सैन्यभागसमूहयोः ॥ २१५ ॥
समीहानृपयोः स्कन्धो बौद्धसञ्ज्ञादिपञ्चके ।
स्कन्द्यत इति स्कन्धः । ʻस्कन्दिर् गतिशोषणयोḵ ॥ ९९-१०० ॥
विधुर्विष्णौ चन्द्रमसि । विधति लोकानिति विधुः विष्णुः । ʻविध विधाने । विशेषेण धीयते पीयते देवैरिति विधुः चन्द्रमाः । ʻधेट् पाने । औणादिक उप्रत्ययः ॥ परिच्छेदे बिलेऽवधिः । परिच्छेदो मर्यादा । बिलं छिद्रम् । अवधीयतेऽनेन स्वरूपस्येयत्तेत्यवधिः । ʻउपसर्गे घोः किḵ (३। ३। ९२) । ʻअवधिस्त्ववधाने स्यात् सीम्नि काले बिलेऽपि च्ö इति नानार्थसङ्ग्रहः । अवधानमैकाग्र्यम् । काले यथा—ʻदर्शावधिं चान्द्रमुशन्ति मासम् इति । ऐकाग्र्यमप्यवधिरुच्यते ॥ विधिर्विधाने दैवेऽपि । ʻउपसर्गे घोः किḵ (३। ३। ९२) इति भावार्थे किप्रत्यये विधिः । विधानं यागाद्यनुष्ठानम् । पुराकृतं कर्म दैवम् । शेषे—ʻविधिः प्रकारे कल्पे च लिङाद्यर्थे प्रजापतü इति । यथा—ʻतुल्य एव विधिस्तयोḵ इति । ʻएष दावविधिः प्रोक्तḵ इति कल्पे । लिङाद्यर्थे यथा—ʻविधिविहितोऽयं प्रत्ययḵ इति ॥ प्रणिधिः प्रार्थने चरे । प्रार्थनं याच्ञा । चरोऽपसर्पः । प्रणिधानमपि प्रणिधिः ॥ बुद्धवृद्धौ पण्डितेऽपि । ʻबुध अवबोधने इति दैवादिको बुध्यतिरनिट् । बुध्यते । क्तः । अपिशब्दात् सुगते (१, पृ। १२), बुधिते च (२, पृ। १५०) बुद्धः प्रागुक्तः । वृद्धशब्दस्तु स्थविरे त्रिलिङ्गः । शैलेये तु नपुंसकलिङ्गः (१, पृ। २८८) ॥ स्कन्धः समुदयेऽपि च । अध्यायादिसमूहः समुदयः । यथा—त्रिस्कन्धं ज्योतिःशास्त्रम् । द्वादशस्कन्धं भागवतम् इति । शेषे—ʻसमीहावृषयोः स्कन्धः सैन्यरूपादिपञ्चके इति । समीहा इच्छा । सैन्ये यथा—ʻस्कन्धावारे धन्यसेनास्य राज्ञḵ इति । रूपवेदनाविज्ञानसञ्ज्ञासंस्काराः पञ्चस्कन्धा इति बौद्धाः । भुजशिरसि (१, पृ। ४११) प्रकाण्डे च (१, पृ। २२०) प्रागुक्तः । स्कन्दति गच्छतीति स्कन्धः । ʻस्कन्दिर् गतिशोषणयोḵ । पृषोदरादिः ॥ ९९-१०० ॥
मल्लि-नाथः - AK.03.03.99-100
विधुः—अवधिः । परिच्छेदः सीमा । विलं गर्तः ॥ विधिर्विधाने दैवेऽपि । ʻविधिर्विधाने नियतौ विधिः काले विधातरि इति विश्वः ॥ प्रणिधिः—पण्डितेऽपि । बुद्धशब्दः सुगतेऽपि स्यात् । वृद्धशब्दः स्थविरेऽपि स्यात् ॥ स्कन्धः समुदयेऽपि च । ʻस्कन्धः प्रकाण्डे काये च बाहुमूलसमूहयोḵ इति विश्वः (पृ। ८२, श्लो। ८) ॥ ९९-१०० ॥
[[०३.३६४]]
अक्।०३.०३.१०१अब् देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् ।
अक्।०३.०३.१०१च्द् विधा विधौ प्रकारे च साधु रम्येऽपि च त्रिषु ॥ १०१ ॥
लिङ्ग-सूरी - AK.03.03.101
अब्धौ देशे गजमदे नद्यां सिन्धुर्नदे भवेत् ॥ २१६ ॥
सिमिति धयन्त्यत्रेति सिन्धुः । ʻधेट् पाने ॥
ऋद्धौ प्रकारे च विधा गजाद्यन्ने विधौ भृतौ ।
विधीयत इति विधा ॥
योग्ये प्रवीणे रम्येऽपि साधुर्वार्धुषिके भवेत् ॥ २१७ ॥
साध्नोति धर्ममिति साधुः । ʻसाध संसिद्धü ॥ १०१ ॥
देशे—सरिति स्त्रियाम् । सैन्धवोऽश्वः इति देशे । नदविशेषे यथा—ʻविनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैḵ (रघु। ४। ६७) इति । अब्धौ प्रागुक्तः (१, पृ। १५६) । ʻसमुद्रमिव सिन्धवḵ इति सरित्सामान्ये । स्यन्दत इति सिन्धुः । ʻस्यन्दू प्रस्रवणे (उ। १। ११) । शेषे—ʻसिन्धुर्गजमदेऽपि स्यात् इति ॥ विधा विधौ प्रकारे च । विधिः विधानम् । प्रकारे यथा—द्विविधः, त्रिविधः इति । शेषे—ʻगजान्ने वर्तने विध्ȫ इति । गजान्ने यथा—ʻउत्क्षिप्तहस्ततलदत्तविधान्नपिण्डḵ इति माघकाव्ये (शिशु। ५। ५१) प्रयोगः । विधासञ्ज्ञकान्नपिण्ड इत्यर्थः । वर्तनं जीवनोपायः । यथा—ʻतस्माद् यया कया च विधया बह्वन्नं प्राप्नुयात् इति (तै। उ। ३। १०) । ʻविधानर्द्धिप्रकारेषु गजान्ने वेतने विध्ȫ इति रुद्रः । ऋद्धिः समृद्धिः । विपूर्वाद् दधातेः ʻआतश्चोपसर्गे (३। ३। १०६) इति भावार्थे अङ्प्रत्ययः ॥ साधु रम्येऽपि च त्रिषु । साधयति साध्नोति वा प्रियमिति साधु । ʻराध साध संसिद्धü । ʻकृवापाजि ॥ । इत्यादिना (उ। १। १) उण् । शेषे—ʻसाधुर्वार्धुषिके सति इति । सज्जने इत्यर्थः । विश्वप्रकाशेऽपि—ʻसाधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत् इति (पृ। ८२, श्लो। १२) ॥ १०१ ॥
मल्लि-नाथः - AK.03.03.101
देशे—विधौ प्रकारे च । ʻविधा विधानहस्त्यन्नप्रकारार्थेषु वेतने इति जयकोशः ॥ साधू रम्येऽपि च त्रिषु । ʻत्रिषु साधूचिते सौम्ये सज्जने वार्धुषौ पुमान् इति वैजयन्ती (पृ। २३८, श्लो। ९६) ॥ १०१ ॥
[[०३.३६५]]
अक्।०३.०३.१०२अब् वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही ।
अक्।०३.०३.१०२च्द् सन्धा प्रतिज्ञा मर्यादा श्रद्धा सम्प्रत्ययः स्पृहा ॥ १०२ ॥
लिङ्ग-सूरी - AK.03.03.102
नवोढायां स्नुषायां च जायायां युवतौ वधूः ।
शट्यां प्रियङ्गौ स्पृक्कायां शारिबायामपि स्मृता ॥ २१८ ॥
उह्यत इति वधूः । ʻवह प्रापणे ॥
लेपे क्षीरे च पीयूषे मूर्वास्नुह्योर्भवेत् सुधा ।
सुष्ठु धीयत इति सुधा । ʻधेट् पाने ॥
सन्धाने धारणे सन्धा प्रतिज्ञासीमयोर्भवेत् ॥ २१९ ॥
सन्धीयत इति सन्धा ॥
स्पृहायां भक्त्यतिशये श्रद्धाशब्दः प्रकीर्तितः ।
श्रद्धत्त इति श्रद्धा । ʻडुधाञ् धारणपोषणयोḵ ॥ १०२ ॥
वधूर्जाया स्नुषा स्त्री च । स्त्रीशब्देन स्त्रीमात्रमुच्यते । उह्यत इति वधूः । ʻवहो धश्च्ö (उ। १। ८६) इत्यूकारप्रत्ययः, धश्चान्तादेशः । शेषे—ʻनवोढायां प्रियङ्गौ च शटीशारिबयोर्वधूḵ इति । प्रियङ्गुः फलिनी । शटी षड्ग्रन्था । वधूः प्रागुक्ता (१, पृ। ३६२, ३६७) ॥ सुधा लेपोऽमृतं स्नुही । लेपशब्देन हर्म्यादिलेपसाधनं घृतगुडसिकतादिसाहित्येन मृदितस्निग्धचूर्णादिद्रव्यमुच्यते । अमृतं पीयूषम् । स्नुही वज्रद्रुः । सुष्ठु धीयते पीयते निधीयत इति वा सुधा । ʻघेट् पाने । ʻडुधाञ् धारणपोषणयोḵ । शेषे—ʻसुधा पयसि मूर्वायाम् इति । मूर्वा मोरटा (१, पृ। २६४) ॥ सन्धा प्रतिज्ञा मर्यादा । सन्त्यसन्ध इति प्रतिज्ञायाम् । मर्यादा स्थितिः । यथा—
ʻउपकारिणि विस्रब्धे शुद्धमतौ यः समाचरति पापम् ।
तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥
इति । शेषे—ʻसन्धा सन्धानसीमयोḵ इति । सन्धानं संश्लेषः । सन्धीयेते क्षेत्रद्वयप्रान्तावनयेति सन्धा सीमा । यथा—गोदावरीसन्धो विन्ध्य इति ॥ श्रद्धा सम्प्रत्ययः सपृहा । सम्प्रत्ययो विश्वासः । यथा—श्रद्धा धर्मस्य साधनम् इति । इच्छायां यथा—ʻश्रद्धालुर्दोहदवती इति (१, पृ। ३७४) । ʻश्रदन्तरोरुपसर्गवद् वृत्तिर्वक्तव्य्ȫ (काशिका पृ। २२३) इति उपसर्गवद्भावात् ʻआतश्चोपसर्गे (३। ३। १०६) इत्यङ्प्रत्यये श्रद्धा ॥ १०२ ॥
मल्लि-नाथः - AK.03.03.102
वधूर्जाया—स्नुही । लेप इति चूर्णम् । ʻसुन्नम्ü ॥ सन्धा—स्पृहा । सम्प्रत्यय आस्तिक्यम् ॥ १०२ ॥
[[०३.३६६]]
अक्।०३.०३.१०३अब् मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि ।
अक्।०३.०३.१०३च्द् अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ ॥ १०३ ॥
लिङ्ग-सूरी - AK.03.03.103
जीवाशोके वसन्ते स्याच्चैत्रे दैत्ये द्रुमे मधुः ॥ २२० ॥
क्षीरे मद्ये पुष्परसे जले क्षौद्रे नपुंसकम् ।
माद्यन्त्यनेनेति मधुः । ʻमदि हर्षग्लेपनयोḵ ॥
अन्धं जले तमसि च दृष्टिहीने पुमान् स्मृतः ॥ २२१ ॥
अन्धयतीत्यन्धः । ʻअन्ध दृष्ट्युपघाते ॥ अथ त्रिषु अतःपरं धान्तशब्दाः त्रिषु लिङ्गेषु वर्तन्ते ।
गर्विते पण्डितम्मन्ये दुष्टवर्तनवर्तके ।
ऊर्ध्ववद्धे समुद्भूते समुन्नद्धोऽभिधीयते ॥ २२२ ॥
समुन्नह्यत इति समुन्नद्धः । ʻणह वन्धने ॥ १०३ ॥
मधु मद्ये—क्षौद्रेऽपि । माध्वीकरूपे मधुविशेषे, पुष्परसे मकरन्दे, क्षुद्राभिर्मक्षिकाविशेषैः कृते सारघे । मन्यत इति मधु । ʻमन ज्ञाने । ʻफलिपाटिनमिमनिजनाम् ॥ । इत्यादिना (उ। १। १८) उप्रत्ययो धकारागमश्च । शेषे—
ʻमधुर्ना क्षत्रिये चैत्रे वसन्ते दानवे द्रुमे ।
अस्त्रियां मद्यभेदे स्यात् क्लीबं सलिलदुग्धयोः ॥
इति । ʻपतिषु निर्विविशुर्मधुमङ्गनाḵ इति मधुनः रघुवंशे पुंलिङ्गप्रयोगः (रघु। ९। ३६) ॥ अन्धं तमस्यपि । अन्ध्यते चक्षुर्वृत्तिरुपसंह्रियतेऽनेनेति अन्धम् । ʻअन्ध दृष्ट्युपसंहारे (३। १। १३४) । अपिशब्दात् चक्षुरिन्द्रियविकले वाच्यलिङ्गः ॥ अतस्त्रिषु । इत ऊर्ध्वं वक्ष्यमाणधकारान्ताश्चत्वारः शब्दा वाच्यलिङ्गा इत्यर्थः । समुन्नद्धौ पण्डितम्मन्यगर्वितौ । पण्डितमात्मानं मन्यत इति पण्डितम्मन्यः (३। २। ८३) । पाण्डित्याभिमानयुक्त इत्यर्थः । गर्वातिशयवान् गर्वितः । आत्माभिमानेन गर्वेण च सम्यगूर्ध्वं नह्यत इति समुन्नद्धः । ʻणह बन्धने । क्तः ॥ २०३ ॥
मल्लि-नाथः - AK.03.03.103
मधु मद्ये—क्षौद्रेऽपि । क्षौद्रे केषाञ्चिद् नपुंसकम् । ʻक्षौद्रादौ तद्रसेऽप्यस्त्री ना वसन्ते रसे सुरे इति वैजयन्ती (पृ। २३५, श्लो। ६१) ॥ अन्धं तमस्यपि । चक्षुर्विकले त्रिलिङ्गम् ॥ अतस्त्रिषु—गर्वितौ ॥ १०३ ॥
[[०३.३६८]]
अक्।०३.०३.१०४अब् ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः ।
अक्।०३.०३.१०४च्द् अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ ॥ १०४ ॥
इति धान्तवर्गः
लिङ्ग-सूरी - AK.03.03.104
अधिक्षिप्ते ब्रह्मबन्धुर्निर्देशे च द्विजन्मनाम् ।
ब्रह्मणो बन्धुः ब्रह्मबन्धुः ॥
आक्रान्ते चाविदूरे स्यादवष्टब्धोऽवलम्बने ॥ २२३ ॥
अवष्टभ्यत इत्यवष्टब्धः । ʻस्तभि ष्टभि प्रतिबन्धे ॥
ख्यातभूषितयोश्चैव प्रसिद्धः परिकथ्यते ।
प्रकर्षेण सिद्धः प्रसिद्धः ॥ १०४ ॥
इति धान्तवर्गः
ब्रह्मबन्धुरधिक्षेपे निर्देशे । ब्राह्मणोऽप्ययं ब्राह्मणकर्मणि न प्रवर्तते, केवलं जातिमात्रयुक्त एवेति । एवमाद्यधिक्षेपे तिरस्कारे प्रकाशनीये ब्रह्मबन्धुशब्दः प्रयोक्तव्यः । यथा—ब्रह्मबन्धो किमेवमात्थ इति । निर्दिश्यत इति निर्देशः । यस्य द्वेषान्नाम न गृह्यते, न त्वधिक्षेपार्थम्, तस्मिन्निर्देष्टव्ये ब्रह्मबन्धुशब्दः । यथा—किं करोति ब्रह्मबन्धुः इति । अत्र केचिदाहुः—ब्राह्मणजातियुक्तोऽयमित्येतावत्येव निर्देष्टव्ये ब्रह्मबन्धुरिति वाच्य इति । अपरे आहुः—कस्मिंश्चिद् देशान्तरीयत्वेन प्रागज्ञाते शुश्रूषादिना परिज्ञातब्राह्मणसम्बन्धे भृत्यशिष्यादौ निर्देष्टव्ये ब्रह्मबन्धुरिति निर्देश इति । ब्रह्मबन्धुरित्यत्र बहुव्रीहौ तत्पुरुषे वा समासे ब्रह्मप्रतियोगिकबन्धुत्वमेव प्रकाश्यते, न तु ब्रह्मत्वमिति अधिक्षेपावगतिः । यथा—मैत्रभार्यापुत्र इत्युक्ते मैत्रजन्योऽयं न भवतीति प्रतीतिः ॥ अथ—अवष्टब्धः । अवलम्बितः आलम्बितः, गृहीत इति यावत् । यथा—हस्तावष्टब्धयष्टिः इति । अविदूरे यथा—अवष्टब्धा सेना (काशिका पृ। ४३८) इति । आसन्ना इत्यर्थः । अवष्टभ्यत इत्यवष्टब्धः । स्तम्भिः सौत्रो धातुः प्रतिबन्धार्थः । कर्मणि क्तः (३। ४। ७२) । ʻअवाच्चालम्बनाविदूर्ययोḵ (८। ३। ६८) इति षत्वम् । शेषे—ʻआक्रान्ते चावरुद्धे स्यादवष्टब्धस्तिरस्कृते इति । आक्रान्ते यथा—ʻरथान्तरमवष्टब्धं तदा तेन तरस्विन्ȫ इति । गले वटिनावष्टब्ध इति निरुद्धे । तिरस्कारे यथा—निग्रहावष्टब्धो वावदूकं मन्यते इति ॥ प्रसिद्धौ ख्यातभूषितौ । ख्यातः प्रख्यातः । भूषितोऽलङ्कृतः । प्रसिध्यति सर्वत्र प्रख्यातो भवतीति प्रसिद्धः ॥ १०४ ॥
इति धान्तवर्गः
मल्लि-नाथः - AK.03.03.104
ब्रह्मबन्धुरधिक्षेपे निर्देशे । किं कृतं ब्रह्मबन्धोर्दासि । अत्र दासी अधिक्षेप्या ब्रह्मबन्धोरिति तदधिक्षेपः । अतः त्रिष्वित्यधिकाराद् अधिक्षेप्यलिङ्गः । ब्रह्मबन्धो माणवक तिष्ठ । अत्र माणवको निर्देश्यः । ब्रह्मबन्धो इति तन्निर्देशः । अतस्त्रिष्वित्यधिकाराद् निर्देश्यलिङ्गः ॥ अतावलम्बितः—भूषितौ ॥ अनुक्तम्—
कवन्धः सैंहिकेयेऽपि गन्धोऽहङ्करणेऽपि च ।
शुद्धं तु केवलेऽपि स्यादब्धिः पद्माकरेऽपि च ।
निषेधोऽपि च बाधे स्यान्मग्धं स्यान्नूतनेऽपि च ।
दोग्धा गोपालके वत्से निन्दावार्तोपजीविनि ।
योजनगन्धा कस्तूर्यां तन्मृगे व्यासमातरि ॥ १०४ ॥
इति धान्तवर्गः
[[०३.३७०]]
अथ नान्तशब्दाः—
अक्।०३.०३.१०५अब् सूर्यवह्नी चित्रभानू भानू रश्मिदिवाकरौ ।
अक्।०३.०३.१०५च्द् भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ ॥ १०५ ॥
लिङ्ग-सूरी - AK.03.03.105
अग्नौ सूर्ये चित्रभानुर्भानुरर्यम्णि दीधितौ ॥ २२४ ॥
चित्रा भानवो यस्यासौ चित्रभानुः । भातीति भानुः ।
देहे विरिञ्चौ भूतात्मा नीचे मूर्खे पृथग्जनः ।
ʻभा दीप्तü ॥ भूतानामात्मा भूतात्मा । यद्वा भूतान्यात्मा यस्येति वा भूतात्मा ॥ पृथक्कार्यो जनः पृथग्जनः ॥ १०५ ॥
सूर्यवह्नी चित्रभानू । संयोगिद्रव्योपाधिवशात् चित्रा नानावर्णा भानवो रश्मयो यस्य सः चित्रभानुः ॥ भानू रश्मिदिवाकरौ । रश्मिः किरणः ॥ भूतात्मानौ धातृदेहौ । भूतानां सर्वप्राणिनाम् अन्तर्यामिरूपेणावस्थितः आत्मा भूतात्मा ब्रह्मा । पृथिव्यादीनि पञ्च भूतानि आत्मा स्वरूपमस्येति भूतात्मा देहः ॥ मूर्खनीचौ पृथग्जनौ । मूर्खः विवेकरहितः । नीचो हीनजातिः । सभ्यजनापेक्षया पृथक्कृतो जनः पृथग्जनः । (वा। २। १। ६०) ॥ १०५ ॥
मल्लि-नाथः - AK.03.03.105
सूर्यवह्नी—दिवाकरौ । भानुः दिवसेऽपि स्यात् । ʻदिवसं चास्त्रियौ भानुर्घृणिर्घस्रो रविध्वजḵ इति वैजयन्ती (पृ। २१, श्लो। ५५) ॥ भूतात्मानौ—पृथग्जनौ ॥ १०५ ॥
अक्।०३.०३.१०६अब् ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ ।
अक्।०३.०३.१०६च्द् तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ १०६ ॥
लिङ्ग-सूरी - AK.01.01.001
शिलोच्चये च पाषाणे ग्रावा समभिधीयते ॥ २२५ ॥
गिरतीति ग्रावा । ʻगॄ निगरणे ॥
विहङ्गमे सायके च श्येनपर्वतयोरपि ।
महीरुहे वाहनेऽपि पत्रिशब्दोऽभिधीयते ॥ २२६ ॥
पत्रमस्यास्तीति पत्री ॥
अपामार्गे वृक्षशैलकोटीषु शिखरी मतः ।
शिखरमस्यास्तीति शिखरी ॥
वह्नौ मयूरे चूडाले सारङ्गे शैलवृक्षयोः ॥ २२७ ॥
वलीवर्दे कुक्कुटे च कैतौ विप्रे शिखी मतः ।
शिखा अस्यास्तीति शिखी ॥ १०६ ॥
ग्रावाणौ शैलपाषाणौ । व्यक्तार्थमेतत् । उक्तयोगश्च । पत्रिणौ शरपक्षिणौ । इह पक्षिशब्देन पक्षिसामान्यम्, तद्विशेषः श्येनश्च गृह्यते । पत्रशब्दो येषु पलाशवहनादिष्वर्थेषु वर्तते, ते सर्वे द्रुमरथादयः पत्रिशब्दस्यार्थ इति विज्ञेयम् ॥ तरुशैलौ शिखरिणौ । वृक्षाग्रं पर्वताग्रं शिखरमिति प्रागुक्तम् (१, पृ। २२१, २११) । तद्योगात् तरुशैलौ । अपामार्गेऽपि शिखरिशब्दः (१, पृ। २६७) ॥ शिखिनौ वह्निबर्हिणौ । ज्वाला चूडा च शिखा (१, पृ। ३९, ३५३) । तद्योगाद् उभावपि शिखिनौ । शेषे—ʻओषधौ पर्वते विप्रे कुक्कुटध्वजयोः शिखी इति । ओषधिः मयूरशिखेति प्रसिद्धा चित्रकश्च (१, पृ। २६२) ॥ १०६ ॥
मल्लि-नाथः - AK.03.03.106
ग्रावाणौ शैलपाषाणौ—बह्निबर्हिणौ ॥ १०६ ॥
[[०३.३७२]]
अक्।०३.०३.१०७अब् प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ ।
अक्।०३.०३.१०७च्द् द्वौ सारथिहयारोहौ वाजिनोऽश्वेषुपक्षिणः ॥ १०७ ॥
लिङ्ग-सूरी - AK.03.03.107
प्रतियत्नस्तु संस्कारे लिप्सोपग्रहयोरपि ॥ २२८ ॥
प्रतियत्यत इति प्रतियत्नः । ʻयती प्रयत्ने ॥
सादी तुरङ्गमारोहे रथारोहे निषादिनि ।
आलस्यं सादयतीति सादी । ʻषद्लृ विशरणगत्यवसादनेष्ü ॥
तुरङ्गमे सायके च वाजी तु विहगे भवेत् ॥ २२९ ॥
वाजः पक्षोऽस्यास्तीति वाजी ॥ १०७ ॥
प्रतियत्नावुभौ लिप्सोपग्रहौ । लब्धुमिच्छा लिप्सा । उपग्रहो बन्दिग्रहः । प्रतियत्यते प्राप्यं प्रति यत्नः क्रियतेऽनेनेति प्रतियत्नः । ʻयती प्रयत्ने । ʻयजयाच ॥ । इत्यादिना (३। ३। ९०) नङ् प्रत्ययः । शेषे—ʻप्रतियत्नः प्रतीकारे गुणाधाने च वस्तुनḵ इति । अपकर्तुः प्रातिकूल्याचरणं प्रतीकारः । पानीयादेर्वस्तुनः कर्पूरादिना गुणविशेषाधानं प्रतियत्नः ॥ अथ सादिनौ—हयारोहौ । सीदति निषीदति अवश्यमिति सादी सारथिः । सादयति तुरगमिति सादी हयारोहः । प्रतापोऽपि—ʻसादी स्यात् तुरगारोहे रथेभारोहयोरपि इति । इभारोहे गजारोहे इत्यर्थः ॥ वाजिनोऽश्वेषुपक्षिणः । इषुः बाणः । वाजाः पक्षाः सन्त्येषामिति वाजिनः । अश्वानामपि पुराकल्पे पक्षाः आसन्निति पौराणिकी प्रसिद्धिः । तेन भूतपूर्वगत्या सम्प्रत्यपि वाजिन इत्युच्यन्ते । अथवा ʻवज गतü इति धातोः णिनिप्रत्यये वाजी ॥ १०७ ॥
मल्लि-नाथः - AK.03.03.107
प्रतियत्नावुभौ लिप्सोपग्रहौ । लब्धुमिच्छा लिप्सा । अनुकूलमुपग्रहः । संस्कारोऽपि स्यात् । सतो गुणस्य गुणान्तराधानं संस्कारः । ʻप्रतियत्नस्तु संस्कारे लिप्सोपग्रहयोरपि इति रुद्रः ॥ अथ सादिनौ—पक्षिणः ॥ १०७ ॥
[[०३.३७३]]
अक्।०३.०३.१०८अब् कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः ।
अक्।०३.०३.१०८च्द् वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः ॥ १०८ ॥
लिङ्ग-सूरी - AK.03.03.108
कुलेऽप्यभिजनो जन्मभूम्यां कीर्तौ कुलध्वजे ।
अभिजन्यत इत्यभिजनः ॥
वर्षे वर्गे व्रीहिभेदे हायनोऽर्चिषि च स्मृतः ॥ २३० ॥
जहाति विभवानिति हायनः । ʻओहाक् त्यागे । अर्चिःपक्षे हयति दीपयतीति हायनः । ʻहय गतिदीप्त्योḵ ॥
विरोचनश्चन्द्रवह्न्योर्बलिताते दिवाकरे ।
विरोचत इति विरोचनः । ʻरुच दीप्तü ॥ १०८ ॥
कुले—जन्मभूम्यामपि । कुलं वंशः । यथा—महाभिजनप्रभवोऽयमिति । जन्मस्थाने यथा—कन्याकुब्जाभिजनस्त्रिविक्रमसेन इति । अभिजायतेऽस्मिन्नित्यभिजनः । ʻजनी प्रादुर्भावे । अदिकरणे घञ् (३। ३। १२१) । ʻजनिवध्योश्च्ö (७। ३। ३३) इति वृद्धिप्रतिषेधः ॥ अथ हायनाः—भेदाः स्युः । वर्षः वत्सरः । अर्चिः ज्वाला । व्रीहिभेदः षष्टिकाख्यः । जहातीति हायनः । ʻओहाक् त्यागे । ʻहश्च व्रीहिकालयोḵ (३। १। १४८) इति ण्युट्प्रत्ययः । ʻआतो युक्चिण्कृतोḵ इति युक् (७। ३। ३३) । जिहीते ऊर्ध्वं गच्छतीति हायनोऽर्चिः । यद्यपि वर्षार्चिर्वाचकस्य हायनशब्दस्य नपुंसकलिङ्गत्वमप्यस्ति तथापि पुंलिङ्गस्यापि सद्भावेन हायनशब्दस्य भिन्नलिङ्गत्वाभावादेकशेषोपपत्तिरिति ॥ चन्द्राग्न्यर्का विरोचनाः । विशेषेण रोचते दीप्यत इति विरोचनः । ʻरुच दीप्तü । ʻअनुदात्तेतश्च हलादेḵ (३। २। १४९) इति युच् । शेषे—ʻविरोचनो बलेस्ताते इति । बलिचक्रवर्तिनः पिता विरोचनः पुराणेषु प्रसिद्धः ॥ १०८ ॥
मल्लि-नाथः - AK.03.03.108
कुले—व्रीहिभेदाः स्युः । वर्षार्चिषोर्नपुंसकमपि । वर्षो वत्सरः । अर्चिः मयूखः । अनयोः क्लीवत्वं चेति सुभूतिटीका ॥ चन्द्राग्न्यर्का विरोचनाः ॥ १०८ ॥
[[०३.३७४]]
अक्।०३.०३.१०९अब् केशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः ।
अक्।०३.०३.१०९च्द् आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ १०९ ॥
लिङ्ग-सूरी - AK.03.03.109
वृजिनः कुटिले केशे किल्बिषे वृजिनं भवेत् ॥ २३१ ॥
वृज्यत इति वृजिनः । ʻवृजी वर्जने ॥
विश्वकर्मा देवशिल्पिसूर्ययोस्तापसान्तरे ।
विश्वस्य कर्मास्यास्तीति विश्वकर्मा ॥
यत्नस्वभावदेहेषु धैर्यक्षेत्रज्ञयोरपि ॥ २३२ ॥
मनीषायां च हृदये ब्रह्मण्यात्माभिधीयते ।
अततीत्यात्मा । ʻअत सातत्यगमने ॥ १०९ ॥
क्लेशेऽपि वृजिनः । क्लेशो दुःखम् । वृज्यते त्यज्यत इति वृजिनः । रूपभेदात् पुंलिङ्गः । शेषे—ʻक्लीबे वृजिनमेनसि इति पापे नपुंसकम् । ʻवृजिनं कल्मषे क्लीबं क्लेशे ना कुटिले त्रिष्ü इति रभसः ॥ विश्वकर्मार्कसुरशिल्पिनोः । विश्वस्य लोकस्य कर्माणि व्यापारा यस्मादिति विश्वकर्मा सूर्यः । विश्वानि कर्माणि देवसभानिर्माणादीनि यस्येति देवशिल्पी ॥ आत्मा—वर्ष्म च । यत्नः प्रयत्नः । यथा—आत्मानुरूपं फलमिति । यत्नानुरूपमित्यर्थः । धृतौ धैर्ये यथा—आत्मवान् नैव मुह्यतीति । बुद्धौ यथा—स्वात्मवेद्योऽयमर्थः । स्वबुद्धिवेद्योऽयमिति यावत् । स्वभावः सहजो धर्मः । यथा—दुष्टात्मा क्रोधात्मा । ब्रह्मणि परमात्मनि यथा—ʻआत्मैवेदं सर्वम् (छा। उ। ७। २५। २) इति । वर्ष्मणि शरीरे यथा—स्थूलात्मा, कृशात्मा इति । शेषे—ʻआत्मेन्द्रियेऽनिले जीवे इति । इन्द्रिये यथा—नियतात्मा, संयतात्मा इति । अनिलः प्राणाख्यो वायुभेदः । यथा—नेदं निरात्मकं जीवच्छरीरम् । जीवात्मनि यथा—ʻनानात्मानो व्यवस्थातḵ (वैशे। सू। ३। २। २०) इति । वैजयन्त्यामपि—ʻआत्मा जीवे धृतौ देहे स्वभावे परमात्मनि । इन्द्रिये वायुभेदे च्ö इति (पृ। २१४, श्लो। ६) । अतति सर्वगतो भवतीति आत्मा । ʻअत सातत्यगमने ॥ १०९ ॥
मल्लि-नाथः - AK.03.03.109
केशेऽपि वृजिनः । ʻवृजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिष्ü इति रभसः ॥ विश्वकर्मा—वर्ष्म च । यत्ने—ʻसर्वात्मना चक्षुरिव प्रविष्ट्ȫ इति रघुवंशः (७। १२) । धृतौ—महात्मानस्तपस्विनः । बुद्धौ—आत्मा ह्यनुभवति सुखदुःखे । स्वभावे—ʻअजानन् दाहात्म्यं पततु शलभस्तीव्रदहने (वैरा। श। १८) । ब्रह्मणि—ʻप्राक्सृष्टेः केवलात्मने (कु। सं। २। ४) । वर्ष्मणि—ʻअस्त्युत्तरस्यां दिशि देवतात्म्ȫ (कु। सं। १। १) । जीवमनसी अपि स्याताम् । ब्रह्मात्मनोरभेदज्ञः । ʻआत्मा येन जितस्तेन जितं हि भुवनत्रयम् ॥ १०९ ॥
[[०३.३७५]]
अक्।०३.०३.११०अब् शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः
अक्।०३.०३.११०च्द् अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः ॥ ११० ॥
लिङ्ग-सूरी - AK.03.03.110
श्लक्ष्णे शक्रे घातुकेभे वर्षुकाब्दे घनाघनः ॥ २३३ ॥
अतिशयेन घनो निरन्तरो घनाघनः ।
अभिमानो वधे ज्ञाने प्रणयार्थादिदर्पयोः ।
अभिमन्यत इत्यभिमानः । ʻमन ज्ञाने । ʻमीञ् हिंसायाम् ॥ ११० ॥
शक्रो—घनाघनः । घातुको हिंस्रः । मत्तेभो मत्तगजः । वर्षुकाब्दो वर्षणशीलो मेघः । इन्द्राद्यर्थचतुष्टयेषु घनाघनशब्दः । तथा च हलायुधः (अ। मा। ५। ४०)—ʻघनाघनो घाचुकमत्तदन्तिनोर्निरन्तरे वासववर्षुकाब्दयोḵ इति । यथा—घनाघने नभसि भान्ति नार्कत्विषः इति । स्वामी तु—घातुकश्चासौ मत्तेभश्चेति कर्मधारयमुक्त्वा व्याख्यत् । हन्तीति घनाघनः । ʻचरिचलिपतिवदीनां द्वित्वमच्याक् चाभ्यासस्य्ö (वा। ६। १। १२) इत्यनुवृत्तौ ʻहन्तर्घत्वं च (वा। ६। १। १२) इति धातोर्द्विर्वचनमभ्यासस्यागागमश्च, हकारस्य च घत्वं च ॥ अभिमानो—हिंसयोः । धनेन कुलेन विद्यया वा मत्सदृशः कोऽपि नास्तीति बुद्धिरर्थादिदर्पः । अत्र ज्ञानशब्देन अतस्मिंस्तदिति ज्ञानविशेषो विवक्षितः । यथा—शुक्तिकाशकले रजताभिमानः इति । प्रणयः प्रार्थना । परापद्रवकरणं हिंसा । ʻमन ज्ञाने ʻमन अवबोधने ʻमान पूजायाम् । एभ्यो धातुभ्यो यथातथं भावे घञि (३। ३। १८) अभिमानः । ʻमीञ् हिंसायाम् इत्यस्माद्धातोः ल्युटि (३। ३। ११५) ʻमीनाति मिनोति ॥ । (६। १। ५०) इत्यात्वे मानशब्दो हिंसावचनः । को मान इति महाभाष्यप्रयोगदर्शनात् ल्युडन्तस्यापि पुंलिङ्गत्वोपपत्तिः ॥ ११० ॥
मल्लि-नाथः - AK.03.03.110
शक्रो—घनाघनः । घातुकश्चासौ मत्तेभश्चेति विशेषणसमास इति सुभूतिटीका । ʻघनाघनो घातुकमत्तदन्तिनोḵ इति विश्वः (पृ। ९९, श्लो। १७४) । अभिमानो—प्रणयहिंसयोः ॥ ११० ॥
[[०३.३७७]]
अक्।०३.०३.१११अब् घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ।
अक्।०३.०३.१११च्द् इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥
लिङ्ग-सूरी - AK.03.03.111
मेघे मूर्तिगुणे मूर्ते सान्द्रे विस्तारदार्ढ्ययोः ॥ २३४ ॥
लोहमुद्गरबाहुल्यमुस्तकेषु दृढे तथा ।
कांस्यतालादिवाद्ये स्याद् घनो मध्यमनृत्यके ॥ २३५ ॥
मूर्तिगुणः काठिन्यम् । हन्यत इति घनः ॥
इनो दिवाकरे पत्यौ पार्थिवे चाभिधीयते ।
एतीति इनः । ʻइण् गतü ॥
राजा चन्द्रे नृपे श्रेष्ठे प्रभौ शक्रे क्षयामय ॥ २३६ ॥
रञ्जयतीति राजा ॥ १११ ॥
घनो मेघे—निरन्तरे । मूर्तिगुणे काठिन्यगुणे । रूपभेदात् पुंलिङ्गः । मूर्ते काठिन्ययुक्ते निबिडावयवद्रव्यादौ वाच्यलिङ्गः । हन्यतेऽनेनेति घनः । ʻमूर्तौ घनḵ (३। ३। ७७) इति निपातनात् साधुः । अत्र सूत्रे ʻमूर्तिः काठिन्यम् इति यद्यपि वृत्तिकारेणोक्तं (काशिका, पृ। २१९) तथापि मेघादावपि घनशब्दस्य प्रायिकप्रयोगदर्शनाद् उपमानेन साधुत्वं समर्थनीयम् । घन इति योगविभागाश्रयणेन साधुत्वमपीत्यपरे । अत एव धर्मशब्देन धर्मी च सूचित इति वृत्तावुक्तम् (काशिका पृ। २१९) । शेषे—ʻघनं स्यात् कांस्यतालादौ पुंसि मुद्गरमुस्तयोḵ इति ॥ इनः सूर्ये प्रभौ । प्रभुशब्देन राजा, पतिश्च विवक्षितः । तथा च विश्वप्रकाशे (पृ। ८५, श्लो। १)— ʻइनः सूर्ये नृपे पत्यü इति । एति गच्छतीति इनः । ʻइण् गतü । औणादिको नक्प्रत्ययः ॥ राजा—नृपे । क्षत्रिये तद्वर्णमात्रे । शेषे—ʻराजा क्षयामये शक्रे पतिमात्रद्रुभेदयोḵ इति । द्रुभेदः आरग्वधाख्यः (१, पृ। २३०) । रभसोऽपि—ʻप्रभौ भूमिपतौ राजा क्षत्रिये रजनीपतü इति ॥ १११ ॥
मल्लि-नाथः - AK.03.03.111
घनो मेघे—निरन्तरे । मूर्तिगुणे—घृतघनः, घृतकाठिन्यमित्यर्थः । मूर्ते—घनं दधि । कठिनमित्यर्थः ॥ इनः सूर्ये—नृपे । प्रभुशब्दस्यात्रापि समन्वयः । ʻयक्षे चन्द्रे च राजा स्यात् क्षत्रिये नृपतौ प्रभü इति त्रिकाण्डशेषः (पृ। ३०, श्लो। ८०९) ॥ १११ ॥
[[०३.३७८]]
अक्।०३.०३.११२अब् वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी ।
अक्।०३.०३.११२च्द् ह्रादिन्यौ वज्रतडितौ वन्दायामपि कामिनी ॥ ११२ ॥
लिङ्ग-सूरी - AK.03.03.112
मत्ताविदग्धादूतीषु नर्तक्यां वाणिनी मता ।
वानिनीति वा पाठः । वनुते वणतीति वा वानिनी वाणिनी च । ʻवनु याचने, ʻवण शब्दे ॥
नद्यां सेनाविशेषे च सेनायां वाहिनी भवेत् ॥ २३७ ॥
वहते वाहयतीति वा वाहिनी । ʻवह प्रापणे, ʻवाहृ प्रयत्ने ॥
सौदामिन्यां च कुलिशे ह्रादिनी परिकीर्तिता ।
ह्रादोऽस्या अस्तीति ह्रादिनी ॥
कामुक्यामङ्गनायां च वृक्षादिन्यां च कामिनी ॥ २३८ ॥
कामुकायां चक्रवाक्यां पारावत्यामपि स्मृता ।
कामोऽस्या अस्तीति कामिनी ॥ ११२ ॥
वाणिन्यौ नर्तकीदूत्यौ । वणति शब्दायत इति वाणिनी । केचिदत्र द्वितीयाक्षरं दन्त्यवर्गपञ्चमं पठन्ति । तथा च शेषे—ʻमत्ताविदग्धे वाणिन्यौ वाणिनी वानिनी समे इति । वानिनीशब्दोऽपि वाणिनीशब्देनार्थतो लिङ्गतश्च समान इत्यर्थः ॥ स्रवन्त्यामपि वाहिनी । स्रवन्ती नदी । शेषे—ʻवाहिन्यौ सैन्यतद्भेदे इति । वहते वाहयतीति वा वाहिनी । सैन्यमात्रे (१, पृ। ५२८) तद्विशेषे च (पृ। ५३०) प्रागुक्तः ॥ ह्रादिन्यौ वज्रतडितौ । वज्रं कुलिशम् । ह्राद आरावोऽस्या अस्तीति ह्रादिनी ॥ वन्दायामपि कामिनी । वक्षप्ररूढो विजातीयप्ररोहो वन्दा । काम्यत इति कामः आरोग्यादिजनितसौख्यम् । सोऽस्या अस्तीति कामिनी । अपिशब्देन स्त्रीविशेषः प्रागुक्तः (१, पृ। ३६३) ॥ अत्र प्रतापः—ʻश्यामा पारावती स्त्रीषु चक्रवाक्यां च कामिनी इति । श्यामा प्रियङ्गुः ॥ ११२ ॥
मल्लि-नाथः - AK.03.03.112
वाणिन्यौ नर्तकीदूत्यौ । मौग्ध्यवैदग्ध्यदशापन्नापि स्यात् । ʻस्त्री विदग्धा च मुग्धा च वाणिनीत्यभिधीयते इति हलायुधः (अ॥ २। ३३४) ॥ स्रवन्त्यामपि वाहिनी । सेनायामपि स्यात् ॥ ह्रादिन्यौ वज्रतडितौ । अशनिरपि । ʻअशनिः पविविद्युतोḵ इति विश्वः (पृ। ९५, श्लो। १२३) ॥ वन्दायामपि कामिनी । स्त्रियामपि स्यात् ॥ ११२ ॥
[[०३.३७९]]
अक्।०३.०३.११३अब् त्वग्देहयोरपि तनुः सूनाधोजिह्विकापि च ।
अक्।०३.०३.११३च्द् ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३ ॥
अक्।०३.०३.११४अब् मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे ।
लिङ्ग-सूरी - AK.03.03.113
अल्पे कृशे च विरले त्वचि देहे तनुर्भवेत् ॥ २३९ ॥
तन्यत इति तनुः ॥
गलशुक्त्यां वधस्थाने पुत्रिकाप्रतिजिह्वयोः ।
सूना स्यात् प्रसवे पुष्पे सूनं तु परिकीर्तितम् ॥ २४० ॥
सूयत इति सूना । ʻषूङ् प्राणिप्रसवे ॥
ऋतुकर्मणि विस्तारे तुच्छमन्दाध्वरेषु च ।
वितानमुल्लोचावसरवृत्तभेदेषु कथ्यते ॥ २४१ ॥
वितन्यत इति वितानम् । ʻतनु विस्तारे ॥
गृहे कार्ये ध्वजे चिह्ने केतनं स्यान्निमन्त्रणे ।
कित्यतेऽनेनेति केतनम् । ʻकित ज्ञाने ॥ ११३ ॥
त्वग्देहयोरपि तनुः । अस्मिन्नर्थद्वये स्त्रीलिङ्गः । शेषे—ʻतनुस्तु वाच्यलिङ्गः स्यात् स्वल्पेऽपि विरले कृशे इति ॥ सूनाधोजिह्विकापि च । सुवति प्रेरयति श्लेषमादिकमिति सूना उपजिह्वा । ʻषू प्रेरणे । सूयन्ते प्रेर्यन्ते वधार्थं प्राणिनोऽत्रेति सूना प्राणिवधस्थानम् । शेषे—
ʻसूना पुत्र्यां वधस्थानगलशुण्डिकयोरपि ।
सूनं तु वाच्यवच्छूने क्लीबे प्रसवपुष्पयोः ॥
इति । वधस्थानं भक्ष्यप्राणिहननप्रदेशः । गलशुण्डिका गलस्थानगतो ग्रन्थिविशेषः । शूनम् उच्छूनम् ॥ क्रतुविस्तारयोः—मन्दे । तुच्छकं शून्यम् । मन्दोऽलसः । वितन्यत इति वितानम् । घञ् । विविधो विगतो वा तानस्तननमत्रेति वितानम् । विश्वप्रकाशे (पृ। ८९, श्लो। ५४)—
ʻवितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणि ।
वृत्तभेदावसरयोर्वितानं तुच्छमन्दयोः ॥
इति । सयूपाः क्रतवः । तद्रहिता दर्शपूर्णमासादयोऽपि यज्ञशब्दवाच्या इति भेदः ॥ अथ केतनं—उपनिमन्त्रणे । कृत्येऽवश्यकर्तव्ये । यथा—ʻनिवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिḵ इति (वेणी। ३। १६) । केतौ ध्वज (१, पृ। ५४३) । यथा—मीनकेतन इति । निमन्त्रणमेवोपनिमन्त्रणम् । यथा—ʻकृतकेतनं ब्राह्मणं नातिक्रमेत् इति । कित्यते ज्ञायतेऽनेनेति केतनम् । ʻकित ज्ञाने । वेश्मनि प्रागुक्तम् (१, पृ। १९७) ॥ ११३ ॥
मल्लि-नाथः - AK.03.03.113
त्वग्देहयोरपि तनुः । ʻत्वचि काये तनुः स्त्री स्यात् त्रिष्वल्पे विरले कृशे इति रुद्रः ॥ सूनाधोजिह्विकापि च । वधस्थानमपि स्यात् । ʻसूना स्त्री घातनास्पदम् इति रत्नकोशः ॥ क्रतुविस्तार—उपनिमन्त्रणे ॥ ११३ ॥
[[०३.३८१]]
अक्।०३.०३.११४च्द् वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥ ११४ ॥
अक्।०३.०३.११५अब् उत्साहने च हिंसायै सूचने चापि गन्धनम् ।
अक्।०३.०३.११५च्द् आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ॥ ११५ ॥
लिङ्ग-सूरी - AK.03.03.114-115
ज्ञाने तत्त्वे तपोऽध्यात्मवेदेषु ब्रह्म चोच्यते ॥ २४२ ॥
चन्द्रार्कयोगे योगे च ब्राह्मणे च प्रजापतौ ।
ऋत्विग्भेदे धर्ममाने ब्रह्मा तु परिकीर्तितः ॥ २४३ ॥
बृंहतीति ब्रह्मा । ʻबृहि वृद्धü ॥
हिंसार्थोत्साहने हिंसासूचने च प्राकाशने ।
हिंसायां गन्धकरणे गन्धनं परिकीर्तितम् ॥ २४४ ॥
गन्ध्यतेऽनेनेति गन्धनम् । ʻगन्ध अर्दने ॥
आतञ्चनं प्रतीवापे जवनाप्यायनार्थयोः ।
आतच्यते पयोऽनेनेति आतञ्चनम् । ʻतञ्चु गतü ॥ ११४-५ ॥
वेदस्तत्त्वं—प्रजापतिः । वेदे यथा—ब्रह्मयज्ञ इति । तत्त्वं परमात्मा । यथा—ʻसर्वं खल्विदं ब्रह्म्ö (छा। उ। ३। १४। १) । तपसि यथा—ʻतपो ब्रह्मेति (तै। उ। ३। २। १०) । अस्मिन्नर्थत्रये रूपभेदाद् नपुंसकलिङ्गः । विप्रे वेधसि च पुंलिङ्गः । बृंहति वर्धत इति ब्रह्म । ʻबृंहि वृद्धü । ʻबृंहेर्नोऽच्च्ö (उ। ४। १४८) इति मनिन्, नकारस्याकारश्च । शेषे—ʻब्रह्मा चन्द्रार्कयोर्योगे पुंसि स्यादृत्विगन्तरे इति । चन्द्रसूर्ययोर्योगो विष्कम्भादिषु पञ्चविंशः । ʻब्रह्मा होताध्वर्युरग्नीत् (तै। ब्रा। ३। ३। ८८) इत्युक्तऋत्विग्विशेषः ॥ उत्साहने—गन्धनम् । उत्साहनमुत्साहोत्पादनम् । हिंसायै इति चतुर्थ्यन्तं पदं पूर्वोत्तराभ्यां सम्बध्यते । अतश्च हिंसार्थमर्थदानेन वचसा प्रोत्साहनेन, हिंसार्थं हस्तचेष्टनादिसूचनेऽपीत्युक्तं भवति । तथा च शेषे—ʻहिंसार्थसूचने हिंसोत्साहने चापि गन्धनम् इति । गन्ध्यतेऽर्द्यतेऽनेनेति गन्धनम् । ʻगन्ध अर्दने । अर्दनं हिंसेति धातुवृत्तौ । करणे ल्युट् (३। ३। ११७) । अथवा गन्धवन्तं करोतीति णिच् । मतुपो लुकि ल्युटि गन्धनम् । युच्प्रत्यये स्त्रीलिङ्गो गन्धनाशब्द एष्वर्थेषु वर्तत इत्यनुसन्धेयम् । केचित्तु हिंसायामिति सप्तम्यन्तं पठित्वा गन्धनशब्दस्य हिंसारूपमप्यर्थमाहुः ॥ आतञ्चनं—आप्यायनार्थकम् । शृतशीते पयसि दधिनिष्पादनाय स्वल्पमावाप्यतक्रादेरवसेचनं प्रतीवापः । यथा—ʻअग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति इति प्रयोगः (आप। श्रौ। १। ११। १) । द्रुतस्य स्वर्णादेर्द्रव्यान्तरेणावचूर्णनं प्रतीवाप इति केचित् । अवचूर्णनं रूपान्तरापादनम् । जवनं वेगः । क्षीणस्य पूरणमाप्यायनम् । आतञ्च्यते सङ्कुच्यते पयोऽनेनेत्यातञ्चनम् । ʻतञ्चु गतü इति धातुः ॥ ११४-५ ॥
मल्लि-नाथः - AK.03.03.114-15
वेदस्तत्त्वं—हिंसायै सूचने चापि गन्धनम् । हिंसायै इति सूचनविशेषणम् । ʻप्रकाशोत्साहयोर्हिंसासूचने चापि गन्धनम् इति रभसकोशः । हिंसायाम् इति पाठे पर्यायपदम् । ʻगन्धनं सूचनोत्साहहिंसनेषु प्रकाशने इति विश्वः (पृ। ९१, श्लो। ७४) ॥ आतञ्चनं—आप्यायनार्थकम् । प्रतीवापो निक्षेपणम् । जवनं वेगः । आप्यायनं प्राणनम् ॥ ११४-५ ॥
[[०३.३८३]]
अक्।०३.०३.११६अब् व्यञ्जनं लाञ्छनश्मश्रुनिष्ठानावयवेष्वपि ।
अक्।०३.०३.११६च्द् स्यात् कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ ११६ ॥
लिङ्ग-सूरी - AK.03.03.116
कादिवर्णे लाञ्छने च पुम्मुखस्थितरोमणि ॥ २४५ ॥
अङ्गतेमनयोश्चापि व्यञ्जनं परिकीर्तितम् ।
व्यज्यतेऽनेनेति व्यञ्जनम् । ʻअञ्जू व्यक्तिम्रक्षणकान्तिगतिष्ü ॥
सर्वेषां च विहङ्गानां युद्धे गर्हणगुह्ययोः ॥ २४६ ॥
कुलीनत्वे लोकवादे कौलीनं परिकीर्त्यते ।
कोलतीति कुलम् । ʻकुल संस्त्याने । कुलस्येदं कौलीनम् ॥ ११६ ॥
व्यञ्जनं—अवयवेष्वपि । लाञ्छनं कपिध्वजादिकम् । पुरषमुखप्रभवं रोमवृन्दं श्मश्रु । निष्ठानं तेमनम् । अवयवः शिश्नोपस्थगुदादिः । व्यज्यतेऽनेनेति व्यञ्जनम् । ʻअञ्जू व्यक्तिम्रक्षणकान्तिगतिष्ü । करणे कर्मणि च ल्युट । अपिशब्दात् ककारादिहकारान्तानां हलां च ग्रहणम् । तथा च शेषे—ʻव्यञ्जनं कादिहान्ते स्यात् इति । स्यात् कौलीनं—पक्षिणाम् । निन्दितः पुरुषो नमितमुखत्वेन कौ भूमौ लीन इव भवतीति कुलीन उच्यते । तस्येदम् इति कृत्वा कौलीनम् (५। १। १३०) । लोकवादः जनवादः । मेषवृषादिपशूनां सर्पाणां लवकादिपक्षिणां यद् युद्धं तदपि कौलीनमुच्यते । तथा च प्रतापः—
ʻकौलीनं स्यात् कुलीनत्वे गुह्ये जन्ये कुकुर्मणि ।
कौलेयकविहङ्गाहिपशूनां सङ्गरेऽपि च ॥
इति । सुभूतिचन्द्रस्तु व्याचष्ट—पशूनामहीनां पक्षिणां वा नागरिकैः क्रियमाणं द्यूतरूपं युद्धं कुलीनशब्दार्थ इति । तथा च शेषे—ʻकुलीनत्वे व्यहिपशुयुद्धद्यूते महीक्षिताम् इति । विः पक्षी । अहिः सर्पः । पक्षिभिः सर्पैः पशुभिश्च प्रवर्तितं राज्ञां द्यूतरूपं युद्धं कौलीनमित्यर्थः । कुले भवं कौलीनम् ॥ ११६ ॥
मल्लि-नाथः - AK.03.03.116
व्यञ्जनं—अवयवेष्वपि । तैलघृतादावपि स्यात् । ʻनिष्ठानं तेमनं तच्च व्यञ्जनं स्याद् घृतादि च्ö इति वैजयन्ती (पृ। १६५, श्लो। ८५) ॥ स्यात् कौलीनं—पक्षिणाम् । युद्धे पश्वहिपक्षिणामिति प्राणिद्यूतमुक्तम् । ʻकौलीनं स्यात् कुलीनत्वे प्राणिद्यूते जनोदिते इति जयकोशः ॥ ११६ ॥
[[०३.३८४]]
अक्।०३.०३.११७अब् स्यादुद्यानं निःसरणे वनभेदे प्रयोजने ।
अक्।०३.०३.११७च्द् अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् ॥ ११७ ॥
लिङ्ग-सूरी - AK.03.03.117
वनभेदे निःसरणे स्यादुद्यानं प्रयोजने ॥ २४७ ॥
उद्यान्ति उद्योगं कुर्वन्त्यस्मिन्निति उद्यानम् ॥
अवकाशे सन्निवेशे स्थितौ स्थानं प्रचक्षते ।
तिष्ठत्यस्मिन्निति स्थानम् । ʻष्ठा गतिनिवृत्तü ॥
क्रीडायां विजिगीषायां व्यवहारे द्युतौ स्तुतौ ॥ २४८ ॥
मोदे मर्दे स्वप्नकान्त्योर्गतौ च परिदेवने ।
अक्षेषु द्यूतके चैव देवनं परिशब्द्यते ॥ २४९ ॥
दीव्यन्त्यनेनेति देवनम् । ʻदिवु क्रीडादü ॥ ११७ ॥
स्यादुद्यानं—प्रयोजने । गृहादिप्रदेशाद् निर्गमनं निःसरणम् । वनभेद आक्रीडः । प्रयोजनमुद्देश्यम् । उत्पूर्वाद् ʻया प्रापणे इत्यस्माद् भावेऽधिकरणे करणे वा ल्युट् ॥ अवकाशे स्थितौ स्थानम् । मूर्तद्रव्यान्तरानवरुद्धः प्रदेशोऽवकाशः । यथा—प्रतिश्रये पान्थानामस्ति स्थानम् । तिष्ठतेः अधिकरणे भावे च ल्युट् । शेषे—ʻस्थानं स्याद् युद्धनृत्तार्थे सादृश्ये सन्निवेशने इति । युद्धार्थे प्रत्यालीढादौ । नृत्तार्थे संहतसमपादादौ चेत्यर्थः ॥ क्रीडादावपि देवनम् । आदिशब्देन विजिगीषाव्यवहारादयो दीव्यतिधातोरर्था भावरूपाः सर्वेऽपि विवक्षिताः । देवनाः पाशकाः इति पुंलिङ्गः प्रागुक्तः (१, पृ। ६४७) ॥ ११७ ॥
मल्लि-नाथः - AK.03.03.117
स्यादुद्यानं —क्रीडादावपि देवनम् । क्रीडादीनां करणाधिकरणयोश्चापि स्यात् ॥ ११७ ॥
[[०३.३८५]]
अक्।०३.०३.११८अब् उत्थानं पौरुषे तन्त्रे सन्निविष्टोद्गमेऽपि च ।
अक्।०३.०३.११८च्द् व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ॥ ११८ ॥
लिङ्ग-सूरी - AK.03.03.118
उद्यमे पौरुषे तन्त्रे मलवेगे रणे मृधि ।
उपविष्टोर्ध्वभागे स्यादुत्थानं पुस्तकेऽङ्गने ॥ २५० ॥
उत्तिष्ठन्त्यत्रेत्युत्थानम् । ʻष्ठा गतिनिवृत्तü ॥
स्वैरस्य करणे चैव विरोधाचरणे तथा ।
समाधेस्तु निवृत्तौ च व्युत्थानं परिकीर्तितम् ॥ २५१ ॥
व्युत्तिष्ठन्त्यत्रेति व्युत्थानम् ॥ ११८ ॥
उत्थानं—उद्गमेऽपि च । ऊर्ध्वविस्तृतदोःपाणिपुरुषप्रमाणमत्र पौरुषशब्देन विवक्षितम् । यथा—ʻसप्तोत्थानमिदं रम्यमाप्तरक्षिशतावृतम् इति क्षेमेन्द्रः । तन्त्रं सैन्यम् । यथा—उत्थानसम्पन्नो राजा इति । सन्निविष्टस्योपविष्टस्य शयितस्य वा उद्गमनमूर्ध्वीभावः । शेषे—ʻमलोत्सर्जन उत्थानं हर्षोद्योगसमाप्तिष्ü इति । हर्षे यथा—सूत्थानं ते मुखम् । उद्योगे यथा—अनुत्थाने विनश्यति । समाप्तौ यथा—ʻयदा शतं सहस्रं कुर्वन्त्यथैकमुत्थानम् (तै। सं। ७। २। १। ४) इति । उत्पूर्वात् तिष्ठतेः करणे भावे च ल्युटि (३। ३। ११७, ११५) ʻउदः स्थास्तम्भोः पूर्वस्य्ö (८। ४। ६१) इति सकारलोपे उत्थानम् ॥ व्युत्थानं—आचरणेऽपि च । प्रतिरोधः आस्कन्दनम् । विरोधाचरणं प्रतिकूलाचरणम् । विगतमुत्थानं प्रचारोऽत्रेति व्युत्थानम् । अपिशब्दात् समाधिनिवृत्तावपि । यथा—व्युत्थानदशेति ॥ ११८ ॥
मल्लि-नाथः - AK.03.03.118
उत्थानं—उद्गमेऽपि च । उद्यमे समरे हर्षेऽङ्गणेऽप्युत्थानमिति सुभूतिटीका । तन्त्रं सैन्यम् ॥ व्युत्थानं—आचरणेऽपि च । स्वतन्त्रतायामपि स्यात् । ʻस्वतन्त्रता च व्युत्थानम् इति त्रिकाण्डशेषः (पृ। ३०, श्लो। ८१२) । ʻस्वातन्त्र्यानुष्ठानं व्युत्थानं विलसितं ललितम् इति रत्नकोशः ॥ ११८ ॥
[[०३.३८६]]
अक्।०३.०३.११९अब् मारणे मृतसंस्कारे गतौ द्रव्योपपादने ।
अक्।०३.०३.११९च्द् निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ ११९ ॥
लिङ्ग-सूरी - AK.03.03.119
सिद्धौ लिङ्गे सैन्यगत्योर्वधे द्रव्योपपादने ।
निर्वर्तने च गमने कारके मृतसंस्कृते ॥ २५२ ॥
शिश्नोपायोपहरणेषूपकारे च साधनम् ।
उपकार उपकरणम् । साध्यतेऽनेनेति साधनम् । ʻसाध संसिद्धü ॥ ११९ ॥
मारणे—अर्थदापने—साधनम् । मारणे यथा—कृष्णेन साधितः कंसः इति । मृतसंस्कारोऽग्निप्रदानादिः । यथा—कृतसाधनाः पितरः इति । कश्चित् अमृतसंस्कार इत्यकारप्रश्लेषेण छेदनं कृत्वा अमृतस्य वत्सनाभादेर्विषस्य निर्विषीकरणरूपसंस्कार इति व्याचष्ट । यथा—साधितं विषमिति । गतौ यथा—ʻसाधयाम्यहमविघ्नमस्तु ते इति (रघु। ११। ९१) । द्रव्ये धनधान्यादौ यथा—साधनं सम्पत्तिरिति । अर्थस्याघमर्णेन गृहीतस्य दापनं पुनरादापनम् । यथा—ʻप्रपन्नं साधयन्नर्थम् इति (या। स्मृ। २। ३। ४०) । निर्वर्तनं कार्यस्य निष्पादनम् । यथा—पटं साधयति कुविन्द इति । घटं साधयति कुलाल इत्यादि । सुबोधिनीकारस्तु निवर्तनमिति रेफरहितं पठित्वा कार्यान्निवर्तनमिति व्याचष्ट । उपकरणमुपायः । यथा—किं साधनं धनप्राप्तौ इति । गुर्वादीननुसृत्य गमनम् अनुव्रज्या । यथा—शिष्यसाधनयुक्त इति । साध्यतेऽनेनेति साधनम् । करणे भावे ल्युट् (३। ३। ११७, ११५) शेषे—ʻसाधनं करणे लिङ्गसैन्ययोर्मेहनेऽपि च्ö इति । करणं कारकविशेषः । ʻसाधकतमं करणम् (१। ४। ४२) इत्युक्तरूपः । लिङ्गमनुमापकम् । यथा—अनित्यत्वसाधनं कृतकत्वमिति । सैन्ये यथा—प्रभूतसाधनो यायात् इति । मेहने यथा काव्यप्रकाशिकायाम् (७। १५१) अश्लीलोदाहरणे—ʻसाधनं सुमहद् यस्य्ö इति ॥ ११९ ॥
मल्लि-नाथः - AK.03.03.119
मारणे—साधनम् । मृतसंस्कारोऽग्निदानम् । द्रव्यं धनम् । अर्थदापनं भूमिहिरण्यादीनां न्यासः । उपकरणमुपायः ।
ʻसाधनं निर्वृतौ मेढ्रे सैन्ये सिद्धौ पदे गतौ ।
उपाये मृतसंस्कारे दापने सुगमे धने ॥
इति विश्वः (पृ। ९३, श्लो। ९५) ॥ ११९ ॥
[[०३.३८८]]
अक्।०३.०३.१२०अब् निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च ।
अक्।०३.०३.१२०च्द् व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ १२० ॥
लिङ्ग-सूरी - AK.03.03.120
निर्यातनं वितरणे न्यासप्रत्यर्पणे तथा ॥ २५३ ॥
ऋणवैरमलादीनां शोधने चापि कथ्यते ।
निःशेषेण यातनं निर्यातनम् ॥
भ्रंशे कामजकोपोत्थदोषे विपदि किल्बिषे ॥ २५४ ॥
अशुभे निष्फलोद्योगे दैवानिष्टफले तथा ।
व्यसनं स्यादसामर्थ्ये पवनव्यक्त्यशक्तिषु ॥ २५५ ॥
व्यस्यत इति व्यसनम् । ʻअसु क्षेपणे ॥ १२० ॥
निर्यातनं—अर्पणेऽपि च । वैरशुद्धिः प्रतीकारः । इह दानशब्देन प्रतिश्रुतार्थस्य प्रदानं विवक्षितम् । उपनिधिद्रव्यस्यानुद्घाटितमुद्रस्य स्वामिहस्ते दानं न्यासार्पणम् । निर्यात्यते निष्कास्यते वैरं स्वहस्तगतं धनमनेनेति निर्यातनम् । ʻयत निकारोपस्करयोḵ, णिचि करणे ल्युट् (३। ३। ११७) ॥ व्यसनं—कामजकोपजे । विपद् दुःखम् । यथा—ʻचिराय मित्रव्यसनी सुदमो दमघोषजḵ इति माघः (शिशु। २। ६०) । भ्रंशः स्खालित्यम् । यथा—आम्नाये व्यसनं प्राप्त इति । कामजानां कोपजानां च दोषाणां स्वरूपं मनुना प्रपञ्चितम् । यथा—(म। स्मृ। ७। ४७-८)
ʻमृगयाक्षो दिवा स्वापः परीवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथा त्यागः कामजो दशको गणः ॥
पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥
इति । एषामष्टादशानां मध्ये कष्टे सप्त कष्टतमानि ।
ʻपानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् ।
एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजेऽपि गणे विद्यात् कष्टमेतत् त्रिकं सदा ॥ (म। स्मृ। ७। ५०-१)
इति । व्यस्यते श्रेयोमार्गात् प्रच्याव्यते पुरुष इति व्यसनम् । ʻअसु क्षेपणे । शेषे—ʻव्यसनं किल्बिषे सक्तावशुभे निष्फलोद्यमे इति । सक्तिः आसक्तिः । यथा—ʻविद्यायां व्यसनम् इति (नी। श। ५१) । अशुभम् अमङ्गलं वाक्ताडनादि ॥ १२० ॥
मल्लि-नाथः - AK.03.03.120
निर्यातनं—कामजकोपजे । भ्रंशोऽपायः । ʻदैवानिष्टफलेऽपाये विपत्तौ निष्फलोद्यमे इति विश्वः (पृ। ९२, श्लो। ९२) । कामजदोषः पानस्त्रीमृगयाद्यूतानि । कोपजदोषो वाक्पारुष्यदण्डपारुष्यार्थदूषणानि ॥ १२० ॥
[[०३.३८९]]
अक्।०३.०३.१२१अब् पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यंशेऽप्यणीयसि ।
अक्।०३.०३.१२१च्द् तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि ॥ १२१ ॥
लिङ्ग-सूरी - AK.03.03.121
तन्त्वादिसूक्ष्मावयवे लोचनस्य च लोमनि ।
किञ्जल्के पक्षिगरुति पक्ष्मशब्दोऽभिधीयते ॥ २५६ ॥
पक्ष्यते परिगृह्यत इति पक्ष्म । ʻपक्ष परिग्रहे ॥
उत्सवेऽवसरे ग्रन्थौ विषुवत्प्रभृतावपि ।
दर्शप्रतिपदोः सन्धौ पर्व शल्यसभादिके ॥ २५७ ॥
पर्वतीति पर्व । ʻपर्व पूरणे ॥
पदव्यां लोचनपुटे वर्त्मशब्दः प्रकीर्तितः ।
वर्तन्तेऽनेनेति वर्त्म । ʻवृतु वर्तने ॥ १२१ ॥
पक्ष्माक्षि—अणीयसि । नयनपुटप्रान्तप्ररूढं लोम अक्षिलोम । किञ्जल्कः प्रसिद्धः (१, पृ। १८२) । अणीयसीति पदं तन्तुतूलादिभागस्य विशेषणम् । पक्ष्यते परिगृह्यत इति पक्ष्म । ʻपक्ष परिग्रहे । औणादिको मनिन्प्रत्ययः (उ। ४। १४५) । अपिशब्दाद् ʻगरुति च्ö इति स्वामी (पृ। २९८) ॥ तिथिभेदे क्षणे पर्व । तिथिभेदः तिथिविशेषः । यथा—
ʻचतुर्दश्यष्टमी चैव पूर्णिमा च कुहूस्तथा ।
पर्वाण्येतानि राजेन्द्र रविसङ्क्रान्तिरेव च ॥
इति प्रसिद्धः । क्षणः उत्सवः । यथा—वैवाहिकं पर्व इति । पर्वति पूरणो भवत्यस्मिन्निति पर्व । ʻपर्व पूरणे । अत्र प्रतापः—
ʻदर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतावपि ।
पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे ॥
इति । प्रस्तावोऽवसरः । लक्ष्यते ज्ञायते प्रतिपाद्यार्थोऽनेनेति लक्षणम् अध्यायाद्येकदेशः । यथा—द्वादशलक्षणी मीमांसा इति । लक्षणान्तरे लक्षणविशेषे पर्वशब्दः । यथा—आदिपर्व, सभापर्व इत्यादि ॥ वर्त्म नेत्रच्छदेऽध्वनि । अक्षितिरोधानचर्मपुटो नेत्रच्छदः । अक्षिप्रान्ते वर्तत इति वर्त्म । ʻवृतु वर्तने औणादिको मनिन्प्रत्ययः (उ। ४। १४५) । अध्वनि मार्गे प्रागुक्तः (पृ। १९२) ॥ १२१ ॥
मल्लि-नाथः - AK.03.03.121
पक्ष्माक्षि—क्षणे पर्व । पञ्चदशी च तिथिमात्रं च तिथिभेदः । उत्सवश्च प्रस्तावश्च क्षणः । वर्त्म—अध्वनि ॥ १२१ ॥
[[०३.३९०]]
अक्।०३.०३.१२२अब् अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते ।
अक्।०३.०३.१२२च्द् प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥
लिङ्ग-सूरी - AK.03.03.122
चीरखण्डे कुकार्ये च गुह्ये कौपीनमुच्यते ॥ २५८ ॥
कौपीनशब्दव्युत्पत्तिरूह्या ॥
सङ्गमे ग्राम्यधर्मे च मैथुनं परिकीर्तितम् ।
मिथुनस्येदं मैथुनम् । ʻमिथृ मेथृ सङ्गमे ॥
प्रकृतावजहल्लिङ्गे प्रज्ञामुत्तमेऽपि च ॥ २५९ ॥
एकत्वे च महामात्ये प्रधानं परमात्मनि ।
प्रधत्त इति प्रधानम् । ʻडुधाञ् धारणपोषणयोḵ ॥
लाञ्छने च मनीषायां प्रज्ञानमभिधीयते ॥ २६० ॥
प्रज्ञायत इति प्रज्ञानम् । ʻज्ञा अवबोधने ॥ १२२ ॥
अकार्यगुह्ये कौपीनं । कर्तुमयोग्यम् अकार्यम् । प्रच्छादनार्हत्वेन कूपप्रवेशमर्हतीति कौपीनम् । ʻशालीनकौपीने अधृष्टाकार्ययोḵ (५। २। २०) इति कूपशब्दात् खञ्प्रत्ययः उत्तरपदलोपश्च निपात्यते । पापवदेव गुह्यं रहस्यस्थानम् उपस्थोऽपि कौपीनमुच्यते । गौणोऽपि निरूढत्वेन मुख्यतुल्यत्वात् कौपीनशब्दोऽपि नानार्थत्वेनोक्तः । शेषे—ʻकौपीनं चीरखण्डे स्यात् इति । इह चीरखण्डमपि तादर्थ्यलक्षणया गुह्याच्छातनमेव गृह्णाति । ʻकक्षापटेऽपि कौपीनम् इति दुर्गः ॥ मैथुनं सङ्गतौ रते । सङ्गतिर्नाम सुरतव्यतिरिक्तप्रयोजनवशेन स्त्रीपुंसयोर्विवाहादिकाले प्रत्यासत्तिविशेषः । मिथुनस्य स्त्रीपुंसयोरिदं मैथुनम् (४। ३। १२०) । प्रधानं परमात्मा धीः । परमात्मशब्देन क्षेत्रज्ञो विवक्षित इति चन्द्रः । धीर्बुद्धिः । तत्कारणं प्रकृतिश्च प्रधानशब्दार्थः । शेषे—ʻप्रधानं मुख्यमन्त्रिणोḵ इति । मुख्ये श्रेष्ठे मन्त्रिणि अमात्ये चेत्यर्थः । अत्रार्थद्वये प्रधानशब्दो नपुंसकलिङ्ग एव । यथा चैतत् तथा प्रागुक्तम् (२। ८। ५) ॥ प्रज्ञानं बुद्धिचिह्नयोः । चिह्नं लक्षणं ज्ञापकमित्यर्थः । भावे करणे च ल्युट् (३। ३। ११५, ११७) ॥ १२२ ॥
मल्लि-नाथः - AK.03.03.122
अकार्यगुह्ये कौपीनम् । अकार्यं गर्ह्यत्वात् प्रच्छादनार्हं कार्यम् । गुह्यं प्रच्छादनार्हावयवः ॥ मैथुनं—परमात्मा च । चात् प्रकृत्यादिः ॥ प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥
[[०३.३९२]]
अक्।०३.०३.१२३अब् प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः ।
अक्।०३.०३.१२३च्द् क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ॥ १२३ ॥
लिङ्ग-सूरी - AK.03.03.123
कुसुमे च फले चापि प्रसूनं परिकथ्यते ।
प्रसूयत इति प्रसूनम् । ʻषूङ् प्राणिप्रसवे ॥
नाशे कुले च निधनं निवृत्तौ स्याद् धनस्य च ॥ २६१ ॥
निवृत्तं धनमस्मादिति निधनम् ॥
आह्वाने रोदने चापि क्रन्दनं परिकीर्तितम् ।
क्रन्द्यतेऽनेनेति क्रन्दनम् । ʻक्रदि आह्वाने रोदने च्ö ॥
शरीरे लच प्रमाणे च वर्ष्म स्यात् सुन्दराकृतौ ॥ २६२ ॥
वर्षतीति वर्ष्म । ʻवृषु सेचने ॥ १२३ ॥
प्रसूनं पुष्पफलयोः । फलं फलमात्रम् । प्रसूयते वृक्षादिनेति प्रसूनम् ॥ निधनं कुलनाशयोः । नियतं निश्चितं धनं दायोऽत्रेति निधनं वंशः । निवृत्तं धनं स्वामिनाशादत्रेति निधनं नाशः । शेषे—ʻसामभक्ते तु निधनम् इति । साम्नः पञ्चमभक्तावित्यर्थः । यथाहुश्छन्दोगाः—ʻसर्वे निधनं ब्रूयुः साम्नो निधनमुपयन्ति इति । यज्ञे बर्हिर्मुष्टिरपि निधनमुच्यते ॥ क्रन्दने रोदनाह्वाने । ʻक्रदि आह्वाने रोदने च्ö इति रेफसहिताद् धातोः भावे ल्युटि क्रन्दनम् ॥ वर्ष्म देहप्रमाणयोः । अत्र प्रमाणशब्देनोर्ध्वमानं विवक्षितम् । ʻगजवर्ष्म किरातेभ्यः शशंसुर्देवदारवḵ इति कालिदासः (रघु। ४। ७६) । वर्षति वृष्यते चेति वर्ष्म । ʻवृषु सेचने । मनिन्प्रत्ययः (उ। ४। १४५) ॥ १२३ ॥
मल्लि-नाथः - AK.03.03.123
प्रसूनं पुष्पफलयोः । सूनशब्दोऽपि एवम्प्रकारः । ʻसूनं प्रसवपुष्पयोḵ इति विश्वः (पृ। ८६, श्लो। ९) ॥ निधनं—प्रमाणयोः । [वर्ष्म] सुन्दराकारेऽपि स्यात् । ʻप्रमाणदेहयोर्वर्ष्म स्यादाकारेऽपि सुन्दरे इति रभसः ॥ १२३ ॥
[[०३.३९३]]
गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे ।
सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ॥ १२४ ॥
लिङ्ग-सूरी - AK.03.03.124
गृहे देहे स्थितौ रश्मौ धाम जन्मप्रभावयोः।
धीयते ध्रियत इति धाम ॥
संस्थानमाकृतौ मृत्यौ रचनायां चतुष्पथे ॥ २६३ ॥
सम्यक् तिष्ठन्त्यत्रेति संस्थानम् । ʻष्ठा गतिनिवृत्तü ॥
लाञ्छने च प्रधाने च लक्ष्मशब्दः प्रकीर्त्यते ।
लक्ष्यत इति लक्ष्म । ʻलक्ष दर्शनाङ्कनयोḵ ॥ १२४ ॥
