मूलम् - ०३.०२.००१
(०३.०२.००१अब्) प्रकृतिप्रत्ययार्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत् ।
(०३.०२.००१च्द्) कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥
लिङ्ग-सूरी - AK.03.02.001
अथ सङ्कीर्णवर्गमुपक्रमते प्रकृतीति—प्रत्ययेतरभागः प्रकृतिः । प्रकृतेरितरः प्रत्ययः । प्रकृतिभागस्य अभिधेयमर्थः । आद्यशब्देन रूपभेदसाहचर्ये च । एतैः प्रकृत्यादिभिः सङ्कीर्णेऽस्मिन् वर्गे लिङ्गं स्त्रीपुन्नपुंसकमुन्नयेत् उत्प्रेक्षेत ॥ पुनः पुनः क्रियत इति कर्म क्रिया च । ʻडुकृञ् करणे । एते व्यापारस्य नामनी ॥ अपरे च परे च अपरस्पराः । बहुभिरविच्छेदेन क्रियमाणाया गत्यादेर्नाम ॥ १ ॥
प्रकृति—लिङ्गमुन्नयेत् । उद्देशक्रमानुरोधेन (श्लो। ३। १। १) सङ्कीर्णवर्ग वक्तुमुपक्रमते । प्रकृतिः प्रातिपदिकम् । प्रत्ययः कृत्तद्धितरूपः । अर्थोऽभिधेयरूपः । इह सङ्कीर्णवर्गे विधेयशब्दस्य लिङ्गसन्देहे तत्तल्लिङ्गविशेषनियतैः प्रकृत्यादिभिः यथासम्भवं लिङ्गमुत्प्रेक्षेतेत्यर्थः । अस्य च वर्गस्य सङ्कीर्णपदाभिलक्ष्यत्वमिह वक्ष्यमाणार्थानामुपसङ्ग्रहैकनिगमाभावात् । तथा हि—न तावत् तेषामर्थानां प्रागनुक्तत्वं समानो धर्मः । उक्तानामपि ज्वरहूतिख्यातिसङ्ग्रहादीनामभिधानात् । नापि धर्ममात्रत्वम् । धर्मिणामपि उपघ्नस्तम्बघ्नादीनामपि (श्लो। १९, ३५) वक्ष्यमाणत्वात् । नाप्याविष्टलिङ्गत्वम् । अपरस्परस्तम्बघ्नादीनामपि कथनात् । नापि प्रागुक्तस्वर्गव्योमादिसम्बन्धित्वादिलक्षणसर्वोपसङ्ग्राहकात्यन्ताभावः । राजकगाणिक्यादिवद् (२। ८। ३, २। ६। २२) मानुष्यककारीषादीनां (श्लो। ४२, ४३) सत्यपि मनुष्यसम्बन्धे तत्तत्प्रकरणपाठपरिहाणेनात्रैव निरूपणाद् भूविशेषस्य संस्तावस्यापि (श्लो। ३४) अत्रैव प्रस्तुतत्वात् । अन्यस्यापि कस्यचित् समानधर्मस्य दुर्निरूपत्वेनानन्तरवर्गस्य लूनविशीर्णप्रायार्थसङ्कुलत्वेन सकीर्णसञ्ज्ञया व्यवहारः उपपद्यते ।
तत्र प्रकृत्या लिङ्गोन्नयनं यथा—अपरे च परे चेति द्वन्द्वसमासे अपरस्पराः । क्रियासातत्ये सुडागमो निपातितः । अत्र परवल्लिङ्गतानियमात् परशब्दस्य च सर्वनामत्वेन वाच्यलिङ्गतानियमाद् अपरस्परप्रातिपदिकस्यापि वाच्यलिङ्गत्वं निश्चीयते । अपरस्पराः सार्था यान्ति । अपरस्पराणि ब्राह्मणकुलानि इत्यादि । तथा ʻतद्युक्तात् कर्मणोऽण् (५। ४। ३६) इति सूत्रेण नपुंसकलिङ्गात् कर्मशब्दात् स्वार्थ एव उत्पन्नतद्धितान्तस्य कार्मणशब्दस्यापि प्रकृतिवदेव नपुंसकलिङ्गत्वम् । अत एव बालो बालकः । शारी शारिका । स्थानमेव स्थानकम् इत्यादिस्वार्थिकप्रत्ययान्तानां प्रकडतिलिङ्गत्वमेव । चातुर्वर्ण्यादिषु तु ʻस्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते इति वचनात् प्रकृतिलिङ्गातिवृत्तिः तत्र तत्र विशेषविधानादवगन्तव्या । दान्तिः शान्तिः कान्तिः इत्यादीनां स्त्र्यधिकारविहितप्रत्ययान्तानां (३। ३। ९४) प्रत्ययवशेनैव स्त्रीत्वनिश्चयः । प्लोषश्लेषग्रहजयादिशब्दानामत्र सप्तमीविभक्त्यन्तत्वेन पाठात् लिङ्गसन्देहे ʻघञन्ताः पुंसि (श्लो। ३। ५। १५) इति पुंलिङ्गत्वं प्रत्ययैरेवावगम्यते । गतम् इत्यादौ नपुंसकत्वं भावविहितक्तप्रत्ययेन (३। ३। ११४) निश्चीयते इत्यादि । अर्थेन यथा—त्राणशब्दो (श्लो। ८) निष्ठान्तो वाच्यलिङ्गः । ल्युडन्तश्चेद् नपुंसकलिङ्गः (३। ३। ११५) । एवं च ʻरक्ष्णस्त्राणे (श्लो। ८) इत्यत्र भाववचनरक्ष्णशब्दसमभिव्यागहृतत्राणशब्दस्य नपुंसकलिङ्गत्वं रक्ष्णरूपभावार्थेन निर्णीयते । ʻगीर्णे गिरौ’ (श्लो। ११) इत्यत्र गिरिशब्दस्य स्त्रीलिङ्गपुंलिङ्गयोस्तुल्यरूपत्वेऽपि पर्वतवाचकस्य पुंलिङ्गत्वावधारणाद् इह तद्विलक्षणगरणरूपभावार्थेन स्त्रीलिङ्गत्वमवसीयते । प्रत्ययार्थाभ्यां समुच्चिताभ्यां यथा—सहस्रमस्यास्तीत्यर्थे ʻतपःसहस्राभ्यां विनीनी ʻअण् च्ö (५। २। १०२-३) इति मत्वर्थीयेऽण्प्रत्यये साहस्राः सामन्ता इत्यादिरूपेण साहस्रशब्दो वाच्यलिङ्गः । समूहार्थे तु भिक्षादिषु (४। २। ३८) पाठाद् अण्प्रत्यये सति नपुंसकलिङ्गः । एवं च सति साहस्रकारीष ॥ । (श्लो। ४३) इत्यत्र द्वन्द्वसमासमध्यवर्तितया साहस्रशब्दस्य लिङ्गसन्देहे सति अण्प्रत्ययस्य समूहार्थावलम्बनेन भैक्षादिशब्दवत् (४। २। ३८) नपुंसकत्वनिर्णायकत्वमित्यादि यथासम्भवमुदाहार्यम् ।
आद्यशब्दगृहीतेन रूपभेदेन यथा—शमथः, दमथः (श्लो। ३); छिदा, भिदा (श्लो। ५); विधूननं, विधुवनम् (श्लो। ४) इत्यादि । विशेषविधिना यथा—ʻवेदना न ना’ (श्लो। ६) । ʻअथास्त्रियां तु निष्ठेवः’ (श्लो। ३७) इत्यादि । ʻडिम्बे डमरविप्लवौ’ (श्लो। १४) इत्यादौ साहचर्यात् समासाच्च लिङ्गनिश्चय इति द्रष्टव्यम् ॥ अत्र सङ्कीर्ण इत्युपलक्षणम् । तथा चेह ग्रन्थे सर्वत्रापि नाम्नामेष एव लिङ्गनिर्णयोपायो बोद्धव्यः । ननु यद्येवं ग्रन्थादावेवेदं वक्तव्यमिति चेत् सत्यम् । प्रागुक्ते स्वर्गादिवृन्दिष्ठान्ते (श्लो। ३। १। ११२) शब्दप्रपञ्चे परिचितनिरुक्तिमार्गस्य प्रकृतिप्रत्ययविवेकः सुकरः इत्यत्रैवेदमुक्तम् । अत एव लिङ्गसङ्ग्रहवर्गादावप्ययमर्थः कथयिष्यत इति सर्वमनवद्यम् ॥
कर्म क्रिया इत्येते व्यापारस्य नामनी । क्रियत इति कर्म । औणादिको मनिन्-प्रत्ययः (उ। ४। १४५) । ʻकर्म व्याप्ये क्रियायां च पुन्नपुंसकयोर्मतम् इति रुद्रवचनात् कर्मशब्दः पुन्नपुंसकलिङ्ग इति दशटीकासर्वस्वकारः (३, पृ। ५१) । ʻक्षपयत्यशुभं कर्म कर्माणं चिनुते शुभम् इति प्रयोगश्च तेनैव दर्शितः । ʻकृञः श च्ö (३। ३। १००) इति भावार्थे शप्रत्यये तस्य ङिद्वद्भावेन गुणाभावे सति ʻरिङ् शयग्लिङ्क्षु’ (७। ४। २८) इति रिङादेशे च क्रियाशब्दः । अत्र शेषकारः—ʻकारः कृत्यं न ना कारिः प्रश्नोक्त्योः कारिका कृतिः’ इति ʻडुकृञ् करणे इत्यतो भावे घञि कारः । ʻविभाषा कृवृषोः’ (३। १। १२०) इति भावार्थे क्यप् प्रत्यये कृत्यम् । न ना; पुंलिङ्गं न भवतीत्यर्थः । ʻकृञः श च्ö (३। ३। १००) इति चकारेण क्यप् प्रत्यये कृत्याशब्दः स्त्रीलिङ्गः । ʻविभाषाख्यानपरिप्रश्नयोरिञ् च्ö (३। ३। ११०) इति इञ् प्रत्यये कारिशब्दः स्त्रीलिङ्गः । ʻकां कारिमकार्षीः’ इत्यादिप्रश्नोत्तरयोरेव कारिशब्दस्य साधुत्वम् । धात्वर्थनिर्देशे ण्वुलि (३। १। १३३) कारिका । स्त्रियां क्तिनि (३। ३। ९४) कृतिः ॥
तत्सातत्ये गम्ये स्युरपरस्पराः । सन्ततस्य भाव इति सन्ततशब्देन विग्रहेऽपि ʻअविरविकन्यायेन्ö सततशब्दात् तद्धितोत्पत्तौ सातत्यमिति रूपम् । तस्या अध्ययनगत्यादिकायाः क्रियायाः सातत्ये अपरैः परैः सङ्घीभूय बहुभिरविच्छेदेन क्रियमाणायाः प्रबन्धे विवक्षिते सति अपरस्परा इत्ययं शब्दः प्रवर्तत इत्यर्थः । अपरे च परे चेति द्वन्द्वसमासे ʻअपरस्पराः क्रियासातत्ये (६। १। १४४) इति सूत्रेण सुडागमो निपातितः । अत्र काशिकाकारेण ʻअपरस्पराः सार्था यान्ति इत्युदाहरणं प्रदर्श्य, तस्यार्थोऽपि दर्शितः ʻसन्ततमविच्छेदेन गच्छन्तीत्यर्थः’ इति (२, पृ। १४७) । अत्र द्वन्द्वसमासे परवल्लिङ्गतानियमात् (२। ४। २६) परशब्दस्य च सर्वनामत्वेन वाच्यलिङ्गत्वाद् ʻअपरस्पराणि ब्राह्मणकुलानि वहन्ति इत्युदाहार्यम् । क्रियाप्रबन्धविवक्षाया अभावे तु अपरस्परा सुडागमरहित एव प्रयोज्यः । अत्र सुभूतिचन्द्रः—ʻतत्सातत्य इत्यत्र सातत्यं क्रियावतां क्रियायाश्च विशेषणम् । तथा च यत्र क्रियावतां तत्र वाच्यलिङ्गत्वम् अपरस्परशब्दस्य । यत्र क्रियायास्तत्र नपुंसकत्वमिति पूर्णचन्द्रः । अत एव “निर्दिष्टं कर्मसातत्ये सुधीभिरपरस्परम्” इति भागुरिः । क्रियाविशेषणत्वे यथा—अपरस्परमधीयन्ते माणवकाः’ इति ॥ १ ॥
मल्लि-नाथः - AK.03.02.001
प्रकृति—अपरस्पराः । प्रस्तावभावाद्युपाधिभिः पूर्वोक्तप्रकीर्णशब्दसङ्ग्रहार्थेऽस्मिन् सङ्कीर्णवर्गे प्रकृत्यर्थप्रत्ययार्थरूपभेदैर्लिङ्गं तर्कयेत् । अपरस्पराः इत्यत्र प्रकृत्यर्थो लिङ्गगमकः । ʻस्फातिर्वृद्धौ’ (श्लो। ९) इत्यत्र प्रत्ययार्थः । कर्म क्रिया इत्यत्र रूपभेदः । भ्रमिर्भ्रमे इत्यत्र साहचर्यमगोचरम् । विशेषविधेरनुक्तत्वात् तदनुपादानम् । गीर्णिर्गिरौ (श्लो। ११) इत्यत्र साहचर्यम् । ʻसंवेदो वेदना न ना’ (श्लो। ६) इति क्वचिद् विशेषविधिः ॥ क्रियासातत्ये विषये क्रियावत्सु त्रिलिङ्गोऽपरस्परशब्दः स्यात् । अपरे च परे च अपरस्परे । अपरस्परा वाहनार्थं गच्छन्ति । क्रियायां नपुंसक एव । अपरस्परं गच्छन्ति । ʻनिर्दिष्टं कर्मसातत्ये सुधीभिरपरस्परम् इति भागुरिः ॥ १ ॥
[[०३.१६०]]
मूलम् - ०३.०२.००२
(०३.०२.००२अब्) साकल्यासङ्गवचने पारायणतुरायणे ।
(०३.०२.००२च्द्) यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् ॥ २ ॥
लिङ्ग-सूरी - AK.03.02.002
साकल्येति—पारं साकल्यमयन्ते प्राप्नुवन्ति येनेति पारायणम् । ʻअय पय गतौ’ । साकल्यवचनस्य वेदपारायणादेर्नाम । तुरया त्वरया अयन्ते येन तुरायणम् । परायणमिति वा पाठः । धर्ममेव परमित्ययन्ते येन परायणम् । आसक्तिवचनस्य धर्मपरायणादेर्नाम ॥ स्वयमृच्छा इच्छा यदृच्छा । स्वैरिणः स्वतन्त्रस्य भावः
स्वैरिता । स्वेच्छानामनी ॥ हेतुशून्या आस्था अकारणस्थितिः विलक्षणमुच्यते । विगतं लक्षणमालोचनमत्रेति विलक्षणम् । विलक्षणनाम ॥ २ ॥
साकल्य—तुरायणे । वेदसंहितादेः यस्य कस्यचिद् ग्रन्थस्य साकल्येन कथनं साकल्यवचनम् । सङ्गः स्खालित्यम् । तद्राहित्येन कथनम् असङ्गवचनम् । तयोरुभयोरर्थयोः क्रमेण द्वावपि शब्दौ भवतः । पारं साकल्यम् अयन्ते प्राप्नुवन्ति येन तत् पारायणम् । त्वरणं तूः । ʻञित्वरा सम्भ्रमे । भावे क्विप् । ʻज्वरत्वर ॥ । इत्यादिना (६। ४। २०) ऊठ् । तुरा त्वरया असक्तमयन्ते गच्छन्ति येन तत् तुरायणम् । ʻपारायणतुरायणचान्द्रायण ॥ । (५। १। ७२) इति निर्देशात् साधुत्वम् । चिरन्तनव्याख्यातारस्तु—ʻपारायणपरायणे इति पठित्वा व्याचक्रुः—ʻसाकल्यमासङ्गश्च तौ वदतः’ इति । अत्र साकल्यार्थः पारायणशब्दः । तथा च भट्टिकाव्ये—ʻरत्नपारायणं नाम लङ्केयं मम मैथिलि इति (५। ८९) । अत्र साकल्यार्थो गम्यत इति साकल्यवचनत्वम् । आसङ्ग आसक्तिः । तद्वाचकः परायणशब्दः । यथा—ʻअथ मोहपरायणा सती (कु। सं। ४। १) इति । मोहासक्तिमतीत्यर्थः । यदृच्छा स्वैरिता । स्वैरी स्वतन्त्रः । तस्य भावः स्वैरिता । स्वेच्छाकृतव्यापारो यदृच्छेत्यर्थः । ʻऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु’ इति गत्यर्थाद् धातोरकारप्रत्यये (३। ३। १०३) ऋच्छा । स्वयमृच्छा स्वेच्छा । ʻऋलृक् (मा। सू। २) इति सूत्रे ʻलृकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः’ इति वार्त्तिककारोच्चारणात् साधुत्वम् । ʻस्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया’ इति माघश्लोकव्याख्याने (शिशु। १। ७१) वल्लभाचार्यः । ʻयदृच्छाशब्दो स्वेच्छार्थो व्युत्पत्तिरहितः । न ह्यत्रावयवार्थानुसारिणी व्युत्पत्तिरस्तीति ॥ हेतुशून्या त्वास्था विलक्षणम् । प्रयोजनरहिता यत्र कुत्रचिदास्था स्थितिर्विलक्षणमुच्यते । विगतं लक्षणं स्थितिज्ञापकं प्रयोजनमत्रेति विलक्षणम् ॥ २ ॥
मल्लि-नाथः - AK.03.02.002
साकल्य—परायणे । पारायणशब्दः साकल्यवचनः । साकल्यं कार्त्स्न्यम् । परायणशब्दः आसङ्गवचनः । आसङ्ग आश्रयः । ʻत्रिषु स्यात् तत्परेऽभीष्टेऽप्याश्रये क्ली परायणम् इति रभसः । ʻअथ मोहपरायणा सती (कु। सं। ४। १) इत्यत्र बहुव्रीहिवशान्त् स्त्रीलिङ्गः ॥ यदृच्छा स्वैरिता । नियमत्यागनामनी । ʻयदृच्छा नियमोज्झितिः’ इति वैजयन्ती (पृ। १९२, श्लो। ६) ॥ हेतु—विलक्षणम् । हेतुशून्यं विलक्षणं स्यात् ॥ २ ॥
[[०३.१६१]]
मूलम् - ०३.०२.००३
(०३.०२.००३अब्) शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।
(०३.०२.००३च्द्) अपदानं कर्मवृत्तं काम्यदानं प्रवारणम् ॥ ३ ॥
लिङ्ग-सूरी - AK.03.02.003
शमथ इति—शमनं शमथः । शमः, शान्तिश्च । ʻशम उपशमे । क्रोधाद्युपरमस्य नामानि ॥ दमनं दान्तिः । दमथः, दमश्च । ʻदमु उपशमे । क्लेशसहनस्य नामानि ॥ अपदायते शोध्यत इति अपदानम् । ʻदैप् शोधने । अवदानमिति वा पाठः । वृत्तस्य शुद्धकर्मणो नाम ॥ प्रवार्यतेऽशुभादिकमनेनेति प्रवारणम् । ʻवृञ् वरणे । ऐच्छिकदानस्य नाम ॥ ३ ॥
शमथः—शान्तिः । कामक्रोधाद्युपरमस्य नामानि । ʻशमु उपशमे इत्यस्मात् ʻशमिदमिभ्यामथच् इत्यौणादिके अथच् प्रत्यये शमथः ॥ घञि (३। ३। १८) ʻनोदात्तोपदेशस्य॥ । (७। ३। ३४) इति वृद्धिप्रतिषेधे शमः ॥ स्त्रियां क्तिनि (३। ३। ९४) ʻअनुनासिकस्य क्विझलोः क्ङिति (६। ४। १५) इति दीर्घे शान्तिः ॥ दान्तिः—दमः । मनसः प्रत्याहारादिक्लेशसहिष्णुताया नामानि । ʻदमु उपशमे इति धातोः पूर्ववदेव शब्दत्रयं व्युत्पादनीयम् ॥ अपदानं कर्मवृत्तम् । वृत्तं दृढं शुद्धमित्यर्थः । निर्व्यूढमित्येके । तथाभूतं कर्म अपदानम् । अप इति निपातो वर्जनार्थः । पुरुषोऽपदायते शुध्यते इतरसाधारण्यपरिहारेण सोत्कर्षः प्रतीयतेऽनेनेति अपदानम् । ʻदैप् शोधने । करणे ल्युट् (३। ३। ११५) ॥ काम्यदानं प्रधारणम् । काम्यस्य कमनीयस्य कनकरत्नादेर्वस्तुनः कामनापूर्वकं च दानं प्रधारणमिति सुभूतिचन्द्रः । दातृप्रतिग्रहीत्रोः प्रकृष्टं मनसो धारणमत्रेति प्रधारणम् । अन्ये तु पाठान्तरेण निर्ब्रुवते—प्रभूतधनप्राप्त्या याचकैरलम्बुद्ध्या कृतं प्रकृष्टं वारणं निवारणम् अत्रेति प्रवारणमिति ॥ ३ ॥
मल्लि-नाथः - AK.03.02.003
शमथः—शान्तिः । क्रोधरागादिराहित्यनामानि ॥ दान्तिः—दमः । क्लेशसहिष्णुतानामानि ॥ अपदानं कर्मवृत्तम् । अन्तस्थद्वितीयं पवर्गद्वितीयं च स्यात् । वृत्तं कर्म अपदानं स्यात् ॥ काम्यदानं प्रवारणम् । काम्यवस्तुप्रदानं प्रवारणं स्यात् ॥ ३ ॥
[[०३.१६२]]
मूलम् - ०३.०२.००४
(०३.०२.००४अब्) वशक्रिया संवननं मूलकर्म तु कार्मणम् ।
(०३.०२.००४च्द्) विधूननं विधुवन तपण प्रीणनावनम् ॥ ४ ॥
लिङ्ग-सूरी - AK.03.02.004
वशक्रियेति—संवन्यते वशीक्रियतेऽनेनेति संवननम् । ʻवन सम्भक्तौ’ । वशीकरणस्य नाम ॥ कर्मैव कार्मणम् । मूलैरौषधादिमूलैर्यत् क्रियते तस्य कर्मणो नाम ॥ विधूयतेऽनेनेति विधूननम् । ʻधूञ् कम्पने । विधुवनं च । ʻधू विधूनने । व्यजनादेश्चालनस्य नामनी ॥ तृप्यतेऽनेनेति तर्पणम् । ʻतृप प्रीणने । प्रीयतेऽनेनेति प्रीणनम् । ʻप्रीञ् तर्पणे । अव्यतेऽनेनेत्यवनम् । ʻअव रक्षणादौ’ । ब्राह्मणादीनाम् अन्नादितर्पणस्य नामानि ॥ ४ ॥
वशक्रिया संवननम् । मणिमन्त्रादिभिर्वशीकरणस्य नामनी । वशस्य स्वानुवृत्तेः क्रिया करणं वशक्रिया । सम्यग् वननं संवननम् (३। ३। ११५) । वनु इति धातुः । अस्यायमर्थः । वनुधातुरस्मिन्नर्थे वर्तत इति शृङ्गग्राहिकया नोच्यते । किन्तु सर्वेऽप्यर्थाः अस्य धातोरिति । अतोऽत्र वशीकरणमर्थः ॥ मूलकर्म तु कार्मणम् । ʻतस्येदम् (४। ३। १२०) इत्यण् । ʻअन् (६। ४। १६७) इति प्रकृतिभावः । ʻकार्मणं मन्त्रतन्त्रादियोजने कर्मणि स्मृतम् इति विश्वप्रकाशः (पृ। ५२, श्लो। ५९) । तथा च मुरारिनाटके (अनर्घ। ३। १६) प्रयोगः—
ʻनिर्मायकार्मणमृचामघमर्षणीना-