गृह—धामानि । त्विट् किरणः । प्रभावः प्रतापः । धत्ते धीयत इति वा धाम । दधातेरौणादिको मनिन् (उ। ४। १४५) । शेषे—ʻधाम स्थाने च जन्मनि इति । अथ चतुष्पथे—संस्थानम् । चतुर्णां पथां समावेशस्थानं चतुष्पथम् । सङ्गतास्तिष्ठन्त्यत्र पन्थान इति संस्थानम् । सम्यक् तिष्ठन्त्यत्रावयवा इति सन्निवेशोऽवयवरचनाविशेषः । शेषे—ʻसंस्थानमाकृतौ मृत्यü इति । अवयवसन्निवेशोऽभिव्यङ्ग्यस्वरूपम् आकृतिः ॥ लक्ष्म चिह्नप्रधानयोः । चिह्नं लक्षणम् । प्रधानं मुख्यम् । यथा—यादवलक्ष्मा कृष्णः इति ॥ १२४ ॥
मल्लि-नाथः - AK.03.03.124
गृहदेह—सन्निवेशे च संस्थानम् । सन्निवेशोऽवयवविभागः । ʻव्यूढोरस्को वृषस्कन्धः सालप्रांशुर्महाभुजḵ (रघु। १। १३) ॥ लक्ष्म चिह्नप्रधानयोः ॥ १२४ ॥
[[०३.३९४]]
अक्।०३.०३.१२५अब् आच्छादनं सम्पिधानमपवारणमित्युभे ।
अक्।०३.०३.१२५च्द् आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ॥ १२५ ॥
लिङ्ग-सूरी - AK.03.03.125
आच्छादनं स्याद् वसने संविधानेऽपवारणे ॥ २६४ ॥
आच्छाद्यतेऽनेनेत्याच्छादनम् । ʻछद अपवारणे ।
आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ।
आराध्यत इत्याराधनम् । ʻराध संसिद्धü ॥ १२५ ॥
आच्छादनं—इत्युभे । घटादेः पिधायकं शरावादिकं पिधानम् । तिरोधायकवस्त्रादिकम् अपवारणम् । अन्ये तु—सम्यक् पिधायकं सम्पिधानम् । ईषत्तिरोधायकम् अपवारणमित्याहुः । आच्छाद्यतेऽनेनेत्याच्छादनम् । ʻछद अपवारणे । अभिविधावीषदर्थे च आङित्युपसर्गः । वस्त्रे च प्रागुक्तम् (१, पृ। ४३५) ॥ आराधनं—तोषणेऽपि च । आराध्यते साध्यते फलमनेनेत्याराधनम् । ʻराध साध संसिद्धü । करणे ल्युट् (३। ३। ११७) । यथा—विष्णोराराधनं श्रेयःसाधनम् इति । अवाप्तिः फलसम्पत्तिः । यथा—ʻजनाः सदाराधनमीहमानाḵ इति देवीशतककाव्ये प्रयोगः (श्लो। २९) । तोषणं सन्तोषोत्पादनम् । यथा—जनचित्ताराधनं राज्ञो धर्म इति । भावे ल्युट् (३। ३। ११५) ॥ १२५ ॥
मल्लि-नाथः - AK.03.03.125
आच्छादनं—इत्युभे । अपवारणमावरणमात्रं दोषावरणं च । ʻआच्छादनं सम्पिधाने वस्त्रे दोषावृतावपि इति व्याडिः ॥ आराधनं—तोषणेऽपि च साधनमन्नादिपचनम् ॥ १२५ ॥
[[०३.३९५]]
अक्।०३.०३.१२६अब् अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि ।
अक्।०३.०३.१२६च्द् रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने ॥ १२६ ॥
लिङ्ग-सूरी - AK.03.03.126
रथाङ्गनगरे चापि प्रभावेऽध्यासने तथा ॥ २६५ ॥
आरोपणेऽप्यवस्थानेऽप्यधिष्ठानमुदाहृतम् ।
अधिष्ठीयतेऽत्रेत्यधिष्ठानम् ॥
रत्नं स्वजातावुत्कृष्टे मणौ च परिकीर्तितम् ॥ २६६ ॥
रमन्तेऽत्रेति रत्नम् । ʻरमु क्रीडायाम् ॥
पानीये कानने चापि वनं हि समुदाहृतम् ।
वन्यत इति वनम् । ʻवन षण सम्भक्तü ॥ १२६ ॥
अधिष्ठानं—अध्यासनेष्वपि । चक्रं राष्ट्रम् । रथाङ्गमिति केचित् । पुरं नगरम् । अध्यासनं पीठादेरुपर्याक्रमणम् । अधिपूर्वात् तिष्ठतेरधिकरणे भावे च ल्युट् (३। ३। ११७, ११५) ॥ रत्नं स्वजातिश्रेष्ठेऽपि । जातौ जातौ यतुत्कृष्टं तद् रत्नम् । यथा—अश्वरत्नं स्त्रीरत्नम् इत्यादि । रमन्तेऽत्रेति रत्नम् । ʻरमु क्रीडायाम् । ʻरमेस्त च्ö (उ। ३। १४) इति नप्रत्ययः । तकारश्चान्तादेशः । अपिशब्दात् पद्मरागादौ, मुक्ताप्रवालयोश्च ॥ वने सलिलकानने । निगदव्याख्यातमेतत् । निवासस्थानेऽपि वनशब्दः ॥ १२६ ॥
मल्लि-नाथः - AK.03.03.126
अधिष्ठानं—अध्यासनेष्वपि । चक्रं रथपदम् ʻगालि ॥ रत्नं स्वजातिश्रेष्ठेऽपि । मुक्तापद्मरागादावपि स्यात् । वने सलिलकानने । प्रवासिनिलयश्च स्यात् । ʻप्रवासिनिलये चापि वनम् इति विश्वः (पृ। ८५, श्लो। ४) ॥ १२६ ॥
[[०३.३९६]]
अक्।०३.०३.१२७अब् तलिनं विरले स्तोके वाच्यलिङ्गास्तथोत्तरे ।
अक्।०३.०३.१२७च्द् समानाः सत्समैके स्युः पिशुनौ खलसूचकौ ॥ १२७ ॥
लिङ्ग-सूरी - AK.03.03.127
तलिनं विरले स्तोके निर्मलेऽप्यघनेऽपि च ॥ २६७ ॥
तल्यत इति तलिनम् । ʻतल प्रतिष्ठायाम् ॥ वाच्यलिङ्गास्तथोत्तरे । उत्तरे वक्ष्यमाणाः शब्दाः नान्ताः वाच्यलिङ्गा भवन्ति ॥
एकस्मिन्निति युक्ते च नाभिसंस्थितमारुते ।
समे सति समानः स्यात् ॥
समतीति समानः ʻषम वैक्लब्ये ॥
स्पृक्काकुङ्कुमयोरपि ॥ २६८ ॥
कपिवक्त्त्रे सूचकं च खले पिशुन उच्यते ।
अपिश्यति तनूकरोति परगुणानिति पिशुनः । ʻशो तनूकरणे ॥ १२७ ॥
तलिनं विरले स्तोके । स्तोकम् अल्पम् । तलति प्रतितिष्ठति द्रव्यान्तरमत्रेति तलिनम् । ʻतल प्रतिष्ठायाम् । बाहुलकाद् इनन्प्रत्ययः (उ। २। ५६) ॥ वाच्यलिङ्गास्तथोत्तरे । अत्र तथाशब्दस्यायमर्थः । यथा पूर्ववाक्यस्थः तलिनशब्दो वाच्यलिङ्गः तथा नान्तवर्गसमाप्तिपर्यन्ता वक्ष्यमाणा अपि वाच्यलिङ्गा इति । तथा च मुरारिनाटके—ʻकस्य खलु तलिना तादृशी जिह्वा यस्त्वामधरोत्तरेणाभिसन्धत्ते (अनर्घ। १। ४०-) इति प्रयोगः ॥ समानाः सत्समैके स्युः । सच्छब्देन सज्जन उक्तः । संश्च समश्च एकश्चेति द्वन्द्वसमासे ʻविभाषा जसि (१। १। ३२) इति सर्वनामसञ्ज्ञाप्रतिषेधस्य वैकल्पिकत्वात् जसः शीभावः (७। १। १७) । सममनिति प्राणितीति व्युत्पत्त्या पुंलिङ्गः पुंलिङ्गः समानशब्दः शरीरगते वायुविशेषे वर्तते (१, पृ। ४४) ॥ पिशुनौ खलसूचकौ । खलो दुर्जनः । सूचकः कर्णेजपः । अपिश्यति मर्मोद्घाटनादिजनितदुःखेन परं तनूकरोतीति पिशुनः । ʻवष्टि भागुरिरल्लोपम् (वा। २। ४। ८२) इत्यादिना अपेरकारस्य लोपः । ʻपिश अवयवे इत्यस्माद् धातोः औणादिक उनन्प्रत्ययो वा (उ। ३। ५५) । ʻमरुन्माला तु पिशुन्ȫ इति स्त्रीलिङ्गः प्रागुक्तः (१, पृ। २९५) । कुङ्कुमे तु नपुंसकं मनुष्यवर्गे कथितम् (पृ। ४४०) ॥ १२७ ॥
मल्लि-नाथः - AK.03.03.127
तलिनं—तथोत्तरे । उत्तरे तथाशब्दग्रहणाद् वाच्यलिङ्गाः ॥ समानाः—खलसूचकौ ॥ १२७ ॥
[[०३.३९७]]
अक्।०३.०३.१२८अब् हीनन्यूनावूनगर्ह्यो वेगिशूरौ तरस्विनौ ।
अक्।०३.०३.१२८च्द् अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि ॥ १२८ ॥
इति नान्तवर्गः
लिङ्ग-सूरी - AK.03.03.128
ऊने च कुत्सिते हीने न्यून ऊनश्च कथ्यत ॥ २६९ ॥
हीयत इति हीनः । ʻओहाक् त्यागे । नियतमूनयतीति न्यूनः । ऊनयतीत्यूनः । ʻऊनपरिहाणे ।
वेगयुक्त च शूरे च तरस्वी परिकथ्यते ।
तरो वेगः, वलं वा अस्यास्तीति तरस्वी ॥
अभिपन्नो भवेद् ग्रस्तसूर्यादौ सापराधके ॥ २७० ॥
आपत्प्राप्ते शरव्यां च च्युतसायक एव च ।
अभिपद्यत इत्यभिपन्नः । ʻपद गतü ॥ १२८ ॥
इति नान्तवर्गः
हीनन्यूनावूनगर्ह्यौ । हीनो न्यूनश्च इति शब्दद्वयमिह प्रतिपाद्यम् । ऊनः स्वल्पः । गर्ह्यः निन्दाविषयः । हीयते त्यज्यत इति हीनः । ʻओहाक् त्यागे । कर्मणि क्तप्रत्ययः (३। ४। ७२) । ʻघुमास्था ॥ । इत्यादिना (६। ४। ६६) ईकारादेशः । ʻओदितश्च्ö (८। २। ४५) इति निष्ठानत्वम् । नियतम् ऊनयति न्यूनः । ʻऊन परिहाणे । परिहाणं परित्यागः । चुरादिः । पचाद्यच् (३। १। १३४) ॥ वेगिशूरौ तरस्विनौ । तरो जवो बलं च, तद्योगात् तरस्वी । ʻअस्मायामेधास्रजो विनिḵ (५। २। १२१) इति विनिः ॥ अभिपन्नो—व्यापद्गतावपि । अपराद्धः कृतापराधः । अभिग्रस्तः शत्रुभिराक्रान्तः । विविधाभिरापद्भिः प्राप्तो व्यापद्गतः । अभिपद्यते स्मेत्यभिपन्नः । ʻपद गतü । क्तः । ʻरदाभ्यां ॥ । (८। २। ४२) इति निष्ठानत्वम् ॥ १२८ ॥
इति नान्तवर्गः
मल्लि-नाथः - AK.03.03.128
हीनन्यून—व्यापद्गतावपि । दक्षिणस्वीकृतावपि स्याताम् । ʻअभिपन्नं वदन्त्यार्या दक्षिणे स्वीकृतेऽपि च्ö इति व्याडिः । शरणार्थी च स्यात् । ʻअभिपन्नः शरणार्थी इति त्रिकाण्डशेषः ॥ अनुक्तम्—
वन्दिन्यपि च नग्नः स्यात् सूनुः स्यादनुजेऽपि च ।
विदग्धेऽपि च धन्वी स्याद् धमनी स्याद् गलेऽपि च ।
पन्नगेऽपि विपन्नः स्याद् भृङ्गेऽपि मधुसूदनः ।
रसज्ञायां च ललना द्विपत्न्यां च भट्टिनी ।
जननी स्यात् कृपायां च नौरनेहसि च स्त्रियाम् ।
स्यात् प्रार्थनाभियानेऽपि स्याद् विषेऽपि रसायनम् ।
स्यात् तपस्वी कृपार्हेऽपि स्यान्नलिन्यम्बुजेऽपि च ।
निर्भर्त्सनमलक्तेऽपि दमनः सारथावपि ।
केलीरसे भवेत् प्रेम केसरी घोटकेऽपि च ।
नन्दिनी हस्तिनीति द्वे द्वयोश्च पुरभेदयोः ।
नन्दिनी अयोध्यापुरम् । ʻसाकेतं स्यादयोध्यायां कोसलानन्दिनीति च्ö इति वैजयन्ती (पृ। १५९, श्लो। ५) । ʻहस्तिनी हस्तिनापुरम् इति वैजयन्ती (पृ। १५९, श्लो। ८) । ʻनागाह्वं हस्तिनापुरम् इति रत्नकोशः ॥
कदनं कलहे युद्धे बन्धनं कवचे युधि ।
बाहामण्डलकुण्डलीकृतरणत्कोदण्डकाण्डच्छटा-
हेलानिर्जितवैरिबन्धनपरक्ष्मामण्डलाखण्डलः ।
सन्ध्याताण्डवचण्डखण्डपरशुत्वङ्गज्जटावाहिनी-
डिण्डीरार्थिविडम्बिडम्बरविधिप्रोद्दण्डपाण्डित्यभूः ॥
इति साहित्यकल्पवल्ली ॥
जनः प्रजायां जाल्मे च जनिः पत्न्यां च योषिति ।
सदादानः सुरगजे गजास्ये गन्धहस्तिनि ॥ १२८ ॥
इति नान्तवर्गः
[[०३.४००]]
अथ पान्तवर्गः—
अक्।०३.०३.१२९अब् कलापो भूषणे बर्हे तूणीरे संहतेऽपि च ।
अक्।०३.०३.१२९च्द् परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९ ॥
लिङ्ग-सूरी - AK.03.03.129
कलापो भूषणे बर्हे तूणीरेऽपि च संहते ॥ २७१ ॥
कला आप्नोतीति कलापः । ʻआप्लृ व्याप्तü ॥
परिचारे जलाधारबीजारोपणयोरपि ।
अचलत्वे च सलिले परीवापः प्रकीर्तितः ॥ २७२ ॥
पर्युप्यत इति परीवापः । ʻडुवप् बीजसन्ताने ॥ १२९ ॥
कलापो—संहतेऽपि च । भूषणं काञ्च्यादि । यथा—मुक्ताकलापः (कु। सं। १। ४२) । बर्ह पिच्छम् । यथा—ʻनिजकलापभरेण्ö इति । तूणीरम् इषुधिः । ʻकलापी कवची धन्वी इति तूणीरे । संहतं समूहः । यथा—केशकलापः । कलाः कान्तिविशेषानाप्नोति पाति वा कलापः । ʻआप्लृ व्याप्तü । ʻपा रक्षणे ॥ परिच्छदे—सलिलस्थितौ । परित उप्यते राजपुरुषैरिति परीवापः । परिच्छदः पटमण्डपसज्जनादिः । ʻडुवप् बीजसन्ताने । कर्मणि घञि (३। ३। १२१) परीवापः । पर्युप्तिः कृष्टक्षेत्रे परितो बीजवपनमित्यर्थः । अधिकरणे घञ् (३। ३। १२१) । परिवापो जलस्थितिः । सलिलस्य स्थितिरत्रेति व्युत्पत्त्या जलाशय इत्यर्थः । जलस्य निश्चलत्वमात्रस्थितिरित्येके । ʻउपसर्गस्य घञि ॥ । इत्यादिना (६। ३। १२२) दीर्घः ॥ १२९ ॥
मल्लि-नाथः - AK.03.03.129
कलीपो—संहतेऽपि च । भूषणशब्देन भूषणसामान्यविशेषौ कथितौ । ʻकलापो भूषणे काञ्च्यां सङ्घाते बर्हतूणयोḵ इति वैजयन्ती (पृ। २४०, श्लो। १५) ॥ परिच्छ्दे—सलिलस्थितौ । सलिलस्थितिशब्देन आलवालमुक्तम् । ʻपर्युप्तौ च परीवाप आलवाले परिच्छ्दे इति वैजयन्ती (पृ। २६७, श्लो। २९) ॥ १२९ ॥
[[०३.४०१]]
अक्।०३.०३.१३०अब् गोधुग् गोष्ठपतिर्गोपौ हरो विष्णुर्वृषाकपिः ।
अक्।०३.०३.१३०च्द् बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् ॥ १३० ॥
लिङ्ग-सूरी - AK.03.03.130
बहुग्रामनियुक्ते च गोपो गोष्टपतौ नृपे ।
गोपाले रक्षिकाभीरीशारिबासु स्त्रियां भवेत् ॥ २७३ ॥
गां पाति गोपायतीति वा गोपः । ʻपा रक्षणे । ʻगुपू रक्षणे ॥
ईशाने च हरौ चेन्द्रे ज्वलने च वृषाकपिः ।
वर्षति कम्पते चेति वृषाकपिः । ʻवृष सेचने । ʻकपि चलने ॥
ऊष्मण्यश्रुणि बाष्पः स्यात् कशिपु तवन्नवस्त्रयोः ॥ २७४ ॥
बाष्पतीति बाष्पः । ʻबाष्प अश्रुविमोचने ॥ कशति तनूकरोति क्लेशानिति कशिपु । ʻकश गतिशातनयोḵ ॥ १३० ॥
गोधुग् गोष्ठपतिर्गोपौ । गोबन्धनदोहनादिकर्ता गोधुक् । गवोपयुक्तकर्मण्यधिकृते गोष्ठपतिः । अत्र प्रतापः—
ʻगोपो ग्रामौघगोष्ठाधिकृतयोर्वल्लवे नृपे ।
गोपयोषाशारिबयोर्गोपी गोपा तु रक्षिका ॥
इति । गां भूमिं पातीति विग्रहे ʻआतोऽनुपसर्गे कḵ (३। २। ३) इति कप्रत्यये ʻआतो लोप इटि च्ö (६। ४। ६४) इत्याकारलोपे च गोपो नृपः । गोपालवचनाद् गोपशब्दात् ʻपुंयोगादाख्यायाम् (४। १। ४८) इति ङीपि गोपी गोपालयोषा । शारिबायां तु प्रागुक्ता (१। पृ। २८१) । ʻगुपू रक्षणे इत्यस्मात् पचाद्यचि (३। १। १३४) टापि (४। १। ४) गोपा रक्षिका ॥ हरविष्णू वृषाकपी । वृषेण धर्मेण अकन्ति वर्तन्त इति वृषाकाः धर्मशीलाः । तान् पाति रक्षतीति वृषाकपिः । ʻवृषाकप्यग्निकुसित ॥ । इत्यादिनिर्देशात् (४। १। ३७) साधुः । शेषे—ʻवृषाकपिः स्याज्ज्वलने सहस्राक्षे च कीर्तितḵ इति । ʻनाहमिन्द्राणि रारण सख्युर्वृषाकर्पेरृते (तै। सं। १। ७। १३। २) इति सहस्राक्षे प्रयोगः ॥ बाष्पमूष्माश्रु । चित्रभानुप्रतप्ताद् भूतलघटकपालादेः उद्गच्छन् धूमादिविजातीयावयवसम्भिन्नस्तेजोभाग ऊष्मा । अश्रु नेत्राम्बु । वायति शुष्यति शोषयति वा, पाति रक्षति शीतार्तमिति वा बाष्पः । ʻओवै शोषणे, ʻपा रक्षणे इति धातुद्वयम् । ʻबाष्पोष्मभ्यामुद्वमने (३। १। १६) इति निर्देशात् साधुः ॥ कशिपु—द्वयम् । अन्नम् ओदनमोदकादिकम् । आच्छादनं वस्त्रम् । तदुभयं समुदितं प्रत्येकं वा नपुंसकलिङ्गेन कशिपुशब्देनोच्यते । कशति शातयति दुःखमिति कशिपु । ʻकश गतिशातनयोḵ । ʻएकोक्त्या कशिपुर्भक्ताच्छादने द्वे पृथक् कृते इति पुन्नपुंसककाण्डे रभसाभिधानात् पुन्नपुंसकलिङ्गः । ʻपृथक् च व्ȫ इति पक्षान्तरम् ॥ १३० ॥
मल्लि-नाथः - AK.03.03.130
गोधुग्—बाष्पमूष्माश्रु । ऊष्मणि—बाष्पायते स्थाली । अश्रुणि—बाष्पाम्भसां बिन्दवः ॥ कशिपु—द्वयम् । अन्नमाच्छादनमित्यनेन पृथक् पृथक् च, द्वयमित्यनेन मिलित्वापि कशिपुशब्दो वाच्यः । ʻएकोक्त्या कशिपुर्भक्ताच्छादने च द्वयोः पृथक् इति विश्वः (पृ। १०५, श्लो। १८) ॥ १३० ॥
[[०३.४०३]]
अक्।०३.०३.१३१अब् तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् ।
अक्।०३.०३.१३१च्द् प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥
अक्।०३.०३.१३२अब् भेद्यलिङ्गा अमी कूर्मो वीणाभेदश्च कच्छपी ।
इति पान्तवर्गः
लिङ्ग-सूरी - AK.03.03.131
शय्यापत्न्योर्दुर्गसारे तल्पं स्याद् रणमण्डपे ।
तलन्ति प्रतितिष्ठन्त्यत्रेति तल्पम् । ʻतल प्रतिष्ठायाम् ॥
स्कन्धादूर्ध्वतरोः शाखास्तम्बयोर्वृक्षविस्तृतौ ॥ २७५ ॥
पल्लवे विटपाले च विटपः परिकीर्तितः ।
वेटतीति विटपः । ʻविट शब्दे ॥
प्राप्तरूपसुरूपाभिरूपा बुधमनोज्ञयोः ॥ २७६ ॥
प्राप्तं रूपमस्येति प्राप्तरूपः । शोभनं रूपमस्येति सुरूपः । अभिमतं रूपमस्येत्यभिरूपः । अमी त्रयः शब्दा विशेष्यनिघ्नाः ॥
कच्छपी वल्लकीभेदे कमठीक्षुद्ररोगयोः ।
कच्छपस्येयं कच्छपी ॥ १३१ ॥
इति पान्तवर्गः
तल्पं शय्याट्टदारेषु । अट्टः दुर्गप्राकारस्थो युद्धमण्डपः । तलन्ति प्रतितिष्ठन्त्यत्र भटा इति तल्पम् । ʻतल प्रतिष्ठायाम् । (उ। ३। २८) । रूपभेदाद् नपुंसकलिङ्गम् । उत्तरवाक्यस्थमस्त्रियामिति पदमत्राप्यनुसन्धेयमिति चन्द्रः । तथा च—ʻययुः सुषुप्सवस्तल्पान् भीमैर्वचनकर्मभिḵ इति भट्टिकाव्ये (८। १०१) पुंलिङ्गप्रयोगः ॥ स्तम्बेऽपि विटपोऽस्त्रियाम् । स्तम्बः तृणादिगुत्सः । अत्र प्रतापः—
ʻवृक्षस्कन्धोर्ध्वशाखायां तृणगुत्से द्रुविस्तृतौ ।
पल्लवे विटमुख्ये च विटपः पुंवपुंसकम् ॥ इति ।
विटान् पाति छायासंवरणदानादिना रक्षतीति विटपः ॥ प्राप्तरूप—अमी । रूपशब्देन उत्कर्षो विवक्षितः, तद्योगात् प्राप्तरूपः अभिरूपश्च । अमी त्रयोऽपि शब्दा वाच्यलिङ्गा इत्यर्थः ॥ कूर्मी वीणाभेदश्च कच्छपी । कूर्मी कमठजातीया स्त्री । ʻजातेरस्त्रीविषयात् ॥ । इत्यादिना (४। १। ६३) ङीषि कच्छपी । तदाकारसाम्याद् वीणाभेदः । सरस्वत्या वीणा च ॥ १३१ ॥
इति पान्तवर्गः
मल्लि-नाथः - AK.03.03.131
तल्पं—अस्त्रियाम् । ʻशाखायां पल्लवे स्तम्बे विस्तारे विटपोऽस्त्रियाम् इति रभसः ॥ प्राप्तरूप—मनोज्ञयोः । अभिरूपमपत्यम् । अभिरूपा कन्या ॥ कूर्मी—कच्छपी । वीणाभेदः सरस्वतीकरवीणा । ʻमहती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी इति वैजयन्ती (पृ। १४५, श्लो। ११९) ॥ अनुक्तम्—
कुतपो मृगरोमोत्थपटे चाह्नोऽष्टमेऽंशके ।
मृगरोमोत्थपटो नाम छागकम्बलः ॥ ʻकुतपः स्यात् कुले वाद्ये तपने छागकम्बले इति विश्वः (पृ। १०४, श्लो। १२) ॥
रूपं तु शब्दशुक्लादिसौन्दर्याकारनाणके ।
आम्रे चामरपुष्पः स्यात् काशकेतकयोरपि ।
गर्तायामपि कूपः स्यात् पादपीठेऽपि पादपः ॥ १३१ ॥
इति पान्तवर्गः
[[०३.४०५]]
अथ फान्तवर्गः—
अक्।०३.०३.१३२च्द् रवर्णे पुंसि रेफः स्यात् कुत्सिते वाच्यलिङ्गकः ॥ १३२ ॥
मल्लि-नाथः - AK.03.03.132
रेफः पुमान् रवर्णे स्याद् द्विरेफः स्यान्मदेऽपि च ॥ १३२ ॥
इति फान्तवर्गः
इति फान्तवर्गः
लिङ्गयसूरिकृतविवृतौ, अप्पयार्यकृतविवरणे च फान्तशब्दा न दृश्यन्ते । क्षीरस्वामिग्रन्थे तु एवं दृश्यते—
शिफा शिखायां सरिति मांसिकायां च मातरि ।
शफं मूले तरूणां स्याद् गवादीनां खुरेऽपि च ॥
गुल्फः स्याद् गुम्फने बाहोरलङ्कारे च कीर्तितः ।
रवर्णे पुंसि रेफः स्यात् कुत्सिते वाच्यलिङ्गकः ॥ इति।
अथ बान्तवर्गः—
अक्।०३.०३.१३३अब् अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने ।
अक्।०३.०३.१३३च्द् कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ ॥ १३३ ॥
अक्।०३.०३.१३४अब् पूर्वोऽन्यलिङ्गः प्रागाह पुम्बहुत्वेऽपि पूर्वजान् ।
लिङ्ग-सूरी - AK.03.03.133
अन्तराभवसत्त्वे स्याद् गन्धर्वो दिव्यगायके ॥ २७७ ॥
गां धारयतीति गन्धर्वः ॥
कम्बुर्ना वलये शङ्खे द्विजिह्वो सर्पसूचकौ ।
काम्यत इति कम्बुः । ʻकमु कान्तü । द्वे जिह्वे यस्येति द्विजिह्वः ॥
पूर्वः स्यात् प्राग्दिशोः पूर्वः पूर्वजेऽपि च कथ्यते ॥ २७८ ॥
पूर्वतीति पूर्वः । ʻपूर्व पूरणे । वबयोरैक्यम् ॥ १३३ ॥
इति बान्तवर्गः
अनेकार्थफकारान्तशब्दानां प्राचुर्येण प्रयोगाभावात् तदतिक्रमेण बान्तानाह—
अन्तराभव—दिव्यगायने । अत्र सुबोधिनीकारः—द्यावापृथिव्योरन्तराभवसत्त्वेन महापर्वतशिखरप्रदेशेषु वर्तमाने देवयोनिविशेषे घोटकमात्रे त्रिदिवौकसां गायने च गन्धर्वशब्दो वर्तत इति ॥ कम्बुर्ना वलये शङ्खे । वलये करभूषणे । शङ्खे तु नपुंसकत्वमपि प्रागुक्तम् (१। पृ। १७०) । द्विजिह्वौ सर्पसूचकौ । सूचकः कर्णेजपः । जिह्वाशब्दोऽत्र लक्षणया वचने वर्तते । अत्र वचनस्य च द्वैविध्यं समक्षपरोक्षयोरेकरूपत्वाभावादवसेयम् ॥ पूर्वो—पूर्वजान् । अत्र प्राक्च्छब्दः पूर्वेषु दिग्देशकालेषु तत्रत्यसम्बन्धिपदार्थेषु च वर्तते विशेष्यनिघ्नश्च । यथा—पूर्वा दिक् । पूर्वं दिक्चक्रम् । पूर्वा सन्ध्या । पूर्वो देशः । पूर्वा भूमिः । पूर्वमुपवर्तनम् । पूर्वः समुद्रः । पूर्वं दिनम् । पूर्वा रात्रिः । पूर्वा धनसम्पत्तिः । पूर्वं धनम् इत्यादि यथासम्भवमुदाहार्यम् । यदा तु पूर्वजान् पितृपितामहादीन् पूरातनान् वा अभिधत्ते, तदा पूर्वशब्दस्य पुंलिङ्गत्वबहुवचनान्तत्वयोर्नियमः । यथा—मत्पूर्वैः पालितो देश इति । पूरातनेषु यथा—ʻपूर्वे पूर्वेभ्यो वच एतदूचुḵ (तै। ब्रा। ३। १२। ९। २) इति । वबयोरभेदाद् गन्धर्वादिशब्दानामत्र पाठः कृतः । कैश्चिद् व्याख्यातृभिः ʻअन्तराभव्ö इत्यादिकः सार्धश्लोकोऽपि न व्याख्यातः ॥ १३३ ॥
इति बान्तवर्गः
मल्लि-नाथः - AK.03.03.133
अन्तराभव—दिव्यगायने । अन्तराभवसत्त्वः मरणजन्मनोर्मध्यावस्थापन्नजन्तुः । अश्वः हयः । दिव्यगायनः तुम्बुरुप्रभृतिः । गायनमात्रे च स्यात् । ʻअन्तराभवसत्त्वे स्याद् गन्धर्वो गायने हये इति वैजयन्ती (पृ। २४१, श्लो। २४) ॥ कम्बुर्ना वलये शङ्खे । शङ्खे पुन्नपुंसकः ॥ द्विजिह्वौ—पूर्वजान् । प्राक्च्छब्दो दिग्देश कालवचनः । पूर्वा दिक् । पूर्वं स्थानम् । पूर्वो दिवसः । पूर्वजशब्दो वंशयवचनः । ʻपूर्वैः किलायं परिवर्धितो नḵ इति रघुवंशः (१३। ३) ॥ अनुक्तम्—
बिम्बं बिम्बीफले तुल्ये प्रतिमाप्रतिबिम्बयोः ।
बिम्बफले—बिम्बाधरा । तुल्ये—स्मरस्य बिम्बमनिरुद्धः । प्रतिमायाम्—शिलाबिम्बम् । प्रतिबिम्बे—मुखस्य बिम्बम् । मण्डलेऽस्त्री—शशिबिम्बं शशिबिम्बः ॥ १३३ ॥
इति बान्तवर्गः
[[०३.४०७]]
अथ भान्तवर्गः—
अक्।०३.०३.१३४च्द् कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ ॥ १३४ ॥
अक्।०३.०३.१३५अब् स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ ।
अक्।०३.०३.१३५च्द् कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च ॥ १३५ ॥
लिङ्ग-सूरी - AK.03.03.134-35
घटे गजशिरःपिण्डे राशौ वाराङ्गनापतौ ।
कुम्भकर्णश्रुतौ कुम्भः कुम्भं त्रिवृति गुग्गुले ॥ २७९ ॥
कुम्भी भवेच्च पिठरे वारिपर्ण्यां च कट्फले ।
कुम्भयतीति कुम्भः । ʻकुभि आच्छादने ॥
बालिशे बालके चापि डिम्भशब्दोऽभिधीयते ॥ २८० ॥
डयते गमनायेति डिम्भः । ʻडीङ् विहायसा गतü ॥
स्थूणायां च जडीभावे स्तम्भस्तु परिकीर्तितः ।
स्तभ्नातिति स्तम्भः । ʻस्तन्भु रोधनस्तम्भनयोḵ ॥
शम्भुः पूज्ये महेशाने परमेष्ठिनि कथ्यते ॥ २८१ ॥
शं सुखमस्माद् भवतीति शम्भुः ।
कुक्षौ भ्रूणे बालके च सन्धौ पनसकण्टके ।
अन्तर्भावे च गर्भः स्यादसंवादे च हिंसने ॥ २८२ ॥
विश्वासे केलिकलहे विस्रम्भः प्रणये भवेत् ।
गिरतीति गर्भः । ʻगृ निगरणे ॥ विस्रभ्यत इति विस्रम्भः । ʻस्रम्भु विश्वासे ॥ १३४-५ ॥
कुम्भौ घटेभमूर्धांशौ । गजशिरःस्थितः पिण्डरूपोऽवयव इत्यर्थः । शेषे—
ʻकुम्भः स्यात् कुम्भकर्णस्य पुत्रे वाराङ्गनापतौ ।
राशिभेदे मानभेदे गुग्गुलुत्रिवृतोर्नपुम् ॥
कुम्भी तु पाटलावारिपर्णीपिठरकट्फले ॥
मानभेदः पलसहस्रपरिमितः । कुम्भः द्रोणचतुष्टयमित्येके । यथा—ʻधान्यं दशभ्यःकुम्भेभ्यो हरतोऽभ्यधिकं वधḵ इति (म। स्मृ। ८। ३२०) । गुग्गुलौ त्रिदण्ड्यां च नपुम्, नपुंसकलिङ्गमित्यर्थः । पाटलादिषु कुम्भशब्दो ङीबन्तः कुम्भीति । डिम्भौ तु शिशुबालिशौ । शिशुरष्टमवर्षादर्वाचीनः । बालिशो मूर्खः । डिम्भयतीति डिम्भः । ʻडिभि क्षेपे । पचाद्यच् (३। १। १३४) ॥ स्तम्भौ स्थूणाजडीभावौ । स्तम्भ्यन्ते स्वोपरिस्थितानि दारूणि अनेनेति स्तम्भः स्थूणा । पटकाद्याधारत्वेन ऊर्ध्वाग्रतया स्थापितो दारुविशेष इयर्थः । ʻष्टभि स्तभि प्रतिबन्धे । करणे घञ् (३। ३। १२१) । स्तम्भ्यते प्रतिरुध्यते शरीरव्यापारोऽनेनेति स्तम्भः जडीभावः निष्पन्दता, सात्त्विको भावविशेषश्च ॥ शम्भू ब्रह्मत्रिलोचनौ । ब्रह्मा चतुराननः । विष्णावपि शम्भुशब्द इति चन्द्रः ॥ कुक्षिभ्रूणार्भका गर्भाः । भ्रूणः कुक्षिस्थः प्राणिविशेषः । कुक्षौ यथा—उच्छूनगर्भ इति । गर्भे—ʻगर्भहा च यथावर्णम् (या। स्मृ। ३। ५। २५१) इति । अर्भके शिशौ यथा—ʻयद् गर्भरूपमिव मामनुशास्ति इति मुरारिनाटके (अ। रा। १। १५) । शेषे—ʻअन्तर्भावे च गर्भः स्यात् सन्धौ पनसकण्टके इति । अन्तर्भावे यथा—कदलीगर्भपत्रम् । सन्धौ यथा—प्रतिमुखानन्तरस्तृतीयो गर्भसन्धिः प्रसिद्धः (द। रू। १। २४) ॥ विस्रम्भः प्रणयेऽपि च । प्रणयोऽभिलाषविशेषः । शेषे—ʻविस्रम्भः केलिकलहे विश्वासेऽपि च हिंसने इति ॥ १३४-५ ॥
मल्लि-नाथः - AK.03.03.134-35
कुम्भौ घटेभ—गर्भाः। भ्रूणः कुक्षिस्थशिशुः । विस्रम्भः प्रणयेऽपि च । ʻविस्रम्भः केलिकलहे विश्वासे प्रणये वधे इति विश्वः (पृ। १०९, श्लो। २८) ॥ १३४-५ ॥
[[०३.४०९]]
अक्।०३.०३.१३६अब् स्याद् भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् ।
अक्।०३.०३.१३६च्द् स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् ॥ १३६ ॥
लिङ्ग-सूरी - AK.03.03.136
दुन्दुभी राक्षसे भेर्यामक्षे बिन्दुत्रिकद्वये ॥ २८३ ॥
दुन्दुमिति भाषत इति दुन्दुभिः ॥
पद्मके हेमनि पटे कुसुम्भं स्यात् कमण्डलौ ।
कुसुम्भ्यत इति कुसुम्भः । ʻकुसुम्भ अर्दने ॥ १३६ ॥
स्याद् भेर्यां—स्त्रियाम् । अक्षोऽत्र पाशकाख्यं द्यूतसाधनम् । यथा—ʻदुन्दुभ्या किल तत्कृतं पतितया यद् द्रौपदी हारित्ȫ इति । भेर्यां यथा—ʻदुन्दुभिस्ताडितोऽयम् (वेणी। १। २२) । दुन्दुमिति शब्दं भाषत इति दुन्दुभिः । ʻभाष व्यक्तायां वाचि । औणादिकः किप्रत्ययः । ʻदैत्ये ना दुन्दुभिर्भेर्यां त्र्यक्षे बिन्दुत्रिकद्वये इति रभसः । दैत्यो वालिशत्रुः । बिन्दुत्रिकद्वय इति अक्षस्वरूपकथनम् ॥ स्यान्महारजने—पुमान् । महारजनं वह्निशिखम् (१, पृ। ६१६) । पद्मकमिति स्वामी (पृ। ३०२) । स्वप्रच्युतेन जवेन कुं भूमिं सुम्भति नाशयतीति कुसुम्भः । ʻसुम्भ शुम्भ हिंसायाम् । करकः कमण्डलुरित्यर्थः । शेषे—ʻकुसुम्भं हेमनि क्लीबे इति ॥ १३६ ॥
मल्लि-नाथः - AK.03.03.136
स्याद् भेर्यां—स्त्रीयाम् । अक्षो नाम अक्षबिन्दुत्रिकद्वयम् । ʻइत्तिगल्ü । ʻदुन्दुभिर्दितिजे भेर्यामक्षबिन्दुत्रिकद्वये इति विश्वः (पृ। १०९, श्लो। ३३) ॥ १३६ ॥
[[०३.४१०]]
अक्।०३.०३.१३७अब् क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् ।
अक्।०३.०३.१३७च्द् सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः ॥ १३७ ॥
लिङ्ग-सूरी - AK.03.03.137
जिगीषुक्षत्रिये मुख्ये चक्रान्तश्चक्रवर्तिनोः ॥ २८४ ॥
प्राण्यङ्गे चैव कस्तूरीमदे नाभिः प्रकीर्त्यते ।
नभते नभ्यते च नाभिः । ʻणभ हिंसायाम् ॥
चम्पके स्त्रीगवि स्वर्णे सल्लकीम्तृभेदयोः ॥ २८५ ॥
मनोज्ञे च सुगन्धौ च सुरभिर्वाच्यलिङ्गकः ।
सुष्ठु रभ्यत इति सुरभिः । ʻरभ राभस्ये ॥
संसच्छालादेवनेषु गोष्ठ्यां द्यूते च मन्दिरे ॥ ८६ ॥
समूहसख्ययोश्चैव सभाशब्द उदाहृतः ।
सह भान्त्यत्रेति सभा । ʻभा दीप्तü ॥
गवाध्यक्षे कुलीनाश्वे दयिते वल्लभः स्मृतः ॥ २८७ ॥
वल्लत इति वल्लभः । ʻवल्ल प्रीतü ॥ १३७ ॥
इति भान्तवर्गः
क्षत्रियेऽपि च नाभिर्ना । ना पुंलिङ्ग इत्यर्थः । नभते हिनस्तीति नाभिः । ʻणभ हिंसायाम् । शेषे प्रतापे च—
ʻचक्रान्तश्चक्रवर्तिनोः ।
नाभिः प्रधाने कस्तूरीमदे प्राण्यङ्गकेऽपि च ॥
चक्रान्तः चक्रयोर्मध्यं पिण्डिकाख्यम् । रभसोऽपि—
ʻमुख्यराट् क्षत्रियो नाभिः पुंसि प्राण्यङ्गके द्वयोः ।
चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे ॥
इति । ʻसमुच्छृसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीवि नाभिभिḵ इति भारविकाव्ये पुंलिङ्गप्रयोगः (किरा। ८। २४) ॥ सुरभिर्गवि च स्त्रियाम् । गवि कामधेन्वामित्यर्थः । ʻसुतां तदीयां सुरभेḵ इति रघुवंशे (२। ८२) । गोमात्रे इति केचित् । सुष्ठु रभत इति सुरभिः । ʻरभ राभस्ये । राभस्यं कार्योपक्रम इति धातुवृत्तौ । शेषे—
ʻसुरभिर्ना जातिफले वसन्ते चम्पकद्रुमे ।
शल्लक्यां स्त्री मातृभेदे मनोज्ञे तु विशेष्यवत् ॥
इति । ʻसुरभिर्घ्राणतर्पणḵ इति गतम् (१, पृ। ९८) ॥ सभा संसदि सम्येषु । सह भान्त्यत्रेति व्युत्पत्त्या सभा संसत् ब्राह्मणसमावेशनमित्यर्थः । तद्वर्तित्वाद् उपचारेण सामाजिकेष्वपि सभाशब्दः । एकस्मिन्नेव पुरुषे सभाशब्दो न प्रवर्तत इति ज्ञापयितुं सम्येष्विति बहुवचनमुपात्तम् । शेषे—ʻसभा दुरोदरेऽपि स्यात् समूहे भाविते त्रिष्ü इति । भया कान्त्या नक्षत्रैर्वा युक्ते वाच्यलिङ्गः । त्रिष्वध्यक्षेऽपि वल्लभः । अध्यक्षोऽत्र गोष्ठाध्यक्ष एवेति सुबोधिनीकारः । ʻवल्ल प्रीतौ सञ्चरणे च्ö । वल्लत इति वल्लभः । वल्लतिः सौत्रो धातुः । ʻरासिवल्लिभ्यां च्ö इत्यभच् प्रत्ययः (उ। ३। १२५) । शेषे—ʻवल्लभस्तु प्रधानाश्वे कुलीनश्चापि वल्लभḵ इति । यथा—ʻस्तोकेन नाक्रमत वल्लभपालमुच्चैḵ (शिशु। ५। ५६) इति, ʻनीतो वल्लभपालकेन च निजामुच्चैःश्रवो मन्दुराम् इति च माघकाव्ये । ʻदयितं वल्लभं प्रियम् इति प्रागुक्तम् (२, पृ। ७५) ॥ १३७ ॥
इति भान्तवर्गः
मल्लि-नाथः - AK.03.03.137
क्षत्रियेऽपि—स्त्रियाम् । वसन्तादावपि स्यात् ॥ सभा संसदि सभ्ये च । ʻस्त्रियां सामाजिके गोष्ठ्यां द्यूतमन्दिरयोः सभ्ȫ इति रभसः ॥ त्रिष्वध्यक्षेऽपि वल्लभः । ʻवल्लभो दयितेऽध्यक्षे कुलीनाश्वे च वल्लभḵ इति विश्वः (पृ। १०९, श्लो। २६) ॥ अनुक्तम्—
दन्तेऽपि जम्भ ऋषभी नराकारस्त्रियामपि ।
दुर्लभो दयितेऽपि स्याद् विभुः सर्वगतेऽपि च ।
अवष्टम्भः सुवर्णेऽपि स्थानमात्रेऽपि भूरिति ॥ १३७ ॥
इति भान्तवर्गः
[[०३.४१२]]
अथ मान्तवर्गः—
अक्।०३.०३.१३८अब् किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ
अक्।०३.०३.१३८च्द् इच्छामनोभवौ कामौ शौर्योद्योगौ पराक्रमौ ॥ १३८ ॥
लिङ्ग-सूरी - AK.03.03.138
किरणप्रग्रहौ रश्मी कपौ भेके प्लवङ्गमः ।
अश्नुत इति रश्मिः । ʻअशू व्याप्तü । प्लवैर्गच्छतीति प्लवङ्गमः ॥
कामः स्पृहारेतसोः स्यान्निकामे मीनकेतने ॥ २८८ ॥
काम्यत इति कामः । ʻकमु कान्तü ॥
पराक्रमः स्यादुद्योगे शक्तिविक्रमयोरपि ।
पराक्रमन्त्यनेनेति पराक्रमः ʻक्रमु पादविक्षेपे ॥ १३८ ॥
किरणप्रग्रहौ रश्मी । अश्वादिनियमनार्थो रज्जुविशेषः प्रग्रहः । अश्नुत इति रश्मिः । ʻअशू व्याप्तü । ʻअश्नोते रश् च्ö (उ। ४। ४६) इति मिप्रत्ययः, धातो रशादेशश्च ॥ कपिभेकौ प्लवङ्गमौ । प्लवैर्गच्छतीति प्लवङ्गमः । ʻगमश्च्ö (३। २। ४७) इति खच् ॥ इच्छामनोभवौ कामौ । शेषे—ʻरेतोनिकामयोः क्लीबं कामः काम्ये त्रिषु स्मृतḵ इति । निकामं प्रकामम् ॥ शौर्योद्योगौ पराक्रमौ । सत्यपि भयकारणे भयराहित्यं शौर्यम् । स्वशक्त्यनुसारेण कर्तव्यार्थप्रारम्भ उद्योगः ॥ १३८ ॥
मल्लि-नाथः - AK.03.03.138
किरणप्रग्रहौ रश्मी । प्रग्रह इति रञ्ज्जुः । ʻपग्गम्ü । कपिभेकौ प्लवङ्गमौ । प्लवगप्लवङ्गावपि स्याताम् । प्लवङ्गमः कपौ भेके प्लवङ्गप्लवगावपि इति वैजयन्ती (पृ। २६७, श्लो। ३२) ॥ इच्छामनोभवौ कामौ । इच्छाविषयोऽपि स्यात् । ʻकाम्यस्पृहास्मराः कामाḵ इति वैजयन्ती (पृ। २१५, श्लो। १७) ॥ शौर्योद्योगौ पराक्रमौ ॥ १३८ ॥
[[०३.४१३]]
अक्।०३.०३.१३९अब् धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः ।
अक्।०३.०३.१३९च्द् उपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ १३९ ॥
लिङ्ग-सूरी - AK.03.03.139
पुण्ये कृतान्ते न्याये च स्वभावोपमयोरपि ॥ २८९ ॥
आचारे चाप्यहिंसायां चापोपनिषदोरपि ।
सोमपे चैव धर्मः स्याद् धर्मं स्याद् धर्मसाधने ॥ २९० ॥
सोमपः ऋतुविशेषः । ध्रियत इति धर्मः । ʻधृञ् धारणे ॥
उपायपूर्व आरम्भे प्रारम्भे विक्रमे तथा ।
उपधायां चिकित्सायामागमे स्यादुपक्रमः ॥ २९१ ॥
उपक्रम्यत इत्युपक्रमः ॥ १३९ ॥
धर्माः—सोमपाः । पुण्यम् इष्टापूर्तजन्यः पुरुषगुणः । तत्र धर्मशब्दः पुन्नपुंसकलिङ्गः प्रागुक्तः (१, पृ। ८६) । यमो धर्मराजः । तत्र नामैकदेशन्यायेन धर्मशब्दः । न्यायो व्यवहारनिर्णयस्तर्कः । यथा—धर्माधिकरणं प्राप्त इति । स्वभावः पदार्थस्य सहजो धर्मः । यथा—वह्नेरुष्णत्वम्, जलस्य शैत्यमिति । आचारो देशकुलाद्याचारः । यथा—देशधर्मः, कुलधर्म इति । सोमपः सोमपीथि । यथा—धर्मोऽयं कुलभूषणमिति । ध्रियत इति धर्मः । ʻधृञ् धारणे । मन्प्रत्ययः (उ। १। १४५) । शेषे—ʻअहिंसायां राजभेदे धर्मश्चापोपमानयोḵ इति । राजभेदे—इक्ष्वाकुवंशयो राजविशेषः । यथा—ʻप्राज्यं धर्मः पालयामास राज्यम् इति । चापे यथा—ʻअयं रामो नैवं स हि जनकधर्म दलितवान् इति । उपमाने यथा—क्षत्रधर्मोऽयं ब्राह्मण इति । केचित्तु—सोमः पीयतेऽत्रेति व्युत्पत्त्या सोमपशब्देन ऋतुरुच्यत इत्याहुः । तथा च विश्वप्रकाशिका—(पृ। १११, श्लो। १७)
ʻधर्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतौ ।
उपमायामहिंसायां धार्मिके च निगद्यते ॥
इति । तथा हि—यो यागमनुतिष्ठति तं धार्मिकमाहुर्जनाः । सोमपः सोमपीथीति कथ्यत इति ॥ उपाय—उपक्रमः । आरभ्यत इत्यारम्भः । आरभ्यमाणं कार्यमित्यर्थः । उपायज्ञानपूर्वको य आरम्भः स पुंलिङ्गेनोपक्रमशब्देनोच्यते । यथा—ब्रह्मण उपक्रमो जगदिति । यत्र हि उपक्रमशब्दान्तः तत्पुरुषो भवति, तत्र तस्य नपुंसकत्वं वक्ष्यते । मन्त्रिपुरोहितादीनां परीक्षणमुपधेति क्षत्रियवर्गेऽभिहितम् (१, पृ। ४८६) । तत्राप्युपक्रमशब्दः । उपक्रम्यत इत्युपक्रमः । शेषे—ʻउपक्रमस्तु प्रारम्भे चिकित्सायां च विक्रमे इति । प्रारम्भे यथा—भोजनस्योपक्रमः । चिकित्सायां यथा—अनुपक्रमो रोगः । विक्रमे यथा—अहो कण्ठीरवस्योपरि जम्बुकस्योपक्रम इति ॥ १३९ ॥
मल्लि-नाथः - AK.03.03.139
धर्माः—सोमपाः । उपायपूर्व—उपक्रमः ॥ १३९ ॥
[[०३.४१५]]
अक्।०३.०३.१४०अब् वणिक्पथः पुरं वेदो निगमा नागरो वणिक् ।
अक्।०३.०३.१४०च्द् नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥
लिङ्ग-सूरी - AK.03.03.140
वणिक्पथे पुरे वेदे वाणिज्ये निगमः स्मृतः ।
नियतं गम्यतेऽनेनेति निगमः ॥
नैगमः स्यादुपनिषत्पौरयोर्वणिजेऽपि च ॥ २९२ ॥
निगमे भवो नैगमः ॥
बलभद्रे दाशरथौ जामदग्न्ये पशौ पुमान् ।
नीलवर्णे मनोज्ञे च सिते रामस्त्रिषु स्मृतः ॥ २९३ ॥
अङ्गनाहिङ्गुलिन्योः स्त्री रामं वास्तुककुष्ठयोः ।
रमन्तेस्मिन्निति रामः । ʻरमु क्रीडायाम् ॥ १४० ॥
वणिक्पथः—निगमः । वणिक्पथो वाणिज्यम् । हट्टमार्गो वा । पुरं नगरम् । वेद आम्नायः । नियतं गम्यतेऽत्रेप्सितार्थोऽनेनेति वा निगमः । नियतं गच्छत्यत्रेति वा निगमः । ʻगोचरसञ्चरवहव्रजव्यजापणनिगमाश्च्ö (३। ३। ११९) इत्यधिकरणे घञन्तो निपातितः । नगरो—नैगमो द्वौ । निगमशब्दस्य नगरं वणिक्पथश्च इत्यर्थद्वयं प्रागुक्तम् (१, पृ। १६५, पूर्वार्धे च) । तदुभयसम्बन्धाद् नैगमशब्दस्य नगरसम्बन्धी वणिक् चेत्यर्थद्वयमपि । अत्र सुबोधिनीकारः—ʻनैगमशब्दः केवलयोगमात्रप्रवृत्तो न भवति । किन्तु नागरे वणिक्पथे च रूढḵ । ʻरूढिर्योगमपहरति इति न्यायाद् ब्राह्मणस्याम्नायरूपनिगमसम्बन्धे सत्यपि नैगमशब्दाभिधेयत्वनिवृत्त्यर्थं द्वावित्युक्तम् इति । स्वामी चाह (पृ। ३०३)—ʻब्राह्मणस्य नैगमत्वनिषेधार्थं द्वावित्युक्तम् इति । विज्ञानेश्वरस्तु—ʻश्रेणिनैगमपाषण्डिगणानामप्ययं विधिḵ इति याज्ञवल्क्यव्याख्यानावसरे, ʻये वेदस्याप्तप्रणीतत्वेन प्रामाण्यमिच्छन्ति पाशुपतादयस्ते नैगमाḵ इति व्याचष्ट (या। स्मृ। २। १५। १९२) ॥ बले रामो—त्रिषु । रमते क्रीडतीति रामः । बलभद्र इत्यर्थः । ʻरमु क्रीडायाम् । ʻज्वलितिकसन्तेभ्यो णḵ (३। १। १४०) । अत्र रूपभेदात् पुंलिङ्गः । रमन्तेऽस्मिन् इत्यधिकरणार्थे घञि रामः (३। ३। १२) । कृष्णवर्णे सुन्दरे धवलवर्णे चायं वाच्यलिङ्गः । तथाच—
ʻरामः पशुविशेषे च जामदग्न्ये हलायुधे ।
राघवे चासितश्वेतमनोज्ञेषु तु वाच्यवत् ॥
रामाङ्गनाहिङ्गुलिन्यो रामं वास्तुककुष्ठयोः ॥
इति (वि। प्र। पृ। १११, श्लो। २१-२) । पशुविशेषे ʻगन्धर्वः शरभो रामḵ इति प्रागुक्तः (१, पृ। ३३४) । हिङ्गुलिनि ʻदुर्लभो हिङ्गुली राष्ट्री नाकुली च महौषधिḵ इति । द्रव्यति कुष्ठं सारिभाख्यो गन्धद्रव्यविशेषः ॥ १४० ॥
मल्लि-नाथः - AK.03.03.140
वणिक्पथः—नैगमौ द्वौ । द्वाविति नियमोऽनर्थकः । ʻनैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि च्ö इति विश्वः (पृ। ११३, श्लो। ५२) ॥ बले—त्रिषु । बलो बलभद्रः । जैनमते दाशरथिश्च बलः स्यात् ॥ १४० ॥
[[०३.४१७]]
अक्।०३.०३.१४१अब् शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः ।
अक्।०३.०३.१४१च्द् *स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलसे ॥ १४१ ॥
लिङ्ग-सूरी - AK.03.03.141
वृन्दे स्वरपदे ग्रामः शब्दादौ परिकीर्त्यते ॥ २९४ ॥
शब्दादिः स्वरः । गीर्यत इति ग्रामः । ʻगॄ निगरणे ॥
पादस्याक्रमणे शक्तिसम्पत्त्यां विक्रमः स्मृतः ।
विशेषेण क्रम्यतेऽनेनेति विक्रमः ॥ १४१ ॥
शब्दादिपूर्वो बृन्देऽपि ग्रामः । अयमर्थः—शब्देन्द्रियगुणभूतादिपदपूर्वको ग्रामशब्दः समूहे वर्तते । यथा—शब्दग्रामः, इन्द्रियग्रामः, गुणग्रामः, भूतग्रामः इत्यादि । अस्मिन्नर्थे ग्रामशब्दस्य उत्तरपदनैयत्यविधानात् शब्दादीनां समूहः शब्दग्रामः इत्यस्वपदरूपेण विग्रहः कार्यः । अपिशब्दात् ʻसमौ संवसथग्रामü (१, पृ। २०७) इति निरुपपद एव प्रागुक्तः । शेषे—ʻग्रामः स्वरे संवसथे इति । ग्रामे स्वरे यथा—ʻसप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकः विंशतिḵ इति षड्जग्रामः, मध्यमग्रामः, गान्धारग्राम इति ग्रामास्त्रयसङ्गीतशास्त्रे प्रसिद्धाः ॥ क्रान्तौ च विक्रमः । क्रान्तिः पादेनाक्रमणम् । विक्रामन्त्यनेनेति विक्रमः । ʻक्रमु पादविक्षेपे । शेषे—ʻविक्रमः शक्तिसम्पदि इति । ʻविक्रमस्त्वतिशक्तित्ȫ इति प्रागुक्तः (१, पृ। ५४४) ॥ १४१ ॥
मल्लि-नाथः - AK.03.03.141
शब्दादि—ग्रामः । ग्रामेऽपि स्यात् ॥ क्रान्तौ च विक्रमः । शक्तावपि स्यात् । उष्णेऽपि घर्मः । ʻनिदाघ ऊष्मणि ग्रीष्मे स्वेदे घर्मस्तु तेषु च । आतपे च दिने चाथ्ö इति वैजयन्ती (पृ। २६९, श्लो। ५७) ॥ चेष्टालङ्कारे भ्रान्तौ च विभ्रमः । चेष्टालङ्कारो वचनविभूषणविपर्यासः । भ्रान्तिर्ज्ञानविशेषः । शोभायामपि स्यात् । ʻशोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाḵ इति हलायुधः (अ। मा। ५। २७) । शोभा नाम वस्त्रभूषणादिप्रयुक्तविशेषः ॥ १४१ ॥
[[०३.४१८]]
अक्।०३.०३.१४२अब् गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसुकुलस्त्रियोः ।
अक्।०३.०३.१४२च्द् क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥ १४२ ॥
लिङ्ग-सूरी - AK.03.03.142
सेनाभेदे रोगभेदे स्तम्बे च बलसज्जने ॥ २९५ ॥
दुर्गादिरक्षणस्थाने सैन्यरक्षणघट्टयोः ।
विटपानां च सङ्घाते गुल्मः पुंसि विवक्षितः ॥ २९६ ॥
आमलक्यां वस्त्रवेश्मवनिकैलासु तु स्त्रियाम् ।
गुल्यत इति गुल्मः । ʻगुड रक्षणे ॥
जामिर्यज्ञीयमूलः स्याज्जानिः स्वसुकुलस्त्रियोः ॥ २९७ ॥
जमति भक्षयतीति जामिः । ʻजमु अदने ॥
क्षितिक्षान्त्योः क्षमा न्याय्ये क्षमं शक्ते हिते त्रिषु ।
क्षम्यत इति क्षमा । ʻक्षमूष् सहने ॥ १४२ ॥
गुल्मा रुक्स्तम्बसेनाश्च । गुड्यते रोगवानस्मादिति गुल्मः जठररोगः । गुड्यते रक्ष्यते पुरुषोऽनेनेति गुल्मः स्तम्बः, एकमूलस्तृणकाण्डसमूहः । ʻगुड रक्षणे । मक्प्रत्ययः । लडयोरभेदः । अत्र सेनाशब्देन क्षत्रवर्गोक्तात् सेनामुखात् (१, पृ। ५३०) त्रिगुणचतुरङ्गबलसमूहो विवक्षितः । शेषे—ʻगुल्मस्तु रक्षणस्थानं दुर्गादौ बलरक्षणम् इति ॥ जामिः स्वसृकुलस्त्रियोः । कुलस्त्री कुलपालिका । जमति भ्रातृभर्त्रादिदत्तमिति जामिः। ʻजमु अदने । शेषे—ʻस्याज्जाम्यव्ययमालस्ये इति । यथा—ʻजामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशü इत्यादि । ʻजिह्मस्तु कुटिले मन्दे जामिः स्वसृकुलस्त्रियोḵ इति चवर्गतृतीयादिष्वजयः । रभसस्तु—ʻप्रहरे संयमे यामे यामिः स्वसृकुलस्त्रियोḵ इति अन्तस्थयकारादावुक्तवान् ॥ क्षितिक्षान्त्योः—त्रिषु । क्षितिः भूमिः । क्षान्तिः सहनम् । ʻक्षमूष् सहने ʻषिद्भिदादिभ्योऽङ् (३। ३। १०४) । उभयत्र रूपभेदात् स्त्रीलिङ्गः । युक्ते न्याये, शक्ते समर्थे, हितेऽनुकूले; युक्ताद्यर्थत्रये तु वाच्यलिङ्गः । ʻक्षमं शक्ते सहे युक्ते हिते च त्रिषु कीर्तितḵ इति रत्नकोशे शक्ताद्यर्थचतुष्टये क्षमं क्षमः क्षमा इति लिङ्गत्रयरूपोच्चारणेन त्रिलिङ्गत्वाभिधानात् । अतश्च युक्तार्थे क्षममिति रूपभेदाद् नपुंसकत्वमिति व्याख्यानमुपेक्षणीयम् । सुभूतिचन्द्रस्तु ʻयुक्तार्थे क्षमम् इति मकारान्तमव्ययमाह ॥ १४२ ॥
मल्लि-नाथः - AK.03.03.142
गुल्मा रुक्स्तम्बसेनाश्च । रुग् रोगः । स्तम्बोऽप्रकाण्डः शाखी । सेना सैन्यभेदः । जामिः स्वसृकुलस्त्रियोः । ʻजिह्मस्तु कुटिले मन्दे जामिः स्वसृकुलस्त्रियोḵ इति जकारादिषु जयकोशः । ʻप्रहारे संयमे यामो यामिः स्वसृकुलस्त्रियोḵ इति यकारादिषु रभसः ॥ क्षितिक्षान्त्योः—त्रिषु । युक्ते क्षममिति युक्तार्थे नपुंसकमव्ययं च स्यात् । युक्ते उचिते क्लीबमव्ययं च मान्तमिति सुभूतिटीका ॥ १४२ ॥
[[०३.४१९]]
अक्।०३.०३.१४३अब् त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिबा निशा ।
अक्।०३.०३.१४३च्द् ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३ ॥
लिङ्ग-सूरी - AK.03.03.143
हरिते कृष्णवर्णे च प्रयागवटवृक्षयोः ॥ २९८ ॥
वारिवाहे दारके च श्यामः पुंसि प्रकीर्तितः ।
शारिवागुन्द्रयो रात्रावप्रसूतस्त्रियां तथा ॥ २९९ ॥
कृष्णाप्रियङ्ग्वोर्नील्यां च तथा सोमलतौषधौ ।
त्रिवृतायां सोमराज्यां श्यामा त्वष्टाब्दयोषिति ॥ ३०० ॥
मरिचे लवणे श्यामम् ॥
श्यायत इति श्यामः । ʻश्यङ् गतü ॥
ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ।
त्रिषु लिङ्गेषु रम्ये स्याद् मुख्यसामर्थ्यलक्ष्मसु ॥ ३०१ ॥
ललतीति ललामम् । ʻलल विलासे ॥ १४३ ॥
त्रिषु श्यामौ—निशा । हरित् पलाशवर्णः । दूर्वादलश्याममिति कृष्णवर्णे । यथा—ʻस्निग्धाञ्जनश्यामतनूभिरुन्नतैḵ इति माघः (शिशु। १२। ६२) । उभयत्र वाच्यलिङ्गः । गुणमात्रे धीवर्गे पुंलिङ्ग उक्तः (पृ। १००) । शारिवा गोपी । निशा रात्रिः । उभयत्र रूपभेदात् स्त्रीलिङ्गः । शेषे—
ʻश्यामः प्रयागन्यग्रोधे घने वृद्धे च दारके ।
अप्रसूताङ्गनायां स्त्री तथा सोमलतौषधौ ॥
कृष्णाप्रियङ्ग्वोर्गुन्द्रायां गोपीत्रिवृतयोरपि ।
श्यामं मरीचे लवणे ॥
इति । गङ्गायमुनासङ्गमप्रदेशस्थो न्यग्रोधः प्रयागन्याग्रोधः । यथा—ʻसोऽयं वटः श्याम इति प्रतीतḵ इति रघुवंशे (१३। ५३) । घनो मेघः । दारको बालकः । अप्रसूताङ्गना यौवनमध्यस्था । गुन्द्रा गोवन्दनी । त्रिवृता त्रिपुटा । मरीचे च लवणविशेषे च रूपभेदान्नपुंसकम् ॥ ललामं—केतुषु । पुच्छं गवादीनां लाङ्गूलम् । पुण्ड्रं गवाश्वादीनां शरीरवर्णाद् वर्णान्तरगतं ललाटगतं चिह्नम् । अश्वः घोटकः । भूषा आभरणम् । प्रधानमेव प्राधान्यम् । अत्र रभसः—
ʻललाम च ललामं च भूषावालधिवाजिषु ।
चिह्नप्रभावपुण्ड्रेषु प्रधाने ध्वजशृङ्गयोः ॥
इति । यादवप्रकाशोऽपि—
ʻललामोऽस्त्री ललामापि प्रभावे पुरुषे ध्वजे ।
श्रेष्ठे भूषापुच्छशृङ्गपुण्ड्रचिह्नहयेष्वपि ॥
इति (वैज। पृ। २६२, श्लो। ७२-३) । अश्वस्य भूषा इति षष्ठीसमासाश्रयणेन सुबोधिनीकारव्याख्याने मूलं न पश्यामः । ललन्तीति ललाः विलासशीलाः, तानमति गच्छतीति ललाम् । पचाद्यचि कनिन्प्रत्यये ललाम । ʻकन्याललाम कमनीयमजस्य लिप्सोḵ इति नकारान्तस्य प्रधानरूपार्थे रघुवंशे प्रयोगः (५। ६४) । ʻक्षणात् कपिललामेन द्रावितं कौरवं बलम् इति ध्वजार्थे द्रोणपर्वणि रात्रियुद्धे प्रयोगः ॥ १४३ ॥
मल्लि-नाथः - AK.03.03.143
त्रिषु श्यामौ—प्राधान्यकेतुषु । पुण्ड्रं भालाङ्कम् । प्राधान्यं प्रधानम् । केतुः चिह्नम् ।
ʻललाम च ललामं च भूषावालधिवाजिषु ।
चिह्नप्रधानपुण्ड्रेषु प्रभावे ध्वजश्रृङ्गयोः ॥
इति जयकोशः ॥ १४३ ॥
[[०३.४२१]]
अक्।०३.०३.१४४अब् सूक्ष्ममध्यात्ममप्यादौ प्रधाने प्रथमस्त्रिषु ।
अक्।०३.०३.१४४च्द् वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ ॥ १४४ ॥
अक्।०३.०३.१४५अब् जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ।
इति मान्तशब्दाः
लिङ्ग-सूरी - AK.03.03.144
सूक्ष्मं त्वणौ कैतवे स्यादध्यात्माल्पकयोरपि ।
सूच्यत इति सूक्ष्मम् । ʻसूच पैशुन्ये ॥
आदौ प्रधानके चैव प्रथमं परिकीर्तितम् ॥ ३०२ ॥
प्रथतेऽस्मादिति प्रथमम् । ʻप्रथ प्रख्याने ॥
प्रतीपे सुन्दरे सव्ये मेघे रिक्थे हरे स्मरे ।
वामः स्यादङ्गनायां तु सृगाल्यां करभस्त्रियाम् ॥ ३०३ ॥
रासभ्यां बडवायां च वामा तु परिकीर्त्यते ।
वमतीति वामः । ʻटुवम् उद्गिरणे ।
अधमाने कुत्सिते न्यूनेऽप्यधमोऽधःस्थितेऽपि च ॥ ३०४ ॥
अधमत्वात् अधमः । न विद्यते धमो ध्यानमत्रेति वाधमः
जीर्णे च परिभुक्तेच पूतिपर्युषिते तथा ।
गतस्वाभाविकरसे यातयामं प्रकीर्तितम् ॥ ३०५ ॥
अतिशयेन याम्यत इति यातयामम् । ʻयम अपरिवेषणे ॥ १४४ ॥
इति मान्तवर्गः
सूक्ष्ममध्यात्ममपि । अध्यात्ममिति विभक्त्यर्थेऽव्ययीभावः । परमात्मनि सूक्ष्मशब्दो नपुंसकलिङ्गो वर्तत इत्यर्थः । दुर्ज्ञानत्वेनाणुपरिमाणद्रव्यसादृश्यात् सूक्ष्मम् । ʻअणोरणीयान् महतो महीयान् इति श्रुतेः (कठ। २। २०) । अपिशब्देन स्वल्पेऽपि सूक्ष्मशब्दो वाच्यलिङ्गः । आद्ये प्रधाने प्रथमस्त्रिषु । आद्ये यथा—ʻअग्निष्टोमः प्रथमो यज्ञḵ इति । प्रधाने श्रेष्ठे यथा—दातृणां प्रथम इति । प्रथते तस्मादन्यदितरद् द्वितीयादिकं स्वगुणभूतं वेति प्रथमः । ʻप्रथ प्रख्याने । प्रथमशब्दप्रभृतयो वक्ष्यमाणा मकारान्तास्त्रिषु वाच्यलिङ्गा इत्यर्थः । वामौ वल्गुप्रतीपौ द्वौ । वल्गुः मनोहरः । यथा—वामलोचना । प्रतीपः प्रतिकूलः । यथा—ʻविधौ वामारम्भे वहति विफलधियः पौरुषभराḵ इति । वमति प्रकटयति स्वगुणमिति वामः । ʻटुवमु उद्गिरणे । ʻज्वलितिकसन्तेभ्यो णḵ (३। १। १४०) इति णप्रत्यये ʻनोदात्तोपदेशस्य मान्तस्यानाचमेḵ (७। ३। ३४) ʻअनाचमिकमिवमीनामिति वक्तव्यम् इति वृद्धिः शेषे—
ʻवामः सव्ये त्रिषु स्मृतः ।
पुंसि कामे हरे क्लीबे द्रविणे स्त्री तु योषिति ।
वामी सृगालीबडवारासभीकरभीषु च ॥
इति । हरे यथा—ʻवामदेवो महादेवḵ (१, पृ। २३) । द्रविणे यथा—ʻवाममस्मभ्यं सा वीः, वामभाजः स्याम्ö इति । योषिन्मात्रे टाबन्तः प्रागुक्तः (१, पृ। ३६२) । सृगाल्यादिषु ङीबन्तः यथा—ʻअथोष्ट्रवामीशतवाहितार्थम् (रघु। ५। ३२) इति ॥ अधमौ न्यूनकुत्सितौ । न्यूनोऽसमग्रः । यथा—अधमपक्षः । कुत्सितः गर्हितः । यथा—ब्राह्मणाधमः, राजाघमः इति । [ʻअधोऽवसोर्लोपश्च्ö (सर। कण्ठा। ४। ३। १२०)] ʻअवोऽधसोर्लोपश्च इति वक्तव्यम् (वा। ४। ३। ८) । अधःशब्दाद् मप्रत्ययः सकारलोपश्च । शेषे—अधःस्थोऽप्यधमोऽध्माने इति । अधोभागस्थितोऽप्यधमः । धमतीति धमः । ʻपाघ्राध्माघेट्दृशः शḵ (३। १। १३७) । ततोऽन्योऽधमः । अध्मानो ध्मानरहित इत्यर्थः ॥ जीर्ण च—द्वयम् । उपभोगेन कालवशेन वा गतसारं जीर्णम् । यथा—यातयामानि माल्यानि इति । तथा—ʻवयमपि शिथिलाङ्गा यातयामं कलत्रम् इति । दर्भाः कृष्णाजिनं मन्त्रः इत्यादि कर्मान्तरेषु विनियुक्तानामपि दर्भादीनामन्यत्रापि कर्मणि विनियोगोऽस्तीत्यर्थः । यागादौ विनियुक्तं परिभुक्तम् । यथा—ʻयातयामान्यन्यानि हवींष्ययातयाममाज्यम् इति यामशब्देन प्रहरवाचिना कालमात्रं लक्ष्यते । कर्मान्तरेषूपयुक्तस्याप्याज्यस्य पुरोडाशादिवद् यातयामत्वोपाधिकनिषेधो नास्तीत्यर्थः । अत्र परिभुक्तं भुक्तोज्झितमिति सर्वानन्दः (टी। सं। पृ। १२१) । यातो यामः कालोऽस्येति यातयामम् ॥ १४४ ॥
इति मान्तवर्गः
मल्लि-नाथः - AK.03.03.144
सूक्ष्ममध्यात्ममपि । ʻसूक्ष्मं स्यात् कैतवेऽध्यात्मेऽप्यणौ सूक्ष्मोऽल्पकेऽन्यवत् इति विश्वः (पृ। १११, श्लो। १९) ॥ आदौ प्रधाने—प्रतीपौ द्वौ । द्वाविति नियमेन सव्याद्यर्थे त्रिष्वित्यधिकृतलिङ्गं न भवति ॥ अधमौ—यातयाममिदं द्वयम् । परिभुक्तमिति भुक्तोज्झितम् । ʻपरिभुक्तोज्झिते जीर्णे यातयामं त्रिलिङ्गकम् इति रभसः । अनुक्तम्—
दण्डयामस्तु दिवसे कृतान्ते कुम्भसम्भवे ।
तलिमं बद्धभूमौ स्यात् तल्पे चैव वितानके ॥
कच्छपे जलगुल्मः स्यादावर्ते सलिलस्य च ।
ध्यामश्च ध्यामलश्च द्वौ श्यामले च मलीमसे ॥
तोक्मं कर्णमले क्लीबं हरिते स्यात् त्रिलिङ्गकम् ।
विद्रुमः पल्लवेऽपि स्याद् हिमं स्याच्चन्दनेऽपि च ।
गर्दभ्यामपि वामी स्यात् सौम्येऽप्यनुपमो भवेत् ।
नियमो यन्त्रणाश्लिष्टनिश्चयप्रभृतिष्वपि ।
पञ्चमौ भेकहृद्यौ च सम्भ्रमौ विभ्रमावपि ॥ १४४ ॥
इति मान्तवर्गः
[[०३.४२४]]
अथ यान्तवर्गः—
अक्।०३.०३.१४५च्द् तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ ॥ १४५ ॥
अक्।०३.०३.१४६अब् श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ ।
अक्।०३.०३.१४६च्द् पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः ॥ १४६ ॥
लिङ्ग-सूरी - AK.03.03.145-46
तार्क्ष्योऽश्वकर्णे गरुडे रथवाहे रसाञ्जने ।
तरन्ति येनेति तार्क्ष्यः । गरुडपक्षे तृक्षस्यापत्यं पुमान् तार्क्ष्यः ॥
क्षयो गृहे गतौ हानौ हिंसाकल्पान्तयक्ष्मसु ॥ ३०६ ॥
क्षीयत इति क्षयः । ʻक्षि क्षये । ʻक्षि निवासगत्योḵ ॥
दम्पत्योर्देवरे स्याले श्वशुर्यः परिकीर्तितः ।
श्वशुरस्यापत्यं श्वशुर्यः ॥
भ्रातृव्यो भ्रातृपुत्रेऽपि व्यसनापन्नवैरिणोः ॥ ३०७ ॥
भ्रातुरपत्यं भ्रातृव्यः ॥
पर्जन्यो मेघशब्दे च गर्जन्मेघे दिवस्पतौ ।
पिपर्ति जनमिति पर्जन्यः । ʻपॄ पालनपूरणयोḵ ।
चक्रसम्बन्धिशीघ्रे च पत्यौ वैश्यप्रवीणयोः ॥ ३०८ ॥
अर्यो योग्येऽपि च भवेत् ॥
अरणीयस्त्वादभिगम्यत्वाद् अर्यः । ʻऋ गतü ॥ १४५-६ ॥
तुरङ्गगरुडौ तार्क्ष्यौ । तृक्षस्यापत्यं पुमान् तार्क्ष्यः गरुडः । वेगेन तार्क्ष्यसादृश्याद् अश्वोऽपि तार्क्ष्यः । शेषे—ʻतार्क्ष्योऽनूरावश्वकर्णे रथे नप्तु रसाञ्जने इति । अनूरुः सूर्यसारथिः । अश्वकर्णो वृक्षविशेषः । रथे च पुंलिङ्गः । तथा च—ʻआरुह्य तार्क्ष्यं नभसीव भूतले इति माघकाव्ये रथे प्रयोगः (शिशु। १२। २) । रसाञ्जने तु नप् नपुंसकालिङ्ग इत्यर्थः ॥ निलयापचयौ क्षयौ । निलयो गृहम् । अपचयो हानिः । ʻक्षि निवासगत्योḵ । ʻक्षि क्षये । आभ्यां धातुभ्यां क्रमेणाधिकरणे भावे च एरच् (३। ३। ५६) । शेषे—ʻक्षयो गतौ च हिंसायाम् इति । यक्ष्मरोगे कल्पान्ते च प्रागुक्तः (१, पृ। ३९२, ८६) ॥ श्वशुर्यौ देवरस्यालौ । पत्युर्भ्राता पत्न्या श्वशुर्य इति व्यवहर्तव्यः, भार्याया भ्राता भर्तुश्च श्वशुर्य इति व्यवहर्तव्य इत्यर्थः । श्वशुरस्यापत्यं श्वशुर्यः । ʻराजश्वशुराद्यत् (४। १। १३७) इति यत्प्रत्ययः ॥ भ्रातृव्यौ भ्रातृजद्विषौ । भ्रातुरपत्यमिति विग्रहे ʻभ्रातुर्व्यच्च्ö (४। १। १४४) इति व्यत्प्रत्यये भ्रातृव्यः । ʻव्यन् सपत्ने (४। १। १४५) इति सूत्रेण भ्रातृशब्दात् प्रकृतिप्रत्ययसमुदायानपेक्षया शत्रावभिधेये व्यन् प्रत्यये भ्रातृव्यः । अत्र कश्चिदाह—भ्रातृपुत्रः कदाचिद् दायहरत्वेन पितृव्यमभिभवति । एवमभिभावकत्वसाधर्म्यात् शत्रुरपि भ्रातृव्य इत्युच्यते । रूढेरभिधातुल्यवत्वाद् नानार्थत्वेनाभिधानमिति । तदनुपपन्नम् । मुख्यलाक्षणिकयोः स्वरवैलक्षण्यानुपपत्तेः । लक्षणसिद्धेऽर्थे सूत्रारम्भवैषम्याच्च ॥ पर्जन्यौ रसदब्देन्द्रौ । रसदब्दो गर्जन्मेघः । सुबोधिनीकारस्तु—शरदब्देन्द्रौ इति पठित्वा शारदमेघस्य गर्जितप्रायत्वात् शरदब्दशब्देन गर्जन्मेघ उच्यते इत्याह । पर्जन्य इत्यौणादिकनिपातनसामर्थ्यात् ʻपृषु सेचने इत्यस्माद् न्यप्रत्यये षकारस्य च तालव्यवर्गतृतीये जकारे च सति पर्जन्यशब्दः (उ। ३। १०३) । अजेर्वा अन्यप्रत्यये धातोः पुगागमश्च । क्वचिन्निःशब्देऽपि मेघे गर्जनयोग्यत्वात् पर्जन्यशब्दः औपचारिकः ॥ स्यादर्यः स्वामिवैश्ययोः । स्वामी प्रभुः । ʻअर्यः स्वामिवैश्ययोḵ (३। १। १०३) इति निपातनात् साधुः ॥ १४५-६ ॥