मुन्मार्जनिर्जगदघानि तवाद्य वाचः’ ।
इति । अघमर्षणमन्त्राणां वशीकरणं विधाय तन्मन्त्रनिर्वर्त्यसकलदुरितविध्वंसनकार्यस्य स्वयमेव विधायकास्तव वाच इत्यर्थः । अथवा इह प्रवृत्तिहेतुभूतं वाचिकं मूलशब्देनोच्यते । ʻयद्वाचा वदति तत्कर्मणा करोति इति श्रुतेः (नृसिंह। उ। १) । वाचिकं श्रुत्वा यत्कर्मणा क्रियते तत् कार्मणमित्यर्थः । तथा च ʻतद्युक्तात् कर्मणोऽण् (५। ४। ३६) इत्यत्र काशिकाकारः (२, पृ। ८६)— ʻव्याहृतार्थया वाचा यत्कर्म युक्तं तदभिधायिनः कर्मशब्दात् स्वार्थेऽण् प्रत्ययो भवति । कर्मैव कार्मणम् । वाचिकं श्रुत्वा तथैव यत्कर्म क्रियते तत्कार्मणमित्युच्यते इति । कात्योऽपि—ʻश्रुत्वा तु वाचिकं कर्म क्रियमाणं तु कार्मणम् इति । अत्रापि व्याख्याने प्राक्प्रदर्शित एव प्रयोगः । निर्मायं कैतवरहितम् । तच्च तत्कार्मणं चेति निर्मायकार्मणमित्येकं पदम् । अघमर्षणमन्त्रव्याहृतार्थयुक्तकर्मरूपत्वात् कार्मणमिति वाचामाविष्टलिङ्गं विशेषणम् । अत एव जगदघानामुन्मार्जनशीला इति स्वार्थिकप्रत्ययान्तानां प्रकृतिलिङ्गकत्वं स्यात् । वर्गसिद्धत्वाद् इह रूपभेदेन कार्मणशब्दस्य नपुंसकलिङ्गत्वं प्रकाश्यते ॥ विधूननं विधुवनम् । वक्ष्यमाणशेषकारोक्तशब्दसहिता विधूननादयो द्वादशशब्दा व्यजनपादपादिचलनप्रयोजकव्यापारस्य वाचकाः । विधूयते व्यजनादिकमनेन प्रयोजकव्यापारेणेति विधूननम् । ʻधूञ् कम्पने । विपूर्वो हेतुमण्णिचि (३। १। २७) ʻधूञ्प्रीञोर्नुग्वक्तव्यः’ (वा। ७। ३.३७) इति करणे ल्युटि (३। ३। ११५) ʻणेरनिटि (६। ४। ५१) इति णिलोपः ॥ विपूर्वाद् ʻधू विधूनने इत्यतो ल्युटि (३। ३। ११५) कुटादित्वेन (१। २। १) गुणाभावाद् उवङादेशे विधुवनम् । शेषे—
ʻविधूनना विधवनं विधूतिर्विधुतिः स्त्रियौ ।
विधून्यं च विधव्यं च विधूयं च विधाव्यवत् ॥
विधुवो विधवस्तुल्यौ’ ।
इति । ʻधूञ् कम्पने इत्यस्मात् णिचि नुकि (वा। ७। ३। ३७) ʻण्यासश्रन्थो युच् (३। ३। १०७) इति युचि विधूननाशब्दो रूपभेदात् स्त्रीलिङ्गः ॥ क्र्यादेः स्वादेर्वा ʻधुञ् कम्पने इत्यतो ह्रस्वात् ल्युटि गुणे विधवनम् ॥ ʻधूञ् कम्पने इत्यतो दीर्घान्तात् क्र्यादेः स्वादेर्वा ʻधू विधूनने इत्यतः तौदादिकाद्वा स्त्रियां क्तिनि (३। ३। ९४) विधूतिः । ʻधुञ् कम्पने इत्यतो ह्रस्वान्ताद् विधुतिः ॥ विपूर्वाद् धूनयतेः ʻअचो यत् (३। १। ९७) इति यत्प्रत्यये विधून्यम् । ʻधू विधूनने इत्यस्मात् कुटादेर्यति विधूयम् । ʻओरावश्यके (३। १। १२५) इति धुनातेर्धुनोतेर्वा ण्यति वृद्धौ ʻवान्तो यि प्रत्यये (६। १। ७९) इति वान्तादेशे च विधाव्यम् । धुवतेः कुटादेरप्रत्यये उवङादेशे विधुवः । स्वादेः क्र्यादेर्वा अप्रत्यये गुणे च विधवः । अन्तिमयोर्द्वयोः लिङ्गतः समत्वमिति शेषकारीयतुल्यशब्दस्यार्थः ॥ तर्पणं प्रीणनावने । अन्नादिना यत् परस्य तृप्तिजननं तस्य नामानि । तृप्यति भोक्ता अनेनेति तर्पणम् । ʻतृप प्रीणने (३। ३। ११५) ॥ प्रीयतेऽनेनेति प्रीणनम् । णिचि ʻधुञ्प्रीञोर्नुग्वक्तयः’ (वा। ७। ३। ३७) इति नुगागमः ॥ अव्यतेऽनेन पुमानिति अवनम् (३। ३। ११५) । ʻअव रक्षणगतिप्रीतिषु’ ॥ ४ ॥
मल्लि-नाथः - AK.03.02.004
वशक्रिया संवननम् । वश्यकर्म संवननं स्यात् । ʻसंवननं समालोचे वशीकारे प्रकीर्तितम् इति विश्वप्रकाशिका (पृ। ९८, श्लो। १५६) । मूलकर्म तु कार्मणम् । मन्त्रतन्त्रादियोजनानाम । ʻकार्मणं मन्त्रतन्त्रादियोजने कर्मकारके इति विश्वः (पृ। ५२, श्लो। ५९) ॥ मूलकर्म च कार्मणम्, इति पाठोऽप्युपपन्नः । ʻसंवननं कार्मणं वशीकरणम् इति हलायुधः (अ। मा। ४। ३१) ॥ विधूननं विधुवनम् । विधुतिनामनी । ʻविदिरिञ्चुट्ö ॥ तर्पणं प्रीणनावनम् । तृप्तिनामानि । ʻतनिवि ॥ ४ ॥
[[०३.१६५]]
मूलम् - ०३.०२.००५
(०३.०२.००५अब्) पर्याप्तिः स्यात् परित्राणं हस्तधारणमित्यपि ।
(०३.०२.००५च्द्) सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा ॥ ५ ॥
लिङ्ग-सूरी - AK.03.02.005
पर्याप्तिरिति—परिरक्षितुमाप्तिः पर्याप्तिः । ʻआप्लृ व्याप्तौ’ । परित्रायतेऽनेनेति परित्राणम् । ʻत्रैङ् पालने । वधोद्यतस्य हस्तस्य धारणमत्रास्तीति हस्तधारणम् । वध्यरक्षणस्य नामानि ॥ सीव्यते तन्तुभिः सन्तन्यत इति सीवनम् । सेवनम् । स्यूतिश्च । ʻषिवु तन्तुसन्ताने । छिन्नवस्त्रादेः सूच्यादिना सीवनस्य नामानि ॥ विदीर्यत इति विदरः । ʻदॄ विदारणे । स्फुट्यत इति स्फुटनम् । ʻस्फुटिर् विशरणे । भिद्यत इति भिदा । ʻभिदिर् विदारणे । घटादिच्छेदनस्य नामानि ॥ ५ ॥
पर्याप्तिः—इत्यपि । वध्यधातुकयोर्मध्येऽनुप्रविश्य घातुकहस्तस्य धारणं कृत्वा यद् वध्यस्य परिरक्षणं तस्यैतानि नामानीति सुबोधिनीकारः । त्रायस्व त्रायस्वेति विक्रोशमुपश्रुत्य मारणोद्यतस्य निषेधः पर्याप्त्यादित्रयमिति सुभूतिचन्द्रश्च । ʻपर्याप्नोतु सुहृदं महाभागः’ इति महावीरनाटके प्रयोगश्च । पर्याप्नोतु वालिना हन्यमानं सुग्रीवं रक्षतु रामः इत्यर्थः । परिरक्षितुमाप्तिः पर्याप्तिः । क्तिन् (३। ३.९४) । भावे ल्युटि (३। ३। ११५) परित्राणम् । मारकहस्तस्य धारणं निर्व्यापारीकरणमत्रेति हस्तधारणम् । रक्षकहस्तेन वध्यस्य धारणं रक्षणमिति वा हस्तधारणम् । घातकहस्तस्य वारणं विवारणमत्रेति निरुच्य हस्तवारणमिति केचित् पठन्ति ॥ सेवनं—स्यूतिः । छिन्नवस्त्रादेः सूच्यादिसङ्घानकरणस्य नामानि । ʻषिवु तन्तुसन्ताने इति धातोर्ल्युटि (३। ३। ११५) लघूपधगुणे (७। ३। ८६) च सेवनम् । ʻष्टिवुसिव्योर्दीर्घश्च्ö (सर। कण्ठा। २। ४। १६७) इति विकल्पेन दीर्घे सीवनम् ॥ तस्मादेव स्त्रियां क्तिनि (३। ३। ९४) ʻच्छ्वोः शूडनुनासिके च्ö (६। ४। १९) इति ऊठि यणादेशे च स्यूतिः ॥ विदरः स्फुटनं भिदा । वेणुदण्डादीनामग्रादामूलं द्विधाकरणस्य नामानि । ʻदृ विदारणे इति धातोः ʻऋॠदोरप् (३। ३। ५७) इत्यप् प्रत्यये विदरः ॥ ʻस्फुट विशरणे इति धातोर्ल्युटि कुटादित्वेन ङित्त्वाद् (१। २। १) गुणाभावे स्फुटनम् ॥ अत एव धातोर्घञि ङित्त्वाभावेन गुणे स्फोटश्च ॥ ʻभिदिर् विदारणे इत्यतः ʻषिद्भिदादिभ्योऽङ् (३। ३। १०४) इति अङ्प्रत्यये भिदा । घञि भेदः, ल्युटि भेदनं च ॥ ५ ॥
मल्लि-नाथः - AK.03.02.005
पर्याप्तिः—इत्यपि । अलमिति वचननामानि । ʻचालुनु अण्ट्ट्ö । सेवनं—स्यूतिः । सूच्यादिना स्यूतिनामानि । ʻकुट्टुट्ö । विदरः—भिदा । विदारणनामानि । ʻचीरुट्ö ॥ ५ ॥
[[०३.१६६]]
मूलम् - ०३.०२.००६
(०३.०२.००६अब्) आक्रोशनमभीषङ्गः संवेदो वेदना न ना ।
(०३.०२.००६च्द्) सम्मूर्च्छनमभिव्याप्तिर्याच्ञा भिक्षार्थनार्दना ॥ ६ ।
लिङ्ग-सूरी - AK.03.02.006
आक्रोशनमिति—आक्रोशति अनेनेत्याक्रोशनम् । ʻक्रुश आह्वाने रोदने च्ö । अभिषज्यत इत्यभीषङ्गः । ʻषञ्ज सङ्गे । शपनस्य नामनी ॥ संविद्यत इति संवेदः । वेदना च । ʻविद ज्ञाने । मिथः संवित्तेर्नामनी ॥ सम्मूर्च्छ्यते व्याप्यत इति सम्मूर्च्छनम् । ʻमूर्च्छा माहसमुच्छ्राययोः’ । अभिव्याप्यत इत्यभिव्याप्तिः । ʻआप्लृ व्याप्तौ’ । धूपगन्धादेः समन्ताद् व्याप्तेर्नामनी ॥ याच्यत इति याच्ञा । ʻटुयाचृ याच्ञायाम् । भिक्ष्यत इति भिक्षा । ʻभिक्ष भिक्षायाम् । अर्थ्यत इत्यर्थना । ʻअर्थ उपयाच्ञायाम् । अर्द्यते याच्यत इत्यर्दना । ʻअर्द गतौ याचने च्ö । याचनानामानि ॥ ६ ॥
आक्रोशनमभीषङ्गः । दुरात्मनाने गर्हितं कर्माचरितमित्यादिरूपेण निष्ठुरभाषणस्य नामनी । आक्रोशन्ति जना अनेनेत्याक्रोशनम् । ʻक्रुश आह्वाने रोदने च्ö । करणे ल्युट् (३। ३। ११५) ॥ आभिमुख्येन शापवचनानां सञ्जनं करणमभीषङ्गः । ʻषञ्ज सङ्गे । अभिपूर्व आक्रोशने । ʻउपसर्गात् सुनोति॥ । इति (८। ३। ६५) षत्वम् । ʻउपसर्गस्य घञि ॥ । (६। ३। १२२) इति दीर्घः ॥ संवेदो वेदना न ना । ययोः कयोश्चित् मिथः सम्प्रतिपत्तेर्नामनी इति केचित् । ज्ञानविशेषस्यानुभवस्य नामनी इति सर्वानन्दः । ʻविद ज्ञाने इत्यतः सम्पूर्वाद् घञि (३। ३। १८) संवेदः ॥ ʻघट्टिवन्दिविदिभ्य उपसङ्ख्यानम् (वा। ३। ३। १०७) इति युचि वेदना ॥ न ना इति । पुंलिङ्गो न भवतीत्यर्थः । ल्युटि (३। ३। ११५) वेदनम् ॥ सम्मूर्च्छनमभिव्याप्तिः । धूमादीनामन्ततः प्रसरणस्य नामनी । समन्ततो मूर्च्छनं सम्मूच्छनम् । ʻमूर्च्छा मोहसमुच्छ्राययोः’ । ल्युट् (३। ३। ११५) । अभितः समन्ततो व्याप्तिः अभिव्याप्तिः । क्तिन् (वा। ३। ३। ९४) ॥ याच्ञा भिक्षार्थनार्दना । दातारं प्रति स्वाभीष्टवस्तुविषयवाञ्छाविष्करणस्य नामानि । ʻटुयाचृ याच्ञायाम् इति धातोः ʻयजयाच ॥ । इत्यादिना (३। ३। ९०) नङ्प्रत्यये श्चुत्वेन च याच्ञा ॥ ʻभिक्ष याच्ञायाम् इत्यस्माद् ʻगुरोश्च हलः’ (३। ३। १०३) इत्यकारप्रत्ययेभिक्षा । ʻअर्थ उपयाच्ञायाम् इति चौरादिकाद् युचि (३। ३। १०७) अर्थना ॥ ʻअर्द गतौ याचने च्ö इति धातोः ʻहेतुमति च्ö (३। १। २६) इति चकारेण स्वार्थे णिच् प्रत्यये युचि च अर्दना ॥ ब्रह्मवर्गोक्ताया अपि (पृ। ४६९) याच्ञायाः प्रागनुक्तपर्यायान्तरप्रदर्शनार्थं पुनरिहानुक्रमणमिति ज्ञेयम् ॥ ६ ॥
मल्लि-नाथः - AK.03.02.006
आक्रोशनमभीषङ्गः । निर्भर्त्सननामनी । ʻतिट्टुट्ö । संवेदो वेदना न ना । ज्ञाननामनी । ʻतेलिवि ॥ सम्मूर्च्छनमभिव्याप्तिः । सर्वतः प्रसरणनामनी । ʻशिलोच्चये मूर्च्छति मारुतस्य्ö इति (रघु। २। ३४) ॥ याच्ञा भिक्षार्थनार्दना । याच्ञानामानि ॥ ६ ॥
[[०३.१६८]]
मूलम् - ०३.०२.००७
(०३.०२.००७अब्) वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने ।
(०३.०२.००७च्द्) आप्रच्छनमथाम्नायः सम्प्रदायः क्षये क्षिया ॥ ७ ॥
लिङ्ग-सूरी - AK.03.02.007
वर्धनमिति—वर्ध्यते छिद्यत इति वर्धनम् । ʻवर्ध छेदनपूरणयोः’ । छिद्यत इति छेदनम् । ʻछिदिर् द्वैधीकरणे । छेदननामनी ॥ आनन्द्यत इत्यानन्दनम् । ʻटुनदि समृद्धौ’ । सभाज्यते प्रीयतेऽनेनेति सभाजनम् । ʻसभाज प्रीतिसेवनयोः’ आपृच्छ्यत इत्याप्रच्छनम् । ʻप्रच्छ ज्ञीप्सायाम् । सुहृदाद्यालिङ्गनसम्भाषणादिसुखावहस्य नामानि ॥ आम्नायते गुरुपारम्पर्येणाभ्यस्यत इत्याम्नायः । ʻम्ना अभ्यासे । सम्यक् सरहस्यं प्रदीयत इति सम्प्रदायः । ʻडुदाञ् दाने । गुरुपरम्परायातस्य विद्यास्थानस्य नामनी ॥ क्षीयत इति क्षयः । क्षिया च । ʻक्षि क्षये । आचारादिनाशस्य नामनी ॥ ७ ॥
वर्धनं छेदने । घटपटादिवस्तूनां शकलीकरणस्य नामनी । ʻवर्ध छेदनपूरणयोः’ इत्यतः चौरादिकात् ल्युटि (३। ३। ११५) वर्धनम् ॥ ʻछिदिर् द्वैधीकरणे इत्यस्मात् छेदनम् । वर्धनसाहचर्यात् प्रत्ययार्थवशेन च नपुंसकत्वम् । युच् प्रत्ययान्तत्वे तु शब्दद्वयस्यापि स्त्रीलिङ्गः । एवमुत्तरत्रापि तत्र तत्र प्रत्ययवशेन लिङ्गविशेषनिर्णयः कार्यः ॥ अथ द्वे—आप्रच्छनम् । प्रयाणादिसमये सुहृद्-बान्धवादीनामालिङ्गनसंलापादिसञ्जातसुखानुभवस्य नामानि । ʻटुनदि समृद्धौ’ इति धातोः आङ्पूर्वात् ल्युटि (३। ३। ११५) आनन्दनम् । ʻमत्रि गुप्तभाषणे इत्यत आङ्पूर्वात् ल्युटि आमन्त्रणमिति केचित् पाठान्तरेण व्याचक्रुः ॥ ʻसभाज प्रीतिसेवनयोः’ इत्यतः चौरादिकात् ल्युटि सभाजनम् । ʻसभाजनायोपगतान् मुनीन्द्रान् इति रघुवंशे (१४। १८) प्रयोगः ॥ ʻप्रच्छ ज्ञीप्सायाम् इति धातुः आङ्पूर्व आनन्दनार्थः । यथा—ʻआपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम् इति कालिदासः (मेघ। १। १२) । ततो ल्युटि आप्रच्छनम् ॥ अथाम्नायः सम्प्रदायः । सद्गुरुपरम्परोपदेशप्राप्तस्य वेदव्याकरणादेः विद्यास्थानस्य नामनी । वेदमात्रेऽपि आम्नाय उक्तः । आम्नायते गुरुपारम्पर्येणाभ्यस्यत इत्याम्नायः । ʻम्ना अभ्यासे । सम्यक् सरहस्यं शिष्याय प्रदीयत इति सम्प्रदायः । उभयत्रापि कर्मणि घञि (३। ३। १८) ʻआतो युक् चिण्कृतोः’ (७। ३। ३३) इति युगागमः । शब्दद्वयमपि भावविहितघञन्तत्वेन सद्गुरुपरम्परागतसरहस्योपदेशमात्रवचनमिति केचित् ॥ क्षये क्षिया । क्षये आचारनाशलक्षणक्षयविशेषे क्षियाशब्दो वर्तत इत्यर्थः । अत एव ʻक्षियाशीः प्रैषेषु तिङाकाङ्क्षम् (८। २। १०४) इति सूत्रे काशिकाकारः (२, पृ। ४२०)—ʻक्षिया आचारभेदः’, धर्मव्यतिक्रम इति । ʻक्षि क्षये इत्यस्माद् ʻएरचि (३। ३। ५६) क्षयः । ʻक्षीष् हिंसायाम् । ʻषिद्भिदादिभ्योऽङ् (३। ३। १०४) इत्यङि क्षिया । एरचः पुंलिङ्गविषयः । अङस्तु स्त्रीलिङ्गः । अतो विषयभेदाद् न बाध्यबाधकभावः । यथा बाधाबाध इति गणवृत्तावप्युक्तम् । स्वयं रथेन याति उपाध्यायं पदातिं गमयति इत्याद्याचारभेदः क्षियेति । शबदद्वयमपि अपचयमात्रवचनमिति केचित् ॥ ७ ॥
मल्लि-नाथः - AK.03.02.007
वर्धनं छेदने । छेदननामनी। ʻनरकुट्ö । अथ द्वे—आप्रच्छनम् । यात्रादिषु बन्धुमित्रादीनाम् अनुज्ञावाप्तिनामानि । ʻआपृच्छस्व प्रियसखममुम् इति (मेघ। १। १२) । अथाम्नायः सम्प्रदायः । वंशपारम्पर्यनामनी ॥ क्षये क्षिया । क्षयनामनी ॥ ७ ॥
[[०३.१७०]]
मूलम् - ०३.०२.००८
(०३.०२.००८अब्) ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे ।
(०३.०२.००८च्द्) व्यधो वेधे पचा पाके हवो हूतौ वरो वृतौ ॥ ८ ॥
लिङ्ग-सूरी - AK.03.02.008
ग्रह इति—गृह्यत इति ग्रहः । ग्राहश्च । ʻग्रह उपादाने । पत्राद्युपादानस्य नामनी ॥ उश्यते काम्यत इति वशः । ʻवश कान्तौ’ । काम्यत इति कान्तिः । ʻकमु कान्तौ’ । इच्छानामनी ॥ रक्ष्यत इति रक्ष्णः । रक्ष इति वा पाठः । त्रायत इति त्राणम् । ʻत्रेङ् पालने । रक्षणस्य नामनी ॥ रण्यत इति रणः । ʻरण शब्दे । क्वणनं क्वणः । ʻक्वण शब्दे । वीणादिक्वाणनामनी ॥ विध्यत इति व्यधः । वेधश्च । ʻव्यध ताडने ʻविध विधाने मणिमुक्तादिच्छिद्रक्रियानामनी ॥ पच्यत इति पचा । पाकश्च । ʻडुपचष् पाके । शाकादिपक्तिनामनी ॥ हूयत इति हवः । हूतिश्च । ʻह्वेञ् स्पर्धायां शब्दे च्ö । आह्वानस्य नामनी ॥ व्रियत इति वरः । वृतिश्च । ʻवृञ् वरणे । कन्यादिवरस्य नामनी ॥ ८ ॥
ग्रहे ग्राहः । प्राप्तार्थस्य स्वीकरणस्य नामनी । ʻग्रह उपादाने इति धातोः भावार्थे ʻग्रहवृदृनिश्चिगमश्च्ö (३। ३। ५८) इत्यप्प्रत्यये ग्रहः । घञि ग्राहः ॥ वशः कान्तौ । इच्छाया नामनी । ʻवश कान्तौ’ । कान्तिरिच्छा इति धातुवृत्तौ । ʻवशिरण्योरुपसङ्ख्यानम् (वा। ३। ३। ५८) इत्यपि वशः ॥ कमेः स्त्रियां क्तिनि (३। ३। ९४) कान्तिः ॥ रक्ष्णस्त्राणे । रक्षणस्य नामनी । ʻरक्ष पालने इति धातोः ʻयजयाच ॥ । इत्यादिना (३। ३। ९०) नङ्प्रत्यये रक्ष्णः ॥ ʻत्रैङ् पालने इत्यतो भावे ल्युटि त्राणम् ॥ अत एव प्रत्ययवशाद् नपुंसकत्वम् ॥ रणःक्वणे । शब्दकरणस्य नामनी । ʻरण शब्दे । ʻवशिरण्योरुपसङ्ख्यानम् (वा। ३। ३। ५८) इत्यप् प्रत्यये रणः ॥ ʻक्वण शब्दे । ʻक्वणो वीणायां च्ö (३। ३। ६५) इत्यपि क्वणः । घञि क्वाणः ॥ व्यधो वेधे । मणिमुक्तादौ छिद्रकरणस्य नामनी । ʻव्यध ताडने । ʻव्यधजपोरनुपसर्गे (३। ३। ६१) इत्यपि व्यधः ॥ ʻविध विधाने इत्यतो भावे घञि (३। ३। १८) वेधः ॥ पचा पाके । ओदनपचनक्रियाया नामनी । ʻडुपचष् पाके । षित्त्वादङि (३। ३। १०४) पचा ॥ घञि पाकः । पुंलिङ्गः । ʻस्थागापापचो भावे (३। ३। ९५) इति क्तिनि पक्तिरपि ॥ हवो हूतौ । आह्वानस्य नामनी । ʻह्वेञ् स्पर्धायां शब्दे च्ö । ʻह्वः सम्प्रसारणम् ॥ । (३। ३। ७२) इत्यनुवृत्तौ ʻभावेऽनुपसर्गस्य्ö (३। ३.७५) इत्यपि हवः । स्त्रियां क्तिनि (३। ३। ९४) यजादिसम्प्रसारणे (६। १। १५) पूर्वरूपत्वे (६। १। १०८) दीर्घे हूतिः । शब्दादिवर्गोक्ताया (१, पृ। १०९) अपि हूतेः पर्यायान्तरप्रदर्शनार्थमिहाभिधानम् । वरो वृतौ । वृतिर्वरणम् इष्टवस्तुविषयः प्रार्थनाविशेषः । तत्र वरशब्दो वर्तते । ʻवृञ् वरणे । ʻग्रहवृदृनिश्चिगमश्च्ö (३। ३। ५८) इति अप् प्रत्यये वरः । स्त्रियां क्तिनि वृतिः । अत्र सुभूतिचन्द्रः—वृतिर्ग्रामादिवेष्टनम् । तत्र वरशब्दो वर्तत इति । यस्तु प्रसन्नदेवताद्यनुग्रहलभ्यः पुत्रपश्वादिरूपो वरः सोऽत्र न विवक्षितः, भावार्थवचनशब्दप्रस्तावाद् वृतिशब्दस्य तत्र प्रयोगाभावाच्च ॥ ८ ॥
मल्लि-नाथः - AK.03.02.008
ग्रहो ग्राहः । ग्रहणनामनी । ʻग्रहिञ्चु’ ॥ वशः कान्तौ । अभिलाषनामनी । ʻकोरिक्ö ॥ रक्ष्णस्त्राणे । रक्षा त्राणे इति पाठान्तरम् । रक्षणनामनी ॥ रणः क्वणे । ध्वनिनामनी ॥ व्यधो वेधे । वेधननामनी । ʻकोरसुट्ö ॥ पचा पाके । पाकनामनी । अनुक्तम्—ʻमांस्पाकः स्यान्मांस्पचनम् । मांसपचननामनी ॥ हवो हूतौ । आह्वाननामनी ॥ वरो वृतौ । वरणनामनी ॥ ८ ॥
[[०३.१७१]]
मूलम् - ०३.०२.००९
अक्।०३.०२.००९अब् ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ ।
अक्।०३.०२.००९च्द् स्फातिर्वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे ॥ ९ ॥
लिङ्ग-सूरी - AK.03.02.009
ओष इति—उष्यत इति ओषः । ʻउष दाहे । प्लुष्यत इति प्लोषः । ʻप्लुष दाहे । दाहस्य नामनी ॥ नीयते प्राप्यते नयः । नायश्च । ʻणीञ् प्रापणे । प्राप्तिनामनी ॥ जिनाति वयोहानिमापद्यते ययेति ज्यानिः । ʻज्या वयोहानौ’ । जीर्यत इति जीर्णिः । ʻजॄष् वयोहानौ’ । वयोहानेर्नामनी ॥ भ्रमणं भ्रमः । भ्रमिश्च । ʻभ्रमु अनवस्थाने । भ्रान्तिनामनी ॥ स्फाय्यत इति स्फातिः । ʻस्फायी वृद्धौ’ ॥ वर्धत इति वृद्धिः । ʻवृधु वृद्धौ’ । वृद्धिनामनी ॥ प्रथ्यत इति प्रथा । ʻप्रथ प्रख्याने । ख्यायत इति ख्यातिः । ʻख्या प्रकथने । प्रख्यातिनामनी ॥ स्पृश्यत इति स्पृष्टिः । ʻस्पृश संस्पर्शने । पृष्टिरिति वा पाठः । तदा ʻपृची सम्पर्के इति धातुः । पृच्यत इति पृक्तिः । पूर्वोक्त एव धातुः । ॥सम्पर्कस्य नामनी ॥ स्नूयत इति स्नवः । ʻष्णु प्रस्रवणे । स्रूयत इति स्रवः । ʻस्रु गतौ’ । जलादिस्रवणस्य नामनी ॥ ९ ॥
ओषः प्लोषे । वह्निसंयोगजस्य तृणादेर्भस्मीभावस्य नामनी । ʻउष दाहे ʻप्लुष दाहे इति धातुद्वयाद् घाञ्ञ (३। ३। १८) क्रमेण ओषः प्लोषश्च । ʻप्रुष दाहे इति धातोः प्रोष इति रेफादिर्वा ॥ नयो नाये । प्रापणस्य नामनी । ʻणीञ् प्रापणे । ʻकृत्यल्युटो बहुलम् (३। ३। ११३) इति बहुलग्रहणाद् अचि नयः (३। ३। ५६) । ʻश्रिणीभुवोऽनुपसर्गे (३। ३। २४) इति घञि नायः ॥ ज्यानिर्जीर्णौ । शरीरादेः कालविशेषापादितनिःसारत्वरूपावस्थाविशेषनामनी । ʻज्या वयोहानौ’ इति धातोः ʻग्लाम्लाज्याहाभ्यो निर्वक्तव्यः’ (वा। ३। ३। ९४) इति क्तिन्प्रत्ययापवादत्वेन निप्रत्यये ज्यानिः । ʻजॄष् वयोहानौ’ । क्तिनि ʻऋॠकारल्वादिभ्यः क्तिन्निष्ठावद्भवतीति वक्तव्यम् (वा। ८। २। ४४) इति नत्वे जीर्णिः । शब्दद्वयमपि स्त्रिलिङ्गम् ॥ भ्रमो भ्रमौ । भ्रमणरूपक्रियाविशेषस्य नामनी । ʻभ्रमु अनवस्थाने । भावे घञि नोदात्तोपदेशाद् (७। ३। ३४) इति वृद्धिप्रतिषेधे भ्रमः ॥ ʻइक् कृष्यादिभ्य इति वक्तव्यम् (वा। ३। ३। १०८) इति भावे स्त्रियामिक्प्रत्यये भ्रमिः । वा ङीषि भ्रमी च ॥ स्फातिर्वृद्धौ । शरीरादीनामवयवोपचयस्य नामनी । ʻस्फायी वृद्धौ’ इत्यतः स्त्रियां क्तिनि ʻलोपो व्योर्वलि (६। १। ६६) इति यकारलोपे स्फातिः ॥ ʻवृधु वृद्धौ’ इत्यतो क्तिनि वृद्धिः । द्वयमपि प्रत्ययतः स्त्रीलिङ्गम् ॥ प्रथा ख्यातौ । कुलशीलविद्याद्युत्कर्षजनितायाः प्रसिद्धेर्नामनी । ʻप्रथ प्रख्याने इति धातोः ʻघटादयः षितः’ (ग। सू।) इति परिभाषया ʻषिद्भिदादिभ्योऽङ् (३। ३। १०४) इत्यङि प्रथा ॥ ʻख्या प्रकथने इत्यतः स्त्रियां क्तिनि ख्यातिः ॥ स्पृष्टिः पृक्तौ । हस्तादिना घटादिस्पर्शनस्य नामनी । ʻस्पृश संस्पर्शने । स्त्रियां क्तिनि व्रश्चेत्यादिना (८। २। ३६) षत्वे स्पृष्टिः । ʻपृची सम्पर्के इति धातोः स्त्रियां क्तिनि (३। ३। ९४) पृक्तिः । प्रत्ययतो द्वावपि स्त्रीलिङ्गौ ॥ स्नवः स्रवे । अपक्वघटादेर्बहिर्भागे जलादिप्रस्रवणस्य नामनी । ʻष्णु प्रस्रवणे । ʻस्रु गतौ’ । आभ्यां धातुभ्याम् ʻऋॠदोरप् (३। ३। ५७) इत्यप्प्रत्यये स्नवः स्रवश्च । बाहुलके घञि स्रावोऽप्यस्ति ॥ ९ ॥
मल्लि-नाथः - AK.03.02.009
ओषः प्लोषे । दाहनामनी ॥ नयो नाये । नीतिनामनी ॥ ज्यानिर्जीणा । जरानामनी ॥ भ्रमो भ्रमौ । भ्रमणनामनी ॥ अत्र भ्रमिशब्दस्य पूर्वापरसाहचर्यं लिङ्गज्ञापकम् । वैजयन्त्यां तु (पृ। १९२, श्लो। १०) ʻचक्रावर्तो भ्रमो भ्रान्तिर्भ्रमिर्घूर्णिश्च घूर्णनम् इति स्वपर्यायसाहचर्य एव । स्फातिर्वृद्धौ । शरीराद्यभिवृद्धिनामनी ॥ प्रथा ख्यातौ । प्रसिद्धिनामनी ॥ स्पृष्टिः पृक्तौ । स्पर्शननामनी ॥ स्नवः स्रवे । स्रवणनामनी ॥ ९ ॥
[[०३.१७३]]
मूलम् - ०३.०२.०१०
अक्।०३.०२.०१०अब् एधा समृद्धौ स्फरणं स्फुरणे प्रमितौ प्रमा ।
अक्।०३.०२.०१०च्द् प्रसूतिः प्रसवे श्च्योते प्राघारः क्लमथः क्लमे ॥ १० ॥
लिङ्ग-सूरी - AK.03.02.010
एधेति—एध्यत इत्येधा । ʻएध वृद्धौ’ । समृध्यत इति समृद्धिः । ʻऋधु वृद्धौ’ । समृद्धिनामनी ॥ स्फर्यत इति स्फरणम् । स्फुर्यत इति स्फुरणम् । ʻस्फर स्फुर स्फुरणे । स्फुरणेति वा पाठः । ओष्ठादिचलनस्य नामनी ॥ प्रमीयते सम्यगनुभूयत इति प्रमितिः । प्रमा च । ʻमाङ् माने । सम्यगनुभवस्य नामनी ॥ प्रसूयत इति प्रसूतिः । प्रसवश्च । ʻषूङ् प्राणिप्रसवे । ʻषू प्रेरणे इति वा धातुः । प्राणिप्रसवस्य नामनी ॥ श्च्युत्यत इति श्च्योतः । ʻश्च्युतिर् क्षरणे । प्रकर्षेण जिघर्त्यनेनेति प्राघारः । ʻघृ क्षरणदीप्त्योः’ । क्षरणस्य नामनी ॥ क्लाम्यत इति क्लमथः । क्लमश्च । ʻक्लमु ग्लानौ’ । क्लान्तिनामनी ॥ १० ॥
एधा समृद्धौ । धनधान्याद्यतिशयस्य नामनी । ʻएध वृद्धौ’ इत्यतः ʻगुरोश्च हलः’ (३। ३। १०३) इत्यकारप्रत्यये एधा । सुभूतिचन्द्रस्तु—विपूर्वाद् दधातेः ʻआतश्चोपसर्गे (३। ३। १०६) इत्यङि विधेति पाठान्तरेण व्याख्यातवान् । तत्संवादत्वेन ʻविधानर्द्धिप्रकारेषु गजान्ने वेतने विधा’ इति रुद्राभिधानमप्युदाजहार ।
ʻउत्क्षिप्तहस्ततलदत्तविधानपिण्ड-
स्नेहस्रुतिस्नपितबाहुरिभाधिराजम् ।
इति माघकाव्ये (शिशु। ५। ५१) प्रयोगः ॥ ʻऋधु बृद्धौ’ । सम्पूर्वस्य क्तिनि समृद्धिः ॥ स्फरणं स्फुरणे । ओष्ठनयनपक्ष्मादिस्पन्दनस्य नामनी । ʻस्फर स्फुर स्फुरणे । तत्र प्रथमाद्धातोः कण्ठ्यस्वरोपधात् ल्युटिस्फरणम् । द्वितीयाद् ओष्ठ्यस्वरोपधात् कुटादित्वेन (१। २। १) गुणप्रतिषेधे ल्युटि स्फुरणम् । स्पन्दनशब्दोऽप्यत्र ॥ प्रमितौ प्रमा । सम्यगनुभवस्य नामनी । ʻमाङ् माने इत्यस्माद् धातोः सोपसर्गाद् भावे क्तिनि ʻद्यतिस्यतिमास्था ॥ । इत्यादिना (७। ४। ४०) धातोरित्वे क्तिनि प्रमितिः ॥ ʻआतश्चोपसर्गे (३। ३। १०६) इत्यङि प्रमा ॥ प्रसूतिः प्रसवे । गर्भविमोचनस्य नामनी । ʻषूङ् प्राणिप्रसवे ʻषू प्रेरणे इति वा धातोः स्त्रियां क्तिनि प्रसूतिः ॥ ʻऋदोरप् (३। ३। ५७) इत्यप्प्रत्यये प्रसवः ॥ श्च्योते प्राधारः । घटादिगतस्य क्षीरघृतादेरुपरिप्रदेशादुच्चलनेनाधोदेशे क्षरणस्य नामनी । ʻश्च्युतिर् क्षरणे । घञि श्च्योतः॥ ʻघृ क्षरणदीप्त्योः’ इत्यस्मात् प्रपूर्वाद् घञि ʻउपसर्गस्य घञि ॥ । (६। ३। १२२) इति दीर्घे प्राधारः ॥ क्लमथः क्लमे । व्यायामादिना मनसः निःसहत्वनामनी । ʻक्लमु ग्लानौ’ । औणादिकोऽथच्-प्रत्ययः ॥ घञि क्लमः (७। ३। ३४) ॥ १० ॥
मल्लि-नाथः - AK.03.02.010
एधा समृद्धौ । धनधान्यसमृद्धिनामनी । ʻएधा ऋद्धिप्रकारेषु गजानां वेतने विधा’ इति रुद्रः ॥ स्फुलनं स्फुरणे । स्फुरणनामनी । ʻनिगनिगसेरुसुट्ö । ʻस्फर सञ्चलने इति केषाञ्चित् सकारसहितफकारोपधम् ॥ प्रमितौ प्रमा । यथार्थज्ञाननामनी ॥ प्रसूतिः प्रसवे । गर्भमोचननामनी ॥ श्च्योतः प्राघारे । धारानामनी । ʻव्यक्तस्कन्धकबन्धबन्धरुधिरप्राघारनिष्यन्दिना’ इति भवभूतिः (मालती। ५। २९) ॥ क्लमथः क्लमे । ग्लानिनामनी ॥ १० ॥
[[०३.१७५]]
मूलम् - ०३.०२.०११
अक्।०३.०२.०११अब् उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये ।
अक्।०३.०२.०११च्द् क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ॥ ११ ॥
लिङ्ग-सूरी - AK.03.02.011
उत्कर्ष इति—उत्कृष्यतेऽतिशय्यत इति उत्कर्षः । ʻकृष विलेखने । अतिशय्यत इत्यतिशयः । ʻशीङ् स्वप्ने । आभिमुख्यनामनी ॥ सन्धीयत इति सन्धिः । ʻडुधाञ् धारणपोषणयोः’ । श्लिष्यते सम्बध्यत इति श्लेषः । ʻश्लिष आलिङ्गने । सम्बन्धनामनी ॥ विसीयत इति विषयः । ʻषिञ् बन्धने । आ समन्तात् श्रीयत इत्याश्रयः । ʻश्रिञ् सेवायाम् । स्थानस्य नामनी ॥ क्षिप्यत इति क्षिपा । क्षेपणं च । ʻक्षिप प्रेरणे । क्षेपणस्य नामनी ॥ गीर्यत इति गीर्णिः । गिरिश्च । ʻगॄ निगरणे । निगरणस्य नामनी ॥ गूर्यत इति गुरणम् । ʻगुरी उद्यमने । उद्यम्यत इत्युद्यमः । ʻयम उपरमे । उपसर्गवशाद् धातोरुद्योगार्थः । उद्योगस्य नामनी ॥ ११ ॥
उत्कर्षोऽतिशये । विद्याशौर्यधनादीनां परकाष्ठाविश्रान्तेर्नामनी । ʻकृष विलेखने इत्यतः उत्पूर्वाद् घञि (३। ३। १८) उत्कर्षः ॥ ʻशीङ् स्वप्ने इत्यतः सोपसर्गादेरचि (३। ३। ५६) अतिशयः ॥ सन्धिः श्लेषे । सम्बन्धस्य नामनी । सम्पूर्वाद् दधातेः ʻउपसर्गे घोः किः’ (३। ३। ९२) इति किप्रत्यये आकारलोपे च सन्धिः ॥ ʻश्लिष आलिङ्गने इत्यतो घञि श्लेषः ॥ विषय आश्रये । आलम्बनस्य नामनी यथा घटादिविषयं ज्ञानं सङ्ग्रामाश्रयोऽयमभिनिवेश इति विशेषेण सीयते बन्ध इव तिष्ठत्यत्रेति विषयः । ʻषिञ् बन्धने । अधिकरणे ʻएरच् (३। ३। ५६) । ʻपरिनिविभ्यः सेवसितसय ॥ । इत्यादिना (८। ३। ७०) षत्वम् । ʻविषयो गोचरे देशे रूपादौ नित्यसेविते इत्यजयः ॥ आ समन्तात् श्रीयत इत्याश्रयः । ʻश्रिञ् सेवायाम् । ʻएरच् (३। ३। ५६) । सर्वानन्दस्तु (पृ। ५७) ʻशीङ् स्वप्ने इति धातोर्विपूर्वाद् एरचि विशयः, आशय इति शब्दद्वयमपि तालव्याष्ममध्यं रेफरहितं चाह । यथा—आमाशयः, पक्वाशयः, जलाशय इति ॥ क्षिपायां क्षेपणम् । प्रेरणाया नामनी । ʻक्षिप प्रेरणे । भिदादित्वाद् अङि (३। ३। १०४) क्षिपा । ल्युटि क्षेपणम् ॥ गीर्णिर्गिरौ । निगरणस्य नामनी । ʻगॄ निगरणे इत्यतः क्तिन् प्रत्यये (३। ३। ९४) ऋत इकारादेशे (७। १। १००) ʻऋकारल्वादिभ्यः क्तिन् निष्ठावद्भवति (वा। ८। २। ४४) इति वक्तव्यान्निष्ठावद्भावेन तकारस्य नत्वे गीर्णिः ॥ ʻइक् कृष्यादिभ्यः’ (वा। ३। ३। १०८) इति इक्प्रत्यये गिरिः । शेषे—ʻस्यादुद्गिरणमुद्गिरौ’ । ʻटुवमु उद्गिरणे इति धातुनिर्देशाद् उद्गिरणशब्दः साधुः । तथा च निगरणावगरणादावस्त्येव गुणः ॥ गुरणमुद्यमे । ताडनादिहेतोर्लगुडादेरुद्यमनस्य नामनी । ʻगुरी उद्यमने । ल्युटि कुटादित्वाद् (१। २। १) गुणाभावे गुरणम् । ʻयमः समुपनिविषु च्ö (३। ३। ६३) इति नियमाद् उत्पूर्वाद् यमिधातोरप्प्रत्ययो नास्त्येव । किन्तु ʻहलश्च्ö (३। ३। १२१) इति घञा भाव्यम् । तथापि ʻगुरी उद्यमे इति धातुनिर्देशसामर्थ्यादुद्यमशब्दः साधुः । चौरादिकात्तु ʻगुरी उद्यमे इति धातोर्युचि (३। ३। १०७) गोरणा । ल्युटि गोरणं च ॥ ११ ॥
मल्लि-नाथः - AK.03.02.011
उत्कर्षोऽतिशये । अतिशयनामनी । प्राग्भारोऽपि । ʻप्राग्भारोऽतिशयः स्मृतः’ इत्यस्मिन्नर्थे हलायुधः ॥ सन्धिः श्लेषे । संयोगनामनी । सम्भेदसन्निपातसंश्लेषादीनि अस्मिन्नर्थे इति वैजयन्ती (पृ। १९४, श्लो। २६) ॥ विषय आश्रये । नित्यसेवितनिद्राहारादीनां नामनी । ʻविषयो गोचरे देशे रूपादौ नित्यसेविते इत्यजयकोशः ॥ क्षिपायां क्षेपणम् । प्रेरणनामनी । ʻनूकुट्ö ॥ गीर्णिर्गिरौ । गिलननामनी । ʻमृगुट्ö ॥ गुरणमुद्यमे । उद्यमननामनी । ʻयेत्तुट्ö ॥ ११ ॥
[[०३.१७७]]
मूलम् - ०३.०२.०१२
अक्।०३.०२.०१२अब् उन्नाय उन्नये श्रायः श्रयणे जयने जयः ।
अक्।०३.०२.०१२च्द् निगादो निगदे मादो मद उद्वेग उद्भ्रमे ॥ १२ ॥
लिङ्ग-सूरी - AK.03.02.012
उन्नाय इति—(उद्) ऊर्ध्वं नीयत इत्युन्नायः । उन्नयश्च । ʻणीञ् प्रापणे । ऊर्ध्वनयनस्य वा उत्प्रेक्षाय वा नामनी ॥ श्रीयत इति श्रायः । श्रयणं च । ʻश्रिञ् सेवायाम् । सेवाया नामनी ॥ ʻश्रावः श्रवणे इति पाठे ʻश्रु श्रवणे इति धातुः । श्रुतेर्नामनी ॥ जीयत इति जयनम् । जयश्च । ʻजि अभिभवे इति प्रथमो धातुः । ʻजि जये इति द्वितीयो धातुः । पराभिभवस्य नामनी ॥ निगद्यत इति निगादः । निगदश्च । ʻगद व्यक्तायां वाचि । स्फुटकथनस्य नामनी ॥ माद्यत इति मादः । मदश्च । ʻमदी हर्षे । विद्याधनाधिक्यनिबन्धनहर्षस्य नामनी ॥ उद्विज्यते ऊर्ध्वं चाल्यत इत्युद्वेगः । ʻओविजी भयचलनयोः’ । उद्भ्राम्यत इत्युद्भ्रमः । ʻभ्रमु चलने । ऊर्ध्वचलनस्य नामनी ॥ १२ ॥
उन्नाय उन्नये । यस्य कस्यचिद् द्रव्यस्य ऊर्ध्वदेशं प्रति प्रापणस्य नामनी । मुसलमुन्नयति । ऊहस्य नामनी इत्यपरे । यथा—ʻभाविकार्यमुन्नयेत् इति । ʻअवोदोर्नियः’ (३। ३। २६) इति घञि उन्नायः । बाहुलकाद् एरचि (३। ३। ५६) उन्नयः ॥ श्रायः श्रयणे । आश्रयस्य नामनी । ʻश्रिञ् सेवायाम् । ʻश्रिणीभुवोऽनुपसर्गे (३। ३। २४) इति घञि श्रायः । ल्युटि श्रयणम् ॥ जयने जयः । सर्वोत्कर्षेण वृत्तेः पराभिभवनस्य नामनी । ʻजि अभिभवने । ल्युटि जयनम् । एरचि (३। ३। ५६) जयः । ʻजि जये इति वा ॥ निगादो निगदे । व्यक्तभाषणस्य नामनी । ʻगद व्यक्तायां वाचि इत्यतो वेति वर्तमाने ʻनौ गदनदपठस्वनः’ (३। ३। ६४) इति पाक्षिके अप् प्रत्यये निगदः । पक्षे ʻहलश्च्ö (३। ३। १२१) इति घञि निगादः ॥ मादो मदे । विद्याभिजनधनादिसमृद्धिजनितहर्षातिशयस्य नामनी। ʻमदी हर्षे इत्यतः ʻसध मादस्थयोश्छन्दसि (६। ३। ९६) इति सूत्रे घञ् प्रत्ययान्तत्वेन निर्देशाद् मादशब्दः साधुः ॥ ʻमदोऽनुपसर्गे (३। ३। ६७) इत्यप्प्रत्यये मदः ॥ उद्वेग उद्भ्रमे । ऊर्ध्वचलनस्य नामनी इति सुबोधिनी । उद्भ्रमः चमत्कार इति सर्वानन्दसुभूतिचन्द्रौ । अनवस्थितचित्तत्वमित्यपरे । ʻओविजी भयचलनयोः’ । भावे घञ् । ʻचजोः ॥ । (७। ३। ५२) इति कुत्वे गुणे च उद्वेगः ॥ ʻभ्रमु चलने इत्यतो घञि भ्रमः ॥ १२ ॥
मल्लि-नाथः - AK.03.02.012
उन्नाय उन्नये । निमग्नादेरुद्धरणनामनी । ʻपीडवुगापेट्टुट्ö ॥ श्रायः श्रयण । श्रयणनामनी ॥ जयने जयः । विजयनामनी । ʻगेलुचुटनु’ । सर्वोत्कर्षनामापिस्यात् । ʻसा जयति सरस्वती देवी । ʻस जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः’ इति नैषधः (२। १६) ॥ निगादो निगदे । व्यक्तोक्तिनामनी । ʻपलुकुट्ö ॥ मादो मदे । मदनामनी ॥ उद्वेग उद्भ्रमे । उद्भ्रमनामनी । ʻउब्बचेसुट्ö ॥ १२ ॥
[[०३.१७९]]
मूलम् - ०३.०२.०१३