मल्लि-नाथः - AK.03.03.145-46
तुरङ्गगरुडौ—रसदब्देन्द्रौ । अब्दरसनं च स्यात् । ʻपर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशक्रयोḵ इति विश्वः (पृ। १२१, श्लो। ८३) ॥ स्यादर्यः स्वामिवैश्ययोः ॥ १४५-६ ॥
[[०३.४२६]]
अक्।०३.०३.१४७अब् तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे ।
अक्।०३.०३.१४७च्द् प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ १४७ ॥
अक्।०३.०३.१४८अब् रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ।
लिङ्ग-सूरी - AK.03.03.147
तिष्यस्तु स्यात् कलौ युगे ।
आमलक्यां भवेत् तिष्या पुमान् पुष्याख्यतारके ॥ ३०९ ॥
त्विषतीति तिष्यः । ʻत्विष दीप्तü ॥
पर्यायः स्याच्च निर्याणे प्रकारेऽवसरे क्रमे ।
पर्ययण पर्यायः । ʻअय गतü ॥
प्रत्ययः प्रथितत्वेऽपि हेतुविश्वासयोरपि ॥ ३१० ॥
आचाररन्ध्रपथज्ञानसन्नादिनिघ्नयोः ।
प्रत्येतीति प्रत्ययः । ʻइण् गतü ॥
अनुतापेऽप्यनुशयो दीर्घद्वेषेऽपि कथ्यते ॥ ३११ ॥
अनुशेतेऽत्रेत्यनुशयः । ʻशीङ् स्वप्ने ॥ १४७ ॥
तिष्यः पुष्ये कलियुगे । पुष्यः नक्षत्रविशेषः । कृतादिषु चतुर्थं कलियुगम् । त्वेषते तिष्यः । ʻत्विष दीप्तü । निपातनात् साधुः (उ। ४। ११३) । शेषे—ʻतिष्या त्वामलकी स्त्रियाम् इति ॥ पर्यायोऽवसरे क्रमे । विचिकीर्षितार्थकरणाय समुचितः कालोऽवसरः । बह्वीनां क्रियाणां भिन्नकालतानियमः क्रमः । ʻइण् गतü इत्यस्मात् ʻपरावनुपात्यय इणḵ (३। ३। ३८) इति घञि पर्यायः । शेषे—ʻनिर्वाणे च प्रकारे च पर्यायḵ इति । यथा—अयमपि तत्पर्यायः । तत्प्रकार इत्यर्थः ॥ प्रत्ययो—शब्दे । अधीन आयत्तः । यथा—राजप्रत्ययाः प्रकृतयः । शपथे यथा—ʻगूढद्रव्याभिशङ्कायां प्रत्ययस्तत्र कीर्तितḵ इति स्मृतिः । ज्ञाने यथा—प्रत्यक्षः प्रत्ययः इति । विश्वासे यथा—ʻमूढः परप्रत्ययनेयबुद्धिḵ इति (मालविका। १। २) । हेतौ यथा—ʻअपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भḵ इति कालिदासः (कु। सं। ३। १८) । परकीयापराधस्थानं रन्ध्रम् । यथा—ʻपापाद्विरतोऽपि शठः प्रत्ययमासाद्य विकुरुतेऽवश्यम् इति । शब्दोऽत्र कृत्तद्धितादिरूपः पदैकदेशो विवक्षितः । ʻइण् गतü इत्यस्माद् अधीनार्थे पचाद्यच् (३। १। १३४) । अन्यत्र भावे करणे च एरच् (३। ३। ५६) । शेषे—ʻप्रत्ययः पुनराचारे प्रथने इति । आचारे यथा—ʻश्रुतिस्मृत्यविरुद्धानां प्रत्ययानां प्रमाणत्ȫ इति । प्रथनं प्रसिद्धत्वम् । यथा—ʻप्रतीते प्रथितḵ इति प्रागुक्तम् (२, पृ। १३) अथ—अनुतापयोः । दीर्घद्वेषः चिरवैरम् । यथा—ʻततः सपत्नापनयस्मरणानुशयस्फुर्ȫ इति माघः (शिशु। २। १४) । कृतस्य दानभोगादेः पश्चादनुशोचनमनुतापः । यथा—ʻदत्तमिष्टमपि नान्वशेत सḵ इति माघकाव्ये (शिशु। १४। ४५) । अनुशेते सुप्त इतीव मूढो भवत्यत्र पुरुष इत्यनुशयः ॥ १४७ ॥
मल्लि-नाथः - AK.03.03.147
तिष्यः—क्रमे । प्रकारेऽपि स्यात् । ʻपर्यायः स्यात् प्रकारेऽपि इति त्रिकाण्डशेषः (पृ। ३२, श्लो। ८६९) ॥ प्रत्ययो—शब्दे । अधीने—तृष्णाप्रत्ययोऽम्बुपानम् । शपथे—विवादे प्रत्ययाच्छुद्धिः । ज्ञाने—प्रत्यक्षः प्रत्ययः । हेतौ—बीजप्रत्ययोऽङ्कुरः । रन्ध्रे—प्रत्ययमासाद्य विकुरुते हि खलः । शब्दे—शब्देन प्रधानसनाद्योरेव ग्रहणम् । ʻप्रत्ययः प्रथितत्वे स्यात् सनादिज्ञानयोरपि इति रभसः । प्रथायाम्—अहो अमरसिंहस्य प्रत्ययः ॥ अथ—अनुतापयोः ॥ १४७ ॥
[[०३.४२८]]
अक्।०३.०३.१४८च्द् स्थूलोच्चयस्त्वसाकल्ये गजानां मध्यमे गते ॥ १४८ ॥
अक्।०३.०३.१४९अब् समयाः शपथाचारकालसिद्धान्तसंविदः ।
अक्।०३.०३.१४९च्द् व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ॥ १४९ ॥
लिङ्ग-सूरी - AK.03.03.148-49
स्थूलोच्चयो गण्डशैलन्यूनयोः करिणीगतौ ।
स्थूलश्चासावुच्चयश्च स्थूलोच्चयः ॥
सिद्धान्तशपथाचारकालेष्ववसरेऽपि च ॥ ३१२ ॥
प्रतिज्ञायां च सङ्केते नियमे समयो भवेत् ।
समेत्यत्रेति समयः ॥
अनयोऽशुभदैवे स्यादापदि व्यसनेऽपि च ॥ ३१३ ॥
विरुद्धो नयोऽनयः । अयादन्यो वा । न विद्यतेऽयो गतिरत्रेत्यनयः ॥ १४८-९ ॥
स्थूलोच्चय—नागानां मध्यमे गते । स्थूलानामेव कणिशादीनामुच्चयनम् । न तु सूक्ष्माणामिति स्थितौ सत्यां स्थूलोच्चयकृत इति शब्दप्रयोगे सति वक्तुरसाकल्यप्रतिपादनमात्रे तात्पर्यात् श्रोतुरपि तथैव प्रतिपत्तेः स्यूलोच्चयशब्दस्य साकल्याभाव एवार्थः । यथा—स्थूलोच्चयेन ब्राह्मणा आहूताः । केषाञ्चित् प्रसिद्धानां नाम गृहीत्वा आहूताः, न सर्वे इत्यर्थः । स्थूलं मुखमुच्चीयते उन्नम्यतेऽत्रेति स्यूलोच्चयशब्देन गजानामनतिशीघ्रमनतिमन्दं मध्यमगतम् । यथाह पालकाप्यः—ʻनीचैर्गतिः स्थूलोच्चयो वीथिमार्ग इति गजानां तिस्रो गतयḵ इति । शेषे—ʻस्थूलोच्चयो गण्डोपलो मतḵ इति । गण्डोपलो गण्डशैलः ॥ समयाः—संविदः । शपथे यथा—कृतसमयः । आचारे यथा—देशसमयः, कालसमयः इति । काले यथा—सन्ध्यासमयः । सिद्धान्ते यथा—बौद्धसमयः । संवित् प्रतिज्ञा यथा—ʻनिस्तीर्णसमयो भीमसेनḵ इति । संयन्ति सङ्गच्छन्ते जना अनेन अत्रेति वा समयः । ʻइण् गतü । करणेऽधिकरणे च यथायोगम् एरच् प्रत्ययः (३। ३। ५६) । शेषे—ʻसङ्केते समयः प्रोक्तो नियमेऽवसरेऽपि च्ö इति । सङ्केते यथा—अन्योन्यं समयं चक्रुरिति । नियमे यथा—ʻअस्मिन्नग्रहारे सर्वैरपि वेदद्वयमध्येतव्यमिति समयḵ । अवसरे यथा—सम्प्रति गन्तुमसमयः इति ॥ व्यसनानि—अनयास्त्रयः । नयो नीतिशास्त्रम् । तत्र तेषां निरोधाद् नीतिशास्त्रविरुद्धत्वेन मृगयाक्षादीनि व्यसनान्यनयशब्देनोच्यन्ते । अयः शुभावहो विधिः (१, पृ। ८८), तमारूढत्वाद् दुःखहेतुः पुराकृतकर्मरूपमशुभं दैवमनय उच्यते । विपद् दुःखं तदपि कार्यकारणयोरभेदोपचाराद् अनय इत्युक्तम् ॥ १४८-९ ॥
मल्लि-नाथः - AK.03.03.148-49
स्थूलोच्चय—मध्यमे गते । गण्डोपले तृणसञ्चयेऽपि । ʻस्थूलोच्चयस्त्वसाकल्ये गण्डोपलकरण्डयोḵ इति विश्वः (पृ। १२४, श्लो। ११६) ॥ समयाः—संविदः । संवित् क्रियाकारः । ʻसमयस्तु क्रियाकारे सङ्केते चरिते सताम् इति वैजयन्ती (पृ। २४५, श्लो। ८२) ॥ व्यसनानि—त्रयः ॥ १४८-९ ॥
[[०३.४३० ]]
अक्।०३.०३.१५०अब् अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ।
अक्।०३.०३.१५०च्द् युद्धायत्योः सपरायः पूज्यस्तु श्वशुरेऽपि च ॥ १५० ॥
लिङ्ग-सूरी - AK.03.03.150
अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डविनाशयोः ।
अयस्यातिक्रमोऽत्ययः ॥
आयतौ युद्धविपदोः सम्परायः प्रकीर्तितः ॥ ३१४ ॥
समन्तात् परायन्ति म्रियन्तेऽत्रेति सम्परायः । ʻअय गतü ॥
श्वशुरे मानयोग्ये च पूज्यस्तु परिकीर्तितः ।
पूजामर्हतीति पूज्यः । ʻपूज पूजायाम् ॥ १५० ॥
अत्ययो—दण्डेऽपि । अतिक्रम्यायनं गमनम् अत्ययः । यथा—पर्वात्यये पाथिकृतिर्विधीयते । कृच्छ्रे कष्टावस्थायां यथा—ʻप्राणात्यये तथा श्राद्धे खादन् मांसं न दोषभाक् इति (या। स्मृ। १। ८। १६९) । दोषे यथा—ʻमहत्सु नात्ययं ब्रूयात् इति । महापुरुषे दोषं न कीर्तयेदित्यर्थः । दण्डे यथा—वाक्पारुष्येऽत्ययः प्रोक्तः इति । शेषे—ʻविनाशेऽप्यत्ययः प्रोक्तḵ इति ॥ अथापदि—सम्परायः । आयतिरुत्तरकालः । सम्यक् समन्तात् परायन्ति क्रियन्तेऽत्रजना इति सम्परायः । ʻइण् गतü । अच् प्रत्ययः । ह्रस्वादिः । ʻसम्परायः स्मृतो युद्धे विपदुत्तरकालयोḵ इत्यजयः । युद्धे यथा—ʻसाम्परायिकं दुर्गं कुर्यात् इति कौटिल्यः (अ। शा। २। २) । ʻन साम्परायिकं तस्य दुर्मतेर्विद्यते फलम् इति आयतौ (म। स्मृ। ११। ३०) ॥ पूज्यस्तु श्वशुरेऽपि च । पत्युः पिता श्वशुरः । अपिशब्दाद् मान्योऽपि ॥ १५० ॥
मल्लि-नाथः - AK.03.03.150
अत्ययो—साम्परायः । आयतिरुत्तरकालः । ʻसाम्परायः स्मृतो युद्धे व्यापदुत्तरकालयोḵ इति जयकोशः । पूज्यस्तु श्वशुरेऽपि च । पूजार्होऽपि स्यात् ॥ १५० ॥
[[०३.४३१ ]]
अक्।०३.०३.१५१अब् पश्चादवस्थायिबलं समवायश्च सन्नयौ ।
अक्।०३.०३.१५१च्द् सङ्घाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी ॥ १५१ ॥
अक्।०३.०३.१५२अब् विश्रम्भयाच्ञाप्रेमाणो विरोधेऽपि समुच्छ्रयः ।
लिङ्ग-सूरी - AK.03.03.151
पश्चादवस्थायिबले समवाये च सन्नयः ॥ ३१५ ॥
सन्नमध्यवसन्नं यातीति सन्नयः । सतां नयः सन्नयः । सन् अयोऽस्येति वा सन्नयः ॥
सम्भूते सन्निवेशे च संस्त्यायो विस्तृतौ गृहे ।
संस्त्यायत इति संस्त्यायः । ʻस्त्यै षट्यै शब्दसङ्घातयोḵ ।
विस्रम्भे प्रेम्णि याच्ञायां प्रणयः प्रसरे चये ॥ ३१६ ॥
चयः परिचयः । प्रकर्षेण नयः नयनं प्रणयः ॥
समुल्लङ्घ्य स्थितावूर्ध्वश्रयणेऽप्युन्नतावपि ।
वैरिणामपि वैरे च समुच्छ्रय उदाहृतः ॥ ३१७ ॥
समुच्छ्रयणं समुच्छ्रयः । ʻश्रिञ् सेवायाम् ॥ १५१ ॥
पश्चादवस्थायि—सन्नयौ । युद्धोद्युक्तं बलं स्वसमीपं नयतीति सन्नयः । ʻपचाद्यच् (३। १। १३४) । अस्य कर्तरि विहितत्वाद् एरच् प्रत्ययेन बाधो नास्ति । युध्यमानबलस्यावष्टम्भकत्वेन तत्पश्चाद्भागावस्थितं बलमित्यर्थः । समवायः समूहः । मेलनमिति केचित् । संश्चासौ नयश्च सन्नयः । सन्नं यातीति सन्नयः इत्यादीनामर्थानां क्लिष्टसमासगम्यानां प्रायेण वक्तुं शक्यत्वाद् न तेषां नानार्थकाण्डेऽभिधानमित्यवधेयम् ॥ सङ्घाते—संस्त्यायः । सङ्घातः समूहः । ʻसन्निवेशो निकर्षणम् इति प्रागुक्तम् (१, पृ। २०७) । सन्निवेशोऽवयवसंस्थानमिति केचित् । सम्यक् स्त्यायन्ते संहता भवन्त्यत्रेति संस्त्यायः । ʻस्त्यै शब्दसङ्घातयोḵ । घञ् ॥ प्रणयाः—प्रेमाणः । विस्रम्भः परिचयः । यथा—ʻप्रेमार्द्राः प्रणयस्पृशः परिचयात् इति भवभूतिः (मालती। ५। ७) । याच्ञा प्रार्थना । यथा—ʻतद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् इति रघुवंशे (२। ५८) । यद्यपि ʻप्रेमनीतं प्रकर्षं चेत् स एव प्रणयो मतḵ इति भारतीयवचनेन प्रेमप्रणययोरवस्थाभेदोऽस्ति, तथापि अवान्तरविशेषमनादृत्य प्रेमप्रणयशब्दावेकार्थत्वेनोक्तावित्यवधेयम् । प्रपूर्वस्य नयते रजन्तस्योपसर्गवशाद् अनेकार्थत्वम् ॥ विरोधेऽपि समुच्छ्रयः । ʻउदि श्रयति॥ । इत्यादिना (३। ३। ४९) प्राप्तस्य घञि बाहुलकाद् अभावे सति एरचि (३। ३। ५६) समुच्छ्रयः । शेषे—ʻसमुच्छ्रयः स्यादुन्नत्यामूर्ध्वाश्रयण एव च्ö इति ॥ १५१ ॥
मल्लि-नाथः - AK.03.03.151
पश्चादवस्थायि—सन्नयौ । समुन्नयावपि स्याताम् । ʻसमुन्नयः समवाये पृष्ठे स्थायिबलेऽपि च्ö इति जयकोशः ॥ संस्थाने सन्निवेशे च संस्त्यायः । गृहेऽपि स्यात् । ʻसंस्थाने सन्निवेशे च संस्त्यायो वसतावपि इति रभसः ॥ प्रणयास्त्वमी—प्रेमाणः । विस्रम्भः परिचयः । ʻविस्रम्भः स्यात् परिचये विश्वासविप्रलम्भयोḵ इति जयकोशः । ʻपरिचयप्रार्थनयोः प्रणयः परिकीर्तितḵ इत्यमरमाला ॥ विरोधेऽपि समुच्छ्रयः । उन्नतावपि स्यात् ॥ १५१ ॥
[[०३.४३३]]
अक्।०३.०३.१५२च्द् विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ १५२ ॥
अक्।०३.०३.१५३अब् निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः ।
अक्।०३.०३.१५३च्द् प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ क्रुधि ॥ १५३ ॥
लिङ्ग-सूरी - AK.03.03.152-53
विषयो देशशब्दादिभवेष्वन्यत्र गोचरे ।
प्रबन्धादौ जनपदे यज्ज्ञातं यस्य तत्र च ॥ ३१८ ॥
गोचरो गवां चरणप्रदेशः । विसिनोति विशेषेण प्रीतिं बध्नातीति विषयः । ʻषिञ् बन्धने ॥
तुवरे सुरभौ रक्ते पीते रागे विलेपने ।
अङ्गरागे च निर्यासे कषायः परिकीर्त्यते ॥ ३१९ ॥
कषति गलमिति कषायः । ʻकष हिंसायाम् ॥
प्रतिश्रयः सभायां स्यादास्पदाश्रययोरपि ।
प्रतिश्रयतेऽनेकैरिति प्रतिश्रयः । ʻश्रिञ् सेवायाम् ॥
प्रायो बहुत्वे मृत्यौ च तुल्यानशनयोरपि ॥ ३२० ॥
प्रैतीति प्रायः । ʻइण् गतü ॥
दीनभावे सप्ततन्तौ कोपे मन्युरुदाहृतः
मन्यत इति मन्युः । ʻमन ज्ञाने ॥ १५२-३ ॥
विषयो—शब्दादिकेष्वपि । यस्य देवदत्तादेर्विद्याविशेषो ज्ञातोऽत्यन्तपरिशीलितः स तस्य देवदत्तादेर्विषय इत्यर्थः । यथा—देवदत्तस्यानुवाको विषयः इति । अथवा येन ज्ञानसाधनेन सता योऽर्थो ज्ञायमानो भवति स तस्य विषयः । यथा—वेदस्य यागादिर्विषयः । उपनिषदामद्वैतं विषयः इत्यादि । शब्दस्पर्शरूपरसगन्धास्तु पञ्चापि केवलस्यैव विषयशब्दस्यार्थः । यथा—विषयाभिलाषः, विषयनिवृत्तिरित्यादि । ʻदेशविषयौ तूपवर्तनम् इति प्रागुक्तम् (१, पृ। १८९) । विश्वप्रकाशेऽपि (पृ। १२०, श्लो। ६३)—
ʻविषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च ।
गोचरे च प्रबन्धादेर्यस्य ज्ञातस्तु तत्र च ॥
इति ॥ निर्यासेऽपि कषायोऽस्त्री । निर्यासः क्वाथः । यथा—धात्रीकषायः । त्रिफलाकषायः इति । केशवस्वामी (नाना। सं। २। पृ। ७६)—
ʻकषायस्तुवरे न स्त्री निर्यासे रञ्जकाश्मनि ।
सुरभावपटौ रागे भावनायां च विप्लवे ॥
इति । तुवरो रसविशेषः । यथा—कषायरसो हरीतकीति । रञ्जकाश्मनि यथा—कषायवासा इति । सुरभौ यथा—ʻवकुलामोदकषायः प्रसरति मलयानिलḵ इति । अपटौ यथा—कषायमानसः इति । रागे यथा—परिपक्वकषाय इति । भावनायां यथा—ʻअमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मन्ȫ इति कुमारसम्भवे (४। ३४) । विप्लवे यथा—ʻसुदती जनिमज्जनार्पितैर्घुसृणैर्यत्र कषायिताशय्ȫ इति । रभसोऽपि—
ʻरसभेदेऽङ्गरागे च निर्यासे च विलेपने ।
कषायोऽस्त्री त्रिलिङ्गस्तु सुरभौ रूषितेऽपि च ॥
इति ॥ सभायां च प्रतिश्रयः । बहूनां मेलनार्थं निर्मिता शाला सभा । प्रतिश्रयते बहुभिः सेव्यत इति प्रतिश्रयः । शेषे—ʻप्रतिश्रयस्त्वाश्रयणे प्रोक्तः साधारणास्पदे इति । कालव्यतिरिक्तेऽपि स्थानमात्र इत्यर्थः ॥ प्रायो भूम्न्यन्तगमने । भूम्नि बाहुल्ये यथा—प्रायेण धर्मशीलः । अन्तगमनं मरणसङ्कल्पः । यथा—ʻप्रायोपवेशनमतिर्नृपतिर्बभूव्ö इति (रघु। ८। ९४) । वैजयन्त्यामपि—ʻप्रायो वयसि बाहुल्ये तुल्यानशनमृत्युष्ü इति (पृ। २१७, श्लो। ३६) । अत्र वयःशब्देन यौवनं विवक्षितम् । तथा च राजाभिषेके—ʻप्रकाममेषा प्रचलैः प्रसन्ने प्रायःप्रवेशं प्रथयत्यपाङ्गैḵ इति । तुल्ये यथा—मूर्खप्रायः प्रायपाठः इति । ʻप्रायः स्याद् भोजनत्यागḵ इति हलायुधः (अ। मा। ४। ७५) । ʻइण् गतü इत्यस्योपसर्गवशाद् अनेकार्थत्वम् ॥ मन्युर्दैन्ये क्रतौ क्रुधि । दीनस्य भावः कर्म वा दैन्यम् । क्रतुरश्वमेधादिः । क्रुत् क्रोधः । मन्यत इति मन्युः । ʻमन ज्ञाने । ʻमन्युर्दैन्ये क्रतौ क्रुधि इत्यमरमालायां पुंस्काण्डेऽभिहितम् ॥ १५२-३ ॥
मल्लि-नाथः - AK.03.03.152-53
विषयो—शब्दादिकेष्वपि । प्रथमोदाहरणम्—देवदत्तस्य विषयो व्याकरणम् । द्वितीयोदाहरणम्—नेत्रस्य विषयो रूपम् ॥ निर्यासेऽपि कषायोऽस्त्री । ʻनिर्यासे च कषायोऽथ सुरभौ लोहितेऽन्यवत् इति विश्वः (पृ। १२०, श्लो। ७३) । निर्यास औषधीरसः । सुरभिः सुगन्धिः, लोहितो वर्णः ॥ सभायां च प्रतिश्रयः । सत्रशालायामपि स्यात् । ʻसत्रशाला प्रतिश्रयḵ इति हलायुधः (अ। मा। २। १४२) ॥ प्रायो भूम्न्यन्तगमने । अन्तगमनं मरणम् । ʻप्रायो वयसि बाहुल्ये तुल्यानशनमृत्युष्ü इति वैजयन्ती (पृ। २१७, श्लो। ३६) ॥ मन्युर्दैन्ये क्रतौ क्रतौ क्रुधि ॥ १५२-३ ॥
[[०३.४३५]]
अक्।०३.०३.१५४अब् रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ।
अक्।०३.०३.१५४च्द् वीर्यं बले प्रभावे च द्रव्य भव्ये गुणाश्रये ॥ १५४ ॥
लिङ्ग-सूरी - AK.03.03.154
रहस्योपस्थयोर्गूह्यं गुह्यः कमठदम्भयोः ॥ ३२१ ॥
गुह्यते संव्रियत इति गुह्यम् । ʻगुहू संवरणे ॥
सत्यं स्याच्छपथे तथ्ये लोके साधौ तु वाच्यवत् ।
सति साधु सत्यम् ॥
वीर्यं बले प्रभावे च शुक्ले तेजसि कर्मणि ॥ ३२२ ॥
वीरस्य भावः कर्म वा वीर्यम् ॥
भव्ये गुणाश्रये द्युम्ने जतुद्रुमविकारयोः ।
भेषजे पित्तले द्रव्यं विनये वसुधादिके ॥ ३२३ ॥
द्रवणीयत्वाद् अभिगम्यत्वाद् द्रव्यम् । ʻद्रु गतü ॥ १५४ ॥
रहस्योपस्थयोर्गुह्यम् । रहस्यं गोपनीयम् । यथा—गुह्यभाषणम् इति । उपस्थो योन्यादिः । यथा—गुह्यशुद्धिरिति । गुह्यते संव्रियत इति गुह्यम् । ʻगुहू संवरणे । ʻशंसिदुहिगुहिभ्यो वेति वक्तव्यम् (वा। ३। १। १०९) इति क्यप् प्रत्ययः । शेषे—ʻगुह्यो ना कमठे दम्भे इति । कमठः कूर्मः ॥ सत्यं शपथतथ्ययोः । शास्त्रैकसमधिगम्यो विश्वासहेतुः शपथः, देवतास्पर्शनादिक्रियारूपः । यथा—सत्येन शुध्यत इति । तथ्ये यथा—सत्यवादी इति । सति सत्पुरुषे साधु सत्यम् । शेषे—ʻसत्यस्तु सप्तमे लोके सत्सु साधुनि वाच्यवत् इति ॥ वीर्यं बले प्रभावे च । बलं शरीरशक्तिः । यथा—वीर्यवान् पुरुषः । प्रभावो वस्तुसामर्थ्यम् । यथा—ʻरसवीर्यविपाकाḵ इति । वीरस्य भावः कर्म वा वीर्यम् । ʻवीरवीर्यौ च्ö (६। २। १२०) इति निर्देशात् साधुः । रेतसि प्रागुक्तम् (१, पृ। ३९९) ॥ द्रव्यं भव्ये गुणाश्रये । भव्यशब्देनाभिप्रेतानामर्थानां पात्रभूतो भाग्यसम्पन्न उच्यते । ʻद्रव्यं च भव्ये (५। ३। १०४) इति सूत्रेण द्रुशब्दादिवार्थे यत्प्रत्ययः । द्रुमसादृश्यं च फलप्रदत्वादित्यवधेयम् । यथा—ʻन शास्त्रमद्रव्येष्वर्थवत् इति वामनसूत्रम् (काव्या। सू। १। २। ४) । यथा—ʻतत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनḵ इति भवभूतिः (उत्तर। २। १९) । गुणाश्रयत्वं च ʻगुणात्यन्ताभावसमुदायानधिकरणभावत्वं च द्रव्यलक्षणम् इति तार्किकाः । यथा—पृथिव्यादीनि नव द्रव्याणीति । प्रयोजनापेक्षिभिः द्रवणीयत्वाद् द्रव्यम् । ʻद्रु गतü । ʻअचो यत् (३। १। ९७) इति यत् वान्तादेशश्च । शेषे—ʻभव्ये द्रव्यं त्रिषु क्लीबं द्युम्ने जतुनि भेषजे इति । अत्र द्रव्यशब्दस्य भव्यरूपार्थे प्रागुक्तवाच्यलिङ्गत्वं शेषकारेणोच्यते । अत एव ʻद्रव्योऽयं माणवकः, द्रव्योऽयं राजपुत्रḵ इति वृत्तावुदाहृतम् (काशिका २, पृ। ७३) । द्युम्नं घनमात्रम् । जतु लाक्षा । भेषजे यथा—द्रव्यं वैशेषिकम् इति । आरकूटेऽपि द्रव्यशब्दः ॥ १५४ ॥
मल्लि-नाथः - AK.03.03.154
रहस्य—प्रभावे च । बलशब्देन रेतःशक्त्योरेव ग्रहणम् । ʻबलं रूपेऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च्ö इति वैजयन्ती (पृ। २३४, श्लो। ५४) ॥ द्रव्यं भव्ये गुणाश्रये । भव्योऽभिप्रेतानां पात्रम् । गुणाश्रयः पृथिव्यादिरिति सुभूतिटीका ॥ १५४ ॥
[[०३.४३७]]
अक्।०३.०३.१५५अब् धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाशुभम् ।
अक्।०३.०३.१५५च्द् कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च ॥ १५५ ॥
लिङ्ग-सूरी - AK.03.03.155
धिष्ण्यं स्थाने गृहे शक्तौ नक्षत्रे ज्वलने पुमान् ।
धृष्णोत्यत्रेति धिष्ण्यम् । ʻञिधृषा प्रागल्भ्ये ॥
शुभाशुभक्रियायां च भाग्यशब्दो विवक्षितः ॥ ३२४ ॥
भज्यते सेव्यत इति भाग्यम् । ʻभज सेवायाम् ॥
कशेरुहेममुक्तासु गाङ्गेयः स्कन्दभीष्मयोः ।
गङ्गायां भवं गाङ्गेयम् ॥
लाङ्गल्यां च गुडूच्यां च दन्तिकागतशल्ययोः ॥ ३२५ ॥
महौषधौ त्रिभण्डयां च विशल्या परिकथ्यते ।
विगतं शल्यं यस्याः सा विशल्या ॥ १५५ ॥
धिष्ण्यं स्थानं गृहे भेऽग्नौ । अत्र स्थानाद्यर्थविशेषेण लिङ्गवैलक्षण्यस्य विद्यमानत्वेऽपि धिष्ण्यश्च धिष्ण्यं चेति भिन्नलिङ्गयोर्द्वन्द्वैकशेषे सति नपुंसकस्यैव परिशेषाभिप्रायेण धिष्ण्यमिति नपुंसकनिर्देशः कृतः इति व्याख्येयम् । तच्च लिङ्गवैलक्षण्यं शेषकारेण व्यक्तीकृतम् । यथा—ʻस्थानाग्न्योः पुंसि धिष्ण्यः स्याद् धिष्ण्यं शक्तü इति । अत्र स्थानशब्देन सौमिकवेद्यामाग्नीध्रीयहोत्रियमार्जालीयाख्यान्यायतनानि विवक्षितानि । यथा—ʻचात्वालाद्धिष्णियानुपवपति (तै। सं। ६। ३। १। १) ʻअष्टावष्टावन्येषु धिष्णियेषूपदधाति (तै। सं। ५। ४। ११। ४) इति । अग्निशब्देनापि प्रागुक्तस्थानेष्वेव स्थापनीयोऽग्निर्विवक्षितः । यथा—ʻयदाग्नीध्राद् धिष्णियान् विहरति (तै। सं। ६। ३। १। १) । ततश्च यथा सभाशब्दः स्थानविशेषे तत्रस्थजनसमाजे च वर्तते इति न मुख्यलाक्षणिकत्वचिन्तावकाशः, तथा धिष्ण्यशब्दोऽपि उभयत्रापि वर्तत इति नानार्थत्वेनाभिधानमित्यवधातव्यम् । गृहनक्षत्रयोः शक्तरूपार्थे च धिष्ण्यशब्दो नपुंसकलिङ्गः । धीयत इति धिष्ण्यम् । उणादौ धिष्ण्यमिति निपातनात् साधुः ॥ भाग्यं कर्म शुभाशूभम् । केवलसुखजनकं शुभम् । केवलदुःखजनकमशुभम् । सुखदुःखयोर्जनकं शुभाशुभम् । एतत् त्रितयमपि कर्म भाग्यमित्युच्यते । भागः कर्मफलं दीयतेऽत्रेति भाग्यम् । ʻभागाद्यच्च्ö (५। १। ४९) इति यत्प्रत्ययः । यथा—ʻमद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणḵ (रत्ना। १। ६) इति शुभकर्मणि प्रयोगः ॥ कशेरुहेम्नोर्गाङ्गेयम् । कशेरुः जलकन्दम् । गङ्गाया उत्पन्नत्वेन तदपत्यतुल्यत्वाद् गाङ्गेयम् । शेषे—ʻगाङ्गेयः पुंसि भीष्मे च गाङ्गेयं मुस्तके भवेत् इति । विशल्या दन्तिकापि च । दन्तिका वृक्षविशेषः । शेषे—
ʻविशल्या गतशल्या स्याल्लाङ्गली त्रिपुटामृता ।
महौषधिविशेषोऽपि ॥
इति । विविधानि शल्यतुल्यानि कण्टकान्यस्या इति विशल्या । विगतं शल्यं दुःखमस्या इति वा विशल्या ॥ १५५ ॥
मल्लि-नाथः - AK.03.03.155
धिष्ण्यं—भेऽग्नौ । भशब्देन शुक्रतारकयोर्ग्रहणम् । ʻभः स्यान्मयूखे शुक्रे भं नक्षत्रे च प्रकीर्तितम् इति विश्वः (पृ। १०८, श्लो। १६) । धिष्ण्यं सर्वत्र नपुंसकम् । शुक्राग्न्योः केषाञ्चित् पुंलिङ्गः । ʻधिष्ण्यः शुक्रे च पावके इति पुंस्काण्डेऽमरदत्तः ॥ भाग्यं—गाङ्गेयम् । कशेरुः कन्दविशेषः । ʻशुक्लकारं तु कृसरं वृष्यकन्दं कशेरु च्ö इति वैजयन्ती (पृ। १५७, श्लो। ४७) ॥ विशल्या दन्तिकापि च । त्रिवृतायामपि स्यात् । ʻतिगुड अदुन्न्ü ॥ १५५ ॥
[[०३.४३९]]
अक्।०३.०३.१५६अब् वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः ।
अक्।०३.०३.१५६च्द् आरम्भो निष्कृतिः शिक्षा पूजनं सम्प्रधारणम् ॥ १५६ ॥
अक्।०३.०३.१५७अब् उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ।
लिङ्ग-सूरी - AK.03.03.156
वृषाकपायी श्रीगौर्योः शचीजीवावरीषु च ॥ ३२६ ॥
वृषाकपेरियं वृषाकपायी ॥
अभिख्या नामयशसोः शिखाकीर्त्योश्च वर्तते ।
अभिख्यायत इत्यभिख्या । ʻख्या प्रकथने ॥
शिक्षार्थयोश्चिकित्सायां निष्कृतौ संस्कृतौ तथा ॥ ३२७ ॥
धात्वर्थे करणे चेष्टाकर्मणोः सम्प्रधारणे ।
आरम्भोपाययोश्चैव क्रिया समभिकथ्यते ॥ ३२८ ॥
क्रियत इति क्रिया । ʻडुकृञ् करणे ॥ १५६ ॥
वृषाकपायी श्रीगौर्योः । वृषाकपेः विष्णोर्हरस्य वा स्त्री इति विग्रहे ʻपूतक्रतोरै च्ö (४। १। ३६) इत्यादि सूत्रत्रयं पुंयोगप्रकरणे द्रष्टव्यमिति वृत्तिकारेणोक्तत्वाद् (काशिका १, पृ। २७०) ʻवृषाकप्यग्निकुसितकुसीदानामुदात्तः (४। १। ३७) इति ङीप् प्रत्ययः ऐकारश्चान्तादेशः । अग्निभार्यायामिन्द्राण्यां च वृषाकपायीशब्दः ॥ अभिख्या नामशोभयोः । अभिख्यायते कथ्यतेऽनयेति अभिख्या नामसञ्ज्ञेत्यर्थः । आतश्चोपसर्गे (३। ३। १०६) इत्यङ् । यथा—चैत्राभिख्यो मैत्राभिख्य इति । शोभायां यथा—ʻकाप्यभिख्या तयोरासीत् इति रघुवंशे (१। ४६) । ʻअभिख्या कीर्तियशसोरभिख्या नामशोभयोḵ इति विश्वप्रकाशः (पृ। १२३, श्लो। १०४) ॥ आरम्भो निष्कृतिः—नव क्रियाः । अत्र क्रियाशब्दस्यार्थनिरूपकत्वेनापात्रस्य उपायशब्दस्यापि यकारान्तनिमित्तविधेयत्वभ्रान्तिनिवारणार्थं नवेत्युक्तम् । ततश्च आरम्भादयः क्रियाशब्दस्यैवार्था इत्युक्तं भवति । आरम्भ उपक्रमः । यथा—क्रियावान् कर्मसूद्यतः (२, पृ। २६) इति प्रागुक्तम् । निष्कृतिः प्रायश्चित्तम् । यथा—ʻमहापातकिनां पुंसां भवेत् प्राणान्तिका क्रिय्ȫ इति । शिक्षा अभ्यासः । यथा—ʻधनुर्वेदे कृतक्रियाḵ इति । ʻशिक्षा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्त्ȫ इति । कालिदासश्च (मालविका। १। २६) । पूजने यथा—ʻकृता पित्रतिथिक्रिय्ȫ इति । सम्प्रधार्यते निश्चीयते सन्दिग्धार्थोऽनेनेति सम्प्रधारणं लिखितसाक्ष्यादिकम् । यथा—ʻप्राङ्न्यायकारणोक्तौ तु प्रवृत्त्यर्थे च निष्क्रियाम् इत्यादि । चिकीर्षितार्थे सिद्धिहेतुरुपायः । यथा—सप्त सामादिकाः क्रियाः इति । सप्तोपाया इत्यर्थः । उभयोः साधनत्वाविशेषेऽपि कारकरूपस्योपायस्य पूर्वस्माद् ज्ञापकरूपात् सम्प्रधारणाद् भेदः । कर्मशब्देनात्र वेदोदितमनुष्ठानं विवक्षितम् । यथा—ʻतेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाḵ इति । (या। स्मृ। १। ९। १९९) । ʻक्रियामुद्दिश्य याचकḵ इति च । यद्यपि प्रयत्नवदात्मसंयोगसमवायिक्रिया चेष्टेति प्रसिद्धा, तथाप्यत्र चेष्टाशब्देन पूर्वप्रदेशविभागहेतुरुत्तरसंयोगहेतुश्चलनरूपो धर्मो विवक्षितः । यथा—हस्तक्रिया, परमाणुक्रिया इति । चिकित्सायां यथा—ʻपुनर्ज्वरे समुत्पन्ने क्रिया पूर्वज्वरानुग्ȫ इति । ʻकृञः श च्ö (३। ३। १००) इति करोतेर्धातोर्यथायथं भावे कर्मणि च शप्रत्यये, ʻरिङ्शयग्लिङ्क्ष्ü (७। ४। २८) इति रिङादेशे च क्रिया । शेषे—ʻसंस्काराख्यातधात्वर्थरचनासु क्रिया भवेत् इति । संस्कारे यथा—ʻस गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति इति (या। स्मृ। १। २। ३४) । आख्याते यथा—क्रियापदं, क्रियागोपकम् इति । धात्वर्थे यथा—क्रियावचना हि धातवः इति । रचनायां यथा—ʻशृणुत मनोभिरवहितैः क्रियामिमां कालिदासस्य्ö इति (विक्रम। १। २) ॥ १५६ ॥
मल्लि-नाथः - AK.03.03.156
वृषाकपायी—चिकित्सा च नव क्रियाः ॥ १५६ ॥
[[०३.४४१]]
अक्।०३.०३.१५७च्द् छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ॥ १५७ ॥
अक्।०३.०३.१५८अब् कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने ।
अक्।०३.०३.१५८च्द् कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः ॥ १५८ ॥
लिङ्ग-सूरी - AK.03.03.157-58
पालनोत्कोचयोः कान्तौ काव्यनीतावनातपे ।
छाया पङ्क्तौ सूर्यपत्न्यां सच्छोभाप्रतिबिम्बयोः ॥ ३२९ ॥
छ्यत्यातपादिकमिति छाया । ʻछो छेदने ॥
हर्म्यादिकोष्ठके काञ्च्यामुद्योगेऽप्युत्तरीयके ।
करिणां मध्यबन्धे च कक्ष्या समभिधीयते ॥ ३३० ॥
कक्षायां गजमध्यभागादौ भवा कक्ष्या ॥
क्रियायां देवतायां च कार्यविद्वेषयोरपि ।
तव्यादिप्रत्यये हिंस्ये ग्रन्थे भेद्ये धनादिना ॥ ३३१ ॥
छेद्ये च वेष्टनीये च कृत्या तु परिकीर्त्यते ।
कृत्यत इति कृत्या । ʻकृती छेदने ʻकृती वेष्टने । क्रियापक्षे ʻडुकृञ् करणे ॥ १५७-८ ॥
छाया—अनातपः । सूर्यप्रिया सूर्यपत्नी । कान्तिः दीप्तिः । प्रतिबिम्बम् आदर्शादिस्वच्छद्रव्यगतं स्वमुखम्, तारुशिलादिनिर्मिता प्रतिमा, चित्रलिखितं च । अनातपो गृहवृक्षाद्यावरणकृतः प्रकाशाभावः । छ्यति सन्तापादिकमिति छाया । ʻछो छेदने । यप्रत्ययः (उ। ४। १११) । शेषे—ʻछाया स्यात् पालनोत्कोचसच्छोभाकाव्यरीतिष्ü इति । पालने—ʻअवधानः कृतच्छायः करं ताभ्यः समाहरेत् इति । तव छायायां वसाम इति च । उत्कोचे यथा—ʻवृत्ते तु कार्ये छायायां ग्रहणं दुर्लभं भवेत् इति । सच्छब्दो नक्षत्रवचन इति प्रागुक्तम् । सच्छोभा नक्षत्रकान्तिः । यथा—ʻछायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् इति (रघु। १३। २) । काव्यरीतौ यथा—छायामपहरति कविः इति ॥ कक्ष्या—बन्धने । हर्म्यादेर्महागृहस्य प्रकोष्ठेऽन्तर्गृहे स्वल्पगृहे यथा—बहुकक्ष्यः प्रासाद इति । स्त्रीनितम्बगता काञ्ची मेखला । पल्ययनबन्धनार्थं गजस्य कुक्षिमध्यनिहिता रज्जुः मध्येभबन्धनम् । यथा—ʻसिन्दूरैः कृतरुचयः सहेमकक्ष्याḵ इति भारविः (किरा। ७। ८) । कक्षशब्देन बाहुमूलवाचिना सामीप्याद् मध्यभागः तिरोहितसादृश्याद् गृहमध्यस्थानं च लक्ष्यते । तत्र भवा कक्ष्या । ʻशरीरावयवाद्यत् (५। १। ६) इति यत् प्रत्ययः । शेषे—ʻकक्ष्या बृहतिकायां स्यात् इति । यथा—ʻनीलया कक्ष्यया छन्ना तमस्यन्धेऽभिसारिक्ȫ इति ॥ कृत्या—धनादिभिः । ʻकृञः श च्ö (३। ३। १००) इति चकाराद् भावे क्यपि कृत्याशब्देन क्रियोच्यते । यथा—कां कृत्यामकार्षीः इति । कृतौ परमारणे साधुः कृत्या । ʻतत्र साधुḵ (४। ४। ९८) इति यत् । परमारिका देवता यथा—ʻक्षिप्रं कृत्ये निवर्तस्व कर्तुरेव गृहान् प्रति इति । सामदानादिभिरुपायैः परस्मिन् वैरमुत्पाद्य स्ववशत्वेन क्रियत इति कृत्यो भेद्यः । ʻविभाषा कृवृषोḵ (३। १। १२०) इति करोतेः कर्मणि क्यप्-प्रत्ययः । ह्रस्वस्य तुगागमः (६। १। ७१) । अत्र कौटिल्यः—ʻक्रुद्धलुब्धभीतावमानिताः परेषां कृत्याḵ इति (अ। शा। १। १३) । यथा—ʻकृत्याकृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् इति माघकाव्ये (शिशु। २। १११) । कृत्यः परसेनापतिः, कृत्या परसामन्तसंहतिः, कृत्यं परबलम्, इत्यादिरूपेण वाच्यलिङ्ग इत्यर्थः शेषे—
ʻकृत्यं कार्ये नपुंसकम् ।
हिंस्ये ग्रथ्ये छेदनीये त्रिषु तव्यादिके पुमान् ॥
इति । कार्ये यथा—कृतकृत्य इति । ʻकृती हिंसाग्रथनयोḵ, ʻकृती छेदने । आभ्यां धातुभ्यां ʻऋदुपधाच्चाक्लृपिचृतेḵ (३। १। ११०) इति क्यप् प्रत्ययः । प्राङ्ण्वुल इत्यनुक्रान्ताः तव्यादिप्रत्ययाः कृत्यसञ्ज्ञाः ॥ १५७-८ ॥
मल्लि-नाथः - AK.03.03.157-58
छाया—अनातपः । कान्तिशब्देन प्रभाशोभयोरेव ग्रहणम् । प्रभायाम्—ʻरत्नच्छायाव्यतिकर इव्ö (मेघ। १। १५) । शोभायाम्—ʻतनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिḵ इति सौन्दर्यलहरी (श्लो। १८) । ईषदर्थेऽपि स्यात्—ʻछायामात्रप्रकृतिरभवद्रोमराजीविकारḵ ॥ कक्ष्या—बन्धने ।
ʻकक्षा ग्राहणिकाकाञ्चीप्रकोष्ठगजरज्जुषु ।
सार्द्धे पदे परीधानपश्चादञ्चलपल्लवे ॥
रथभागेऽपि कक्षा स्यात् ॥
इति मूर्धन्यान्तेषु विश्वः (पृ। १८३, श्लो। १०-११) ॥ कृत्या—धनादिभिः । धनादिभेद्यं शत्रुगुह्यम् ॥ १५७-८ ॥
[[०३.४४३]]
अक्।०३.०३.१५९अब् जन्यः स्याज्जनवादेऽपि जघन्योऽन्तेऽधमेऽपि च ।
अक्।०३.०३.१५९च्द् गर्ह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ ॥ १५९ ॥
लिङ्ग-सूरी - AK.03.03.159
सङ्ग्रामे जनितव्ये च साधौ जनितृपूज्ययोः ॥ ३३२ ॥
अस्त्री वधूवरज्ञातिप्रियतुल्यहितेषु च ।
उत्पादनीये जनके जन्यः स्याज्जनजल्पने ॥ ३३३ ॥
जननीयो जन्यः । जायत इति वा । ʻजनी प्रादुर्भावे ॥
अन्त्येऽधर्मे मेहने च जघन्यं जघनोद्भवे ।
जघने भवं जघन्यम् ॥
गर्ह्येऽधीने च वाच्ये च वक्तव्यः शब्दवाचके ॥ ३३४ ॥
वक्तुं योग्यो वक्तव्यः ॥
कल्यो निरामये सज्जे प्रभाते कल्यमुच्यते ।
कल्यत इति कल्यम् । ʻकल सङ्ख्याने ॥ १५९ ॥
जन्यं स्याज्जनवादेऽपि । जनस्य जल्पो जन्यम् । ʻमतजनहलात् करणजल्पकर्षेष्ü (४। ४। ९७) इति यत् । अपिशब्दार्थः शेषकारेण दर्शितः । यथा—
ʻजनितव्ये रणे क्लीबेऽपवादजनजल्पयोः ।
अस्त्री वरवधूज्ञातिप्रियतुल्यहितेषु च ॥
जन्यस्त्रिषु जने साधौ जनित्रुत्पादनीययोः ॥
इति । जनितव्यमवश्यं जन्यार्हत्वम् । ʻजनी प्रादुर्भावे । ʻऋहलोर्ण्यत् (३। १। १२४) । रणो युद्धम् । ततो मात्सर्यादिभिर्जायत इति जन्यम् । अत्र ʻभव्यगेय ॥ । इत्यादिना (३। ४। ६८) कर्तरि यत् । अत्रोभयत्र जन्यशब्दः केवलनपुंसकलिङ्गः । अपवादो निन्दा । निन्दायां जनवादे च अस्त्री पुन्नपुंसकलिङ्ग इत्यर्थः । अत्र च ʻजन्यः स्याज्जनवादेऽपि इत्यमरसिंहीयः पुंलिङ्गपाठोऽपि साधुरेव । अत एव सुभूतिचन्द्रोऽप्याह—ʻजनवादे तु पुंस्येनं सिंहः क्लीबेऽजयोऽब्रवीत् इति । वरस्य वध्वाश्च ये ज्ञातयः प्रिया हितास्तुल्याश्च ते जन्याः । जनीं वधूं वरसमीपं प्रापयन्तीति जन्याः । ʻसञ्ज्ञायां जन्याḵ (४। ४। ८२) इति तद्वतीत्यर्थे यत्प्रत्ययो निपातितः । जने लोके, जन्तौ जन्मनि वा साधुः जन्यः । ʻतत्र साधुḵ (४। ४। ९८) इति यत् । जायत इति कर्तर्यर्थे ʻभव्यगेय ॥ । इत्यादिना (३। ४। ६८) यत्प्रत्यये जन्यो जनिता जनेः कर्ता यजमान इत्यर्थः । जनेर्ण्यन्तात् कर्मणि यत्प्रत्यये जन्य उत्पादनीयः एवं वरवधूसम्बन्धिज्ञात्यादिषु उत्पाद्यान्तेषु अर्थेषु जन्यशब्दो वाच्यवशेन त्रिलिङ्गः । अनेन पूर्ववाक्यस्थस्य त्रिष्विति पदस्य यान्तवर्गसमाप्तिपर्यन्तमनुवर्तमानस्य, अस्मिन्नपि वाक्ये जन्यशब्दविषये प्रतिनियतार्थत्वं शेषकारेणोक्तमिति वेदितव्यम् । ʻजन्यं हट्टे परीवादे इति प्रतापश्च ॥ जघन्योऽन्त्येऽधमेऽपि च । क्रमनिविष्टानामर्थानामन्ते भवोऽन्त्यः । अधमो गुणहीनः । पश्चात्प्रतीयमानसादृश्यात् जघनशब्देन चरमः कालो देशो वा विवक्षितः । तत्र भवो जघन्यः । शेषे—ʻजघन्यं शेफसि क्लीबे इति । शेफसि शिश्ने । चशब्दात् जघनभवोऽपि जघन्यम् । ʻशरीरावयवाच्च्ö (४। ३। ५५) इति यत् ॥ गर्ह्याधीनौ च वक्तव्यौ । गर्ह्यः कुत्सितः । अधीनो वचनग्राही । वचनार्हो वक्तव्यः । ʻअर्हे कृत्यतृचश्च्ö (३। ३। १६९) इति तव्यप्रत्ययः । चशब्दाद् वचनीयमात्रेऽपि वक्तव्यशब्दः । वक्तव्यो देवदत्तः । वक्तव्या नटिका । वक्तव्यं काव्यमिति । वचनीयवाच्यशब्दावपि वक्तव्यपदसमानार्थतया प्रसिद्धत्वादिह नोक्तौ । अतस्तावप्यत्र विज्ञेयौ । शेषे—ʻवक्तव्यं शब्दवार्त्तिके इति । व्याकरणसम्बन्धिनि वररुचिवार्त्तिके वक्तव्यशब्दो रूपभेदाद् नपुंसकलिङ्गः ॥ कल्यौ सज्जनिरामयौ । सज्जः सन्नद्धः । शेषे—ʻकलासु साधौ दक्षे च कल्यḵ इति । प्रभातरूपार्थे तु कल्यशब्दः केवलनपुंसकलिङ्गः प्रागुक्तः (१, पृ। ७४) ॥ १५९ ॥
मल्लि-नाथः - AK.03.03.159
जन्यं स्याज्जननीयेऽपि । जननीये जनितरि । ʻजन्यं कौलीनयुद्धयोḵ इति जयकोशः । त्रिष्वित्यधिकारात् । जनवादेऽपि इति पाठः ॥ जघन्यो—गर्ह्याधीनौ च वक्तव्यौ । वचनीयवाच्यावपि स्याताम् ॥ कल्यौ सज्जनिरामयौ । ʻसज्जः सम्भृतḵ इति सुभूतिटीका ॥ १५९ ॥
[[०३.४४६ ]]
अक्।०३.०३.१६०अब् आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि ।
अक्।०३.०३.१६०च्द् रूप्यं प्रशस्ते रूपेऽपि वदान्यो वल्गुवागपि ॥ १६० ॥
अक्।०३.०३.१६१अब् न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते ।
इति यान्तवर्गः
लिङ्ग-सूरी - AK.03.03.160
अर्थ्योऽर्थादनपेतेऽपि बुधे न्याय्यात्मयुक्तयोः ॥ ३३५ ॥
शिलाजतुन्यर्थनीये त्रिषु लिङ्गेषु वर्तते ।
अर्थे साधुरर्थ्यः ॥
पुण्यं चारुणि धर्मे च सुकृते पुण्यवाचि च ॥ ३३६ ॥
पुणतीति पुण्यम् । ʻपुण कर्मणि शुभे ॥
आहतस्वर्णरजते रूप्यं स्याद् रजतेऽपि च ।
लोके प्रशस्तरूपेऽपि वाच्यवत् समुदीरितम् ॥ ३३७ ॥
प्रशस्तं रूपमस्यास्तीति रूप्यम् ॥
वदन्यश्च वदान्यश्च वल्गुभाषिणि दातरि ।
वदतीति वदान्यः । वदन्यश्च । ʻवद व्यक्तायां वाचि ॥
अवकाशे समे न्याय्ये हीने मध्योऽवलग्नके ॥ ३३८ ॥
मध्यत्वाद् मध्यः ॥
सुन्दरे सोमदैवेऽपि बुधे सौम्य उदाहृतः ।
सोमो देवता अस्येति सौम्यः ॥ १६० ॥
इति यान्तवर्गः </Amarapadavivrti
आत्मवाननपेतोऽर्थादर्थ्यौ । अर्थार्जने साधुरर्थ्यः । आत्मवान् बुद्धिमानित्यर्थः । अर्थादनपेत इति विग्रहे ʻधर्मपथ्यर्थन्यायादनपेते (४। ४। ९२) इति यत्प्रत्ययेऽर्थ्यः, सर्वदा सुधनवानिति । शेषे—ʻअर्थ्यो बुधे पुमान् क्लीबः शिलाजतुन्यर्थ्ये त्रिष्ü । अर्थमर्हतीत्यर्थ्यो विद्वान् । ʻविद्वानशेषमादद्यात् स सर्वस्य प्रभुर्यतḵ इति स्मृतेः (या। स्मृ। २। २। ३४) । अर्थ्ये प्रार्थनीये वस्तुनि वाच्यलिङ्गः ॥ पुण्यं तु चार्वपि । चारु मनोहरम् । पुण्यं वनम् । पुण्या नदी इत्यादि । पुणतीति पुण्यम् । ʻपुण कर्मणि शुभे । अपिशब्दात् पुण्यवति त्रिलिङ्गः प्रागुक्तः (२, पृ। ५) । सुकृते नपुंसकलिङ्गः ॥ रूप्यं प्रशस्तरूपेऽपि । प्रशस्तं रूपमस्यास्तीति रूप्यम् । आहतं रूपमस्यास्तीति रूप्यो मुद्रालिङ्कतसुवर्णादिः । ʻरूपादाहतप्रशंसयोर्यप् (५। २। १२०) इति यप् । अस्मिन्नर्थे वाच्यलिङ्गः । रजतमात्रे तु नपुंसकं प्रागुक्तम् (१, पृ। ६१०) ॥ वदान्यो वल्गुवागपि । वल्गुवागिति वाग्मीत्यर्थः । अपिशब्दाद् बहुप्रदोऽपि ॥ न्याय्येऽपि मध्यः । न्यायादनपेतो न्याय्यः । तत्र मध्यशब्दः । यथा मध्यस्थ इति । अपिशब्दाद् अवलग्ने पुन्नपुंसकलिङ्गः प्रागुक्तः (१। पृ। ४१२) । मन्यत इति मध्यम् । ʻमनु अवबोधने । ʻअघ्न्यादयश्च्ö (उ। ४। ११३) इति औणादिकनिपातनात् साधुः । यथा—शरीरस्य मध्यम् । यथा पूर्वोत्तरभागौ विहाय वर्तते, तथायं मध्यार्थेऽपि रागद्वेषौ परित्यज्य वर्तत इति सादृश्याद् मध्य उच्यते ॥ सौम्यं तु सुन्दरे सोमदैवते । सोमो देवता अस्येति सौम्यम् । ʻसोमाट्ट्यण् (४। २। ३०) । सौम्यं हविः । सुन्दरे तूपचाराद् वृत्तिः । रौहिणेये पुंलिङ्गः प्रागुक्तः (१। पृ। ६७) ॥ १६० ॥
इति यान्तवर्गः
मल्लि-नाथः - AK.03.03.160
आत्मवाननपेतोऽर्थादर्थ्यौ । आत्मा बुद्धिः, तद्वानात्मवानिति सुभूतिटीका ॥ पुण्यं तु चार्वपि । सुकृते नपुंसकम् ॥ रूप्यं प्रशस्तरूपेऽपि । रजते नपुंसकम् ॥ वदान्यो वल्गुवागपि । दानशौण्डोऽपि स्यात् ॥ न्याय्येऽपि मध्यः । अन्तरर्थे नपुंसकम् ॥ सौम्यं तु सुन्दरे सोमदैवते । सुन्दरार्थे—सौम्या स्त्री । सोमदेवताके—सौमी ऋक् । ʻसोमाट्ट्यण् (४। २। ३०) इति टित्त्वात् ङीप् । ʻहलस्तद्धितस्य्ö (६। ४। १५०) इति टिलोपः । अनुक्तम्—
सर्वज्ञभिषजौ वैद्यो कुल्या कुलवधूः सरित् ।
फलकल्याणयोर्भव्यं योग्यं साम्प्रतिके त्रिषु ॥
द्युः पुमानह्नि गगने चोद्यं प्रश्ने च विस्मये ।
क्षेत्रियं क्षेत्रजतृणे परदाररते त्रिषु ॥
उभयत्र त्रिलिङ्गः । क्षेत्रियो दर्भः । क्षेत्रिया प्रजा ॥
कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ।
दुग्धाम्रे दुग्धतालीयं दुग्धफेनेऽपि तन्मतम् ॥
अन्तशय्या तु मरणे भवेच्च पितृकानने ।
भयं प्रतिभयेऽपि स्यादहन्तायां च विस्मयः ॥
जनयित्र्यामपि ज्या स्यात् पुरन्ध्र्यामपि च त्रयी ।
उमायामपि माया स्याद् व्यवायोऽप्यवधावपि ॥
पिचिण्डके राजकन्या दक्षकन्या तु दिश्यपि ।
अतिथावपि चातिथ्यं नेपथ्यं रङ्गभूम्यपि ॥
मृत्युः स्याद्देवतायां च जात्यं स्यात् सुन्दरेऽपि च ।
मलयः पर्वतांशे च माल्यं तु कुसुमेऽपि च ॥ १६० ॥
इति यान्तवर्गः
[[०३.४४८]]
अथ रान्तवर्गः—
अक्।०३.०३.१६१च्द् निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ ॥ १६१ ॥
अक्।०३.०३.१६२अब् गुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंशयौ ।
अक्।०३.०३.१६२च्द् प्रकारौ भेदसादृश्य आकाराविङ्गिताकृती ॥ १६२ ॥
लिङ्ग-सूरी - AK.03.03.161-62
सूर्यादिदिवसे वृन्दे कुब्जवृक्षे हरे क्रमे ॥ ३३९ ॥
मद्यपात्रेऽप्यवसरे वारो वरणसेवयोः ।
व्रियत इति वारः । ʻवृञ् वरणे ॥
शयनीये सप्ततन्तौ संस्तरः परिकथ्यते ॥ ३४० ॥
संस्तीर्यत इति संस्तरः । ʻस्तृञ् आच्छादने ॥
बृहस्पतावुपाध्याये पितृराज्ञोः पितामहे ।
वर्णज्येष्ठे पितृव्ये च दातृश्वशुरयोरपि ॥ ३४१ ॥
मातामहे मातुले च ज्येष्ठे सोदर्य एव च ।
एतत्पत्नीषु महति दीर्घसंयुक्तशीर्षके ॥ ३४२ ॥
दुर्वहायामलघुनि गुरुः स्याद् वाच्यलिङ्गकः ।
गृणाति हितमुच्चारयतीति गुरुः । ʻगॄ शब्दे ॥
युगसन्देहयोश्चैव द्वापरः परिकथ्यते ॥ ३४३ ॥
द्वौ परौ पक्षौ यस्यासौ द्वापरः ॥
सादृश्यभेदयोश्चैव प्रकारः परिकथ्यते ।
प्रक्रियत इति प्रकारः ।
आकृताविङ्गिते चापि ह्याकारः परिगीयते ॥ ३४४ ॥
आक्रियतेऽनेनेत्याकारः ॥ १६१-२ ॥
निवहावसरौ वारौ । निवहः समूहः । अवसरः प्रकृतकार्योचितः कालः । यथा—ʻस्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुḵ इति (१, पृ। ९४) । शेषे—
ʻवारः सूर्यादिदिवसे क्रमे कूपकवृक्षके ।
सम्भोगे वरणे शीघ्रे हरे मद्यस्य भाजने ॥
इति । क्रमः पर्यायः । यथा—वारस्त्री इति । कूपको गुणवृक्षकः । सम्भोगः सम्भुक्तिः सेवा । प्रतापोऽपि—
ʻवारः सूर्यादिदिवसेऽवसरे मूर्धजे हरे ।
वृन्दे कूपकवृक्षे च वृते स्याद् मद्यभाजने ॥
इति । रलयोरभेदाद् वारशब्दस्य मूर्धजः केशोऽप्यर्थः । ʻवृञ् वरणे, ʻवृङ् सम्भक्तü । अर्थानुरोधात् कर्मणि भावेऽधिकरणे च घञ् ॥ संस्तरौ प्रस्तराध्वरौ । सम्यक् स्तीर्यते वस्त्रादिकमत्रेति संस्तरः प्रस्तरः शय्येत्यर्थः । सम्यक् स्तीर्यन्ते दर्भा अत्रेति संस्तरो यज्ञः । ʻस्तॄञ् आच्छादने इत्यस्माद् धातोः ʻऋदोरप् (३। ३। ५७) इत्यधिकरणे अप्प्रत्ययः ॥ गुरू गीष्पतिपित्राद्यौ । आद्यशब्दार्थः कूर्मपुराणे प्रपञ्चितः (२। १२। २६-७)—
ʻउपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितीमहौ ॥
वर्णज्येष्ठः पितृव्यश्च पुमांसो गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ॥
श्वश्रूः पितामही ज्येष्ठा भगिनी गुरवः स्त्रियः ॥
इति । महाभारतेऽपि—
ʻनिषेकादीनि कर्माणि यः करोति यथाविधि ।
सम्भावयति चान्नेन स पिता गुरुरुच्यते ॥
इति । शिवधर्मे च—
ʻसंस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः ।
देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतः ॥
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तमपीह गुरुं विद्याद् व्रतोपक्रिययाथवा ॥
इति । शेषे—ʻदुर्जरालघुनोर्दीर्घसंयुक्तपरयोर्गुर्ǖ इति । दुर्जरे यथा—ʻमाहिषं दधिपिष्टं हि बृंहणं मधुरं गुर्ü इति । लघुत्वं नाम पतनप्रतिबन्धकः कश्चिद् भावः । तदभाववति पाषाणादौ यथा—द्वयोर्गुरुत्वं रसवत्त्वं च इति । द्विमात्रो दीर्घः । संयुक्तमक्षरं परं यस्येति संयुक्तपरम् । उभयत्र यथा—ʻसंयोगे गुरु । दीर्घं च्ö इति पाणिनिः (१। ४। ११, १२) ॥ द्वापरौ युगसंशयौ । द्वाभ्यां कृतत्रेतायुगाम्यां परो द्वापरो युगः । संशयस्य कोटिद्वयावलम्बित्वेन द्वौ परौ निरूप्यावत्रेति संशयो द्वापरः । पृषोदरादिः ॥ प्रकारौ भेदसादृश्ये । भेदो विशेषः । यथा—षट्प्रकारा भावाः इति । सादृश्ये यथा—पितृप्रकारः पुत्र इति ॥ आकाराविङ्गिताकृती । इङ्गितम् अभिप्रायसूचकचेष्टाविशेषः । आकृतिरवयवसंस्थानम् । आक्रियते मनोगतोऽर्थोऽनेनेति आकारः ॥ १६१-२ ॥
मल्लि-नाथः - AK.03.03.161-62
निवहावसरौ—प्रस्तराध्वरौ । प्रस्तरः पल्लवादिशय्या । ʻप्रस्तरः संस्तरः शय्या रचिता पल्लवादिभिḵ इति वैजयन्ती (पृ। १७२, श्लो। १६५) ॥ गुरू गीष्पतिपित्राद्यौ । मात्रादौ स्त्रीलिङ्गः । ʻमात्रादौ स्त्री बृहत्ख्यातदुर्भरालघुषु त्रिष्ü इति वैजयन्ती (पृ। २३२, श्लो। २८) ॥ द्वापरौ—भेदसादृश्ये । भेदे—नानाप्रकारः । सादृश्ये—पितृप्रकारः ॥ आकाराविङ्गिताकृती । ʻइङ्गितं हृद्गतो भावो बहिःस्थं लिङ्गमाकृतिḵ इति वैजयन्ती (पृ। १९३, श्लो। २२) ॥ १६१-२ ॥
[[०३.४५१]]
अक्।०३.०३.१६३अब् किंशारू धान्यशूकेषु मरू धन्वधराधरौ ।
अक्।०३.०३.१६३च्द् अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ ॥ १६३ ॥
लिङ्ग-सूरी - AK.03.03.163
किंशारुः स्याद् धान्यशूके कङ्कपत्रे गरुत्मति ।
कुत्सितं शृणातीति किंशारुः । ʻशॄ हिंसायाम् ॥
मरुर्धन्वाख्यदेशेऽपि भूधरे चापि कथ्यते ॥ ३४५ ॥
म्रियन्तेऽत्रेति मरुः । ʻमृङ् प्राणत्यागे ॥
महीधरे तीक्ष्णरश्मावद्रिर्भूमिरुहे भवेत् ।
अद्यते कालेनेत्यद्रिः । ʻअद भक्षणे ॥
नारिकेले कोशफले कशेर्वाख्यजलौषधौ ॥ ३४६ ॥
स्त्रीस्तने वारिवाहे च पयोधर उदाहृतः ।
पयो धारयतीति पयोधरः ॥ १६३ ॥
किंशारू धान्यशूकेषू । सस्यशूके प्रागुक्तः (१, पृ। ५६५) । इषुर्बाणमात्रम् । किं कुत्सितं शृणातीति किंशारुः । ʻशॄ हिंसायाम् । ʻकिञ्जरयोः श्रिणḵ (उ। १। ४) इति उण् प्रत्ययः । शेषे—ʻकिंशारुः कङ्कपक्षिणि इति । लोहपृष्ठाख्यः पक्षिविशेष इत्यर्थः ॥ मरू धन्वधराधरौ । धन्वा निर्जलप्रदेशः । धराधरः पर्वतः ॥ अद्रयो द्रुमशैलार्काः । द्रुमो वृक्षमात्रम् । अद्यते कालवशेन नश्यत इत्यद्रिः । ʻअद भक्षणे । ʻनिद्रामुद्रां द्रावयत्यम्बुजानामद्रौ तन्द्री शोणयत्यद्रिजातम् इति रामाभ्युदये ॥ स्त्रीस्तनाब्दौ पयोधरौ । स्त्रीस्तनो नारीकुचः । अब्दो मेघः । शेषे—ʻइक्षुभेदे नारिकेले कशेरौ च पयोधरḵ इति ॥ १६३ ॥
मल्लि-नाथः - AK.03.03.163
किंशारू—धराधरौ । धन्वा निर्जलप्रदेशः । अद्रयो—पयोधरौ ॥ १६३ ॥
[[०३.४५३]]
अक्।०३.०३.१६४अब् ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः ।
अक्।०३.०३.१६४च्द् प्रदरा भङ्गनारीरुग्बाणा अस्राः कचा अपि ॥ १६४ ॥
लिङ्ग-सूरी - AK.03.03.164
वृत्रो ध्वान्ते रिपौ रक्षःशैलयोर्घनचक्रयोः ॥ ३४७ ॥
वृणोतीति वृत्रः । ʻवृञ् वरणे ॥
मतङ्गजस्य शुण्डायां बलौ किरणहस्तयोः ।
वर्षोपले कर्तरि च करशब्दो विवक्षितः ॥ ३४८ ॥
कीर्यते इति करः । ʻकॄ विक्षेपे । करोति । ʻडुकृञ् करणे ॥
स्वयं दीर्णेऽवटे भङ्गे नारीरोगे भये तथा ।
विदारणेऽपि रहसि प्रदरः परिकथ्यते ॥ ३४९ ॥
प्रदीर्यत इति प्रदरः । ʻदॄ विदारणे । ʻदृ भये ॥
अस्रः कोणे कचेऽप्यश्रुरक्तयोरस्रमुच्यते ।
अस्यत इत्यस्रः । ʻअसू क्षेपणे ॥ १६४ ॥
ध्वान्तारिदानवा वृत्राः । ध्वान्तमन्धकारः । अरिः शत्रुमात्रम् । यथा—ʻवृत्रान् घ्नंश्चरेत् (तै। सं। २। ४। १३। १) इति । दानवो वृत्रासुराख्यः तद्विशेषः । यथा—ʻयदिमानलोकानवृणोत् तद् वृत्रस्य वृत्रत्वम् इति श्रुतिः । वृणोतीति वृत्रः । ʻवृञ् वरणे । शेषे—ʻशैले चक्रे घने वृत्रḵ इति । चक्राकारो मेघः चक्रघनः ॥ बलिहस्तांशवः कराः । प्रजाभ्यो राजग्राह्यो भागो बलिः । चतुर्विंशत्यङ्गुलो हस्तः । शेषे—ʻशुण्डाकरककर्तृषु । करḵ इति । करको वर्षोपलः ॥ प्रदरा भङ्गनारीरुग्बाणाः । भङ्गः पराजयः । नारीणां स्त्रीणां निरन्तररजःस्रवजनको रोगविशेषो नीरीरुक् । बाणः शरः । ʻदॄ विदारणे । ʻदॄ भये । ʻऋदोरप् (३। ३। ५७) । शेषे—ʻविदारणं च भीर्दीर्णः स्वयं च प्रदरोऽवटḵ इति । विदारणं भेदनम् । भीर्भयम् । स्वयं दीर्णः इत्यवटविशेषणम् । स्वयमेव निष्पन्नो गर्तः प्रदर इत्यर्थः । ʻतस्मात् प्रदरादुदकं नाचामेत् इति श्रुतिः (तै। ब्रा। १। ५। १०। ७) ॥ अस्राः कचा अपि । कचाः केशाः । अस्यन्त इत्यस्राः । ʻअसु क्षेपणे । शेषे—ʻअस्रः कोणे कुम्भभागे इति । अस्रशब्दः कोणप्रदेशे पुंलिङ्ग इत्यर्थः । यथा—चतुरस्रमष्टास्रमित्यादि । अपिशब्दाद् रुधिरे नेत्राम्बुनि च नपुंसकलिङ्गं गतम् (१। पृ। ४०१, ४२१) । ʻअस्रः कोणे मूर्धजे चाप्यश्रुणि क्षतजेऽपि च्ö इत्यजयः ॥ १६४ ॥
मल्लि-नाथः - AK.03.03.164
ध्वान्तारिदानवा वृत्राः । दानवो दानवविशेषः ॥ बलिहस्तांशवः कराः । बली राजभागः ॥ प्रदरा भङ्गनारीरुग्बाणाः । नारीरुगिति रजोरोगः ॥ अस्राः कचा अपि । ʻअस्रः कोणे मूर्धजेऽस्रमश्रुणि क्षतजेऽपि च्ö इति जयकोशः ॥ १६४ ॥
[[०३.४५४]]
अक्।०३.०३.१६५अब् अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ ।
अक्।०३.०३.१६५च्द् स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः ॥ १६५ ॥
लिङ्ग-सूरी - AK.03.03.165
अप्रोढशृङ्गवृषभेऽप्यश्मश्रुपुरुषे तथा ॥ ३५० ॥
तूबरस्तुबरश्चापि वर्तते वाच्यलिङ्गकः ।
तन्यते गोत्रादि यया सा तुः, तूश्च । तूः लक्ष्म वृणोतीति तूबरः । ʻवृञ् वरणे ॥
स्वर्णे वित्ते वारिवाहे रैशब्दः परिकथ्यते ॥ ३५१ ॥
राति प्रीतिमिति राः । ʻरा दाने
वृन्दप्रगाढयोश्चैव पर्यङ्कपरिवारयोः ।
आरम्भे च परिष्कारे भवेत् परिकरस्तथा ॥ ३५२ ॥
परिकीर्यते परिक्रियते वा परिकरः । ʻकृ विक्षेपे ॥ १६५ ॥
अजातशृङ्गो—तूबरौ । शृङ्गोद्गमनयोग्यकालेऽपि गवादेरनुत्पन्नशृङ्गः, यश्च पुरुषः श्मश्रुप्रादुर्भावकालेऽपि अदृष्टमश्रुः, तावुभौ प्रत्येकं तूबरशब्दवाच्यौ । यथा—ʻप्राजापत्यमजं तूबरमालभेत्ö (तै। सं। २। १। ६। १५) इत्यादीनि । तनोति पशुत्वं पुरुषत्वं च प्रकाशयतीति तूबरः । ʻतनु विस्तारे इत्यस्माद् बाहुलकाद् ʻभ्रमेश्च डूḵ (उ। २। ७१) इति डूप्रत्ययः । तूः शृङ्गश्मश्र्वादिकं वृणोति छादितवदनुपलब्धिं करोतीति तूबरः । ʻजपादीनां वो व्ȫ इति वत्वविकल्पे तूवरं च ॥ स्वर्णेऽपि राः । अपिशब्दाद् घनमात्रेऽपि रैशब्दः पुंलिङ्गः । राति ददाति प्रीतिमिति राः । ʻरा दाने । ʻरातेर्डैḵ (उ। २। ६९) इति डैप्रत्ययः । ʻरायो हलि (७। २। ८५) इत्यात्वम् । ʻमुसलोपलरैकीलाḵ इति पुंस्त्वाधिकारे शाकटायनः (लिङ्गानु। पृ। १०९) । धर्मकीर्तिस्तु—ʻघने त्वक्लीबे राḵ इति पुन्नपुंसकोभयलिङ्गत्वमाह (?) ॥ परिकरः पर्यङ्कपरिवारयोः । परितः सर्वतो दार्वादिभिः क्रियत इति परिकरः । पर्यङ्कः मञ्च इत्यर्थः । ʻपुंसि सञ्ज्ञायां घḵ (३। ३। ११८) । कीर्यतेर्वा । ʻऋदोरप् (३। ३। ५७) । परिवारः परिजनः । शेषे—ʻपरिकरः, स्यादारम्भसमूहयोḵ इति । आरम्भे यथा—कृतपरिकरः । समूहे यथा—भृत्यपरिकर इति ॥ १६५ ॥
मल्लि-नाथः - AK.03.03.165
अजातशृङ्गो—स्वर्णेऽपि राः । धनेऽपि स्यात् । एकदेशविकृतस्यानन्यत्वाद् ʻरायो हलि (७। २। ८५) इति कृतह्रस्वस्याप्यात्वम् । ʻसुराभिर्मित्रैḵ ॥ परिकरः पर्यङ्कपरिवारयोः । पर्यङ्क इति पर्यस्तिका । ʻविवेके स्यात् परिकरः पर्यस्तिपरिवारयोḵ इति वैजयन्ती (पृ। २६७, श्लो। ३३) ॥ १६५ ॥
[[०३.४५५]]
अक्।०३.०३.१६६अब् मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ।
अक्।०३.०३.१६६च्द् कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः ॥ १६६ ॥
लिङ्ग-सूरी - AK.03.03.166
[गुरुपत्न्यां] बुद्धदेव्यां नक्षत्रे रूप्यवर्णयोः ।
सुग्रीवपत्न्यां मुक्तादिशुद्धौ शुद्धमणौ तथा ॥ ३५३ ॥
तरलेतरसम्बन्धे तारकात्युच्चनादयोः ।