अक्।०३.०२.०१३अब् विमर्दनं परिमलेऽभ्युपपत्तिरनुग्रहः ।
अक्।०३.०२.०१३च्द् निग्रहस्तु निरोधः स्यादभियोगस्त्वभिग्रहः ॥ १३ ॥
लिङ्ग-सूरी - AK.03.02.013
विमर्दनमिति—विमृद्यत इति विमर्दनम् । ʻमृद क्षोदे । मिथः परिमल्यत इति परिमलः । ʻमल मल्ल धारणे । द्रव्ययोरन्योन्यघट्टनस्य नामनी ॥ अभ्युपपद्यत इत्यभ्युपपत्तिः । ʻपद गतौ’ । अनुगृह्यते स्वीक्रियत इत्यनुग्रहः । ʻग्रह उपादाने । उपकारस्य नामनी ॥ नियमेन गृह्यत इति निग्रहः । निरुध्यत इति निरोधः । ʻरुधिर् आवरणे । तद्विरुद्धस्यानुग्रहविरुद्धस्य नामनी ॥ (अभि) आभिमुख्येन युज्यत इत्यभियोगः । ʻयुजिर् योगे । आभिमुख्येन गृह्यत इत्यभिग्रहः । ʻग्रह उपादाने । आभिमुख्येनोद्यमनस्य नामनी ॥ १३ ॥
विमर्दनं परिमलः । कुङ्कुमकर्पूरादिद्रव्ययोः परस्परसङ्घट्टनस्य नामनी । ʻमृद क्षोदे । क्षोदः सम्पेषणम् । भावे ल्युटि (३। ३। ११५) विमर्दनम् ॥ ʻमल मल्ल धारणे इत्यतो भावे घञि (३। ३। १८) वृद्धिविधेः सञ्ज्ञापूर्वकत्वात् ʻसञ्ज्ञापूर्वको विधिरनित्यः’ इति परिभाषया वृद्धिरत्र न भवति ॥ अभ्युपपत्तिरनुग्रहः । मनःप्रसादपूर्वकस्य सम्माननाविशेषस्य नामनी । ʻपद गतौ’ । अभ्युपपूर्वोऽनुग्रहे वर्तते । तथा च—ʻरतिमभ्युपपत्तुमादरात् इति कालिदासः (कु। सं। ४। २५) । ततः स्त्रियां क्तिनि अभ्युपपत्तिः ॥ ʻग्रहवृदृनिश्चिगमश्च्ö (३। ३। ५८) इति गृह्णातेरनुपूर्वाद् अप्प्रत्यये अनुग्रहः ॥ निग्रहस्तु निरोधः स्यात् । अपकारकरणस्य नामनी । नियमनाय ग्रहणं निग्रहः । निपूर्वस्य गृह्णातेरप् (३। ३। ५८) ॥ नितरां रोधः निरोधः । विशेषेण रोधो विरोध इति केचित् पठन्ति । सुबोधिनीकारस्तु—ʻनिग्रहस्तद्विरुद्धः स्यात्, तद्विरुद्धोऽनुग्रगहविरुद्धोऽपकारकः इति व्याचष्ट ॥ अभियोगस्त्वभिग्रहः । अपचिकीर्षया प्रबलेन दुर्बलस्याक्रमणम् अभियोगः इति सुभूतिचन्द्रः । अभियोगादिद्वयम् उद्योगे वर्तत इति सर्वानन्दः (पृ। ५९) । बहुश्रुतत्वादिना जातस्योत्कर्षस्य नामनी इति भोजराजः । ʻअभियुक्ताः पुनरेवमाहुः’ इति प्रयोगश्च ॥ २३ ॥
मल्लि-नाथः - AK.03.02.013
विमर्दनं परिमलः । कुङ्कुमचन्दनादिभिः सम्मर्दननामनी । कस्तूरिकादेः पेषणनामापि ॥ अभ्युपपत्तिरनुग्रहः । अनुग्रहनामनी ॥ निग्रहस्तु निरोधः स्यात् । निग्रहनामनी ॥ अभियोगस्त्वभिग्रहः । अभिगम्याक्रमनामनी । ʻअभिपूर्वौ ग्रहियुजी अभिगम्याक्रमे स्मृतौ’ इति उपसर्गमञ्जरी । अनुक्तम्—ʻपरस्परं स्यादन्योन्यमितरेतरमित्यपि । परस्परनामनी । एते अमन्ते । इमे सख्यौ परस्परं प्रयच्छतः । इमाः सख्यः परस्पराद् बिभ्यति । शाकटायनमते पुंलिङ्गैकवचने स्याताम् । इमे सख्यौ परस्परस्ते प्रयच्छतः । इमाः सख्यः परस्पराद् बिभ्यति ॥ १३ ॥
[[०३.१८०]]
मूलम् - ०३.०२.०१४
अक्।०३.०२.०१४अब् मुष्टिबन्धस्तु सङ्ग्राहो डिम्बे डमरविप्लवौ ।
अक्।०३.०२.०१४च्द् बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि ॥ १४ ॥
लिङ्ग-सूरी - AK.03.02.014
मुष्टीति—मुष्टेर्बन्धः मुष्टिबन्धः । सङ्गृह्यते मुष्टिरत्रेति सङ्ग्राहः । ʻग्रह उपादाने । मल्लयोरन्योन्यमुष्टिबन्धनस्य नामनी ॥ डीयते जनोऽनेनेति डिम्बः । ʻडीङ् विहायसा गतौ’ । दाम्यत इति डमरः । ʻदमु उपशमे । विप्लाव्यते विद्राव्यते जनोऽनेनेति विप्लवः । ʻप्लुङ् गतौ’ । उपद्रवनामानि ॥ बध्यत इति बन्धनम् । ʻबन्ध बन्धने । प्रसीयते बध्यत इति प्रसितिः । ʻषिञ् बन्धने । चरति मन्दमनेनेति चारः । ʻचर गतौ’ । बन्धनस्य नामानि ॥ स्पृशत्युपतापयतीति स्पर्शः । स्प्रष्टा च । ʻस्पृश उपतापे । उपतापयतीति उपतप्ता । ʻतप सन्तापे । उपतापकारिणो वैर्यादेर्नामानि ॥ १४ ॥
मुष्टिबन्धस्तु सङ्ग्राहः । सङ्गृह्यत इति कर्मणि घञन्तत्वेन फलकस्य मुष्टिग्राह्यो भागः क्षत्रियवर्गे (पृ। ५३७) सङ्ग्राह उक्तः । इह तु सङ्गृह्यन्ते सङ्क्षिप्यन्तेऽङ्गुलयोऽत्रेति अधिकरणव्युत्पत्त्या मल्लादेरङ्गुलिसन्निवेशविशेषः सङ्ग्राह उच्यत इत्यपौनरुक्त्यम् । ʻसमि मुष्टौ’ (३। ३। ३६) इति घञ् । तथा च ʻखटको मुष्टिः स्त्रियां च सङ्ग्राहः’ इति बोपालितेन मुष्टिपर्यायत्वेन कथितः । ʻखादयन्तः फलरसं मुष्टिसङ्ग्राहपीडितम् इति भट्टिः (भ। का। ७। ४०) ॥ डिम्बे डमरविप्लवौ । परचक्राक्रमणनिमित्तस्य प्रजापलायनग्रामदाहधनधान्यादिनाशरूपस्य क्षोभस्य नामानि । डयन्ते पलायन्ते प्रजा अत्रेति डिम्बः । ʻडीङ् विहायसा गतौ’ । अतो डिम्बप्रत्यये टिलोपे च डिम्ब इति पवर्गतृतीयोपधः । अस्मादेव धातोः डमरप्रत्यये पूर्ववत् टिलोपे च डमरः ॥ स्वदेशं विहाय प्लवः पलायनं विप्लवः । ʻप्लुङ् गतौ’ । ʻऋदोरप् (३। ३। ५७) ॥ बन्धनं प्रसितिश्चारः । येन निगडादिना बध्यते तत्र बन्धनादित्रयमिति टीकासर्वस्वकारेण व्याख्याय चारशब्दस्य बन्धनवचनत्वे ʻबन्धापसर्पयोश्चारः’ इति रुद्राभिधानं दर्शितम् (पृ। ५९) । अपरे तु ʻसमे तूद्दानबन्धने इति प्रागुक्तस्यैव (पृ। ४९९) बन्धनस्य पर्यायान्तरप्रदर्शनमित्याहुः । ʻइदं किल तस्याश्चारजनदुःसञ्चारं चारागारम् इति ययातिचरितनाटके प्रयोगश्च । चारागारं बन्धनशालेत्यर्थः ॥ ʻषिञ् बन्धने । स्त्रियां क्तिनि प्रसितिः ॥ मन्दं चरत्यनेनेति चारः । ʻचर गतौ’ । करणे घञ् । चारा गूढचारिणः सन्त्यत्रेति वा । अर्शआद्यच् (५। २। १२७) ॥ स्पर्शः स्प्रष्टोपतप्तरि । उपतापजनकरोगस्य नामानि । स्पृशति उपतापं जनयतीति स्पर्शः । ʻस्पृश उपतापे । ʻपदरुजविशस्पृशो घञ् (३। ३। १६) इत्यत्र ʻस्पृश उपताप इति वक्तव्यम् इति वचनात् कर्तरि घञ् । ʻरुजायां स्पर्शके स्पर्शो दानस्पर्शनयोरपि इति रुद्रः । वासरूपविधिना (३। १। ९४) च तृच्प्रत्यये ʻअनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६। १। ५९) इत्यमागमे स्प्रष्टा ॥ उपपूर्वात् तपतेः तृचि (३। १। १३३) उपतप्ता । अत्र शेषकारः—ʻस्पर्ष्टा च स्वरिता स्वर्ता’ इति स्पृशेरेव तृचि अमागमाभावपक्षे गुणे सति स्पर्ष्टा । ʻस्वृ शब्दोपतापयोः’ इत्यस्मात् कर्तरि तृचि ʻस्वरतिसूतिसूयति ॥ । इत्यादिना (७। २। ४४) इडागमस्य वैकल्पिकत्वात् स्वरिता स्वर्ता च इति रूपद्वयम् । केचित्तु—पूर्ववाक्ये बन्धनादिपदद्वयमेव पर्यायत्वेन व्याख्याय, समनन्तरपदं स्पार इति पठित्वा तदादिचतुष्कमपि उपतापजनकरोगवाचकमाहुः । तत एव धातोः स्वार्थण्यन्ताद् अच्प्रत्यये स्पार इति निर्ब्रुवते । अपरे तु—ʻबन्धनं प्रसितिः स्पर्शः स्परस्प्रष्टोपतप्तरि इति पठित्वा स्परतेः पचाद्यचि स्पर इत्याहुः ॥ १४ ॥
मल्लि-नाथः - AK.03.02.014
मुष्टिबन्धस्तु सङ्ग्राहः । मुष्टिबन्धः सङ्ग्राहः स्यात् । ʻअक्लीबौ मुष्टिमुस्तू द्वौ सङ्ग्राहो मुचुटिः स्त्रियाम् इति मुष्टिमात्रे वैजयन्ती (पृ। १७९, श्लो। ७९) ॥ डिम्बे डमरविप्लवौ । मुष्टिप्रहारादीनां नामानि । ʻपिडिकिटिपोट्लु’ ॥ ʻउपलिङ्गमुपद्रवः’ । एते द्वे च ॥ बन्धनं प्रसृतिश्चारः । बन्धननामानि । ʻबन्धोपसर्पयोश्चारः’ इति रुद्रः ॥ स्पर्शः स्प्रष्टोपतप्तरि । रोगनामानि । ʻरुजायां स्पर्शके स्पर्शो दानस्पर्शनयोरपि इति रुद्रः ॥ १४ ॥
[[०३.१८२]]
मूलम् - ०३.०२.०१५
अक्।०३.०२.०१५अब् निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् ।
अक्।०३.०२.०१५च्द् परिणामो विकारो द्वे समे विकृतिविक्रिये ॥ १५ ॥
लिङ्ग-सूरी - AK.03.02.015
निकार इति—निकृष्टं करणं निकारः । विरुद्धप्रकारेण करणं विप्रकारः । खलीकरणस्य नामनी ॥ आक्रियते आविष्क्रियतेऽभिप्रायोऽनेनेत्याकारः । ʻडुकृञ् करणे । इङ्गति जानाति निगूढमभिप्रायमनेनेति इङ्गितम् । इङ्गश्च । ʻइगि गतौ’ । चेष्टितस्य नामानि ॥ परिणमति कालेनेति परिणामः । ʻणमु प्रह्णत्वे शब्दे च्ö । विक्रियत इति विकारः । विकृतिश्च । विक्रिया च । विकारस्य नामानि ॥ १५ ॥
निकारो विप्रकारः स्यात् । अकृत्यार्थकरणोद्घाटनेन दुर्जनीकरणस्य नामनी । अपकारमात्रस्य नामनी इत्यपरे । निकृष्टं करणं निकारः । विरुद्धप्रकारेण करणं विप्रकारः । भावे घञ् (३। ३। १८) ॥ आकारस्त्विङ्ग इङ्गितम् । यद्यप्यत्र, ʻआकारैरिङ्गितैर्गत्या ज्ञायतेऽन्तर्गतं मनः’ इति स्मृतौ (म। स्मृ। ८। २६); ʻतस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च्ö इत्यादिमहाकविप्रयोगे च (रघु। १। २०) इङ्गिताकारयोरस्त्येव भेदः । आलङ्कारिका अप्याहुः—ʻआकारशब्दस्य द्वावर्थौ, इङ्गितम् आकृतिश्च्ö इति । अत एव वक्ष्यति—ʻआकाराविङ्गिताकृती (३। ३। १६२) इति । तथा चात्र इङ्गितपर्यायेनोक्त इति । इङ्गति जानाति गूढमर्थमनेनेति इङ्गः । ʻइगि गतौ’ । गतिर्ज्ञानम् । करणे घञ् ॥ ʻनपुंसके भावे क्तः’ (३। ३। ११४) इति क्तप्रत्यये इङ्गितम् । उपचारात् करणे तस्य वृत्तिः ॥ परिणामो विकारे । पूर्वरूपपरित्यागेन रूपान्तरापत्तिलक्षणे विकारविशेष परिणामशब्दः स्यात् । यथा क्षीरस्य परिणामो दधि । मृत्पिण्डस्य घटः । काष्ठस्य भस्म इत्यादि । ʻणम प्रह्वत्वे शब्दे च्ö इत्यस्मात् परिपूर्वात् भावे घञि ʻउपसर्गादसामासेऽपि ॥ । (८। ४। १४) इति णत्वे परिणामः । ʻषोडशकश्च विकारः’ (साङ्ख्य। ३) इत्यादावुपचाराद् भाववचनयोरपि परिणामविकारशब्दयोः प्रयोगः ॥ द्वे समे विकृतिविक्रिये । परिणामरूपस्यान्यस्य वा प्रकृतेरन्यथात्वमात्रस्य नामनी । यथा—भ्रूविकृतिः, स्वरविक्रिया इत्यादि । स्त्रियां क्तिनि (३। ३। ९४) विकृतिः ॥ ʻकृञः श च्ö (३। ३। १००) इति शप्रत्यये विक्रिया । इमे द्वे उपपदेऽर्थतो लिङ्गतश्च समे तुल्ये इत्यर्थः ॥ १५ ॥
मल्लि-नाथः - AK.03.02.015
निकारो विप्रकारः स्यात् । दन्तनिष्पीडनादिजनितमुखविकारादिनामनी ॥ आकारस्त्विङ्ग इङ्गितम् । भ्रकुटिबन्धाद्यङ्गविकारनामनी ॥ परिणामो विकारः । प्रकृत्यन्यथाभावनामनी ॥ द्वे—विक्रिये । अमार्गनामनी । ʻअमार्गो विक्रिया स्त्रियाम् इत्यमरमाला । अनुक्तम्—ʻभङ्गिस्तु व्याकृतिर्भवेत् । पृथक्प्रकारनामनी । ʻवेरेवोकपैनदि ॥ १५ ॥
[[०३.१८४]]
मूलम् - ०३.०२.०१६
अक्।०३.०२.०१६अब् अपहारस्त्वपचयः समाहारः समुच्चयः ।
अक्।०३.०२.०१६च्द् प्रत्याहार उपादानं विहारस्तु परिक्रमः ॥ १६ ॥
लिङ्ग-सूरी - AK.03.02.016
अपहार इति—अपह्रियत इत्यपहारः । ʻहृञ् हरणे । अपचीयते हीयत इति अपचयः । ʻचिञ् चयने । हानेर्नामनी ॥ एकत्र समाह्रियत इति समाहारः । एकत्र समुच्चीयत इति समुच्चयः । अनेकस्य एकत्र समावेशस्य नामनी ॥ प्रत्याह्रियत इति प्रत्याहारः । उपादीयत इति उपादानम् । ʻडुदाञ् दाने । अङ्गनादिविषयेभ्य इन्द्रियादीनामकर्षणस्य नामनी ॥ विशेषेण चित्तमाह्रियत इति विहारः । परितः क्रम्यत इति परिक्रमः । ʻक्रमु पादविक्षेपे । क्रीडासञ्चारनामनी ॥ १६ ॥
अपहारस्त्वपचयः । पूर्वावस्थापेक्षया जातह्रस्वत्वस्य नामनी । यथा—आचारापहारः, विद्यापहार इति । अपेत्युपसर्गो ह्रस्वार्थे । तथा हि—ʻअपान्यथात्वे विश्लेषे ह्रस्वोद्घाटनवारणे इति उपसर्गवृत्तौ । ततश्च ʻहृञ् हरणे इत्यस्माद् भावे घञि (३। ३। १८) अपहारः ॥ ʻचिञ् चयने इत्यस्माद् एरचि (३। ३। ५६) अपचयः ॥ समाहारः समुच्चयः । अनेकेषामेकत्र समावेशस्य नामनी । यथा—स्मृतिसमुच्चयः, शब्दसमुच्चयः इति ॥ प्रत्याहार उपादानम् । इन्द्रियार्थेभ्यो रूपादिभ्य आकृष्य चक्षुरादीनामुपादानं स्वायत्तताकरणम्, स प्रत्याहार इत्युच्यते । प्रत्याहरणं प्रत्याहारः । भावे घञ् । दाञो ल्युटि (३। ३। ११५) उपादानम् ॥ विहारस्तु परिक्रमः । क्रीडार्थमुद्यानादौ सञ्चरणस्य नामनी । ʻक्रमु पादविक्षेपे । भावे घञ् । ʻनोदात्त॥ । इति (७। ३। ३४) न वृद्धिः ॥ १६ ॥
मल्लि-नाथः - AK.03.02.016
अपहारस्त्वपचयः। वहुन्यल्पाहरणनामनी । ʻअधिकमन्दु अल्पमुदिनुट्ö ॥ समाहारः समुच्चयः। भिन्नानामेकत्र समावेशनामनी । ʻवोखदिक्कुन गूडुट्ö ॥ प्रत्याहार उपादानम् । प्रवहत्करणप्रत्याहरणनामनी ॥ विहारस्तु परिक्रमः । विलाससञ्चारनामनी । ʻनडपाडु’ ॥ १६ ॥
[[०३.१८५]]
मूलम् - ०३.०२.०१७
अक्।०३.०२.०१७अब् अभिहारोऽभिग्रहणं निर्हारोऽभ्यवकर्षणम् ।
अक्।०३.०२.०१७च्द् अनुहारो ऽनुकारः स्यादर्थस्यापगमे व्ययः ॥ १७ ॥
लिङ्ग-सूरी - AK.03.02.017
अभिहार इति—आभिमुख्येन ह्रियत इति अभिहारः । आभिमुख्येन ग्रहणमभिग्रहणम् । आभिमुख्येन ग्रहणस्य नामनी ॥ निर्ह्रियत इति निर्हारः । अभ्यवकृष्यत इति अभ्यवकर्षणम् । ʻकृष विलेखने । यन्त्रयुक्त्या शल्यादीनां बहिष्करणस्य नामनी ॥ अनुह्रियत इत्यनुहारः । अनुक्रियत इत्यनुकारः । रूपाद्यनुकरणस्य नामनी ॥ व्यय्यते येन व्ययः । ʻव्यय वित्तसमुत्सर्गे । अर्थापगमस्य नामनी ॥ १७ ॥
अभिहारोऽभिग्रहणम् । चौर्येणाभिमुख्यस्य ग्रहणस्य नामनी । अत एव वक्ष्यति—ʻअभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च्ö (३। ३। १६८) इति ॥ निर्हारोऽभ्यवकर्षणम् । शरीरादौ प्रविष्टस्य शल्यादेर्बहिराकर्षणस्य नामनी । ʻकृष निष्कर्षे इत्यस्मादभ्यवपूर्वात् ल्युटि अभ्यवकर्षणम् ॥ अनुहारोऽनुकारः स्यात् । परकृतचेष्टावेषभाषादिसदृशचेष्टादियोगित्वस्य नामनी । अनु सादृश्ये, तद्योगाद् धातुद्वयस्यापि तादर्थ्यम् ॥ अर्थस्यापगमे व्ययः । दृष्टार्थमदृव्टार्थं वा साधनादिवियोगस्य नामनी । ʻव्यय वित्तसमुत्सर्गे इति चौरादिकाद् धातोरचि ʻअतो लोपः’ (६। ४। ४८) इत्यकारलोपे व्ययः ॥ १७ ॥
मल्लि-नाथः - AK.03.02.017
अभिहारोऽभिग्रहणम् । मार्गप्रहरणनामनी । ʻतेरुवाटुगोठ्टुट्ö ॥ निर्हारोऽभ्यवकर्षणम् । सस्योपघातुकतृणाद्युत्पाटननामनी । ʻकलप्रतिचुट्ö ॥ अनुहारोऽनुकारः स्यात् । अनुकरणनामनी । ʻपोविके ॥ अर्थस्यापगमे व्ययः । अर्थापगमनामनी । ʻवेच्चम् ॥ १७ ॥
[[०३.१८६]]
मूलम् - ०३.०२.०१८
अक्।०३.०२.०१८अब् प्रवाहस्तु प्रवृत्तिः स्यात् प्रवहो गमनं बहिः ।
अक्।०३.०२.०१८च्द् वियामो वियमो यामो यमः संयामसंयमौ ॥ १८ ॥
लिङ्ग-सूरी - AK.03.02.018
प्रवाह इति—प्रवाह्यत इति प्रवाहः । ʻवह प्रापणे । प्रवर्त्यते प्रवाह्यत इति प्रवृत्तिः । ʻवृतु वर्तने । उदकादेरविच्छेदेन प्रवर्तनस्य नामनी ॥ प्रकर्षेण वहनं गमनं प्रवहः । बहिर्गमनस्य नाम ॥ विविधो यामो वियामः । वियमश्च । ʻयम उपरमे । परिपीडाद्युपशमस्य नामनी ॥ यमनं यामः । यमश्च । उपरतिमात्रस्य नामनी ॥ संयम्यत इति संयामः । संयमश्च । अत्यन्तोपरमस्य नामनी ॥ १८ ॥
प्रवाहस्तु प्रवृत्तिः स्यात् । जलादेरन्यस्य वा विच्छेदरहितानुवृत्तेर्नामनी । यथा—नदीप्रवाहः, विद्याप्रवाह इति । प्रकर्षेण वाहो वहनं विषयान्तरप्राप्तिः प्रवाहः । प्रकृष्टा विच्छेदरहिता वृत्तिः प्रवृत्तिः ॥ प्रवहो गमनं बहिः । गृहनगरादेर्बहिर्गमनस्य नाम । ʻप्रवहः स्याद् बहिर्यात्रा’ इति भागुरिः । प्रकृष्टो वहः प्रवहः । ʻगोचरसञ्चरवह ॥ । इत्यादिना (३। ३। ११९) साधुः । बहुलग्रहणादच्प्रत्ययो वा ॥ वियामो—संयमौ । परोपद्रवादिभ्य उपरतेर्नामानि । वेत्यनुवृत्तौ ʻयमः समुपनिविषु च्ö (३। ३। ६३) इति सोपसर्गाद् अनुपसर्गादपि पाक्षिकेऽप्प्रत्यये यमः, वियमः, संयमः इति त्रयः शब्दाः । तदभावपक्षे ʻहलश्च्ö (३। ३। १२१) इति घञि वियामः, संयामः, यामः इति शब्दत्रयम् । केचिदत्र व्याकुर्वते—वियामादिद्वयं मनोवाक्कायपूर्वकविरोधोपरतिवाचकम् । यामादिद्वयम् उपरतिमात्रवचनम् । संयामादिद्वयम् आत्यन्तिकोपरतिवाचकमिति ॥ १८ ॥
मल्लि-नाथः - AK.03.02.018
प्रवाहस्तु प्रवृत्तिः स्यात् । परम्परानामनी । ʻप्रवाहस्तु परम्परा’ इति वैजयन्ती (पृ। १९५, श्लो। ३९) ॥ प्रवहो गमनं वहिः । ʻप्रवासो गमनं बहिः’ इति पाठान्तरम् । बहिर्गमनं प्रवहः स्यात् ॥ वियामो—संयमौ । हिंसाद्युपरतिनामानि ॥ १८ ॥
[[०३.१८७]]
मूलम् - ०३.०२.०१९
अक्।०३.०२.०१९अब् हिंसाकर्माभिचारः स्याद् जागर्या जागरा द्वयोः ।
अक्।०३.०२.०१९च्द् विघ्नोऽन्तरायः प्रत्यहः स्यादुपघ्नोऽन्तिकाश्रये ॥ १९ ॥
लिङ्ग-सूरी - AK.03.02.019
हिंसाकर्मेति—परमभिभवितुं चारः चरणम् अभिचारः । हिंसाकर्मणो नाम ॥ जागरणं जागर्या । जागरा च । ʻजागृ निद्राक्षये । निद्राभङ्गस्य नामनी ॥ कार्याणां विहननं विघ्नः । अन्तरा मध्येऽयनं विच्छेदोऽन्तरायः । ʻअय पय गतौ’ । प्रतिकूलमूहनं प्रत्यूहः । ʻऊह वितर्के । प्रारब्धकार्याणां प्रतिकूलस्य नामानि ॥ उपहन्यत इत्युपघ्नः । ʻहन हिंसागत्योः’ । अत्र धातोर्गत्यर्थः । अन्तिकाश्रयणस्य नामनी ॥ १९ ॥
हिंसाकर्माभिचारः स्यात् । परमारणार्थमनुष्ठेयं श्येनादिकर्म अभिचार उच्यते । परमभिचरितुं चरणमभिचारः । ʻचर गतिभक्षणयोः’ । अभिपूर्वो हिंसायां वर्तते । यथा—ʻप्रत्यगेनमभिचारः स्तृणुते, ʻश्येनेनाभिचरन् यजेत्ö इति ॥ जागर्या जागरा द्वयोः । निद्रानाशस्य नामनी । ʻकृञः श च्ö (३। ३। १००) इत्यत्र ʻजागर्तेरकारो वा’ (वा। ३। ३। १०१) इत्यकारप्रत्ययशप्रत्ययौ । तत्र शप्रत्ययपक्षे ʻसार्वधातुके यक् (३। १। ६७) इति यक् । उभयत्र ʻजाग्रोऽविचिण्णल्ङित्सु’ (७। ३। ८५) इति गुणे जागर्या जागरेति शब्दद्वयम् इति सुबोधिनीकारः । ʻरिङ्शयग्लिङ्क्षु’ (७। ४। २८) इति रिङादेशे जाग्रिया इति धातुपारायणम् इति सर्वानन्दः (पृ। ६२) । अकारप्रत्ययबलेन केवलस्य स्त्रीलिङ्गस्यैव उन्नयनं मा भूदिति द्वयोरित्युक्तम् । तेन घञ्प्रत्यये पुंलिङ्गोऽप्यस्तीति दर्शितम् ॥ विघ्नोऽन्तरायः प्रत्यूहः । कार्यसिद्धिप्रतिबन्धनस्य नामानि । यथा—घटसिद्धेश्चक्रचीवराद्यभावः । अर्थसिद्धेः पिशुनव्यापार इति । विहन्त्यनेन पुरुषः कार्यसिद्धिमिति विघ्नः । ʻहन हिंसागत्योः’ । ʻघञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् (वा। ३। ३। ५८) इति धञर्थे कप्रत्ययः । ʻगमहनजन ॥ । इत्यादिना उपधालोपः, ʻहो हन्तेः’ (७। ३। ५४) इति कुत्वम् ॥ अन्तरा मध्ये आयः अयनं कार्यव्यवधानमत्रेति अन्तरायः ॥ प्रतिकूलम् ऊह्यतेऽनेनेति प्रत्यूहः । ʻऊह वितर्के ॥ स्यादुपघ्नोऽन्तिकाश्रये । समीपभूत आश्रये उपघ्नशब्दः । उप समीपे हन्यते गम्यत इत्युपघ्नः । ʻहन हिंसागत्योः’ । ʻउपघ्न आश्रये (३। ३। ८५) इति निपातितः । ʻआश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति इति काशिका (१, पृ। २२०) ॥ १९ ॥
मल्लि-नाथः - AK.03.02.019
हिंसाकर्माभिचारः स्यात् । हिंसानामनी ॥ जागर्या जागरा द्वयोः । निद्राक्षयनामनी ॥ विघ्नो—प्रत्यूहः । विघ्ननामानि ॥ स्यादुपघ्नोऽन्तिकाश्रये । समीपाश्रयनाम । ʻछेदादिवोपघ्नतरोर्व्रतत्यौ’ इति रघुवंशे (१४। १) ॥ १९ ॥
[[०३.१८९]]
मूलम् - ०३.०२.०२०
अक्।०३.०२.०२०अब् निर्वेश उपभोगः स्यात् परिसर्पः परिक्रिया ।
अक्।०३.०२.०२०च्द् विधुरं तु प्रविश्लेषोऽभिप्रायश्छन्द आशयः ॥ २० ॥
लिङ्ग-सूरी - AK.03.02.020
निर्वेश इति—निर्विश्यते उपभुज्यत इति निर्वेशः । ʻविश प्रवेशने । उपभुज्यत इति उपभोगः । ʻभुज पालनाभ्यवहारयोः’ । सुखदुःखसाक्षात्कारस्य नामनी ॥ परितः सर्पणं परिसर्पः । ʻसुप्लृ गतौ’ । परितः सर्पणक्रिया परिक्रिया । समन्तात् सर्पणस्य नामनी ॥ विगता धूः कार्यभारोऽत्रेति विधुरम् । प्रविश्लिष्यते कार्यभारोऽत्रेति विधुरम् । प्रविश्लिष्यते कार्यभारोऽत्रेति प्रविश्लेषः । ʻश्लिष आल्ङ्गने । विरहस्य नामनी ॥ अभिप्रयन्ति पदार्था अस्मिन्निति अभिप्रायः । ʻइण् गतौ’ । छन्दयन्ति आच्छादयन्त्यत्रेति छन्दः । ʻछदि संवरणे । आशेरते पदार्था अत्रेत्याशयः । ʻशीङ् स्वप्ने । अभिप्रायस्य नामानि ॥ २० ॥
निर्वेश उपभोगः स्यात् । सुखदुःखसाक्षात्कारस्य नामनी । निरुपसर्गपूर्वाद् ʻविश प्रवेशने इत्यतो भावे घञि (३। ३। १८) निर्वेशः ॥ ʻभुज परिपालनाभ्यवहारयोः’ इत्यस्माद् उपपूर्वाद् भावे घञि उपभोगः । एवमादौ तदर्थविहितप्रत्ययान्तरान्तानि निर्वेशनमुपभुक्तिरित्यादीनि पर्यायतया द्रष्टव्यानि ॥ परिसर्पः परिक्रिया । समन्तात् सर्पणस्य नामनी । परितः सर्पणं परिसर्पः । ʻसृप्लृ गतौ’ । घञ् ॥ परितः सर्पणरूपा क्रिया परिक्रिया ॥ विधुरं तु प्रविश्लेषः । प्रकर्षेण विश्लेषो दूरभूतत्वं वा विधुरमुच्यते । विगता धूः कार्यभारोऽत्रेति विधुरम् । ʻवैफल्येऽपि च विश्लेषे विधुरं विक्लवे त्रिषु’ इति रभसः । ʻविधुरं किमतः परं वद्ö इति भारविप्रयोगः (किरा। २। ७) ॥ अभिप्रायश्छन्द आशयः । मनोगतार्थस्य नामानि । अभिप्रायः ʻइण् गतौ’ । पचाद्यच् (३। १। १३४) । अभिप्रीणाति श्रोतॄन् इति वा । ʻप्रीञ् तर्पणे कान्तौ च्ö । घञ् ॥ छन्दयति आह्लादयति । ʻछदि आह्लादने । घञ् । साहचर्येण पुंलिङ्गत्वाद् अकारान्तत्वम् । ʻछान्दानुवृत्तिदुःसाध्या’ इति प्रयोगः (शिशु। २। १०५) ॥ आसमन्ताच्छेते मानसमिति आशयः । ʻशीङ स्वप्ने ॥ २० ॥
मल्लि-नाथः - AK.03.02.020
निर्वेश उपभोगः स्यात् । उपभोगनामनी ॥ परिसर्पः परिक्रिया । परिजनपरिवेष्टननामनी ॥ विधुरं तु प्रविश्लेषे । विकलत्वनामनी । ʻवैकल्येऽपि च विश्लेषे विधुरं तद्वति त्रिषु’ इति त्रिकाण्डशेषः (पृ। ३३, श्लो। ९२५) ॥ अभिप्रायश्छन्द आशयः । भावार्थनामानि । ʻआकूतिमतमाकूतं भावोऽभिप्राय आशयः’ इति वैजयन्ती (पृ। ९७, श्लो। १७४) ॥ २० ॥
[[०३.१९०]]
मूलम् - ०३.०२.०२१
अक्।०३.०२.०२१अब् सङ्क्षेपणं समसनं पर्यवस्था विरोधनम् ।
अक्।०३.०२.०२१च्द् परिसर्या परीसारः स्यादास्या त्वासना स्थितिः ॥ २१ ॥
लिङ्ग-सूरी - AK.03.02.021
सङ्क्षेपणमिति—बहव एकत्र सङ्क्षिप्यन्त इति सङ्क्षेपणम् । ʻक्षिप क्षेपणे । समस्यन्तेऽत्रेति समसनम् । ʻअसु क्षेपणे । प्रकीर्णानां पदार्थानामेकत्र स्थापनस्य नामनी ॥ पर्यवस्थीयत इति पर्यवस्था । ʻष्ठा गतिनिवृत्तौ’ । विरुध्यत इति विरोधनम् । ʻरुधिर् आवरणे । सहानवस्थानादिलक्षणविरोधस्य नामनी ॥ परितः सरणं परिसर्या । परीसारश्च । ʻसृ गतो । परितः सञ्चारस्य नामनी ॥ आसनमास्या । आसना च । ʻआस उपवेशने । स्थीयत इति स्थितिः । ʻष्ठा गतिनिवृत्तü । उपवेशनस्य नामानि ॥ २१ ॥
सङ्क्षेपणं समसनम् । विप्रकीर्णानां पदार्थानामेकत्र राशीकरणस्य नामनी । संहततया क्षेपणं सङ्क्षेपणम् ॥ ʻअसु क्षेपणे इत्यस्मात् ल्युटि (३। ३। ११५) असनम् । सम्भूय असनं समसनम् । ʻसङ्क्षेपः संहारः समाससङ्ग्रहः समाहारः’ इति श्लोकार्थपर्यायेषु बोपालितः ॥ पर्यवस्था विरोधनम् । सहानवस्थानादिलक्षणविरोधस्य नामनी । मिथो विरोधेन परितो नानादेशेषु अवस्थानं पर्यवस्था । ʻष्ठा गतिनिवृत्तü । ʻआतश्चोपसर्गे (३। ३। १०६) इत्यङ् ॥ परिसर्या परीसारः । सर्वतो भ्रमणशीलस्य नामनी । परितः सरणं परिसर्या । ʻसृगतü । ʻपरिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् (वा। ३। ३। १०१) इति साधुः ॥ सरतेर्घञ् । ʻउपसर्गस्य घञ्यमनुष्ये बहुलम् (६। ३। १२२) इति दीर्घे परीसारः ॥ स्यादास्या त्वासना स्थितिः । उपवेशस्य नामानि । ʻआस उपवेशने । ʻऋहलोर्ण्यत् (३। १। १२४) आस्या वासरूपपरिभाषया (३। १। ९४) ॥ ʻण्यासश्रन्थो युच् (३। ३। १०७) इति युचि आसना ॥ ʻस्थागापापचो भावे (३। ३। ९५) इति क्तिन् । ʻद्यतिस्यतिमास्थामित्ति किति (७। ४। ४०) इति इकारादेशे स्थितिः ॥ २१ ॥
मल्लि-नाथः - AK.03.02.021
सङ्क्षेपणं समसनम् । बहुना ग्रन्थेन वक्तव्यस्याल्पेन कथननामनी ॥ पर्यवस्था विरोधनम् । शत्रुत्वस्वीकरणनामनी । ʻपगवट्टुट्ö ॥ परिसर्या परीसारः । गिरिनगरादीनां समीपस्थं मार्गमनुसृत्य गमननामनी । ʻपर्वतादुलवोत्तुपट्टिपोवुट्ö ॥ स्यादास्या त्वासना स्थितिः । उपवेशनामानि ॥ २१ ॥
[[०३.१९१]]
मूलम् - ०३.०२.०२२
अक्।०३.०२.०२२अब् विस्तारो विग्रहो व्यासः स तु शब्दस्य विस्तरः ।
अक्।०३.०२.०२२च्द् स्यान्मर्दनं संहननं विनाशः स्याददर्शनम् ॥ २२ ॥
लिङ्ग-सूरी - AK.03.02.022
विस्तार इति—विस्तीर्यत इति विस्तारः । ʻस्तॄञ् आच्छादने । विविच्य ग्रहणं विग्रहः । विविच्य असनं क्षेपो व्यासः । ʻअसु क्षेपणे । विस्तारस्य नामानि ॥ विस्तीर्यत इति विस्तरः । शब्दविस्तरस्य नाम ॥ मृद्यतेऽङ्गमनेनेति मर्दनम् । ʻमृद मर्दने । संहन्यते मृद्यत इति संहननम् । संवाहनमिति पाठे संवाह्यन्तेऽङ्गान्यत्रेति संवाहनम् । ʻवह प्रापणे । अङ्गमर्दनस्य नामनी ॥ विनश्यत इति विनाशः । ʻणश अदर्शने । अदर्शनस्य नाम ॥ २२ ॥
विस्तारो विग्रहो व्यासः । कटकम्बलादिसम्बन्धिनो विस्तीर्णत्वस्य नामानि । ʻस्तॄञ् आच्छादने विपूर्वः, ʻप्रथने वावशब्दे (३। ३। ३३) इति घञ्प्रत्ययः ॥ विविच्य ग्रहणं विग्रहः ॥ विविधं विविच्य वा असनं व्यासः । ʻअसु क्षपेणे । भावे घञ् ॥ स तु शब्दस्य विस्तरः । स व्यासः शब्दसम्बन्धी चेद् विस्तर उच्यते । ʻप्रथने वावशब्दे (३। ३। ३३) इति शब्दविषये घञ्निषेधाद् ʻऋदोरप् इत्यप्प्रत्यये विस्तरः । स्यान्मर्दनं संहननम् । करचरणादिसुखकरस्य सम्पीडनस्य नामनी । मृद्यतेऽङ्गान्यनेनेति मर्दनम् । ʻमृद क्षोदे । ल्युट् ॥ संहन्यते निपीड्यतेऽङ्गमनेनेति संहननम् । ʻसंवाहनं संहननम् इति सुभूतिचन्द्रस्य पाठः । ʻवाहृ प्रयत्ने सम्मर्दने च्ö । अस्माद् भावे ल्युटि संवाहनम् ।
ʻकान्ताजनं सुरतखेदनिमीलिताक्षं
संवाहितुं समुपयानिव मन्दमन्दम् ।
इति भारविः (किरा। ९। ७६) । ʻसंवाहयामि चरणावुत पद्मताम्रü इति कालिदासश्च (शाकु। ३। २०) । ʻश्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् इति स्मृतौ (या। स्मृ। १। ९। २०९) । ʻसंवाहनं संवहने भारादेरङ्गमर्दने इति विश्वप्रकाशश्च (पृ। ९८, श्लो। १६४) ॥ विनाशः स्याददर्शनम् । ध्वंसनिमित्तस्तिरोभावनिमित्तो वा ज्ञानविषयत्वाभावो वा विनाश उच्यते । ʻध्रुवं प्रणाशे प्रहितस्य पत्रिणः शिलोच्चये तस्य विमार्गणं नयः’ इति तिरोधाननिबन्धने भारविप्रयोगः (किरा। १४। ९) । घटनाशः पटनाशः इत्यादौ अन्यत्र प्रसिद्ध एव । ʻणश अदर्शने इत्यतो विपूर्वाद् भावे घञि (३। ३। १८) विनाशः ॥ २२ ॥
मल्लि-नाथः - AK.03.03.022
विस्तारो विग्रहो व्यासः । स्वल्पस्यानल्पीकरणनामानि । ʻपिन्नदि पेद्दचेनुट्ö ॥ स च शब्दस्य विस्तरः । अनल्पशब्देन कथनं विस्तरः स्यात् । शब्दप्रपञ्चनाम इत्यर्थः ॥ संवाहनं मर्दनं स्यात् । पादाद्यङ्गमर्दननामनी । ʻसंवाहयामि चरणावुत पद्मताम्रü (शाकु। ३। २०); किञ्च ʻसम्भोगान्ते मम समुचितो हस्तसंवाहनानाम् इति मेघसन्देशे (२। ३६) ॥ विनाशः स्याददर्शनम् । अदर्शननाम । ʻअणुगुटि ॥ २२ ॥
[[०३.१९३]]
मूलम् - ०३.०२.०२३
अक्।०३.०२.०२३अब् संस्तवः स्यात् परिचयः प्रसरस्तु विसर्पणम् ।
अक्।०३.०२.०२३च्द् निवाकस्तु प्रयामः स्यात् सन्निधिः सन्निकर्षणम् ॥ २३ ॥
लिङ्ग-सूरी - AK.03.02.023
संस्तव इति—संस्तूयते परिचीयत इति संस्तवः । ʻष्टुञ् स्तुतü । परिचीयत इति परिचयः । ʻचिञ् चयने । परिचयनामनी ॥ प्रकर्षेण सरणं प्रसरः । ʻसृ गतü । विशेषेण सर्पणं विसर्पणम् । ʻसृप्लृ गतü । तैलबिन्द्वादेः प्रसरणस्य नामनी ॥ नियतं वचनं निवाकः । नीमाकश्च । ʻवच परिभाषणे । प्रकर्षेण यमनं प्रयामः । ʻयम उपरमे । न्यूनाधिक्यरहितप्रमाणवचनस्य नामनी ॥ सन्निधीयत इति सन्निधिः । ʻडुधाञ् धारणपोषणयोः’ । सन्निकृष्यत इति सन्निकर्षणम् । ʻकृष विलेखने । प्रत्यासत्तेर्नामनी ॥ २३ ॥
संस्तवः स्यात् परिचयः । स्नेहपूर्वकस्य विस्रम्भस्य नामनी । ʻष्टुञ् स्तुतü । ʻऋदोरप् (३। ३। ५७) ॥ ʻचिञ् चयने । ʻएरच् (३। ३। ५६) । उपसर्गवशाद् धातुद्वयस्य परिचयार्थत्वम् ॥ प्रसरस्तु विसर्पणम् । स्वल्पलताविटपादेः समन्ताद् व्यापनस्य नामनी । ʻसृ गतü । बहुलग्रहणात् स्वार्थे प्रपूर्वादप्प्रत्यये प्रसरः ॥ विशेषेण सर्पणं विसर्पणम् । परिसर्पः परिक्रिया (श्लो। २०) परिसर्या परीसारः (श्लो। २१) प्रसरस्तु विसर्पणम् (श्लो। २३) इति विप्रकीर्णपठितस्य पादत्रयस्यावान्तरभेदश्रयणेऽर्थभेदोऽनुसन्धेयः । पर्यायान्तरदर्शनाभिप्रायेण वा पौनरुक्त्यं परिहरणीयम् ॥ निवाकस्तु प्रयामः स्यात् । न्यूनाधिकभावरहितस्य प्रमाणभूतवचनस्य नामनी । वाको वचनम् । नियतं वाको निवाकः । ʻवच परिभाषणे । भावे घञ् (३। ३। १८) । कुत्वम् (७। ३। ५२), ʻउपसर्गस्य ॥ । इत्यादिना (६। ३। १२२) दीर्घे च नीवाकः ॥ प्रकर्षेण यमो न्यूनाधिकभावाभ्यामुपरमणमत्रेति, ʻहलश्च्ö (३। ३। १२१) इति घञि प्रयामः । सन्निधिः सन्निकर्षणम् । प्रत्यासत्तेर्नामनी । दधातेः सन्निपूर्वाद् ʻउपसर्गे घोः किः’ (३। ३। ९२) इति पुंलिङ्गः । कृषेर्ल्युटि सन्निकर्षणम् ॥ २३ ॥
मल्लि-नाथः - AK.03.02.023
संस्तवः स्यात् परिचयः । अभ्यासनामनी । ʻअभ्यासः स्यात् परिचयः’ इति वैजयन्ती (पृ। १२०, श्लो। १९५) ॥ प्रसरस्तु विसर्पणम् । कण्डूत्यादिविसर्पणनामनी । ʻशिब्बमुतिपपट्टुट्ö ॥ नीवाकस्तु प्रयामः स्यात् । जयघण्टिकादिमुखेन धान्याद्यर्घप्रख्यापननामनी । ʻधान्यादुलघुवचेसुट्ö ॥ सन्निधिः सन्निकर्षणम् । समीपनामनी । ʻपोन्दुट्ö ॥ २३ ॥
[[०३.१९४]]
मूलम् - ०३.०२.०२४
अक्।०३.०२.०२४अब् लवोऽभिलावो लवने निष्पावः पवने पवः
अक्।०३.०२.०२४च्द् प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम् ॥ २४ ॥
लिङ्ग-सूरी - AK.03.02.024
लव इति—लूयत इति लवः । अभीलावः । लवनं च । ʻलूञ् छेदने । तृणादिच्छेदनस्य नामानि ॥ नितरां पूयते धान्यमत्रेति निष्पावः । पवनं च । पवश्च । ʻपूञ् पवने । धान्यादेर्निस्तुषीकरणस्य नामानि ॥ प्रसङ्गेन कार्यमत्र स्तूयत इति प्रस्तावः । ʻष्टुञ् स्तुतü । कार्यं कर्तुमवसरतीति अवसरः । ʻसृ गतü । अवसरस्य नामनी ॥ त्रस्यति भीतवदितस्ततश्चलतीति त्रसरः । ʻत्रसी उद्वेगे । सूत्राणां वेष्टनं सूत्रवेष्टनम् । ʻवेष्ट वेष्टने । सूत्रस्य वेष्टनक्रियाया नामनी ॥ २४ ॥
लवो ऽभिलावो लवने । लवित्रादिना व्रीह्यादिस्तम्बच्छेदनस्य नामानि । ʻलूञ् छेदने । ʻऋदोरप् (३। ३। ५७) इत्यपि लवः । ʻनिरभ्योः पूल्वोः’ (३। ३। २८) इति घञि अभिलावः ॥ निष्पावः पवने पवः । धान्यादीनां निस्तुषीकरणस्य बहुलीकरणस्य नामानि । ʻपूञ् पवने । ʻनिरभ्योः पूल्वोः’ (३। ३। २८) इति घञि निष्पावः ॥ ल्युटि पवनम् । ʻऋदोरप् (३। ३। ५७) इत्यपि पवः ॥ प्रस्तावः स्यादवसरः । कर्तव्यार्थोचितकालस्य नामनी । प्रस्तूयते कार्यमस्मिन्निति प्रस्तावः । ʻष्टुञ् स्तुतü । ʻप्रे द्रुस्तुस्रुवः’ (३। ३। २७) इत्यधिकरणे घञ् ॥ अवसरन्ति कार्यं कर्तुमवनता गच्छन्त्यत्रेत्यवसरः । ʻसृ गतü । ʻपुंसि सञ्ज्ञायां घः प्रायेण्ö (३। ३। ११८) इति घः ॥ त्रसरः सूत्रवेष्टनम् । तन्तुवायैः पटवासार्थं कल्पितस्य दीर्घतन्तुवष्टितस्य नामनी । त्रस्यति भीतवद् इतस्ततश्चलतीति त्रसरः । ʻत्रसी उद्वेगे । औणादिकोऽरन्प्रत्ययः । सर्वानन्दस्तु (टी। स। पृ। ६५) तसर इति प्रथमाक्षरं रेफरहितमाह ॥ सूत्रं वेष्ट्यतेऽत्रेति सूत्रवेष्टनम् । रूपभेदाद् नपुंसकत्वम् ॥ २४ ॥