कनीनिकायां महति तारस्त्रिषु विवक्षितः ॥ ३५४ ॥
तरत्यनेनेति तारः । ʻतॄ प्लवनतरण्योḵ ॥
शारो वायौ निवृत्तौ च नानावर्णे त्रिषु स्मृतः ।
शृणातीति शारः । ʻशॄ हिंसायाम् ॥
प्रतिज्ञायां सम्प्रहारे क्रियाकारे विषेऽपि च ॥ ३५५ ॥
शमीफले विपत्तौ च सङ्गरः संविदि स्मृतः ।
सम्यग् गीर्यत इति सङ्गरः ॥ १६६ ॥
मुक्ताशुद्धौ च तारः स्यात् । मौक्तिकानां श्लाघ्यत्वहेतुः शुद्धिशब्दाभिलप्यो गुणस्तार इत्यर्थः तारयति अपकर्षपरिहाणेनोत्कर्षं प्रापयत्यात्मानमिति तारः । ʻतृ प्लवनतरणयोḵ । घञ् (३। ३। १९) । शेषे—
ʻतारो ना मौक्तिके शुद्धे गुरुसुग्रीवभार्ययोः ।
बौद्धदेव्यां तारकयोस्ताराथो रूप्यवर्णयोः ।
तारमत्युच्चनिध्वानतरीसम्बन्धयोस्त्रिषु ॥
इति । शुद्धे मौक्तिके च पुंलिङ्गस्तारशब्देनोच्यते । गुरुः बृहस्पतिः । तद्भार्यायां सुग्रीवभार्यायां चेत्यर्थः । तथा च पुराणम्—ʻयथा बृहस्पतेर्भार्यां तारां जग्राह शीतगुḵ इति । बौद्धानां कुलदेवता तारादेवीति प्रसिद्धा । तारकयोरिति कनीनिकायां नक्षत्रे चेत्यर्थः । एवं गरुभार्याद्यर्थपञ्चके स्त्रीलिङ्गः । रूप्यं रजतम् । वर्णः प्रणवाख्यः । स च मन्त्रशास्त्रे तारसञ्ज्ञया प्रसिद्धः । रजताद्यर्थद्वये नपुंसकलिङ्गः । तरी नौः । अत्युच्चध्वनौ नौकासम्बन्धे च विशेष्यनिघ्न इत्यर्थः ॥ शारो—कर्बुरे । शृणाति सन्तापमिति शारः । ʻशॄ हिंसायाम् । ʻशॄ वायुवर्णनिवृत्तेष्विति वक्तव्यम् (वा। ३। ३। २१) इति घञ् । वायौ नरि पुंलिङ्गे । कर्बुरे चित्रवर्णे वाच्यलिङ्गः । ʻकृष्णरक्तः सितः शारḵ इति वैजयन्ती (पृ। १९८, श्लो। २५) ॥ अथ प्रतिज्ञा—सङ्गरः । इममर्थमवश्यमित्थं करिष्यामीति निश्चयः प्रतिज्ञा । यथा—सत्यसङ्गरः । आजिः सङ्ग्रामः । यथा—सङ्गरे मरणं पुण्यमिति । एककार्याणां द्वयोर्बहूनां वा कार्यनिर्वाहपर्यन्तं सर्वैरस्माभिरशिथिलोद्योगैः दृढयत्नैरस्मिन्नर्थे भवितव्यमिति शपथपूर्विका प्रवृत्तिः संवित् । यथा—अन्योन्यं कृतसङ्गरा इति । आपदि यथा—सङ्गरे शरणं सुहृदिति । ʻगॄ शब्दे इत्यस्माद् घातोः सम्पूर्वाद् अधिकरणे भावे च ʻऋदोरप् (३। ३। ५७) इत्यप् प्रत्ययः । विश्वप्रकाशेऽपि—ʻविषापदोः क्रियाकारे सङ्गरे तु शमीफले इति । शेषे—ʻशम्याः फले सङ्गरः स्यात् इति ॥ १६६ ॥
मल्लि-नाथः - AK.03.03.166
मुक्ताशुद्धौ च तारः स्यात् । ʻतारो मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिके इति विश्वः (पृ। १२६, श्लो। १८) ॥ शारो—कर्बुरे । द्यूतगुलिकेऽपि स्यात् । ʻकालः कल्यो भुवनफलके क्रीडति प्राणीशारैḵ (वै। श। ३। ३९) ॥ अथ प्रतिज्ञा—सङ्गरः । संविच्छब्दः क्रियाकारवचनः । ʻसङ्गरो ना क्रियाकारे प्रतिज्ञाविपदोर्युधि इति वैजयन्ती (पृ। २६४, श्लो। ९२) ॥ १६६ ॥
[[०३.४५७]]
अक्।०३.०३.१६७अब् वेदभेदे गुप्तिवादे मन्त्रो मित्रो रवावपि ।
अक्।०३.०३.१६७च्द् मखेषुयूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः ॥ १६७ ॥
लिङ्ग-सूरी - AK.03.03.167
वेदभेदे गुप्तिवादे मन्त्रः समभिधीयते ॥ ३५६ ॥
मन्त्र्यत इति मन्त्रः । ʻमत्रि गुप्तभाषणे ॥
तीक्ष्णरश्मौ च सुहृदि मित्रः स्याच्छत्रुशात्रवे ।
भेद्यतीति मित्रः । ʻञिमिदा स्नेहने । सुहृदि नपुंसकः ॥
मखे च यूपखण्डे च शक्रशस्त्रे स्वरुः पुमान् ॥ ३५७ ॥
स्वरति शत्रूनुपतापयतीति स्वरुः । ʻस्वृ शब्दोपतापयोḵ ॥
अवस्करो रथाङ्गे च गुह्येऽप्यधमवर्तने ।
अवकीर्यत इत्यवस्करः । ʻकृ विक्षेपे ॥ १६७ ॥
वेदभेदे गुप्तिवादे मन्त्रः । अर्थवादसहितब्राह्मणव्यतिरिक्तवेदभागः ʻइषे त्व्ȫ इत्यादिको मन्त्रः । गुप्तिवादो नाम राजामात्यप्रभृतीनां रहसि कर्तव्यार्थावधारणम् । मन्त्र्यते गुप्तिं भाष्यते कर्तव्यार्थमत्रेति मन्त्रः । ʻमत्रि गुप्तभाषणे । चुरादिः । ʻएरच् (३। ३। ५६) इत्यधिकरणे अच् प्रत्ययः । ʻमन ज्ञाने इत्यस्माद्वा औणादिकप्रत्ययः । शेषे—ʻमन्त्रो देवादिसाधने इति । श्रीरामादिदेवताप्रीतिसाधनभूतः षडक्षरादिर्मन्त्रः ॥ मित्रो रवावपि । सूर्ये रूपभेदात् पुंलिङ्गः । अपिशब्दात् सुहृदि नपुंसकलिङ्गः प्रागुक्तः (१, पृ। ४९०) ॥ मखोषुयूपखण्डेऽपि स्वरुः । मखो यज्ञः । इषुर्बाणः । पश्वञ्जनार्थो यूपावतक्षणशकलो यूपखण्डः स्वरुः । तथोक्तमापस्तम्बेन—ʻअवतक्षणानां स्वरुरधिमन्थनश्च शकलḵ (आ। श्रौ। सू। ७। ३। ३) इति । स्वरति शब्दायत इति स्वरुः । स्वर्यते उपतप्यते दह्यते पाशुकेनाग्निना इति वा स्वरुः । तथा चापस्तम्बः—ʻप्रत्याक्रम्य जुह्वां स्वरुमवधाय अनूयाजान्ते जुहोति (आ। श्रौ। सू। ७। २७। ४) इति । ʻस्वृ शब्दोपतायोḵ औणादिक उकारप्रत्ययः (उ। १। १०) । शोभनान्यरूंष्यस्येति स्वरुरिति केनचिदनधाताश्रुतश्रौतगन्धेन रेफान्तप्रकरणानुसन्धाने शून्यधिया कृता निरुक्तिरुपेक्षणीया । प्रतापोऽपि—ʻयूपखण्डे सायके च स्वरुरध्वरवज्रयोḵ इति । स्वरुशब्द उकारान्तः पुंलिङ्गश्च, ʻशतकोटिः स्वरुḵ इत्यत्र प्रागुक्तः (१, पृ। ३२) ॥ गुह्येऽप्यवस्करः । अवकीर्यते छाद्यत इत्यवस्करः । गुह्यं गुदप्रदेशः । अपिशब्दाद् विष्ठायां प्रागुक्तः (१, पृ। ४०४) । यद्यपि ʻवर्चस्केऽवस्करḵ (६। १। १४८) इति विष्ठायां निपातितः, तथापि वर्चस्कसम्बन्धाद् गुदप्रदेशेऽपीति वृत्तिः (काशिका २, पृ। १४८) । निरूढलक्षणानां मुख्यतुल्यत्वाद् नानार्थत्वेनानुशासनं कृतम् ॥ १६७ ॥
मल्लि-नाथः - AK.03.03.167
वेदभेदे गुप्तिवादे मन्त्रः । वेदभेदोऽथर्वा (?) ॥ मित्रो रवावपि । सख्यौ नपुंसकः ॥ मखेषुयूपखण्डेऽपि स्वरुः । मखश्च इषुश्च यूपखण्डश्च मखेषुयूपखण्डमिति समासः । ʻस्वरुर्वज्रेऽध्वरे बाणे यूपखण्डेऽपि च स्वरुḵ इति विश्वः (पृ। १३१, श्लो। ७२) ॥ गुह्येप्यवस्करः । विष्ठायामपि स्यात् ॥ १६७ ॥
[[०३.४५९]]
अक्।०३.०३.१६८अब् आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते ।
अक्।०३.०३.१६८च्द् अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च ॥ १६८ ॥
लिङ्ग-सूरी - AK.03.03.168
आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते ॥ ३५८ ॥
आडम्बयति चित्तं विक्षिपतीत्याडम्बरः । ʻडवि क्षेपे ।
अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च ।
अभिह्रियत इत्यभिहारः ॥ १६८ ॥
आडम्बरः—गर्जिते । आदम्यन्ते भीरुजना अनेनेत्याडम्बरः । ʻदमु उपशमे । बरप्रत्ययः । पृषोदरादिश्च । ʻडब डिब क्षेपे इति चान्द्रो धातुरिति सुबोधिनीकारः । शेषे—ʻआडम्बरोऽस्त्री संरम्भे इति । संरम्भः सम्भ्रमः ॥ अभिहारो—सन्नहनेऽपि च । महाराजसभादौ परकीयदोषोद्भावनम् अभियोगः । सेनादेः सज्जीभावः सन्नहनम् । सम्यग्बन्धनं सन्नहनमिति केचित् । ʻहृञ् हरणे इति धातोरुपसर्गवशादनेकार्थत्वम् ॥ १६८ ॥
मल्लि-नाथः - AK.03.03.168
आडम्बरः—गर्जिते । संरम्भेऽपि स्यात् । ʻआडम्बरोऽस्त्री संरम्भे पटहे गजगर्जिते इति वैजयन्ती (पृ। २७७, श्लो। ४) ॥ अभिहारो—सन्नहनेऽपि च । अभियोगो वैरस्याभिगमः । ʻपगकुयेदिरिञ्चुट्ö ॥ १६८ ॥
[[०३.४६०]]
अक्।०३.०३.१६९अब् स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे ।
अक्।०३.०३.१६९च्द् विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ॥ १६९ ॥
लिङ्ग-सूरी - AK.03.03.169
स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे ॥ ३५९ ॥
परिव्रियतेऽनेनेति परीवारः ॥
वृक्षे पीठाद्यासने च मुष्टौ दर्भस्य विष्टरः ।
विस्तीर्यत इति विष्टरः । ʻस्तृञ् आच्छादने ॥ १६९ ॥
स्याज्जङ्गमे—परिच्छदे । चरिष्णुः गोमहिष्यादिः जङ्गमः । खड्गकोशः खड्गस्य पिधानम् । परिच्छदः परिजनः । परितो व्रियते वार्यते वा अनेनेति परीवारः । ʻउपसर्गस्य घञ्यमनुष्ये बहुलम् (६। ३। १२२) इति दीर्घः ॥ विष्टरो—पीठाद्यमासनम् । विटपी वृक्षः । दर्भमुष्टिः मधुपर्कादावासनत्वेन परिकल्पितः पञ्चविंशतिसङ्ख्यकः कुशात्मकः । पीठं कम्बलादिकं चेति द्विविधमासनम् । वृक्षश्च विष्टर इत्युच्यते । विस्तीर्यत इति विष्टरः । ʻस्तॄञ् आच्छादने । ʻवृक्षासनयोर्विष्टरḵ (८। ३। ९३) इति साधुः । ʻविष्टरः पादपे पीठे कुशमुष्टौ च दृश्यते इत्यजयः ॥ १६९ ॥
मल्लि-नाथः - AK.03.03.169
स्याज्जङ्गमे—पीठाद्यमासनम् ॥ १६९ ॥
[[०३.४६१]]
अक्।०३.०३.१७०अब् द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यप्यनन्तरे ।
अक्।०३.०३.१७०च्द् विपुले नकुले विष्णौ वभ्रुः स्यात् पिङ्गले त्रिषु ॥ १७० ॥
लिङ्ग-सूरी - AK.03.03.170
द्वारि द्वाःस्थे प्रतीहारो द्वारपाल्यां स्त्रियां भवेत् ॥ ३६० ॥
प्रतिह्रियतेऽनेनेति प्रतीहारः ।
वह्नौ शूलिनि विष्णौ च विधातृमुनिभेदयोः ।
विलासे नकुले वभ्रुः पिङ्गले विपुले भवेत ॥ ३६१ ॥
विभर्तीति वभ्रुः ॥ १७० ॥
द्वारि—प्रतीहार्यप्यनन्तरे । प्रतिहार्यते निवार्यते वैदेशिकजनप्रवेशोऽत्रेति प्रतिहारो द्वारम् । करणार्थे तु प्रतिहारो द्वारपालः । अनन्तरे पूर्वोक्तार्थद्वयापेक्षया सन्निहिते द्वाःस्थरूपार्थे स्त्रीविशिष्टे सति तत्र प्रतिहारशब्दो ङीबन्ते वर्तत इत्यर्थः । रेफान्तमध्ये नकारान्तमनाशङ्कनीयमेव । अपिशब्दाद् राजपरिचारिकायामपि प्रतीहारीशब्दः । तथा च वैजयन्त्याम्—ʻप्रतीहारी तु राजानं सम्भावयति या सद्ȫ इति (पृ। १०७, श्लो। ३८) । या स्त्री राजानमनुलेपनकेशप्रसाधनादिभिरलङ्करोति सा स्त्री प्रतीहारीत्यर्थः ॥ विपुले—पिङ्गले त्रिषु । विपुलो विशालः । पर्वतादि बिभर्तीति बभ्रुः । ʻभॄञ् भरणे । ʻकुर्भ्रश्च्ö (उ। १। २२) इति कुप्रत्ययो धातोर्द्वित्वं च । शेषे—
बभ्रुर्वह्नौ विधातरि ।
विलासे मुनिभेदे च भवेत् पार्वतिवल्लभे ॥
इति । ङ्यापोरिति पार्वतीशब्दस्य ह्रस्वः ॥ १७० ॥
मल्लि-नाथः - AK.03.03.170
द्वारि—प्रतीहार्यप्यनन्तरे । अनन्तरे प्रतिहार्यपि स्यात् । द्वाःस्थे प्रतिहारप्रतीहारशब्दौ द्वौ च वर्तेते ॥ विपुले—पिङ्गले त्रिषु । विपुल इति नकुलविशेषणम् ॥ १७० ॥
[[०३.४६२]]
अक्।०३.०३.१७१अब् सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ।
अक्।०३.०३.१७१च्द् दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् ॥ १७१ ॥
लिङ्ग-सूरी - AK.03.03.171
सारः स्थिरांशे न्याय्ये स्यादुत्कर्षबलयोर्भवेत् ।
सरतीति सारः ॥
दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् ॥ ३६२ ॥
दुष्टमासमन्ताद् उदर्यत इति दुरोदरम् ॥ १७१ ॥
सारो—वरे त्रिषु । सरति शरीरं व्याप्नोतीति सारः । यथा—गोग्रहे दृष्टसारो धनञ्जयः इति । स्थायित्वेन कालान्तरं व्याप्नोतीति सारः । स्थिरांशे यथा—चन्दनसारः, खदिरसारः इति । ʻसृ स्थिरे (३। ३। १७) इत्यत्र ʻव्याधिमत्स्यबलेष्विति वक्तव्यम् इति कर्तरि घञ् । अत्रार्थद्वये बलस्थिरांशयोः रूपभेदात् पुंलिङ्गः । सरति मनीषिणां हृदयमिति सारं न्याय्यम् । यथा—नैतत्सारमिति । न्याय्ये न्यायादनपेतमित्यर्थे नपुंसकलिङ्गः । वरे श्रेष्ठे वाच्यलिङ्गः । सारो देशः । सारा वाराणसी । सारो देवेषु शङ्करः । सारं कुरुक्षेत्रमिति । नन्वस्य वाच्यलिङ्गत्वे, ʻसारं सारङ्गलोचन्ȫ ʻराज्ये सारं वसुन्धर्ȫ इत्यादौ कथं विशेष्यलिङ्गत्वाभाव इति चेत् सत्यम् । ʻसामान्यविशेषभावत्वेन पृथग्वाक्यत्वेन योजनायां न पूर्वदोषावकाशḵ इति गणरत्नमहोदधावुक्तम् (२। श्लो। ७२) ॥ दुरोदरो—दुरोदरम् । दुष्टमा समन्तादुदरमस्येति दुरोदरो द्यूतकरः । तत्सम्बन्धात् पणभूतं धनम् । द्यूतकर्म च नपुंसकेन दुरादरशब्देनोच्यते । ʻदुरोदरोऽस्त्रियां द्यूतḵ इत्यजयः । ʻआश्रित्य दुर्गं गिरिकन्दरोदरं क्रीडन्ति तस्मिन् सततं दरोदरम् इति यमककाव्ये निरुकारं गोवर्धनः पठतीति सर्वानन्दः (टी। स। ३। पृ। १३०) ॥ १७१ ॥
मल्लि-नाथः - AK.03.03.171
सारो—वरे त्रिषु । वलं सामर्थ्यम् । तत्र च स्थिरांशे पुंलिङ्गः । न्याय्यमुचितापरित्यागः । तत्र नपुंसकम् । वरं श्रेष्ठम् । अत्र त्रिलिङ्गः । केषाञ्चिन्नपुंसकमेव ।
राज्ञः सारं वसुधा वसुधायामपि पुरम् पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गना सर्वस्वम् ॥
इति ॥ दुरोदरो—दुरोदरम् । ʻआश्रित्य दुर्गं गिरिकन्दरोदरे क्रीडन्त्यमुष्मिन् सततं दरोदरम् इति हरिप्रबोधयमकाद् दरोद्ररो निरुकारः इति गोवर्धनवचनात् । क्वचिद् दुरोदरमिति सोकारम् ॥ १७१ ॥
[[०३.४६३]]
अक्।०३.०३.१७२अब् महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् ।
अक्।०३.०३.१७२च्द् मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ १७२ ॥
लिङ्ग-सूरी - AK.03.03.172
महारण्ये दुर्गपथेऽप्युपसर्गादिकेऽपि च ।
इक्षुभेदे च कान्तारं पुन्नपुंसकमिष्यति ॥ ३६३ ॥
कस्य सुखस्यान्तरर्यते प्राप्यत इति कान्तारम् ॥
कृपणेऽन्यसुखद्वेषे क्रोधेऽन्यशुभवैरिणि ।
मक्षिकायां च मात्सर्ये मत्सरः परिकीर्तितः ॥ ३६४ ॥
माद्यति मदात् सरतीति वा मत्सरः ॥ १७२ ॥
महारण्ये—पुन्नपुंसकम् । चोरपाषाणकण्टकादिबाहुल्येन दुःसञ्चारो मार्गो दुर्गपथः । कस्य जलस्य सुखस्य वा अन्तं नाशम् ऋच्छतीति कान्तारम् । इक्षुभेदे तु केवलपुंलिङ्गः प्रागुक्तः (१, पृ। ३१७) ॥ मत्सरो—कृपणयोस्त्रिषु । विद्याधनाद्यतिशयनिमित्तमन्यस्य यच्छुभाधिक्यं तद्विषयो द्वेषोऽसहत्वम्, तत्र मत्सरशब्दः पुंलिङ्गः । तथाविधमत्सरयुक्ते दीने च विशेष्यनिघ्नः । माद्यति परक्लेशेन हृष्यतीति मत्सरः । ʻमदी हर्षे । ʻकृधूमदिभ्यः कित् (उ। ३। ७३) इति सरप्रत्ययः । ʻखरि च्ö (८। ४। ५५) इति चर्त्वं च । तद्धर्मत्वाद् द्वेषमात्रमपि मत्सर उच्यते । शेषे—ʻमत्सरो मक्षिकाक्रोधü इति । क्रोधोऽमर्षः ॥ १७२ ॥
मल्लि-नाथः - AK.03.03.172
महारण्ये—कृपणयोस्त्रिषु । मक्षिकायां स्त्री । ʻमत्सरा मक्षिकायां स्त्री इति विश्वः (पृ। १३४, श्लो। ११८) ॥ १७२ ॥
[[०३.४६४]]
अक्।०३.०३.१७३अब् देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये ।
अक्।०३.०३.१७३च्द् वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ॥ १७३ ॥
लिङ्ग-सूरी - AK.03.03.173
अभीष्टदेवाच्च वृते श्रेष्ठे जामातृषिङ्गयोः ।
त्रिफलायां शतावर्यां वृतौ काश्मीरदेशजे ॥ ३६५ ॥
मनाक्प्रियेऽप्यव्ययं स्याद्वरस्त्रिषु च कीर्तितः ।
व्रियत इति वरः ॥
करीरस्तरुभेदे च घटे वंशाङ्कुरेऽपि च ॥ ३६६ ॥
चीरिकायां करीरः स्याद् दन्तमूले च दन्तिनः ।
करिणः ईरयतीति करीरः । ʻईर प्रेरणे ॥ १७३ ॥
देवाद्वृते—मनाक्प्रिये । मन्त्रपुरश्चरणादिभिः प्रसन्नमहेश्वरादेर्देवाल्लब्धे पुत्रधनादौ रूपभेदात् पुंलिङ्गः । यथा—ʻवरं वृणीष्वेति । सोऽब्रवीत् वरं वृणे । एष एव मे वरोऽलं यद्भगवन्तौ प्रत्यक्षं पश्यामि इत्यादि । श्रेष्ठे तु वाच्यलिङ्गः । यथा—राजवरः, ग्रामवरः । मनाक् ईषत् प्रिये तु नपुंसकलिङ्गः । यथा—ʻयाच्ञा मोघा वरमधिगुणे नाधमे लब्धकाम्ȫ इति (मेघ। १। ६) । ईषत्प्रिये तु वरमित्यव्ययमप्यस्तीति स्वामी (पृ। ३१२) । व्रियत इति वरः । ʻवृञ् वरणे वृञ् सम्भक्तौ । ʻगृहवृदृनिश्चिगमश्च्ö (३। ३। ५८) इति, कर्मण्यप् प्रत्ययः । शेषे—
ʻवरो जामातृषिङ्गयोः ।
सतावर्यां वरी पाठा वरा तु त्रिफला भवेत् ।
इति । ʻकाश्मीरजन्माग्निशिखं वरम् इति गतम् (१, पृ। ४४०) ॥ वंशाङ्कुरे—वटे च ना । वंशाङ्कुरो वेणुप्ररोहः । तरुभेदः ग्रन्थिलाख्यः प्रागुक्तः (१, पृ। २६०) । घटः कलशः । उभयत्र पुंलिङ्गः । किरतेः करोतेर्वा औणादिक ईरन् प्रत्ययः (उ। ४। ३०) । शेषे—ʻकरीरी चीरिकायां च दन्तभेदे च दन्तिनाम् इति । चीरिका झिल्ली ॥ १७३ ॥
मल्लि-नाथः - AK.03.03.173
देवाद्वृते—मनाक्प्रिये । देवतासकाशादीप्सिते पुंलिङ्गः । जामातर्यपि पुंलिङ्गः स्यात् । श्रेष्ठे त्रिलिङ्गः । अधिपतावपि त्रिलिङ्गः स्यात् । ईषत्प्रिये नपुंसकलिङ्गः ॥ वंशाङ्कुरे—घटे च ना ॥ १७३ ॥
[[०३.४६५]]
अक्।०३.०३.१७४अब् ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ।
अक्।०३.०३.१७४च्द् यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ॥ १७४ ॥
अक्।०३.०३.१७५अब् शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ।
लिङ्ग-सूरी - AK.03.03.174
सेनायां जघने माल्ये हस्तसूत्रविभूषयोः ।
व्रणशुद्धौ प्रतिसरो मन्त्ररक्षाकृतौ भटे ॥ ३६९ ॥
प्रतिसरतीति प्रतिसरः ॥
यमे वायौ सूर्यविष्ण्वोस्तुरङ्गशुकयोरपि ।
सर्पे कपौ हिमांशौ च शक्रे सिंहे च तापसे ॥ ३७० ॥
रश्मौ लोकान्तरे भेके कपिले हरिते तथा ।
राजभेदे दैत्यभेदे हरिस्तु समुदाहृतः ॥ ३७१ ॥
हरतीति हरिः ॥ १७४ ॥
ना चमूजघने—अस्त्रियाम् । व्यूढसेनायाः पश्चाद्भागः चमूजघनम् । तत्र प्रतिसरशब्दः पुंलिङ्गः । विवाहादौ वधूवरयोर्मणिबन्धस्थाने बन्धनीयमूर्णामयं सूत्रं हस्तसूत्रम् । प्रतिसरत्यत्रेति प्रतिसरः । ʻपुंसि सञ्ज्ञायां घः प्रायेण्ö (३। ३। ११८) इत्यधिकरणे घप्रत्ययः । शेषे—
ʻरक्षाकृतौ नियोज्ये च माल्यमन्त्रविशेषयोः ।
विभूषणेर्मशुद्ध्योश्च ज्ञेयः प्रतिसरो मतः ॥
इति । अभिमन्त्रितेन भस्मना रक्षाकरणम् । नियोज्यः परिजनः । मन्त्रविशेषे यथा—ʻप्रतिसर प्रतिधाव्ö इत्यादिराथर्वणः प्रसिद्धः । ईर्मशुद्धिः व्रणशुद्धिः ॥ यमानिलेन्द्र—कपिले त्रिषु । अनिलो वायुः । अंशुः किरणः । वाजी घोटकः । अहिः सर्पः । हरति पापादिकं स्वनिर्वृत्यर्थमिति हरिः । हरतेरौणादिक इप्रत्ययः (उ। ४। १४०) । सर्वत्र पुंलिङ्गः । पलाशवर्णेऽपि हरिशब्दः ॥ १७४ ॥
मल्लि-नाथः - AK.03.03.174
ना चमूजघने—अस्त्रियाम् । मालायां स्त्रीलिङ्गः । यमानिल—भेकेषु । भेदेष्विति वा पाठः । हरिर्ना कपिले त्रिषु । कपिलवर्णे त्रिलिङ्गः ॥ १७४ ॥
[[०३.४६७]]
अक्।०३.०३.१७५च्द् शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ ॥ १७५ ॥
अक्।०३.०३.१७६अब् इरा भूवाक्सुराप्सु स्यात् तन्द्री निद्राप्रमीलयोः ।
अक्।०३.०३.१७६च्द् धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि ॥ १७६ ॥
लिङ्ग-सूरी - AK.03.03.175-76
कर्परांशे रोगभेदे पाषाणे शकले तथा ।
शर्करान्वितदेशे च शर्करा परिकीर्तिता ॥ ३७२ ॥
शृणातीति शर्करा । ʻशृ हिंसायाम् ॥
देवार्चनोत्सवे गत्यां यात्रा भोगादिवर्तने ।
यात्यनयेति यात्रा । ʻया प्रापणे ॥
इरा भुवि जले वाचि सुरास्वर्वेश्ययोरपि ॥ ३७३ ॥
एत्यनयेति इरा । ʻइण् गतü ॥
तन्द्रा तु तन्द्री तन्द्रश्च निद्रायां च प्रमीलने ।
तननमिन्द्रियाणां विस्तारं द्रातीति तन्द्रा ॥
वसुमत्यामामलक्यामुपमातरि मातरि ॥ ३७४ ॥
पोत्र्यां च धारयित्र्यां च धात्री समभिकथ्यते ।
धापयतीति धात्री । ʻधेट् पाने ॥ १७५-६ ॥
शर्करा कर्परांशेऽपि । शीर्यत इति शर्करा । शृणातीति वा । शं करोतीति वा । ʻशर्करादिभ्योऽण् (५। ३। १०७) इति निर्देशात् साधुः । शीर्यतेरौणादिकः करन् प्रत्ययो वा (उ। ४। ३) । विश्वप्रकाशेऽपि—
ʻशर्करा खण्डविकृतावुपलाकर्परांशयोः ।
शर्करान्वितदेशे च रुग्भेदे शकलेऽपि च ॥
इति । कर्परो भिन्नघटादेः कपालम् । तथा च प्रतापः—ʻकर्परस्तु कपाले स्याच्छस्त्रभेदकटाहयोḵ इति । तस्यांश एकदेशः । रुग्भेदो रोगविशेषः शर्कराख्यः अश्मरीसञ्ज्ञकश्च ॥ यात्रा स्याद् यापने गतौ । स्नानभोजनादिकया दिनचर्यया वर्तनं यात्रा । यथा—शरीरयात्रा, प्राणयात्रा इति । गतिर्गमनम् । गते यथा—काशियात्रा, पर्वतयात्रा । यात्यनयेति यात्रा । ʻहुयामाश्रुभसिभ्यस्त्रन् (उ। ४। १६९) इति त्रन् प्रत्ययः । शेषे—ʻयात्रा देवार्चनोत्सवे इति । देवतामहोत्सवे यथा—ʻभगवतः कालप्रियनाथस्य यात्रायामार्यमिश्रान् विज्ञापयामि इति (उत्तर। १) ॥ इरा—प्रमीलयोः । एतीति इरा । ʻइण् गतü । औणादिको रन् प्रत्ययः (उ। २। ३१) । शेषे—ʻइरा अप्सरःस्ü इति । इरा नाम काचिदप्सरःस्त्री ॥ तन्द्री निद्राप्रमीलयोः । निरिन्द्रियात्मप्रदेशे मनसोऽवस्थानं निद्रा । शरीरखेदजनितो मोहप्रायः प्रमादः प्रमीला, निद्रातः पूर्वावस्था । ʻअवितॄस्तॄतन्द्रिभ्यः ईḵ (उ। ३। १५९) इति तन्द्रीः सौत्राद् धातोः ईःप्रत्ययः । ड्यन्तत्वाभावात् सुलोपाभावः । शेषे—ʻतन्द्रिश्च तन्द्री समार्थकü इति । तस्मादेव सौत्राद्धातोः ʻगुरोश्च हलḵ (३। ३। १०३) इत्यकारप्रत्यये तन्द्रा । तत्रैव ʻप्रज्ञादिभ्यश्च्ö (५। ४। ३८) इति ङीपि तन्द्री । ʻसञ्ज्ञापूर्वको बिधिरनित्यḵ (प। २। ४। ७९) इति वृद्ध्यभावः ॥ धात्री—आमलक्यपि । उपमाता स्वस्तन्यप्रदानेन पोषणकारिणी । धयन्त्येनामिति धात्री । ʻधेट् पाने । ʻधः कर्मणि ष्ट्रन् (३। २। १८१) । षित्त्वे च ङीष् प्रत्ययः (४। १। ४१) । धत्ते धारयतीति वा धात्री भूमिः । पोषयित्री भूतधात्री । आमलक्यामुक्ता ॥ १७५-६ ॥
मल्लि-नाथः - AK.03.03.175-76
शर्करा कर्परांशेऽपि । खण्डशर्कराखण्डेऽपि स्यात् ॥ यात्रा स्याद् यापने गतौ । यापनं कालक्षेपः ॥ इरा—प्रमीलयोः । प्रमीला ʻकूरिपाट्ü ॥ धात्री—आमलक्यपि । उपमाता ʻदादि ॥ १७५-६ ॥
[[०३.४६९]]
अक्।०३.०३.१७७अब् क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ।
अक्।०३.०३.१७७च्द् त्रिषु क्रूरेऽधनेऽल्पेऽपि क्षुद्रो मात्रा परिच्छदे ॥ १७७ ॥
अक्।०३.०३.१७८अब् अल्पे च परिमाणे स्यान्मात्रं कार्त्स्न्येऽवधारणे ।
लिङ्ग-सूरी - AK.03.03.177
वेश्यायां कण्टकार्यां च नटीशीलविहीनयोः ।
क्षुद्रा स्यादङ्गहीनायां सरघाधूर्तयोरपि ॥ ३७४ ॥
अधने कृपणे क्रूरेऽप्यल्पे क्षुद्रस्त्रिषु स्मृतः ।
क्षुदं रातीति क्षुद्रः । ʻरा दाने ॥
परिच्छदे धने वृत्ते कर्णभूषाक्षरांशयोः ॥ ३७५ ॥
मात्रा भवेत् परीमाणे कार्त्स्न्येऽल्पेऽप्यवधारणे ।
स्वार्थसंशययोश्चैव मात्रं तु परिकीर्तितम् ॥ ३७६ ॥
मीयत इति मात्रा । ʻमाङ् माने ॥ १७७ ॥
क्षुद्रा—अल्पेऽपि क्षुद्रः । व्यङ्गा अङ्गहीना । नटी नर्तकस्त्री । वेश्येत्याचारहीनोपलक्षणम् । सरघा मधुमक्षिका । कण्टकारिका निदिग्धिका । व्यङ्गादिपञ्चके स्त्रीलिङ्गः । क्रूरनिकृष्टस्वल्पेषु विशेष्यनिघ्नः । क्षुणत्ति क्षुद्यते वा क्षुद्रः । ʻक्षुदिर् सम्पेषणे । औणादिको रक् प्रत्ययः (उ। २। १३) । क्षुदं रातीति वा क्षुद्रः । अपिशब्दात् कृपणे प्रागुक्तः (२, पृ। ६८-९) ॥ मात्रा—अवधारणे । परिच्छदः परिकरः । यथा—कापालिकस्य मात्रा महामात्राः प्रधानानि । अल्पे यथा—ʻसुप्प्रतिना मात्रार्थे (२। १। ९) इति सूत्रे काशिका—मात्रा स्तोकमल्पमिति पर्याया इति (१, पृ। ८६) । परिमाणे यथा—मात्रासि सर्वकालम्, हस्तमात्रोऽङ्कुश इति । अस्मिन्नर्थत्रये रूपभेदात् स्त्रीलिङ्गः । कार्त्स्न्ये यथा—प्राणिमात्रं न हिंस्यात् इति । सर्वानपि प्राणिनो न हिंस्यात् इत्यर्थः । अस्य परिहारेणैकस्यैव वस्तुनो निष्कर्षणमवधारणम् । यथा—शाकमात्रं भुक्ङ्ते इति । अत्रोभयत्र रूपविशेषादेव नपुंसकत्वम् । ʻमाङ् माने इत्यस्माद् धातोः ʻहुयामाश्रुभसिभ्यस्त्रन् (उ। ४। १७०) इति औणादिकः त्रन् प्रत्ययः । शेषे—ʻस्त्रियां मात्रा भूषणे स्याद् वर्णवृत्तांशयोर्धने इति । भूषणे यथा—हस्तमात्रा, कर्णमात्रा इति । वर्णस्याप्यक्षरैकदेशे यथा—एकमात्रो ह्रस्वः । द्विमात्रो दीर्घ इति । वृत्ते यथा—मात्रावृत्तम् इति । धने यथा—को जीवेन्मात्रया विना इति ॥ १७७ ॥
मल्लि-नाथः - AK.03.03.177
क्षुद्रा—कण्टकारिका । व्यङ्गेत्यङ्गहीना । त्रिषु—परिमाणे स्यात् । परिच्छदे—कर्णमात्रा, हस्तमात्रा । अल्पे—सूपस्य मात्रा । परिमाणे—हस्तमात्रोऽङ्कुशः । मात्रं कार्त्स्न्येऽवधारणे । कार्त्स्न्यार्थे—प्राणिमात्रं न हिंस्यात् । अवधारणे—पयोमात्रं भुङ्क्ते ॥ १७७ ॥
[[०३.४७०]]
अक्।०३.०३.१७८च्द् आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः ॥ १७८ ॥
अक्।०३.०३.१७९अब् योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ।
अक्।०३.०३.१७९च्द् निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः ॥ १७९ ॥
लिङ्ग-सूरी - AK.03.03.178-79
आश्चर्ये व्योम्नि किर्मीर आलेख्ये चित्रमुच्यते ।
तिलके दन्तिकायां च ताराभेदसुभद्रयोः ॥ ३७७ ॥
गोदुम्ब्यायामाखुपर्ण्यां चित्रा सर्पे सुरस्त्रियाम् ।
चित्रीयत इति चित्रम् । ʻचित्र चित्रकरणे ॥
दुर्गस्थाने नृपादीनां कलत्रं श्रोणिभार्ययोः ॥ ३७८ ॥
कल्यत इति कलत्रम् । ʻकल शब्दसङ्ख्यानयोḵ ॥
स्रुवादौ तीरमध्ये च राजमन्त्रिणि भाजने ।
योग्ये वित्ते च वाद्ये च प्रवेश्ये रूपकेऽपि च ॥ ३७९ ॥
पर्णे पात्रं भवेत् पात्र्यां शुद्धयन्त्र्योः स्त्रियां स्मृता ।
पीयतेऽनेनेति पात्रम् । पायत इति वा । ʻपा पाने ʻपा रक्षणे ॥
पत्रं भवेद् वाहने च पलाशगरुतोरपि ॥ ३८० ॥
पतत्यनेनेति पत्रम् । ʻपत्लृ गतü ॥
ग्रन्थनिर्दिष्टयोः शास्त्रं शस्त्रोत्पन्नेऽपि कथ्यते ।
शास्यतेऽनेनेति शास्त्रम् । ʻशासु अनुशिष्टü ॥
छुरिकायां भवेच्छत्री शस्त्रं त्वायुधलोहयोः ॥ ३८१ ॥
शस्यतेऽनेनेति शस्त्रम् । ʻशसु हिंसायाम् ॥ १७८-९ ॥
आलेख्याश्चर्ययोश्चित्रम् । चीयते कुड्यपटादौ हरितालादिवर्णकैरिति चित्रम् आलेख्यम्, सुरनरतुरगादिप्रकृतिः । ʻचिञ् चयने । ʻअमिचिमिदिशसिभ्यः क्त्रḵ (उ। ४। १६५) इति क्त्रप्रत्ययः । चित्रयति कदाचिद् भवतीति चित्रम् आश्चर्यम्, आकस्मिकाकालकुसुमफलादि । चौरादिः । शेषे—
अथ चित्रके
खे चित्रं भाह्यप्सरःसु स्त्र्याखुपर्णीसुभद्रयोः ।
गोतुम्बौ दन्तिकायां च पुंसि स्याद् वह्निसञ्ज्ञके ॥
इति । चित्रकं तिलकम् । खमाकाशम् । उभयत्र रूपभेदाद् नपुंसकलिङ्गः भं हस्तनक्षत्रानन्तरनक्षत्रम् । अहिः सर्पः । चित्रा नामाप्सरोविशेषः । नक्षत्रादिदन्तिकान्तेषु स्त्रीलिङ्गः । चित्रमूलाद्यौषधिविशेषे पुंलिङ्गः । कर्बुरवर्णे त्रिलिङ्गः प्रागुक्तः (१, पृ। १०१) ॥ कलत्रं श्रोणिभार्ययोः । श्रोणिः कटिभागः । कलं त्रायत इति कलत्रम् । शेषे—ʻनृपतिप्रभृतीनां तु दुर्गस्थानं कलत्रकम् इति । स्वार्थे कप्रत्ययः पादपूरणार्थे । यथा—ʻपत्युस्त्विषामिह महौषधथः कलत्रस्थानं परैरनभिभूतममूर्वहन्ति इति माघकाव्ये (शिशि। ४। ३४) ॥ योग्यभाजनयोः पात्रम् । दातारं नरकपातनात् पाति रक्षतीति पात्रम् । योग्यं कुलशीलविद्यासम्पन्नं सम्प्रदानमित्यर्थः । कृपापात्रमित्यादावुपचाराद् अर्हमात्रे प्रयोगः । भाजनममत्रम् । शेषे—ʻरूपकेषु प्रवेशार्हे पात्रं स्याद् राजमन्त्रिणि इति । रूपके नाटकादौ, प्रवेशार्हे नायकादौ । यथा—पात्रप्रवेशः इति । मन्त्रिणि यथा—महापात्रमिति । ʻपात्रं तदन्तरम् इति गतम् (१, पृ। १५९) । ʻपात्रं स्रुवादिकम् इति गतम् (१। पृ। ४६४) । अमत्रवचनः पात्रशब्दो लिङ्गत्रयवानिति वक्ष्यते (३। ५। ४२) । तत्र स्त्रीलिङ्गे—ʻपा पाने ʻपा रक्षणे ʻपै शोषणे एभ्यो धातुभ्यः कर्तरि तृचि (३। १। १३३) स्त्रियां ङीप् प्रत्यये पात्री पानकर्त्री रक्षिका शोषिका च इति ॥ पत्रं वाहनपक्षयोः । वाहनं बलीवर्दादिकम् । ʻपत्रं पलाशं छदनम् इति गतम् (१, पृ। २२३) ॥ निदेश ग्रन्थयोः शास्त्रम् । निदेशः आज्ञा । ग्रन्थः शाङ्करभाष्यमहाभाष्यादिः । ʻशासु अनुशिष्टü । भावे करणे च औणादिकः ष्ट्रन् । शस्त्रशब्दाद् भवाद्यर्थे तद्धितोत्पत्तौ वाच्यलिङ्गः॥ शस्त्रमायुधलोहयोः । आयुधं खड्गच्छुरिकादि । लोहं कालायसम् । ʻस्याच्छस्त्री चासिपुत्री च्ö इति गतम् (१, पृ। ५३९) ॥ १७८-९ ॥
मल्लि-नाथः - AK.03.03.178-79
ʻआलेख्याश्चर्ययोश्चित्रं क्लीबे स्यात् तिलके स्त्रियाम् इदि रभसः । कलत्रं श्रोणिभार्ययोः । दुर्गस्थानेऽपि स्यात् । ʻदुर्गस्थाने नृपादीनां कलत्रं श्रोणिभार्ययोḵ इति रुद्रः ॥ योग्यभाजनयोः—पर्णयोः । गरुच्छुरिकयोरपि स्यात् । ʻपत्रं तु वाहने पर्णे छुरिकागरुतोरपि इति वैजयन्ती (पृ। २२५, श्लो। २०) ॥ निदेश—आयुधलोहयोः ॥ १७८-९ ॥
[[०३.४७२]]
अक्।०३.०३.१८०अब् स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः ।
अक्।०३.०३.१८०च्द् मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं च नाम्नि च ॥ १८० ॥
लिङ्ग-सूरी - AK.03.03.180
जटायां तरुमूले च नद्यां स्यन्दनवस्त्रयोः ।
दृष्ट्यां मथिगुणे नेत्रं नेत्रस्त्रिषु तु नेतरि ॥ ३८२ ॥
नीयत इति नेत्रम् । ʻणीञ् प्रापणे ॥
क्षेत्रं वप्रे तीर्थतन्वोर्भार्यागणितशास्त्रयोः ।
क्षीयत इति क्षेत्रम् । ʻक्षि निवासगत्योḵ ॥
सूकरस्य हलस्यापि मुखाग्रे पोत्रमुच्यते ॥ ३८३ ॥
पूयते भूरनेनेति पोत्रम् । ʻपूञ् पवने ॥
गोत्रा भुवि गवां वृन्दे कुले नाम्नि नपुंसकम् ।
गिरिगोपालभूपेषु गोत्रस्तु परिकीर्त्यते ॥ ३८४ ॥
गवां समूहो गोत्रा । गूयते शब्द्यतेऽनेनेति गोत्रम् । ʻगुङ् अव्यक्ते शब्दे । गास्त्रायत इति गोत्रम् ॥ १८० ॥
स्याज्जटांशुकयोर्नेत्रम् । जटा वृक्षमूलम् । अंशुकं नेत्राख्यपट्टनिर्मितं वस्त्रम् । वस्त्रमात्रमिति केचित् । ʻनेत्रक्रमेणोपरुरोध सूर्यम् इति कालिदासः (रघु। ७। ३९) । नीयतेऽनेनेति वा नयतीति वा नेत्रम् । ʻदाम्नीशसयुयुज ॥ । इत्यादिना (३। २। १८२) ष्ट्रन् । अत्र प्रतापः—
ʻनेत्रं पादपमूले स्यात् स्यन्दने लेपनेऽपि च ।
वस्त्रे मथिगुणे नाड्यां नेत्रं नेतरि तु त्रिषु ॥
इति । स्यन्दनो रथः । मथिगुणे मन्थानस्याकर्षणरज्जौ । ʻमन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् इति पुराणम् । नाडी सिरा । नेतरि नायके । यथा—ʻये देवाः पुरःसदोऽग्निनेत्राḵ इति श्रुतेः (काठकसंहिता १५। २) ॥ क्षेत्रं पत्नीशरीरयोः । क्षिणोति क्षीयते वा क्षेत्रम् । ʻक्षिणु हिंसायाम् । ʻक्षि क्षये । ष्ट्रन्प्रत्ययः (उ। ४। १६०) । अत्र प्रतापः—
ʻक्षेत्रं कलत्रे केदारे सिद्धस्थानशरीरयोः ।
क्षेत्रं गणितशास्त्रे च ॥
इति । केदारो वप्रः । सिद्धस्थानं श्रीपर्वतादि ॥ मुखाग्रे—पोत्रम् । क्रोडो वराहः । हलं लाङ्गलम् । तस्य मुखाग्रं फालाञ्जलप्रदेशः । पुनात्यनेन भूमि शोधयतीति पोत्रम् । ʻहलसूकरयोः पुवḵ (३। २। १८३) इति ष्ट्रन् ॥ गोत्रं तु नाम्नि च । गूयते शब्द्यतेऽनेन देवदत्तादिरिति गोत्रं नामधेयम् । शेषे—ʻगोत्रस्त्राता गवां त्रिष्ü इति । गास्त्रायत इति गोत्रम् ।
ʻगोत्रं कुले बले नाम्नि गोत्रस्तु धरणीधरे ।
गोत्रा भुवि गवां वृन्दे ॥
इत्यजयः ॥ १८० ॥
मल्लि-नाथः - AK.03.03.180
स्याज्जटांशुकयोर्नेत्रम् । जटा नाम तरुमूलम् । ʻनेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे इति वैजयन्ती (पृ। २२५, श्लो। १७) ॥ क्षेत्रं पत्नीशरीरयोः । सिद्धस्थानकेदारयोरपि स्यात् । ʻक्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोḵ इति विश्वः (पृ। १२८, श्लो। ४४) ॥ मुखाग्रे—गोत्रं तु नाम्नि च । कुलेऽपि स्यात् ॥ १८० ॥
[[०३.४७४]]
अक्।०३.०३.१८१अब् सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ।
अक्।०३.०३.१८१च्द् अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि ॥ १८१ ॥
लिङ्ग-सूरी - AK.03.03.181
आच्छादने सदादाने यज्ञे सादनदम्भयोः ।
वने सतां त्रातरि च द्विरात्रादौ सुरालये ॥ ३८५ ॥
सहेत्यर्थे च पाथेये सत्रं सद्देयपापयोः ।
सीदत्यनेनेति सत्रम् । ʻषद्लृ विशरणादü ॥
रूपादिविषये शीघ्र मातरिश्वनि दर्दुरे ॥ ३८६ ॥
अजिरं दुर्जये चैव शरीराङ्गणयोरपि ।
अजन्ति गच्छन्तीन्द्रियाण्यत्रेति अजिरम् । ʻअज गतिक्षेपणयोḵ ॥
अम्बरं च भवेद् व्योम्नि वसने च सुगन्धिनि ॥ ३८७ ॥
अम्बते शब्दयतीत्यम्बरम् । ʻअवि शब्दे ॥ १८१ ॥
सत्रमाच्छादने—वनेऽपि च । आच्छादनशब्देन गृहं विवक्षितम्, न तु वस्त्रमिति सुबोधिनीकारः । ʻआसीरन्नुपयन्ति इत्यादिब्राह्मणविहितबहुकर्तृको यज्ञविशेषोऽत्र यज्ञशब्देन विवक्षितः । सदादानमप्यन्नस्यैव । न तु गवादीनामपि । ज्ञानसत्रम्, विद्यासत्रमित्यादौ तु प्रयोग औपचारिकः । वनमरण्यम् । ʻअरण्यं विपिनं सत्रम् इति प्रतापः । ʻअयमेव मृगव्यसत्रकामḵ इति भारविः (किरा। १३। ९) । सीदन्त्यत्रेति सत्रम् । ʻषद्लृ विशरणादü । अधिकरणे ष्ट्रन्प्रत्ययः (उ। ४। १६०) । शेषे—
ʻसत्रं दम्भे सादने च सतां त्रातरि च त्रिषु ।
क्वचित् पापेऽथ सद्देये सत्राव्ययमधीनवत् ॥
इति । सीदन्ति नश्यन्ति अनेनेति सत्रम् । दम्भः कपटः । सीदतेर्ण्यन्तात् त्रन्प्रत्यये ʻबहुलमन्यत्रापि (उ। २। २५) इति णिलुकि सत्रम् । सादनमित्यर्थः । सतः त्रायत इति सत्रः, सत्पुरुषाणां रक्षकः । तत्र विशेष्यनिघ्नः । क्वचिदेव वृत्तिविषये सत्रशब्दः पापवचनः । यथा—ʻकण्वः पापं चिकीर्षति इत्यस्वपदविग्रहे ʻसत्रकष्टकक्षकृच्छ्रगहनेभ्यः कण्वचिकीर्षायाम् (वा। ३। १। १४) इति क्यङ्प्रत्यये सत्रायते पापं कर्तुमिच्छतीत्यर्थः । सद्भयो देये सदधीने इत्यर्थद्वये ʻतदधीनवचने (५। ४। ५४) ʻदेये त्रा च्ö (५। ४। ५५) इति त्राप्रत्यये सत्राकरोति । ʻच्व्यर्थ इति वाच्यम् (वा। १। ४। ७४) इति सत्राशब्दोऽव्ययम् । ʻकिंस्वित् प्रत्युत यच्च कच्चन न कं सत्रं समं साकमḵ इति गणरत्नमहादधौ (१। ५) उक्तत्वात् सत्रमिति मकारान्तमव्ययमप्यस्ति ॥ अजिरं विषये कायेऽपि । विषयो रूपादिः । कायः शरीरम् । अजन्ति क्षरन्ति चक्षुरादीन्यत्रेति अजिरम् । ʻअज गतिक्षेपणयोḵ । ʻअजिरशिशिर ॥ । इत्यौणादिकनिपातनात् (उ। १। ५६) साधुः अपिशब्दादङ्गणे प्रागुक्तम् (१, पृ। २०३) ॥ अम्बरं व्योम्नि वाससि । अम्बते शब्दं करोतीति अम्ब्यते वा अम्बरम् । ʻअबि शब्दे । सुगन्धिद्रव्यभेदेऽप्यम्बरशब्दः । तथा च विश्वप्रकाशे—ʻअम्बरं वसने व्योम्नि कार्पासे च सुगन्धिनि इति (पृ। १३३, श्लो। १०२) ॥ १८१ ॥
मल्लि-नाथः - AK.03.03.181
सत्रमाच्छादने—अम्बरं व्योम्नि वाससि ॥ १८१ ॥
[[०३.४७६]]
अक्।०३.०३.१८२अब् चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च ।
अक्।०३.०३.१८२च्द् स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रे तु गोपुरम् ॥ १८२ ॥
लिङ्ग-सूरी - AK.03.03.182
चक्रवाके जलावर्ते सेनायामायुधान्तरे ।
कौम्भकारे तैलिकीये साधने रणराष्ट्रयोः ॥ ३८८ ॥
ग्रामजाले रथाङ्गे च चक्रं समभिधीयते ।
चकतीति चक्रम् । ʻचक तृप्तौ प्रतिघाते च्ö ॥
मोक्षे परब्रह्मणि च वर्णेऽप्यक्षरमुच्यते ॥ ३८९ ॥
न क्षरतीत्यक्षरम् । ʻक्षर सञ्चलने ॥
सलिले चैव पयसि क्षीरशब्दोऽभिधीयते ।
घस्यतेऽद्यत इति क्षीरम् । ʻघस्लृ अदने ॥
भूरिः स्वर्णे शक्रविष्णुविधातृबहुषु स्मृतः ॥ ३९० ॥
भवतीति भूरि ॥
गाम्पिल्ले वारिणि स्वर्णे चन्द्रः कर्पूरसोमयोः ।
चन्दत्याह्लदयतीति चन्द्रः । ʻचदि आह्लादने दीप्तौ च्ö ॥
द्वारमात्रे पुरद्वारे मुस्तके गोपुरं स्मृतम् ॥ ३९१ ॥
गोप्यते पौरैरिति गोपुरम् । ʻगुपू रक्षणे ॥ १८२ ॥
चक्रं राष्ट्रेऽपि । चकतीति चक्रम् । ʻचक तृप्तौ प्रतिघाते च्ö । शेषे—
ʻचक्रं सैन्ये ग्रामजाले सङ्ग्रामे साधनान्तरे ।
तैलिकीये कौम्भकारे चावर्ते चायुधान्तरे ॥
इति । तैलिकसम्बन्धिनि कुम्भकारसम्बन्धिनि च साधनविशेषे इत्यन्वयः ।
ʻचक्रः कोके व्रजे पुंसि क्लीबे सैन्यरथाङ्गयोः ।
ग्रामजाले कुम्भकारभाण्डे चावर्तराष्ट्रयोः ॥
इति त्रिकाण्डशेषश्च (पृ। ३३, श्लो। ९०४) ॥ अक्षरं तु मोक्षेऽपि । मोक्षो निःश्रेयसम् । न क्षरति न नश्यतीत्यक्षरम् । ʻक्षर सञ्चलने (३। १। १३४) । शेषे—ʻवर्णे ब्रह्मण्यक्षरं स्यात् इति । अश्नुते श्रोत्रं व्याप्नोतीत्यक्षरम् । ʻअशू व्याप्तü । ʻअशेः सरḵ (उ। ३। ७०) इति सरप्रत्ययः । ʻअक्षरं ब्रह्मवर्णयोḵ इति रुद्रश्च ॥ क्षीरमप्सु च । घस्यते आस्वाद्यत इति क्षीरम् । ʻघस्लृ अदने । ʻघसेः किच्च्ö (उ। ४। ३४) इति ईरन् । ʻगमहन ॥ । इत्यादिना (६। ४। ९८) उपधालोपः । ʻशासिवसिघसि ॥ । इत्यादिना (८। ३। ६०) षत्वम् । चशब्दाद् दुग्धे प्रागुक्तम् (१, पृ। ५८५) ॥ स्वर्णेऽपि भूरिचन्द्रे द्वे । भूरि च चन्द्रमिति च नामद्वयं स्वर्णेऽपि वर्तते । भवतीति भूरि । ʻअदिशदिभूशुभिभ्यः क्रिन् (उ। ४। ६६) इति क्रिन्-प्रत्ययः । अपिशब्दार्थः शेषे—ʻप्राज्याच्युतविधातृष्ü इति । विश्वप्रकाशेऽपि—ʻभूरिर्ब्रह्माच्युतेन्द्रेषु भूरि प्राज्यसुवर्णयोḵ इति (पृ। १३१, श्लो। ७९) । चन्दतीति चन्द्रः । ʻचदि आह्लादने । रक् प्रत्ययः (उ। २। १३) । शेषे—ʻचन्द्रः शुभ्रांशुकर्पूरकपिलेषु पुमान् भवेत् इति ॥ द्वारमात्रेऽपि गोपुरम् । गृहादेः यस्य कस्यचिद् द्वारमात्रे । अपिशब्दात् ʻपुरद्वारं तु गोपुरम् इति गतम् (१, पृ। २०५) । ʻप्लवगोपुरगोनर्द ॥ । इत्यपि गतम् (१, पृ। २९४) ॥ १८२ ॥
मल्लि-नाथः - AK.03.03.182
चक्रं राष्ट्रेऽपि । सैन्येऽपि स्यात् ॥ अक्षरं तु मोक्षेऽपि । वर्णेऽपि स्यात् ॥ क्षीरमप्सु च । दुग्धेऽपि स्यात् ॥ स्वर्णेऽपि भूरिचन्द्रौ द्वौ । प्राज्शशाङ्कयोरपि स्याताम् ॥ द्वारमात्रेऽपि गोपुरम् । पुरद्वारेऽपि स्यात् ॥ १८२ ॥
[[०३.४७८]]
अक्।०३.०३.१८३अब् गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे ।
अक्।०३.०३.१८३च्द् पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् ॥ १८३ ॥
अक्।०३.०३.१८४अब् मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ।
लिङ्ग-सूरी - AK.03.03.183
गुहायां दम्भगहननिकुञ्जेषु च गह्वरम् ।
गाह्यत इति गह्वरम् । ʻगाहू विलोडने ॥
उपह्वरं तु विजने समीपे चापि कथ्यते ॥ ३९२ ॥
उपह्वयतेऽत्रेत्युपह्वरम् । ʻह्वेञ् स्पर्धायां शब्दे च्ö ॥
पुरःप्रथमयोः प्रान्ते प्रधानाधिकयोरपि ।
उपर्यालम्बनेऽप्यन्नमाने चाग्रमुदीर्यते ॥ ३९३ ॥
अगत्यत्रेत्यग्रम् । ʻअग कुटिलायां गतü ॥
अगारे नगरे काये गुग्गुलौ मकरालये ।
पुरं पाटलिपुत्रे च मन्दिरे चापि कथ्यते ॥ ३९४ ॥
अगारं गृहोपरि गृहम् । पुरति पूर्यते वेति पुरम् । ʻपुर अग्रगमने ॥
उपद्रवे जनपदे राष्ट्रशब्दोऽभिधीयते ।
राजतीति राष्ट्रम् । ʻराजृ दीप्तü ॥ १८३ ॥
गुरादम्भौ गह्वरे द्वे । पर्वतादिगतमकृत्रिमविवरं गुहा । दम्भः कपटः । गाह्यत इति गह्वरम् । उणादौ ʻछित्वरछत्वर ॥ । (उ। ३। १) इति निपातनात् साधुः । ʻगह्वरं तु गुहादम्भौ निकुञ्जे गहनेऽपि च्ö इति विश्वप्रकाशः (पृ। १३७, श्लो। १५५) ॥ रहोऽन्तिकमुपह्वरे । रहो निर्जनस्थानम् । अन्तिकं समीपम् । उपह्वयतेऽत्रेत्युपह्वरम् । छित्वरादावुपह्वरमिति धातुवृत्तावुक्तत्वाद् उणादौ ʻछित्वर ॥ ।संयद्वराḵ (उ। ३। १) इत्यादिना निपातनात् साधुः ॥ पुरोऽधिकमुपर्यग्राणि । पुरः पूर्वो देशः । यथा—अग्रेसरैर्वाजिभिरिति । अधिकमुचितादतिरिक्तम् । यथा—जीवेत् साग्रं वर्षशतमिति । वृक्षाग्रमित्युपरिभागे । अगत्यत्रेत्यग्रम् । ʻअगि गतü । ʻऋज्रेन्द्राग्रवज्र ॥ । मालाḵ इति रन्नन्तो निपात्यते (उ। २। ३१) । शेषे—ʻअग्रमालम्बने प्रान्ते प्रथमे प्रमिताशने इति । त्वदग्रमस्मज्जीवनमित्यालम्बने । ʻस्वल्पं वापि शिवस्याग्रे दत्तमक्षय्यतां व्रजेत् इति प्रान्ते । अग्रगण्य इति प्रथमे । अग्रं ग्रासचतुष्टयम् इत्यशनपरिमाणे । परार्ध्याग्रेति गतम् (२, पृ। ८१) ॥ अगारे नगरे पुरं मन्दिरं च । पुरं मन्दिरं चेति शब्दद्वयमत्र विधेयम् । शेषे—
ʻगृहोपरि गृहे पुरम् ।
देहे पाटलिपुत्रे च गुग्गुलौ कथितः पुरः ।
पुराव्ययं पूर्वकाले ॥
इति । गृहोपरिगृह इत्यनेन अमरसिंहोक्तमगारपदं शेषकारेण सविशेषं व्याख्यातम्, न तु मूलग्रन्थानभिहितमर्थान्तरमुच्यत इति ज्ञेयम् । यथा—देवस्य मल्लारेः पुरमिति । मन्दिरशब्दोऽप्यर्थद्वये स्यात् । शेषे—ʻमन्दिरो मकरालये इति । अथ राष्ट्रो—उपद्रवे । विषयो जनपदः । यथा—ʻराष्ट्रदुर्गवलानि इति (१। पृ। ४९३) । उपद्रवः पीडाहेतुः । यथा—परराष्ट्रे कृता बाधा इति । राजत इति राष्ट्रम् । ʻराजृ दीप्तü । ष्ट्रन् प्रत्ययः (उ। ४। १६०) । ʻव्रश्च ॥ । इत्यादिना (८। २। ३६) षत्वम् ॥ १८३ ॥
मल्लि-नाथः - AK.03.03.183
गुहादम्भौ गह्वरे द्वे । निकुञ्जोऽपि स्यात् । ʻक्लीबं दम्भे गुहायां च निकुञ्जे पुंसि गह्वरḵ इति रभसः । रहोऽन्तिकम्—विषये स्यादुपद्रवे ॥ १८३ ॥
[[०३.४८०]]
अक्।०३.०३.१८४च्द् दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ ॥ १८४ ॥
अक्।०३.०३.१८५अब् तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे ।
अक्।०३.०३.१८५च्द् औशीरं चामरे दण्डेऽप्यौशीरं शयनासने ॥ १८५ ॥
लिङ्ग-सूरी - AK.03.03.184-85
दरोऽस्त्रियां भये श्वभ्र ईषदर्थे दरोऽव्ययम् ॥ ३९५ ॥
दीर्यत इति दरम् । ʻदृ भये, ʻदॄ विदारणे ॥
मणिवेधकरत्ने च पवावपि महौषधौ ।
बालकामलकीयोगे गुडूच्यां वज्रमुच्यते ॥ ३९६ ॥
वजत्यनायासेन गच्छतीति वज्रम् । ʻवज व्रज गतü ॥
प्रधाने तन्तुवाये च सिद्धान्ते च परिच्छदे ।
इतिकर्तव्यतायां च श्रुतिशाखान्तरेऽपि च ॥ ३९७ ॥
निघ्ने व्याकरणे हेतौ स्यात् कुटुम्बार्थकर्मणि ।
तन्त्रं शास्त्रे प्रक्रियायां व्याधौ साधारणे तथा ॥ ३९८ ॥
वीणागुणे सिरायां च तन्त्री वपुषि चोच्यते ।
तन्त्र्यत इति तन्त्रम् । ʻतत्रि कुटुम्बधारणे ॥
चामरे चैव शयने स्याद् दण्डासनयोरपि ॥ ३९९ ॥
उशीरसम्बन्धिनि च त्रिष्वौशीरमुदाहृतम् ।
उशीरस्येतमौशीरम् ॥ १८४-५ ॥
दरोऽस्त्रियां भये श्वभ्रे । दरति बिभेत्यस्मादिति दरो भयम् । ʻदॄ भये । भयादित्वादच् प्रत्ययः (वा। ३। ३। ५६) । तत्रैव पुन्नपुंसकलिङ्गः । दीर्यत इति दरः । श्वभ्रं गर्तः । श्वभ्रे तु दरी इति ङीबन्तोऽप्यस्ति । शेषे—ʻईषदर्थे दराव्ययम् इति । दरेति ह्रस्वान्तमव्ययम् । यथा—ʻदरदलितहरिद्रापिञ्जराण्यङ्गकानि इति प्रयोगः ॥ वज्रोऽस्त्री हीरके पवौ । हीरको मणिवेधकरं रत्नम् । पविः कुलिशम् । ʻवज्रं कुलिशशस्त्रयोः । मणिभेदे रत्नभेदे इति केशवस्वामी (नाना। सं। पृ। १४२, श्लो। ११५८-९) । वजति प्रतिबन्धराहित्येन गच्छतीति वज्रम् । ʻवज व्रज गतü । ʻऋज्रेन्द्राग्रवज्र ॥ । इत्यादिना (उ। २। ३१) रन्-प्रत्ययः । शेषे—
ʻवज्रस्त्वामलके योगे त्रिलिङ्गः स्यान्महौषधौ ।
गुडूच्याम् ॥
इति । योगो विष्कम्भादिषु पञ्चदशो वज्राख्यः । महौषधिलक्षणं तु स्वच्छन्दभैरवे उक्तम् । यथा—
ʻवज्रवल्ली समाख्याता सपुष्पा क्षीरिणी भवेत् ।
स्नुहिपत्रोपमैः पत्रैस्तत्क्षणात् सूतबन्धिनी ॥
इति ॥ तन्त्रं—परिच्छदे । प्रधाने यथा—स्वतन्त्रः, स्वप्रधान इत्यर्थः । अत्र सिद्धान्तशब्देन तद्व्युत्पादको ग्रन्थो विवक्षितः । यथा—कणादतन्त्रम्, भाट्टतन्त्रमिति । ऊयत इति वायः । सूत्रं चासौ वायश्चेति सूत्रवायः । स च तन्त्रमित्युच्यते । तथा च न्यासकारः—ʻदैर्घ्येण प्रसारितास्तन्तवः तन्त्रमित्युच्यते इति । अन्ये तु—येन दण्डादिना कुविन्दास्तन्तुवयनं कुर्वन्ति स तन्तुवायः । स सूत्रवायशब्दनोच्यत इत्याहुः । शलाकारूप इति केचित् । परिच्छदः परिकरः । यथा—बहुतन्त्रोऽल्पतन्त्र इति । तनोति तन्यते वा तन्त्रम् । ʻतनु विस्तारे ष्ट्रन् (उ। ४। १६०) । ʻतत्रि कुटुम्बधारणे इत्यस्माद्वा तन्त्रम् । शेषे—
ʻ॥ । अथ तन्त्रं स्यात् कुटुम्बार्थे च कर्मणि ।
इतिकर्तव्यतायां च साधारणाविधौ तथा ।
सिरायाममृतायां च तन्त्री वीणागुणे तनौ ॥
इति । कुटुम्बार्थे व्यापारे यथा—कृषितन्त्रम्, सेवातन्त्रम् इति । इतिकर्तव्यतायां यथा—आग्नेयविकाराणां पौर्णमासतन्त्रम्, ऐन्द्राग्नविकाराणाममावास्यातन्त्रम् इति । साधारणविधिर्नाम एकस्यैवानेकयोस्तुल्यव्यापारः । तथा च सकृत्प्रयुक्तस्यानेककर्तृतुल्योपकारकस्तन्त्रम् इति मीमांसकाः । यथा—ʻमातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् इति (या। स्मृ। १। १०। २२८) । सिरा धमनिः । अमृता गुडूची । तनुः कायः । सिराद्यर्थचतुष्टये रूपभेदेन स्त्रीलिङ्गः । ʻअवितॄस्तॄतन्त्रिभ्य ईḵ (उ। ३। १५९) इति ईप्रत्यये ङ्यन्तत्वाभावात् सुलोपस्याभावे तन्त्रीरिति विसर्गान्तं रूपं भवति । ʻभैषज्यं भेषजं जायुरगदस्तन्त्रमौषधम् इत्यायुर्वेदनिघण्टुदर्शनाद् औषधेऽपि तन्त्रशब्दः । वैजयन्त्यामपि—ʻतन्त्रं स्वराष्ट्रचिन्ता स्यात् इति (पृ। २२४, श्लो। ११) । यथा ʻतन्त्रावापविदा योगैर्मण्डलान्यधितिष्ठत्ȫ इति माघकाव्ये (शिशु। २। ८८) ॥ औशीरं—शयनासने । चामरं प्रकीर्णकं, दण्डो यष्टिः, इत्यर्थद्वयमिति सुबोधिनीकारः । चमरस्यायं चामर इति दण्डविशेषणमिति सुभूतिचन्द्रः । शयनं मञ्चः । आसनं पीठम् । शयनं स्वप्नः, आसनमुपवेशनमिति केचित् । पुनरौशीरग्रहणादेकयोक्त्या शयनासनयोरौशीरशब्दो वर्तत इति कैश्चिद् व्याख्यातम् । उश्यते काम्यत इति औशीरम् । ʻवश कान्तü । ʻवशेः कित् (उ। ४। ३१) इति ईरन् प्रत्ययः । कित्त्वात् सम्प्रसारणम् (६। १। १६) । प्रज्ञादित्वात् स्वार्थेऽण्प्रत्ययः (५। ४। ३८) । उशीरस्येदमिति विवक्षायाम् औशीरशब्दो वाच्यलिङ्गः ॥ १८४-५ ॥
मल्लि-नाथः - AK.03.03.184-85
दरोऽस्त्रियां भये श्वभ्रे । ईषदर्थेऽव्ययम् । ʻईषदर्थेऽव्ययं दरम् इति विश्वः (पृ। १२६, श्लो। ११) ॥ वज्रोऽस्त्री हीरके पवौ । हीरको रन्नभेदः । ʻवज्रोऽस्त्री हीरकः पुमान् इति रत्नपर्यायेषु वैजयन्ती (पृ। ४४, श्लो। ३९) ॥ तन्त्रं—परिच्छदे । ʻएकस्यैवोभयार्थत्वे कुटुम्बव्यापृतावपि । प्रधानं मुख्यम् । स्वतन्त्रः परतन्त्रः । सिद्धान्तः शास्त्रम् । सूत्रवायः कुविन्दोपकरणम् ॥ औशीरं—शयनासने । पुनर्वचनं शयनासनयोः समुच्चयनार्थम् । ʻऔशीरं शय्यासनयोḵ इति गुणाध्याये वैजयन्ती (पृ। १८७, श्लो। १७) ॥ १८४-५ ॥
[[०३.४८३]]
अक्।०३.०३.१८६अब् पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ।
अक्।०३.०३.१८६च्द् व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः ॥ १८६ ॥
लिङ्ग-सूरी - AK.03.03.186
करिहस्ताग्रजलयोः पद्मे व्योम्नि च पञ्जरे ॥ ४०० ॥
खड्गे तीर्थे भेषजे च द्वीपे रोगे विहङ्गमे ।
वाद्यभाण्डमुखे सर्पे कारण्डे पुष्करं स्मृतम् ॥ ४०१ ॥
पुष्णातिति पुष्करम् ॥ १८६ ॥
पुष्करं—तीर्थौषधिविशेषयोः । मृदङ्गादिवाद्यानां ताडनस्थानं वाद्यभाण्डमुखम् । खड्गफलं नाम त्सरोरुपरि धाराद्वययुक्तो भागः । तीर्थविशेषो हिमवत्पार्श्वे प्रसिद्धः । ʻकार्तिक्यां पुष्करं श्रेष्ठम् इति पुराणे । ओषधिविशेषे यथा—पुष्करमूलमिति । पुष्णातीती पुष्करम् । ʻपुष पुष्टü । ʻपुषः कित् (उ। ४। ४) इति करन् प्रत्ययः शेषे—ʻद्वीपे सर्पे पुष्करः स्यात् इति । पुष्कराख्यमन्तरीपं द्वीपः स्यात् । पुष्कराख्यः सर्वविशेषश्च ॥ १८६ ॥
मल्लि-नाथः - AK.03.03.186
पुष्करं करिहस्ताग्रे—औषधविशेषयोः ॥ १८६ ॥
[[०३.४८४]]
अक्।०३.०३.१८७अब् अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये ।
अक्।०३.०३.१८७च्द् छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥ १८७ ॥
लिङ्ग-सूरी - AK.03.03.187
अवधाववकाशे चाप्यन्तर्धौ भेदमध्ययोः ।
परिधाने च तादर्थ्ये विनार्थबहिरर्थयोः ॥ ४०२ ॥
आत्मीयान्यार्थयोश्छिद्रे प्रस्तावेऽन्तरमात्मनि ।
अन्तं रातीत्यन्तरम् । ʻरा दाने ॥ ॥ १८७ ॥
अन्तरं—अन्तरात्मनि च । अथार्यावृत्तम् । अवकाशो द्रव्यान्तरानवरुद्धःप्रदेशः । यथा—अस्माकमन्तरं देहि, अत्रान्तरे गृहाः कार्याःइति । क्रियान्तरानवरुद्धः कालोऽप्यवकाश उच्यते । यथा—दत्तप्रतिदानमनतिरमणीयम् । अस्माकमिदमन्तरम् । अनतिक्रमणीयो देशः कालो वा अवधिः । यथा—अनयोर्ग्रामयोः सेतुरन्तरम् । मासान्तरादिदं देयमिति । परिधाने यथा—अन्तरे शाटकाः । उपसंव्यानमित्यर्थः । उपसंव्यानबहिर्योगयोरर्थयोः सर्वनामसु पाठात् पुंलिङ्गत्वम् । अन्तर्धौ व्यवधाने यथा—जवनिकान्तरस्तिष्ठति इति । पर्वतान्तरितो देश इति । भेदविशेषे यथा—ʻनान्तरज्ञाः श्रियो जात्ü (किरा। ११। २४) । महदन्तरं मेरुसर्षपयोः इति । तादर्थ्ये यथा—ओदनान्तरस्तण्डुलः इति । छिद्रं सुषिरम् । यथा—कुड्यान्तरे प्रविष्टश्चोर इति । अथवा छिद्रं रन्ध्रम् । परावस्कन्दनानुकूलमित्यर्थः । यथा—प्रहरेदन्तरे शत्रुमिति । त्रिभुवनच्छिद्रपिधानव्रतमित्यादौ छिद्रशब्दो व्यसनवचनः । तदप्यन्तरमुच्यते । आत्मीये यथा—अयमभ्यन्तरो मम इति । विनार्थे यथा—अन्तरे भवमन्तरीयं विनाभूतम्, ततो नञ्समासे नान्तरीयकम्, अविनाभूतमित्यर्थः । बहिरर्थे यथा—अन्तरे चण्डालगृहा इति । ʻअन्तरं बहिर्योगोपसंव्यानयोḵ (१। १। ३६) । बाह्याश्चण्डालगृहा इत्यर्थः । अवसरे यथा—ʻअत्रान्तरे किमपि ॥ । मान्मथमाविरासीत् इति (माल। मा। १। २९) । मध्ये यथा—इदानीमन्तरे जाताः सरित्सागरपर्वताः इति । अन्तरात्मनि यथा—अन्तरात्मा, अन्तं रारीत्यन्तरम् इति । शेषे—ʻअन्तरः सदृशान्ययोḵ इति । सदृशे यथा—ʻस्थानेऽन्तरतमḵ इति (१। १। ५०) । अन्यस्मिन् यथा—स्थलान्तरं गच्छाम इति । यद्यप्यत्राविशेषेणान्तरमिति नपुंसकलिङ्गमुक्तम्, तथापि केषुचिदर्थविशेषेषु नपुंसकत्वम्, न सर्वत्र । तथा च वैजयन्त्याम् (पृ। २५७, श्लो। २)—
ʻअन्तरः परिधानीये बाह्ये स्वीयेऽन्तरात्मनि ।
क्लीबं मध्ये चावकाशे तादर्थ्येऽवसरेऽवधौ ।
विशेषविवरान्तर्धिष्ववस्थानविनार्थयोः ॥
इति । मध्यादिष्वर्थेषु क्लीबमित्यर्थः ॥ १८७ ॥
मल्लि-नाथः - AK.03.03.187
अन्तरं—अन्तरात्मनि च । सादृश्यान्यार्थयोरपि स्यात् । गकारस्य घकारोऽन्तरतमः । जन्मान्तरागतं शीलम् ॥ १८७ ॥
[[०३.४८५]]
अक्।०३.०३.१८८अब् मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् ।
अक्।०३.०३.१८८च्द् शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ॥ १८८ ॥
लिङ्ग-सूरी - AK.03.03.188
मुस्तेऽपि पिठरं कुम्भे भवेन्मन्थानदण्डके ॥ ४०३ ॥
पिठ्यते क्लिश्यतेऽनेनेति पिठरम् । ʻपिठ हिंसासङ्क्लेशनयोḵ ॥
जलकन्दविशेषेऽपि शुण्ठीसुरतबन्धयोः ।
असञ्ज्ञायां प्रजायां च प्रवीणे कुत्सिते तथा ॥ ४०४ ॥
नागरं तु त्रिषु भवेल्लिप्यां नगरसम्भवे ।
नगरे जातं नागरम् ॥
घातुके शर्वरीजाते हिंस्रे दन्तावलेऽपि च ॥ ४०५ ॥
अन्धतामिस्रके चापि शार्वरः परिकथ्यते ।
शर्वर्यां जातं शार्वरम् । शृणातीति वा शार्वरम् ॥ ॥ १८८ ॥
मुस्तेऽपि पिठरम् । पेठतीति पिठरम् । ʻपिठ हिंसासङ्क्लेशनयोḵ । ʻशीकरादयश्च्ö इत्यरप्रत्ययः । ʻपिठरः स्थाल्युखा कुण्डम् इति पुंलिङ्गो गतः (१, पृ। ५७२) । गौरादिषु पाठात् स्त्रियां ङीषि पिठरी इत्यपि । मन्थदण्डेऽपि पिठरशब्दः । शेषे—ʻवैशाखदण्डे पिठरमुखायां पिठरीत्यपि इति ॥ राजकशेरुण्यपि नागरम् । राजकशेरु भद्रमुस्ताख्यम् । राजीवकन्द इत्युरे । अपिशब्दात् शुण्ठ्यां नागरमुक्तम् (१, पृ। ५७६) । नगराख्यदेशे प्रायेण भवं नागरम् । शेषे—
ʻप्रवीणं कुत्सितं विना ।
असञ्ज्ञानगरे जातं नागरं नागरायते ।
त्रिष्वथो सौरते बन्धे नागरम् ॥
इति ।अस्यार्थः—अयोध्यापाटलीपुत्रादिके नगरे जातं नागरं विशेष्यनिघ्नः । तत्र जातोऽपि यदि कुत्सितः प्रवीणो वा स्यात, तत्र ʻनगरात् कुत्सनप्रावीण्ययोḵ (४। २। १२८) इति वुञ्प्रत्यये नागरक इत्येव भवति । ननु नगरमिति विशेषसञ्ज्ञयैव गुर्जरदेशे प्रसिद्धं किञ्चिन्नगरमस्ति । तत्र जात इत्यण्प्रत्यये सति नागरमित्येव स्यादित्यत्राह—असञ्ज्ञानगर इति । कर्त्र्यादिषु नगरं पठ्यत इति वृत्तिकारवचनात् तत्र जाते कर्त्र्यादिभ्यो ढकञ्प्रत्यये (४। २। ९५) नागरेयकमित्येव भवति । न तु नागरमिति स्यात् । यश्च नगरस्य रायको धायकः याजकादिसमासः, तत्र न अगं रातीति व्युत्पत्त्या नागरशब्दो वाच्यलिङ्गः । सुरतकाले स्त्रीपुंसयोरवयवसन्निवेशविशेषे सुरतबन्धे नागरं नपुंसकम् । नागरलक्षणमुक्तं ग्रन्थान्तरे ॥ शार्वरं—भेद्यलिङ्गकम् । शर्वर्यां भवं शार्वरम् । गाढमन्धं तमः शृणातीति शार्वरम् । घातुको हिंस्रः । ʻशृ हिंसायाम् । वरन्प्रत्ययः । पृषोदरादित्वाद् दीर्घः । शार्वरो व्याधः । शार्वरं शाबरकुलम् इत्यादौ वाच्यलिङ्गः । ʻघातुकेभेऽन्यलिङ्गकम् इति पाठे घातुकश्चासौ इभश्चेति समासः । तत्र घातुकः कुञ्जरः, कुञ्जरघटा, कुज्जरयूथमित्यादि विशेष्यानुरोधेनान्यलिङ्गत्वमित्यर्थः ॥ १८८ ॥
मल्लि-नाथः - AK.03.03.188
मुस्तेऽपि पिठरम् । स्थाल्यामपि स्यात् ॥ राजकशेरुण्यपि नागरम् । राजकशेरु तृणमूलविशेषः । शुण्ठ्यामपि स्यात् । शार्वरं—भेद्यलिङ्गकम् ॥ १८८ ॥
[[०३.४८७]]
अक्।०३.०३.१८९अब् गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः ।
अक्।०३.०३.१८९च्द् जठरः कठिनेऽपि स्यादधस्तादपि चाधरः ॥ १८९ ॥
लिङ्ग-सूरी - AK.03.03.189
अरुणे धवले पीते पद्मकेसरचन्द्रयोः ॥ ४०६ ॥
विशदे पुंसि गौरः स्यान्नद्यां शङ्करयोषिति ।
रोचनायां हरिद्रायां कामिन्यां वरुणस्य च ॥ ४०७ ॥
सहस्रवेधिनि तथा फलिन्यां च स्त्रियां भवेत् ।
गुरत इति गौरः । ʻगुरी उद्यमने ॥
भल्लातक्याख्यवृक्षे स्याद् व्रणकारेऽप्यरुष्करः ॥ ४०८ ॥
अरूंषि व्रणान् करोतीत्यरुष्करः ॥
उदरे कठिने चापि जठरः परिकीर्तितः ।
जायतेऽस्मिन्निति जठरः । ʻजनी प्रादुर्भावे ॥
अधस्तादोष्ठयोर्हीनेऽप्यधरः परिकथ्यते ॥ ४०९ ॥
अधोभवत्वाद् अधरः ॥ १८९ ॥
गौरोऽरुणे सिते पीते । गुरते पुरुष उद्युङ्क्तेऽस्मिन्निति गौरः । ʻगुरी उद्यमने । ʻऋज्रेन्द्र ॥ । गौरवम्रेरामालाḵ (उ। २। ३१) इति निपातनात् साधुः । पूर्ववाक्यस्थं भेद्यलिङ्गकमिति पदं रेफान्तवर्गसमाप्तिपर्यन्तमनुवर्तनीयम् । शेषे—
ʻपद्मकेसरे ।
गौरं ना तु मृगे चन्द्रे नदीवरुणयोषितोः ।
रोचनारजनीहिङ्गुप्रियङ्गुक्ष्मासु च स्त्रियाम् ॥
इति । ʻशार्दूलाय राज्ञे गौरḵ (तै। सं, ५। ५। ११। १) इत्युक्ते मृगविशेषे चन्द्रे च पुंलिङ्गः । नदी गौरीसञ्ज्ञयैव प्रसिद्धा । रोचना गोरोचना । ʻप्रियङ्गुः प्रियवल्ली च गौरी पुष्करपर्णिक्ȫ इति द्रव्यावल्याम् ।
ʻपिण्डा गौरी च रजनी हरिद्रा वर्णवत्यपि ।
नद्यादिषु च स्त्रीलिङ्गो ङीबन्तश्च ॥ । ॥
इति ॥ व्रणकार्यप्यरुष्करः । व्रणहेतुः शस्त्रादिः । व्रणकारिभल्लातके प्रागुक्तः (१, पृ। २४१) । अरूंषि करोतीत्यरुष्करः । ʻदिवाविभा ॥ । तद्धनुररुःष्ü (३। २। २१) इति टप्रत्ययः ॥ जठरः कठिनेऽपि स्यात् । जायत इति जठरः । ʻजनेररष्ठ च्ö (उ। ५। ३४) इत्यरप्रत्ययः, धातोर्नकारस्य ठकारः । ʻकुक्षौ तु जठरो न स्त्री त्रिषु वृद्धकठोरयोḵ इति रुद्रः ॥ अधस्तादपि चाधरः । अधस्तात् अधोदेशस्थ इत्यर्थः । अपकृष्टेष्वधरस्त्रिषु । ओष्ठेऽपि पुंलिङ्गः प्रागुक्तः (१, पृ। ४१९) ॥ १८९ ॥
मल्लि-नाथः - AK.03.03.189
गौरोऽरुणे सित पीते । भेद्यलिङ्गकमित्यधिकारः । कन्याद्यर्थेषु निरवकाशः ॥ व्रणकार्येऽप्यरुष्करः । भल्लातक्यामपि स्यात् । ʻजडियण्टुन्न्ü ॥ जठरः कठिनेऽपि स्यात् । उदरेऽपि स्यात् ॥ अधस्तादपि चाधरः । ओष्ठेऽपि स्यात् ॥ १८९ ॥
[[०३.४८९]]
अक्।०३.०३.१९०अब् अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले ।
अक्।०३.०३.१९०च्द् उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः ॥ १९० ॥
अक्।०३.०३.१९१अब् एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः ।
लिङ्ग-सूरी - AK.03.03.190
एकायनगतेऽपि स्यादेकाग्रश्चाप्यनाकुले ।
एकमग्रमस्यत्येकाग्रः ॥
व्यासक्ते व्याकुले चापि व्यग्रशब्दः प्रकीर्तितः ॥ ४१० ॥
विविधमग्रमस्येति व्यग्रः ॥
उदीच्यश्रेष्ठयोरूर्ध्वे प्रतिवाक्ये तथोत्तरम् ।
विराटपुत्रे पुंसि स्यादुत्तरा ककुभि स्मृता ॥ ४११ ॥
उत्तरीत्युत्तरम् । ʻतॄ प्लवनतरणयोḵ ॥
श्रेष्ठदक्षिणयोश्च स्यादुदीच्यादिविपर्यये
प्रतिवाक्यविहीने चाप्यनुत्तर उदाहृतः ॥ ४१२ ॥
न विद्यते उत्तरमस्येत्यनुत्तरः ॥
दूरेऽप्यनात्मोत्तमयोः परशब्दोऽभिधीयते ।
पिपर्तीति परः । ʻपॄ पालनपूरणयोḵ ॥ १९० ॥
अनाकुलेऽपि चैकाग्रः । अनाकुलः स्वस्थः । एकमग्रं बुद्धिस्थमस्येत्येकाग्रः । ʻएकाग्रमेकताने स्यादेकाग्रं चाप्यनाकुलम् इति विश्वप्रकाशः (पृ। १४१, श्लो। २०४) ॥ व्यग्रोऽप्यासक्त आकुले । व्यग्रः कार्यान्तरव्यापृतः । आकुलो दुःखाभिभूतः । विविधमग्रमस्येति व्यग्रः ॥ उपर्युदीच्यश्रेष्ठेऽप्युत्तरः । उत् ऊर्ध्व तरति प्लवत इत्युत्तरशब्दः उपरिस्थितः उत्तरदेशवचनः । तद्देशभवे लक्षणया वर्तत इति उत्तर उदीच्यः । उत्कृष्टवचनाद् अव्ययात् तरप्रत्यये सति उत्तरशब्दः श्रेष्ठेऽपि । शेषे—
ʻदिश्युत्तरा स्त्रियां पुंसि विराटतनयेऽपि च ।
उत्तरं प्रतिवाक्ये स्यात् ॥
इति ॥ स्यादनुत्तरः—श्रेष्ठे । एषामुपरिस्थितानां वैपरीत्ये अधःस्थितानुदीच्यनिकृष्टेष्वित्यर्थः । अविद्यमान उत्तरो यस्मादिति विग्रहे श्रेष्ठेषु अनुत्तरशब्दः । दूरानात्मोत्तमाः पराः । प्रमातारमवधीकृत्य सन्निकृष्टापेक्षया भूप्रदेशसंयुक्तसंयोगभूयस्त्ववान् दूरः । तार्किकाणां प्रसिद्धपरत्वगुणाधिकरणमित्यर्थः । यथा—श्रीपर्वतस्थस्य गोदावर्यपेक्षया वाराणसी परा इति प्रयोगः । अनात्मनि यथा—इदं परेषां मतमिति । परब्रह्मेत्युत्तमे । पिपर्तीति परः । ʻपॄ पालनपूरणयोḵ । पचाद्यच् (३। १। १३४) । शेषे—ʻपरः शत्रावलिङ्गं स्यात् केवले लिङ्गमव्ययम् इति । ʻपरं दूरान्यमुख्येषु केवले त्वव्ययं मतम् इति विश्वप्रकाशश्च (पृ। १२५, श्लो। ६) ॥ १९० ॥
मल्लि-नाथः - AK.03.03.190
अनाकुलेऽपि चैकाग्रः । एकतानेऽपि स्यात् ॥ व्यग्रो—अनात्मोत्तमाः पराः । अनात्मेत्यन्यः । ʻपरं दूरान्यमुख्येषु परोऽरिपरमात्मनोḵ इति वैजयन्ती (पृ। २३४, श्लो। ४९) ॥ १९० ॥
[[०३.४९१]]
अक्।०३.०३.१९१च्द् स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ ॥ १९१ ॥
अक्।०३.०३.१९२अब् उदारो दातुमरतोरितरस्त्वन्यनीचयोः ।
अक्।०३.०३.१९२च्द् मन्दस्वच्छन्दयोः स्वैरं शुभ्रमुद्दीप्तशुक्लयोः ॥ १९२ ॥
लिङ्ग-सूरी - AK.03.03.191-92
स्वादुद्रव्ये प्रिये चापि मधुरः परिकथ्यते ॥ ४१३ ॥
मधु माधुर्यमत्रास्तीति मधुरः ॥
निर्दये कठिने घोरे क्रूरस्त्रिषु विवक्षितः ।
कृन्ततीति क्रूरः । ʻकृती छेदने ॥
उदारो दक्षिणे दातृमहतोरनुकूलके ॥ ४१४ ॥
उदियर्तीत्युदारः । ʻऋ गतü ॥
इतरो नीचके चैव परे च परिकथ्यते ।
एतीति इतरः ॥
स्वेच्छावर्तिन्यलसके स्वैरः समभिधीयते ॥ ४१५ ॥
स्वेन ईर्ते गच्छतीति स्वैरः । ʻईर गतü ॥
उद्दीप्तशुक्लयोः शुभ्रमभ्रके चापि कथ्यते ।
शोभत इति शुभ्रः । ʻशुभ दीप्तü ॥ १९१-२ ॥
इति रेफान्तवर्गः
स्वादुप्रियौ च मधुरौ । मधुः माधुर्यरसविशेषोऽस्यास्तीति मधुरः । ʻऊषशुषिमुष्कमधो रḵ (५। २। १०७) इति रप्रत्ययः । मधुरं कदलीफलमिति स्वादुनि । मधुरभाषीति प्रिये । रसमात्रे पुंलिङ्गः प्रागुक्तः (१, पृ। १६) । तद्वति वाच्यलिङ्गः ॥ क्रूरौ कठिननिर्दयौ । क्रूरो वृथाभ्यन्तरकोपः । निर्दयः कृपारहितः । कृन्ततीति क्रूरः । ʻकृती छेदने ॥ उदारो दातृमहतोः । उदाराति उच्चैरर्थिभ्यो सर्वतो ददातीति उदारः । ʻरा दाने । ʻआतश्चोपसर्गे (३। १। १३६) इति कर्तरि कप्रत्ययः । शेषे—ʻदक्षिणेऽपि च । स्यादुदारोऽनुकूलेऽपि इति । इतरस्त्वन्यनीचयोः । अन्यस्मिन् यथा—सव्येतरकरः शरः इति । नीचे यथा—पक्वान्नमितरे जनाः इति । इतं प्राप्तं रातीति इतरः ॥ मन्दस्वच्छन्दयोः स्वैरम् । स्वेन स्वबुद्ध्यनुसारेण ईर्ते गच्छतीति स्वैरः । ʻईर गतü । पचाद्यच् (३। १। १३४) । ʻस्वादीरेरिणोḵ (वा। ६। १। ८९) इति वृद्धिः ॥ शुभ्रमुद्दीप्तशुक्लयोः । उद्दीप्तं प्रकाशितं, शुक्लं श्वेतगुणयुक्तम् । शोभत इति शुभ्रम् । ʻशुभ शुम्भ शोभार्थे । ʻस्फायितञ्चि ॥ । शुभिभ्यो रक् (उ। २। १३) इति रक्प्रत्ययः । शेषे—ʻजानीयाच्छृभ्रमभ्रके इति ॥ १९१-२ ॥
इति रेफान्तवर्गः
मल्लि-नाथः - AK.03.03.191-92
स्वादुप्रियौ च मधुरौ—शुभ्रमुद्दीप्तशुक्लयोः । अनुक्तम्—
शिखरं शोणरत्नेऽपि गिरिः क्रीडागुडेऽपि च ।
ʻअच्चनगण्ड्ल्ü ॥
गृध्रः स्यादर्धलुप्तेऽपि घस्रः स्याद् घातुकेऽपि च ।
मकुरः स्याद् मुकुरवद् मल्लिकाकुसुमेऽपि च ॥
मधुद्रो भ्रमरश्चेति द्वामिमौ कामुकेऽपि च ।
दिगम्बरोऽन्धकारेऽपि जगत्यपि चराचरम् ॥
लम्बोदरस्तुलायां च लक्ष्मीपुत्रो हयेऽपि च ।
पीताम्बरो नटेऽपि स्याद् महामात्रो धनिन्यपि ॥
तुषारः शीकरेऽपि स्याच्छरं स्यादुदकेऽपि च ।
वारस्त्रियां च कावेरी स्वैरिण्यां च निशाचारि ॥
खर्जूरो वृश्चिकेऽपि स्यात् कर्बूरं काञ्चनेऽपि च ।
विष्किरः कुक्कुटेऽपि स्याद् वल्ल्यामपि च वल्लरी ॥
प्रखरोऽश्वतनुत्रेऽपि हरः स्याद् गर्दभेऽपि च ।
असुरः कुञ्जरेऽपि स्याद् मिहिरो वारिदेऽपि च ॥
स्याद् विल्वयशसोश्च श्रीः स्यादग्रभरयोश्च धूः ।
कादम्बरी परभृता शारिका भारतीति च ।
धाराम्बुतानसेनाग्रस्कन्धशस्त्रमुखेषु च ॥
विहारः सुगतावासक्रीडनोपवनेषु च ।
कुमारः स्यादश्ववारे शुकबालकयोरपि ॥
भङ्गुरं नश्वरे वक्रे कटीरं कन्दरे कटौ ।
हीरा पिपीलिकालक्ष्म्योर्वेरं काश्मीर्यदेहयोः ॥
वास्रस्तु दिवसे वास्रं मन्दिरे च चतुष्पथे ।
प्रकरः कीर्णपुष्पादौ प्रकरी चत्वरावनौ ॥
सुवर्णपुत्रिकायां स्याद् वम्री कम्रस्तु सुन्दरे ।
जर्जरस्त्रिषु जीर्णे स्यात् परपुष्टे तु जर्जरः ॥
टट्टरी स्याद् मृषावादे भेरीनादे तु टट्टरः ।
बन्धुरं सुन्दरे नम्रे बन्धुरा वारयोषिति ॥
टङ्कारो ज्यारवे ख्यातौ कुटारं केवले रतौ ।
नरेन्द्रो विषवैद्ये स्यादार्थिके वसुधापतौ ॥
कटिसूत्रं सारसने कटिवस्त्रे च चार्मणे ।
गिरिसारोऽश्मसारे स्याद् गिरौ च मलयाह्वये ॥
पीतसारो मलयजे गोमेदकमणावपि ।
दण्डधारो यमे भूपे व्यवहारः पणे स्थितौ ॥
दण्डयात्रा दिग्विजये यात्रायां चाध्वरस्य च ॥ १९१-२ ॥
इति रेफान्तवर्गः
[[०३.४९४]]
अथ लान्तवर्गः—
अक्।०३.०३.१९३अब् चूडा किरीटं केशाश्च संयता मौलयस्त्रयः ।
अक्।०३.०३.१९३च्द् द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः ॥ १९३ ॥
लिङ्ग-सूरी - AK.03.03.193
कङ्केऽपि वृक्षे धम्मिल्ले मौलिश्चूडाकिरीटयोः ॥ ४१६ ॥
मूल्यत इति मौलिः । ʻमूल प्रतिष्ठायाम् ॥
वृक्षे काण्डे गजे पुष्पे पीलुः स्यात् परमाणुके ।
पीलतीति पीलुः । ʻपील प्रतिष्टम्भे ॥ १९३ ॥
चुडा—मौलयस्त्रयः । चुडा शिखा । अत्र त्रय इत्युक्त्या संयतशब्दस्य केशविशेषणत्वं मौलिशब्दस्य पुंलिङ्गत्वं च गम्यते । बद्धाः केशा इत्यर्थः । मूलति प्रतितिष्ठतीति मौलिः । ʻमूल प्रतिष्ठायाम् । शेषे—ʻकङ्केलिपादपे मौलिḵ इति । कङ्केलिरशोकः ॥ द्रुमप्रभेद—पीलवः । द्रुमप्रभेदो गुडफलः । मातङ्गः कुञ्जरः । काण्डो बाणः । पीलयतीति पीलुः । ʻपीड अवगाहने । लडयोरभेदः । शेषे—ʻपीलवः परमाणवḵ इति । यथा—पीलुपाक इति ॥ १९३ ॥
मल्लि-नाथः - AK.03.03.193
चूडा—मौलयस्त्रयः । शिरोऽपि स्यात् । ʻमुण्डोत्तमाङ्गमस्तकमौलिशिरःशीर्षमूर्धकानि स्युḵ इति हलायुधः (अ। मा। २। ३६३) । अन्यतरलिङ्गाभिधानात् स्त्रीपुंसलिङ्गः । ʻकिरीटे मौलिरक्लीबे चूडासंयतकेशयोḵ इति रभसः ॥ द्रुमप्रभेद—पीलवः । परमाणुरपि स्यात् । ʻपीलुर्द्रुमे गजे काण्डे परमाणुप्रसूनयोḵ इति विश्वः (पृ। १५१, श्लो। ३४) ॥ १९३ ॥
[[०३.४९५]]
अक्।०३.०३.१९४अब् कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः ।
अक्।०३.०३.१९४च्द् स्यात् कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः ॥ १९४ ॥
लिङ्ग-सूरी - AK.03.03.194
मृत्यौ यमे महाकालं कालः समयनीलयोः ॥ ४१७ ॥
गोर्यां नील्यां मेघपङ्क्तौ मञ्जिष्ठक्षीरकीटयोः ।
कृष्णत्रिवृति निन्दायां काली स्याद् मातृभेदके ॥ ४१८ ॥
कल्यते सङ्ख्यायत इति कालः । ʻकल शब्दसङ्ख्यानयोḵ ॥
कलहेऽन्त्ययुगे शूरे निष्क्रियायां कलिर्युधि ।
निष्क्रिया निरर्थकरणम् । कल्यन्तेऽस्मिन्नति कलिः । ʻकल किल क्षेपे ॥
पद्मे जले क्लोम्नि ताम्रे पद्मके कमलं भवेत् ॥ ४१९ ॥
कुरङ्गे कमलो लक्ष्म्यां कमला वरयोषिति ।
काम्यत इति कमलम् । ʻकमु कान्तü ॥
सास्नायामुत्तरासङ्गे नागराजे च रल्लके ॥ ४२० ॥
क्रिमिभेदे जले क्लीबं कम्बलः परिकथ्यते ।
काम्यत इति कम्बलः ॥ १९४ ॥
कृतान्तानेहसोः कालः । कृतान्तो यमः । शेषे—
ʻकाला कृष्णा त्रिवृत् काली गौरीजलदमालयोः ।
नीलीमाञ्जिष्ठयोः क्षीरकीटमातृकयोरपि ॥
इति । कृष्णा त्रिवृदिति टाबन्तः । मातृका महाकालीति प्रसिद्धा । विश्वप्रकाशे—
ʻकृष्णत्रिवृति काला स्यान्नीलीमाञ्जिष्ठयोरपि ।
काली गौर्यां क्षीरकीटे कालिकामातृभेदयोः ।
इति (पृ। १४९, श्लो। १२) ॥ चतुर्थेऽपि युगे कलिः । कल्यन्ते क्षिप्यन्ते जना अत्रेति कलिः । ʻकल किल क्षेपे । अपिशब्दात् कलहे प्रागुक्तम् (१, पृ। ५४५) ॥ स्यात् कुरङ्गेऽपि कमलः । कुरङ्गो हरिणभेदः । कं नीरं मलते उच्चैर्धत्त इति कमलम् । ʻमल धारणे । विश्वप्रकाशे—
ʻकमलं सलिले ताम्रे जलजे क्लोम्नि भेषजे ।
मृगप्रभेदे कमलः कमला श्रीवरस्त्रियोः ॥
इति (पृ। १५३, श्लो। ५३) । क्लोम तिलकम् । भेषजं पद्मकम् ॥ प्रावारेऽपि च कम्बलः । प्रावार उत्तरासङ्गः । कं सुखं बलतीति कम्बलः । ʻबल प्राणने । शेषे—ʻसास्नायां नागराजे च कम्बलोदक्रिमावपि इति । ʻसमौ रल्लककम्बलü इति गतम् (१, पृ। ४३६) । नागराजः कम्बलाख्यः सर्पः । कृमिर्वस्त्रयूका । ʻकम्बलो नागराजे स्याद् गजप्रावरणेऽपि च्ö इति विश्वप्रकाशः (पृ। १५५, श्लो। ७५) ॥ १९४ ॥
मल्लि-नाथः - AK.03.03.194
कृतान्त—युगे कलिः । ʻकलिः स्यात् कलहे शूरे कलिरन्त्ययुगे युधि इति विश्वः (पृ। १५२, श्लो। ४८) ॥ स्यात् कुरङ्गेऽपि कमलः ।
ʻकमलं सलिले ताम्रे क्लोम्नि रक्ताम्बुजेऽम्बुजे ।
मृगप्रभेदे कमलः कमला श्रीवरस्त्रियोः ॥
इति विश्वः (पृ। १५३, श्लो। ५३) ॥ प्रावारेऽपि कम्बलः ।
ʻकम्बलो नागराजे स्यात् सास्नाप्रावारयोः कृमौ ।
कम्बलश्चोत्तरासङ्गे कम्बलं सलिले मतम् ॥
इति विश्वः (पृ। १५५, श्लो। ७५) ॥ प्रावारो रोमशाटी । ʻकम्बलि, कम्बऴिपुरुवुन्न्ü ॥ १९४ ॥
[[०३.४९७]]
अक्।०३.०३.१९५अब् करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् ।
अक्।०३.०३.१९५च्द् स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः ॥ १९५ ॥
लिङ्ग-सूरी - AK.03.03.195
राजग्राह्यकरे दैत्ये गृहदारुणि गन्धके ॥ ४२१ ॥
उदरावयवे चैव वलिश्चामरदण्डके ।
पूजोपहारे जरया श्लथचर्मणि वर्तते ॥ ४२२ ॥
वलत्यनेनेति वलिः । ʻवल प्राणने ॥
स्थौल्ये सैन्ये रसे रूपे गन्धसामर्थ्ययोर्बलम् ।
काके सीरिणि दैत्ये ना बलः सत्त्ववति त्रिषु ॥ ४२३ ॥
वाट्यालके च विद्यायां बलो समभिधीयते ।
बलत्यनेनेति बलम् ʻबल प्राणने ॥ १९५ ॥
करोपहारयोः—स्त्रियाम् । करः प्रजाभ्यो राजग्राह्यो भागः । उपहारो देवतोद्देशेन प्रदेय ओदनादिः । तत्राभयत्र बलिशब्दः पुंलिङ्गः । प्रवृद्धत्वादिना शरीरे जायमाना त्वक्सङ्कोचकृता रेखा वलिः । तत्र स्त्रीलिङ्गः । यद्यपि बलिशब्दः करोपहारवचनः केवलमौष्ठ्यादिः तथाप्येकदेशविकृतस्याप्यनन्यत्वाद (प। ७। २। ७८) नानार्थत्वेनाभिधानम् । बलति जीवत्यनेनेति बलिः । ʻबल प्राणने । वलते संवृणोति शरीरमिति वा । शेषे—
ʻबलिश्चामरदण्डके ।
गृहदारुविशेषे च बाणताते च गन्धके ॥
इति । गृहदारुविशेष इति स्तम्भचूडासु तिर्यङ्निधीयमानं सरन्ध्रं दारु । तथा चोक्तं पाञ्चरात्रे मण्डपनिर्माणे—
ʻसारदारुभवांस्तम्भान् कुर्याच्चूडासमन्वितान् ।
इत्युक्तवा,
ʻबलिकां मूर्धतस्तेषां कुर्यात् ॥
इत्युक्तत्वादिति । तत्रापि स्त्रीलिङ्ग एव । बाणतातो विरोचनसुतो बलिनामा दैत्यः । गन्धको गन्धकद्रव्यविशेषः । तत्रोभयत्र पुंलिङ्गः ॥स्थौल्य—काकसीरिणोः । स्थौल्यं पीनत्वम् । सामर्थ्यं शक्तिः । स्थौल्यादित्रये रूपविशेषाद् नपुंसकलिङ्गः । बलति चिरं जीवतीति बलः काकः । ʻबल प्राणने । बलसम्बन्धाद् अर्शआद्यचि (५। २। १२७) बलः । सीरी बलभद्रः । शेषे—ʻबलं गन्धे रसे रूपे दैत्ये ना बलिनि त्रिष्ü इति । दैत्ये यथा—इन्द्राहितः, यतो बलारातिरिति सञ्ज्ञाविशेषोऽपि, कश्चिदिन्द्रेण हत इत्यर्थः । बलवति वाच्यलिङ्गः । यथा—ʻदुर्बलस्य बलं राज्ȫ (चाणक्य। ४०) इति ॥ १९५ ॥
मल्लि-नाथः - AK.03.03.195
करोपहारयोः—स्त्रियाम् । प्राण्यङ्गकमुदररेखाः । अथवा प्राण्यङ्गजं श्लथचर्म ॥ स्थौल्य—काकसीरिणोः ॥ १९५ ॥
[[०३.४९८]]
अक्।०३.०३.१९६अब् वातूलः पुंसि वात्यायामपि वातासहे त्रिषु ।
अक्।०३.०३.१९६च्द् भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ॥ १९६ ॥
लिङ्ग-सूरी - AK.03.03.196
वात्यायां पुंसि वातूलो वातस्यासहने त्रिषु ॥ ४२४ ॥
वातं न सहते, वातस्य समूहो वा वातूलः ॥
त्रिलिङ्ग्यां कैतववति द्वयोः श्वापदसर्पयोः ।
दुःशिक्षितगजे पुंसि व्यालः समभिवर्ण्यते ॥ ४२५ ॥
व्याल्यते निवार्यत इति व्यालः । ʻअल भूषणपर्याप्तिवारणेष्ü ॥ १९६ ॥
वातूलः—वात्यासहे त्रिषु । समानजवयोः विरुद्धक्रिययोः वाय्वोर्बहूनां वा समूहो वात्या । ʻवातात् समूहे च्ö (वा। ५। २। १२२) । तन्न सहत इत्यर्थे समूहार्थे च ऊलच्प्रत्ययः । वातूलः । उन्मत्तेऽप्याहुरिति स्वामी (पृ। ३१८) ॥ भेद्यलिङ्गः—श्वापदसर्पयोः । गूढविप्रियकारी शठः । तत्र व्यालशब्दो वाच्यलिङ्गः । व्याघ्रादयो । वनचरा मृगाः श्वापदाः । सर्पाः प्रसिद्धाः । तत्र पुंलिङ्गत्वविधानं नपुंसकनिषेधार्थम् । स्त्रीलिङ्गविवक्षायां तु ʻद्विचतुःषट्पदोरगाḵ (३। ५। ३७) इति स्त्रीलिङ्गत्वस्यापि वक्ष्यमाणत्वात् । अत एव ʻव्यालीव मलयद्रुमम् इति कालिदासः (रघु। १२। ३२) । विशेषेणाल्यते वार्यत इति व्यालः । ʻअल भूषणपर्याप्तिवारणेष्ü । शेषे—ʻव्यालो दुःशिक्षिते गजे । इति ॥ १९६ ॥
मल्लि-नाथः - AK.03.03.196
वातूलः—वातासहे त्रिषु । वात्यासहे इति उदयादित्यमतानुसारी पाठः । वातासह इति शाकटायनमतानुसारी पाठः ॥ भेद्यलिङ्गः—श्वापदसर्पयोः । अर्थव्ययसहे भेद्यलिङ्गः । ʻअर्थव्ययसहो व्यालḵ इति हलायुधः (अ। मा। ५। ४६) । दुष्टगजेऽपि पुंलिङ्गः । ʻव्यालो दुष्टमतङ्गजे इति हलायुधः (अ। मा। २। ७०) ॥ १९६ ॥
[[०३.४९९]]
अक्।०३.०३.१९७अब् मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् ।
अक्।०३.०३.१९७च्द् शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु ॥ १९७ ॥
लिङ्ग-सूरी - AK.03.03.197
श्लेष्मण्यश्रुणि मूत्रे च दूषिकाकर्णविष्ठयोः ।
विष्ठायां शुक्रवसयोर्मज्जालोहितयोर्नखे ॥ ४२६
स्वेदे पापे मलोऽस्त्री स्यात् कृपणे च त्रिषु स्मृतः ।
मल्यत इति मलः । ʻमल मल्ल धारणे ॥
आयुधे रोगभेदे च मृत्यौ शूलमुदाहृतम् ॥ ४२७ ॥
योगभेदे ध्वजे शूलः शूला पण्यस्त्रियामपि ।
शूलतीति शूलः । ʻशूल रुजायाम् ॥
ज्वालायां हव्यवाहस्य शङ्कौ कील उदाहृतः ॥ ४२८ ॥
कीला कफोणिनिर्घाते रतिसम्भवताडने ।
कील्यत इति कीलः । ʻकील बन्धने ॥
धाराङ्कयोर्यूकपत्न्यां सञ्जातश्मश्रुयोषिति ॥ ४२९ ॥
प्रस्थे च कर्णतालाग्रे पालिरस्राङ्गभेदयोः ।
पाल्यत इति पालिः । ʻपाल रक्षणे ॥ १९७ ॥
मलोऽस्त्री पापविट्किट्टानि । किट्टं सिंहाणादिकम् । विड्ग्रहणं मूत्रादीनामप्युपलक्षणम् ।
ʻवसाशुक्लमसृङ्मज्जामूत्रविट्कर्णविण्णखाः ।
श्लेष्माश्रुदूषिकास्वेदा द्वादशैते मला नृणाम् ॥
इति स्मृतेः (म। स्मृ। ५। १३५) । पापे यथा—ʻनिर्मला स्वर्गमायान्ति (म। स्मृ। ८। ३१८) इति । किट्टे यथा—अयोमलमिति । मल्यते धार्यत इति मलम् । शेषे—ʻमलस्तु कृपणे त्रिष्ü इति । अस्त्री शूलं रुगायुधम् । रुग् रोगः वातकृतस्तोदः । शूलमायुधविशेषः त्रिशिखरः । शूलति व्यथयतीति शूलम् । ʻशूल रुजायाम् । पचाद्यच् (३। १। १३४) । शूलो योग इत्यपि । अत्र प्रतापः—
ʻरोगभेदे भवेच्छूलं मृत्योः प्रहरणान्तरे ।
योगभेदे भवेच्छूलः शूला पण्यस्त्रियां मता ।
शूलं विक्रयणेऽपि स्यात् ॥
इति । योगभेदो विष्कम्भादिषु नवमः शूलाख्यः ॥ शङ्कावपि द्वयोः कीलः । कील्यते बध्यतेऽस्मिन्निति कीलः शङ्कुः, गोमहिष्यादिबन्धनस्तम्भः । अपिशब्दाद् वह्निज्वालाविशेषे । शेषे—ʻअथ कीला स्यात् प्रहारे रतिसङ्गरे इति । अन्यत्राप्युक्तम्—ʻकीला उरसि धर्तव्या वक्षस्यपि न फूत्कृतम् इति । जिह्वाग्रजनितो ध्वनिः फूत्कृतम् । ʻकीलः कफोणीनिर्घाते इति विश्वः (पृ। १५१, श्लो। ३८) ॥ पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु । अश्रिर्धारा । अङ्क उत्सङ्गः । पङ्क्तिरावलिः । ʻपाल रक्षणे । ʻअच इḵ (उ। ४। १४०) । ʻअङ्कपालीत्यत्राङ्को वक्षḵ इति स्वामी (पृ। ३१८) । शेषे—
ʻपालिः प्रस्थांशभेदयोः ।
जातश्मश्रुस्त्रियां कर्णतालाग्रे यूकया समम् ॥
इति । यूकया सहितेषु पूर्वोक्तार्थेषु पालिशब्दो वर्तत इत्यर्थः । प्रतापोऽपि—
ʻपालिः पङ्क्त्यिङ्कभेदयोः ।
अस्रे च कर्णतालाग्रे पालिः स्यात् प्रस्थयूकयोः ।
सञ्जातश्मश्रुयोषायाम् ॥
इति ॥ १९७ ॥
मल्लि-नाथः - AK.03.03.197
मलोऽस्त्री—रुगायुधम् । निशिताग्रस्तम्भे लञ्जिकायां च स्त्रीलिङ्गः । ʻकोरुयन्दुन्न्ü । ʻशूला दुष्टवधार्थाय कीलके पण्ययोषिति इति विश्वः (पृ। १५१, श्लो। २७) ॥ शङ्कावपि द्वयोः कीलः । ज्वालायामपि ॥ पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु । स्त्री इति स्त्रीविशेषः । ʻसश्मश्रुयुवतिः पालिः प्रस्थः कर्णलतापि च्ö इति त्रिकाण्डशेषः (पृ। ३४, श्लो। ९५३) ॥ अङ्को नाम चिह्नम् । ʻपालिः कर्णलतायां स्यात् प्रदेशे पङ्क्तिचिह्नयोḵ इत्यजयः ॥ १९७ ॥
[[०३.५०२]]
अक्।०३.०३.१९८अब् कला शिल्पे कालभेदेऽप्याली सख्यावली अपि ।
अक्।०३.०३.१९८च्द् अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥ १९८ ॥
लिङ्ग-सूरी - AK.03.03.198
कलनाविद्ययोः शिल्पे कालभेदांशमात्रयोः ॥ ४३० ॥
चन्द्रस्य षोडशे भागे मूलवृद्धौ वृतौ स्त्रियाम् ।
कला च तालगुरुणि कलं शुक्ले तु न द्वयोः ॥ ४३१ ॥
मधुरास्फुटनिस्वाने जीर्णे कल उदाहृतः ।
कल्यत इति कला । ʻकल शब्दसङ्ख्यानयोḵ ॥
आलिर्वयस्यापङ्क्त्योश्च सेतौ च परिकथ्यते ॥ ४३२ ॥
अल्यत इत्यालिः । ʻअल भूषणपर्याप्तिवारणेष्ü ॥
अब्धितीरे जले काले रागमर्यादयोरपि ।
अक्लिष्टमरणे राजभोजने देवयोषिति ॥ ४३३ ॥
समुद्राम्भोविकारे च वेला समभिधीयते ।
वेलतीति वेला । ʻवेलृ चलने ॥ १९८ ॥
कला शिल्पे कालभेदेऽपि । शिल्पं चतुःषष्टिप्रकारम् । कालभेदः त्रिंशत्काष्ठात्मकः । कल्यत इति कला । ʻकल शब्दसङ्ख्यानयोḵ । पचाद्यच् । शेषे—
ʻअंशमात्रे मूलवृद्धौ सुषमाविद्ययोः कला ।
अष्टात्रिंशन्निवृत्त्याद्ये गुरुणि स्त्रीरजस्यपि ॥
कलं शुक्रे वाच्यलिङ्गमव्यक्तमधुरस्वनü ॥
इति । अंशमात्रे एकदेशमात्रे । यथा—विकलः, सकलः इति । ʻकला तु षोडशो भागḵ इति तु गतम् (१, पृ। ६०) । मूलस्योत्तमर्णप्रयुक्तस्य अधमर्णेन नियतकाले दीयमानायां वृद्धौ कलना सङ्ख्यानं मूलवृद्धिः । यथा—ʻप्रतिकलं कलादाने द्विगुणादधिकं धनम् इति । सुषमायां यथा—मुखे कलातिशय इति । विद्यामात्रे यथा—न्यायकलानिधिरिति । निवृत्तिः प्रतिष्ठा इत्यद्याः पञ्च कलाः, शिवादिक्षित्यन्ताः अष्टात्रिंशत्कलाः, अमृता मानदा इत्याद्याः चतुर्नवतिकला आगमशास्त्रप्रसिद्धाः । यथा—अष्टात्रिंशत्कलान्यासः, चतुर्नवतिकलान्यास इति । गुरुणि यथा—अक्षरपाठेषु चच्चत्पुटादिषु आवापनिक्षेपनिष्क्रामप्रवेशनिःशब्दाः क्रिया अपि सङ्गीतशास्त्रे प्रसिद्धाः । एताः कलाशब्देन व्यवह्रियन्ते । यथा—चच्चत्पुटादिषु यथाक्षरतालेषु द्विमात्रमेकं गुरुकला इत्यादि । स्त्रिसम्बन्धिनि रजस्यार्तवे यथा—ʻनिष्कला विगतार्तव्ȫ इति (१, पृ। ३७४) । शुक्रे यथा—शुक्रं कलं गर्भाशयगतं रेतः । तत्र रूपभेदाद् नपुंसकलिङ्गः । अजीर्णे अपक्वे, अव्यक्तमधुरध्वनौ च वाच्यलिङ्गः । अव्यक्तमधुरध्वनौ च गतम् (१, पृ। १२१) ॥ आलिः सख्यावली अपि । सखी वयस्या । आवलिः पङ्क्तिः । ʻसेतुरालü इति गतम् (१, पृ। १९२) । अनर्थेऽप्यालिरिति स्वामी (पृ। ३१८) ॥ अब्ध्यम्बु—मर्यादयोरपि । चन्द्रोदयादिनिमित्तकृतः समुद्रसलिलोच्छ्वासोऽब्ध्यम्बुविकृतिः । कालोऽवसरः । मर्यादा सीमा । वेलत्यत्र जलं चलति वेल्यते वा । ʻवेलु चलने । ʻगुरोश्च हलḵ (३। ३। १०३) इत्यकारप्रत्ययः । शेषे—
ʻवेला त्वीश्वरभोजने ।
बुधस्त्रियां सीम्नि चापि रागे सुखमृतावपि ॥
इति । समुद्रतीरं बुधाख्यग्रहस्य स्त्री च वेला । नानार्थसङ्ग्रहेऽपि—
ʻवेला काले च जलधेस्तीरनीरविकारयोः ।
अक्लिष्टमरणे रागे सीम्नि वारि बुधस्त्रियाम् ॥
इति ॥ १९८ ॥
मल्लि-नाथः - AK.03.03.198
कला शिल्पे कालभेदेऽपि । चन्द्रांशेऽपि स्यात् ॥ आलिः—कालमर्यादयोरपि । अब्ध्यम्बुविकृतिः अब्धिवृद्धिः । कालो घटिकादिः । मरणविशेषेऽपि स्यात् । ʻईश्वराणां भोजनेऽक्लिष्टमरणेऽब्धिकूले च वेल्ȫ इति सुभूतिटीका । मर्यादा सीमा ॥ १९८ ॥
[[०३.५०४]]
अक्।०३.०३.१९९अब् बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु ।
अक्।०३.०३.१९९च्द् लीला विलासक्रिययोरुपला शर्करापि च ॥ १९९ ॥
लिङ्ग-सूरी - AK.03.03.199
अग्नौ सिते कृष्णपक्षेऽर्जुने बहुलो भवेत् ॥ ४३४ ॥
हृदये बहुलं नील्यामेलायां कृत्तिकासु च ।
सौरभेयीषु च तथा बहुलाः परिकीर्तिताः ॥ ४३५ ॥
बहु लातीति बहुला ॥
लीला विलासक्रिययोर्भंवेदिष्टजनाकृतौ ।
ललनं लीला । ʻलीङ् श्लेषणे ॥
उपला शर्करायां च मणौ ग्राव्ण्युपलो भवेत् ॥ ४३६ ॥
उपलायतेऽस्मिन्नित्युपला । ʻला आदाने ॥ १९९ ॥
बहुलाः—शितौ त्रिषु । बह्वीरधिष्ठानतारे लात्यादत्त इति बहुलाः कृत्तिकानक्षत्रविशेषाः । तत्र स्त्रीलिङ्गो बहुवचनान्तश्च । गोवाचकेऽपि स्त्रीलिङ्ग एव । बहु हव्यं लातीति बहुलोऽग्निः । शितौ कृष्णवर्णे वाच्यलिङ्गः शेषे—ʻबहुलौ कृष्णपक्षधनञ्जयौ । क्लीबं हृन्नभसोḵ इति । धनञ्जयोऽर्जुनः । एलायामपि स्त्रीलिङ्गो बहुलाशब्द उक्तः (१, पृ, २८९) । ʻअदभ्रं बहुलम् इति विशेष्यनिघ्ने उक्तः (श्लो। ६३) । ʻबहुलं छन्दसि (२। ४। ३९) इत्यादिपाणिनीयव्यवहारे बहुलशब्दो नपुंसकलिङ्गो विकल्पविशेषः प्रसिद्घः ॥ लीला वीलासक्रिययोः । स्त्रीणां विलासः । शृङ्गारभावचेष्टाविशेषो विलासः । क्रिया कायिकः परिस्पन्दः । यथा—ʻमलयपवनलीलाविलुलितबकुलोद्भावामोदाḵ इति ॥ उपला शर्करापि च । सर्षपमरीचादिप्रायकठिनावयवमिश्रा मृत्तिका शर्करा । उप्यते क्षिप्यते गृहादिष्विति उपला । ʻडुवप् बीजसन्ताने । ʻवृषादिभ्यश्चित् (उ। १। १११) इति कलप्रत्ययः । यजादित्वात् (६। १। १५) सम्प्रसारणम् । शेषे—
ʻअश्मपिण्डोऽश्मरूपा च मृद्विकारश्चैक्षवोऽपि यः ।
तत्रोपला स्त्रियां पुंसि शिलारत्नविशेषयोः ॥
इति । रत्ने यथा—ʻनीलोपलस्यूतविचित्रधातुम् इति माघः (शिशु। ४। १) ॥ १९९ ॥
मल्लि-नाथः - AK.03.03.199
बहुलाः—शितौ त्रिषु । बहुलाः इति कृत्तिकासु नित्यबहुवचनम् । ʻकृत्तिकासु स्त्रियां भूम्नि बहुला बहुला गवि इति रभसः ॥ लीला—शर्करापि च । ʻउपलौ रत्नपाषाणावुपला शर्करापि च्ö इति रुद्रः ॥ १९९ ॥
[[०३.५०५]]
अक्।०३.०३.२००अब् शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः ।
अक्।०३.०३.२००च्द् जालं समूह आनायो गवाक्षक्षारकावपि ॥ २०० ॥
लिङ्ग-सूरी - AK.03.03.200
सलिले शोणिते चापि कीलालं परिकथ्यते ।
कीलान् ज्वालानलति निवारयतीति कीलालम् । ʻअल निवारणे ॥
आद्ये शिफायां नक्षत्रे मूलं कुञ्जसमीपयोः ॥ ४३७ ॥
मूल्यतेऽनेनेति मूलम् । ʻमूल प्रतिष्ठायाम् ॥
गवाक्षव्यूहयोर्दम्भे क्षारकानाययोरपि ।
नीपेन्द्रजालयोर्जालं कोशातक्यां स्त्रियां भवेत् ॥ ४३८ ॥
जालवत् गवाक्षवत् तिष्ठतीति जालम् । जले क्षिप्यत इति वा ॥ २०० ॥
शोणितेऽम्भसि कीलालम् । कील्यते मांसेन बध्यते, कीलेन अल्यते त्वचा वार्यत इति वा कीलालं शोणितम् । ʻकील बन्धने । ʻअल भूषणादü । अम्भसि व्युत्पादितम् (१, पृ। १५७) ॥ मूलमाद्यं शिफाभयोः । शिफा वृक्षमूलम् । भं नक्षत्रं, ज्येष्ठानक्षत्रानन्तरम् । मूलति प्रतितिष्ठतीति मूलम् । ʻमूल प्रतिष्ठायाम् । कप्रत्ययः (३। १। १३५) । शेषे—ʻमूलमन्तिककुञ्जयोḵ । अन्तिके समीपे यथा—वृक्षमूलमुपसर्पति ॥ जालं—क्षारकावपि । आनायो मत्स्यादिनिरोधनभूतरज्जुवितानविशेषः । अप्राप्तमुकुलावस्थः कुसुमाङ्कुरः क्षारकः । शेषे—
ʻपुमान् नीपद्रुमे जालो जाली कोशातकी भवेत् ।
दम्भेन्द्रजालयोः क्लीबम् ॥
इति । दम्भः कुहना । इन्द्रजालं नाम असदर्थप्रकाशनसमर्थो मन्त्रौषधादिप्रयोगः । विश्वप्रकाशेऽपि—ʻजालं गवाक्ष आनाये कोरके दम्भवृन्दयोḵ इति (पृ। १५०, श्लो। १८) । वृन्दे यथा—मेघजालं शब्दजालमिति ॥ २०० ॥
मल्लि-नाथः - AK.03.03.200
शोणिते—शिफाभयोः । आद्यार्थे—अधिकं वृक्षमूले तिष्ठति पथिकः । शिफार्थे—वृक्षमूलमुत्खनति । समीपार्थेऽपि स्यात् । वृक्षमूले गच्छति सेना ॥ जालं—क्षारकावपि । कपटेऽपि स्यात् । ʻजालं तु कपटेऽप्युक्तम् इति हलायुधः (अ। मा। ५। ९८) ॥ २०० ॥
[[०३.५०७]]
अक्।०३.०३.२०१अब् शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् ।
अक्।०३.०३.२०१च्द् छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना ॥ २०१ ॥
लिङ्ग-सूरी - AK.03.03.201
सद्वर्तने स्वभावे च शीलशब्दः प्रकीर्तितः ।
शील्यतेऽनेनेति शीलम् । ʻशील समाधü ॥
तक्कोले फलके मुष्टौ लाभमुक्ताप्रियङ्गुषु ॥ ४३९ ॥
जातीफले धान्यकणे वार्क्षबाणाग्रयोरपि ।
त्रिफलायां हेतुकृते सस्ये च फलमुच्यते ॥ ४४० ॥
फलतीति फलम् । ʻफल निप्पत्तü ॥
समूहे नेत्ररोगे च तिलके च परिच्छदे ।
आच्छादने गृहस्यापि पटलं परिकीर्तितम् ॥ ४४१ ॥
पटं विस्तारं लातीति पटलम् । ʻला आदाने ॥ २०१ ॥
शीलं स्वभावे सद्वृत्ते । शील्यते समाधीयत इति शीलम् । ʻशील समाधü । यावद्द्रव्यभावी धर्म इत्यर्थः । यथा—निद्राशीलः, दूषणशीलः इति । सद्वृत्ते यथा—शीलवान् पुत्र इति ॥ सस्ये हेतुकृते फलम् । सस्ये यथा—ʻओषध्यः फलपाकान्ताḵ (१, पृ। २१८; म। स्मृ। १। ४६) । हेतुना कारणेन कृते प्राप्ते यथा—यागस्य स्वर्गः फलम् । दुष्कृतस्य नरकः फलम् इति । शेषे—
ʻफलं जातीफले मुष्टौ मुक्ताधान्यकणेषु च ।
बाणाग्रवार्क्षत्रिफले तक्कोले तिलकेऽपि च ॥
इति । मुष्टिः सङ्ग्राहः । मुक्ता मौक्तिकम् । धान्यकणाः तण्डुलशकलाः । यथा—ʻसुफलीकृतान् जुहोति इति । बाणाग्रादीनां त्रयाणां द्वन्द्वैकवद्भावः । वृक्षस्य सम्बन्धि वार्क्षम्, सहकारदाडिमफलादि । फलकं चर्मदारुपट्टिकादि । ʻप्रियङ्गुः फलिनी फली इति गतम् (१, पृ। २४७) । ʻफलं फाले धने बीजे निष्पत्तौ भोगलाभयोḵ इति केशवस्वामी (ना। सं। पृ। ११३, श्लो। ८२५) । फलति निष्पद्यत इति फलम् । ʻफल निष्पत्तü ॥ छदिर्नेत्ररुजोः—पटलं न ना । पटं विस्तारं लातीति पटलम् । छदिः तृणादिनिर्मितं गृहाच्छादनम् । नेत्ररोगः पटलाख्यः नेत्रगोलकयोस्तिरोधायकः सूक्ष्मः श्लेष्मादिधातुविकारः । पटसादृश्यात् पट इत्युच्यते । तं लातीति पटलम् । यथा—ʻतिमिरं काचतां याति पटले तदुपेक्षय्ȫ इति । समूहवचनत्वे तु स्त्रीनपुंसकोभयलिङ्गः । स्त्रियां तु गौरादिङीषि (४। १। ४१) पटली । शेषे—ʻतिलके च परिच्छदे । पटलः । इति । परिच्छदे यथा—भूषापटलिकाहस्त इति ॥ २०१ ॥
मल्लि-नाथः - AK.03.03.201
शीलं—फलम् । हेतुकृतं शास्त्रफलं विनय इत्यादिस्वरूपहेतुदर्शनसमुत्थम् ।
ʻफलं हेतुसमुत्थे स्यात् फलके व्युष्टिलाभयोः
जातीफलेऽपि तक्कोले सस्यबाणाग्रयोरपि ॥
इति विश्वः (पृ। १४१, श्लो। २-३) छदिर्नेत्ररुजोः—पटलं न ना । पटलं पटली वा ॥ २०१ ॥
[[०३.५०८]]
अक्।०३.०३.२०२अब् अधःस्वरूपयोरस्त्री तलं । स्याच्चामिषे पलम्
अक्।०३.०३.२०२च्द् और्वानलेऽपि पातालं चेलं वस्त्रेऽधमे त्रिषु ॥ २०२ ॥
लिङ्ग-सूरी - AK.03.03.202
स्वरूपाधरयोश्चैव पृष्ठे ज्याघातवारणे ।
तलं चपेटे तालादौ वितस्तौ खङ्गमुष्टिके ॥ ४४२ ॥
तलति प्रतितिष्ठतीति तलम् । ʻतल प्रतिष्ठायाम् ॥
मांसे कर्षचतुष्के च पलं तु परिकीर्तितम् ।
पलतीति पलम् । ʻपल गतü ॥
अधोलोके बाडवाग्नौ पातालं परिकीर्तितम् ॥ ४४३ ॥
पतन्त्यस्मिन् पापदिति पातालम् ॥
चेलं वस्त्रे न ना प्रोक्तं गर्हिते नीचतुच्छयोः ।
चिल्तयेतद् वस्त इति चेलम् । ʻचिल वसने ॥ २०२ ॥
अधःस्वरूपयोरस्त्री तलम् । तलति प्रतितिष्ठतीति तलम् । ʻतल प्रतिष्ठायाम् । अधोदेशे—पादतलम् । स्वरूपे यथा—करतलम् । ʻतले ज्याघातवारणे इति गतम् (१, पृ। ५३३) । शेषे—
ʻखड्गमुष्टिचपेटयोः ।
पृष्ठे क्लीबं तालतरौ वितस्तौ च पुमान् भवेत् ॥
इति । चपेटे—तलप्रहारः । पृष्ठे यथा—ʻसङ्कोचिताङ्गनिचयोऽपि पराङ्मुखोऽपि धत्ते तलेन धरणीं कमठः पुराणḵ इति ॥ स्याच्चामिषे पलम् । आमिषे मांसे । पलति रक्षतीति पलम् । ʻपल रक्षणे । ʻपलं कर्षचतुष्टयम् इति गतम् (१, पृ। ६०५) । ʻपलमुन्मानमांसयोḵ इति रुद्रश्च ॥ और्वानलेऽपि पातालम् । उदकस्य पातं पतनमालातीति पातालम् । और्वानलो बडबाग्निः । अपिशब्दाद् अधोभुवने ॥ चेलं वस्त्रेऽधमे त्रिषु । अधमो नीचो गर्हितश्च । तथा च विश्वप्रकाशे—ʻचेलो नीचेऽन्यवच्चेलमंशुके गर्हितेऽन्यवत् इति (पृ। १५०, श्लो। २२) । ʻन पुंसि वसने चेलं गर्हिताधमयोस्त्रिष्ü इति रुद्रश्च । स्त्रियां तु ङीषि चेली ॥ २०२ ॥
मल्लि-नाथः - AK.03.03.202
अधःस्वरूपयोरस्त्री तलम् । अधोऽर्थे—वृक्षस्य तलम् । स्वरूपार्थे—नभस्तलम् । स्याच्चामिषे पलम् । उन्मानविशेषेऽपि स्यात् ॥ और्वानलेऽपि पातालम् । रसातलेऽपि स्यात् । चेलं वस्त्रेऽधमे त्रिषु । अधमे—चेलोऽयम्, चेलीयम् ॥ २०२ ॥
[[०३.५१०]]
अक्।०३.०३.२०३अब् कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ।
अक्।०३.०३.२०३च्द् निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः ॥ २०३ ॥
लिङ्ग-सूरी - AK.03.03.203
कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥ ४४४ ॥
कुत्सितं कूलं कुकूलम् ॥
केवलं निश्चिते कृत्स्नेऽप्यसहायेऽपि च त्रिषु ।
केवलमिति मान्तमव्ययम् ॥ २०३ ॥
कुकूलं—तुषानले । दुर्गसमीपे प्रतिपक्षसेनासञ्चारपरिहारार्थं कृतैः तीक्ष्णलोहादिशङ्कुभिर्व्याप्तमहागर्ते नपुंसकलिङ्गः कुकूलशब्दो वर्तते । तुषाग्नौ तु पुंलिङ्गः । तुष्प्रवेशत्वेन कुत्सितकूलसादृश्यात् कुकूलम् ॥ निर्णीते—त्वेककृत्स्नयोः । निर्णीते प्रमाणेनावधारिते केवलं नपुंसकलिङ्गमिति सुभूतिचन्द्रः । सुबोधिनीकारस्त्वाह—इतिशब्देन रूपान्तरनिराकरणादव्ययत्वम् । यथा—केवलमयं मूर्ख इति । दक्षिणावर्तनाथस्तु—ʻददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् इति श्लोकव्याख्याने (कु। सं। ४। ३) केवलं शुद्धमिति व्याख्याय तत्संवादत्वेन ʻनिर्णिक्ते केवलम् इत्यमरसिंहाभिधानदर्शिते निर्णिक्तं शोधितं वचनमुदाजहार । एकस्मिन् अद्वितीये यथा—ʻख्यातः साहित्यविद्यायां केवलः शिङ्गभूपतिḵ इति । यथा वा—ʻपार्थेन केवलेनैते गोग्रहे शत्रवो जिताḵ इति । कृत्स्ने समस्ते यथा—इह ग्रामे केवला भिक्षवः इति । केवतिः सेवार्थो धातुः । ʻवृषादिभ्यश्चित् (उ। १। १११) इति औणादिकः कलप्रत्ययः ॥ २०३ ॥
मल्लि-नाथः - AK.03.03.203
कुकूलं—त्वेककृत्स्नयोः । केवलमिति निर्णीतार्थे नपुंसकम् । ʻमातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् (वै। श। ७) इति ॥ २०३ ॥
[[०३.५११]]
अक्।०३.०३.२०४अब् पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ।
अक्।०३.०३.२०४च्द् प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च ॥ २०४ ॥
लिङ्ग-सूरी - AK.03.03.204
पर्याप्तौ शिक्षिते पुण्ये क्षेमे कुशलमुच्यते ॥ ४४५ ॥
कुत्सितममङ्गल्यं श्यतीति कुशलम् । ʻशो तनूकरणे ॥
अङ्कुरे विद्रुमे वीणादण्डे मूर्खतरेऽपि च ।
सुकेशे च प्रवालं तु पुन्नपुंसकमुच्यते ॥ ४४६ ॥
प्रकृष्टं वलत इति प्रवालम् । ʻवल संवरणे सञ्चरणे च्ö ॥
पीवरे च जडे चैव स्थूलं त्रिष्वभिधीयते ।
स्थूलयत इति स्थूलम् । ʻस्थूल परिबृंहणे ॥ २०४ ॥
पर्याप्तिक्षेम—शिक्षिते त्रिषु । पर्याप्तिः सामर्थ्यम् । कुशलो भारवाहने समर्थ इत्यर्थः । क्षेमे यथा—कुशलं ते ब्रूयात् । पुण्ये यथा—कुशलाचारशील इति । शिक्षिते यथा—कुशलस्तर्कविद्यायामिति । कुशान् लातीति कुशलः । कुशग्रहणस्येव दुष्करस्यापि कर्मणः करणे शक्त इत्यर्थः । कुं श्यति तनूकरोतीति कुशलः । ʻशो तनकरणे । कलप्रत्ययः (उ। १। १११) ॥ प्रवालमङ्कुरेऽप्यस्त्री । अङ्कुरोऽत्र नवकिसलयः । वीणादण्डे विद्रुमे च प्रागुक्तम् (१, पृ। १२५, ६०८) । प्रकृष्टा वालाः केशा अस्येति प्रवालः सुकेशः । वबयोरभेदात् प्रकर्षेण बालोऽपि प्रवालः ॥ त्रिषु स्थूलं जडेऽपि च । जडो मन्दबुद्धिः । स्थूलं ज्ञानमित्येव । यथा—ʻबहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् (शिशु। २। ७८) इति वाच्यलिङ्गः । अपिशब्दात् पीवरे । स्थूलयत इति स्थूलम् । ʻस्थूल परिबृंहणे (३। १। १३४) ॥ २०४ ॥
मल्लि-नाथः - AK.03.03.204
पर्याप्तिक्षेम—शिक्षिते त्रिषु । कुशलमिति सामर्थ्यमङ्गलमिति नपुंसकम् ॥ प्रवालमङ्कुरेऽप्यस्त्री । अङ्कुरे नवपल्लवे । वीणादण्डविद्रुमयोरपि स्यात् ॥ त्रिषु स्थूलं जडेऽपि च । जडे निर्बुद्धौ । पीवरेऽपि स्यात् ॥ २०४ ॥
[[०३.५१२]]
अक्।०३.०३.२०५अब् करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः ।
अक्।०३.०३.२०५च्द् मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः ॥ २०५ ॥
इति लान्तवर्गः
लिङ्ग-सूरी - AK.03.03.205
करालो दन्तुरे जिह्मे तुङ्गभीषणयोरपि ॥ ४४७ ॥
करोति भयमिति करालः ॥
रुचिरे कोकिले दक्षे मृदौ शीतांशुशेखरे ।
मुसले चापि कथितः पेशलः पूर्वसूरिभिः ॥ ४४८ ॥
पिशतीति पेशलः । ʻपिश अवयवे ॥
मूर्खे केशेऽर्भके पुच्छे ह्रीबेरे बाल उच्यते ।
बलत्यनेनेति बालः । ʻबल प्राणने ॥
तृष्णायुक्ते चञ्चले च लोलस्तु परिकथ्यते ॥ ४४९ ॥
लोडतीति लोलः । ʻलुड विलोडने ॥ २०५ ॥
इति लान्तवर्गः
करालो दन्तुरे तुङ्गे । अत्रापि त्रिष्वित्यनुवर्तते । दन्तुरः उन्नतदन्तः। करोति भयमिति करालम् । कृणोतीति वा । ʻकृञ् हिंसायाम् । शेषे—ʻकशेरुणि करालं नप् भीषणे वाच्यलिङ्गकḵ इति ॥ चारौ दक्षे च पेशलः । पिशति अवयवव्यापारं करोतीति पेशलः । ʻपिश अवयवक्रियायाम् इति निष्कृष्टो धातुः । शेषे—ʻपेशलो मृदुले प्रोक्तो मुसले कोकिले हरे इति ॥ मूर्खेऽर्भकेऽपि बालः स्यात् । मूर्खो दुराग्रहयुक्तः । वल्यतेऽज्ञानेन संव्रियत इति बालः । ʻवल संवरणे अत्र सर्वधरः—
बालोऽज्ञेऽश्वेभपुच्छयोः ।
शिशौ ह्रीबेरकचयोर्बाला तु त्रुटियोषितोः ।
बाली भूषान्तरे मेधौ ॥
इति । अश्वपुच्छमिभपुच्छं चेति द्वन्द्वसमासार्थः । त्रुटिः सूक्ष्मेला । मेधिः खले दारु ॥ लोलश्चलसतृष्णयोः । चलः चञ्चलः । सतृष्णः साभिलाषः । लोलतीति लोलः । ʻलुल विलोडने । त्रिष्विति पदस्यानुवृत्तेः वाच्यलिङ्गः ॥ २०५ ॥
इति लान्तवर्गः
मल्लि-नाथः - AK.03.03.205
करालो—लोलश्चलसतृष्णयोः । त्रिष्वित्यधिकारनियमात् जिह्वालक्ष्म्योर्नोक्तम् । ʻलोला जिह्वाकमलयोर्लोलश्चलसतृष्णयोḵ इति विश्वः (पृ। १५२, श्लो। ४४) ॥ अनुक्तम्—
धूमेऽपि कन्दरालः स्याद् गण्डशैलोऽलिकेऽपि च ।
जम्बालः शैवलेऽपि स्यात् पञ्चालः स्याज्जनेऽपि च ॥
हालाहलोऽश्वलालायामप्यरालो गजेऽपि च ।
सिनीवाली भवान्यामप्याभीली दारुणेऽपि च ॥
वृषली कन्यका वन्ध्या म्रियमाणसुतापि च ।
पल्ली कुटीग्रामटयोर्वल्लः सूरण आर्द्रके ॥
हस्तिमल्लो गणपतौ महेन्द्रस्य च कुञ्जरे ।
ध्वनिनाला तु वीणायां वेणुकाहलयोरपि ॥
स्यात्तु वायुफलं शक्रकार्मुके करकोपले ।
यज्वालः (?) कल्यपालश्च द्वाविमावासुतीवलौ ॥
भस्मतूलमवश्यायः पांसुवर्षमिति द्वयम् ॥ २०५ ॥
इति लान्तवर्गः
[[०३.५१४]]
अथ वान्तशब्दाः—
अक्।०३.०३.२०६अब् दवदावौ वनारण्यवह्नी जन्महरौ भवौ ।
अक्।०३.०३.२०६च्द् मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः ॥ २०६ ॥
लिङ्ग-सूरी - AK.03.03.206
वने वनोत्थदहने दवो दावश्च कीर्तितौ ।
दुनोति दूयतेऽनेन वा दवः दावश्च । ʻटुदु उपतापे ॥
हरे जन्मनि संसारे सत्तायां प्राप्तिभावयोः ॥ ४५० ॥
उपादानश्रेयसोश्चाप्यवकल्कनभस्मयोः ।
अनुकल्के विकल्के च भवशब्द उदाहृत् ॥ ४५१ ॥
भवत्यस्मादिति भवः । ʻभू सत्तायाम् । ʻभुव अवकल्कने ॥
सहाये च प्रधाने च सचिवः परिकीर्तितः ।
सचते समवैतीति सचिवः । ʻषच समवाये ॥
धूर्ते प्रेतनरे वृक्षे धवः पत्यौ नरे भवेत् ॥ ४५२ ॥
धूयत इति धवः । ʻधूञ् कम्पने ॥ २०६ ॥
दवदावौ वनारण्यवह्नी । शब्दद्वयमत्र प्रतिपाद्यम् । वनं विपिनम्, अरण्यस्य वह्निश्च दवशब्दस्य दावशब्दस्य च प्रत्येकं द्वावर्थौ । दूयतेऽनेन दवः । ʻऋॠदोरप् (३। ३। ५७) । दुनोतीति दावः । ʻदुन्योरनुपसर्गे (३। १। १४२) इति णः ॥ जन्महरौ—भवौ । ऋदोरबिति (३। ३। ५७) भावार्थे भवतेरप् प्रत्यये भव उत्पत्तिः । भवत्यस्मात् सर्वमित्यपादाने भवो हरः ईश्वरः । शेषे—ʻसत्तासंसारकल्याणप्राप्त्युपादानभस्मसु । भवḵ इति ॥ मन्त्री सहायसचिवौ । बुद्धिकुशलोऽमात्यो मन्त्री । कृष्यादिकर्मस्वनुग्राहकः सहायः । सचते समवैतीति सचिवः । ʻषच समवाये ॥ पतिशाखिनरा धवाः । पतिर्भर्ता । शाखी वृक्षविशेषः । ʻधूञ् कम्पने । कर्तरि पचाद्यच् (३। १। १३४) । धवः कर्मणि वा । ʻऋदोरप् (३। ३। ५७) । शेषे—ʻधवस्तु धूतौ स्याद् धूतिर्धुननम् इति ॥ २०६ ॥
मल्लि-नाथः - AK.03.03.206
दवदावौ वनारण्यवगह्नी । दवौ च तौ दावौ च दवदावौ इति विशेषणसमासः ॥ जन्महरौ भवौ । जन्ममात्रं च जन्मबन्धश्च जन्म । ʻभवः संसारसम्प्राप्तिश्रेयःशङ्करजन्मस्ü इति विश्वः (पृ। १६२, श्लो २) ॥ मन्त्री—धवाः ॥ २०६ ॥
[[०३.५१५]]
अक्।०३.०३.२०७अब् अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः ।
अक्।०३.०३.२०७च्द् भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ २०७ ॥
लिङ्ग-सूरी - AK.03.03.207
पर्वते तीक्ष्णरश्मौ चाप्यात्रेय्यामाखुकम्बले ।
मेषाख्यपशुभेदे चाप्यविस्तु समुदाहृतः ॥ ४५३ ॥
अवतीत्यविः । ʻअव रक्षणे ॥
शासनाह्वानयोश्चापि सप्ततन्तौ हवो भवेत् ।
हूयतेऽस्मिन्निति हवः । ʻहू दानादानयोḵ ॥
सत्तास्वभावयोर्योनावभिप्रायात्मजन्तुषु ॥ ४५४ ॥
चेष्टाक्रियापदार्थेषु लीलाविभवभूतिषु ।
विकल्पनादौ सामर्थ्ये कान्तिनक्षत्रपालयोः ॥ ४५५ ॥
सात्त्विकादौ रतौ वेगे भावो जन्मनि च स्मृतः ।
भवतीति भावः । भा अवतीति वा भावः ʻअव रक्षणे ॥ २०७ ॥
अवयः शैलमेषार्काः । अर्कः सूर्यः । अवति रक्षतीत्यविः । ʻअव रक्षणे (उ। ४। ११९) । शेषे—ʻअविर्मूषिककम्बले इति । आखौ कम्बले चेत्यर्थः । पुष्पवत्यां तु सविसर्जनीय ईकारन्तः प्रागुक्तः (१, पृ। ३७३) ॥ आज्ञाह्वानाध्वरा हवाः । ʻह्वेञ् स्पर्धायाम् शब्दे च्ö इति धातोः ʻभावेऽनुपसर्गस्य्ö (३। ३। ७५) इति ह्वः सम्प्रसारणे अप्प्रत्यये च हवः, आह्वानं च । हूयन्तेऽस्मिन्नाज्यादीनीति हवोऽध्वरो यागः । ʻहु दानादानयोḵ । ʻऋदोरप् (३। ३। ५७) ॥ भावः—चेष्टात्मजन्तुषु । शेषे—
ʻभावो बुधे विभूतौ च योनौ लीलापदार्थयोः ।
रतिवेगे शब्दवृत्तिनिमित्ते रसबन्धिनि ॥
विकल्पनादिषु प्राप्तौ जन्मन्यपि पुमान् भवेत् ।
भावं स्याद् भवसम्बन्धे भं भामवति च त्रिषु ॥
इति । द्रव्यादीनामस्तित्वं सत्ता । यथा—ʻसर्वत्र सर्वदा भावः कालाकाशदिगात्मनाम् । सत्ताख्या परजातिर्भाव इति तार्किकाणां व्यवहारः । स्वभावो यावद्द्रव्यभावी धर्मः । यथा—ʻभावानुरक्तवनितासुरतैःशपेयम् इति (घटकर्पर २२) । अभिप्रायः तात्पर्यम् । यथा—अस्य श्लोकस्यायं भाव इति । चेष्टा नाम धात्वर्थरूपा क्रिया । यथा—ʻधात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते इति । आत्मनि यथा—ʻस्वं भावं भावयेद् योगी इति । आत्मानं भावयेदित्यर्थः । जन्तुषु यथा वनधर्मे—ʻशक्त्या कालभवैर्द्रव्यैः सर्वभावानुपालनम् इति । बुधे यथा—ʻभावो विद्वान् इति प्रागुक्तम् (१। पृ। १२८) । ʻसौगतजरत्प्रव्राजिकायाः कामं प्रथमां भूमिकां भाव एकोऽधीते इति । विभूतौ यथा—ʻअनित्या हि यतो भावास्ततो धर्मे मतिं कुर्ü इति । योनौ यथा—ʻस्त्रीभावे व्रणवत्क्लिन्ने यस्येच्छा कृमिरेव सḵ इति । लीलायां यथा—भावावेदितमान्मथेति । पदार्थमात्रे यथा—द्रव्यादयः षडेव भावा इति । ʻभावत्वाधिष्ठिताः सर्वाः प्रत्येकं व्यक्तयो मताḵ इति च । रतिवेगे यथा—ʻभावसाध्यं द्वयोः कुर्यात् क्रोधहर्षकथान्तरैḵ इति नैषधकाव्ये । शब्दप्रवृत्तिनिमित्ते यथा—ʻतस्य भावस्त्वतलü (५। १। ११९) । रसबन्धिनि रसनिष्पादके यथा—स्थायिभावाः, सात्त्विकभावाः, व्यभिचारिभावाः इत्यादि । जन्मनि यथा—ʻनासतो विद्यते भावḵ इति (भ। गी। २। १६) । भवस्येदमित्यर्थे भवशब्दाद् अण्प्रत्यये भावम् । भं नक्षत्रम् अवतीति वा भां कान्तिमवतीति वा विवक्षायां भावशब्दस्य विशेष्यानुरोधात् त्रिलिङ्गत्वम् । सत्तादौ क्वचिदर्थविशेषे भवतेर्धातोर्भावार्थे घञि भावः । अन्यत्र ʻविभाषा ग्रहḵ (३। १। १४३) इत्यत्र ʻभवतेश्चेति वक्तव्यम् (वा। ३। १। १४३) इति कर्तरि णप्रत्यये भावः ॥ २०७ ॥
मल्लि-नाथः - AK.03.03.207
अवयः—हवाः । भावः सत्त्वस्वभाव—आत्मजन्मसु । सत्त्वशब्देन सत्ताजन्तू कथितौ । तथा च विश्वप्रकाशे—
ʻभावः स्वभावेऽभिप्राये चेष्टासत्तात्मजन्मसु ।
क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु ॥
इति (पृ। १६३, श्लो। १४) ॥ २०७ ॥
[[०३.५१८]]
अक्।०३.०३.२०८अब् स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने ।
अक्।०३.०३.२०८च्द् अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः ॥ २०८ ॥
लिङ्ग-सूरी - AK.03.03.208
स्यात् फलोत्पादयोः पुष्पे प्रसवो गर्भमोचने ॥ ४५६ ॥
प्रसूयत इति प्रसवः । ʻषूङ् प्राणिप्रसवे ॥
निह्नवोऽपह्नवेऽपि स्यादविश्वासे च कैतवे ।
निह्नूयत इति निह्नवः । ʻहूङ् अपनयने ॥ २०८ ॥
स्यादुत्पादे—गर्भमोचने । गर्भमोचने उत्पद्यत इति उत्पादोऽपत्यम् । ʻपदरुजविशस्पृशो घञ् (३। ३। १६) इति घञ् । यथा—ʻअहो पशूनामपि प्रसववात्सल्यम् इति मुरारिः (अ। रा। २। २२-) । गर्भमोचनं नाम दशममासादौ गर्भनिर्गमनव्यापारः । यथा—प्रसवकाल इति । ʻषूङ् प्राणिप्रसवे इति धातोः कर्मणि भावे च ʻऋदोरप् (३। ३। ५७) इत्यप् प्रत्ययः । अनुज्ञायामपि प्रसवशब्दः । यथा—ʻदेवस्य त्वा सवितुः प्रसवे (तै। सं। १। ८। ७। २) इति ॥ अविश्वासे—निह्नवः । अविश्वासे यथा—ʻशपथं कृतवत्यपि देशे मम चित्तं मुहुरेति निह्नवम् इति । अपह्नवोऽपलापः । यथा—ʻनिह्नवे भावितो दद्यात् इति (या। स्मृ। २। २। ११) । निकृतिः तिरस्कारः । यथा—
ʻस्फुरत्तुषारांशुमरीचिजालैर्विनिह्नुताः स्फाटिकसौधपङक्तीḵ
इति माघकाव्ये (शिशु। ३। ४३) । निकृतिः शाठ्यमिति चन्द्रः । ʻह्नुङ् अपनये इत्यस्माद् धातोर्भावे अप्प्रत्ययः । अपनयोऽपलाप इति धातुवृत्तिः । यत्र क्वचन कृतापह्नवे जायमानत्वाद् अविश्वासोऽपि निह्नव उच्यते ॥ २०८ ॥
मल्लि-नाथः - AK.03.03.208
स्यादुत्पादे—गर्भमोचने । उत्पाद उत्पत्तिः । फलपुष्पे वृक्षविकारौ । गर्भमोचनं प्रसूतिः ॥ अविश्वासे—निह्नवः । ʻविश्वासेऽपह्नवे चैव निकृतावपि निह्नवḵ इत्यमरमाला । ʻनिह्नवस्त्वपलापे स्याद् विश्वासे निकृतावपि इति जयकोशः ॥ २०८ ॥
[[०३.५१९]]
अक्।०३.०३.२०९अब् उत्सेकामर्षयोरिच्छाप्रसवे मह उत्सवः ।
अक्।०३.०३.२०९च्द् अनुभावः प्रभावे च सतां च मतिनिश्चये ॥ २०९ ॥
लिङ्ग-सूरी - AK.03.03.209
उद्रेकेच्छाप्रसवयोरुत्सवो महकोपयोः ॥ ४५७ ॥
उत्सूयतेऽस्मिन्नित्युत्सवः । ʻषू प्रेरणे ॥
अनुभावस्तु विदुषां मतिनिश्चयनेऽपि च ।
भावबोधकसामर्थ्यभावनेष्वपि कथ्यते ॥ ४५८ ॥
अनुभावयतीत्यनुभावः । ʻभुव अवकल्कने ॥ २०९ ॥
उत्सेकामर्ष—मह उत्सवः । उत्सेक उद्रेकः । इच्छाप्रसव इच्छाया उत्पत्तिः । मह इति सप्तमी, उद्धर्षे इत्यर्थः । ʻषू प्रेरणे, ʻषु प्रसवैश्वर्ययोḵ इति धातुभ्यां कर्मणि ʻऋदोरप् (३। ३। ५७) इत्यप्प्रत्यये उत्सवः । पचाद्यच् (३। १। १३४) वा ॥ अनुभावः—मतिनिश्चये । प्रभावे सामर्थ्ये यथा—महानुभावः । महापुरुषनिश्चये यथा—अनुभावविदितोऽयमर्थः । ʻअनुभावो भाववोधकḵ इति गतम् (१, पृ। १३३) । ʻभवतेश्चेति वक्तव्यम् (वा। ३। १। १४३) इति कर्तरि णप्रत्ययः । ʻश्रिणीभुवोऽनुपसर्गे (३। ३। २४) इत्यनुपसर्गादेव घञ्प्रत्ययो विहितः । तथापि ʻकृत्यल्युटो बहुलम् (३। ३। ११३) इति बहुलग्रहणात् सोपसर्गादपि घञ् प्रत्ययः ॥ २०९ ॥