मल्लि-नाथः - AK.03.02.024
लवोऽभिलावो लवने । सस्यादीनां छेदननामानि । ʻचेनुकोसुट्ö ॥ निष्पावः पवने पवः । वायुना धान्यनिस्तुषीकरणनामानि । ʻतूर्पेत्तुट्ö ॥ प्रस्तावः स्यादवसरः । वेलानामनी । ʻप्रस्तावोऽवसरो वेला’ इति वैजयन्ती ॥ त्रसरः सूत्रवेष्टनम् । तन्तुवायोपकरणनामनी । ʻपरटे ॥ २४ ॥
[[०३.१९५]]
मूलम् - ०३.०२.०२५
अक्।०३.०२.०२५अब् प्रजनः स्यादुपसरः प्रसरप्रणयौ समौ ।
अक्।०३.०२.०२५च्द् धीशक्तिर्निष्क्रमोऽस्त्री तु सङ्क्रमो दुर्गसञ्चरः ॥ २५ ॥
लिङ्ग-सूरी - AK.03.02.025
प्रजन इति—प्रजायन्ते पशवोस्मिन्निति प्रजनः । ʻजनी प्रादुर्भावे । उपसरति वृषोऽस्मिन्निति उपसरः । ʻसृ गतü । पशूनां गर्भग्रहणस्य नामनी ॥ प्रीत्या प्रसार्यत इति प्रसरः । प्रश्रय इति वा पाठः । प्रणीयते प्रार्थ्यत इति प्रणयः । ʻणीञ् प्रापणे । प्रीत्या प्रार्थनस्य नामनी ॥ निष्क्रम्यते वहिष्क्रियतेऽज्ञानमनेनेति निष्क्रमः । ʻक्रमु पादविक्षेप्ö । धीशक्तेः प्रज्ञासामर्थ्यस्य नाम ॥ सङ्क्रामन्ति सङ्क्लेशेन गच्छन्त्यत्रेति सङ्क्रमः । दुर्गे दुर्गमे प्रवाहादौ सञ्चरन्त्यनेनेति दुर्गसञ्चरः । ʻचर गतü । दुस्तरप्रवाहादौ काष्ठादिभिर्बद्धस्य सेत्वादेर्नामनी ॥ २५ ॥
प्रजनः स्यादुपसरः । पुङ्गवादीनां मैथुनोपसपर्णस्य नामनी । गर्भग्रहणस्य कालस्येत्यन्ये । प्रजायन्ते पशवोऽत्रेति प्रजनः । ʻजनी प्रादुर्भावे । अधिकरणे घञ्प्रत्यये ʻजनिवध्योश्च्ö (७। ३। ३५) इति वृद्धिप्रतिषेधः ॥ उपसरति वृषभो गां गर्भमाधातुमत्रेति उपसरः । ʻप्रजने सर्तेः’ (३। ३। ७१) इत्यप् ॥ प्रसरप्रणयौ समौ । प्रीतिपूर्वकप्रार्थनानामनी इति केचित् । विनयस्य नामनी इत्यपरे । प्रीतिप्रकर्षेण सरणं प्रसरः । ʻऋदोरप् ॥ प्रीत्यानयनं प्रणयः । ʻउपसर्गादसमासेऽपि ॥ । (८। ४। १४) इति णत्वम् ॥ धीशक्तिर्निष्क्रमः । धियो बुद्धेः शक्तिः सामर्थ्यविशेषः ।
ʻशुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।
ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥
इत्युक्तलक्षणः; स निष्क्रमः । निष्क्रम्यते बहिः क्रियते तत्त्वज्ञानजननद्वारेणाज्ञानमनेनेति निष्क्रमः । ʻनिष्क्रमो बुद्धिसम्पत्तौ निर्गमे दुष्कुलेऽपि च्ö इति विश्वप्रकाशः (पृ। ११३, श्लो। ३८) ॥ अस्त्री—दुर्गसञ्चरः । जलपङ्कादिप्रायदेशे शकटादीनां गमनागमनसौलभ्यार्थं पाषाणादिभिर्बद्धस्य सेत्वादेर्नामनी । सङ्क्रामन्ति सुखेन गच्छन्ति अनेनेति सङ्क्रमः । करणे घञ् ॥ दुर्गेऽपि मार्गे सम्यक् चरन्त्यनेनेति दुर्गसञ्चरः । ʻगोचरसञ्चर ॥ । इत्यादिना (३। ३। ११९) साधुः ॥ २५ ॥
मल्लि-नाथः - AK.03.02.025
प्रजनः स्यादुपसरः । गोमहिष्यादिबालगर्भनामनी । ʻलेतचूलुतान्ö । उपचर इति पाठान्तरम् । प्रसादप्रणयौ समौ । प्रसन्नतानामनी । ʻप्रसादः प्रणयो मतः’ इति हलायुधः (अ। मा। ४। ८८) ॥ धीशक्तिर्निष्क्रमः । बुद्धिशक्तिः निष्क्रमः स्यात् ॥ अस्त्री—दुर्गसञ्चरः । दुर्गपथनामनी ॥ २५ ॥
[[०३.१९७]]
मूलम् - ०३.०२.०२६
अक्।०३.०२.०२६अब् प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः ।
अक्।०३.०२.०२६च्द् स्यादभ्यादानमुद्घात आरम्भः सम्भ्रमस्त्वरा ॥ २६ ॥
लिङ्ग-सूरी - AK.03.02.026
प्रत्युत्क्रम इति—प्रत्युत्क्रमणमुद्योगः प्रत्युत्क्रमः । प्रयोगोऽर्थो यस्येति प्रयोगार्थः । प्रयोगस्य कर्म कर्तुमुत्पन्नप्रयत्नस्य नामनी । प्रत्युद्गमः प्रयोगार्थमिति पाठे प्रकृष्टयुद्धार्थं भटनिर्गमनस्य नाम ॥ प्रक्रम्यत इति प्रक्रमः । उपक्रम्यत इत्युपक्रमः । ʻक्रमु पादविक्षेपे । कर्मणः प्रथमयोगस्य नामनी ॥ आभिमुख्येनादानं स्वीकरणमभ्यादानम् । ʻदा दाने । उद्घन्यते प्रारभ्यते क्रियमाणं कर्मानेनेति उद्घातः । ʻहन हिंसागत्योः’ । आरभ्यत इत्यारम्भः । ʻरभ राभस्ये । बीजावापार्थं व्यापारोपक्रमस्य नामानि । सम्भ्रमणं सम्भ्रमः । ʻभ्रमु अनवस्थाने । त्वर्यत इति त्वरा । ʻञित्वरा सम्भ्रमे । व्यग्रतानामनी ॥ २६ ॥
प्रत्युत्क्रमः प्रयोगार्थः । यस्य कस्यचिदर्थस्य स्वयमाचरणेन परेषां पुरः प्रकाशनं प्रयोगः । तदुक्तम्—
ʻसत्त्वेनाङ्गेन वा वाचा वस्तुनस्तद्विदां पुरः ।
प्रकाशनं प्रयोगः स्यात् ॥
इति । यथा नाट्यप्रयोगः, यज्ञप्रयोगः, शब्दप्रयोगः । तेन प्रयोगशब्देन समानार्थः प्रत्युत्क्रमशब्द इत्यर्थः । कर्तव्यार्थं प्रति उत्क्रम उद्योगः प्रत्युत्क्रमः । सुबोधिनीकारस्त्वाह—प्रकृष्टो योगः प्रयोगः, यद्धमिति यावत् । तदर्थस्तत्प्रयोजनो भटनिर्गमः प्रत्युत्क्रम इति ॥ प्रक्रमः स्यादुपक्रमः ॥ क्रियायाः प्रारम्भस्य नामनी । यथा—अध्ययनस्य प्रणवोच्चारणम्, पाकक्रियायाः चुल्लीसम्मार्जनमित्यादि । ʻक्रमु पादविक्षेपे । प्रोपेत्युपसर्गद्वयम् आरम्भार्थे । घञ् (३। ३। १८) ॥ स्यात्—आरम्भः । कर्मप्रारम्भस्य नामानि । यथा—स्थाल्यां क्षालिततण्डुलप्रक्षेपणं पाककर्मणि आरम्भः । एकाहाध्ययनं स्वाध्यायाध्ययनस्यारम्भः । द्वितीयदिनाध्ययनमन्वारम्भः इत्यादि । स्मृतावपि—
ʻप्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः ।
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया ॥
इति । आभिमुख्येनादानं स्वीकरणम् अभ्यादानम् । ʻओमभ्यादाने (८। २। ८७) । अभ्यादानमारम्भ इति काशिकाकारः (पृ। ४१७) । उद्गतस्य घातो गमनमत्रेति उद्घातः । अत्र हन्तिर्गत्यर्थः ॥ आरम्भणमारम्भः । ʻरभ राभस्ये । घञ् । राभस्यं कार्योपक्रम इति धातुवृत्तौ (मा। धा। पृ। २७२) । अन्ये तु व्याचक्षते—प्रत्युत्क्रमादयः पञ्चैकार्था इति । तथा च शेषे—ʻउद्घातः स्यादुपोद्घातः’ इति । उपोद्घातो नाम भविष्यदर्थस्योपयुक्तस्यार्थस्य उपक्षेप इति । तदुक्तम्—ʻचिन्तां प्रकृतिसिद्ध्यर्थामुपोद्घातं प्रचक्षते इति । सम्भ्रमस्त्वरा । व्यग्रताया नामनी । सम्भ्रमणं सम्भ्रमः । ʻभ्रमु अनवस्थाने । घञ् ॥ ʻञित्वरा सम्भ्रमे इति धातोर्घटादित्वेन षित्परिभाषया ʻषिद्भिदादिभ्योऽङ् (३। ३। १०४) इति अङ्प्रत्यये त्वरा ॥ २६ ॥
मल्लि-नाथः - AK.03.02.026
प्रत्युत्क्रमः प्रयोगार्थः । प्रयोगनामनी ॥ प्रक्रमः स्यादुपक्रमः । ज्ञात्वारम्भनामनी ॥ स्यात्—आरम्भः । आरम्भनामानि । ʻदोरक्कोट्ö ॥ सम्भ्रमस्त्वरा । सम्भ्रमनामनी । संरम्भपाठोऽपि । ʻआवेशः संवेगः संरम्भः सम्भ्रमस्त्वराटोपः’ इति हलायुधः (अ। मा। ४। ३७) ॥ २६ ॥
[[०३.१९९]]
मूलम् - ०३.०२.०२७
अक्।०३.०२.०२७अब् प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपातनम् ।
अक्।०३.०२.०२७च्द् उपलम्भस्त्वनुभवः समालम्भो विलेपनम् ॥ २७ ॥
लिङ्ग-सूरी - AK.03.02.027
प्रतिबन्ध इति—प्रतिबध्यते रुध्यत इति प्रतिबन्धः । ʻबन्ध बन्धने । प्रातिकूल्येन स्तम्भनं प्रतिष्टम्भः । ʻस्तन्भु रोधनस्तम्भनयोः’ । निरोधस्य नामनी ॥ अवनीयते अधः प्राप्यत इति अवनायः । ʻणीञ् प्रापणे । नियात्यते अधःक्रियत इति नियातनम् । ʻयत निराकारोपस्कारयोः’ । निपातनमिति वा पाठः । अधःपातनस्य नामनी ॥ उपलभ्यते ज्ञायत इति उपलम्भः । ʻडुलभष् प्राप्तü । अनुभूयते ज्ञायत इत्युनुभवः । ʻभू सत्तायाम् । स्मृतिव्यतिरिक्तज्ञानस्य नामनी ॥ समालभ्यते लिप्यत इति समालम्भः । विलिप्यत इति विलेपनम् । ʻलिप उपदेहे । विलेपनस्य नामनी ॥ २७ ॥
प्रतिबन्धः प्रतिष्टम्भः । कार्यप्रतिबन्धनस्य नामनी । प्रातिकूल्येन बन्धनं प्रतिबन्धः । ʻबन्ध बन्धने । घञ् । प्रातिकूल्येन स्तम्भनं प्रतिष्टम्भः । स्तम्भेः सौत्राद् धातोः ʻस्तन्भेः’ (८। ३। ६७) इति मूर्धन्यादेशः ॥ अवनायस्तु निपातनम् । अधोनयननामनी । अवनयनम् अधः पातनम् अवनायः । ʻणीञ् प्रापणे । ʻअवोदोर्नियः’ (३। ३। २६) इति घञ् ॥ निकृष्टं पातनं निपातनम् । नियातनमिति पाठे ʻयत निकारोपस्कारयोः’ इत्यतो ण्यन्तात् ल्युट् (३। ३। ११५) । उपलम्भस्त्वनुभवः । स्मृतिव्यतिरिक्तज्ञानस्य नामनी । ʻडुलभष् प्राप्तü । भावे घञ् । ʻउपसर्गात् खल्घञोः’ (७। १। ६७) इति नुमागमः ॥ ʻभू सत्तायाम् । ʻऋदोरप् (३। ३। ५७) इत्यप्प्रत्यये अनुभवः ॥ समालम्भो विलेपनम् । चन्दनादिना गात्रघर्षणस्य नामनी । आङ्पूर्वो लभिः स्पर्शे वर्तते । समित्युपसर्गस्य सम्यक्त्वमर्थः । सम्यक् चासौ आलम्भश्चेति समालम्भः । आलम्भनस्य सम्यक्त्वं चन्दनादिसहितहस्तकृतत्वेन भवतीति समालम्भनेनानुलेपनमुच्यते ॥ ʻलिप उपदेहे इत्यस्मात् ल्युटि विलेपनम् ॥ २७ ॥
मल्लि-नाथः - AK.03.02.027
प्रतिबन्धः प्रतिष्टम्भः । प्रतिहतिनामनी । ʻतडसुब्ö ॥ अवनायस्तु निपातनम् । पातननामनी । ʻपडदोब्बुट्ö ॥ उपलम्भस्त्वनुभवः । स्खलितभिन्नज्ञाननामनी । ʻतेल्सिनदितिरुगतेल्सुट्ö ॥ समालम्भो विलेपनम् । चन्दनाद्यनुलेपननामनी ॥ २७ ॥
[[०३.२००]]
मूलम् - ०३.०२.०२८
अक्।०३.०२.०२८अब् विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् ।
अक्।०३.०२.०२८च्द् विश्रावस्तु प्रविख्यातिरवेक्षा प्रतिजागरः ॥ २८ ॥
लिङ्ग-सूरी - AK.03.02.028
विप्रलम्भ इति—विप्रलभ्यते वियुज्यत इति विप्रलम्भः । विप्रयुज्यत इति विप्रयोगः । ʻयुजिर् योगे । दम्पत्योः परस्परं विरहस्य विसंवादस्य वा नामनी ॥ विलभ्यते दीयत इति विलम्भः । ʻडुलभष् प्राप्तü । अतिसृज्यते दीयत इति अतिसर्जनम् । ʻसृज विसर्गे । दानस्य नामनी ॥ विश्रूयते दिगन्तेष्विति विश्रावः । प्रविख्यायते प्रकथ्यते दिगन्तेष्विति प्रविख्यातिः । ʻख्या प्रकथने । प्रतिख्यातिरिति वा पाठः । ख्यातेर्नामनी ॥ अवेक्ष्यत इत्यवेक्षा । ʻईक्ष दर्शने । प्रतिजागरणं प्रतिजागरः । ʻजागॄ निद्राक्षये । अवधानस्य नामनी ॥ २८ ॥
विप्रलम्भो विप्रयोगः । विप्रकृष्टः प्रलम्भः प्राप्तिरत्रेति विप्रलम्भः ॥ विप्रयोगोऽपि तद्वत् । यत्र पुनर्नायिकानायकयोः मिथः सम्बन्धो भावी स एव विश्लेषः पूर्वानुरागादिरूपः शृङ्गारविशेषो विप्रलम्भ उच्यते । न तु विश्लेषमात्रम् ॥ विलम्भस्त्वतिसर्जनम् । ʻविपूर्वो लम्भतिर्दाने वर्तते इत्युपसर्गवृत्तौ ।
ʻस्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे
विलेभे कः प्राणान् रणमखमुखे यं मृगयसे ।
इति काव्यप्राकशिकोदाहरणश्लोके (पृ। ७२, श्लो। ४८) दानार्थत्वेनास्य प्रयोगः ॥ ʻसृज विसर्गे । ल्युटि अतिसर्जनम् । ब्रह्मवर्गोक्तस्यापि दानार्थस्य (पृ। ४६७) पर्यायान्तरप्रदर्शनार्थमिहापि वचनमिति ज्ञेयम् ॥ विश्रावस्तु प्रविख्यातिः । विशिष्टं श्रवणं दिगन्तरेषु प्रसिद्धिर्विश्रावः । ʻश्रु श्रवणे । ʻवौ क्षुश्रुवः’ (३। ३। २५) इति घञ् । प्रकृष्टा विख्यातिः प्रविख्यातिः ॥ अवेक्षा प्रतिजागरः । पूर्वानुभूतार्थप्रत्यक्षस्य नामनी । प्रागनुभूतस्य पुनरनुसन्धानम् अवेक्षा । ʻगुरोश्च हलः’ (३। ३। १०३) इत्यप्रत्ययः । अत एव स्त्रीलिङ्गत्वम् ॥ पूर्ववृत्तमर्थं प्रति जागरणम् ऐकाग्र्यं प्रतिजागरः ॥ २८ ॥
मल्लि-नाथः - AK.03.02.028
विप्रलम्भो विप्रयोगः । सानुरागयोः स्त्रीपुरुषयोरसम्प्राप्तिनामनी ॥ विलम्भस्त्वतिसर्जनम् । वितरणनामनी ॥ विश्रावस्तु परिख्यातिः । प्रसिद्धिनामनी ॥ अवेक्षा प्रतिजागरः । संरक्षणनामनी । ʻअरयकपेर्ü ॥ २८ ॥
[[०३.२०२]]
मूलम् - ०३.०२.०२९
अक्।०३.०२.०२९अब् निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने ।
अक्।०३.०२.०२९च्द् आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ ॥ २९ ॥
लिङ्ग-सूरी - AK.03.02.029
निपाठेति—निपठ्यत इति निपाठः । निपठः । पाठश्च । ʻपठ व्यक्तायां वाचि । स्तुत्यादिपठनस्य नामानि ॥ तिम्यत इति तेमः । ʻतिम आर्द्रीभावे । स्तिम्यत इति स्तेमः । ʻस्तिम आर्द्रीभावे । समुद्यते सिच्यत इति समुन्दनम् । ʻउन्दी क्लेदने । सेचनस्य नामानि ॥ आदीनं परिक्षीणं वाति गच्छतीति आदीनवः । ʻवा गतिगन्धनयोः’ । आस्रवन्ति इन्द्रियाण्यनेनेति आस्रवः । ʻसृ गतü । क्लेशस्य नामनी ॥ मेल्यते सेव्यत इति मेलनम् । ʻमिल सङ्गमे । सज्यत इति सङ्गः । ʻषञ्ज सङ्गे । सङ्गम्यत इति सङ्गमः । संश्लेषणस्य नामानि ॥ २९ ॥
निपाठनिपठौ पाठे । गद्यपद्यादिपठनस्य नामानि । ʻपठ व्यक्तायां वाचि इति धातोः ʻनौ गदनदपठस्वनः’ (३। ३। ६४) इति पाक्षिके अप्प्रत्यये निपठः । तदभावपक्षे घञि निपाठः । पाठश्च (३। ३। १८) ॥ तेमस्तेमौ समुन्दने । वस्त्रशरीरादीनामार्द्रीभवनस्य नामानि । ʻतिम ष्टिम आर्द्रीभावे इति धातुभ्यां घञि क्रमेण तेमः स्तेमश्च ॥ ʻउन्दी क्लेदने इत्यस्मात् ल्युटि (३। ३। ११५) समुन्दनम् ॥ आदीनवास्रवौ क्लेशे । रागद्वेषादिलक्षणक्लेशस्य नामानि । आ समन्ताद् दीना अत्यन्तपरिक्षीणाः, तान् वातीति आदीनवः । ʻवा गतिगन्धनयोः’ । ʻआतोऽनुपसर्गे कः’ (३। २। ३) ॥ आस्रवति शिथिलीभवत्यनेनेति आस्रवः । ʻयद्वासुदेवेनादीनमनादीनवमीरितम् इति माघः (शिशु। २। २२) ॥
ʻजीवाजीवास्रवा बन्धसंवरावपि निर्जरः ।
मोक्षश्चेतीह तत्त्वानि सप्त स्युर्जिनशासने ॥
इति क्लेशपदार्थे जैनानामास्रवशब्दः प्रसिद्धः ॥ मेलके सङ्गसङ्गमौ । संश्लेषस्य नामानि । मिलधातुर्लौकिकः संश्लेषणार्थः । घञि मेलः । स्वार्थे कप्रत्यये (५। ४। ५) मेलकः । ʻद्रव्यादिषट्कविच्छेदमेलकेन विवर्जिताः’ इति लीलावत्यां वल्लभाचार्यप्रयोगः । ल्युटि मेलनमिति केचित् पठन्ति ॥ ʻषञ्ज सङ्गे इति धातोः भावे घञ्प्रत्यये कुत्वे च (७। ३। ५२) सङ्गः ॥ ʻगम्लृ गतü ʻग्रहवृदृनिश्चिगमश्च्ö (३। ३। ५८) इत्यप्प्रत्यये गमः । सम्यग् गमः सङ्गमः ॥ २९ ॥
मल्लि-नाथः - AK.03.02.029
निपाठनिपठौ पाठे । पाठनामानि ॥ तेमस्तेमौ समुन्दने । सेचननामानि । ʻतडुपुट्ö ॥ आदीनवास्रवौ क्लेशे । क्लेशनामानि । ʻदोषे त्वादीनवास्रवü इति दोषार्थे वैजयन्ती (पृ। १९२, श्लो। ४) ॥ मेलके सङ्गसङ्गमौ । मेलननामानि । ʻमेलम्ü ॥ २९ ॥
[[०३.२०३]]
मूलम् - ०३.०२.०३०
अक्।०३.०२.०३०अब् अन्वीक्षणं विचयनं मार्गणं मृगणा मृगः ।
अक्।०३.०२.०३०च्द् परिरम्भः परिवङ्गः संश्लेष उपगूहनम् ॥ ३० ॥
लिङ्ग-सूरी - AK.03.02.030
अन्वीक्षणमिति—अन्वीक्ष्यते मृग्यत इत्यन्वीक्षणम् । ʻईक्ष दर्शने । उपसर्गवशाद् धातूनामनेकार्था भवन्ति । विचीयते मृग्यत इति विचयनम् । ʻचिञ् चयने । मार्ग्यत इति मार्गणम् । ʻमार्ग अन्वेषणे । मृग्यत इति मृगणा । मृगश्च । ʻमृग अन्वेषणे । अन्वेषणस्य नामानि ॥ परिरभ्यते आलिङ्ग्यत इति परिरम्भः । ʻरभ राभस्ये । परिष्वज्यत इति परिष्वङ्गः । ʻष्वञ्ज परिष्वङ्गे । संश्लिष्यत इति संश्लेषः । ʻश्लिष आलिङ्गने । उपगूह्यते आलिङ्ग्यत इति उपगूहनम् । आलिङ्गनस्य नामानि ॥ ३० ॥