मल्लि-नाथः - AK.03.03.209
उत्सेक—मह उत्सवः । उत्सेको गर्वः । अमर्षोऽक्षमा । इच्छाप्रसर इच्छाप्रवृत्तिः । महो विवाहादिः । अनुभावः—मतिनिश्चये । मतिनिश्चयोऽभिप्रपायनिर्णयः ॥ २०९ ॥
[[०३.५२०]]
अक्।०३.०३.२१०अब् स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ।
अक्।०३.०३.२१०च्द् शूद्रायां विप्रतनये शस्त्रे पारशवो मतः ॥ २१० ॥
लिङ्ग-सूरी - AK.03.03.210
प्रभवो जन्महेतौ च स्थाने चाद्योपलब्धये ।
प्रभवतीति प्रभवः । ʻभू सत्तायाम् ॥ २१० ॥
स्याज्जन्महेतुः—आद्योपलब्धये । जन्मकारणे यथा—ʻक्व सूर्यप्रभवो वंशḵ इति (रघु। १। २) । अन्यत्रोत्पन्नस्य प्रथमाविर्भावप्रदेशे यथा—प्रभवो हिमवान् गङ्गायाः इति । प्रभवति जायतेऽस्मादिति प्रभवः । अपादाने अप्प्रत्ययः ॥ २१० ॥
मल्लि-नाथः - AK.03.03.210
स्याज्जन्महेतुः—आद्योपलब्धये । प्रथमोदाहरणम्—अयं हि गङ्गाप्रभवो नगेन्द्रः ॥ शूद्रायां—पारशवो मतः । परस्त्रीतनयेऽपि स्यात् । ʻभवेत् पारशवः पारस्त्रैणे शूद्रासुतेऽपि च्ö इति विश्वः (पृ। १६६, श्लो। ५६) ॥ २१० ॥
अक्।०३.०३.२११अब् ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु ।
अक्।०३.०३.२११च्द् स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने ॥ २११ ॥
लिङ्ग-सूरी - AK.03.03.211
नक्षत्रे निश्चिते योगे शाश्वते शïवतर्कयोः ॥ ४५९ ॥
वने वटे मुनौ शङ्काववधौ निश्चिते ध्रुवः ।
मूर्वागीत्योः शालपर्ण्यां स्रुग्भेदे च ध्रुवा मताः ॥ ४६० ॥
ध्रुवति स्थिरीभवतीति ध्रुवः । ʻध्रुव गतिस्थैर्ययोḵ ॥
ज्ञातावात्मनि वित्ते च स्वकीये स्वस्त्रिषु स्मृतः ।
स्वकीयत्वात् स्वः ॥ २११ ॥
ध्रुवो भभेदे—शाश्वते त्रिषु । भभेदस्तारकाविशेषः, उत्तानपादस्य पुत्रः । तत्र रूपभेदात् पुंलिङ्गः । निश्चिते तु नपुंसकलिङ्गः । यथा—ʻध्रुवं प्रणाशः प्रहितस्य पत्रिणḵ इति भारविः (किरा। १४। ९) । शाश्वत वाच्यलिङ्गः । यथा—ʻध्रुवा द्यौः ध्रुवा पृथिवी (ऋग्वेद १०। १७३। ४), ध्रुवं विश्वमिदं जगत् इति । ध्रुवतीति ध्रुवः । ʻध्रुव स्थैर्ये । ʻपचाद्यच् (३। १। १३४) । कुटादित्वात् (१। २। १) गुणाभावः । शेषे—
ʻशिवे वसौ वटे योगे ध्रुवः स्त्री गीतिमूर्वयोः ।
ध्रुवं तु निश्चये तर्केऽवधौ ॥
इति । शिवः कीलः । वसौ यथा—
ʻधरो ध्रुवश्च सोमश्चाप्यहश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥
इत्यादिमत्स्यपुराणोक्तानाम् (५। २१) अष्टानां वसूनां मध्ये द्वितीयो वसुः । वटो न्यग्रोधतरुः । योगो विष्कम्भादिषु द्वादशः । गीतौ स्वरतालाश्रयविशेषे यथा—ʻविश्वामित्रस्य प्रावेशिकी ध्रुव्ȫ इति मुरारिः (अ। रा। १। १३-) । तर्क उत्प्रेक्षा । यथा—ʻमन्ये शङ्के ध्रुवं प्रायḵ इति दण्डी (का। आ। २। २३४) । अवधौ यथा—ʻध्रुवमपायेऽपादानम् (१। ४। २४) इति । स्रुग्भेदे स्त्रीलिङ्गे प्रागुक्तः (१, पृ। ४६५) । यथा—ध्रुवायामाज्यम् इति प्रयोगः । विश्वप्राकाशेऽपि—
ʻध्रुवः कीले शिवे शङ्कौ वसौ वटे मुनौ ।
ध्रुवा मूर्वाशालपर्ण्योर्गीतिस्रुग्भेदयोरपि ॥
इति (पृ। १६२, श्लो। ८) । स्वो ज्ञाता—अस्त्रियां धने । स्वशब्दो ज्ञातिवचनः, रूपभेदात् पुंलिङ्गः । आत्मनि तु तत एव नपुंसकलिङ्गः । आत्मीये वाच्यलिङ्गः । धनवचनः पुन्नपुंसकलिङ्गवचन इत्यर्थः । सुबोधिनीकारस्तु—पदस्यैकवाक्ये सत्यपि ज्ञात्यात्मनोर्द्वयोः पुंलिङ्गत्वमभिधाय तत्संवादित्वेन नानार्थरत्नकोशाभिधानमुदाजहार । यथा—ʻज्ञात्यात्मनोः स्वः स्वं स्वोऽर्थः स्वं स्वः स्वात्मीयमात्रकḵ इति । तथा च—ʻलक्ष्मीभृतोऽम्भोधितटाधिवासान् ॥ । बहूकृतान् स्वानिव पश्यति स्म्ö इति स्वशब्दस्यात्मवचनत्वेऽपि पुंलिङ्गप्रयोगो माघकाव्ये दृश्यते (शिशु। ३। ७१) । सुभूतिचन्द्रस्तु—रूपभेदाद् आत्मनि क्लीबमभिधाय तत्र ʻस्वो ज्ञातावात्मनि क्लीबे इति रभसवचनमुदाहृत्य, बोपालितस्तु ʻआत्मन्यपि पुंलिङ्गत्वमाह्ö इति मतान्तरत्वमप्याह । स्यति नाशयति दुःखमिति स्वम्, सिनोति बध्नाति वा । ʻषोऽन्तकर्मणि, ʻषिञ् बन्धने । ʻस्वमज्ञातिधनाख्यायाम् (१। १। ३५) इति निर्देशात् साधुः । अत एव ज्ञातिधनयोर्वृक्षशब्दवद् रूपमुन्नेयम् । अन्यत्र पूर्वशब्दवदिति ॥ २११ ॥
मल्लि-नाथः - AK.03.03.211
ध्रुवो भभेदे—शाश्वते त्रिषु । भभेद औत्तानपादिः । अगभेदे इति पाठे अगभेदे स्थाणुवटौ ॥ स्वो ज्ञातौ—स्वोऽस्त्रियां धने । स्वो ज्ञातौ पुंलिङ्गः । आत्मनि स्वमिति नपुंसकम् । ʻस्वो ज्ञातावात्मनि क्लीबे इति रभसः । अथवा स्वो ज्ञातावात्मनीति उभयत्र पुंलिङ्गः । ʻस्वोऽस्त्री धने त्रिषु स्वीय आत्मनि स्वजने च न्ȫ इति वैजयन्ती । (पृ। २८०, श्लो। ३८) ॥ २११ ॥
[[०३.५२२]]
अक्।०३.०३.२१२अब् स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ।
अक्।०३.०३.२१२च्द् शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः ॥ २१२ ॥
लिङ्ग-सूरी - AK.03.03.212
नीवी कान्ताकठीवस्त्रबन्धे परिपणेऽपि च ॥ ४६१ ॥
नितरां वीयतेऽनयेति नीवी । ʻव्येञ संवरणे ॥
गौरीफेरवयोर्भद्रे मोक्षे वेदे सुखे हरे ।
योगे जले च शम्यां च रेचक्यां गुग्गुलौ तथा ॥ ४६२ ॥
आमलक्यां वालुके च पुण्डरीके शिवस्त्रिषु ।
शेरतेऽस्मिन्निति शिवः । ʻशीङ् स्वप्ने ॥
कलहे व्युत्क्रमे युग्मशिवयोर्विजनेऽपि च ॥ ४६३ ॥
यज्ञपात्रप्रयोगे च समासे द्वन्द्वमुच्यते ।
मिथुनत्वाद् द्वन्द्वम् ॥ २१२ ॥
स्त्रीकटी—परिपणेऽपि च । स्त्रीणां नितम्बदेशस्थस्य वाससः शैथिल्यपरिहारार्थं कृतो ग्रन्थिविशेष इत्यर्थः । नीयते वस्त्रादिदार्ढ्यमनयेति नीवी । ʻनियो विच् । वा ङीषि नीवी स्त्रीकटीवस्त्रबन्धः । परिपणं नाम वणिजामायव्ययशुद्धं मूलधनम् । शेषे—ʻनीवी स्याद् बन्धनागारे इति । अत्र स्त्रीग्रहणं नीवीशब्दस्य स्त्रीलिङ्गत्वप्रतिपादनपरमिति केनचित् कृतं व्याख्यानमनादरणीयम् । ʻनीविराग्रथनं नार्या जघनस्थस्य वाससḵ इति कात्योक्तेः ॥ शिवा गौरीफेरवयोः । सृगालः फेरवः । शेषे—
ʻमोक्षे भद्रे सुखे शिवम् ।
हरे योगान्तरे वेदे वालुके गुग्गुलौ शिवः ॥
पुण्डरीकद्रुमे चाथ शिवा झण्टामलौषधे ।
अभयामलकीगौरीक्रोष्ट्रीसक्तुफलासु च ॥
इति । हरादावर्थषट्के शिवशब्दः पुंलिङ्गः । योगविशेषो विष्कम्भादिषु विंशः । वालुकं हरिवालुकम् । हरीतक्यां सक्तुफलायां च स्त्रीलिङ्गतोक्ता (१, पृ। २५०, २४६) । विश्वप्रकाशेऽपि—
ʻशिवं मोक्षे शुभे भद्रे सलिलेऽथ शिवो हरे ।
वेदे योगान्तरे कीले वालुके गुग्गुलेऽपि च ॥
पुण्डरीकद्रुमे चापि शिवा झण्टामलौषधौ ।
अभयामलकीगौरीक्रोंष्ट्रीसक्तुफलासु च ॥
इति (पृ। १६३, श्लो। १०-११) । द्वन्द्वं कलहयुग्मयोः । द्वयोंरिदमिति द्वन्द्वम् । कलहे यथा—ʻबाहुद्वन्द्वप्रवृत्तयोḵ इति । द्वौ द्वौ इति द्वन्द्वं युग्मं मिथुनम् । यथा—ʻद्वन्द्वानि भावं क्रियया विवव्रुḵ इति (कु। सं। ३। ३५) । ʻद्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिष्ü (८। १। १५) इति सूत्रेण द्विशब्दस्य द्विर्वचनं पूर्वपदस्याम्भावः उत्तरपदस्य अत्वं च निपात्यते । अत्र सूत्रे, अन्यत्रापि द्वन्द्वमिष्यते इत्युक्तत्वात् साधुत्वम् । शेषे—ʻद्वन्द्वं रहस्यमर्यादायज्ञपात्रप्रयोजने इति । यथा—द्वन्द्वं मन्त्रयति । रहस्यं मन्त्रयत इत्यर्थः । मर्यादावचने यथा—ʻआचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते इति । यज्ञपात्रे यथा—ʻद्वन्द्वं यज्ञपात्राणि प्रयुनक्ति इति । व्युत्क्रमणं हि विभेदः पृथगवस्थानम् । यथा—द्वन्द्वं व्युत्क्रान्ता ब्राह्मणा इति । द्विवर्गसम्बन्धेन पृथगवस्थिता इत्यर्थः ॥ २१२ ॥
मल्लि-नाथः - AK.03.03.212
स्त्रीकटी—परिपणेऽपि च । शिवा गौरीफेरवयोः । फेरवे स्त्री ।
ʻशिवा हरीतकी क्रोष्टा शमी नद्यामलक्युमा ।
शिवो घोले पद्मरागे हरे कीले शिवं जले ॥
इति वैजयन्ती (पृ। २३७, श्लो। ८४) ॥ द्वन्द्वं कलहयुग्मयोः । कलहे पुंलिङ्गः । ʻद्वन्द्वो रहस्ये कलहे द्वन्द्वं मिथुनयुग्मयोḵ इति विश्वः (पृ। १६४, श्लो। २१) ॥ २१२ ॥
[[०३.५२५]]
अक्।०३.०३.२१३अब् द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ।
अक्।०३.०३.२१३च्द् क्लीबं नपुंसके षण्ढे वाच्यलिङ्गमविक्रमे ॥ २१३ ॥
इति वान्तवर्गः
लिङ्ग-सूरी - AK.03.03.213
द्रव्ये प्राणे वले जन्तौ व्यवसायस्वभावयोः ॥ ४६४ ॥
गुणे वित्ते सतो भावे सत्त्वं गुणिनि तु त्रिषु ।
सीदतीति सत्त्वम् । ʻषद्लृ विशरणादü । सतो भावो वा सत्त्वम् ॥
क्लीबं तु त्रिषु च प्रोक्तं निष्पराक्रमषण्डयोः ॥ ४६५ ॥
अप्रजत्वेन क्लाम्यतीति क्लीबः । ʻक्लमु ग्लानü ॥ २१३ ॥
इति वान्तवर्गः
द्रव्यासु—अस्त्री तु जन्तुषु । इह द्रव्यशब्देन पारिभाषिकं द्रव्यमाश्रीयते । तथा हि—
ʻवस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ॥
इति । अस्यार्थः—यत्र यस्मिन्नर्थे तदिदमिति सर्वनामद्वयमतीतवर्तमानसम्बन्धवस्तुप्रतिपादकं प्रयुज्यते स कालद्वयसम्बन्धिसिद्धरूपार्थो भेद्यत्वेन विवक्षितः । गुणक्रियसामान्यैर्विशेष्यत्वेन विवक्षितो द्रव्यमित्युच्यते इति । यथा—ʻसत्त्वे निविशतेऽपैति इति । असुषु प्राणेषु यथा—अन्तःसत्त्वः इति । व्यवसाय उत्साहः । यथा—सर्वत्र सत्त्वसम्पन्न इति । द्रव्यादित्रये रूपभेदाद् नपुंसकलिङ्गत्वम् । जन्तुषु प्राणिमात्रे यथा—ʻसर्वसत्त्वहिते रतḵ इति । सीदतीति सत्त्वम् । औणादिकत्वन्प्रत्ययः (उ। ४। १०७) । विश्वप्रकाशे—
ʻसत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः ।
सद्भावे व्यवसाये च चित्ते प्राणेषु शब्द्यते ॥
इति (पृ। १६३, श्लो। १६) । सात्त्विकप्रकृतिरिति सत्त्वाख्ये गुणे । सत्त्वनाथ इति पिशाचादौ । सिंहसत्त्वः इति बले । सतो भावः सद्भावः । शुद्धसत्त्व इति चित्ते ॥ क्लीबं नपुंसके—अविक्रमे । नपुंसके तृतीयप्रकृतौ । षण्डे वर्षवरे । उभयत्र रूपभेदाद् नपुंसकत्वम् । पर्यायप्रस्तावे नपुंसकलिङ्ग उक्तः (१, पृ। ३८४) । अत एवामरमालायाम्—ʻअस्त्री नपुंसके क्लीबम् इत्यभिहितम् । अविक्रमे धैर्यरहिते विशेष्यनिघ्नः । वबयोरेकत्वाभिधानात् काण्डस्थवकारमध्ये क्लीबशब्दोऽप्युक्तः ॥ २१३ ॥
इति वान्तवर्गः
मल्लि-नाथः - AK.03.03.213
द्रव्यासु—अस्त्री तु जन्तुषु । जन्तव इत्यनेन पिशाचादयोऽप्युक्ताः । ʻपिशाचादौ गुणे प्राणिबले जन्तौ च चेतसि इत्यजयः ॥ क्लीबं नपुंसकं—अविक्रमे ॥ अनुक्तम्—
सोमात्मनोरपि च विः जीवः स्यादसुमत्यपि ।
भुवनेऽपि च विश्वं स्यात् पार्श्वोऽस्त्री निकटेऽपि च ॥
निष्पावः शूर्पवातेऽपि सम्भवः संहतावपि ।
एनस्यपि भवेत् किण्वं स्नेहेऽपि स्यादपह्नवः ॥
फेरवो राक्षसेऽपि स्याद् ह्रस्वः स्यादन्तकेऽपि च ।
वडवा घटचेट्यां च याचके च कुशीलवः ॥
कैरवः कितवे पुंसि चन्द्रिकायां तु कैरवी ।
भार्गवी कमलायां स्याद् भार्गवस्तु धनुर्धरे ॥
माधवी शीधुकुट्टन्योर्माधवः स्याद् वसन्तके ॥ २१३ ॥
इति वान्तवर्गः
[[०३.५२७]]
अथ शान्तवर्गः—
अक्।०३.०३.२१४अब् द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ ।
अक्।०३.०३.२१४च्द् द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ ॥ २१४ ॥
लिङ्ग-सूरी - AK.03.03.214
विड् वैश्ये मनुजे विष्ठावेशयोश्च जने भवेत् ।
विशतीति विट् । ʻविश प्रवेशने ॥
स्पशश्चाराभिमरयोः युद्धे च परिकीर्तितः ॥ ४६६ ॥
स्पशतीति स्पशः । ʻस्पश बाधनस्पर्शनयोḵ ॥
मेषादौ धान्यपुञ्जे च राशिशब्दः प्रकीर्तितः ।
रश्यत इति राशिः । ʻरश कान्तü ॥
वेणौ वर्गे कुले वंशः पृष्ठस्यावयवेऽपि च ॥ ४६७ ॥
वन्यत इति वंशः । ʻवन षण सम्भक्तü ॥ २१४ ॥
द्वौ विशौ वैश्यमनुजौ । मनुजो मनुष्यमात्रः । यथा—ʻविशाम्पतिर्विष्टरभाजमारात् इति (रघु। ५। ३) । स्त्रीविवक्षायां तु स्त्रीलिङ्गोवक्ष्यते । प्रवेशमात्रे तु भावे क्विपि स्त्रीलिङ्गः । वर्चस्के प्रागुक्तः (१, पृ। ४०४) ॥ द्वौ चराभिमरौ स्पशौ । चरो गूढपुरुषः । प्राणसंशयावहव्यापारेषु सर्पग्रहणहस्तियोधनादिषु प्रवृत्तः साहसिकोऽभिमर इति सुबोधिनीकारः । अभिमरः सङ्ग्राम इति सुभूतिः । स्पशतीति स्पशः । ʻस्पश बाधनस्पर्शनयोḵ । ʻस्पशः प्रणिधियुद्धयोḵ इति विश्वप्रकाशः (पृ। १६७, श्लो। ३) ॥ द्वौ राशी पुञ्जमेषाद्यौ । संस्थानविशेषविशिष्टो व्रीह्यादिसमूहः पुञ्जः । यथा—धान्यराशिः, तिलराशिः इति । आद्यशब्दन ज्योतिःशास्त्रप्रसिद्धानां वृषभमिथुनादीनां ग्रहणम् ॥ द्वौ वंशौ कुलमस्करौ । कुलं सन्तानम् । मस्करो वेणुः । विश्वप्रकाशे—ʻपृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वंशो वेणौ गणे कुले इति (पृ। १६८, श्लो। १०) ॥ २१४ ॥
मल्लि-नाथः - AK.03.03.214
द्वौ विशौ वैश्यमनुजौ । भूमिस्पृशावपि स्याताम् । ʻभूमिस्पृशौ वैश्यनरü इति वैजयन्ती (पृ। २४४, श्लो। ५९) ॥ द्वौ चराभिमरौ स्पशौ । अभिमरो युद्धम् । ʻस्पशः प्रणिधियुद्धयोḵ इति विश्वः (पृ। १६७, श्लो। ३) ॥ द्वौ राशी—वंशौ कुलमस्करौ । अन्वयश्च समूहश्च कुल स्यात् । ʻवंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणेऽन्वये इति वैजयन्ती (पृ। २१८, श्लो। ५२) ॥ २१४ ॥
[[०३.५२८]]
अक्।०३.०३.२१५अब् रहःप्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः ।
अक्।०३.०३.२१५च्द् कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ २१५ ॥
लिङ्ग-सूरी - AK.03.03.215
रहस्ये च प्रकाशे च वीकाशः परिकीर्तितः ।
विगतः काशः, विशिष्टा दीप्तिरस्येति वा वीकाशः । ʻकाशृ दीप्तü ॥
भृतौ भोगे मूर्च्छने च निर्वेशो वक्ष्यते बुधैः ॥ ४६८ ॥
निर्विश्यत इति निर्वेशः । ʻविश प्रवेशने ॥
कीनाशः क्षुद्रयमयोः कर्षकोपान्तघातिनोः ।
कुत्सितं नाशयतीति कीनाशः । ʻणश अदर्शने ॥ २१५ ॥
रहःप्रकाशौ नीकाशौ । ʻकाशृ दीप्तü इति धातोः कर्मणि घञ् । काशः प्राकट्यम् । नीत्युपसर्गो निषेधार्थत्वेऽपि । नीकाशः प्रकाशः । ʻउपसर्गस्य घञ्यमनुष्ये बहुलम् (६। ३। १२२) इति दीर्घः । समासोत्तरपदत्वे सत्येव सदृशवचनो नीकाशशब्दः प्रागुक्तः (१, पृ। ६४२) ॥ निर्वेशो भृतिभोगयोः । निर्विश्यत इति निर्वेशः । भृतिर्वेतनम् । भोग आभोगः। ʻनिर्विष्टविषयस्नेहḵ इति (रघु। १२। १) ॥ कृतान्ते पुंसि—कर्षकयोस्त्रिषु । कृतान्तो यमः । क्षुद्रः कृपणः । कर्षकः कृषीवलः । की इति निपातः कुत्सितार्थेऽस्तीति भोजदेवेनोक्तमिति सुभोधिनीकारः । कुत्सितं नाशयति प्राणिनः कुटुम्बादिकं वेति कीनाशः । ʻकीनाशः कर्कशे क्षुद्रे कृतान्तोपान्तघातिनोḵ इति विश्वप्रकाशः (पृ। १६९, श्लो। २१) । कीनाशः कर्कशेऽप्याहुः ॥ २१५ ॥
मल्लि-नाथः - AK.03.03.215
रहः प्रकाशौ वीकाशौ । प्रकाशः स्फुटः ॥ निर्वेशो भृतिभोगयोः । भृतिर्नाम वेतनम् ॥ कृतान्ते पुंसि—कर्षकयोस्त्रिषु । क्षुद्रः कदर्यः । ʻकीनाशो रक्षसि यमे कदर्ये कृषके त्रिष्ü इति वैजयन्ती (पृ। २५८, श्लो। २३) ॥ २१५ ॥
[[०३.५२९]]
अक्।०३.०३.२१६अब् पदे लक्ष्ये निमित्तेऽपदेशः स्यात् कुशमप्सु च ।
अक्।०३.०३.२१६च्द् दशावस्थानेकविधाप्याशा तृष्णापि चायता ॥ २१६ ॥
लिङ्ग-सूरी - AK.02.02.216
प्रसिद्धौ लक्ष्यपदयोरपदेशो निमित्तके ॥ ४६९ ॥
अपदिश्यत इत्यपदेशः । ʻदिश अतिसर्जने ॥
जले दर्भे रामसुते द्वीपे पापिष्ठमत्तयोः ।
अयोविकारे योक्त्रे च शङ्कावौदुम्बरे कुशः ॥ ४७० ॥
कौ भुवि शेत इति कुशः । ʻशीङ् स्वप्ने ॥
दशा नानाविधावस्थावर्त्योर्वस्त्राञ्चलेऽपि च ।
दश्यत छिद्यत इति दशा । ʻदंश दशने ॥
स्यादाशाधिकतृष्णायां दिशि व्याप्तौ भुजौ पुमान् ॥ ४७१ ॥
आ समन्तादश्नुत इत्याशा । ʻअशू व्याप्तü ॥ २१६ ॥
पदे लक्ष्ये—अपदेशः स्यात् । अपदिश्यते माथुरः स्रौघ्नः पर्वतीय इति निर्दिश्यते पुरोऽनेनेत्यपदेशः । पदं स्थानम् । यथा—मथुरापदेशाः, स्रुघ्नापदेशाः इत्यादि । यत्किञ्चिदुद्देशेन प्रत्युक्तं लक्ष्यं व्याजः । यथा—ʻरक्षापदेशान्मुनिहोमधेनोḵ इति रघुवंशे (२। ८) । निमित्तशब्दो हेतुवचन इति प्रागुक्तम् (२, पृ। ३२९) । यथा—तार्किकाणां लिङ्गदर्शनरूपे प्रकृतिहेतावपदेश इति व्यवहारो यथा—ʻअप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशḵ (वै। सू। ३। १। १५) इति । ʻअपदिश्यत इत्यपदेशो हेतुḵ इति किरणावलीकारः (पृ। २२८) । अहेतुरनपदेशशब्देनोक्तः । शेषे—ʻप्रसिद्धावपदेशः स्यात् इति । यथा—ʻऔदार्यशौर्यधैर्येषु निःसीमव्यपदेशभाक् इति ॥ कुशमप्सु च । अप्सु जले । कुं भूमिं श्यति नाशयतीति कुशम् । श्यतेः कः (३। २। ४) । चशब्दाद् ʻअस्त्री कुशं कुथो दर्भḵ इति गतम् (१, पृ। ३१८) । शेषे—
ʻद्वीपराजन्ययोः कुशः ।
छन्दोगस्तोत्रगणनाशङ्कावौदुम्बरे तथा ॥
इति । द्वीपे यथा—कुशद्वीपाख्यः । राजन्यः क्षत्रियविशेषो रामसुतः । द्वयो रूपभेदात् पुंलिङ्गः । यज्ञकर्मणि छन्दोगस्तोत्रगणना पञ्चदशसप्तदशादिस्तोत्रेषु सङ्ख्याविशेषप्रतिपत्त्यर्थं कल्पिताः प्रादेशमात्रा आस्तरण्यां निधीयमाना औदुम्बराः शङ्कवः । ते कौ भूमौ शेरते तिर्यङ् निहिता भवन्तीति व्युत्पत्त्या टाबन्तेन कुशाशब्देनोच्यन्ते । अयोविकारे तु जानपदादिसूत्रेण (४। १। ४२) ङीबन्तः कुशीशब्दः प्रागुक्तः (१, पृ। ६१२) । या काचन स्त्रीलिङ्गपदाभिधेया भूमिं नाशयन्ती भवति सापि कुशा । यद्यपि कुशीति भोगशेषे (?) त्रिलिङ्गत्वमनुपदमेवाभिधीयते, तथापि स्त्रियामाबन्तत्वकथनार्थमिहोदाहृतम् ॥ दशावस्थानेकविधापि । बाल्ययौवनादिरूपेणावस्थाया बहुविधत्वं, दशति पूर्वावस्थामिति दशा । ʻदंश दशने । शेषे—ʻदशा प्रदीपवर्तौ स्यात् इति । दीपधारणार्था वर्तिः यथा—ʻदीपो राम इवाभाति विनाशितदशाननḵ इति । वस्त्रस्य दशा इति गतम् (१। पृ। ४३४) ॥ आशा तृष्णापि चायता । आशा अतिमात्रोऽभिलाषः । आशासनम् आशा । ʻशासु अनुशिष्टü । शेषे—ʻआशा व्याप्तौ भुजौ च न्ȫ इति । भुजिर्भोजनम् । यथा—ʻअजीर्णे प्रातराशेऽपि सायमाशो न दुष्यति इति वाग्भटः । दिक्पर्यायेषु गतम् (१, पृ। ५१) ॥ २१६ ॥
मल्लि-नाथः - AK.03.03.216
पदे लक्ष्ये—अपदेशः स्यात् । पदं नाम कपटः । लक्ष्यं व्याजः । कुशमप्सु च । ʻकुशा वल्गा कुशी फालः कुशो दर्भः कुशं जलम् इति शाश्वतः (अने। स। पृ। ३०, श्लो। ३३७) ॥ दशावस्थानेकविधापि । ʻदशा वर्ताववस्थायां वस्त्रान्ते स्युर्दशा अपि इति विश्वप्रकाशिका (पृ। १६८, श्लो। १३) ॥ आशा तृष्णापि चायता । दिगपि स्यात् ॥ २१६ ॥
[[०३.५३१]]
अक्।०३.०३.२१७अब् वशा स्त्री करिणी च स्याद् दृग् ज्ञाने ज्ञातरि त्रिषु ।
अक्।०३.०३.२१७च्द् स्यात् कर्कशः साहसिकः कठोरामसृणावपि ॥ २१७ ॥
अक्।०३.०३.२१८अब् प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः ।
अक्।०३.०३.२१८च्द् कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः ॥ २१८ ॥
इति शान्तवर्गः
लिङ्ग-सूरी - AK.03.03.217-18
प्रमाणायत्ततायां स्यादिच्छाप्राभवयोरपि ।
वन्ध्याकरिण्योर्योषायां स्त्रीगवीसुतयोर्वशा ॥ ४७२ ॥
वष्टि इच्छतीति वशा । ʻवश कान्तü ॥
ज्ञाने ज्ञातरि बुद्धौ च स्त्री नेत्रे दृक् प्रकथ्यते ।
पश्यत्यनयेति दृक् । ʻदृशिर् प्रेक्षणे ॥
कर्कशो निर्दये क्रूर कठोरेक्षावमर्षणे ॥ ४७३ ॥
खड्गे साहसिके कासमर्दकाम्पिल्लयोरपि ।
कृणातीति कर्कशः । ʻकॄ हिंसायाम् ॥
अतिप्रसिद्धे द्योतेऽपि प्रकाशः काशवत्यपि ॥ ४७४ ॥
प्रकाशत इति प्रकाशः । ʻकाशृ दीप्तü ॥
अज्ञबालकयोश्चापि बालिशः परिकीर्तितः ।
बालते आप्लावत इति बालिशः । ʻबाडृ आप्लाव्ये ॥
कृपाणे च नृशंसे च निस्त्रिंशः परिकथ्यते ॥ ४७५ ॥
निष्क्रान्तस्त्रिंशदङ्गुलिभ्य इति निस्त्रिंशः ॥
आयुधे बन्धने चापि पाशो रज्जौ प्रकीर्तितः ।
पाश्यत इति पाशः । ʻपश बन्धे ॥
कोशः खड्गपिधाने स्याद् मुकुलेऽर्थौघदिव्ययोः ॥ ४७६ ॥
कूयते स्तूयत इति कोशः । ʻकु शब्दे ॥ २१७-१८ ॥
इति शान्तवर्गः
वशा स्त्री करिणी वन्ध्या । स्त्री मानुषी । वन्ध्या या काचित् [अनपत्या] । वष्टि इच्छतीति वशा । ʻवश कान्तü । कान्तिरिच्छेति धातुवृत्तौ । शेषे—
ʻप्रभुत्वेच्छायत्ततासु वशो ना त्रिषु तद्वति ।
स्त्रीगवीसुतयोः स्त्री स्यात् ॥
इति । प्रभुत्वे यथा‒स्ववशः, स्वप्राधान्यवानित्यर्थः । तद्वति प्रभुत्वादिधर्मयुक्ते विशेष्यनिघ्नः । सुता दुहिता । तथा च वैजयन्त्याम्—ʻवशा करिण्यां वन्ध्यायां रामायां दुहितर्यपि इति (पृ। २३५, श्लो। ७१) ॥ दृग्ज्ञाने ज्ञातरि त्रिषु । ʻदृशिर् प्रेक्षणे इत्यस्माद्धातोः सम्पदादित्वात् (वा। ३। ३। ९४) क्विपि दृक्शब्दो ज्ञानवचनः स्त्रीलिङ्गश्च । ʻक्विप् च्ö (३। २। ७६) इति कर्तरि क्विपि दृक् ज्ञाता । तत्र विशेष्यलिङ्गः विचक्षणे । नयने च स्त्रीलिङ्गः प्रागुक्तः (१, पृ। ४२१) । ʻक्विन्-प्रत्ययस्य कुḵ (८। २। ६२) इत्यत्र प्रत्ययग्रहणात् क्विबादिप्रत्ययान्तरेऽपि कुत्वं क्वचिद् भवतीति न्यासकारेणोक्तम् (पञ्जिका २, पृ। १००४) । तेन दृशेरपि क्विप्प्रत्ययप्रकृतेः पदान्तरेऽपि कुत्वं भवति ॥ स्यात् कर्कशः—अमसृणावपि । लोभेन परधनहरणपरस्त्रीधर्षणादिकरणशीलः साहसिकः । कठोरः कठिनः पाषाणादिः । अमसृणो रूक्षः तुषाङ्गारभस्मादिः । ʻकॄ हिंसायाम् इत्यस्मादौणादिके कशप्रत्यये कर्कशः । अथवा कर्कम् अश्मविशेषमपि श्यति नाशयति तनूकरोति स्वगतपारुष्येणेति कर्कशः । शेषे—ʻकर्कशौ क्रूरनिर्दयौ । खड्गेक्षुकाः समर्थाश्च्ö । कर्कशशब्दवाच्या इत्यर्थः । ʻअपीवरो बृहत्काण्डः कृष्टेक्षुः कर्कशाभिघḵ इत्यायुर्वेदद्रव्यभेदे च । ʻकाम्पिल्यः कर्कशḵ इति गतम् (१, पृ। ३०४) । त्रिष्विति पदस्य पूर्ववाक्यादनुवृत्तेरस्यापि वाच्यलिङ्गत्वमुन्नेयम् ॥ प्रकाशोऽतिप्रसिद्धेऽपि । त्रिष्वित्यनुवर्तते । ʻविपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सḵ इति कालिदासः (रघु। ४। ३१) । प्रकर्षेण काशत इति प्रकाशः । ʻकाशृ दीप्तü, पचाद्यच् (३। १। १३४) । शेषे—ʻप्रकाशः प्रकाशवानपि इति । ʻप्रकाशो द्योत आतपḵ इति पुंलिङ्गो गतः (१, पृ। ७२) । भावमात्रवचनत्वेऽपि पुंलिङ्गः ॥ शिशावज्ञे च बालिशः । विशेष्यनिघ्नवर्गे बालिशः कृतनिर्वचनः ॥ कोशोऽस्त्री—अर्थौघदिव्ययोः । कुड्मलो मुकुलः । यथा—ʻकोशद्वन्द्वमिदं दधाति नलिनी कादम्बचञ्चुक्षतम् इति । खड्गपिधाने यथा—ʻउन्मुक्तकञ्चुकतेयमुदारकान्तिः शस्त्रीव शम्बररिपोरपनीतकोशḵ इति । खड्गग्रहणमुपलक्षणम् । पिधायकमात्रे कोशशब्दो वर्तते । यथा—गर्भकोशान्निर्गत इति । अन्नमयादीनां पञ्चानामपि ब्रह्मस्वरूपावरकत्वेन कोशः प्रसिद्धः । अर्थौघो धनसमूहः, कृताकृतोभयरूपसुवर्णरजतसमुदायः । यथा—ʻकोशदण्डाविव क्षितिḵ इति कालिदासः (रघु। १५। १३) । कोशागारमिति च । दिव्यं शपथम् । ब्रुवते च दुर्गाभैरवाद्युग्रदेवतास्नानोदकपानरूपम् । यथा—तुलाग्न्यापो विषं कोशो दिव्यानीति । विप्रं न पाययेत् कोशम् इत्यादि । कूयते शब्द्यत इति कोशः । ʻकु शब्दे । औणादिकः शप्रत्ययः । शेषे—ʻकोशः शिश्ने जातिफले तथा शब्दार्थसङ्ग्रहे इति । शिश्ने शेफसि यथा—ʻकुर्वन् करिकरक्रीडां शनैः कोशं प्रवेशयेत् इति रतिरहस्ये । स्त्रीव्यञ्जनेऽपि कोशशब्दो यथा तत्रैव—ʻस्त्रीपुंसयोः कोशसाम्ये भावसाम्यं भवेद् ध्रुवम् इति प्रयोगः । अत्र मनुष्यवर्गोक्तजातीकोशशब्दस्यैकदेशन्यायेन कोशशब्दोऽपि जातीफले वर्तते । यथा—कोशवासितं सलिलम् इति । शब्दा अर्था वा उभये वा सङ्गृह्यन्तेऽनेनेति शब्दार्थसङ्ग्रहो ग्रन्थः । यथा—अमरकोशः । अभिधानकोश इत्यादि । अत्र शब्दार्थसङ्ग्रहशब्देन पुस्तकमप्युच्यत इति केचित् । कोशान्तरे त्वयं पाठ इति लिखन्ति व्याख्यातारः । ʻवैदेशिकेषु कोशेषु पाठभेदान् निरीक्ष्य तान् इति । दक्षिणावर्तनाथस्तु कोशवानाचार्य इति । ʻपेशी कोशḵ इति गतम् (१, पृ। ३५७) । तालव्योपधोऽयं शब्दः । अत्र केचित्—कोशोऽस्त्रीत्यादिकम् अमरसिंहीयश्लोकार्धं समनन्तरमूर्धन्योष्मोपधवर्गे पठन्ति । व्याख्यातृभिः कैश्चित् तत्रैव व्याख्यातम्, ʻकुष निष्कर्षे इत्यस्माद् धातोर्निर्ब्रुवते च । अस्माभिस्तु कतिपयटीकाकारपद्धत्या नानाग्रन्थदर्शनेन च तालव्योपधत्वेन लिखितमित्यलम् ॥ २१७-१८ ॥
इति शान्तवर्गः
मल्लि-नाथः - AK.03.03.217-18
वशा स्त्री करिणी च स्यात् । स्त्रीशब्दः स्त्रीविशेषवचनः । वन्ध्या च स्यात् । ʻवशा करिण्यां वन्ध्यायां रामायां दुहितर्यपि इति वैजयन्ती (पृ। २३५, श्लो। ७१) ॥ दृग्ज्ञाने ज्ञातरि त्रिषु । त्रिष्विति बालिशशब्दान्तमधिकारः ॥ स्यात् कर्कशः—अमसृणावपि । कठोरो निर्दयः । अमसृणः खरस्पर्शः ॥ प्रकाशोऽतिप्रसिद्धेऽपि । ʻप्रकाशोऽतिप्रसिद्धे स्यात् सदृशातपयोः स्फुटे इति विश्वः (पृ। १६९, श्लो। २०) ॥ शिशावज्ञे च बालिशः । अनुक्तम्—
नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे ।
कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्यौघदिव्ययोः ॥
नृशंसखड्गौ निस्त्रिंशौ पाशो बन्धनशस्त्रयोः ।
निवेशः स्याद् विवाहेऽपि निस्त्रिंशो निर्दयेऽपि च ॥
अपभ्रंशोऽवपाते स्याज्जीवितेशो रवावपि ।
टीकायामपि चादर्शः सदृशं तूचितेऽपि च ॥
क्लेशो दुःखे व्यवसितौ स्पृहास्वाधीनयोर्वशः ।
पल्लीपतौ स्यात् पिङ्गाशः पिङ्गाशं जात्यकाञ्चने ॥ २१७-१८ ॥
इति शान्तवर्गः
[[०३.५३५]]
अथ षान्तवर्गः—
अक्।०३.०३.२१९अब् सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ।
अक्।०३.०३.२१९च्द् काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ तु तृणवीरुधौ ॥ २१९ ॥
लिङ्ग-सूरी - AK.03.03.219
सुपर्वणि जलचरे कथ्यतेऽनिमिषो बुधैः ।
न विद्यते निमिषोऽस्येत्यनिमिषः ॥
क्षेत्रज्ञे मानभेदे च वल्लभे पुरुषः स्मृतः ॥ ४७७ ॥
पुरि देहे सीदतीति पुरुषः । ʻषद्लृ विशरणगत्यवसादनेष्ü ॥
काकमत्स्यात्पक्षिणोश्च ध्वाङ्क्षशब्दोऽभिधीयते ।
ध्वाङ्क्षति मांसमभिकाङ्क्षतीति ध्वाङ्क्षः । ʻध्वाक्षि काङ्क्षायाम् ॥
रथभागे ग्राहणिकाकाञ्चीद्विरदरज्जुषु ॥ ४७८ ॥
तृणवीरुत्प्रकोष्ठेषु पश्चादञ्चलपल्लवे ।
स्पर्धापदे परीधाने कक्षः स्याद् बाहुमूलके ॥ ४७९ ॥
कष्यत इति कक्षः । ʻकष हिंसायाम् ॥ २१९ ॥
सुरमत्स्यावनिमिषौ । न निमिषतीत्यनिमिषः । सुरा देवाः । मत्स्यो मीनः ॥ पुरुषावात्ममानवौ । आत्मा क्षेत्रज्ञः । ʻपुन्नागे पुरुषḵ इति गतम् (१, पृ। २३१) ॥ काकमत्स्यात्खगौ ध्वाङ्क्षौ । मत्स्यभक्षकः खगः मत्स्यात्खगः । ʻध्वाङ्क्षौ तु बकवायसü इत्यमरमालायाम् ॥ कक्षौ तु तृणवीरुधौ । अत्र तृणशब्देन शुष्कतृणप्रायं विपिनमुच्यते इति सुबोधिनीकारः । यथा—ʻअग्निना वा दहेत् कक्षम् इति । वीरुत् लता । कषते कषतीति वा कक्षः । ʻकष हिंसायाम् । शेषे—ʻकक्षः पापपरीधानपश्चादञ्चलपल्लवे इति । ʻसत्रकष्टकक्षकृच्छ्रगहनेभ्यḵ (वा। ३। १। १४) इत्यत्र कक्षशब्दः पापवचनः । अत एव सत्रायते, [कक्षायते] पापं चिकीर्षतीति तत्र व्याख्यातम् (काशिका १, पृ। १४९) । परिधानस्यान्तरीयस्य गुह्यप्रदेशाच्छादके पृष्ठभागसमुपनाये दशाभागे कक्षशब्दो वर्तत इत्यर्थः । बाहुमूले प्रागुक्तः (१, पृ। ४११) ॥ २१९ ॥
मल्लि-नाथः - AK.03.03.219
सुरमत्स्यौ—आत्ममानवौ । (पुरुषः) शास्त्रं च स्यात् । ʻशासनं दर्शनं शास्त्रमागमः पुरुषो मतम् । श्रुतम् इति पर्यायाः इति सुभूतिटीका ॥ काकमत्स्यात्खगौ ध्वाङ्क्षौ । मत्स्यात्खगो ʻध्वाङ्क्षः काके बकेऽपि च्ö इति जयकोशः ॥ कक्षौ तु तृणवीरुधौ । वीरुच्छब्दो गुल्मवचनः । ʻकक्षस्तु गुल्म स्पर्धापदे तृणे इति वैजयन्ती (पृ। २१५, श्लो। १७) ॥ २१९ ॥
[[०३.५३७]]
अक्।०३.०३.२२०अब् अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने ।
अक्।०३.०३.२२०च्द् पक्षः सहायेऽप्युष्णीषं शिरोवेष्टकिरीटयोः ॥ २२० ॥
लिङ्ग-सूरी - AK.03.03.220
प्रग्रहे किरणे चैवाप्यभीषुः परिकथ्यते ।
अभीष्यत इत्यभीषुः । ʻईष उञ्छे ॥
प्रेषणे मर्दने क्लेशेऽप्युन्मादे प्रैष इष्यते ॥ ४८० ॥
प्रेष्यत इति प्रैषः । ʻइष गतü ॥
साध्ये विरोधे मासार्धे सहाये वलपत्रयोः ।
ग्रहे सख्यौ राजनागे देहाङ्गकुचपार्श्वयोः ॥ ४८१ ॥
केशादिपश्चाद्वन्धे च पक्षः स्याच्चुल्लिरन्ध्रके ।
पक्ष्यते परिगृह्यत इति पक्षः । ʻपक्ष परिग्रहे ॥
शिरोवेष्टे किरीटे स्यादुष्णीषो लक्षणान्तरे ॥ ४८२ ॥
उष्णनिवारणार्थमिष्यत इत्युष्णीषः ʻइषु इच्छायाम् ॥ २२० ॥
अभीषुः प्रग्रहे रश्मौ । प्रग्रहो नाम रथादिवाहनद्वयनियमनार्थं सारथिना ध्रियमाणो रज्जुविशेषः । रश्मिः किरणः । अभीष्यते बलीवर्दादि
पगे ५३८ इस् मिस्सिन्ग्। ५३९ चोन्तिनुएद्
मल्लि-नाथः - AK.03.03.220
इति हरिप्रबोधयमकाद् अभीशुरिति तालव्यान्तोऽपि स्यात् ॥ प्रैषः प्रेषणमर्दने । पक्षः सहायेऽपि । अर्धमासपतत्रपार्श्वार्थेषु च स्यात् ॥ उष्णीषः शिरोवेष्टकिरीटयोः । शिरस्यपि स्यात् । ʻउष्णीषं शीर्षमक्षत्रं पुंसि मूर्धा च मस्तकḵ इति वैजयन्ती (पृ। १८०, श्लो। ८५) ॥ २२० ॥
[[०३.५३९]]
अक्।०३.०३.२२१अब् शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ।
अक्।०३.०३.२२१च्द् द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥ २२१ ॥
अक्।०३.०३.२२२अब् ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे ।
लिङ्ग-सूरी - AK.03.03.221
मूषिकश्रेष्ठयो राशौ शुक्रले सुकृते तथा ।
वृषो वृषभपुंसोः स्यात् सिंहीकण्डूरयोर्वृषा ॥ ४८३ ॥
व्रत्यासने वृषी प्रोक्ता वर्षके तु वृषं मतम् ।
वर्षतीति वृषः ʻवृष सेचने ॥
द्यूते च पाशकाकृष्ट्योः कोदण्डाभ्यासवस्तुनि ॥ ४८४ ॥
शारीणां फलके च स्यादाकर्षोऽपीन्द्रिये तथा ।
आकृष्यत इत्याकर्षः । ʻकृष विलेखने ॥
कलिद्रुमे लच द्यूताङ्गे कर्षे चक्रात्मनोरपि ॥ ४८५ ॥
अक्षो व्याप्तौ परिपणे चेन्द्रियेऽक्षमुदाहृतम् ।
अक्ष्यत इत्यक्षम् । ʻअक्षू व्याप्तü ॥ २२१ ॥
शुक्रले—वृषभे वृषः । शुक्रलः रेतोबहुलः । वर्षतीति वृषः । ʻवृष सेचने । इगुपधलक्षणः कः (३। १। १३५) शेषे—
ʻवृषः पुंसि च राशौ ना कपिकच्चाटरूषयोः ।
शृङ्ग्यामपि वृषा स्त्री स्याद् व्रतिनामासने वृषी ॥
इति । वृष इति राशिर्मेषानन्तरः ।
ʻवृषो धर्मे बलीवर्दे श्रेष्ठमूषकराशिषु ।
शुक्रले च पुमान् स्त्री तु कपिकच्चाटरूषयोः ॥
इति रभसः ॥ द्यूतेऽक्षे—आकर्षः । आकृष्यते शारिकात्रेति आकर्षः द्यूतः क्रीडा द्यूतफलकं च । अत्राकर्षशब्दो द्यूतकर्मवाच्यः शारिकापि । छन्दः आकृष्यत इत्याकर्षोऽक्षः पाशकः । कार्मुकादेरप्याकर्षणमाकर्षः । आकृष्टिरित्यर्थः ॥ अथाक्षमिन्द्रिये—कलिद्रुमे । अक्ष्णोति विषयमित्यक्षम् इन्द्रियम् । यथा—प्रत्यक्षो घटः । प्रत्यक्ष आत्मा इति । तत्र रूपभेदाद् नपुंसकम् । अर्थान्तरेषु पुंलिङ्गः । द्यूताङ्गं पाशकाख्यम् । यथा—ʻदुरक्षान् दीव्यता राज्ञा राज्यमात्मा वयं वधूḵ इति भारविः (किरा। ११। ४७) । कर्षः षोडशमाषात्मकः । यथा—ʻते षोडशाक्षः कर्षोऽस्त्री इति (१, पृ। ६०५) । चक्रं रथाङ्गम् । तेन तदुभयसम्बन्धं तिर्यगवस्थापितं काष्ठं लक्ष्यते । यथोक्तम्—ʻअक्षाग्रकीलके तु द्वयोरणिḵ इति (१, पृ। ५१८) । व्यवहारे यथा—ʻप्राड्विवाकाक्षदर्शकü इति (१, पृ। ४८६) । कलिद्रुमो विभीतकः (१, पृ। २४९) । शेषे—ʻअक्षो व्याप्तावात्मनि च्ö इति । आत्मनि यथा—एतदध्यक्षसाक्षिकम् इति ॥ २२१ ॥
मल्लि-नाथः - AK.03.03.221
शुक्रले—वृषभे वृषः । वृषभे नान्तोऽपि स्यात् । ʻवृषोक्ष्णयग्र्ये पुमिन्द्रयोḵ इति वैजयन्ती (पृ। २१८, श्लो। ५६) ॥ कोषोऽस्त्री—दिव्ययोः । ʻकोशकाशकशाङ्कुशम् इति तालव्यान्तेषु चन्द्रगोमी । द्यूतेऽक्षे—व्याकर्षः । अक्षः पाशकः ॥ अथाक्षमिन्द्रिये—कलिद्रुमे । कर्षः उन्मानविशेषः । चक्रं शकटं च रथाङ्गं च स्यात् । व्यवहारो न्यायः ॥ २२१ ॥
[[०३.५४१ ]]
अक्।०३.०३.२२२च्द् कर्षूर्वार्ता करीषाग्निः कर्षूः कुल्याभिधायिनी ॥ २२२ ॥
अक्।०३.०३.२२३अब् पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च ।
लिङ्ग-सूरी - AK.03.03.222
कुल्यावृत्त्योः करीषाग्नौ कर्षुश्च समुदाहृता ॥ ४८६ ॥
कृष्यत इति कर्षूः । ʻकृष विलेखने ॥
मनोभावे कर्मजात्योः पुंसः पौरुषमुच्यते ।
पुरुषस्य भावः कर्म वा पौरुषम् ॥
क्ष्वेडे जले विप्रयुक्ते विशिष्टव्याप्तयोर्विषम् ॥ ४८७ ॥
विषा महौषधे च स्यात् त्रिषु लिङ्गेषु च स्मृता ।
वेवेष्टीति विषम् । ʻविष्लृ व्याप्तü ॥ २२२ ॥
कर्षूर्वार्ता—कुल्याभिधायिनी । अत्र वार्ताशब्देन वृत्तिविशेषः कृषिरुच्यत इति स्वामी (पृ। ३२६) । सुबोधिनीकारस्तु—ʻकर्षूर्वक्ता करीषाग्नेḵ इति पठित्वा व्याचष्ट । कर्षूशब्दः करीषाग्नेः शुष्कगोमयेन्धनवह्नेः वक्ता वाचकः । वक्तेति विशेषणरूपभेदात् पुंलिङ्गत्वम् इति । कुल्याशब्देनात्र प्रेतकर्मणि क्रियमाणो गर्त उच्यते । तदभिधानशीलेत्यर्थः । तत्रापि विशेषणवशेन कर्षूशब्दस्य स्त्रीलिङ्गत्वम् । यथा—ʻतिस्रः कर्षूः खात्व्ȫ इति कल्पसूत्रे प्रयोगः । तथा च रभसः—ʻकरीषाग्नौ पुमान् कर्षूः कुल्यायां तु स्त्रियां भवेत् इति । कर्षति समीपस्थमिति कर्षूः । कृष्यते कुद्दालादिनेति च । ʻकृष विलेखने । ʻकृषिचमितनिधनिसर्जिखर्जिभ्य ऊḵ (उ। १। ८४) इति औणादिक ऊकारप्रत्ययः ॥ पुम्भावे तत्क्रियायां च पौरुषम् । पुरुषस्य भावः कर्म वा पौरुषम् । भावे कर्मणि च वर्तमाने ʻप्राणभृज्जातिवयोवचनोद्गात्रादिम्योऽञ् (५। १। १२९) इति प्राणभृज्जातिविशेषवचनात् पुरुषशब्दाद् अञ्प्रत्ययः । शेषे—ʻपुंस्तेजसि च पौरुषम् इति । पुरुषस्य तेजसि प्रभावे इत्यर्थः । ऊर्ध्वविस्तृतदोःपाणिभागस्य पुरुषस्य प्रमाणे गतम् (१, पृ। ४१७) ॥ विषमप्सु च । अप्सु जले चशब्दाद् गरले प्रागुक्तम् (१, पृ। १५१) । यथा—ʻतया मम वियोगोऽद्य विषं मुञ्चन्ति वारिदाḵ इत्यभिनन्दः ॥ २२२ ॥
मल्लि-नाथः - AK.03.03.222
कर्षूर्वार्ता—कुल्याभिधायिनी । वार्ताकरीषाग्न्योः पुंलिङ्गः । वार्ता नाम वृत्तिः । कुल्यायां स्त्रीलिङ्गः । कुल्या नाम नदी ॥ पुम्भावे तत्क्रियायां च पौरुषम् । पुरुषतेजस्यपि स्यात् । ʻपौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि इति विश्वः (पृ। १७२, श्लो। १७) ॥ विषमप्सु च । गरलेऽपि स्यात् ॥ २२२ ॥
[[०३.५४२]]
अक्।०३.०३.२२३च्द् उपदानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् ॥ २२३ ॥
अक्।०३.०३.२२४अब् स्याद् वृष्टौ लोकधात्र्यंशे वत्सरे वर्षमस्त्रियाम् ।
अक्।०३.०३.२२४च्द् प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ २२४ ॥
लिङ्ग-सूरी - AK.03.03.223-24
उपदाने च मांसादौ लोभसम्भोगयोरपि ॥ ४८८ ॥
सुन्दराकाररूपादिविषयेऽप्यामिषं भवेत् ।
आमिष्यत इत्यामिषम् । ʻमिष स्पर्धायाम् ।
पापेऽपराधे रोगे च किल्बिषं कलुषे स्मृतम् ॥ ४८९ ॥
कल्यते चित्रगुप्तेन गण्यत इति किल्बिषं कलुषं च । ʻकल सङ्ख्याने ॥
वृष्टौ भुवोऽंशे क्लैब्ये च वत्सरे वर्षमुच्यते ।
वर्षतीति वर्षम् । ʻवृषु सेचने ॥
प्रज्ञायां दर्शने नृत्य प्रेक्षा तु परिकीर्तिता ॥ ४९० ॥
प्रेक्ष्यत इति प्रेक्षा । ʻईक्ष दर्शने ॥
याच्ञाभृत्योश्च सेवायां भिक्षा भिक्षितवस्तुनि ।
भिक्ष्यत इति भिक्षा । ʻभिक्ष याच्ञायाम् ॥ २२३-४ ॥
उपदानेऽप्यामिषं स्यात् । ʻउपाच्चारप्रदानन्दा हारो ग्राह्योपायनेऽपि इत्यभिधानचिन्तामणौ । उपशब्दाद् उत्तरेषां चारदानादिशब्दानां पर्यायत्वाभिधानाद् इहोपदानशब्देन उपायनमुच्यते; उपादान इति द्वितीयाक्षरदीर्घोऽपपाठः । शेषे—
ʻआमिषं सुन्दरारद्रुरूपादिविषये भवेत् ।
सम्भोगलोभयोर्मांसे ॥
इति । सुन्दरविषये यथा—ʻआदास्यमानः प्रमदामिषं तत् इति रघुवंशे (७। ३१) ॥ अपराधेऽपि किल्बिषम् । वाग्दण्डपारुष्यराजाज्ञोल्लङ्घनादिकमपराधः । शेषे—ʻकिल्बिषं दुरिते रुजि इति । रुग् रोगः ॥ स्याद् वृष्टौ—वर्षमस्त्रियाम् । लोकस्य धात्री, धारयित्री भूमिः । अन्ये तु—दधातेः ʻसितनिगमि ॥ । इत्यादिना (उ। १। ७२) तुन्प्रत्ययान्तं कृत्वा लोकधात्वंश इति पठित्वा लोकधातुशब्देनापि भूमिरेवाभिधेय इत्याहुः । तस्या अंशो भूम्येकदेशस्य जम्बूद्वीपस्यैको भागः । वत्सरः संवत्सरः । वृष्यते सिच्यत इति वर्षम् । ʻवृषु सेचने (वा। ३। ३। ५६) । शेषे—ʻवर्षं क्लैब्ये पुमान् मेघे इति । क्लैब्ये यथा—वर्षधर इति । वर्षतीति पचाद्यचि (३। १। १३४) वर्षो मेघः । ʻपुन्नपुंसकयोर्वर्षं जम्बूद्वीपाब्दवृष्टिष्ü इति रुद्रश्च ॥ प्रेक्षा नृत्तेक्षणप्रज्ञाः । नृत्तादीनां त्रयाणां द्वन्द्वः । नृत्तं प्रेक्षणकसञ्ज्ञया प्रसिद्धम् । ईक्षणं नयनव्यापारः । केचित्तु—नृत्तस्येक्षणमिति षष्ठीतत्पुरुषमाश्रित्य भिन्नं पदमाहुः प्रेक्षा कौतुकमिति । प्रज्ञा शीघ्रग्राहिणी बुद्धिः । प्रज्ञा यथा—प्रेक्षावन्त इति । प्रपूर्वाद् ईक्षतेः ʻगुरोश्च हलḵ (३। ३। १०३) इत्यकारप्रत्यये भावे कर्मणि च प्रेक्षा ॥ भिक्षा सेवार्थना भृतिः । अर्थना याच्ञा । भृतिर्वेतनम् । शेषे—ʻभिक्षा भिक्षितवस्तुनि इति । यथा—भिक्षां देहीति । ʻभिक्ष याच्ञायाम् इति धातोः पूर्ववद् अकारप्रत्ययः ॥ २२३-४ ॥
मल्लि-नाथः - AK.03.03.223-24
उपदाने ऽप्यामिषं स्यात् । मांसेऽपि स्यात् ॥ अपराधेऽपि किल्बिषम् । ʻदुरिते दुष्टगरलेऽप्यपराधेऽपि किल्बिषम् इति जयकोशः ॥ स्याद् वृष्टौ—वर्षमस्त्रियाम् । लोकधात्र्यंशो भारतादिः ॥ प्रेक्षा नृत्तेक्षणं प्रज्ञा । नृत्तस्येक्षणं नृत्तेक्षणम् । ʻप्रेक्षा नृत्तेक्षणे बुद्धü इति विश्वप्रकाशवैजयन्त्यौ (पृ। १८३, श्लो। १३; पृ। २२२, श्लो। २५) ॥ भिक्षा सेवार्थना भृतिः ॥ २२३-४ ॥
[[०३.५४४]]
अक्।०३.०३.२२५अब् त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः ।
अक्।०३.०३.२२५च्द् प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥ २२५ ॥
लिङ्ग-सूरी - AK.03.03.225
शोभादीप्त्योर्गिरि रवे व्यवसाये त्विडुच्यते ॥ ४९१ ॥
त्वेषत इति त्विट् । ʻत्विष दीप्तü ॥ त्रिषु परे । उत्तरे वक्ष्यमाणाः शब्दाः षान्ताः त्रिषु लिङ्गेषु वर्तन्ते ॥
न्यक्षः परशुरामे स्याद् न्यक्षं कार्त्स्न्यनिकृष्टयोः ।
नितरामक्ष्णोतीति न्यक्षम् । ʻअक्षू व्याप्तü ॥
अध्यक्षोऽधिकृते चैव प्रत्यक्षेऽपि प्रकीर्तितः ॥ ४९२ ॥
अधिगतोऽक्षेष्वित्यध्यक्षः ॥
अप्रेम्ण्यचिक्कणे चैव रूक्षः स्यात् पादपान्तरे ।
रूक्षयतीति रूक्षः । ʻरूक्ष पारुष्ये ॥ २२५ ॥
इति षान्तवर्गः
त्विट् शोभापि । शोभा कान्तिः । यथा—चम्पकत्विडियमिति । अपिशब्दाद् दीप्तिरपि । यथा—सहस्रत्विडिति । त्वेषतेऽनयेति त्विट् । ʻत्विष दीप्तü । क्विप् (वा। ३। ३। ९४) । शेषे—ʻत्विड् दीप्तौ व्यवसाये च जिगीषायां गिरि ध्वनü इति ॥ त्रिषु परे । परे वक्ष्यमाणाः न्यक्षादयस्त्रयः शब्दा वाच्यलिङ्गा इत्यर्थः ॥ न्यक्षं कार्त्स्न्यनिकृष्टयोः । कार्त्स्न्यशब्दस्य धर्मवचनत्वेनार्थनिर्देशेऽपि पूर्ववाक्ये न्यक्षशब्दस्यापि वाच्यलिङ्गत्वविधानात् कृत्स्नरूपे धर्मिण्येव पर्यवसानम् । यथा ʻकार्मस्ताच्छील्ये (६। ४। १७२) इत्यादिषु । नियतमक्षमिन्द्रियसंयोगोऽस्मिन्निति न्यक्षं कृत्स्नम् । निषिद्धमक्षमिन्द्रियव्यापारोऽनेनेति न्यक्षः निकृष्टः, अधम इत्यर्थः । शेषे—ʻन्यक्षः परशुरामे स्यात्ö इति ॥ प्रत्यक्षेऽधिकृतेऽध्यक्षः । अधिगतोऽक्षैरिन्द्रियैरिति अध्यक्षः । प्रत्यक्षो घटादिः । अध्यक्ष्णोति व्याप्नोतीति अध्यक्षोऽधिकृतः ग्रामादिषु नियुक्तः ॥ रूक्षस्त्वप्रेम्ण्यचिक्कणे । प्रेमरहिते यथा—रूक्षवृत्तिः प्रजाक्षयम् इति । अचिक्कणे मार्दवरहिते यथा —रूक्षस्पर्श इति । ʻरूक्ष पारुष्ये इति चौरादिकाद् धातोः पचाद्यचि (३। १। १३४) रूक्षः । शेषे—ʻरूक्षः स्यात् पादपान्तरे इति ॥
इह मूर्धन्योष्मोपधवर्गमध्ये ʻकोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोḵ (श्लो। २१५) इति श्लोकार्ध पठित्वा क्षीरस्वामिसुबोधिनीकाराभ्यां व्याख्यातम् । पुस्तकेष्वपि केषुचिदिहैव लिखितम् । अतो मूर्धन्योपधः कोषशब्दोऽप्यस्तीति विज्ञेयम् । अस्माभिस्तु तालव्योपधवर्गमध्ये व्याख्यातम् ॥ २२५ ॥
इति षान्तवर्गः
मल्लि-नाथः - AK.03.03.225
त्विट् शोभापि । ʻत्विट् स्त्री शोभारुजोर्वाचि इति रुद्रः ॥ त्रिषु परे—निकृष्टयोः । त्रिषु परे इत्यधिकारः । कार्त्स्न्यशब्दः कृत्स्नवचनः ॥ प्रत्यक्षेऽधिकृतेऽध्यक्षः । प्रमाणं च प्रमेयं च प्रत्यक्षम् ॥ रूक्षस्त्वप्रेम्ण्यचिक्कणे । अचिक्कणं कर्कशस्पर्शः ॥ अनुक्तम् —
वयाजसङ्ख्याशरव्येषु लक्षं घोषो रवव्रजौ ।
शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे ॥
जिगीषा व्यवसाये च सङ्घर्षप्रमदेऽपि च ।
शेषोऽक्षतादिदाने स्यान्निर्माल्ये मरुतामपि ॥
अम्बरीषः किशोरे स्याद् भास्करे गिरिशेऽपि च ।
अनुतर्षः सुरापाने सुरापात्रे सुरातृषोः ॥ २२५ ॥
इति षान्तवर्गः
[[०३.५४६]]
अथ सान्तवर्गः—
अक्।०३.०३.२२६अब् रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू ।
अक्।०३.०३.२२६च्द् वत्सौ तर्णकवर्पौ द्वौ सारङ्गाश्च दिवौकसः ॥ २२६ ॥
लिङ्ग-सूरी - AK.03.03.226
रवौ श्वेतच्छदे विष्णौ हयेऽमत्सरयोगिनोः ॥ ४९३ ॥
मन्त्रे निर्लोभनृपतौ देहस्थे मरुदन्तरे ।
शैलभेदात्मनोश्चैव हंसशब्दः प्रकीर्तितः ॥ ४९४ ॥
हन्तीति हंसः । ʻहन हिंसागत्योḵ ।
हारभेदे तीक्ष्णरश्मौ हव्यवाहे विभावसुः ।
विभा वसु यस्य स विभावसुः ॥
वत्सं वक्षति सम्प्रोक्तं वत्सस्तर्णकपुत्रयोः ॥ ४९५ ॥
वस्यते छाद्यत इति वत्सः । ʻवस आच्छादने ॥
सारङ्गेषु सुपर्वसु दिवौकाः परिकीर्त्यते ।
द्यौरोकः स्थानं येषां ते दिवैकसः ॥ २२६ ॥
रविश्वेतच्छदौ हंसौ । श्वेतच्छदो हंसनाम्नैव प्रसिद्धः पक्षिविशेषः । शेषे—
ʻहंसो निर्लोभनृपतौ शारीरमरुदन्तरे ।
हयभेदे योगिभेदे मन्त्रभेदे च मत्सरे ॥
परमात्मनि विष्णौ च श्रेष्ठे राजादिपूर्वकः ॥
इति । हयभेदः सर्वशुभ्राश्वः । योगिभेदो हंसाख्यः सन्न्यासिविशेषः । शारीरवायुविशेषे यथा—ʻहंसं तनौ सन्निहितं चरन्तम् इति नैषधकाव्ये (३। ४) । श्रेष्ठे यथा—राजहंसः, कविहंसः इत्यादि ॥ सूर्यवह्नी विभावसू । विभा प्रभैव वसु धनं ययोस्तौ विभावसू । शेषे—ʻविभावसुर्हारभेदे इति ॥ वत्सौ तर्णकवर्षौ द्वौ । अचिरजातगौस्तर्णकः । वर्षः संवत्सर इति सुबोधिनी । तर्णकपुत्रौ इति पठित्वा पुत्रस्तनय इति केचिदाहुः । ʻवस निवासे इत्यस्मादौणादिकः सप्रत्ययः (उ। ३। ६२) । ʻसः स्यार्धधातुके (७। ४। ४९) इति सकारस्य तकारः । ʻउरो वत्सम् (१, पृ। ४११) इति वक्षसि क्लीबं गतम् ॥ २२६ ॥
मल्लि-नाथः - AK.03.03.226
रविश्वेतच्छदौ हंसौ । रवः प्राणिस्वनः । ʻप्राणिस्वने त्वाराव आरवः । रवḵ इति वैजयन्ती (पृ। ३१, श्लो। ३-४) । रवयोगाद् रवी जीवोऽपि स्यात् ॥ सूर्यवह्नी—तर्णकवर्षौ द्वौ । पुत्रादिरपि स्यात् । ʻवत्सस्तर्णकपुत्रादिवर्षे इति विश्वः (पृ। १७४, श्लो। ६) ॥ सारङ्गाश्च दिवौकसः । देवा अपि स्युः । बहुत्वमविवक्षितम् । ʻदिवौकाश्चातके सुरे इति विश्वः (पृ। १७ऽ, श्लो। ५४) ॥ २२६ ॥
[[०३.५४८]]
अक्।०३.०३.२२७अब् शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः ।
अक्।०३.०३.२२७च्द् पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे ॥ २२७ ॥
लिङ्ग-सूरी - AK.03.03.227
आद्ये धातौ विषे वीर्ये पारदे जलरागयोः ॥ ४९६ ॥
द्रवे गुणे च तिक्तादौ शृङ्गारादौ रसः स्मृतः ।
घोण्टाभुवोः कङ्गुजिह्वासल्लकीषु रसा भवेत् ॥ ४९७ ॥
रस्यत इति रसः । ʻरस आस्वादने ॥
स्यातामुत्तंसावतंसौ कर्णपूरे च शेखरे ।
उत्तंस्यतेऽनेनोत्तंसः । अवतंसश्च । ʻतसि अलङ्करणे ॥ २२७ ॥
शृङ्गारादौ—द्रवे रसः । आदिशब्देन वीरकरुण इत्यादिनोक्ताः (१, पृ। १३१) रसाः नाट्यवर्गोक्ता विवक्षिताः । विषं गरलं जलं च । विषे गरले यथा—ʻरसं दास्यामि इति मुरारिनाटके शूर्पणखावाक्यम् । जले यथा—ʻसहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविḵ इति रघुवंशे (१। १८) । ʻजले शरीरधातौ च तिक्तादौ पारदे रसḵ इति त्रिकाण्डशेषः (पृ। ३६, श्लो। १००२) । वीर्ये यथा—ʻविद्धि चात्तरसमोजसा हरेरैश्वरं धनुरभाजि यत्त्वय्ȫ इति रघुवंशे (११। ७६) । क्षीरादतिरसं सर्पिः इति च । गुणे माधुर्यादौ यथा—ʻरसाः कट्वम्ललवणतिक्तोष्णकषायकाḵ इति । रागेऽनुरागे यथा—रसार्द्रचित्तः इति । द्रवे यथा—ʻक्षीरे त्रिरात्रं स्वरसे त्रिरात्रम् इति । रस्यते आस्वाद्यत इति रसः । ʻरस आस्वादने चुरादावदन्तः । शेषे—ʻरसः शरीरधातौ च रसो ब्रह्मणि पारदे इति । शरीरधातौ यथा—ʻवसासृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवḵ इति (वाग्भट। १। ८) । ब्रह्मणि यथा—ʻरसो वै सः रसं ह्येवायं लब्ध्वानन्दी भवति इति (तै। उ। २। ७। १) । पारदे यथा—रसवाद इति । भुवि पाठायां सल्लक्यां रसेति स्त्रीलिङ्गः प्रागुक्तः (१। पृ। १८५, २६५, २८८) । पुंस्युत्तंसावतंसे वा कर्णपूरे च शेखरे । कर्णपूरः कर्णभूषणम् । शेखरः शिरोभूषणम् । उत्तंस्यते भूष्यते कर्णः शिरो वा अनेनेति उत्तंसः । उपसर्गभेदाद् अवतंसं च । तसिः भूषार्थो धातुर्दुर्गाचार्येण पठित इति सुबोधिनीकारः । द्वन्द्वान्तरूपभेदादुभयोर्नपुंसकत्वम् । ʻपुंसि व्ȫ इत्युक्त्या विकल्पेन पुंलिङ्गत्वं च । ʻवष्टि भागुरिः ॥ । इत्यादिना (कौमुदी २। ४। ८२) अकारलोपे वतंसोऽपि ॥ २२७ ॥
मल्लि-नाथः - AK.03.03.227
शृङ्गारादौ—द्रवे रसः । विषं गरलं जलं च स्यात् । वीर्यं वलम् । देहधातुरपि स्यात् । ʻजले शरीरधातौ पारदस्वर्णयो रसḵ इति त्रिकाण्डशेषः (पृ। ३६, श्लो। १००२) । द्रवः परीहासः । निर्यासोऽपि स्यात् । ʻनिर्यासेऽमृतशब्दयोḵ इति वैजयन्ती (पृ। २१८, श्लो। ४९) ॥ पुंस्युत्तंसावतंसौ—शेखरे । वतंसोऽप्येतत्प्रकार एव । ʻवतंसोत्तंसावतंसाः कर्णपूरेऽपि शेखरे इति वैजयन्ती (पृ। २७०, श्लो। ५९) ॥ २२७ ॥
[[०३.५४९]]
अक्।०३.०३.२२८अब् देवभेदेऽनले रश्मौ वसू रत्ने धने वसु ।
अक्।०३.०३.२२८च्द् विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः ॥ २२८ ॥
लिङ्ग-सूरी - AK.03.03.228
अग्नौ मयूखे धनदे देवे योक्त्रे वसुः पुमान् ॥ ४९८ ॥
वृद्ध्यौषधे धने रत्ने हाटके मधुरे त्रिषु ।
वसतीति वसुः । ʻवस निवासे ॥
विधौ बुधे चक्रपाणौ वेधास्तु परिकीर्तितः ॥ ४९९ ॥
विदधातीति वेधाः । ʻडुधाञ् धारणपोषणयोḵ ॥
आशीः स्याद् विष्णुमायायां हिताशंसाहिदंष्ट्रयोः ।
आशास्तेऽनयेत्याशीः । ʻशासु इच्छायाम्, ʻशसु हिंसायाम्, ʻशंसु स्तुतü ॥ २२८ ॥
देवभेदेऽनले—धने वसु । अष्टौ वसव इति गणदेवताविशेषाः प्रसिद्धाः (१, पृ। ९) । अनलेऽग्नौ यथा—ʻवसुरग्निर्वसुश्रवाḵ इति (ऋग्वेदः ५। २४। २) रश्मिः किरणः । पुनरपि वसुग्रहणं रत्नधनयोर्वर्तमानस्य वसुशब्दस्य रूपभेदेन नपुंसकत्वज्ञापनार्थम् । किरणे धने च यथा—ʻनिरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिक्ȫ इति माघकाव्य (शिशु। ९। १०) । रत्ने यथा—ʻवामं वसु विवदमानो गृहान् इति । स्वोचितस्थाने वसतीति वसु । ʻवस निवासे ॥ विष्णौ च वेधाः । ʻविध विधाने इत्यस्माद् असुन् प्रत्यये वेधाः । शेषे—ʻवेधा विधौ बुधे विष्णü इति । बुधः पण्डित इत्यर्थः । चतुर्मुखे प्रागुक्तः (१, पृ। १४) ॥ स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः । हितस्य पुत्रपश्वादेराशंसा, ʻप्रजावान् भूयासम्, पशुमान् भूयासं इत्यादिरूपेण प्रार्थना । अहेः सर्पस्य दंष्ट्रायां यथा—आशीविष इति । आशासनमाशीः । ʻआङः शासु इच्छायाम् । सम्पदादित्वात् क्विप् (वा। ३। ३। ९४) । धातूनामनेकार्थत्वात् पूर्वस्मादेव धातोहिंसार्थात् कर्तरि क्विपि आशीः सर्पदंष्ट्रा । ʻशास इदङ्हलोḵ (६। ४। ३४) इत्यत्र ʻक्विप्प्रत्यये तु तस्यापि भवतीति वक्तव्यम् (वा। ६। ४। ३४) इति आशासेरपि उपधाया इत्वम् ॥ २२८ ॥
मल्लि-नाथः - AK.03.03.228
देवभेदेऽनले—धने वसु । किरणश्च प्रग्रहश्च रश्मिशब्दार्थः । ʻवसुर्योक्त्राग्निशुष्मेषु देवभेदमयूखयोḵ इति जयकोशः ॥ विष्णौ च वेधाः । ʻवेधा विधौ बुधे विष्णü इति विश्वप्रकाशः (पृ। १७६, श्लो। २७) ॥ स्त्री त्वाशीः—दंष्ट्रयोः । आशीति अहिदंष्ट्रायामीकारान्तोऽपि स्यात् ।
ʻयो बिभर्ति जटाजूटगाढबद्धोरगोज्झिताम् ।
आशीमिव कलामिन्दोर्गङ्गानिर्ल्वयनीमिव ॥
इति वालिविलासः ॥ २२८ ॥
[[०३.५५१]]
अक्।०३.०३.२२९अब् लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च ।
अक्।०३.०३.२२९च्द् प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥ २२९ ॥
लिङ्ग-सूरी - AK.03.03.229
लालसा प्रार्थनौत्सुक्ययाच्ञातृष्णातिरेचने ॥ ५०० ॥
अतिशयेन लस्यत इति लालसा । ʻलस श्लेषणक्रीडनयोḵ ॥
हिंसा स्याद् बन्धने चापि वधचौर्यादिकर्मणोः ।
हिंस्यतेऽनयेति हिंसा । ʻहिसि हिंसायाम् ॥
प्रसूर्वीरुधि कन्दल्यामश्वामात्रोश्च कथ्यते ॥ ५०१ ॥
प्रसूते प्रजा इति प्रसूः । ʻषूङ् गर्भविमोचने ॥
रोदस्यौ रोदसी स्यातां द्योधरित्र्योरुभे इमे ।
आद्यमीकारान्तं द्वितीयं सान्तम् । रुदन्त्यस्मिन्निति रोदः, रोदसी च । ʻरुदीर् अश्रुविमोचने ॥ २२९ ॥
लालसे प्रार्थनौत्सुक्ये । प्रार्थना वाञ्छा । औत्सुक्यमिष्टार्थोद्योगः । शेषे—ʻलालसा त्वक्लीबे तृष्णातिरेचने इति । अक्लीबे द्वयोर्लिङ्गयोरित्यर्थः । भृशं लसति विषयेषु श्लिष्यत्यनया पुरुष इति लालसा । ʻलस श्लेषक्रीडनयोḵ । क्रियासमभिहारे यङ्प्रत्ययः (३। १। २२) । ʻसन्यङो (६। १। ९) इति द्विर्वचनम् । यङन्ताद् ʻअ प्रत्ययात् (३। ३। १०२) इति स्त्रियामकारप्रत्ययः । पुंलिङ्गपक्षे ʻअकर्तरि च कारके सञ्ज्ञायाम् (३। ३। १९) इति करणे घञ्प्रत्ययः । ʻयङोऽचि च्ö (२। ४। ७४) इत्युभयत्र यङो लुक् । ʻतृष्णातिरेके वाञ्छायामौत्सुक्ये लालसा द्वयोḵ इति रभसः ॥ हिंसा चौर्यादिकर्म च । परद्रव्यहरणं चौर्यम् । आदिशब्देन बन्धनताडनादिकं गृह्यते । चशब्दाद् वधोऽपि । ʻहिसि हिंसायाम् इत्यस्मादकारप्रत्ययः (३। ३। १०३) ॥ प्रसूरश्वापि । अश्वा बडवा । जनन्यां प्रागुक्ता (१, पृ। ३७७) । लतायामपि प्रसूशब्द इत्याहुः ॥ भूद्यावौ—रोदसी च ते । भूश्च द्यौश्च भूद्यावौ पृथिव्यन्तरिक्षे द्वे अपि सकृदुच्चरितेन ङीबन्तत्वेन द्विवचनान्तेन रोदसीशब्देन, सकारान्तेन च नपुंसकलिङ्गेन द्विवचनान्तरोदःशब्देन वा अभिधीयते । यथा—ʻहोतारं सत्ययजं रोदस्योḵ इति (ऋग्वेद। ४। ३। १) । तथा—ʻवेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी इति विक्रमोर्वशीये (१। १) । अन्तर्गतं सर्वं वस्तु रुन्धाते आवृण्वाते इति रोदसी । ʻरुधिर् आवरणे । औणादिकोऽसुन् प्रत्ययः (उ। ४। १८९) । बहुलग्रहणाद् धातुगतधकारस्य दकारः । रूपभेदादेव नपुंसकत्वम् । स्त्रीत्वविवक्षायाम् ʻउगितश्च्ö (४। १। ६) इति ङीपि रोदस्यौ । गणरत्नमहोदधौ तु ʻभूर्भुवोर्वाचकं रोदसीत्यव्ययम् (पृ। ३५) इत्यव्ययगणेऽभिहितम् ॥ २२९ ॥
मल्लि-नाथः - AK.03.03.229
लालसौ—हिंसा चौर्यादिकर्म च । प्राणव्यपरोपणमपि स्यात् । प्रसूरश्वापि । मातापि स्यात् ॥ भूद्यावौ—रोदसी च ते । प्रत्येकं समुदाये च स्याताम् । ʻरोदसी रोदसा सार्धं पृथक् स्वर्गे दिवि क्षितü इति जयकोशः ॥ २२९ ॥
[[०३.५५३]]
अक्।०३.०३.२३०अब् ज्वालाभासोर्न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु ।
अक्।०३.०३.२३०च्द् पापापराधयोरागः खगबाल्यादिनोर्वयः ॥ २३० ॥
लिङ्ग-सूरी - AK.03.03.230
स्त्रीनपुंसकयोरर्चिर्ज्वालाभासोः प्रकथ्यते ॥ ५०२ ॥
अर्च्यते पूज्यत इत्यर्चिः । ʻअर्च पूजायाम् ॥
तीक्ष्णरश्मौ हव्यवाहे पुमान् ज्योतिः प्रकीर्तितः ।
प्रकाशदृष्ट्योर्नक्षत्रे नपुंसकमुदाहृतम् ॥ ५०३ ॥
द्योतत इति ज्योतिः । ʻद्युत दीप्तü ॥
पापापराधयोरागःशब्दस्तु परिकीर्तितः ।
आ समन्ताद् अगत्यनेनेत्यागः । ʻअग कुटिलायां गतü ॥
बाल्यादौ पत्रिणि वयो भवेद्यौवनमात्रके ॥ ५०४ ॥
वीयत इति वयः । ʻवी गत्यादिष्ü ॥ २३० ॥
ज्वालाभासोर्न पुंस्यर्चिः । ज्वाला वह्नेः शिखा । भाः सूर्यादेः प्रभा । पुंसि नेति निषेधाद् नपुंसके च ॥ ज्योतिर्भद्योतदृष्टिषु । भं नक्षत्रम् । द्योतः प्रकाशः । दृष्टिर्नेत्रस्य कनीनिका । द्योतत इति ज्योतिः । ʻद्युत दीप्तü । ʻद्युतेरिसिन्नादेश्च जḵ (उ। २। ११०) इति द्युतेरिसिन् प्रत्ययः, धात्वादेश्च जकारः । शेषे—ʻज्योतिः पुंस्यग्निसूर्ययोः । चन्द्रे च्ö इति । अग्न्यादिषु पुंस्त्वविधानाद् नक्षत्रादिषु नपुंसकत्वम् । अत एव रुद्रः—ʻज्योतिर्ना भास्करेऽग्नौ च क्लीबं भद्योतदृष्टिष्ü इति । ʻज्योतिः प्रकाशे तारायां वेदाङ्गान्तरनेत्रयोḵ इत्यजयश्च ॥ पापापराधयोरागः । पापे यथा—ʻतौ नो मुञ्चतमागसḵ इति श्रुतिः (तै। सं। ४। ७। १५। ३) । अपराधे यथा—ʻसहिष्ये शतमागांसि इति माघकाव्ये (शिशु। २। १०८) ॥ खगबाल्यादिनोर्वयः । खगः पक्षिमात्रम् । यथा—ʻआलोकशब्दं वयसां विरावैḵ इति (रघु। २। ९) । बाल्यादि बाल्ययौवनाद्यवस्थाविशेषः । उभयत्र रूपभेदाद् नपुंसकत्वम् । वयते स्वानुरूपव्यापारं गच्छतीति वयः । ʻवय गतü । असुन् । शेषे—ʻयुवतामात्रे वयḵ इति । यौवनमात्र इत्यर्थः । यथा—ʻवयःप्रादुर्भावं प्रथयति परीहासफणितिḵ इति ॥ २३० ॥
मल्लि-नाथः - AK.03.03.230
ज्वालाभासोः—द्योतदृष्टिषु । सूर्याग्न्योः पुंलिङ्गः । ʻज्योतिर्ना भास्करेऽग्नौ च क्लीबं भद्योतदृष्टिष्ü इति रुद्रः ॥ पापापराधयोरागः । एनःशब्दोऽप्येतत्प्रकारः । ʻआगः किल्बिषमेनश्च त्रीणि पापापराधयोḵ इति वैजयन्ती (पृ। २७४, श्लो। १६) ॥ खगबाल्यादिनोर्वयः । यौवनमात्रेऽपि स्यात् । ʻवयः पक्षिणि बाल्यादौ वयो यौवनमात्रके इति विश्वः (पृ। १७६, श्लो। ३२) ॥ २३० ॥
[[०३.५५४]]
अक्।०३.०३.२३१अब् तेजःपुरीषयोर्वर्चो महस्तूत्सवतेजसोः ।
अक्।०३.०३.२३१च्द् रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ॥ २३१ ॥
लिङ्ग-सूरी - AK.03.03.231
वर्चः सुरूपपुरुषे भवेत् तेजःपुरीषयोः ।
वचते दीप्यत इति वर्चः । ʻवर्च दीप्तü ॥
क्लीबं महस्तेजसि स्यादुत्सवे तु पुमान् महः ॥ ५०५ ॥
मह्यते जनैरिति महः । ʻमह पूजायाम् ॥
पांसौ गुणे च स्त्रीपुष्पे रजःशब्द उदाहृतः ।
रज्यतेऽनेनेति रजः । ʻरञ्ज रागे ॥
राहौ ध्वान्ते गुणे शोके तमःशब्दः प्रकीर्तितः ॥ ५०६ ॥
तम्यतेऽनेनेति तमः । ʻतमु ग्लानü ॥ २३१ ॥
तेजःपुरीषयोर्वर्चः । वर्च्यत इति वर्चः । ʻवर्च दीप्तü । वृज्यते त्यज्यत इति वर्चः पुरीषम् । ʻवृजी वर्जने । औणादिकोऽसुन् प्रत्ययः (उ। ४। १८९) । बाहुलको जकारस्य चकारः । शेषे—ʻवर्चस्तु रूपवद्वर्चḵ इति । रूप इव तेजःपुरीषयोरपि वर्चःशब्दो वर्तत इत्यर्थः ॥ महश्चोत्सवतेजसोः । मह्यते पूज्यते सम्बन्धिजनोऽत्रेति महः । ʻमह पूजायाम् । ʻमहामहोनीलशिलारुचः पुरḵ इति माघकाव्ये (शिशु। १। १६) सकारान्तप्रयोगः । उत्सववचने त्वकारान्तो नाट्यवर्गे कथितः (१, पृ। १४४) । तत्रापि सकारान्तकथने ʻमह उद्धव उत्सवḵ इत्यत्र लिङ्गसङ्करदोषः प्रसज्येत । अतस्तत्राकारान्तत्वं सकारान्तत्वं चेत्युत्सववाचकस्य महःशब्दस्योभयमङ्गीकरणीयम् । ʻन खलु दूरगतोऽप्यति वर्तते महमसाविति बन्धुतयोदितैḵ इति माघकाव्ये (शिशु। ६। १९) अकारान्तस्य महशब्दस्य प्रयोगश्च । ʻस राशिरासीन्महसां महोज्ज्वलḵ इत्युभयत्रापि नैषधकाव्ये (१। १) । इह तु प्रकरणपाठसामर्थ्यात् सकारान्तत्वमस्तीत्यवगम्यते ॥ रजो गुणे च स्त्रीपुष्पे । ʻगुणाः सत्त्वं रजस्तमḵ इत्युक्तो गुणः (१, पृ। ९०) । स्त्रियाः पुष्पमार्तवम् । प्रतिमासं जायमानमिति यावत् । च शब्दात् पांसौ च प्रागुक्तम् (१, पृ। ५४२) ॥ राहौ ध्वान्ते गुणे तमः । गुणः तद्विशेषः प्रागुक्तः (१, पृ। ९०) । शेषे—ʻतमः शोके इति । ʻक्लीबं तमोगुणे शोके सैंहिकेयान्धकारयोḵ इति रभसश्च । राहौ—ʻतमस्तु। राहुः स्वर्भानुḵ इति (१, पृ। ६७) । ʻस्वर्भानुश्च तमो राहुः सैंहिकेयो विधुन्तुदḵ इत्यमरमालायां पुंस्काण्डे कथितमिति सुभूतिचन्द्रः ॥ २३१ ॥
मल्लि-नाथः - AK.03.03.231
तेजःपुरीषयोः—उत्सवतेजसोः । अकारान्तमहशब्दोऽपि स्यात् । ʻमही भूमौ मही नद्यां मह उत्सवतेजसोḵ इति विश्वः (पृ। १८०, श्लो। १०) ॥ रजो गुणेऽपि—गुणे तमः ॥ २३१ ॥
[[०३.५५६]]
अक्।०३.०३.२३२अब् छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च ।
अक्।०३.०३.२३२च्द् सहो बलं सहा मार्गो नभः खं श्रावणो नभाः ॥ २३२ ॥
लिङ्ग-सूरी - AK.03.03.232
छन्दः स्यात् स्वैचरणे पद्ये वेदाभिलाषयोः ।
चन्दयत्याह्लादयतीति छन्दः । ʻचदि आह्लादने ॥
कृच्छ्रादिकर्मणि तपः पुमान् स्याद् माघघर्मयोः ॥ ५०७ ॥
लोकान्तरे च शिशिरे धर्मे च समुदाहृतम् ।
तपन्त्यत्रेति तपः । ʻतप सन्तापे ॥
सहो बले ज्योतिषि च सहा हेमन्तमार्गयोः ॥ ५०८ ॥
सह्यत इति सहः । ʻषह मर्षणे ।
आकाशे श्रावणे मेघे घ्राणे चैव पतद्ग्रहे ।
मृणालसूत्रे वर्षासु नभःशब्द उदाहृतः ॥ ५०९ ॥
न भातीति नभः । ʻभा दीप्तü ॥ २३२ ॥
छन्दः पद्येऽभिलाषे च । पद्ये पद्यगताक्षरसन्निवेशविशेषे गायत्रीत्रिष्टुबादिपदाभिलप्ये । अभिलाषेऽकारान्तोऽप्यस्ति । तथा च शब्दभेदप्रकाशे—ʻछन्दोऽभिलाषे छन्दः स्यादुत्सवे च महो महḵ इति । चकाराद् वेदे च । यथा—श्रोत्रियः छन्दोऽधीते इति ॥ तपः कृच्छ्रादिकर्म च । कृच्छ्रं सान्तपनादिकम् । आदिशब्देन जपोपवासादिकं गृह्यते । शेषे—ʻतपो लोके धर्ममात्रे क्लेशे शिशिरमाघयोḵ इति । लोके—तपोलोके । धर्ममात्रे—दानाध्ययनादौ । क्लेशे यथा—किं करोतु तपस्वी । शोच्यत इत्यर्थः ॥ सहो बलं सहा मार्गः । बलं सामर्थ्यम् । मार्गो मासविशेषः । तत्र रूपभेदात् पुंलिङ्गः । शेषे—ʻसहो ज्योतिषि हेमन्ते ना हासवति वाच्यवत् इति । हेमन्ते च विशेषविधानात् पुंलिङ्गः । हासयुक्ते तु त्रिलिङ्गः । तत्र हसनं हस्, भावे क्विप् । हसा सह वर्तत इति सहः । स्त्रीपुंसयोरप्येवमेव, दीर्घप्राप्तेरभावात् ॥ नभः खं श्रावणे नभाः । खमाकाशम् । द्विः पदोपादानमर्थविशेषेण लिङ्गभेदनप्रत्ययनार्थम् । शेषे—
ʻनभः क्लीबं जलधरे ना तु घ्राणे पतद्ग्रहे ।
मृणालसूत्रे वर्षासु ॥
इति । विश्वप्रकाशे च—
ʻनभो व्योम्नि नभा मेघे नभाः पुंसि पतद्ग्रहे ।
घ्राणे मृणालसूत्रे च वर्षासु श्रावणेऽपि च ॥
इति (पृ। १७७, श्लो। ३७) ॥ २३२ ॥
मल्लि-नाथः - AK.03.03.232
छन्दः पद्येऽभिलाषे च । स्वैराचरणवेदयोरपि स्यात् । ʻछन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोḵ इति विश्वः (पृ। १७६, श्लो। २८) ॥ तपः कृच्छ्रादिकर्म च । ʻतपश्चान्द्रायणादौ स्याद् धर्मे लोकान्तरेऽपि च्ö इति विश्वः (पृ। १७६, श्लो। ३५) ॥ सहो बलं सहा मार्गः । मार्गो मार्गशीर्षः ॥ नभः खं श्रावणे नभाः ॥ २३२ ॥
[[०३.५५८]]
अक्।०३.०३.२३३अब् ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोऽम्बु च ।
अक्।०३.०३.२३३च्द् ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये ॥ २३३ ॥
लिङ्ग-सूरी - AK.03.03.233
अगाराश्रययोरोको न स्त्रियां परिकथ्यते ।
उच्यति समवैत्यत्रेत्योकः । ʻउच समवाये ॥
क्षीरे च सलिले चैव पयःशब्दोऽभिधीयते ॥ ५१० ॥
पीयत इति पयः । ʻपीङ् पाने ॥
धात्ववष्टम्भबलयोर्दीप्तौ तेजसि न द्वयोः ।
विक्रमे च प्रकाशे सङ्ख्यास्वौजस्त्वदन्तकः ॥ ५११ ॥
उब्जत्यनेनेत्योजः । ʻउब्ज आर्जवे ॥
स्रोतो नदीमहावेगे द्वारे चैवेन्द्रियस्य हि ।
स्रवतीति स्रोतः । ʻस्रु गतü ॥ २३३ ॥
ओकः सद्माश्रयश्चौकाः । सद्म गृहम् । आश्रयो वृक्षादिस्थानमात्रम् । उच्यन्ति सम्भूय तिष्ठन्त्यत्रेति ओकः । ʻउच समवाये दैवादिकः । ʻओक उचः के (७। ३। ६४) इत्यसुन् प्रत्ययः चकारस्य ककारादेशश्च । उच्यतेरसुन् प्रत्यये उणादिषु बहुलग्रहणात् कुत्वमिति काशिका (२, पृ। ३४३) । द्विः पदावृत्तिः पादपूरणार्था । शेषे—ʻस्यादोकः पुंस्यदन्तकḵ इति । अकारान्तस्य प्रसङ्गादुक्तिः ॥ पयः क्षीरं पयोऽम्बु च । अत्रापि पादपूरणार्थं द्विः पदपाठः ॥ ओजो दीप्तौ बले । दीप्तिः प्रकाशः । बलं सामर्थ्यम् । उब्जति व्यक्तीभवतीति ओजः । ʻउब्ज आर्जवे । आर्जवं स्पष्टतेति धातुवृत्तौ । ʻउब्जेर्बले बलोपश्च्ö (उ। ४। १९३) इति बलेऽभिधेयेऽसुन् प्रत्ययः । धातोर्बकारस्य च लोपः । सूत्रे बलग्रहणस्योपलक्षणत्वाद् अर्थान्तरेऽपि धातोरसुन् प्रत्यये बकारलोपश्च भवत्येव । लघूपधगुणः (७। ३। ८६) । ʻओजर्क्षे पुरुषांशके इत्यकारान्तत्वेन जातकग्रन्थे प्रयुक्तः । ओजःशब्दो विशेषसङ्ख्यावाचित्वेन ज्यौतिषकैः परिभाषित इति नेह तस्योपयोगः ॥ स्रोत इन्द्रिये निम्नगारये । इन्द्रियम् इन्द्रियस्थानगतं द्वारम् । यथा—ʻस्रोतोभिस्त्रिदशगजा मदं क्षरन्तḵ इति भारविः (किरा। ७। ८) । रयशब्देनात्र प्रवाहो लक्ष्यते । यथा—त्रिस्रोता इति । स्रवतीति स्रोतः । ʻस्रुरीभ्यां तुट् च्ö (उ। ४। २०३) इत्यसुन्, तस्य च तुडागमः ॥ २३३ ॥
मल्लि-नाथः - AK.03.03.233
ओकः सद्माश्रयश्चौकाः । पदरुहस्पृशो चाङ्ग इति कात्यायनसूत्रोक्त्या अदन्तोऽपि स्यात् ॥ पयः क्षीरं—इन्द्रिये निम्नगारये । निम्नगारयो नदी नदीप्रवाहोऽपि ।
ʻस्रोतः स्रोतस्विनी कर्षू कुल्या द्वीपवती सरित् ।
ʻओघः प्रवाहो वेणी च धारा स्रोतो रयः स्मृतः ।
इति हलायुधः (अ। मा। ३। ४४। ४७) । ʻस्रोत इन्द्रिये गजपुष्करे इति पाठे गजपुष्करमिभकराग्रम् । ʻस्रोतोऽम्बुनिर्गमद्वार इन्द्रियेभकराग्रयोḵ इति भागुरिः ॥ २३३ ॥
[[०३.५६०]]
अक्।०३.०३.२३४अब् तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु ।
अक्।०३.०३.२३४च्द् विद्वान् विदंश्च बीभत्सो हिंस्रेऽप्यतिशये त्वमी ॥ २३४ ॥
लिङ्ग-सूरी - AK.03.03.234
दीप्तौ प्रभावे भरते तेजः स्याद् बलशुक्रयोः ॥ ५१२ ॥
तेजयतीति तेजः । ʻतिज निशातने । अतस्त्रिषु । अतःपरं वक्ष्यमाणाः शब्दाः आसान्तवर्गं त्रिषु लिङ्गेषु वर्तन्ते ॥
पण्डितप्राज्ञयोर्विद्वानात्मवेदिनि कथ्यते ।
वेत्तीति विद्वान् । ʻविद ज्ञाने ॥
हिंस्रेऽर्जुने च बीभत्सः कृपावति रसे त्रिषु ॥ ५१३ ॥
बीभत्सा अस्यास्तीति बीभत्सः । ʻबध बन्धने इत्यस्य निन्दायां सन् ॥ अतिशये त्वमी । अमी वक्ष्यमाणाः चत्वारः शब्दा अतिशये वर्तन्ते ॥ २३४ ॥
तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि । प्रभावः प्रतापः । दुराधर्षत्वमित्यर्थः । तदुक्तम्—
ʻअधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥
इति । दीप्तिः प्रकाशः । बलं सामर्थ्यम् । शुक्रं चरमधातुः । तेजयति तनूकरोति शात्रवादिकमिति तेजः । ʻतिज निशातने । निशातनं तनूकरणम् । असुन् प्रत्ययः (उ। ४। १८९) ॥ अतस्त्रिषु । इतः परं सान्तवर्गसमाप्तिपर्यन्ताः शब्दाः वाच्यलिङ्गा इत्यर्थः ॥ विद्वान् विदंश्च । यो विद्न् ज्ञेयोपादेयविवेकवान् स विद्वानुच्यते । ʻविद ज्ञाने इति धातोः लादेशस्य शतृप्रत्ययस्य ʻविदेः शतुर्वसुḵ (७। १। ३६) इति वस्वादेशे सति ʻउगिदचां सर्वनामस्थानेऽधातोḵ (७। १। ७०) इति नुमागमे ʻसान्तमहतः संयोगस्य्ö (६। ४। १०) इति दीर्घे संयोगान्तलोपे च (८। २। २३) विद्वानिति रूपम् । प्रज्ञादिगणे (५। ४। ३८) विदन्निति शत्रन्तः पठ्यते । अत एव ज्ञापकाद् ʻविदेः शतुर्वसुḵ इति वस्वादेशस्य पाक्षिकत्वादिह ग्रन्थकारेण विदन्निति शत्रन्तनिर्देशः कृतः । अथवा—ʻतुह्योस्ताङ्ङाशिष्यन्यतरस्याम् (७। १। ३५) इत्यनुवर्तते । तथा च काशिकाकारः—ʻकेचिदन्यतरस्यां ग्रहणमनुवर्तयन्ति । तेन विदन्तौ विदन्तः इति सिद्धं भवति इति (२, पृ। २८०) । शेषे—ʻविद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत् इति । प्राज्ञो गम्भीरार्थावधारणक्षमः ॥ बीभत्सो हिंस्रेऽपि । हिंस्रो घातुकः । ʻबध बन्धने इति धातोः ʻमान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य्ö (३। १। ६) इति सूत्रे बधेर्वैरूप्य इति वक्तव्यात् वैरूप्यार्थे सन्प्रत्यये तदन्ताद्धातोः ʻअप्रत्ययात् (३। ३। १०२) इत्यकारप्रत्यये स्त्रीलिङ्गाद् बीभत्साशब्दाद् अर्शआद्यचि (५। २। १२७) बीभत्सः । शेषे—ʻपार्थो घृणावान् बीभत्सḵ इति । पार्थोऽर्जुनः । घृणावान् जुगुप्सित इत्यर्थः । रसे पुंलिङ्गः । तद्वति त्रिलिङ्गश्चेति प्रागुक्तः (१, पृ। १०१) ॥ अतिशये त्वमी । अमी वक्ष्यमाणाः ईयसुन् प्रत्ययान्ता ज्यायःप्रभृतयश्चत्वारः शब्दा वृद्धादीनां बाढपर्यन्तानामतिशयार्थे वर्तन्ते ॥ २३४ ॥
मल्लि-नाथः - AK.03.03.234
तेजः प्रभावे—बले शुक्लेऽपि । बलं पराक्रमः । शुक्लं रेतः ॥ अथ त्रिषु विद्वान् विदंश्च । पण्डितोऽपि स्यात् । अधिकारात् त्रिलिङ्गः । विदुषी सभा । विद्वत्सदः ॥ बीभत्सो हिंस्रेऽपि । जुगुप्सितेऽपि स्यात् ॥ अतिशये त्वमी ॥ २३४ ॥
[[०३.५६१]]
अक्।०३.०३.२३५अब् वृद्धप्रशस्ययोर्ज्यायान् कनीयांस्तु युवाल्पयोः ।
अक्।०३.०३.२३५च्द् वरीयांस्तूरुवरयोः साधीयान् साधुबाढयोः ॥ २३५ ॥
इति सान्तवर्गः
लिङ्ग-सूरी - AK.03.03.235
प्रशस्तवृद्धयोर्ज्यायान् कनीयांस्तरुणेऽल्पके ।
अतिशयेन वृद्धो ज्यायान् । अतिशयेनाल्पः कनीयान् ।
उरौ वरे वरीयान् स्यात् साधीयान् साधुबाढयोः ॥ ५१४ ॥
अतिशयेन उरुः वरीयान् । अतिशयेन साधुः साधीयान् ॥ २३५ ॥
इति सान्तवर्गः
वृद्धप्रशस्ययोर्ज्यायान् । वृद्धप्रशस्यशब्दाभ्यामतिशयरूपार्थविवक्षायाम् ईयसुन् प्रत्यये (५। ३। ५७), प्रशस्यस्य (५। ३। ६०) इत्यनुवृत्तौ ʻज्य च्ö (५। ३। ६१), ʻवृद्धस्य च्ö (५। ३। ६२) इति सूत्राभ्यां शब्दद्वयस्य ज्यादेशे, ʻज्यादादीयसḵ (६। ४। १६०) इति प्रत्ययादेरात्त्वे ज्यायानिति रूपम् ॥ कनीयांस्तु युवाल्पयोः । अतिशयेन युवा, अतिशयेनाल्प इति च विग्रहे ईयसुन्-प्रत्यये (५। ३। ५७), ʻयुवाल्पयोः कानन्यतरस्याम् (५। ३। ६४) इति शब्दद्वयस्य कन्नादेशे कनीयानिति रूपम् ॥ वरीयांस्तूरुवरयोः । उरुर्महान् । वरः श्रेष्ठः । अत्रापि पूर्ववदतिशयार्थे शब्दद्वयादीयसुन्प्रत्यये, ʻप्रियस्थिर ॥ । इत्यादिना (६। ४। १५७) उरुशब्दस्य वरादेशे वरीयानित्यर्थद्वये साधारणं रूपं भवति ॥ साधीयान् साधुबाढयोः । अतिशयेन साधुरिति विवक्षायामीयसुन्प्रत्यये (५। ३। ५७) टिलोपे (६। ४। १५५) साधीयान् । अतिशयेन साधुः सज्जन इत्यर्थः । अतिशयेन बाढ इत्यस्मिन्नर्थे ʻअन्तिकबाढयोर्नेदसाधü (५। ३। ६३) इति साधादेशे च साधीयान्, अतिदृढ इत्यर्थः ॥ २३५ ॥
इति सान्तवर्गः
मल्लि-नाथः - AK.03.03.235
वृद्धप्रशस्तयोर्ज्यायान् । ʻअतिशये त्वमी इत्यधिकाराद् अतिवृद्धातिप्रशस्तयोः ॥ कनीयांस्तु—साधुबाढयोः ॥
अनुक्तम्—
ओदनेऽपि च पाथः स्यादम्भस्यपि सरो भवेत् ।
दासः स्याद् दानपात्रेऽपि त्रासो दोषेऽपि रत्नजे ॥
तिलित्सः स्यात् तरक्षौ च रभसः समदेऽपि च ।
ताम्रेऽपि स्यात् तामरसं चन्द्रमस्यपि सारसः ॥
क्रूरदृष्टौ च सप्तार्चिदंष्ट्रायामपि राक्षसी ।
अन्धेऽपि दिव्यचक्षुः स्याद् यथात्रैव सुलोचनः ॥
भवेद् घनरसस्तक्रघनसारकयोरपि ।
रासो ध्वनौ नर्मगोष्ठ्योः सेवासेवकयोश्च से ॥ २३५ ॥
इति सान्तवर्गः
[[०३.५६३]]
अथ हान्तवर्गः—
अक्।०३.०३.२३६अब् दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः ।
अक्।०३.०३.२३६च्द् द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके ॥ २३६ ॥
लिङ्ग-सूरी - AK.03.03.236
दले मयूरपिञ्छे च प्रधाने परिवारके ।
उद्योगवृद्ध्योरपि च बर्हशब्दः प्रकीर्तितः ॥ ५१५ ॥
बर्हत इति बर्हः । ʻबर्ह प्राधान्यादü । बृहतीति वा बर्हः । ʻबृहू उद्यमने ॥
सूर्यादौ ग्रहणे युद्धे पूतनादावनुग्रहे ।
उपरागे च निर्बन्धे स्वर्भानौ च ग्रहः स्मृतः ॥ ५१६ ॥
गृह्यत इति ग्रहः । ʻग्रह उपादाने ॥
क्वाथस्य च रसे चैवाप्यापीडे नागदन्तके ।
अगारद्वारके चैव निर्यूहः परिकथ्यते ॥ ५१७ ॥
निर्यूह्यत इति निर्यूहः । ʻयूहिḵ लौकिको धातुः ॥ २३६ ॥
दलेऽपि बर्हम् । दलं पर्णम् । बर्हं मयूरपिञ्छम् । शेषे—
ʻबर्हं मयूरपिञ्छेऽथ प्राधान्योद्योगवृद्धिषु
परिवारे पुमान् ॥
इति । प्राधान्यादिषु पुंलिङ्ग इत्यर्थः । ʻबृह वृद्धü इति धातोः पचाद्यचि (३। १। १३४) बर्हम् ॥ निर्बन्धोपरागार्कादयो ग्रहाः । निर्बन्ध आग्रहः । उपरागो राहुणा चन्द्रसूर्ययोर्ग्रहणम् । आदिशब्देन सूर्यादयो नव ग्रहाः । ʻग्रहवृदृनिश्चिगमश्च्ö (३। ३। ५८) इति भावे अप्प्रत्ययः । गृह्णन्तीति ग्रहाः सूर्यादयः । ʻविभाषा ग्रहḵ (३। १। १४३) इति पक्षे पचाद्यच् । शेषे—ʻयुद्धग्रहणानुग्रहेषु तु । पूतनादौ ग्रहḵ इति । अत्र युद्धशब्देन युद्धोद्योगो विवक्षितः । तथा विश्वप्रकाशे—
ʻग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे ।
सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः ॥
इति (पृ। १७९, श्लो। २) ॥ द्वार्यापीडे—नागदन्तके । द्वारं गृहादौ निर्गमप्रवेशार्थं विकल्पितं कवाटस्थानविवरम् । ʻआपीडशब्देन कुड्याद् बहिर्निर्गतं दारु कथ्यते इति क्षीरस्वामिसुबोधिनीकारौ । तदुक्तं विश्वकर्मणा—
ʻस्थूणा तुलाग्रयोर्लग्नं द्विप्रान्तं तिर्यगुन्नतम् ।
आपीड उच्यते दारु स्वोर्ध्वस्यापीडधारणात् ॥
इति । अपरे तु—स्वसम्बन्धं पुरुषमापीडयति स्थापयतीति व्युत्पत्त्या मत्तवारणमापीडशब्दाथमाहुः । तथा च वैजयन्त्याम्—ʻकूटागारं तु वलभी निर्यूहो मत्तवारणम् इति (पृ। १६१, श्लो। ३१) । सुभूतिचन्द्रस्तु—आपीडः शेखर इति व्याख्याय तत्र रुद्राभिधानसंवादमाह—ʻनिर्यासे शेखरे द्वारि निर्यूहो नागदन्तके इति । क्वाथरसः पुष्परसः । नागदन्तकलक्षणमुक्तं वास्तुशास्त्रे—
ʻद्वारप्रान्तद्वये खातं नासाया ईषदुन्नतम्
दारु स्रगवलम्बार्थं नागदन्तक उच्यते ॥
इति । द्वारबन्धस्योपरिस्थितं दारु नासा । प्रान्तद्वयवर्तित्वेन नागदन्तसादृश्याद् नागदन्तकः । ʻनागदन्तो द्विपरदे गृहनिर्गतदारुणि इति विश्वप्रकाशश्च (पृ। ७२, श्लो। १९९) । निर्यान्त्यनेनेति वा, स्वयं निर्यातीति वा निर्यूहः । योतेरूहप्रत्ययः ॥ २३६ ॥
मल्लि-नाथः - AK.03.03.236
दलेऽपि बर्हम् । शिखिपिञ्छेऽपि स्यात् । ʻविण्टि अन्दुन्न्ü ॥ निर्बन्धोपराग—निर्यूहो नागदन्तके । नागदन्तकः ʻनागवासम्ü । भाषान्तरे ʻनेरुगुण्ठम् ॥ २३६ ॥
[[०३.५६५]]
अक्।०३.०३.२३७अब् तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ।
अक्।०३.०३.२३७च्द् पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ २३७ ॥
लिङ्ग-सूरी - AK.03.03.237
तुलासूत्रे हेम्नि भुजे बन्दीनियमयोर्घृणौ ।
हरिद्रौ हयरश्मौ च प्रग्राहः प्रग्रहे भवेत् ॥ ५१८ ॥
प्रगृह्यत इति प्रग्राहः, प्रग्रहश्च ॥
भृत्ये शापे मूलपत्न्योरादाने स्यात् परिग्रहः ।
परिगृह्यत इति परिग्रहः ॥ २३७ ॥
तुलासूत्रे—प्रग्रहोऽपि च । तुलादण्डस्योपरि स्तम्भद्वये तिर्यगवस्थापितकीलमध्ये तुलाधारणार्थं निहितं सूत्रं तुलासूत्रमिति सुबोधिनीकारः । रथादावश्वादिनियमनार्था सारथ्यादिभिर्ध्रियमाणा रज्जुः अश्वादिरश्मिः । प्रकर्षेण गृह्यते तुलादिकमनेनेति प्रग्राहः । ग्रह इति वर्तमाने ʻप्रे वणिजाम् (३। ३। ५२), ʻरश्मौ च्ö (३। ३। ५३) इति ग्रहेर्विभाषायां घञि प्रग्राहः । तदभावपक्षे ʻग्रहवृदृनिश्चिगमश्च्ö (३। ३। ५८) इत्यप् प्रत्यये प्रग्रहः । विश्वप्रकाशे—
ʻप्रग्रहस्तु तुलासूत्रे बन्द्यां नियमने भुजे ।
हयादिरश्मौ रश्मौ च सुवर्णहरिपादपे ॥
इति (पृ। १८०, श्लो। १२) । रश्मिः सूर्यादिकिरणः । शेषेऽपि—
ʻरश्मौ बन्द्यां नियमने भुजे च हरिपादपे ।
हेम्नश्च प्रग्रहḵ ॥
इति ॥ पत्नीपरिजनादानमूलशापाः परिग्रहाः । परिजनः परिवारः । आदानं मूलं बुध्नः । यथा—दृढपरिग्रहः पादपः इति । शापः शपथः । परिपूर्वो गृह्णातिः, कर्मणि भावे करणे च ʻग्रहवृदृनिश्चिगमश्च्ö (३। ३। ५८) इत्यप् प्रत्यये परिग्रहः ॥ २३७ ॥
मल्लि-नाथः - AK.03.03.237
तुलासूत्रे—मूलशापाः परिग्रहाः । मूलं नाम मूल्यम् । शापो नाम शपथः ॥ २३७ ॥
[[०३.५६६]]
अक्।०३.०३.२३८अब् दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः ।
अक्।०३.०३.२३८च्द् व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोऽपहाः ॥ २३८ ॥
अक्।०३.०३.२३९अ परिच्छदे नृपार्हेऽर्थे परिबर्हः
इति हान्तवर्गः
लिङ्ग-सूरी - AK.03.03.238
अगारे चैव भार्यायां गृहशब्दः प्रकीर्तितः ॥ ५१९ ॥
सर्वं गृह्णन्तीति गृहाः ॥
वरस्त्रियाः कटीभागेऽप्युच्छ्रायेऽश्वादिसादिनि ।
दैर्घ्यारोहणयोर्मानेऽप्यारोहः परिकथ्यते ॥ ५२० ॥
आरुह्यत इत्यारोहः । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö ॥
वृन्दे विशिष्टतर्के च सैन्यविन्यसनेऽपि च ।
पक्षिवृन्दे गते व्यूहनिर्माणे व्यूह उच्यते ॥ ५२१ ॥
व्यूह्यत इति व्यूहः । ʻऊह वितर्के ॥
वृत्रासुरे पन्नगे चाप्यहिस्तु समुदाहृतः ।
अंहत इत्यहिः । ʻअहि गतü ॥
हव्यवाहे हिमांशौ च सूर्येऽपि स्यात् तमोऽपहः ।
तमोऽपहन्तीति तमोऽपहः । ʻहन हिंसागत्योḵ ॥
नृपार्हचामरादौ च परिच्छेदे च वस्तुनि ॥ ५२४ ॥
परिच्छदे भूषणे च परिबर्हः प्रकथ्यते ।
परिबर्हत इति परिबर्हः । ʻबर्ह प्राधान्ये ॥ २३८ ॥
इति हान्तवर्गः
दारेषु च गृहाः । भर्त्रादिदत्तं गृह्णन्तीति गृहाः । पुंलिङ्गो बहुवचनान्तश्चायं गृहशब्दः । चशब्दाद् वेश्मनि च । ʻगेहे कḵ (३। १। १४४) इति सूत्रे गेहशब्दस्य वेश्माभिधेयत्वम्, तात्स्थ्यात् लक्षणया पत्नी चाभिधेयभूता । एवमर्थद्वयेऽप्यभिधेये कर्तरि ग्रहधातोः कप्रत्यये ʻग्रहिज्या ॥ । इत्यादिना (६। १। १६) सम्प्रसारणे गृहमिति ॥ श्रोण्यामप्यारोहो वरस्त्रियाः । शेषे—
ʻअश्वादिसादिनि।
आरोहणे द्राघिमनि मानेऽप्यारोह इष्यते ॥
इति । द्राघिमनि रज्ज्वादेर्दोर्घत्वे, माने वेण्वादेरुच्छ्राये । रुहेर्धातोः आङ्पूर्वात् कर्मणि भावे च घञ् प्रत्ययः । व्यूहो वृन्देऽपि । समूहे कृतनिर्वचनः (१, पृ। ३५८) । ʻव्यूहस्तु बलविन्यासे इति गतः (१, पृ। ५२९) । वीनां पक्षिणां समूहो व्यूहः । तद्वानपि व्यूहस्त्रिलिङ्गः । विशिष्टस्तर्को व्यूह इत्यादि । ʻव्यूहो ना बलविन्यासे निर्माणनिकुरुम्बयोḵ इति रुद्रः ॥ अहिर्वृत्रेऽपि । वृत्रो दानवविशेषः । अत एव—ʻसर्पे वृत्रासुरेऽप्यहिḵ इति रभसः । यथा—ʻद्रुतं धनुष्खण्डमिहाहिविद्विषḵ इति भारविः (किरा। ४। २७) । अंहति लोकान् व्याप्नोतीति अहिः । ʻअहि गतü । सर्पे प्रागुक्तः (१, पृ। १५०) ॥ अग्नीन्द्वर्कास्तमोऽपहाः । तमो ध्वान्तमपहन्तीति तमोऽपहः । ʻअपे क्लेशतमसोḵ (३। २। ५०) इति डप्रत्ययः । डित्त्वात् टिलोपः ॥ परिच्छदे नृपार्हेऽर्थे परिबर्हः । परिबर्हः परिच्छदः परिकरः । राजार्हं छत्रचामरादिकम् । यथा—ʻवेश्मानि रामः परिबर्हवन्ति इति रघुवंशे (१४। १५) । अर्थो धनम् । परिबृह्यते वर्धत इति परिबर्हः । ʻबृहि वृद्धü । कर्मणि घञ् प्रत्ययः । परिबर्हयन्तीति वा परिबर्हः । बृहतेर्ण्यन्तात् पचाद्यच् प्रत्ययः । (३। १। १३४) ॥
इति हान्तवर्गः
अत्र नानार्थवर्गपरिसमाप्तिं द्योतयितुं वर्गान्तरे वक्ष्यमाणमुपक्षिपति—अव्ययाः परे इति । अनन्तरमविभक्तिकलक्षणा अव्यया एव कथयिष्यन्त इत्यर्थः । इह केचिदाहुः—वक्ष्यमाणानाम् आङीषदादीनामप्यनेकार्थत्वाद् ʻविशेष्यनिघ्नैः सङ्कीर्णैḵ (३। १। १) इत्याद्युद्देशश्लोकगतानां नानार्थशब्देनोदाहरणम् । वर्गसमाप्तिस्तु ʻहि हेताववधारणे (श्लो। २५७) इत्यन्तनानार्थाव्ययनिरूपणानन्तरभावीति । अव्ययवर्गस्तु ʻचिराय चिररात्राय्ö इत्यादिक इति च । अपरे तु—तेषामप्यविभक्तिकत्वाद् अव्ययपदेनैवोपसङ्ग्रहणाद् आङीषदर्थ ॥ । इत्यादिकोऽव्ययवर्ग इत्याहुः । तेषामनेकार्थत्वं काण्डप्रथमश्लोकोक्तस्य वर्गाणां वर्गसंश्रयत्वस्यैव निर्वाहकमिति । अव्ययवर्गे द्वावप्यवान्तरवर्गौ नानार्थवर्गः पर्यायवर्गश्च इत्युपपत्तेः । न च विशेष्यनिघ्नत्वं सङ्कीर्णवर्गवद् अवान्तरवर्गाश्रयत्वं मा भूदिति वाच्यम् । सति सम्भवे तु परित्यागानुपपत्तेः । तयोरपि वर्गयोराचार्योक्तं वर्गसंश्रयत्वं प्रागेव समर्थितम् । किं च नानार्थवर्गादावाचार्येण प्रतिज्ञातम् इह केचिदनेकार्थाः कान्तादिवर्गेष्वेव विवक्ष्यन्ते । भूरिप्रयोगास्तु पर्यायकाण्डे कान्तादिषु चेति । न चाङादयः पर्यायकाण्डगताः । न हि कान्तादिवर्गेषु क्रोडीकृत्य पठिताः । अतो नानार्थवर्गसमाप्तिरत्रैव । अव्ययवर्गस्तु आङीषदर्थं (श्लो। २३९) इत्यादिरिति सर्वं कल्याणम् ॥ २३८ ॥
व्याचष्टामरसिंहोक्ते नामलिङ्गानुशासने ।
बोम्मगण्ट्यप्पयाचार्यो वर्गं नानार्थगुम्फितम् ॥
इह यत्त्यक्तमज्ञानादालस्याद्यदुपेक्षितम् ।
प्रमादादन्यथोक्तं यत् तद् विद्वद्भिर्विशोध्यताम् ॥
इति नानार्थवर्गः समाप्तः
मल्लि-नाथः - AK.03.03.238
दारेषु च गृहा । नपुंसकगृहशब्दोऽपि एवप्रकारः । ʻजाया च गृहिणी गृहाḵ इति हलायुधः (अ। मा। २। ३३९) ॥ श्रोण्यामप्यारोहो वरस्त्रियाः । समुच्छ्रायेऽपि स्यात् ॥ व्यूहो बृन्देऽपि । सेनाविन्यासेऽपि स्यात् ॥ अहिर्वृत्रेऽपि । सर्पेऽपि स्यात् ॥ अग्नीन्द्वर्का—परिबर्हः । नृपार्हार्थः श्वेतच्छत्रादिः ॥ अनुक्तम्—
पिकालापेऽपि च कुहूरीहा स्यादुद्यमेऽपि च ।
आरोहः स्यान्महामात्रो हस्त्यारोहोऽप्ययं मतः ॥ २३८ ॥
इति हान्तवर्गः
[[०३.५७०]]
अक्।०३.०३.२३९ब् अव्ययाः परे ।
अक्।०३.०३.२३९च्द् आङीषदर्थे ऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥ २३९ ॥
लिङ्ग-सूरी - AK.03.03.239
अव्ययाः परे । परे वक्ष्यमाणाः शब्दा आलिङ्गसङ्ग्रहवर्गान्तमव्ययाः । अलिङ्गा इत्यर्थः ॥ अतः परमव्ययनानार्थवर्गमुपक्रमते—आङीषदर्थे—धातुयोगज इति । वर्तते इति शेषः । अत्रोदाहरणानि । ईषदर्थे यथा—ʻआपाण्डरीभूतमुखच्छवीनाम् इति (कु। सं। ३। ३३) । अभिव्याप्तौ यथा—आकुमारं यशः । कुमारा अपि यशो जानन्तीत्यर्थः । सीम्नि यथा—ʻआसमुद्रक्षितीशानाम् (रघु। १। ५) । धातुयोगजे यथा—आदत्ते । आहरति । आक्रामति । आयातीत्यादि ॥ २३९ ॥
आङीषदर्थे—धातुयोगजे । उद्देशक्रमानुरोधेन पूर्ववर्गान्त एवोपक्षिप्तानव्ययानाह—आङित्यस्य गणगतत्वेन ʻउपदेशेऽजनुनासिक इत् (१। ३। २) इति ङकारस्येत्सञ्ज्ञालोपे सति प्रयोगकाले तस्याभाव एव । ईषदर्थोऽल्पार्थः । यथा—आ उष्णमिति विग्रहे ʻनित्यं कुगतिप्रादयḵ (२। २। १८) इति समासे सति ओष्णं, किञ्चिदुष्णमित्यर्थः । आलवणम् । ʻआपाण्डरीभूतमुखच्छवीनाम् (कु। सं। ३। ३३) इति च । अन्येन युक्तो विधिः अभिविधिः । यथा—ʻआकुमारं यशः पाणिनेḵ (म। भाष्य। १। ४। ८९), बाला अपि पाणिनेर्यशो जानन्तीत्यर्थः । ʻआजन्मशुद्धानाम् (रघु। १। ५) इति च । सीम्नि मर्यादायाम् । यथा—ʻओदकान्तं प्रियं पान्थमनुव्रजेत्, देशान्तरं प्रति गच्छन्तं प्रियं सजलजलाशयदर्शनान्तमनुव्रजेदित्यर्थः । ʻपञ्चम्यपाङ्परिभिḵ (२। ३। १०) इति पञ्चमी धातुयोगजेऽर्थे इति अनेकार्थे सत्यपि अनभिव्यक्तार्था एव धातवः आङाद्युपसर्गवशादर्थविशेषे वर्तन्ते । अतो धात्वर्थद्योतकत्वेन उपसर्गाणामपि तदर्थत्वमुच्यते । आङित्यस्य ईषदाद्यर्थत्रयाभिधायकत्वं, धातुयोगजार्थस्य तु द्योतकत्वमिति विवेकः । एवमुत्तरत्रापि यथायथं द्रष्टव्यम् । अत्र धातुयोगज इत्यस्य विवरणं शेषकारेण कृतम् । यथा—
ʻक्रियोद्गमग्रहाधर्षाश्लेषशापाभिकाङ्क्षणे ।
अवष्टम्भे कालहृतावुत्कण्ठानिकटत्वयोः ॥
स्पर्धावापनिषेधेषु विनामे बन्धने वधे ।
स्नाने संस्थासम्प्रदायदर्शनेषु विमर्शने ॥
विज्ञाने ज्ञापने पारतन्त्र्ये त्यागनियोगयोः ।
भूषासम्भाषणालेख्याभिमुख्याक्रमणेषु च ॥
वृत्त्यावृत्तिप्रापणेषु प्रतिश्रवणविस्तृतौ ।
विस्रम्भाभिविधोद्योगं सम्भ्रमाभ्यवहारयोः ॥
स्थान आवरणाह्वान आध्मापूजाश्रमेषु च ।
उक्तिदुःखानन्दनेषु सञ्चये चाङ् प्रवर्तते ॥
इति । क्रियायां यथा—आचरति करोतीत्यर्थः । उद्गम ऊर्ध्वगमनम् । यथा—ʻयावत् प्रतापनिधिराक्रमते न भानुḵ इति (रघु। ५। ७१) । उदेतीत्यर्थः । ग्रहे स्वीकारे । यथा—ʻआदत्ते हि रसं रविḵ (रघु। १। १८) इति । ʻमिषतामाच्छिनत्ति नḵ (कु। सं। २। ४६) । गृह्णातीत्यर्थः । ʻआधर्षः आधर्षणमुपद्रवकरणम् । यथा—आस्कन्दति । आश्लेषे यथा—आलिङ्गति । शापे यथा—आक्रोशति । अभिकाङ्क्षणमिच्छा । यथा—आकाङ्क्षति भिक्षाम् । अवष्टम्भः तदेकशरणत्वम् । यथा—ʻनालम्बते दैष्टिकताम् इति (शिशु। २। ८६) । कालहृतिः कालयापनम् । यथा—आगमयस्व तावन्माणवकम् । उत्कण्ठायाम् । यथा—आध्यानमुत्कण्ठेति प्रागुक्तम् (१, पृ। १३८) । निकटत्वे सामीप्ये । यथा—आसीदति, सन्निकृष्टो भवतीत्यर्थः । स्पर्धायाम् । यथा—ʻगतभीराह्वत चेदिराण्मुरारिम् (शिशु। २०। १); शिशुपालः स्पर्धमानः सन्नाह्वानं कृतवानित्यर्थः । आवापो निधानम् । यथा—गर्भमादधाति । बीजमावपति । विनामो वक्रीकरणम् । यथा—हस्तमाकुञ्चयति । बन्धने यथा—ʻआमुञ्चतीवाभरणम् इति (रघु। १३। २१) । वधे यथा—ʻवायव्यं श्वेतमालभेत्ö (तै। सं। २। १। १। १) इति । स्नाने यथा—आप्लावते इति । संस्था अवयवविशेषो यथा—ʻआकारसदृशप्रज्ञḵ इति (रघु। १। १५) । छन्दोगा आमनन्तीत्याम्नायः । सम्प्रदाय इति च गतम् (२, पृ। १६८) । दर्शने यथा—आलोकन्त इति । विमर्शो विचारो यथा—आलोचयतीति । विज्ञाने यथा—अर्थोऽयमाभासते, ज्ञानविषयो भवतीत्यर्थः । ज्ञापने यथा—आदिशतीति । पारतन्त्र्ये यथा—तदायत्तः, तत्परतन्त्र इत्यर्थः । त्यागः प्रारब्धकर्मपरित्यागः । यथा—ʻअनारतं तेन पदेषु लम्भिताḵ इति (किरा। १। १५) । नियोगे यथा—आज्ञापयति देवः इति । भूषायां यथा—आभरणमिति । सम्भाषणे यथा—आलपति, भाषत इत्यर्थः । आलेख्ये यथा—आलिखति । आभिमुख्ये यथा—आगच्छति । आक्रमणं व्यापनम् । यथा—आरोहति धूमो हर्म्यतलम् । आक्रमते नीहार इति । वृत्तौ यथा—वृद्ध्याजीवो वार्धुषिकः । आवृत्तिर्निवृत्तिः । यथा—आवर्तते वनान्तात् । पुनः पुनः क्रियायामभ्यास आवृत्तिः । यथा—आवृत्तशास्त्रः । प्रापणे यथा—अन्तर्वेदि हवींष्यासादयति । आज्यमासादयति । प्रतिश्रवणं प्रतिज्ञातम् । यथा—ʻआश्रुतं प्रतिज्ञातम् इति गतम् (२, पृ। १५०) । वेदमपौरुषेयमास्थिषत भाट्टाः । आश्रृणोति, प्रतिजानीत इत्यर्थः । विस्तृते विस्तारे यथा—आयामः । विस्रम्भो विश्वासः । यथा—आश्वस्तमित्रजन इति । अभितो विधानं कार्त्स्न्येन करणमित्यर्थः । यथा—दर्भानालुनाति, समन्ततो लुनातीत्यर्थः । उद्योगे यथा—आरभते । सम्भ्रमस्त्वरा । यथा— आवेगः, आग्रहः । अभ्यवहारे यथा—आचामति, आस्वादयति । स्थाने यथा—आधारः । आवरणं तिरोधानकरणम् । यथा—आवृणोति । आह्वाने यथा—आकारयति । आध्मा आध्मानं पूरणमित्यर्थः । यथा—आध्मातशङ्ख इति । पूजायां यथा—आराधयति शिवम् । श्रमे यथा—आयासयति । उक्तौ यथा—आचष्टे सम्यग् भाषणम् । साम्मुख्येन भाषणं सम्भाषणम्, उक्तिस्तु भाषणमित्यनयोर्भेदः । दुःखे यथा—आतङ्क आपन्नः । आनन्दे यथा—ʻआपृच्छस्व प्रियसखममुम् इति (मेघ। १। १२) । सञ्चयः सङ्ग्रहः । यथा—गोमयानाचिनोति । एवं प्रयोगानुपलक्ष्योपसर्गद्योत्या अर्था द्रष्टव्याः ॥ २३९ ॥
मल्लि-नाथः - AK.03.03.239
अव्ययाः परे । हान्तवर्गादुपरि वक्ष्यमाणाः शब्दा अव्यया भवन्ति ॥ आङीषदर्थे—धातुयोगजे । ईषदर्थे—आपिङ्गला गौः । अभिव्याप्तौ—आजन्मब्रह्मचारी । सीमार्थे—ओदकान्तं प्रियमनुव्रजेत् । धातुयोगजे—आहरति ॥ २३९ ॥
[[०३.५७३]]
अक्।०३.०३.२४०अब् आ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात् कोपपीडयोः ।
अक्।०३.०३.२४०च्द् पापकुत्सेषदर्थे कु धिग्निर्भर्त्सननिन्दयोः ॥ २४० ॥
लिङ्ग-सूरी - AK.03.03.240
आ प्रगृह्यः स्मृतौ वाक्ये चाः कोपे तापपीडयोः ।
पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः ॥ ५२४ ॥
वाक्येऽपि । वर्ततं इति शेषः । स्मृतौ यथा—आ एवं किल तत् । वाक्ये यथा—आ एवं नु मन्यसे ॥ कोपं यथा—ʻआः किमेतत् इति क्रोधात् (देवीमा। २। ३६) । तापे यथा—आः क्वासि प्रिये । पीडायां यथा—आः कष्टं वर्तते ॥ कु, पापार्थे यथा—त्यजेत् कुजनसङ्गम् । कुत्सायां यथा—कुभोजनम् । ईषदर्थे यथा—कोष्णम्, कदुष्णम्, कवोष्णम् ॥ घिक्, निर्भर्त्सने यथा—धिग् जाल्मम् । निन्दायां यथा—ʻधिगिमां देहभृतामसारताम् इति (रघु। ८। ५१) ॥ २४० ॥
आ प्रगृह्यः स्मृतौ वाक्येऽपि । आ इत्ययं निपातः स्मरणे वाक्ये च वर्तते । स्मृतौ यथा—आ एवं किल तत् इति । पूर्वोदितादर्थादन्यथात्वद्योतनाय वाक्यान्तरस्यादौ आकारः प्रयुज्यते । यथा—आ एवं नु मन्यसे इति । पूर्वं नैवममंस्थाः, अधुना प्रकारान्तरेण मन्यस इति तस्यार्थः । वाक्ये वाक्यालङ्कारे इत्यपरे । यथा—आ अद्य स्वादिष्ठं भोजनं लब्धम् इति ।
ʻईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः ।
एतमातं ङितं विद्याद् वाक्यास्मरणयोरङित् ॥
इति हरदत्तः (पदम। १, पृ। ११३) । ततश्च ʻनिपात एकाजाङ् (१। १। १४) इति प्रगृह्यसञ्ज्ञायां ʻप्लुतप्रगृह्या अचि (६। १। १२५) इति प्रकृतिभावः । अमरसिंहग्रन्थेऽपि प्रगृह्यसञ्ज्ञाविधानस्य प्रकृतिभाव एव प्रयोजनमिति ज्ञेयम् ॥ आस्तु स्यात् कोपपीडयोः । आः इति विसर्जनीयान्तो निपातः प्रयोक्तुः क्रोधे पीडायां च वर्तते । क्रोधे यथा—ʻआः किमेतदिति क्रोधादाभाष्य महिषासुरḵ इति (देवीमा। २। ३६) । आः कष्टं वर्तते इति पीडायाम् ॥ पापकुत्सेषदर्थे कु । पापे यथा—ʻत्यजेत् कुजनसङ्गमम् इति । कुत्सायां निन्दायाम् । यथा—कुभोजनम् । ईषदर्थे यथा—कोष्ण, कवोष्णमिति । अत्र ʻकवं चोष्णे (६। ३। १०७) इति कुशब्दस्य कवादेशः ॥ धिग् निर्भर्त्सननिन्दयोः । निर्भत्सने यथा—धिगिमं निष्ठुरालपमिति । निन्दायां यथा—ʻधिगिमां देहभृतामसारताम् इति (रघु। ८। ५१) ॥ २४० ॥
मल्लि-नाथः - AK.03.03.240
आ प्रगृह्यः स्मृतौ वाक्येऽपि । स्मृत्यर्थे—आ ज्ञातम् । जटायुरेषः । वाक्यपूरणे—आ एवं मन्यसे । प्रगृह्यत्वात् सन्धिर्न भवति ॥ आस्तु स्यात् कोपपीडयोः । कोपे—आः पाप । पीडायाम्—आः कष्टमापतितम् ॥ पापकुत्सेषदर्थे कु । पापे—कुब्राह्मणः । कुत्सायाम्—कुदानम् । ईषदर्थे—कोष्णम् ॥ धिग् निर्भर्त्सननिन्दयोः ॥ २४० ॥
[[०३.५७४]]
अक्।०३.०३.२४१अब् चान्वाचयसमाहारेतरेतरसमुच्चये ।
अक्।०३.०३.२४१च्द् स्वस्त्याशीःक्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ॥ २४१ ॥
लिङ्ग-सूरी - AK.03.03.241
चान्वाचयसमाहारेतरेतरसमुच्चये ।
पादपूरणचेदर्थतुल्ययोगावधारणं ॥ ५२५ ॥
विनियोगेऽपि हेत्वर्थे चानुबन्धेऽपि कथ्यते ।
अन्वाचये यथा—भिक्षामट, गां चानय इति । समाहारे यथा—छत्रोपानहम् । इतरेतरयोगे यथा—देवदत्तयज्ञदत्ताभ्यामिदं कार्यं कर्तव्यम् । समुच्चये—वसिष्ठं गौतम धर्ममगस्त्यं प्रणनाम च । पादपूरणे यथा—ʻरामो रामश्च रामश्च बुद्धः कल्कीति ते दश्ö । चेदर्थे—ʻत्वं च मां नयसे राजन्नागमिष्यामि सज्जितḵ इति । तुल्ययोगे यथा—त्वं चाहं च सखे गच्छावः । अवधारणं यथा—ʻवेलामतीता तव चेयमाज्ञ्ȫ इति । विनियोगे यथा—पठ च पच च । हेत्वर्थे यथा—राजा च द्रष्टव्यः । अनुबन्धे यथा—त्वं च गच्छसि कार्यं नः सेत्स्यति ॥
स्वस्त्याशीःक्षेमयोः पुण्ये मङ्गले प्रतिवन्दने ॥ ५२६ ॥
आशिषि—ʻस्वस्त्यस्तु ते (रघु। ५। १७) । क्षेमे यथा—स्वस्ति गच्छति । स्वस्ति पुनरागच्छति । पुण्ये यथा—स्वस्तिमान् स्वर्गमश्नुते । मङ्गले—स्वस्तिवाक्यं ततः कुर्यात् । प्रतिवन्दने—राज्ञा नमस्कृता विप्राः स्वस्तीत्येते प्रयुञ्जते इति ॥
प्रकर्षे लङ्घने व्याधावतिदेशे च पूजने ।
दुर्नये यापने नाशे निर्बन्धानर्थशङ्कयोः ॥ ५२७ ॥
अनुबन्धानुज्ञयोः स्यादधिक्षेपापहासयोः ।
आरोपणे चाप्युपधावतिशब्द उदाहृतः ॥ ५२८ ॥
प्रकर्षे यथा—ʻपूर्वान् महाभाग तयातिशेषे (रघु। ५। १४) । लङ्घने—ʻअतीतकालस्त्वहमभ्युपेतḵ (रघु। ५। १४) । व्याधौ—अतिसारेण पीडितः । अतिदेशे—अतिदिशति । पूजने—अतिस्तुतो मया विप्रः । दुर्नये—अतिचरति । यापने—गाढपङ्कमतिवाहितातपः । नाशे—ʻवर्षात्ययेन रुचमभ्रघनादिवेन्दोḵ इति (रघु। १३। ७७) । निर्बन्धे—यद्वै ब्रह्मचारिन् प्राणमत्यप्रक्षः । अनर्थशङ्कायाम्—मा ते ऽत्याहितमङ्गने । अनुबन्धे—अतिगृह्णाति मां सङ्ख्या । अनुज्ञायाम्—अतिसृजति भोजनाय । अधिक्षेपे—स्वाम्यधिक्षिपति प्रजाः । अपहासे—स्यालान् देवोऽतिहसति । आरोपणे—अत्यादधति पात्रेषु धनं कुशलबुद्धयः । उपधायाम्—अतिसन्धत्ते ॥ २४१ ॥
चान्वाचय—समुच्चये । एकस्य प्राधान्यं सति अपरस्य गुणीभावोऽन्वाचयः । यथा—भिक्षामट, गां चानय इति । अत्र भिक्षाटनं कुर्वाणो यदि गां पश्यति तदा तामप्यानयति । नो चेत् भिक्षाटनमेव करोति । न तु गामप्यन्विष्यानयतीति भिक्षाटनस्य प्राधान्यम् । गवानयनस्य गुणभावः चकारेणावगम्यते । इतरेतरशब्देनात्र इतरेतरयोगो लक्ष्यते । स च परस्परापेक्षाणां बहूनां द्वयोर्वा परस्परभेदानुगमेन समुदायरूपतामापन्नानामेकस्मिन्नर्थेऽन्वये सति भवति । यथा—देवदत्तयज्ञदत्ताभ्यामिदं कार्यं कर्तव्यमिति, प्लक्षन्यग्रोधौ सह तिष्ठत इति उद्भूतावयवभेदत्वाद् द्विवचनमपि भवति । प्लक्षन्यग्रोधावित्यत्र साहचर्यवशात् प्लक्षशब्दो न्यग्रोधार्थोऽपि भवति । न्यग्रोधशब्दश्च प्लक्षार्थोऽपि शब्दशक्तिमहिम्ना समावेव समुदायार्थमाहतुः । न पृथग्भूतौ । ततश्च न प्लक्षानयनप्रसङ्ग न्यग्रोधानयनम् । नापि न्याग्रोधानयनप्रसङ्गे प्लक्षानयनम् । नाप्येकेनोक्तत्वात् परस्य प्रयोगानुपपत्तिः । पल्क्षशब्देन यावदर्थोऽभिधीयते तावान् न्यग्रोधशब्देनापीति द्व्यर्थत्वाद् द्विवचनमेव भवति । अतः समुदायान्न बहुवचनमित्यादिप्रपञ्चो महाभाष्यकारकैयटाभ्यां निरूपितोऽनुसन्धेयः । परस्परसापेक्षाणामेवावयवभेदतिरोधानेन एकीभूतावस्थतया एकस्मिन् प्रतिसम्बन्धिनि सम्बन्धः समाहारः । यथा—छत्रोपानहम्, मार्दङ्गिकपाणविकम् इत्यादि । अत्र संहतेः प्रधानत्वाद् एकवचनमेव । इतरेतरयोगसमाहाररूपयोरर्थयोः ʻचार्थे द्वन्द्वḵ (२। २। २९) इति विहितस्य समासस्य वैकल्पितत्वाद् वाक्यमपि भवति । तस्माद् देवदत्तेन यज्ञदत्तेन च कर्तव्यम्, छत्रोपानहोश्च समाहार इत्यपि प्रयोगः । परस्परनिरपेक्षाणामनेकेषामेकस्मिन् सम्बन्धिसम्बन्धः समुच्चयः । यथा—गोरवश्च महिषश्च देवदत्तस्येत्यादि । ʻशं च मे मयश्च मे प्रिय च मे इत्यादि (तै। सं। ४। ७। ३। १) । तथा एकस्मिन् द्रव्ये बह्वीनां क्रियाणां समुच्चयः । यथा—
ʻपुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ।
इति (शिशु। १। ५१) । अत्र य इति निर्दिष्टकर्तृभूतरावणरूपे द्रव्ये पुर्यवस्कन्दननन्दनलवनरत्नमोषणाप्सरोहरणरूपाणां क्रियाणां समुच्चयः । अत्र चशब्दप्रयोगाभावेऽपि समुच्चयस्य गम्यमानत्वम् । अत एव ʻसमुच्चयेऽन्यतरस्याम् (३। ४। ३) इति भूतलकारापवादेन लोट्प्रत्ययः । तथा गुणयोरपि क्वचित् समुच्चयः । यथा—पटान्तो रक्तः शुक्लश्चेति । शेषे—
ʻचण् चेतर्थे णकारेत्स्यादवधारणभेदयोः ।
पादस्य पूरणे हेतौ तुल्ययुग्विनियोगयोः ॥
इति । यदा चेति निपातस्य णकार इत्सञ्ज्ञको भवति, तदा चेदर्थे वर्तत इत्यर्थः । तदुक्तम्—चण् चेदर्थ इति । यथा —त्वं च गच्छसि कार्यं नःसेत्स्यति इति; त्वं चेत् गच्छसि कार्यसिद्धिर्भविष्यतीत्यर्थः । णकारानुबन्धो निपातैर्यद्यदिह ॥ ।चेत् चण् कच्चिद्यत्र युक्तमिति निघातप्रतिषेधार्थः । अवधारणे यथा—ʻअतीतः पन्थानं तव च महिमा वाङ्मनसयोḵ इति (शिवमहिम्न। २) । भेदविशेषे यथा—स खलु त्वामनुवर्तते त्वं च निरपेक्षः इति । त्वं पुनर्निरपेक्ष इत्यर्थः । पादपूरणे यथा—ʻभीमः पार्थस्तथैव च्ö इति । हेतौ यथा—ʻन चान्यतस्तस्य शरीररक्ष्ȫ इति (रघु। २। ४) । यस्मात् तस्य दिलीपस्यान्यतः शरीररक्षणं नापेक्षितम्, अतोऽनुयायिवर्गो निषिद्ध इत्यर्थः । तुल्ययोगे यथा—त्वं चाहं च गच्छावः । विनियोगे यथा—पठ च पच च ॥ स्वस्त्याशीःक्षेमपुण्यादौ । अविद्यमानार्थस्य प्रार्थनमाशीः । यथा—ʻस्वस्त्यस्तु ते (रघु। ५। १७) । लब्धपरिपालनं क्षेमः । यथा—स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति । ʻभूतानुकम्पा तव चेदियं गौरेका भवेत् स्वस्तिमती त्वदन्ते (रघु। २। ४८) इति । पुण्ये यथा—
ʻसौवस्तिकानि कर्माणि सवेदैव करोत्ययम् ।
॥ ॥ ॥ ॥सवस्तिमान् स्वर्गमश्नुते ॥
इति । आदिशब्दाद् मङ्गले यथा—स्वस्ति श्रीमदित्यादिकं सन्देशपत्रिकासु । ʻप्रास्थानिकं स्वस्त्ययनं प्रयुज्य्ö इति (रघु। २। ७०) ॥ प्रकर्षे लङ्घनेऽप्यति । प्रकर्षे यथा—अतिशेते । लङ्घने यथा—अतिक्रामति । शेषे—
ʻअतिः पूजातिक्रमणातिदेशव्याधियापने ।
आरोपणे च निर्बन्धे विनाशानुज्ञयोरपि ॥
इति । पूजायां यथा—स्वती पूजायाम् (ʻस्वतिभ्यामेव्ö वा। ५। ४। ६९) । अतिक्रमणे यथा—ʻअतिरतिक्रमणे च्ö (१। ४। ९५) । एकत्रोपदिष्टानां धर्माणामन्यत्र सद्भावकथनमतिदेशः । यथा—ʻप्रकृतिधर्माणां विकृतावतिदेशḵ इति । व्याधौ यथा—अतिसारेण पीडितः इति । यापने यथा—कालमतिवाहयति । आरोपणे यथा—उद्घने काष्ठमत्यादधाति । निर्बन्धने यथा—मा स्म गुरूनतिपृच्छ, निर्बन्धेन मा प्राक्षीरित्यर्थः । विनाशे यथा—अतीतो देवदत्तः । अनुज्ञायां यथा—प्रत्यातिसृज होष्यामि अतिसृष्ट उद्धरे जुहुयात् इति । अपिशब्दाद् भये यथा—अत्याहितम् । कपटे यथा—अतिसन्धत्ते ॥ २४१ ॥
मल्लि-नाथः - AK.03.03.241
चान्वाचय—समुच्चये । अन्वाचय—भिक्षामट गां चानय । अन्वाचयो यत्रैकः प्राधान्येनाभिधीयते, अपरो गुणभावेनेति । अत्र भिक्षाटनं प्रधानम्, गवानयनमुपसर्जनम् । समाहारे—गोवलीबर्दौ । इतरेतरे—प्लक्षन्यग्रोधौ । आविर्भूतावयवभेदः इतरेतरः, तिरोहितावयवभेदः समाहार इति तद्भेदः । समुच्चये—गावश्च वत्साश्च गच्छन्ति ॥ स्वस्त्याशीः क्षेमपुण्यादौ । आदिशब्दाद् मङ्गलेऽपि स्यात् । ʻस्वस्ति मङ्गलनिष्पापक्षेमेष्वाशीर्वचस्यपि इति वैजयन्ती (पृ। २८६, श्लो। २९) ॥ प्रकर्षे लङ्घनेऽप्यति । अपिशब्दात् प्रशंसायामपि स्यात् । ʻअतिः प्रकर्षप्रशंसालङ्घनेषु प्रयुज्यते इति जयकोशः ॥ २४१ ॥
[[०३.५७९]]
अक्।०३.०३.२४२अब् स्वित् प्रश्ने च वितर्के च तु स्याद् भेदे ऽवधारणे ।
अक्।०३.०३.२४२च्द् सकृत् सहैकवारे चाप्याराद् दूरसमीपयोः ॥ २४२ ॥
लिङ्ग-सूरी - AK.03.03.242
वितर्कप्रश्नयोश्चैव स्विदव्ययमुदाहृतम् ।
वितर्के यथा—ʻअधःस्विदासीदुपरि स्विदासीत् (ऋग्वेद। १०। १२९। ५) ।
प्रश्ने—ʻकः स्विदेकाकी चरति (तै। सं। ७। ४। १८। ३) ॥
भेदावधारणार्चासु तु हेतौ पादपूरणे ॥ ५२९ ॥
भेदविशेषे यथा—पूज्या गौः, कपिला तु पूज्यतरा । अवधारणे—वेदास्तु प्रमाणम् । अर्चायाम्—विद्वांस्तु द्विजमुख्यानाम् । हेतौ—पात्रं विप्रः श्रोत्रियस्तु । पादपूरणे—ततस्तं रामचन्द्रस्तु ॥
सकृत् सहैकवारे चाप्याराद् दूरसमीपयोः ।
सहार्थे—देवदत्तयज्ञदत्तौ सकृद्भूञ्जाते । एकवारे—ʻसकृदंशो निपतति (म। स्मृ। ९। ४७) ॥ आरात् । दूरे यथा—आराद्गता दृष्टिपथं व्यतीता । समीपे यथा—ʻतमर्च्यमारादभिवर्तमानम् (रघु। २। १०) ॥ २४२ ॥
स्वित् प्रश्ने च वितर्के च । प्रश्ने यथा—ʻकः स्विदेकाकी चरति (तै। सं। ७। ४। १८। ३) । वितर्के यथा—ʻअधः स्विदासीदुपरि स्विदासीत् (ऋग्वेद। १०। १२९। ५) इति ॥ तु स्याद् भेदेऽवधारणे । भेदे यथा—ʻसेवया तु कलौ युगे इति । अवधारणे यथा—ʻतत्तु समन्वयात् (ब्र। सू। १। १। ४); ʻवेदास्तु प्रमाणम् इति च । शेषे—ʻत्वर्चाहेत्वोः पादपूर्तü इति । अर्चा पूजा । यथा—ʻवेदाढ्यस्तु द्विजातीनाम् इति । हेतौ यथा—ʻदिशस्तु जलदैश्छन्ना भवित्री वृष्टिसंहतिḵ इति । यस्माद् मेघैर्दिशश्छन्ना अतो वृष्टिर्भविष्यतीत्यर्थः । पादपूरणे यथा—ʻततस्तु धर्मराजं तम् इति ॥ सकृत् सहैकवारे चापि । सहार्थे यथा—दम्पती सकृद्भुञ्जाते । सहभुञ्जाते इत्यर्थः । एकवारे यथा—ʻसकृत् प्रदीयते कन्य्ȫ (म। स्मृ। ९। ४७) । अपिशब्दात् सर्वदेत्यर्थे यथा—सकृत्तरुणा देवाः; सर्वदा युवान इत्यर्थः । आराद् दूरसमीपयोः । दूरे यथा—ʻआरात्तेऽग्निरस्त्वारात् परशुरस्तु ते इति (आपस्तम्बमन्त्रपाठः १। १३। ७) । समीपे यथा—ʻआरादागतमृत्यवḵ इति ॥ २४२ ॥
मल्लि-नाथः - AK.03.03.242
स्वित् प्रश्ने—अवधारणे ʻहेतुव्यावृत्तिपूजासु तथा पादस्य पूरणे इति क्वचित् पाठः ॥ सकृत् सहैकवारे चापि । सदैकवारे इति क्वचित् पाठः । आराद्दूरसमीपयोः ॥ २४२ ॥
[[०३.५८०]]
अक्।०३.०३.२४३अब् प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ।
अक्।०३.०३.२४३च्द् पुनःसदार्थयोः शश्वत् साक्षात् प्रत्यक्षतुल्ययोः ॥ २४३ ॥
लिङ्ग-सूरी - AK.03.03.243
प्रतीच्यां चरमार्थे च पश्चादव्ययमुच्यते ॥ ५३० ॥
प्रतीच्यां यथा—पश्चादस्तं गतो रविः । चरमार्थे यथा—ʻपश्चिमे वयसि नैमिशं वशी इति (रघु। १९। १) ॥
अप्यर्थपादपूर्त्योश्च समुच्चयविकल्पयोः ।
पक्षान्तरप्रश्नयोरप्युताव्ययमुदाहृतम् ॥ ५३१ ॥
अप्यर्थे यथा—उत भिन्द्याच्छिरसा शिलोच्चयम् । पादपूर्तौ—अब्रवीदुत रावणम् । समुच्चये—सुशेवो बलवानुत । विकल्पे—ʻजायामदोषामुत सन्त्यजामि (रघु। १४। ३४) । पक्षान्तरे—ʻअजीजनत् सिन्धुरुतावमन्थ्यḵ । प्रश्ने—ʻउत येन बिभर्षि तत् (कु। सं। ६। २३) ॥
सहार्थे पुनरर्थे च सदार्थे शश्वदुच्यते ।
सहार्थे यथा—दम्पती शश्वद् भुञ्जाते । पुनरर्थे—ʻशश्वत् पश्यत शब्दवार्धिलहरी विद्योल्बणं दौल्बणम् । सदार्थे—ʻशश्वद् दाता सुखं वसेत् इति ॥
प्रत्यक्षतुल्ययोः साक्षादव्ययं समुदाहृतम् ॥ ५३२ ॥
प्रत्यक्षे—ʻश्रीवत्सलक्ष्मा पुरुषश्च साक्षात् इति (कु। सं। ७। ४३) । तुल्ये—ʻस्कन्देन साक्षादिव देवसेनाम् इति (रघु। ७। १) ॥ २४३ ॥
प्रतीच्यां चरमे पश्चात् । प्रतीच्यां यथा—पश्चादस्तं गतो रविः । चरमे यथा—श्रोत्रियेभ्योऽतिथिभ्यश्च पूर्वं दीयतां पश्चादितरेभ्यः इति ॥ उताप्यर्थविकल्पायोः । अप्यर्थे समुच्चये यथा—ʻनमस्तेऽस्तु धन्वने बाहुभ्यामुत ते नमḵ (तै। सं। ४। ५। १। १) । विकल्पे यथा—ʻपारिव्राज्यमुत ग्राह्यमुत राज्यं नृणां सुखम् इति । शेषे—ʻवितर्केऽपि भवेदुत्ö इति । वितर्के यथा—स्थाणुरुतायं पुरुष इति । पादपूरणे यथा—ʻअब्रवीदुत राघवम् इति । प्रश्ने यथा—उत पठसि ॥ पुनःसदार्थयोः शश्वत् । पुनरर्थ यथा—शश्वदुदकं पिबति । सदाशब्दस्यार्थे यथा—शाश्वतः, सदातन इत्यर्थः । शेषे—ʻस्यात् शश्वत् सहसन्तते इति । सहार्थे यथा—दम्पती शश्वद् भुञ्जाते । सहभुञ्जाते इत्यर्थः । सन्ततं विच्छेदरहितम् । यथा—ʻवन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् इति रघुवंशे (१। ८८) ॥ साक्षात् प्रत्यक्षतुल्ययोः । प्रत्यक्षे यथा—ʻसाक्षाद् दृष्टोऽसि इति (कु। सं ६। २२) । तुल्ये यथा—साक्षाद् महाराजोऽयम्; महाराजतुल्योऽयमित्यर्थः ॥ २४३ ॥
मल्लि-नाथः - AK.03.03.243
प्रतीच्यां चरमे पश्चात् । अनन्तरार्थे च स्यात् । ʻचरमेऽनन्तरे पश्चात् इति गोपालितः ॥ उताप्यर्थविकल्पयोः । अप्यर्थः । प्रश्नः । ʻउत प्रश्ने वितर्के स्यादुताप्यर्थविकल्पयोḵ इति विश्वः (पृ। १८७, श्लो। १७) ॥ पुनःसदार्थयोः—प्रत्यक्षतुल्ययोः ॥ २४३ ॥
[[०३.५८२]]
अक्।०३.०३.२४४अब् खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत ।
अक्।०३.०३.२४४च्द् हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २४४ ॥
लिङ्ग-सूरी - AK.03.03.244
खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत ।
खेदे यथा—ʻत्यजत मानमलं वत विग्रहैḵ इति (रघु। ९। ४७) । अनुकम्पायां यथा—ʻमा रोदीर्बत पुत्र त्वं मोदकान् प्रददामि ते इति । सन्तोषे यथा—ʻवत मुक्तास्मि किल्बिषात् इति । विस्मये यथा—ʻअहो बतासि स्पृहणीयवीर्यḵ इति (कु। सं। ३। २०) आमन्त्रणे यथा—ʻबत पुत्र सतां सङ्गं कुरु नित्यमतन्द्रितḵ इति ॥
आमोदे च विषादे च वाक्यारम्भानुकम्पयोः ॥ ५३३ ॥
दाननिश्चययोश्चैव हन्ताव्ययमुदाहृतम् ।