अन्वीक्षणं—मृगः । प्रियवस्तुविषयस्यान्वेषणस्य नामानि । मुहुरीक्षणम् अन्वीक्षणम् । ʻईक्ष दर्शने । ल्युट् । सम्यग् ईक्षणं समीक्षणमिति पाठान्तरेण केचित् प्रवर्तन्ते ॥ ʻचिञ् चयने इति धातोरुपसर्गवशाद् अर्थान्तरे वर्तमानात् ल्युटि विचयनम् ॥ ʻमार्ग अन्वेषणे इत्यतो ल्युटि मार्गणम् ॥ ʻमृग अन्वेषणे इत्यस्मात् चौरादिकाद् अदन्ताद् युचि (३। ३। १०७) मृगणा । अदन्तत्वाद् गुणाभावः ॥ तत एव धातोः ʻएरजण्यन्तानाम् इति ण्यन्तनिषेधस्य प्रायिकत्वाद् अचि प्रत्यये णिलोपे च मृगः । घञि वा मृगः ॥ शेषे—ʻअथ मार्गणा । मृगणं विचयोऽन्वीक्षाप्यन्वेषणगवेषणे स्त्रीक्लीबयोः’ इति । ब्रह्मवर्गे तु (पृ। ४६९) अन्वेषणागवेषणाशब्दौ स्त्रीलिङ्गावुक्तौ । अतः शब्दद्वयमपि स्त्रीनपुंसकोभयलिङ्गम् ॥ परिरम्भः—उपगूहनम् । आलिङ्गनस्य नामानि । ʻरभ राभस्ये इति धातोः परिपूर्वाद् घञि ʻरभेरशब्लिटोः’ (७। १। ६३) इति नुमागमे परिरम्भः ॥ ʻष्वञ्ज परिष्वङ्गे इत्यतो घञि कुत्वे च (७। ३। ५२) ʻउपसर्गात् सुनोति ॥ । इत्यादिना (८। ३। ६५) षत्वे च परिष्वङ्गः ॥ ʻश्लिष आलिङ्गने इत्यतो घञि संश्लेषः ॥ ʻगूह संवरणे इत्यस्मादुपपूर्वात् ल्युट्प्रत्यये लघूपधगुणे (७। ३। ८६) ʻऊदुपधाया गोहḵ (६। ४। ८९) इत्यूकारादेशे सति उपगूहनम् ॥ ३० ॥
मल्लि-नाथः - AK.03.02.030
अन्वीक्षणं—मृगः । मृगयेति वा पाठः । अन्वेषणनामानि ॥ परिरम्भः—उपगूहनम् । आलिङ्गननामानि । ʻआलिङ्गनं तथा क्रोडीकरणं चाङ्कपाल्यपि । एतानि त्रीणि च ॥ ३० ॥
[[०३.२०४]]
मूलम् - ०३.०२.०३१
अक्।०३.०२.०३१अब् निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् ।
अक्।०३.०२.०३१च्द् प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥
लिङ्ग-सूरी - AK.03.02.031
निर्वर्णनमिति—निर्वर्ण्यते दृश्यत इति निर्वर्णनम् । ʻवर्ण वर्णक्रियाविस्तारगुणवचनेष्ü । निध्यायते दृश्यत इति निध्यानम् । ʻध्यै चिन्तायाम् । दृश्यत इति दर्शनम् । आलोक्यत इति आलोकनम् । ʻलोकृ दर्शने । ईक्ष्यत इति ईक्षणम् । ʻईक्ष दर्शने । ईक्षणस्य नामानि ॥ प्रत्याख्यायते निराक्रियत इति प्रत्याख्यानम् । ʻख्या प्रकथने । निरस्यत इति निरसनम् । ʻअसु क्षेपणे । प्रत्यादिश्यत इति प्रत्यादेशः । ʻदिश अतिसर्जने । निराक्रियत इति निराकृतिः । निराकरणस्य नामानि ॥ ३१ ॥
निर्वर्णनं—ईक्षणम् । चाक्षुषज्ञानविषयीकरणस्य नामानि । ʻवर्ण वर्णक्रियाविस्तारगुणवचनेष्ü । ʻध्यै चिन्तायाम् । एतावुपसर्गवशाद् ईक्षणार्थौ । ʻदृशिर् प्रेक्षणे ʻलोकृ दर्शने ʻईक्ष दर्शने । एतेभ्यः क्रमेण ल्युडन्ताः निर्वर्णनादयः शब्दाः ॥ प्रत्याख्यानं—निराकृतिः । निराकरणस्य नामानि । ʻख्या प्रकथने । ʻअसु क्षेपणे । आभ्यां ल्युटि क्रमेण प्रत्याख्यानं निरसनं च । ʻदिश अतिसर्जने इत्यतो घञि प्रत्यादेशः । करोतेः स्त्रियां क्तिनि (३। ३। ९४) निराकृतिः । उपसर्गवशाद् धातुचतुष्टयस्यापि एकार्थत्वम् ॥ ३१ ॥
मल्लि-नाथः - AK.03.02.031
निर्वर्णनं—ईक्षणम् । अत्रैकवद्भावः । दर्शननामानि । ʻनिभालननिशामने । एते द्वे च ॥ प्रत्याख्यानं—निराकृतिः । निराकरणनामानि ॥ ३१ ॥
[[०३.२०५]]
मूलम् - ०३.०२.०३२
अक्।०३.०२.०३२अब् उपशायो विशायश्च पर्यायशयनार्थकौ ।
अक्।०३.०२.०३२च्द् अर्तनं च ऋतीया च हृणीया च घृणार्थकाः ॥ ३२ ॥
लिङ्ग-सूरी - AK.03.02.032
उपशाय इति—उपशय्यते पर्यायेण निद्रायत इति उपशायः । विशायश्च । ʻशीङ् स्वप्ने । पर्यायशयनस्य नामनी ॥ ऋत्यत इति अर्तनम् । ऋतीया च । ʻऋति घृणायाम् इति सौत्रो धातुः । हृणीयत इति हृणीया । ʻहृणीङ् रोषणे लज्जायां च्ö । घृणानामानि ॥ ३२ ॥
उपशायो—अर्थकौ । नगरप्राकारादिरक्षणे नियुक्तानां मध्ये केषुचित् जाग्रत्सु केषाञ्चित् शयनम्, शयितेषु जाग्रत्सु पूर्वं जाग्रतां शयनम् । एवङ्कमेण स्वेच्छापरिकल्पितप्रहरमुहूर्ताद्यवच्छेदेन शयनं पर्यायशयनम् । तत्र उपशायविशायशब्दौ भवतः । जाग्रतामुप समीपे शयनमुपशायः ॥ वैपरीत्येन विपर्यासेन वा शयनं विशायः । ʻव्युपयोः शेतेः पर्याये (३। ३। ३९) इति घञ् ॥ अर्तनं—घृणार्थकाः । ऋतिः सौत्रो धातुः । घृणार्थ इति काशिका (पृ। १५३) । अत्र न्यासकारः (१, पृ। ५२१)—ʻसूत्र एव पठितत्वात् सूत्रे भवः सौत्रः । घृणा जुगुप्सा, तस्यामयं धातुर्वर्तते इति । तथा च अर्तनादयस्त्रयः शब्दा जुगुप्सावचना इत्यर्थः । ततश्च ऋतेर्धातोर्भावे ल्युटि (३। ३। ११५) गुणे च अर्तनम् ॥ तस्मादेव धातोः ʻआयादय आर्धधातुके वा’ (३। १। ३१) इति ʻऋतेरीयङ् (३। १। २९) इति ईयङ्प्रत्यये सति तदन्तस्य धातुसञ्ज्ञायाम् (३। १। ३२) ʻअप्रत्ययात् (३। ३। १०२) इति भावे स्त्रियामकारप्रत्यये टापि च ऋतीया ॥ हृणीङ् इति कण्ड्वादौ पठ्यते । ततः ʻकण्ड्वादिभ्यो यक् (३। १। २७) इति यकि पूर्ववदकारप्रत्यये (३। ३ १०२) हृणीया ॥ ३२ ॥
मल्लि-नाथः - AK.03.02.032
उपशायो—अर्थकौ । उपशायविशायशब्दौ पर्यायशयनार्थकौ स्याताम् । पर्यायार्थमात्रकाविति हलायुधः (अ। मा। ४। ५४) ।
ʻपरिपाट्यानुपूर्वी स्यादुपशायोऽनुपात्ययः ।
अनुक्रमश्च पर्यायो विशायः परिकीर्तितः ॥
इति । अर्तनं—घृणार्थकाः । जुगुप्सानामानि ॥ ३२ ॥
[[०३.२०६]]
मूलम् - ०३.०२.०३३
अक्।०३.०२.०३३अब् स्याद् व्यत्यासो विपर्यासो व्यत्ययस्तु विपर्ययः ।
अक्।०३.०२.०३३च्द् पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ३३ ॥
लिङ्ग-सूरी - AK.03.02.033
स्यादिति—व्यतिक्रम्यासनं व्यत्यासः । वैपरीत्येनासनं विपर्यासः । ʻअसु क्षेपणे । व्यतिक्रम्यायनं व्यत्ययः । विपर्ययश्च । ʻइण् गतü । कर्मणो व्यत्ययादेर्नामानि ॥ क्रमं परित्यज्यायनं पर्ययः । अतिक्रमणमतिक्रमः । अतिक्रम्य पतनमतिपातः । ʻपत्लृ गतü । उपपन्नस्य अत्ययः उपात्ययः । आचारव्यतिक्रमस्य नामानि ॥ ३३ ॥
स्याद्—विपर्यासः । नियतस्थानस्य सतः स्थानान्तरापत्तेर्नामनी । यथा—व्यत्यस्तपदान्वयः श्लोकः । मन्त्रविपर्यासः । तन्त्रविपर्यास इति । प्राप्तस्थानमतिक्रम्य तद्विरोधेनासनं क्षेपणं व्यत्यासः ॥ उचितं स्थानं परिहाय विरोधेनासः क्षेपणं विपर्यासः । ʻअसु क्षेपणे । घञ् ॥ व्यत्ययस्तु विपर्ययः । प्रतिलोमक्रमस्य नामनी । यथा—ʻविपरीतौ परिग्रहावेके समामनन्ति । एतद्वा विपरीतम् इति । सहजसिद्धस्य पूर्वापरभवस्य व्यतिलङ्घनेन तद्विपरीतस्य अयनं प्राप्तिः व्यत्ययः ॥ पर्ययो नाम क्रमातिक्रमः । विरुद्धश्चासौ पर्ययश्चेति विपर्ययः ॥ पर्ययो—उपात्ययः । तस्मिन्नतिक्रम इत्यर्थः । ततश्च पर्ययादयश्चत्वारः शब्दाः पर्याया इत्युक्तं भवति । ब्रह्मवर्गे पूर्वमानुपूर्वप्रसङ्गाद् अतिक्रमे बुद्धिस्थे तद्वाचकत्वेन पर्ययातिपातोपात्ययशब्दास्त्रयोऽप्युक्ताः (पृ। ४७१), व्युत्पादिताश्च । इह तु व्युत्क्रमालङ्कारादौ प्रतिलोमक्रमातिक्रमणेऽप्येषां शब्दानां प्रवृत्तिरस्तीति दर्शयितुं त एव शब्दा उच्यन्त इति न पौनरुक्त्यम् । अतिक्रमस्य उपात्ययरूपत्वेन ʻइण् गतü इति धातोः ʻपरावनुपात्यय इणḵ (३। ३। ३८) इति घञ्प्रतिषेधे ʻएरच् (३। ३। ५६) इत्येरचि पर्ययः ॥ क्रमस्यातिलङ्घनमतिक्रमः । अति क्रमस्य पतनं प्राप्तिरतिपातः । उपपन्नस्य क्रमस्यात्ययः उपात्ययः । ʻइण् गतü । एरच् ॥ ३३ ॥
मल्लि-नाथः - AK.03.02.033
स्याद्—व्यत्ययश्च विपर्यये । विपर्यासनामानि । ʻतडमडुट्ö ॥ पर्ययो—उपात्ययः । अतिक्रमणनामानि ॥ ३३ ॥
[[०३.२०८]]
मूलम् - ०३.०२.०३४
अक्।०३.०२.०३४अब् प्रेषणं यत् समाहूय तत्र स्यात् प्रतिशासनम् ।
अक्।०३.०२.०३४च्द् स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् ॥ ३४ ॥
लिङ्ग-सूरी - AK.03.02.034
प्रेषणमिति—प्रतिशास्यत इति प्रतिशासनम् । ʻशासु अनुशिष्टü । भृत्यादिकं समाहूय यत्प्रेषणं तस्य नाम ॥ संस्तुवन्ति इन्द्रादीन् उद्गात्रादयोऽत्रेति संस्तावः । ʻष्टुञ् स्तुतü । द्विजन्मनां ऋतुषु या स्तुतिभूमिः तस्या नाम ॥ ३४ ॥
प्रेषणं—प्रतिशासनम् । आह्वानेन अभिमुखीभूतानां शिष्यपुत्रादीनां कर्तव्यार्थे यत् प्रेषणं नियोजनं तत्र प्रतिशासनशब्दः । कार्यमर्थ प्रति शासनं प्रतिशासनम् । ʻशासु अनुशिष्टü । ल्युट् । यथा—आग्नीध्र द्रौहिणौ पुरोडाशौ अधिश्रयेत्यादि ॥ स संस्तावः—द्विजन्मनाम् । ऋतुषु अग्निष्टोमादियज्ञेषु द्विजन्मनाम् उद्गात्रादीनां स्तोत्रकरणार्थमुपविष्टानामधिकरणभूता सौमिकवेद्या उत्तरांससमीपस्था वा सदःशालायामौदुम्बर्यन्तरा वा या भूमिः स संस्ताव उच्यते । संस्तुवन्त्यत्र उद्गात्रादय इति संस्तावः । ʻष्टुञ् स्तुतü । ʻयज्ञे समि स्तुवḵ (३। ३। ३१) इत्यधिकरणे घञ् ॥ ३४ ॥
मल्लि-नाथः - AK.03.02.034
प्रेषणं—प्रतिशासनम् । समाहूय प्रेषणं प्रतिशासनं स्यात् ॥ संस्तावस्तु—द्विजन्मनाम । यज्ञेषु ब्राह्मणानामृक्पाठभूमिः संस्तावः स्यात् । क्वचिदर्थसंस्तावमपलभ्य स्थिता इति पाठक्रमेऽपि स्यात् ॥ ३४ ॥
मूलम् - ०३.०२.०३५
अक्।०३.०२.०३५अब् निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्घनः ।
अक्।०३.०२.०३५च्द् स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते ॥ ३५ ॥
लिङ्ग-सूरी - AK.03.02.035
निधायेति—उद्घन्यते तनूक्रियते तक्षणीयं काष्ठमत्रेत्युद्घनः । ʻहन हिंसागत्योḵ । तक्षणाश्रयदारुनाम ॥ स्तम्बो हन्यतेऽनेनेति स्तम्बघ्नः । स्तम्बघनश्च । स्तम्बो येन हन्यते तस्य नामनी ॥ ३५ ॥
निधाय—उद्घनः । तक्ष्यमाणकाष्ठस्याधारभूतं काष्ठमुद्घन इत्युच्यते । उद्घन्यते तक्षणीयकाष्ठमत्र तनूक्रियत इति उद्घनः । ʻउद्घनोऽत्याधानम् (३। ३। ८०) इति निपातनात् साधुः ॥ स्तम्बघ्नस्तु—निहन्यते । येन खनित्रादिना वीरुत्तृणादिस्तम्बः समूलं निहन्यते छिद्यते स स्तम्बघ्नः । ʻकरणे हनḵ इति पदद्वयस्यानुवृत्तौ ʻस्तम्बे क च्ö (३। ३। ८३) इति कप्रत्यये ʻगमहन ॥ । इत्यादिना (६। ४। ९८) उपधालोपे ʻहो हन्तेḵ (७। ३। ५४) इति कुत्वे च स्तम्बघ्नः । अत्र उपधालोपस्य स्थानिवद्भावो नास्ति । तथा च काशिकाकारः (पृ। ३४१)—ʻञ्णित्प्रत्ययो हन्तेर्विशेषणम् । नकारो हकारस्य । नकारे परतो हन्तेर्हकारस्य इति सन्निपातकृतमानन्तर्यमाश्रीयते । स्थानिवद्भावकृतं तु यदनानन्तर्यं तदविघातकं वचनसामर्थ्यात् इति । महाभाष्यकारस्तु (१। १। ५८, १५३)— ʻक्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसङ्ख्यानम् इति नपदान्तसूत्रस्थवार्त्तिकमाश्रित्य स्थानिवद्भावं परिजहार । सूत्रस्थचकारादप्प्रत्यये घनादेशे च स्तम्बघनः। यथा इषीकया स्तम्बो हन्यते । तत्र स्त्रीलिङ्गविषये कप्रत्ययस्य सर्वापवादत्वात् स्तम्बघ्नेति केचित् । ʻऊतियूतिजूतिसातिहेतिकीर्तयश्च्ö (३। ३। ९७) इति निपातनस्य सर्वापवादत्वात् स्तम्बहा इति भवितव्यमित्यपरे । सूत्रस्य चकारादप्प्रत्यये घ्नादेशे च स्तम्बघ्नः । स्त्रीत्वविवक्षायां तु—ʻअजभ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेन्ö (वा। ३। ३। १२६) इति वार्तिककारवचनाद् अप्प्रत्ययबाधकत्वेन प्रसक्तः स्त्रीप्रत्ययं बाधित्वा सक्तुधानी तिलपीडनी इतिवत् स्तम्बहननीति भवितव्यमिति । तदेतन्महाभाष्ये ʻस्तम्बे क च्ö (३। ३। ८३, पृ। १५१) इति सूत्रे स्पष्टमुक्तम् ॥३५ ॥
मल्लि-नाथः - AK.03.02.035
निधाय—उद्घनः । यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते स तक्ष्यमाणस्तरुः उद्घनः स्यात् । अनुक्तम्—ʻयत्र निक्षिप्य कूटेन हन्यते सा निघातिका’ । यत्र निक्षिप्यायसमुद्गरेण निहन्यते सा निघातिका स्यात् । ʻयिनुमुकोट्टिदागलि ॥ सतम्बघ्नस्तु—निहन्यते । शाल्यादिस्तम्बो येन निहन्यते छिद्यते तादृशो लवित्रादिः स्तम्बघ्नः स्तम्बघनश्च स्यात् । ʻबण्डिकाडवलि ॥ ३५ ॥
[[०३.२१०]]
मूलम् - ०३.०२.०३६
अक्।०३.०२.०३६अब् आविधो विध्यते येन तत्र विष्वक्समे निघः ।
अक्।०३.०२.०३६च्द् उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ३६ ॥
लिङ्ग-सूरी - AK.03.02.036
आविध इति—आ समन्ताद् विध्यतेऽनेनेति आविधः । ʻव्यध ताडने । सूच्यादिनाम ॥ नियतं हन्यते ताड्यत इति निघः । समन्तात् समस्य वेदिकादेर्नाम ॥ उत्कीर्यते धान्यमिति उत्कारः। निकीर्यत इति निकारः । ʻकॄ विक्षेपे । धान्योत्क्षेपणस्य नामनी ॥ ३६ ॥
आविधो विध्यते येन तत्र । येन सूच्यादिना मणिमुक्तादिकं विध्यते सरन्ध्रं क्रियते तत्र आविधशब्दः । आविध्यतेऽनेनेति आविधः । ʻव्यध ताडने । ʻघञर्थे कविधानम् स्थास्नापाव्यधिहनियुध्यर्थम् (वा। ३। ३। ५८) इति कप्रत्ययः । अत्र शेषकारः—
ʻआविधो मणिदार्वादेःसरन्ध्रीकृतिसाधनम् ।
पाषाणप्रेरकं यत्र चाविद्धं केचिदूचिरे ॥
इति ॥ विष्वक्समे निघः । समन्ततः समे तुल्यारोहपरिणाहे द्रव्ये निघशब्दः । यथा—निघाः वृक्षाः । निघाः शालयः । निघो धान्यराशिरित्यादि । नियतं हन्यते समन्ततः सम्यक्प्राप्त्यर्थं ताड्यत इति निघः । ʻनिघो निमितम् (३। ३.८७) इति निपातनाद् अप्प्रत्ययः, टिलोपः, घत्वं च ॥ उत्कारश्च—उत्क्षेपणार्थकौ । पलालतृणशेषापगमार्थं धान्यस्य शूर्पादिभिरूर्ध्वक्षेपणं राशीकरणं वा धान्योत्क्षेपणम्, तदभिधायकावित्यर्थः । ʻउन्न्योḵ इत्यनुवृत्तौ ʻकॄ धान्ये (३। ३। ३०) इति सूत्रेण ʻकॄ विक्षेपे इति धातोर्घञि उत्कारः, निकारश्च ॥ ३६ ॥
मल्लि-नाथः - AK.03.02.036
आविधो विध्यते येन तत्र । येन विध्यते स आविधः स्यात् ॥ विष्वक्समे निघः । निघ इति पाठ एव साधुः । सदृशारोहपरिणाहवान्निघः स्यात् । ʻवडिशलमुदलैनदि । अनुक्तम्—ʻस्नेहे तिलानां तैलं स्याद् अन्येषामन्यपूर्वकम् । तिलानां स्नेहः तैलं स्यात् । अन्येषां स्नेहः अन्यवाचकवद् एरण्डतैलमित्यादि । ʻअविसोढाविदूसाविमरीसानि पयस्यवेḵ । अवेः पयसि अविसोढादिशब्दत्रयं स्यात् ॥ उत्कारश्च—उत्क्षेपणार्थकौ । उत्कारनिकारशब्दौ द्वौ धान्यानामुत्क्षेपणार्थकौ स्याताम् ॥ ३६ ॥
[[०३.२११]]
मूलम् - ०३.०२.०३७
अक्।०३.०२.०३७अब् निगारोद्गारविक्षावोद्ग्राहा निगरणादिषु ।
अक्।०३.०२.०३७च्द् आरत्यवरतिविरतय उपरामेऽथास्त्रियां तु निष्ठेवः ॥ ३७ ॥
अक्।०३.०२.०३८अब् निष्ठ्यूतिर्निष्ठेवनं निष्ठीवनमित्यभिन्नानि ।
लिङ्ग-सूरी - AK.03.02.037
निगार इति—निगीर्यत इति निगारः । ʻगॄ निगरणे । निगरणस्य नाम ॥ उद्गीर्यत इत्युद्गारः । वमननाम ॥ विक्षूयत इति विक्षावः । ʻटुक्षु शब्दे । कासस्य नाम ॥ उद्गृह्यत इत्युद्ग्राहः । ʻग्रह उपादाने । उद्ग्रहणस्य नाम ॥ आरम्यत उपरम्यत इत्यारतिः । अवरतिः । विरतिः । उपरामश्च । ʻरमु क्रीडायाम् । कार्यादेर्निवृत्तिनामानि ॥ निष्ठीव्यत इति निष्ठीवः । निष्ठेवः । निष्ठ्यूतिः । निष्ठेवनम् । निष्ठीवनं च । ʻष्ठिवु निरसने । आस्यगतश्लेष्मादिनिरसनस्य नामानि ॥ ३७ ॥