आमोदे यथा—ʻहन्त जीविताः स्मḵ इति (स। कण्ठा। पृ। ३२) । विषादे यथा—ʻहन्त जातमजातारेः प्रथमेन त्वयारिण्ȫ इति (शिशु। २। १०२) । वाक्यारम्भे यथा—ʻहन्त ते कथयिष्यामि इति (भ। गी। १०। १९) । अनुकम्पायां यथा—ʻमा रोदीर्हन्त पुत्रके इति । दाने यथा—ʻइदं मनुष्येभ्यो हन्त्ö इति (स। कण्ठा। पृ। ३२) । निश्चये यथा—ʻहन्त भोक्ष्यावḵ इति ॥ २४४ ॥
खेदानुकम्पा—आमन्त्रणे बत । खेदे यथा—ʻबत कष्टां वशां गतोऽसि इति । अनुकम्पायां यथा—ʻबत बुभुक्षितासि इति । सन्तोषे यथा—ʻबत दृष्टा प्रिय्ȫ इति । विस्मये यथा—ʻबत बाल प्रगल्भसे इति । आमन्त्रणं सम्बोधनम् । यथा—ʻबत वितरत तोयं तोयवाहा हिमान्तम् इति । हे मेघाः सेतोरारभ्य हिमाचलावधि तोयं मुञ्चत इत्यर्थः ॥ हन्त हर्षे—विषादयोः । हर्षे यथा—हन्त लब्धजीवनाः स्मः इति । अनुकम्पायां यथा—मा रोदीर्हन्त पुत्रक इति । वाक्यारम्भे यथा—ʻहन्त ते कथयिष्यामि इति (भ। गी। १०। १९) । विषादे यथा—हन्त वृथा यत्नः कृतः इति । हन्तेति निपातो दानेऽपि । यथा—भूरियं हन्तकार इति । मनुष्येभ्यो दीयमानमन्नं हन्तकार इत्यर्थः ॥ २४४ ॥
मल्लि-नाथः - AK.03.03.244
खेदानुकम्पा—वत । हन्त—विषादयोः ॥ २४४ ॥
[[०३.५८३]]
अक्।०३.०३.२४५अब् प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ।
अक्।०३.०३.२४५च्द् इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ॥ २४५ ॥
लिङ्ग-सूरी - AK.03.03.245
वीप्सायां च प्रतिनिधौ लक्षणप्रतिदानयोः ॥ ५३४ ॥
इत्थम्भूतस्य चाख्याने प्रति भागे च कथ्यते ।
वीप्सायां यथा—वृक्षं वृक्षं प्रति सिञ्चति (काशिका। १, पृ। ८०) । प्रतिनिधौ यथा—पुत्रो जनकतः प्रति इति । लक्षणे यथा—ʻवृक्षं प्रति विद्योतते विद्युत् इति (काशिका १। ४। ९०) । प्रतिदाने यथा—चणकानस्मै गोधूमेभ्यः प्रति यच्छति इति । इत्थम्भूताख्याने यथा—साधुः पुत्रो देवदत्तं प्रति । भागे यथा—यद्दत्तं मां प्रति स्यादिति ॥
इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ॥ ५३५ ॥
एवमर्थे वक्ष्यमाणविचारे नियमे तथा ।
हेतौ यथा—ʻसहसोद्वेगमियं व्रजेदिति इति (रघु। ८। ७) । प्रकरणे यथा—ʻइति शत्रुषु चेन्द्रियेषु च्ö इति (रघु। ८। २३) । प्रकर्षे यथा—इति पाणिनिशब्दः इति । समाप्तौ यथा‒इति द्वितीयवर्गः इति । एवमर्थे यथा—ʻइति ब्रुवन्तं तमुवाच स व्रती इति (शिशु। १। ३१) । वक्ष्यमाणविचारे यथा—ʻस्तुतिरिति जगदे हरेः सूनुन्ȫ (किरा। १८। २१) इति । नियमे यथा—ʻआत्मोदयः परज्यानिर्द्वयं नीतिरितीयती इति (शिशु। २। ३०) ॥ २४५ ॥
प्रति प्रतिनिधौ—प्रयोगतः । मुख्यसदृशः प्रतिनिधिः । यथा—ʻअभिमन्युरर्जुनतः प्रति (काशिका १। ४। ९२) । अभिमन्युरर्जुनसदृश इत्यर्थः । मुख्यसदृशतया प्रतिनिधीयत इति प्रतिनिधिशब्दस्यापि प्रतिशब्दसामर्थ्यलभ्यम् । सामर्थ्यमेव प्रवृत्तिनिमित्तमत्र । अत्र प्रतिनिधिशब्दग्रहणम् एकसूत्रोपात्तस्य प्रतिदानस्याप्युपलक्षणम् । तथा च पाणिनिसूत्रम्—ʻप्रतिनिधिप्रतिदाने च यस्मात् (२। ३। ११) इति । प्रतिदाने यथा—ʻमाषानस्मै तिलेभ्यः प्रति यच्छति इति (काशिका १, पृ। ८०) । विनिमयसम्प्रतिपत्त्या तिलान् गृहीत्वा माषान् ददातीत्यर्थः । नानाभूतानामर्थानां क्रियागुणाभ्यां युगपद् व्याप्तुमिच्छा वीप्सा व्याप्तिरित्यर्थः । यथा—वृक्षं वृक्षं प्रति सिञ्चति (काशिका १, पृ। ८०) । द्विर्वचनमत्र प्रतिशब्दावयववीप्साभिव्यक्त्यर्थम् । लक्षणं चिह्नम् । ज्ञापकमिति यावत् । यथा—वृक्षं प्रति विद्योतते विद्युत् (काशिका १। ४। ९०) । आदिशब्देन ʻलक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवḵ (१। ४। ९०) इति सूत्रोक्तयोः इत्थम्भूताख्यानभागयोर्ग्रहणम् । कञ्चित् प्रकारं प्राप्तः इत्थम्भूतः । तस्याख्याने यथा—ʻसाधु देवदत्तो मातरं प्रति इति (काशिका १, पृ। ८०) । भागे यथा—यदत्र मां प्रति स्यात् स भागो दीयताम् इति । ʻप्रतिनिधिप्रतिदाने च यस्मात् (२। ३। ११), ʻलक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवḵ (१। ४। ९०) इति सूत्राभ्यां प्रतिशब्दः पूर्वोक्ते प्रतिनिध्याद्यर्थषट्के कर्मप्रवचनीयसञ्ज्ञो भवति । ʻप्रयोगतḵ इत्यस्यायमर्थः । न केवलं सूत्रद्वयानुसारेणोक्ता एत एव प्रतिशब्दस्यार्थाः, किं तु प्रयोगतो लोकप्रयोगानुसारेण अन्येऽप्यर्थाः, लक्षणादाविति आदिशब्देनैव सङ्गृहीता इति । ते च शेषकारेण केचित् दर्शिताः—
ʻपरिज्ञाने पदप्राप्तौ कालहृत्यां निवारणे ।
व्यलीकाविष्कृतौ तुष्टौ सेवायां निष्क्रयेऽपि च ॥
प्रोत्साहे चाविनाभावे विघ्नाङ्गीकारयोरपि ।
व्याबर्तने विनिमये पुनरावर्तनेऽपि च ॥
वैपरीत्ये विद्रत्वेऽपेक्षाप्रेक्षकयोरपि ।
सङ्क्षेपस्पर्धसादृश्ये स्वीकाराभ्यवहारयोः ॥
उत्तरस्तोकयत्नेषु चोपसर्गः प्रति स्मृतः ।
इति । परिज्ञानादिष्वर्थेषु कर्मप्रवचनीयसञ्ज्ञाया अभावे सति प्रतिशब्द उपसर्गसञ्ज्ञको भवतीत्यर्थः । परिज्ञाने यथा—प्रतिदीयते, प्रतिपद्यते । पदप्राप्तौ यथा—प्रतितिष्ठति । कालहरणे यथा—प्रतीक्षते, प्रतिपालयति । निवारणे यथा—प्रतिषेधति । व्यलीकाविष्कृतौ यथा—प्रतिभिनत्ति, प्रत्युपलभते । तुष्टौ यथा—प्रतिनन्दति, प्रतीतः । सेवायां यथा—प्रतिश्रयते । निष्क्रये यथा—प्रत्युपकुरुते, प्रतियातयति, प्रतिमुञ्चति । प्रोत्साहे यथा—होत्रे प्रतिगृणाति (सि। कौ। १। ४.४१) । अविनाभावे यथा—धूमोऽग्निना प्रतिबद्धः, व्याप्त इत्यर्थः । विघ्ने यथा—प्रतिबघ्नाति । अङ्गीकारे यथा—प्रतीच्छति, प्रतिशृणोति । व्यावर्तने यथा—प्रत्यावर्तते, प्रतिगच्छति । विनिमये यथा—प्रतिददाति, प्रतिलभते । स्वत्वनिवृत्तिपरत्वापत्तिपर्यन्तं प्रतिदानं विनिमयार्थः । व्यत्ययमात्रमिति प्रतिदानविनिमययोर्भेदः । पुनरावर्तने यथा—प्रत्यारभते, प्रत्युज्जीवति । वैपरीत्ये यथा—प्रतयवतिष्ठते । विनिद्रत्वे यथा—प्रतिबुध्यते निशात्यये । अपेक्षायां यथा—प्रतिजागरः । प्रक्षेपे यथा—प्रतिवापः । सङ्क्षेपे यथा—प्रत्याहरणम् । स्पर्धे यथा—प्रतिगर्जति । सादृश्ये यथा—प्रतिमानं, प्रतिबिम्बम् । स्वीकारे यथा—प्रतिगृह्णाति । अभ्यवहारे यथा—प्रत्यवस्यति । उत्तरे यथा—प्रतिब्रूते । स्तोकेऽल्पे यथा—सूपप्रति, शाकप्रति (काशिका १, पृ। ८६) । ʻसुप्प्रतिना मात्रार्थे (२। १। ९) इति समासः । यत्ने यथा—भोक्तुं प्रतियतते । एवमभियुक्तप्रयोगानन्विष्य प्रतिशब्दस्यार्थान्तराण्युन्नेयानि ॥
इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु । हेतौ यथा—चोर इति पलायते । प्रकरणं प्रकारः । यथा—गौरश्वः पुरुषो हस्तीति जातिः (म। भाष्य। १। १। १) । गवादिप्रकारा जातिरित्यर्थः । प्रकर्षे यथा—इति बोधायनोऽव्रवीत् इति । बोधायनो धर्मज्ञानप्रकर्षवान्, अतः तदुक्तमवश्यानुष्ठेयमिति तस्य तात्पर्यम् । आद्यर्थे यथा—ʻज्वलितिकसन्तेभ्यो णḵ (३। १। १४०) । हेलालीलोत्यमी भावा इति च । समाप्तौ यथा—इति श्रीमद्रामायणे बालकाण्डे प्रथमः सर्गः । शेषे—
ʻइतिरुक्तार्थनिर्देशे मत्येवन्नियमेषु च ।
वक्ष्यमाणपरामर्शे विवक्षानियमेषु च ।
इति । पूर्वोक्तवाक्यार्थस्य च निर्देशे कर्मत्वेन निर्दिश्यमानत्वे इत्यर्थः । अत्र वाक्यपरामर्शे यथा—ʻआश्रावयेति चतुरक्षरमस्तु । श्रौषडिति चतुरक्षरम् (तै। सं। १। ६। ११। १) इति । वाक्यार्थपरामर्शे यथा—ʻगतोऽस्तमर्क इति (भामह। २। ८७) ; सूर्यास्तकथनस्य सन्ध्याकालो जात इत्यर्थः । मतौ बुद्धिविशेषे यथा—इत्यापिशलिः; आपिशलेर्मतमित्यर्थः (ʻवा सुप्यापिशलेḵ ६। १। ९२) । एवमर्थे यथा—ʻइत्युक्तवन्तं व्रज साधयेति प्रमाणयन् वाक्यमजातशत्रोḵ इति (किरा। ३। २४) । नियमो नाम योगान्ययोगयोर्व्यवच्छेदः । यथा—ʻसामान्यं द्विविधम्, परमपरं चेति (तर्कसं। पृ। ७) । ʻआत्मोदयः परज्यानिर्द्वयं नीतिरितीयती (शिशु। १। ३०) इति । वक्ष्यमाणपरामर्शे यथा—ʻरत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच्ö इति (रघु। १३। १) । विवक्षानियमे यथा—ʻतस्मिन्निति निर्दिष्टे पूर्वस्य्ö (१। १। ६६) । ʻतस्मादित्युत्तरस्य्ö (१। १। ६७) । ʻतदस्यास्त्यस्मिन्निति मतुप् (५। २। ९४) इति ॥ २४५ ॥
मल्लि-नाथः - AK.03.03.245
प्रति प्रतिनिधौ—प्रयोगतः । प्रतिनिधौ—प्रद्युम्नो वासुदेवात् प्रति । ʻप्रतिः प्रतिनिधिप्रतिदानयोḵ इति पाणिनीयम् (१। ४। ९२) । प्रतिदानेऽपि स्यात् । ʻमाषानस्मै तिलेभ्यः प्रति यच्छति (काशिका १, पृ। ८०) । ʻलक्षणेनाभिप्रती आभिमुख्ये (२। १। १४) इति आभिमुख्यार्थेऽपि स्यात् । आचार्यं प्रति कृताञ्जलिस्तिष्ठेत् । वीप्सायाम्—वृक्षं वृक्षं प्रति सिञ्चति (काशिका १, पृ। ८०) । लक्ष्णादौ—वृक्षं प्रति विद्योतते विद्युत् (काशिका १, ४। ९०) । साधुर्देवदत्तो मातरं प्रति । यदत्र मां प्रति स्यात् (काशिका १, पृ। ८०) । ʻलक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवḵ (१। ४। ८९) इति सूत्रात् पर्यनुशब्दावपि स्याताम् । ʻअभिरभागे (१। ४। ९१) इति भागं विना अभिशब्दश्च स्यात् ॥ इति हेतु—समाप्तिषु । हेतौ—हन्तीति पलायते । प्रकरणे—इति वक्ष्ये चित्रकथाम् । प्रकरणं प्रक्रमः प्रस्ताव इति पर्यायाः । प्रकारे—लौकिकाः शब्दाः, शकुनिर्मृगो ब्राह्मण इति (म। भाष्य। १। १। १) । एवम्प्रकारा इत्यर्थः । ʻप्रकाशादिसमाप्तिष्ü इति पाठे—इति पाणिनिः । पाणिनेः ख्यातिरित्यर्थः । इति हरिशब्दः । प्रकाशत इत्यर्थः । आद्यर्थे—हेलालीलेत्यमी भावाः । समाप्तौ—ʻइत्यमरसिंहकृतü (१, पृ। १८३) ॥ २४५ ॥
[[०३.५८७]]
अक्।०३.०३.२४६अब् प्राच्यां पुरस्तात् प्रथमे पुरार्थेऽग्रत इत्यपि ।
अक्।०३.०३.२४६च्द् यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४६ ॥
लिङ्ग-सूरी - AK.03.03.246
प्राच्यां पुरस्तात् प्रथमे पुरार्थेऽग्रत इत्यपि ॥ ५३६ ॥
प्राच्याम् यथा—ʻपौरस्त्यानेवमाक्रामस्तांस्ताञ्जनपदान् जयी इति (रघु। ४। ३४) । प्रथमे यथा—ʻपुरस्तात् क्रियते कर्म पश्चात् सिद्ध्यति तत्फलम् इति । पुरार्थे यथा—ʻत्वया पुरस्तादुपयाचितो यḵ (रघु। १३। ५३) इति । अग्रतोऽर्थे—ʻनश्यत् पुरस्तादनुपेक्षणीयम् इति (रघु। २। ४४) ॥
यावत्तावच्च साकल्ये ऽप्यवधारणमानयोः ।
भविष्यदर्थे सातत्येऽप्यवधावपि कथ्यते ॥ ५३७ ॥
साकल्ये यथा—ʻयावत्कृतं तावदेव फलं प्राप्नोति मानवḵ इति । अवधारणे यथा—ʻयावदमत्रं ब्राह्मणानामन्त्रयस्व्ö इति । माने यथा—ʻसप्ताश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् (या। स्मृ। २। ७। १०३) इति । भविष्यदर्थे ʻयावद् भवत्याहितसायकस्य्ö (कु। सं। ३। ४) इति । सातत्ये यथा—ʻयावज्जीवमतन्द्रितḵ इति । अवधौ यथा—ʻयावत् कुण्डिनमच्युतḵ इति ॥ २४६ ॥
प्राच्यां पुरस्तात्—अग्रत इत्यपि । प्राच्यादिष्वर्थेषु पुरस्ताच्छब्दो वर्तते । तथा च वोपालितः—ʻप्राच्यां पुरः पुरस्तादग्रप्रथमव्यतीतेष्ü इति ॥ यावत्तावच्च—मानेऽवधारणे । साकल्यं सामस्त्यम् । यथा—यावत्कर्तव्यं तावत्कृतम् । साकल्येन कृतमित्यर्थः । अवधिः मर्यादा । यथा—ʻयावत् सस्यक्षेत्रं तावत् कण्टकीवृक्षैः परिवृतम् इति । मानं प्रमाणम् । यावद्दत्तं तावद्भुक्तम् (काशिका २। १। ८) । यत्प्रमाणं दत्तं तत्प्रमाणं भुक्तमित्यर्थः । अवधारणे यथा—ʻयावदमत्रं ब्राह्मणानामन्त्रयस्व्ö इति (काशिका १, पृ। ८६) । अमत्रसङ्ख्ययैव ब्राह्मणा निमन्त्रणीयाः, न न्यूनाः नाधिकाश्चेत्यर्थः । ʻतद्वल्गुना युगपदुन्मिषितेन तावत् (रघु। ५। ६८) इति युगपदेवेत्यर्थः । शेषे—ʻभविष्यदर्थं सान्तत्यं यावदप्रतियुग्भवेत् इति । तत्र प्रतियुक्च्छब्देन यावच्छब्दप्रतियोगित्वेन तावच्छब्दो विवक्षितः । तद्रहितः केवलो यावच्छब्दो भविष्यदर्थं सान्तत्यं चाभिदधातीत्यर्थः । भविष्यदर्थे यथा—ʻयावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती इति (कु। सं। ३। ४) ॥ २४६ ॥
मल्लि-नाथः - AK.03.03.246
प्राच्यां पुरस्तात्—अग्रत इत्यपि । पुरार्थः अतीतः । अग्रतोऽर्थः अग्रम् । ʻप्राच्यां पुरः पुरस्तादग्रप्रथमव्यतीतेष्ü इति गोपालितः ॥ यावत्तावच्च—अवधारणे ॥ अनुक्तम्—
अहो वतानुकम्पायां खेदे सम्बोधनेऽपि च ।
पक्षात्मनोरनिर्देश्ये प्रकृतामर्शने च तत् ॥ २४६ ॥
[[०३.५८८]]
अक्।०३.०३.२४७अब् मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ।
अक्।०३.०३.२४७च्द् वृथानिरर्थकाविध्योर्नानानेकविनार्थयोः ॥ २४७ ॥
लिङ्ग-सूरी - AK.03.03.247
अङ्गीकारेऽधिकारं च समुच्चयविकल्पयोः ।
मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ॥ ५३८ ॥
अङ्गीकार यथा—ʻइद त्वदीयं धनुरथेति ब्रूमḵ इति । अधिकारे यथा—ʻअथ शब्दानुशासनम् इति (महाभाष्य १। १। १) । समुच्चये यथा—ʻदानं कुर्वथ भोजनम् इति । विकल्पे यथा—ʻहन्मि लोकमथ ते मखार्जितम् इति (रघु। ११। ८४) । मङ्गले यथा—ʻअथ वर्णान् प्रवक्ष्यामि इति । अनन्तरे यथा—ʻअथौषधीनामधिपस्य वृद्धü इति (कु। सं। ७। १) । आरम्भे यथा—ʻअथ परस्मैपदान्यारभ्यन्ते इति । प्रश्ने यथा—ʻअथ किं कार्यं कर्तव्यं वद्ö इति । कार्त्स्न्ये यथा—ʻअथातो दर्शपूर्णमासौ व्याख्यास्यामḵ इति (आप। श्रौत। १। १) । एष्वर्थेषु अथोशब्दोऽपि वर्तते ॥
वृथा निरर्थकाविध्योर्नानानेकविनार्थयोः ।
निरर्थके यथा—ʻप्रासादशृङ्गाणि वृथाद्यरोहत् इति । अविधौ यथा—ʻप्रपच्यते स नरके यो वृथालभते पशुम् इति ॥ नाना; अनेकार्थे यथा—ʻनानाचेष्टैर्जलद ललितेर्निर्विशेस्तं नगेन्द्रम् (मेघ। १। ६५) इति ॥ विनार्थे यथा—ʻनाना नारीं निष्फला लोकयात्र्ȫ इति ॥ २४७ ॥
मङ्गलानन्तर—अथो अथ । मङ्गले यथा—ʻअथ वर्णसमाम्नायḵ (तै। प्रा। १। १) इति ।
ʻओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङगलिकावुभौ ॥
इति । आनन्तर्ये यथा—ʻअथ प्रजानामधिपः प्रभाते इति (रघु। २। १) । आरम्भे यथा—ʻअथेदानीमेतन्निरूप्यते इति । प्रश्ने यथा—ʻअथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद् बिभेषि इति (रघु। २। ४९) । कार्त्स्नये यथा—अथ चुरादयः कथ्यन्ते इति । साकल्येन कथ्यन्त इत्यर्थः । शेषे—
ʻअङ्गीकारेऽधिकारे च समुच्चयविकल्पयोः ।
मतान्तरेऽप्यथाथो च अन्वादेशे त्वथो इति ॥
इति । अङ्गीकारे यथा—ʻकिं तार्किको भवानिति प्रश्ने अथेति ब्रूमḵ इति । अधिकारे यथा—ʻअथ शब्दानुशासनम् इति (महाभाष्य। १। १। १) । समुच्चये यथा—ʻओदनं पचाथ्ö । सूपमपि पचनीयमित्यत्रैव प्रयोक्तुरभिप्रायः । नत्वानन्तर्ये । विकल्पः संशयः । यथा—ʻशब्दः किं नित्यः, अथानित्यḵ इति । मतान्तरे यथा—अथैवं मनुषे इति । एतेष्वर्थेषु अथो अथ इति द्वयं वर्तते । ततश्च अथो इत्यस्यापि उदाहरणानि द्रष्टव्यानि । अन्वादेशे त्वथो शब्द एवेति शेषः । यथा—ʻइमं व्याकरणमध्यापय, अथो एनं स्मृतीḵ इति ॥ वृथा निरर्थकाविध्योः । निरर्थके प्रयोजनशून्ये यथा—ʻप्रयुक्तमप्यस्त्रमितो वृथा स्यात् (रघु। २। ३४) इति । अविधौ शास्त्रीयेतिकर्तव्यताराहित्ये यथा—ʻवसेत् स नरके घोरे यो वृथालभते पशुम् इति (या। स्मृ। १। ७। १८०) । वृथा अविधिनेत्यर्थः । अथवा अविधिः क्रियाशून्यः, यथा—वृथावाक्य इति । उक्तार्थकरणशून्य इत्यर्थः ॥ नानानेकविनार्थयोः । अनेकार्थे यथा—ʻतस्मान्नानारूपाः पशवḵ इति । बहुरूपा इत्यर्थः । विनार्थे यथा—ʻनाना नारीं निष्फला लोकयात्र्ȫ इति । गणरत्नमहोदधौ च ʻविनानेकार्थयोर्नान्ȫ इति (पृ। २३, अध्या। १। १७) । वक्ष्यति च—ʻपृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने इति (३। ४। ३) । ʻनानानेकोभयार्थयोḵ इति केचित् पठन्ति । तथा च विश्वप्रकाशे—ʻनाना विनार्थेऽपि भवेन्नानानेकोभयार्थयोḵ इति (पृ। १८८, श्लो। ३२) ॥ २४७ ॥
मल्लि-नाथः - AK.03.03.247
मङ्गलानन्तर—अथो अथ । अथशब्दः संशयप्रथमयोरपि स्यात् । ʻअथ कल्याणानन्तरसम्प्रश्नारम्भसंशयाद्येष्ü इति गोपालितः ॥ वृथा निरर्थकाविध्योः । निरर्थकं निष्कारणम् । ʻवृथा निरर्थकाविध्योḵ इत्यमरमाला ॥ अनुक्तम्—
यथा सादृश्ययोग्यत्ववीप्सास्पर्धानतिक्रमे ॥
तथा समुच्चये सौम्ये परमार्थाभ्यनुज्ञयोः ॥
नानानेकोभयार्थयोः ॥ २४७ ॥
[[०३.५९१]]
अक्।०३.०३.२४८अब् नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ।
अक्।०३.०३.२४८च्द् प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ २४८ ॥
लिङ्ग-सूरी - AK.03.03.248
पृच्छाविषादयोः पादपूरणोत्प्रेक्षयोरपि ॥ ५३९ ॥
उपमायां वितर्के च नुशब्दः परिकथ्यते ।
पृच्छायां यथा—ʻकथं नु शक्योऽनुनयो महर्षेḵ इति (रघु। २। ५४) । विषादे यथा—ʻक्व नु मां त्वदधीनजीविताम् इति (कु। सं। ४। ६) । पादपूरणे यथा—ʻअहिंसा नु परो धर्मḵ इति । उत्प्रेक्षायां यथा—ʻव्यत्ययं विनिमयं नु वितेने इति (किरा। ९। ६०) । उपमायां यथा—ʻपद्मं नु लपनं तस्या राजते हरिणीदृशḵ इति । वितर्के यथा—ʻतया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिḵ इति (कु। सं। १। ४७) ॥
वीप्सायामानुपूर्व्ये च पश्चात्सादृश्ययोरनु ॥ ५४० ॥
वीप्सायां यथा—ʻवृक्षं वृक्षमनु सिञ्चति (काशिका १। ४। ९०) इति । आनुपूर्व्ये यथा—ʻज्येष्ठानुगमनात् पूर्वम् इति (रघु। १२। ३५) । पश्चादर्थे यथा—अनुजः इति । सादृश्ये यथा—ʻआत्मानुरूपां विधिनोपयेमे इति (कु। सं। १। १८) ॥
आमन्त्रणेऽप्यनुज्ञायामवधारणपृच्छयोः ।
ननुशब्दोऽप्यनुनये क्षेपे परमतस्य च ॥ ५४१ ॥
आमन्त्रणे यथा—ʻननु नान्वेति हितः प्रियḵ इति । अनुज्ञायां यथा—ननु गच्छामि । अवधारणे यथा—ʻत्वया नियम्या ननु दिव्यचक्षुष्ȫ इति (रघु। ३। ४५) । पृच्छायां यथा—नन्वभोजि । अनुनये यथा—नन्वधिष्ठाः । परमतक्षेपे यथा—ननु चैतत् कथं घटते इति ॥ २४८ ॥
नु पृच्छायां विकल्पे च । पृच्छा प्रश्नः । यथा—ʻआ नो नु युवां न हीमानि नो हानि ॥ । इति । विकल्पः संशयः । यथा—ʻस्थाणुर्नु पुरुषḵ इति । ʻपुरुषो नु कामिनीषु मदनो न्ü इति । शेषे—
ʻप्रत्युक्तावुपमाने च विषादोत्प्रेक्षयोरपि ।
नु पादपूरणे ज्ञेयो जिज्ञासायां समुच्चये ॥
इति । प्रतिवचने यथा—ʻदेवदत्त किं कटं कृतवानसि इति प्रश्ने ʻअहं नु करोमि इति प्रतिवचनम् (काशिका १, पृ। १९५) । ʻनन्वोर्विभाष्ȫ (३। २। १२१) इति भूतार्थे लट् । उपमाने यथा—ʻपद्मं नु लपनं तस्या राजते हरिणीदृशḵ इति । विषादे यथा—ʻक्व नु मां त्वदधीनजीविताम् इति (कु। सं। ४। ६) । उत्प्रेक्षायां यथा—ʻअस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं न्ü इति (किरा। ९। ७) । पादपूरणे यथा—ʻआख्यास्यामि नु ते वार्ताम् इति । जिज्ञासायां यथा—ʻकथमिदं नु भवेत् इति । समुच्चये यथा—ʻवारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने इति (किरा। ९। ६०) ॥ पश्चात्सादृश्ययोरनु । पश्चादर्थे यथा—अनुरथं पादातम् । सादृश्ये —यथा—अनुसखि । उभयत्रापि ʻअव्ययं विभक्ति ॥ ।वचनेष्ü (२। १। ६) इत्यव्ययीभावः शेषे—
ʻअनु हीने लक्षणे च सह दैर्घ्यानुपूर्व्ययोः ।
लक्षणेत्थम्भूताख्यानभागवीप्सासमीपयोः ॥
अथोपसर्गो विज्ञेयः सहपश्चाद्दयासु सः ।
अवबोघे चानुमतौ सादृश्ये सान्त्वसेवयोः ॥
प्रश्ने चालोचनाचार आनुकूल्ये च मार्गणे ।
आसक्तावानुपूर्व्यां च सातत्येच्छोपकारवत् ॥
प्रोत्साहे चानुतापे च वासने च प्रसाधने ।
अन्वये विनियोगे च ॥
इति । हीने यथा—अनुशाकटायनं वैयाकरणाः (काशिका १। ४। ८६) । शाकटायनाद्धीना अन्ये वैयाकरणा इत्यर्थः । लक्षणं हेतुः यथा—ʻशाकल्यस्य संहितामनु प्रावर्षत्ö इति (काशिका १, पृ। ७९) । शाकल्यसंहिताहेतुनेत्यर्थः सहार्थे यथा—ʻनदीमन्ववसिता सेन्ȫ इति (काशिका १। ४। ८५) । नद्या सह सम्बद्धेत्यर्थः । ʻअनुर्लक्षणे (१। ४। ८४), ʻतृतीयार्थे (१। ४। ८५), ʻहीने (१। ४। ८६) इत्यनोः कर्मप्रवचनीयत्वम् । तृतीयार्थे सहार्थे । दैर्घ्ये यथा—ʻअनुगङ्गं वाराणासी (काशिका १, पृ। ८८) इति । गङागायामेन वाराणस्यायामो लक्ष्यते । ʻयस्य चायामḵ (२। १। १६) इत्यव्ययीभावः । आनुपूर्व्येऽनुक्रमे यथा—ʻअनुज्येष्ठं प्रविशन्तु भवन्तḵ (काशिका १, पृ। ८६) इति । ज्येष्ठानुपूर्व्येणेत्यर्थः । ʻअव्ययं विभक्ति ॥ । इत्यादिना (२। १। ६) अव्ययीभावः । लक्षणे यथा—ʻवृक्षमनु विद्योतते विद्युत् (काशिका १, पृ। ८०) इति । इत्थम्भूताख्याने यथा—ʻसाधुर्देवदत्तो मातरमन्ü इति (काशिका १, पृ। ८०) । भागे यथा—ʻयदत्र मामनु स्यात् स भागो दीयताम् इति । वीप्सायां यथा—ʻवृक्षं वृक्षमनु विद्योतते विद्युत् इति । ʻलक्षणेत्थम्भूत ॥ । इत्यादिना (१। ४। ९०) कर्मप्रवचनीयत्वम् । सामीप्ये यथा—ʻअनुवनमशनिर्गतḵ इति (काशिका १, पृ। ८८) । ʻअनुयेत्समय्ȫ (२। १। १५) इत्यव्ययीभावः । सहार्थे यथा—अनुप्लवते । पश्चादर्थे यथा—अनुवदति । दयायां यथा—अनुक्रोशति, अनुकम्पते । अवबोधे ज्ञाने यथा—अनुमिमीते, अनुभवति । अनुमतौ यथा—अनुजानाति । सादृश्ये यथा—अनुहरति पितुरश्वः । सान्त्वने यथा—अनुनयति । सेवायां यथा—अनुजीवति । प्रश्ने यथा—अनुयोगः । आलोचने यथा—अनुसन्धानम् । आचारे यथा—अनुष्ठानम् । आनुकूल्ये यथा—अनुकूलः । अनुलोमः । मार्गणे यथा—अन्वेषणम् । आसक्तौ यथा—अनुरज्यते । आनुपूर्व्ये यथा—अनुक्रमः । सातत्ये यथा—सम्पत् सम्पदमनुबध्नाति । इच्छायां यथा—अनुरोधः । उपकारे यथा—अनुगृह्णाति । प्रोत्साहे यथा—होत्रे अनुगृणाति (काशिका १, पृ। ७०) । होतारं प्रोत्साहयतीत्यर्थः । ʻअनुप्रतिगृणश्च्ö (१। ४। ४१) इति सम्प्रदानार्थत्वम् । अनुतापे यथा—अनुशेते, अनुतप्तः । वासने यथा—कपूरेणानुविद्धं जलम् । वासितमित्यर्थः । प्रसाधने यथा—अनुलिम्पति । अन्वये यथा—अनुषज्यते, अन्वेतीत्यर्थः । विनियोगे यथा—अनुशास्तिः; इत्याद्युदारहणीयम् ॥ प्रश्नावधारण—आमन्त्रणे ननु । प्रश्ने यथा—ʻननु वर्णा नित्या अनित्या व्ȫ इति । नन्वभोजि । अवधारणे यथा—नन्वद्य गच्छामः । अनुज्ञायां यथा—ननु भोक्ष्यामि । ʻनन्वित्यनुज्ञैषणायाम् (८। १। ४३) इति सूत्रे काशिका । ʻअनुज्ञैषणा अनुज्ञाप्रार्थनेत्यर्थḵ इति (२, पृ। ३८३) । अनुनये यथा—नन्वधीष्व । आमन्त्रणे यथा—ननु भुङ्क्षे । शेषे—ʻननु क्षेपे मतस्य च । प्रत्युक्तावेषणायां च्ö । परमतक्षेपे यथा—ʻनन्वेतत् कथं घटते इति । उक्तौ प्रतिवचने यथा—अकार्षीः कटं देवदत्तेति प्रश्ने ʻननु करोमि भोḵ इति (काशिका १, पृ। १९५) । ʻननौ पृष्टप्रतिवचने (३। २। १२०) इति भूते लट् । एषणायां यथा—ʻननु जीवन्तु सुधियḵ इति ॥ २४८ ॥
मल्लि-नाथः - AK.03.03.248
नु पृच्छायां—सादृश्ययोरनु । पश्चात्—अनु जनकं गच्छति । सादृश्ये—अनुकरोति जननीम् । ʻअनु हीने सहार्थे च्ö इति विश्वः (पृ। १८८, श्लो। ३३) । पाणिनिमनु वैयाकरणाः । अनु वीणां वैणिको गायति ॥ प्रश्नावधारणा—आमन्त्रणे ननु ॥ अनुक्तम्—नञभावविरोधान्यसाम्येष्वीषन्निषेधयोः इति । अभावे यथा—अदन्तो बालः । अदन्तो वृद्धः । घटः पटो न भवति । नास्त्यश्वस्य विषाणम् इत्यादि । विरोधे यथा—तमःप्रकाशौ न निवसतः । अतिमिरस्तरणिरुदेति । अन्यार्थे यथा—अगौर्गवयः । साम्ये यथा—ʻअसक्तः सुखमन्वभूत् इति (रघु। १। २९) । ईषदर्थे यथा—स न पुरुषो यो न विक्रामति । निषेधार्थे यथा—नानृतं ब्रूयादिति ॥ २४८ ॥
[[०३.५९४]]
अक्।०३.०३.२४९अब् गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि ।
अक्।०३.०३.२४९च्द् उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २४९ ॥
लिङ्ग-सूरी - AK.03.03.249
गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि ।
गर्हायां यथा—ʻअपि वाग्भूतृणोदकैḵ इति (या। स्मृ। १। ५। १०७) । समुच्चये यथा—ʻवत्सरः सोऽपि तत्समḵ इति । प्रश्ने यथा—ʻअप्यग्रणीर्मन्त्रकृतामृषीणाम् इति (रघु। ५। ४) । शङ्कायां यथा—अप्यागच्छेद् व्याघ्रः इति । सम्भावनायां यथा—ʻसमुद्रमपि लङ्घयेत् इति ॥
उपमायां विकल्पे वावधारणसमुच्चये ॥ ५४२ ॥
उपमायां यथा—ʻविशेषको वा विशिशेष यस्याḵ इति (शिशु। ३। ६३) । विकल्पे यथा—ʻषष्ठेऽष्टमे वा सीमन्तḵ इति (या। स्मृ। १। २। ११) । अवधारणे यथा—ʻअरावणमरामं वा जगदद्येति निश्चितḵ इति (रघु। १२। ८३) । समुच्चये यथा—ʻअग्निर्वा पवनो वास्य कपेर्लङ्कां दिधक्षतḵ इति ॥
अर्धे जुगुप्सने सामि सहार्थान्तिकयोरमा ।
अर्धे यथा—ʻससीत्कृतं सामि विकूणितानन्ȫ इति । जगुप्सने यथा—ʻसाम्यन्नं न तु भोक्तव्यम् इति ॥ सहार्थे यथा—अमावास्या । अन्तिके यथा—अमात्यः ॥ २४९ ॥
गर्हासमुच्चय—सम्भावनास्वपि । गर्हायां यथा—ʻअपि स्तुयाद् वृषलम् (काशिका १, पृ। ८१) इति । समुच्चये यथा—ʻअपि सिञ्च, अपि स्तुहि इति (काशिका १। ४। ९६) । प्रश्ने यथा—ʻअपि क्रियार्थं सुलभं समित्कुशम् इति (कु। सं। ५। ३३) । शङ्कायां यथा—ʻअपि कुप्येदाचार्यḵ इति । शक्तेरप्रतिघाताविष्करणं सम्भावना । यथा—अपि सिञ्चेद् द्राक्षाणां सहस्रम् इति । अपि पर्वतं शिरसा भिन्द्यात् । किमुतान्यदित्यर्थः । ʻअपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेष्ü (१। ४। ९६) इत्यपेः कर्मप्रवचनीयत्वम् । उपमायां विकल्पे वा । उपमायां यथा—ʻशिशिरमथितां पद्मिनीं वान्यरूपाम् इति (मेघ। २। २३) । विकल्पे यथा—ʻयवैर्व्रीहिभिर्वा यजेत् इति । शेषे—ʻअनवकल्पेऽवधारणे । समुच्चये व्ȫ इति । अनवकल्पोऽसम्भावना । यथा—ʻअस्त्रवेदमधिगम्य तत्त्वतः कस्य वेह भुजवीर्यशालिनḵ इति (किरा। १३। ६२) । अवधारणे यथा—ʻसा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम्ö इति (कु। सं। २। ६०) । न च तृतीयेत्यवधारणम् । ʻगर्भाष्टमेऽष्टमे वाब्दे (या। स्मृ। १। २। १४) इति वाशब्दाभ्यां द्योतते । समुच्चये यथा—ʻवायुर्वा दहनो वास्य कपेर्लङ्कां दिधक्षतः । साहाय्यकमनुप्राप्तü इति ॥ सामि त्वर्धे जुगुप्सने । अर्धे यथा—ʻसामिभुक्तविषयाः समागमाḵ इति (रघु। १९। १६) । जुगुप्सायां यथा—ʻसाम्यध्ययनमनध्यायḵ इति ॥ २४९ ॥
मल्लि-नाथः - AK.03.03.249
गर्हासमुच्चय—सम्भावनास्वपि । गर्हायाम्—अपि स्तुयाद् वृषलम् । समुच्चये—अपि सिञ्च, अपि स्तुहि । प्रश्नार्थे—अपि जानासि । शङ्कायाम्—अपीह चोरो भवेत् । सम्भावनायाम्—अपि स्थाणुं जयेद्रामो भवतो ग्रहणं कियत् ॥ उपमायां विकल्पे वा । समुच्चयावधारणयोरपि स्यात् । ʻवा स्याद् विकल्पोमयोरेवार्थे च समुच्चये इति विश्वः (पृ। १८९, श्लो। ४०) ॥ सामि त्वर्धे जुगुप्सने । सामि कृतम् ॥ २४९ ॥
[[०३.५९६]]
अक्।०३.०३.२५०अब् अमा सह समीपे च कं वारिणि च मूर्धनि ।
अक्।०३.०३.२५०च्द् इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ २५० ॥
लिङ्ग-सूरी - AK.03.03.250
कमाकाशे जले मूर्ध्नि सुखे च समुदाहृतम् ॥ ५४३ ॥
आकाश—कङ्गा पक्षिणः । जले—कञ्जं पद्मम् । मूर्ध्नि—कन्धरा । सुखे—कन्दर्पः ॥
इवार्थेऽङ्गीकृतावित्थमर्थनिश्चययोरपि ।
एवं भवेच्च प्रकृतपरामर्शोपदेशयोः ॥ ५४४ ॥
इवार्थे यथा—ʻभानुरेवम्मुनिर्भाति इति । अङ्गीकृतौ यथा—एवं करोमि । इत्थमर्थे यथा—एवङ्गुणस्य कृष्णस्य रुक्मिणी ॥ । इति । निश्चये यथा—एवमेव । प्रकृतपरामर्शे यथा—ʻएवंवादिनि देवर्षü इति (कु। सं। ६। ८४) । उपदेशे यथा—ʻएवं कुर्याच्छिवार्चनम् इति ॥
उत्प्रेक्षायां भवेन्नूनमर्थनिश्चयतर्कयोः ।
उत्प्रेक्षायां यथा—ʻकान्तानां दहनज्वाला नूनं चन्द्रमसः कराḵ इति । अर्थनिश्चये यथा—ʻक्षुद्रेऽपि नूनं शरणं प्रपन्ने इति (कु। सं। १। १२) । तर्के यथा—ʻनूनमुन्नमति यज्वनां पतिḵ इति (कु। सं। ८। ५८) ॥ २५० ॥
अमा सह समीपे च । सूर्याचन्द्रमसौ अमा सह वसतोऽस्यामिति अमावास्या । समीपे यथा—अमात्यः । समीपे भव इत्यर्थे ʻअव्ययात् त्यप् । (४। २। १०४) ॥ कं वारिणि मूर्धिनि च । वारिणि यथा—कञ्जं पद्मम् । मूर्ध्नि यथा—कन्धरा । शेषे—ʻकं सुखे व्योम्नि इति । सुखे यथा—कन्दर्पः । व्योम्नि यथा—कङागाः पक्षिणः । ʻकं शिरोऽम्बुनोḵ (२, पृ। २२७) इत्यत्र कान्तवर्गे कशब्द उक्तः । इह तु मकारान्तमव्ययमिति विवेकः ॥ इवेत्थमर्थयोरेवम् । इवार्थे यथा—ʻअग्निरेवं द्विजो भस्मसात् कुर्यात्, ʻभानुरेवं मुनिर्भ्राजति इति । शेषे—
ʻएवमङ्गीकृतावपि ।
निर्धारणे च प्रकृतपरामर्शोपदेशयोः ॥
इति । अङ्गीकारे यथा—कटं कुरु इत्युक्ते एवं करोमि इति । निर्धारणे निश्चये यथा—ʻआहार्यमेवं मृगनाभिपात्रम् इति । प्रकृतपरामर्शे यथा—ʻएवंवादिनि देवर्षü इति (कु। सं। ६। ८४) । उपदेशे यथा—ʻएवं कुर्याच्छिवार्चनम् इति । निश्चये यथा—ʻएवमेतत् कः सन्देहḵ (रत्ना। १। ७-) इति ॥ नूनं तर्केऽर्थनिश्चये । उत्कटैककोटिस्तर्कः । यथा—ʻनूनमेषा मम प्रिया भवेत् इति । अर्थनिश्चये यथा—ʻनीतानि पणतां नूनमीदृशी भवितव्यत्ȫ इति (किरा। ११। ४७) । नूनमिति मान्त्मव्ययमुत्प्रेक्षायामपि भवति । यथा—ʻमदनस्येषवो नूनं युवतीनां दृशः शिताḵ इति ॥ २५० ॥
मल्लि-नाथः - AK.03.03.250
अमा सह—कं वारिणि च मूर्धनि । सुखे च स्यात् । ʻकं सुखे ऽम्भसि मूर्ध्नि च्ö इति वैजयन्ती (पृ। २८४, श्लो। ३) ॥ इवेत्थमर्थयोरेवम् । इवार्थ औपम्यम् । इत्थमर्थः प्रकारः । ʻएवं प्रकार औपम्येऽनुज्ञायामवधारणे इति जयकोशः ॥ नूनं तर्केऽर्थनिश्चये ॥ २५० ॥
[[०३.५९८]]
अक्।०३.०३.२५१अब् तूष्णीमर्थे सुखे जोषं किं पृच्छाया जुगुप्सने ।
अक्।०३.०३.२५१च्द् नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ॥ २५१ ॥
लिङ्ग-सूरी - AK.03.03.251
तूष्णीमर्थे सुखार्थे च जोषमित्यव्ययं भवेत् ॥ ५४५ ॥
तूष्णीमर्थे सुखार्थे च जोषमित्यव्ययं भवेत् ॥ ५४५ ॥
तूष्णीमर्थे यथा—ʻइति जोषमवस्थितं द्विषḵ इति (शिशु। १६। १६) । सुखार्थे यथा—ʻजोषमासीत वर्षास्ü इति ॥
प्रश्नेषदर्थयोः किं स्यान्निन्दातिशययोरपि ।
प्रश्ने यथा—ʻशक्ताः प्रबन्धेषु महाकवीनां किमाद्रियेरन् रसिकाः कृति मे इति । ईषदर्थे यथा—ʻतदस्ति किं व्यस्तमपि त्रिलोचने इति (कु। सं। ५। ७२) । निन्दायां यथा—ʻस किंसखा साधु न शास्ति योऽधिपम् इति (किरा। १। ५) । अतिशये यथा—ʻनिवार्यतामालि किमप्ययं वटुḵ इति (कु। सं। ५। ८३) ॥
प्रकाशसम्भावनयोः क्रोधोपगमकुत्सने ॥ ५४६ ॥
कथञ्चिदर्थे नाम स्याद् विस्मयालीकयोरपि ।
प्रकाशे यथा—ʻकुम्भोदरं नाम निकुम्भमित्रम् इति (रघु। २। ३५) । सम्भावनायां यथा—ʻकुर्वन्नाम समेष्यसि इति । क्रोधे यथा—ʻआः कंसस्य भयं नाम गोपान्मेऽपि सुरद्विषḵ इति । उपगमे यथा—ʻअमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति इति (शिशु। २। १०७) । कुत्सने यथा—ʻको नामायं प्रलपति पुरो मे विशङ्कः सभायाम् इति । कथञ्चिदर्थे यथा—पत्युः क्रुद्धस्य पुरतो सेवको नाम वर्तते इति । विस्मये यथा—ʻएको नामार्जुनः शत्रून् कर्णादीनजयद्युधि इति । अलीके यथा—ʻपरिश्रमं नाम विनीय च क्षणम् इति (कु। सं। ५। ३२) ॥ २५१ ॥
तूष्णीमर्थे सुखे जोषम् । तूष्णीमर्थो मौनम् । यथा—ʻजोषमास्ते जितेन्द्रियḵ इति । सुखे यथा—ʻजोषमासीत वर्षास्ü इति ॥ किं पृच्छायां जुगुप्सने । पृच्छायां यथा—किं भार्या प्रतिकूला । जुगुप्सने यथा—किन्नरः, नरशरीरावयवानामपूर्णत्वात् । जुगुप्सितो नर इत्यर्थः । ʻस किंराजा यो राष्ट्रं न रक्षति । किंराजा कुत्सितो राजा इत्यर्थः । अत्र किंराजेति समस्तं कथम् । ʻराजाहःसखिभ्यष्टच् (५। ४। ९१) इति सूत्रेण प्राप्तः समासान्तप्रत्ययो न भवति, ʻकिमः क्षेपे (५। ४। ७०) इति सूत्रेण तस्य प्रतिषेधात् । शेषे—ʻकिमीषदतिशायने इति । ईषदर्थे यथा—ʻकिमपि प्रियश्च्ö । ईषत्प्रिय इत्यर्थः । अतिशये यथा—किमप्येष प्रगल्भते । अतिशयेन प्रगल्भत इत्यर्थः ॥ नाम प्राकाश्य—कुत्सने । प्राकाश्ये प्राकट्ये यथा—ʻहिमालयो ना नगाधिराजḵ इति (कु। सं। १। १) । सम्भाव्ये कथञ्चिदर्थे यथा—इह लप्स्यते धनं नाम इति । क्रोधे यथा—ʻममापि नाम दशाननस्य परैः परिभवḵ इति । उपगमे यथा—ʻअस्तु नाम्ö इति । क्रोधेनोपगमः क्रोधपूर्वाङ्गीकार इति केचित् । यथा—अस्मानेवमधिक्षिपसि, भवतु नाम, सम्प्रत्येव भवन्तं कथावशेषं करिष्यामि इति । कुत्सने पृथक्करणे यथा—ʻको नामायं गृहपतिः, गुहा येन न गृहीताḵ इति । शेषे—ʻनामालीके विस्मये चामन्त्रणेऽर्थे कथञ्चितḵ इति । अलीकेऽपरमार्थे यथा—ʻविश्रम्य विष्टरे नाम व्याजहारेति भारतीम् इति । विस्मये यथा—ʻएको नामाजयद् रिपून् इति । आमन्त्रणे यथा—ʻभो नाम रावण गृहाण धनुस्ततज्यम् इति । कथञ्चित्पदस्यार्थे यथा—ʻपत्युः क्रुद्धस्य पुरतः सेवको नाम वर्तते । कथञ्चिद् वर्तते इत्यर्थः ॥ २५१ ॥
मल्लि-नाथः - AK.03.03.251
तूष्णीमर्थे सुखे जोषम् । तूष्णीमर्थो मौनम् ॥ किं पृच्छायां जुगुप्सने । पृञ्च्छार्थे—कुशलं किमत्र भवतः । जुगुप्सायाम्—स किंराजा यो न रक्षति प्रजाः । विकल्पहेतुनिषेधेष्वपि स्यात् । विकल्पे—तिष्ठतु किं, गच्छतु किम् । हेतौ—किं मामङ्ग बाधसे । निषेधे—किं धनैः परहितानि कुरुध्वम् ॥ नाम प्राकाश्य—कुत्सने । प्राकाश्यार्थे—राजाभूच्छूद्रको नाम । सम्भाव्ये—ʻविद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् इति (नी। श। ७०) । क्रोधे—रामो नाम कुतः कुतः । उपगमे—ʻअविवेकि कुचद्वन्द्वं हन्तु नाम जगत्त्रयम् (कुवलया। पृ। १०१) । कुत्सने—
ʻपुंस्कोकिलस्य चरितानि करोतु नाम
काकःकलध्वनिविधौ ननु काक एव्ö ।
इति ॥ २५१ ॥
[[०३.६००]]
अक्।०३.०३.२५२अब् अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ।
अक्।०३.०३.२५२च्द् हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ॥ २५२ ॥
लिङ्ग-सूरी - AK.03.03.252
अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥ ५४७ ॥
भूषणे यथा—ʻअलञ्चकारास्य वधूरहस्करḵ इति (शिशु। १। ५८) । पर्याप्तौ यथा—ʻतस्यालम्मेषा क्षुधितस्य तृप्त्यै इति (रघु। २। ३९) । शक्तौ यथा—ʻअलं दशास्यस्य वधाय राघवḵ इति । वारणे यथा—ʻअलं विवादेन यथा श्रुतं त्वय्ȫ इति (कु। सं। ५। ८२) ॥
वितर्के च परिप्रश्ने कोपभर्त्सनयोरपि ॥ ५४८ ॥
अनिच्छाभययोः स्मृत्यां हुमित्यव्ययमुच्यते ।
वितर्के यथा—ʻहुं जलं मृगतृष्णा हुम् इति । परिप्रश्ने यथा—हुं देवदत्तोऽयम् इति । कोपे यथा—ʻहुं निहन्मि सहसा युधि शत्रून् इति । भर्त्सनायां यथा—ʻहुं युद्धादपसर शत्रो इति । अनिच्छायाम्—हुं मुञ्च पापेति जगाद साध्वी इति । भये—हुं राक्षसः समायाति । स्मृतौ—अत्र हुं क्रीडितं पुरा इति ॥
मध्येऽन्तिके स्यात् समया भेदाप्रथमयोः पुनः ॥ ५४९ ॥
मध्ये—समया शैलयोर्नदी । अन्तिके—समया पट्टणं नदी ॥ २५२ ॥
अलं भूषण—वारणवाचके । भूषणे यथा—अलङ्करोति । पर्याप्तौ यथा—ʻतस्यालमेषा क्षुधितस्य तृप्त्यै इति (रघु। २। ३९) । शक्तौ सामर्थ्ये यथा—ʻअलं मल्लो मल्लाय्ö इति (काशिका २। ३। १६) । वारणे निषेधे यथा—ʻअलमतिप्रसङ्गेन्ö (मुद्रारा १-) ॥ हुं वितर्के परिप्रश्ने । वितर्के यथा—ʻहुं भवितव्यं कान्तारेऽस्मिन्नभिमुखागतैरेभिः पाटच्चरैरेव्ö इति । परिप्रश्ने पृच्छायां यथा—ʻरामो नाम बभूव हुं तदबला सीत्ȫ इति (वसन्धरस्य) । ʻआमन्त्रणे भर्त्सने हुं परिप्रश्नवितर्कयोḵ इत्यजयः । आमन्त्रणे यथा—ʻहुं देवदत्त क्व यासि इति । भर्त्सने यथा—ʻहुमपसर क्वासि मां नेतुं राम्ö इति । स्मृतावपि यथा—ʻअत्र हुं क्रीडितं पुर्ȫ इति ॥ समयान्तिकमध्ययोः । अन्तिके यथा—ʻगङ्गां समया वाराणसी इति । मध्ये यथा—ʻग्रामं समया देवागारम्; ग्रामस्य मध्ये देवागारमित्यर्थः ॥ २५२ ॥
मल्लि-नाथः - AK.03.03.252
अलं भूषण—वारणवाचकम् । भूषणे—अलङ्करोति कन्याम् । पर्याप्तौ—ʻफलमलमशनाय स्वादु पानाय तोयम् (वै। श। ५४) । शक्तौ—अलं मल्लो मल्लाय । वारणे—अलं बाले रुदित्वा । निरर्थकेऽपि स्यात् । यथा—अलमूषरेषु बीजावापः इति ॥ हुं वितर्के परिप्रश्ने । अनुक्तम्—कथं प्रश्ने प्रकारे च प्रकर्षात्ययोर्भृशम् इति ॥ समयान्तिकमध्ययोः ॥ २५२ ॥
[[०३.६०२]]
अक्।०३.०३.२५३अब् पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः ।
अक्।०३.०३.२५३च्द् स्यात् प्रबन्धे चिरातीते निकटागामिके पुरा ॥ २५३ ॥
लिङ्ग-सूरी - AK.03.03.253
भेदे यथा—ʻजीवन् पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि इति (रघु। २। ४८) । अप्रथमे यथा—ʻपुनर्बभाषे तुरगस्य रक्षित्ȫ इति (रघु। ३। ५१) ।
निषेधे निश्चये निः स्यात् सुखाप्त्यादौ निरासने ।
निषेधे—निरस्यति । निराचष्टे । निराकरोति । निश्चये—निर्णयति । निश्चिनोति । सुखाप्तौ—निर्वृतिः । निर्वृणोति । निरसने—निलष्ठीवत् ॥
स्यात् प्रबन्धे चिरातीते निकटागामिके पुरा ॥ ५५० ॥
प्रबन्धे यथा—ʻउपाध्यायेन पुरा धीयते स्म्ö इति । चिरातीते यथा—ʻपुरातनं त्वां पुरुषं पुराविदḵ इति (शिशु। १। ३३) । निकटागामिके समीपवर्तने यथा—ʻआलोके ते निपतति पुरा सा बलिव्याकुला व्ȫ (मेघ। २। २५) ॥ २५३ ॥
पुनरप्रथमे खेदे । अत्राप्रथमे आवृत्तौ यथा—पुनर्भुक्तम् । खेदे यथा—ʻवैश्या आरण्यान्न विक्रीणन्ति किं पुनर्ब्राह्मणḵ इति । निर्निश्चयनिषेधयोः । निश्चये यथा—निर्णयः । निषेधे यथा—निरस्यति । शेषे—
ʻसुखप्राप्तावभावे च प्रादुरर्थे पृथक्कृतौ ।
खेदनिग्रहकार्त्स्न्ये च भोगार्थादौ निरीरितः ॥
इति । सुखप्राप्तौ यथा—निर्वृणोति । अभावे यथा—ʻकृतं भवता निर्मक्षिकम् इति (शाकु। २। ७-) । प्रादुरर्थो व्यक्तत्वम् । यथा—निर्वचनम् । पृथक्करणे यथा—निर्धारयति । खेदे यथा—निर्वेदः । निग्रहे यथा—निर्बध्नाति । कार्त्स्न्ये यथा—निर्दहति । निष्कृन्तति । निष्पिनष्टि । उपभोगे यथा—निर्विशति । आदिशब्दाद् निष्ठीवतीति निरसने, निर्दिशतीत्यन्वाख्याने इत्यादि । ʻप्रपरापसमन्ववनिर्दुव्याङ्न्यधि ॥ । इत्याद्युपसर्गगणे निः इति विसर्जनीयान्तं नि इति ह्रस्वान्तं चेति द्वयमपि पठितम् । सूत्रेष्वपि ʻनिरः कुषḵ (७। २। ४६) ʻनेर्गदनद ॥ । (८। ४। १७) इत्यादिषु द्वयं व्याहृतम् । तथा च अमरसिंहेनापि ʻनिर्निश्चयनिषेधयोḵ इत्युपसर्गद्वयस्यापि सामान्येन ग्रहणम् । तत्र ह्रस्वान्तस्य निश्चये यथा—ʻनियमेन मया निबर्हणीयः परमं लाभमरातिभङ्गमाहुḵ इति (किरा। १३। १२) । नियमः शास्त्रनियमः नियतवागित्यादि । निषेधे यथा—निषेधति । अभावे यथा—निवापो देशः । नीवाकः निधनमिति । निकार इति तिरस्कारे ॥ स्यात् प्रबन्धे—पुरा । प्रबन्धे सातत्ये यथा—उपाध्यायेन पुराधीयते स्म । अविरतमपाठीदित्यर्थः । अथवा प्रबन्धे वाक्यरचनारूपे पुराणादावित्यर्थः । चिरातीते बहुकालातीते यथा—ʻइतिहासः पुरावृत्तम् (१, पृ। १०६); ʻपुरातनं त्वां पुरुषं पुराविदḵ इति (शिशु। १। ३३) । केचित्तु चिरमतीतं चेति व्याचक्षते । अतीते यथा—ʻएतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्रमुपयन्ति (तै। सं। ३। ३। ८। ४), ʻअथैहैनं पुरर्षयḵ; अतीते काले इत्यर्थः। निकटागमिकम् अविलम्बेन भावि । यथा—ʻगच्छ शीघ्रं पुरा देवो वर्षति इति । वर्षिष्यतीत्यर्थः । केचित्तु—सन्निहिते निकटवर्तिनि, आगामिके चेत्यर्थद्वयपरत्वेन व्याचक्षते । सन्निहिते यथा—ʻपुरा प्रातरनुवाकाज्जुहुयात् इति । प्रातरनुवाकात सन्निहिते पूर्वकाल इत्यर्थः ॥ २५३ ॥
मल्लि-नाथः - AK.03.03.253
पुनरप्रथमे—निश्चयनिषेधयोः । निश्चये—निर्वक्तु भवान् । निश्चितं वक्तु भवानित्यर्थः । निषेधे—निष्कामो भवान् । निषिद्धकाम इत्यर्थः ॥ स्यात् प्रबन्धे—पुरा । प्रबन्धो नाम वाक्यरचना । नटी कस्मात् पुरा धीयते । चिरातीतं भूतम् । यथा—पुरातनम् । निकटागामिकम् अनागतम् । ʻआलोके ते निपतति पुर्ȫ (मेघ। २। २५) । अव्यवधानेन निपतिष्यतीत्यर्थः ॥ २५३ ॥
[[०३.६०४]]
अक्।०३.०३.२५४अब् ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् ।
अक्।०३.०३.२५४च्द् स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल ॥ २५४ ॥
लिङ्ग-सूरी - AK.03.03.254
उरर्यूरी चोररी च विस्तारे ऽङ्गीकृतौ त्रयम् ।
विस्तारे यथा—उररीकरोति, ऊरीकरोति, ऊररीकरोती, अङ्गीकृतावप्येवम् ॥
परलोके देवलोके सुखे स्वः परिकथ्यते ॥ ५५१ ॥
परलोके यथा—ʻस्वर्गतस्य क्रियाः कार्याः पुत्रैः परमभक्तितḵ इति । देवलोके यथा—ʻस्वर्णद्यां स्नाति नारदḵ इति । सुखे यथा—स्वर्गः ॥
न्यक्कारालीकवार्तासु सम्भाव्येऽनुचिते किल ।
न्यक्कारे यथा—ʻत्वं किलानमितपूर्वमक्षिणोḵ इति । अलीके यथा—ʻअमूं किल त्वं त्रिदिवादवातरḵ इति (शिशु। १। ३६) । वार्तायां यथा—ʻअथ किलैकरथेन नृपात्मज्ȫ इति । सम्भाव्ये यथा—गुरून् किलातिशेते शिष्यः इति । अनुचिते यथा—ʻवक्तुं किल गुरूनेवमनर्हस्त्वं विनष्टधीḵ इति ॥ २५४ ॥
ऊरर्यूरी—अङ्गीकृतौ त्रयम् । द्वयं दीर्घादि। तृतीयं तु ह्रस्वादि । तथैव प्रागुक्तम् ʻऊरीकृतमुररीकृतम् इति (२। पृ। १५०) । अजयस्तु त्रयमपि ह्रस्वादिषु पपाठ । यथा—
ʻउपतापो गदे ताप उत्सर्गस्त्यागदानयोः ।
उररी चोररी चोरी विस्ताराङ्गीकृतेऽव्ययम् ॥
इति । अत एव नैषधकाव्ये ʻन खलु मुष्टिरुरीकृतबन्धनḵ इति (४। ८४) । ह्रस्वादिः प्रागुक्तः । तत्रैव—ʻअर्थेषु स्वयमुररीकृतकाम्यḵ इति च । ʻतन्मे वरद्वयमुरीकृतपूर्वमेव्ö इति मुरारिश्च (अनर्घ। ४। ६६) । विस्तारे यथा—ʻऊरीकृत्य पटं धारयति, विस्तार्य पटं धारयतीत्यर्थः ॥ स्वर्गे परे च लोके स्वः । स्वर्गे यथा—स्वर्लोकः । परलोकमात्रे यथा—ʻस्वर्गतस्य क्रियाः कार्याḵ इति । ʻस्वर्यातस्य पुत्रस्य पत्नी तद्भागमर्हति इति च । शेषे—ʻस्वराकाशे शर्मणि च्ö इति । आकाशे यथा—स्वर्गङ्गा । आकाशगङ्गेत्यर्थः । शर्मणि सुखे यथा—स्वं सुखं गम्यतेऽत्रेति स्वर्गः ॥ वार्तासम्भाव्ययोः किल । वार्तायां यथा—ʻजघान कंसं किल वासुदेवḵ (महाभाष्ये) इति । सम्भवे यथा—ʻगुरून् किलातिशेतेऽर्जुनḵ इति । शेषे—ʻअलीके च किल स्मृतः न्यक्कारेऽनुचिते हेतü इति । अलीके यथा—ʻअजानानः किल पृच्छति इति । न्यक्कारे यथा—त्वं किल योत्स्यसे । अनुचिते यथा—एवं किल गुरून् वक्तुमनर्हो भवान् । हेतौ यथा—ʻशीघ्रं पाकस्त्वया कार्यः क्षुधा किल भविष्यति । इति ॥ २५४ ॥
मल्लि-नाथः - AK.03.03.254
ऊरर्यूरी—अङागीकृतौ त्रयम् । ऊरर्यूरीशब्दौ ह्रस्वादिरपि स्याताम् । ऊरीशब्दो दीर्घादिः ।
उपतापो गदे ताप उत्सर्गस्त्यागदानयोः ।
उररी चोररी चोरी विस्तारे ऽङ्गीकृतौ त्रयम् ॥
इति जयकोशपाठाद् ह्रस्वादिरपि ॥ स्वर्गे परे च—सम्भाव्ययोः किल । तन्त्राद् वार्तासम्भाव्ययोरेव ग्रहणम् । ʻसम्भाव्ये किल वार्तयाम् इति रभसः । ʻवार्तायामरुचौ किल्ö इति त्रिकाण्डशेषः (पृ। ३७, श्लो। १०२०) ॥ २५४ ॥
[[०३.६०६]]
अक्।०३.०३.२५५अब् निषेधवाक्यालङ्कारे जिज्ञासानुनये खलु ।
अक्।०३.०३.२५५च्द् समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥ २५५ ॥
लिङ्ग-सूरी - AK.03.03.255
निषेधवाक्यालङ्कारजिज्ञासानुनयेषु च ॥ ५५२ ॥
निश्चये नियमे हेतौ खलुशब्दः प्रकीर्तितः ।
निषेधे यथा—ʻनिर्धारितेऽरथे लेखेन खलूक्त्वा खलु वाचिकम् इति (शिशु। २। ७०) । वाक्यालङ्कारे यथा—अथो खल्वर्थः । जिज्ञासायां यथा—स खल्वधीते ते पुत्रः । अनुनये यथा—ʻन खलु दूरगतोऽप्यतिवर्तते इति । निश्चये यथा—ʻन खल्वनिर्जित्य रघुं कृती भवान् इति (रघु। ३। ५१) । नियमे यथा—ʻप्रवृत्तिसाराः खलु मादृशां गिरḵ इति (किरा। १। २५) । हेतौ यथा—ʻकविरेव ततः खलूक्तवान् इति ॥
समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥ ५५३ ॥
समीपे यथा—वाराणसीमभितो भागीरथी । भागीरथीमभित इत्यर्थः । उभयतो यथा—ʻभेजेऽभितःपातुकसिद्धसिन्धोḵ इति (शिशु। ३। ३) । शीघ्र यथा—अभितःशत्रुरायाति । साकल्ये यथा—भुङ्क्तेऽन्नमभितोऽतिथिः । अभिमुखे यथा—ʻअभितो हिंस्रको दन्ती मामेव परिधावति इति ॥ २५५ ॥
निषेधवाक्यालङ्कारे—खलु । निषेधे यथा—ʻनिर्धारितेऽर्थे लेख्येन खलूक्त्वा खलु वाचिकम् इति (शिशु। २। ७०) । वाक्यालङ्कारे यथा—ʻअयं खलु महाराज इत एवाभिवर्तते इति । जिज्ञासायां यथा—को नु खल्वयम् । अनुनये यथा—ʻन खलु न खलु मुग्धे साहसं कार्यमेतत् इति (नागा। २। ११) । शेषे—ʻविषादे निश्चये हेतü इति । विषादे यथा—ʻन विदीर्ये कठिनाः खलु स्त्रियḵ इति (कु। सं। ४। ५) । निश्चये यथा—तत् खलु देयम्, निश्चयेन देयमित्यर्थः । हेतौ यथा—ततः खलु; तस्माद् हेतोरित्यर्थः ॥ समीपोभयतः—अभिमुखेऽभितः । समीपे यथा—पर्वतमभितो ग्रामः । उभयत इत्यस्यार्थे यथा—नगरमभितो नदी । उभयत्रापि ʻपर्यभिभ्यां च्ö (५। ३। ९) इति तसिल् प्रत्ययः, ʻअभितः परितः ॥ । इत्यादिना (वा। १। ४। ४८) द्वितीया च । शीघ्रे यथा—आगच्छ त्वामभितः सार्थो दूरं यास्यति । साकल्ये यथा—व्याप्नोत्यभितो रजः, समन्ताद् रजो व्याप्नोतीत्यर्थः । अभिमुखे यथा—अभितः समापतन्तमरिमपश्यत्; आभिमुख्येनापतन्तं शत्रुमपश्यदित्यर्थः ॥ २५५ ॥
मल्लि-नाथः - AK.03.03.255
निषेधवाक्यालङ्कारे—खलु । क्रमेणोदाहरणानि—
ʻकुपित्वा खलु वामाक्षि कोपः कः खलु किङ्करे ।
जाने खलु कृपालुं त्वां वाचं देहि खलु प्रिये ॥
इति ॥ समीपोभयतः—अभिमुखेऽभितः ॥ २५५ ॥
[[०३.६०७]]
अक्।०३.०३.२५६अब् नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि ।
अक्।०३.०३.२५६च्द् तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु ॥ २५६ ॥
लिङ्ग-सूरी - AK.03.03.256
जन्मप्रकाशयोः प्रादुर्मिथोऽन्योन्यरहस्ययोः ।
जन्मनि यथा—ʻप्रादूरासीच्चक्रपाणिर्देवक्यां वसुदेवतḵ इति । प्रकाशे यथा—ʻप्रादुरासीद् वसुन्धर्ȫ इति (रघु। १५। ८३) ॥ मिथः, अन्योन्यार्थे यथा—वसिष्ठकौण्डिन्यमैत्रावरुणा मिथो न विवाह्याः । रहस्ये यथा—ʻवक्तुं मिथः प्राक्रमतैवमेनम् इति (कु। सं। ३। २) ॥
अन्तर्धाने तिर्यगर्थे तिर इत्यव्ययं भवेत् ॥ ५५४ ॥
अन्तर्धाने यथा—ʻअभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे इति (रघु। १०। ४८) । तिर्यगर्थे यथा—ʻतिरस्करिण्यो जलदा भवन्ति इति (कु। सं। १। १४) ॥
निन्दाविस्मययोर्हा स्यादार्तौ शोकविषादयोः ।
निन्दायां यथा—हा कदन्नमुपभुञ्जते द्विजाः । विस्मये यथा—हा गजेन हतः सिंहः । आर्तौ यथा—हा हतोऽस्मि मन्दभाग्यः । शोके यथा—ʻहा लक्ष्मणेति गदितं विनिशम्य सीत्ȫ इति । विषादे यथा—ʻहा हा कृष्णो राजपुत्रं रथस्थḵ इति ॥ २५६ ॥
नामप्राकाश्ययोः प्रादुः । नाम नामधेयमिति सुबोधिनीकारः । यथा—ʻप्रादुर्भावा हरेर्दश्ö । मत्स्यकूर्मादिरूपेण दश नामानीत्यर्थः । सुभूतिचन्द्रस्तु व्याचष्ट—नाम्नि नामशब्दार्थे सम्भावनारूपे प्रादुःशब्दः । तथा च—ʻप्रादुः स्फुटे च सम्भाव्ये इत्यजयः । प्राकाश्ये यथा—ʻप्रादुरास प्रभाकरḵ इति । केचित्तु—ʻजन्मप्राकाश्ययोः प्रादुḵ इति पठन्ति । जन्मनि यथा—ʻप्रादुर्भूतः सुतस्तस्य्ö इति ॥ मिथोऽन्योन्यं रहस्यपि । अन्योन्यमित्यर्थे यथा—भारद्वाजकपिगर्गाणां मिथो विवाह्याः । रहसि यथा—ʻमिथस्त्वदाभाषणलोलुपं मनḵ इति (शिशु। १। ४०); ʻमिथः कृते मन्मथ एव साक्षी इति च ॥ तिरोऽन्तर्धौ तिर्यगर्थे । अन्तर्धे यथा—ʻविश्वयोनिस्तिरोदधे इति (कु। सं। २। ६२) । तिर्यगर्थे यथा—ʻगतं तिरश्चीनमनूरुसारथेḵ इति (शिशु। १। २) ॥ हा विषादशुगर्तिषु । विषादे यथा—ʻपुण्यान्तःपुरमेव हा प्रविशति क्रुद्धो मुनिर्भार्गवḵ इति (महावीर। २। २०) । शुचि शोके यथा—ʻहा प्रिये जानकि इति (उत्तर। ३। १२-) । आर्तौ यथा—ʻहा हतोऽस्मि मन्दभाग्यḵ इति । शेषे—ʻविस्मये च जुगुप्सायां हा मतḵ इति । विस्मये यथा—ʻहा गजेन हतः सिंहḵ इति । जुगुप्सायां यथा—ʻहा कदन्नमुपभुञ्जते द्विजाḵ इति ॥ २५६ ॥
मल्लि-नाथः - AK.03.03.256
नामप्रकाशयोः प्रादुः । नामप्रकाशौ सम्भाव्यस्फुटार्थकौ । ʻप्रादुः स्फुटे च सम्भाव्ये इति जयकोशः ॥ मिथोऽन्योन्यं—हा विषादशुगर्तिषु ॥ २५६ ॥
[[०३.६०९]]
अहहेत्यत्यद्भुते खेदे हि हेताववधारणे ॥
इति श्रीमदमरसिंहकृते नामलिङ्गानुशासने नानार्थवर्गः
लिङ्ग-सूरी - AK.03.03.?
अहहेत्यव्ययं प्रोक्तं खेदनाश्चर्ययोरपि ॥ ५५५ ॥
खेदने यथा—ʻअहह कष्टमपण्डितता विधेḵ इति (भर्तृहरि ३४२) । आश्चर्ये यथा—ʻअहह महतां निःसीमानश्चरित्रविभूतयḵ इति (भर्तृ। ७३) । अहहा इति वा पदच्छेदः । ʻअहहा भिक्षमाणोऽपि क्षुधा सम्पीड्यते जनḵ इति ॥
अवधारणहेत्वोर्हि स्फुटार्थे पादपूरणे ।
अवधारणे यथा—चन्द्रो हि शीतः । हेतौ यथा—कृतिमन्तो हि कार्यतः । स्फुटार्थें यथा—ʻतथा हि सर्वे तस्यासन् इति (रघु। १। २९) । पादपूरणे यथा—ʻरामो हि लक्ष्मणं वाक्यमवादीद् विहसन्निव्ö इति ॥
इति श्रीवङ्गलकामयभट्टोपाध्यायसूनुलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ
अव्ययनानार्थवर्गः सम्पूर्णः
अहहेत्यद्भुते खेदे । अद्भुते यथा—ʻअहह महतां निःसीमानश्चरित्रविभूतयḵ इति (भर्तृ। ७३) । खेदे यथा—ʻअहह कष्टमपण्डितता विधेḵ इति (भर्तृ। ३४२) । अहहा इति दीर्घान्तो वा पदच्छेदः । यथा—ʻअहहा भिक्षमाणोऽपि क्षुधा सम्पीड्यते जनḵ इति ॥ हि हेताववधारणे । हेतौ यथा—ʻजानाम्यग्निरिहास्तीति महान् धूमो हि दृश्यते इति । अवधारणे यथा—ʻपरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन्ö इति । त्वमेव ब्रूहीत्यर्थः । शेषे—ʻहि स्फुटार्थे विनिश्चित्यां पादपूरे प्रकीर्तितḵ इति । स्फुटार्थे यथा—ʻतथा हि सर्वे तस्यासन् परार्थैकफला गुणाḵ इति (रघु। १। २९) । निश्चये यथा—ʻदाक्ष्यं हि सद्यः फलदम् इति । पादपूरणे यथा—ʻउत्फुल्लपद्मकेसरपरागगौरद्युते मम हि गौरि इति (नागा। १। १३) ॥
इति नानार्थाव्ययवर्गः
मल्लि-नाथः - AK.03.03.?
अहहेत्यद्भुते—अवधारणे । ʻहि स्याद् विशेषणे हेतौ हि हेताववधारणे इति वैजयन्ती (पृ। २८४, श्लो। ९) । अनुक्तम्—ʻस्यात् प्रश्नोत्तरयोस्तर्हि प्रसिद्ध्यारम्भयोर्ह वै इति ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचितेऽमरपदपारिजातेऽव्ययनानार्थवर्गः
[[०४.६१०]]