निगार—तु गरणादिषु । निगारादयश्चत्वारः शब्दा यथाक्रमं निगरणोद्गिरणक्षवनोद्ग्रहणरूपेष्वर्थेषु वर्तन्त इत्यर्थः । तत्र निगारोऽभ्यवहरणम् । ʻगीर्णिर्गिरü इत्युक्तम् (श्लो। ११) । तथापि शब्दान्यत्वाद् उद्गारशब्दप्रसङ्गाच्च निगारोऽप्युच्यत इति न पौनरुक्त्यम् । उदानवायोः सशब्दमास्यमुखान्निर्गमनं वमनं वा उद्गारः । ʻउन्न्योर्ग्रḵ (३। ३। २९) इत्युभयत्रापि घञ् ॥ विक्षावः कासः । ʻटुक्षु शब्दे इति धातोः ʻवौ क्षुश्रुवḵ (३। ३। २५) इति घञ् ॥ कस्यचिदूर्ध्वीकृत्य ग्रहणम् उद्ग्राहः । यथा—ʻपदवीमुद्गृहीतालकान्ताḵ इति कालिदासः (मेघ। १। ८) । ʻउदि ग्रहḵ (३। ३। ३५) इति घञ् ॥ अथार्यावृत्तद्वयम् । आरति—उपरामे । निवृत्तिनामानि । ʻरमु क्रीडायाम् इति धातोः स्त्रियां क्तिनि (३। ३। ९४) ʻअनुदात्तोपदेश ॥ । इत्यादिना (६। ४। ३७) अनुनासिकलोपे च आरतिः, अवरतिः विरतिश्च । तस्मादेव धातोरुदात्तोपदेशाभावाद् ʻनोदात्तोपदेश ॥ । इत्यादिना (७। ३। ३४) वृद्धिप्रतिषेधो नास्ति । ʻयम उपरमे इति वृद्धिरहितत्वेन सत्यपि निर्देशे ʻअबाधकान्यपि निपातनानि इति वचनाद् वृद्धिबाधो नास्ति । किं तु उपरामशब्दोऽप्यस्ति अत एव ʻनोदात्तोपदेशस्य ॥ । (७। ३। ३४) इति सूत्रे काशिकाकारः (पृ। ३३५)—ʻयमु उपरमे इति निपातनाद् उपरमशब्दोऽप्यनुसर्तव्यः इति ॥ अथास्त्रियां—अभिन्नानि ।आस्यगतश्लेष्मादिनिरसनरूपार्थाभिधायकत्वेन चत्वारः शब्दा एकार्था इत्यर्थः । ʻष्ठिवु निरसने । ह्रस्वोपधाद् धातोर्भावे घञि (३। ३। १८) लघूपधगुणे च (७। ३। ८६) निष्ठेवः । ʻसुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यḵ (वा। १। ३। ५) इति वचनाद् धात्वादेः सत्वं न भवति । तु शब्दः पादपूरणार्थः इति सुबोधिनीकारः । सर्वानन्दस्तु (पृ। ७०) ʻवा स्त्रियाम् इति पठित्वा निष्ठेवशब्दो रूपभेदात् पुंलिङ्गः । विकल्पेन स्त्रीत्वविधानात् स्त्रियां टापि निष्ठेवेत्याह । सुभूतिचन्द्रस्तु तमेव पाठमाश्रित्य आकारप्रश्लेषेण व्याचष्ट । ʻअस्त्रियामित्यत्र नञ् सादृश्यार्थत्वाद् अस्त्रीशब्देन स्त्रीसदृशनपुंसकव्यक्त्यभिधानाद् निष्ठेवशब्दो विकल्पेन नपुंसकलिङ्गः, रूपभेदात् पुंलिङ्गश्च्ö इति ॥ तत एव धातोः क्तिनि ʻच्छ्वोः शूडनुनासिके च्ö (६। ४। १९) इत्यूठि निष्ठ्यूतिः । ʻष्ठिवुसिव्योर्ल्युटि वा दीर्घḵ (सर। कण्ठा। २। ४। १६७) इति ल्युटि विकल्पेन दीर्घे च निष्ठीवनम् । पक्षे लघूपधगुणे (७। ३। ८६) निष्ठेवनम् ॥ ३७ ॥
मल्लि-नाथः - AK.03.02.037
निगार—तु गरणादिषु । निगारादयः शब्दा गरणादिष्वर्थेषु स्युः । निगारो निगरणं भोजनम् । उद्गार उद्गरणं वमनम् । विक्षावो विक्षवणं ध्वनिः । ʻविक्षावस्तत्र लोकानां जामदग्न्यमिहाह्वयत् इति भट्टिः । उद्ग्राह उद्ग्रहणं च धाराणार्थं कलशादिकण्ठवद्धरज्जुनामनी ॥ आरति—उपरामे । विश्रान्तिनामानि ॥ अथास्त्रियां—अभिन्नानि । निष्ठीवननामानि । ʻक्राशिउमुयिट्ö ॥ ३७ ॥
[[०३.२१३]]
अक्।०३.०२.०३८च्द् जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः ॥ ३८ ॥
मूलम् - ०३.०२.०३९
अक्।०३.०२.०३९अब् उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे ।
अक्।०३.०२.०३९च्द् गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् ॥ ३९ ॥
लिङ्ग-सूरी - AK.03.02.038-39
जवन इति—जवतेऽनेनेति जवनम् । जूतिश्च । ʻजु गतü । वेगगतिनामनी ॥ सीयत इति सातिः । ʻषोऽन्तकर्मणि । अवसानस्य नाम ॥ ज्वर्यत इति ज्वरः। जूर्तिश्च । ʻज्वर रोगे । ज्वरस्य नामनी ॥ उदज्यते पशवोऽनेनेति उदजः । ʻअज गतिक्षेपणयोḵ । पशुप्रेरणस्य नाम ॥ अकरणिरित्यादयः शापे वर्तन्ते । न क्रियत इत्यकरणिः । आदिग्रहणाद् अजननिः, अवग्राहः, निग्राहः इत्यादयः शापे वर्तन्त । शापस्य नामानि ॥ गोत्रप्रत्ययान्तेभ्यः शब्देभ्यः तस्य समूह इत्यस्मिन्नर्थे औपगवकम् इत्यादयः शब्दा वर्तन्ते । उपगोरपत्यानि औपगवाः । तेषां समूह औपगवकम् । आदिग्रहणाद् गार्गकम् । दाक्षकमित्यादि ॥ ३८-९ ॥
जवने जूतिः । वेगगतेर्नामनी । जु इति सौत्रो धातुर्गत्यर्थः । ʻऊतियूतिजूतिसातिहेतिकीर्तयश्च्ö (३। ३। ९७) इति निपातनात् क्तिन्प्रत्ययो दीर्घश्च । ल्युटि जवनम् ॥ सातिस्त्ववसाने स्यात् । अवसानं क्रियायाः समाप्तिः । ʻषोऽन्तकर्मणि इति धातोः पूर्ववद् निपातनात् (३। ३। ९७) सातिशब्दः साधुः । अथ ज्वरो जूर्तिः । ज्वराख्यरोगविशेषस्य नामनी । ʻज्वर रोगे इति धातोर्घञि घटादित्वेन मित्त्वपरिभाषया (६। ४। ९२) वृद्ध्यभावे ज्वरः ॥ ʻस्त्रियां क्तिन् (३। ३। ९४) । ʻज्वरत्वर ॥ । इत्यादिना (६। ४। २०) वकारस्योपधायाश्च ऊडादेशे जूर्तिः ॥ उदजस्तु पशुप्रेरणम् । गवादिपशूनां प्रदेशान्तरं प्रति चालनमुदजः । ʻअज गतिक्षेपणयोḵ इत्यस्मात् ʻसमुदोरजः पशुष्ü (३। ३। ६९) इत्यप्प्रत्यये उदजः ॥ अकरणिरित्यादयः शापे । शाप आक्रोशः । ʻआक्रोशे नञ्यनिḵ इत्याक्रोशरूपार्थे गम्यमाने करोतेः अनिप्रत्ययः । अकरणिस्ते वृषल भूयात्, कृष्यादिकर्मणः फलं मा भूद् इत्यर्थः । ʻतस्याजननिरेवास्तु जननीक्लेशकारिणḵ इति माघकाव्ये (शिशु। २। ४५) । जन्मफलस्य पौरुषस्याभावे जन्मैव मा भूदित्यर्थः । तथा ʻआक्रोशेऽवन्योर्ग्रहḵ (३। ३। ४५) इत्याक्रोशरूपार्थे भावे घञि अवग्राहो निग्राहश्च । ʻअवग्राहोऽद्य वृषल ते भूयात्, निग्राहस्ते वृषल भूयात् इत्यादयः प्रयोगा अवसेयाः ॥ गोत्रान्तेभ्यः—आदिकम् । तस्य वृन्दम् इत्या वर्गपरिसमाप्तेरधिकारः । गोत्रमपत्यम् । गोत्रान्तेभ्यः ʻतस्यापत्यम् (४। १। ९२) इत्यादिना ये विहिता अणादिप्रत्ययाः तदन्तेभ्य औपगवगार्ग्यदाक्ष्यादिशब्देभ्यः ʻतस्य समूहḵ इत्यर्थे (४। २। ३७) औपगकम् । गार्गकम् । दाक्षकम् इत्यादीनि शब्दरूपाणि भवन्ति । ʻगोत्रोक्षोष्ट्रोरभ्र ॥ । इत्यादिना (४। २। ३९) वुञ्प्रत्ययः, अकादेशश्च (७। १। १) ॥ ३८-९ ॥
मल्लि-नाथः - AK.03.02.038-39
जवने जूतिः । वेगनामनी ॥ सातिस्त्ववसाने स्यात् । अवसाननामनी । ʻतिर्क्काणि ॥ अथ ज्वरे जूर्तिः । ज्वरनामनी ॥ उदजस्तु पशुप्रेरणम् । गवादीनां पश्चाच्चोदननामनी । ʻपसुलवन्नाडुट्ö ॥ अकरणिरित्यादयः शापे । आक्रोशेऽकरण्यादयः शब्दाः स्युः । अकरणिस्ते भूयात् । ʻआक्रोशे नञ्यनिḵ (३। ३। ११२) इति अनिप्रत्ययः । निग्राहस्ते भूयात् । अवग्राहस्ते भूयात् । ʻआक्रोशेऽवन्योर्ग्रहḵ (३। ३। ४५) इति घञ् ॥ अनुक्तम्—ʻविधिर्नियोगः सम्प्रेषḵ । नियोगनामानि ॥ ʻनिर्बन्धोऽभिनिवेशवत् । निर्बन्धनामनी ॥ ʻपरभागो गुणोत्कर्षḵ । गुणोत्कर्षनामनी ॥ ʻप्रभवन्ती प्रभाविता’ । प्रभावनामनी ॥ ʻअस्तुङ्कारोऽभ्युपगमḵ । अङ्गीकारनामनी ॥ ʻतत्परत्वं तु तत्परा’ । तात्पर्यनामनी ॥ ʻप्रणामः प्रणिपातः स्यात् । प्रणामनामनी ॥ ʻप्रश्रयोऽनुनयः समü । अनुनयनामनी ॥ ʻअभ्युत्थानं गौरवं स्यात् । गौरवनामनी ॥ ʻप्रतिपत्तिः प्रगल्भता’ । प्रागल्भ्यनामनी ॥ गोत्रान्तेभ्यः—आदिकम् । औपगवाद्यपत्यप्रत्ययान्तेभ्यः शब्देभ्यस्तस्य समूह इत्यर्थे औपगवकादिशब्दाः स्युः । औपगवकम् । कापटकम् । गार्गकम् इत्यादि ॥ ३८-९ ॥
[[०३.२१५]]
मूलम् - ०३.०२.०४०
अक्।०३.०२.०४०अब् आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ।
अक्।०३.०२.०४०च्द् माणवानां तु माणव्यं सहायानां सहायता ॥ ४० ॥
लिङ्ग-सूरी - AK.03.02.040
आपूपिकमिति—अपूपानां समूह आपूपिकम् । अपूपसमूहस्य नाम । शष्कुलीनां समूहः शाष्कुलिकम् । शष्कुलीसमूहस्य नाम । अचेतनानां पर्वतादीनामेवमादीनि समूहनामानि भवन्ति । माणवानां समूहो माणव्यम् । सहायानां समूहः सहायता ॥ ४० ॥
आपूपिकं—अचेतसाम् । अचेतसां चेतनरहितानां प्राणिव्यतिरिक्तानामिति यावत् । तेषामपूपादीनां समूहाः यथातथं ठक्प्रत्ययान्तैः शब्दैरुच्यन्ते । अपूपानां समूह आपूपिकम् । शष्कुलीनां समूहः शाष्कुलिकम् । आद्यशब्देन पर्वतानां समूहः पार्वतिकम् । इत्यादय उदाहर्तव्याः । अत्र सर्वत्र ʻअचित्तहस्तिधेनोष्ठक् (४। २। ४७) इति ठक्प्रत्ययः ॥ माणवानां तु माणव्यम् । माणवानां बालानां समूहो माणव्यम् । ʻब्राह्मणमाणवबाडवाद्यन् (४। २। ४२) इति यन्प्रत्ययः ॥ सहायानां सहायता । सहायानां साहाय्यकारिणां समूहः सहायता । ʻग्रामजनबन्धुसहायेभ्यस्तल् (४। २। ४३) ॥ ४० ॥
मल्लि-नाथः - AK.03.02.040
आपूपिकं—अचेतसाम् । अपूपाद्यचित्तानां समूह आपूपिकशाष्कुलिकादिशब्दाः स्युः । अपूपं भक्ष्यम् । ʻऔगुल्ü । तेषां समूह आपूपिकम् । शष्कुलिः कर्णाकारभक्ष्यम् । ʻचक्किलम्ü । तेषां समूहः शाष्कुलिकं स्यात् । लड्डुका भक्ष्यविशेषाः । तेषां समूहो लाड्डुकिकम् । केकुन्दा मोदकाः । ʻटण्टकुडमुल्ü । तेषां समूहः कैकुन्दिकम् ॥ माणवानां तु माणव्यम् । माणवकसमूहो माणव्यं स्यात् ॥ सहायानां सहायता । सहायसमूहः सहायता स्यात् । साहायकमपि ॥ ४० ॥
[[०३.२१६]]
मूलम् - ०३.०२.०४१
अक्।०३.०२.०४१अब् हल्या हलानां ब्राह्मण्यबाडव्ये तु द्विजन्मनाम् ।
अक्।०३.०२.०४१च्द् द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमिति क्रमात् ॥ ४१ ॥
लिङ्ग-सूरी - AK.03.02.041
हल्येति—हलानां समूहो हल्या । ब्राह्मणानां समूहो ब्राह्मण्यम् । बाडवानां विप्राणां समूहो बाडव्यम् । पर्शुकानां समूहः पार्श्वम् । पृष्ठानां समूहः पृष्ठ्यम् ॥ ४१ ॥
हल्या हलानाम् । हलानां सीराणां समूहो हल्या । ʻपाशादिभ्यो यḵ (४। २। ४९) इति यप्रत्ययः ॥ ब्राह्मण्य—द्विजन्मनाम् । ब्राह्मणपर्यायेषु बाडवशब्दोऽप्युक्तः । तेषां समूहो ब्राह्मण्यं बाडव्यं च । ʻब्राह्मणमाणवबाडवाद्यन् (४। २। ४२) इति यन् ॥ द्वे पर्शुकानां—अनुक्रमात् । ʻपार्श्वास्थनि तु पर्शुका’ इति प्रागुक्तम् (पृ। ४०६) । पर्शुरेव पर्शुका । स्वार्थे कप्रत्ययः पादपूरणार्थः । ʻअश्वपशुमनडुत्पर्शुं वा दत्तḵ इति प्रयोगदर्शनात् । पर्शूनां समूहः पार्श्वम् । ʻपर्श्वा णस् वक्तव्यḵ (वा। ४। २। ४२) इति णस्प्रत्ययः । अत्र ʻसिति च्ö (१। ४। १६) इति पर्शुशब्दस्य पसञ्ज्ञायाम् आकडारपरिभाषया (१। ४। १) भसञ्ज्ञानिमित्तगुणाभावेन यणादेशे पार्श्वम् ॥ अत्र पृष्ठशब्दो यज्ञसम्बन्धिस्तोत्रविशेषवचनः । न शरीरावयववचनः । तथा च रथ्न्तरबृहद्वैरूपवैराजशाक्वररैवतरूपाणि षट् पृष्ठानि, तेषां पृष्ठानां समूहः पृष्ठ्यम् । ʻपृष्ठादुपसङ्ख्यानम् (वा। ४। २। ४२) इति यन्प्रत्ययः ॥ ४१ ॥
मल्लि-नाथः - AK.03.02.041
हल्या हलानाम् । हलसमूहो हल्या स्यात् ॥ ब्राह्मण्य—द्विजन्मनाम् । द्विजसमूहो ब्राह्मण्यं बाडव्यं च स्यात् ॥ द्वे पर्शुकानां—अनुक्रमात् । पर्शूनां समूहः पार्श्वं स्यात् । पृष्ठानां समूहः पृष्ठ्यं स्यात् ॥ ४१ ॥
[[०३.२१७]]
मूलम् - ०३.०२.०४२
अक्।०३.०२.०४२अब् खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् ।
अक्।०३.०२.०४२च्द् ग्रामता जनता धूम्या पाश्या गल्या पृथक् पृथक् ॥ ४२ ॥
अपि साहस्रकारीषचार्मणाथर्वणादिकम् ।
इति सङ्कीर्णवर्गः ।
लिङ्ग-सूरी - AK.03.02.042
खलानामिति—खलानां समूहः खलिनी । खल्या च । मनुष्याणां समूहो मानुष्यकम् । ग्रामाणां समूहो ग्रामता । जनानां समूहो जनता । धूमानां समूहो धूम्या । पाशानां समूहः पाश्या । गलानां समूहो गल्या । सहस्राणां समूहः साहस्रम् । करीषाणां समूहः कारीपम् । चर्मणां समूहः चार्मणम् । वार्मणमिति पाठे वर्मणां कवचानां समूहः । अथर्वाणां समूहः आथर्वणम् । आदिशब्दाद् आङ्गारम् । पादातम् । दाक्षिणमित्यादि । एतानि क्रमात् तत्तत्समूहनामानि ॥ ४२ ॥
इति श्रीवङ्गलकामयभट्टोपाध्यायसूनुलिङ्गयसूरिरचितायाममरकोशपदविवृतौ सङ्कीर्णवर्गः
खलानां खलिनी खल्यापि । खलो धान्यकणिशशातनस्थानम् । तेषां समूह इत्यर्थे ʻखलगोरथात् (४। २। ५०) इति खलशब्दाद् यप्रत्यये खल्या । ʻइनित्रकट्यचश्च्ö (४। २। ५१) इति इनिप्रत्यये खलिनी ॥ अथ मानुष्यकं नृणाम् । नृणां मनुष्याणां समूह इत्यर्थे नृशब्दपर्यायभूताद् मनुष्यशब्दाद् ʻगोत्रोक्षोष्ट्र ॥ । इत्यादिना (४। २। ३९) वुञ्प्रत्यये मानुष्यकम् । ʻप्रकृत्याके राजन्यमनुष्ययुवानḵ (वा। ६। ४। १६३) इत प्रकृभावाद् ʻआपत्यस्य च तद्धितेऽनाति (६। ४। १५१) इति यलोपस्याभावः॥ ग्रामता—आथर्वणादिकम् । ग्रामादयः पञ्च शब्दाः सहस्रकरीषवर्माथर्वशब्दाश्चत्वार इत्येवं नवभ्यः शब्देभ्यः प्रत्येकं तेषां ग्रामादीनां समूहेऽर्थे विवक्षिते ग्रामताजनतादयो नव शब्दाः प्रत्येकं वर्तन्ते । ग्रामतादिशब्दानां पर्यायत्वं मा भूदिति पृथक्पृथगित्युक्तम् । ʻग्रामजनबन्धुसहायेभ्यस्तल् (४। २। ४३) इति समूहार्थे ग्रामता जनता च । पाशादित्वेन यप्रत्यये (४। २। ४९) धूम्यादयस्त्रयः शब्दाः । धूमानां समूहो धूम्या । पाशानां समूहः पाश्या । गलानां समूहो गल्या । पाशादौ पोटगल इति पठ्यते । तत्र पोटगलो बृहत्काश इति वृत्तिकारेण विवरणं कृतम् । ततश्च गल्येति शब्देन पोटगल्येति शब्द उपलक्षित इति केचित् । अपरे तु गणपाठे पोटशब्दो गलशब्दश्चेति शब्दद्वयं मत्वा गलानां कण्ठानां समूहो गल्येत्याहुः सहस्राणां समूहः साहस्रम् । करीषाणां शुष्कगोमयानां समूहः कारीषम् । वर्मणां कवचानां समूहो वार्मणम् । अथर्वनामा कश्चिद् ऋषिः । ʻतमथर्वान्वविन्दत् ʻअथर्वा त्वा प्रथमो निरमन्थत् (तै। सं। ४। १। ३। २) इति श्रुतौ दर्शनात् । तेन दृष्टो वेदभागोऽपि अभेदोपचाराद् अथर्वशब्देनोच्यते । तथा च स्मृतिः—ʻवेदाथर्वपुराणानि सेतिहासानि शक्तितḵ (याज्ञ। १। ५। १०१) इति ।ʻअथाथर्वनिधेस्तस्य्ö इति कालिदासश्च (रघु। १। ५९) । अथर्वणां समूह आथर्वणम् । अथवा अथर्वमन्त्राध्येतार अथर्वणाः तेषां समूह आथर्वणम् । सर्वत्र ʻभिक्षादिभ्योऽण् (४। २। ३८) इत्यण् । अन्ये त्वाहुः—अथर्वणा प्रोक्तम् आथर्वणम् । तदधीयत इत्याथर्वणिकाः । तेषां समूह आथर्वणम् । ʻआथर्वणिकस्येकलोपश्च्ö (४। ३। १३३) इत्यणि इकलोप इति ॥ आदिशब्देन अङ्गाराणां समूहः आङ्गारम् । चर्मणामजिनानां समूहश्चार्मणम् इत्यादीनि भिक्षादिगणपठितानि सर्वाण्यपि प्रातिपदिकानि अण्प्रत्ययान्तत्वेनोदाहर्तव्यानि । इह मूलग्रन्थकारेणापठिताः केचन शब्दाः शेषकारेण दर्शिताः । यथा—ʻपरभागो गुणोत्कर्षḵ । गुणातिशयनामनी । ʻप्रतिपत्तिः प्रगल्भता’ । दाढ्र्यस्य नामनी । ʻश्रन्थनं ग्रन्थनं गुम्फः सन्दर्भो रचना न ना’ । गद्यपद्यादिनिर्माणस्य नामानि । ʻप्रणिपातस्त्वनुनयः प्रणयः सान्त्वना न ना’ । सामवादस्य नामानि । ʻक्रीडा विनोदḵ । क्रीडाया नामनी । ʻखेदस्तु निर्वेदश्चावसन्नता’ । नैष्फल्यबुद्धेर्नामानि । ʻस्त्र्यङ्कपालिः परिष्वङ्गḵ । आलिङ्गनस्य नामनी । ʻविगानं वचनीयता’ । निन्दाया नामनी । ʻविवृतिः पञ्चिका टीका’ । व्याख्यानग्रन्थस्य नामानि । ʻकूतमाकूतमाशयḵ । अभिप्रायनामानि । ʻआभाणकः प्रवादः स्यदैतिह्यं लोकविश्रुतिḵ । अनिश्चितमूलस्य लोकप्रवादस्य नामानि ॥ ४२ ॥
बोम्मगण्ट्यप्पयाचार्यः पदवाक्यप्रमाणवित् ।
सङ्कीर्णवर्गं व्याचष्ट नामलिङ्गानुशासने ॥
इह यत्त्यक्तमज्ञानादालस्याद्यदुपेक्षितम् ।
प्रमादादन्यथोक्तं यद् विद्वद्भिस्तद्विशोध्यताम् ॥
श्लोकाः सङ्कीर्णवर्गे स्युर्द्विचत्वारिंशदीरिताः ।
इति सङ्कीर्णविवरणं समाप्तम् ।
मल्लि-नाथः - AK.03.02.042
खलानां खलिनी खल्यापि । खला दुर्जनाः । खला कुलटाः । ʻखलो नीचः खलेत्वरी इति वैजयन्ती (पृ। २३२, श्लो। २५) । तेषां तासां च समूहः खलिनी खल्या च स्यात् ॥ अथ मानुष्यकं नृणाम् । मनुष्यसमूहो मानुष्यकं स्यात् ॥ ग्रामता—पृथक् । ग्रामतादयो ग्रामादिसमूहवचनाः । गल्याशब्दः पोटगलसमूहवचनः । पाशादिषु गल इति पोटगलस्य सङ्घातविगृहीतस्य ग्रहणमिति गणकोशटीकाकारः ॥ अपि साहस्र—आथर्वणादिकम् । साहस्रं कारीषं वार्मणम् आथर्वणं भार्मणम् आङ्गारमित्येतानि सर्वाण्यपि तत्तत्समूहवचनानि ॥ ४२ ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचिते
अमरपदपारिजाते सङ्कीर्णवर्गः
[[०३.२२०]]