अथ सामान्यं तृतीयं काण्डमारभते—
मूलम् - ०३.०१.००१
(०३.०१.००१अब्) विशेष्यनिघ्नैः सङ्कीर्णैर्नानार्थैरव्ययैरपि ।
(०३.०१.००१च्द्) लिङ्गादिसङ्ग्रहैर्वर्गाः समान्ये वर्गसंश्रयाः ॥ १ ॥
लिङ्ग-सूरी - AK.03.01.001
विशेष्यनिघ्नैरिति—विशेष्यनिघ्नैर्विशिष्टैः सङ्कीर्णैरस्मिन् काण्डे काण्डान्तरे च प्रकीर्णैः नानार्थैरनेकार्थैः, अव्ययैरलिङ्गैः लिङ्गादिसङ्ग्रहैः स्त्रीलिङ्गादिलिङ्गसङ्ग्रहैर्वाक्यैः हेतुभूतैः शब्दैः सामान्ये तृतीयकाण्डे वर्गसंश्रयाः, नानार्थे कान्तखान्तादिवर्गः, अव्ययवर्गे नानार्थाव्ययवर्गः एकार्थतया अव्ययवर्गश्च, लिङ्गसङ्ग्रहवर्गे स्त्रीलिङ्गपुंलिङ्गादिवर्गः । एतान् वर्गान् संश्रयन्त इति वर्गसंश्रयाः । एवं पञ्च वर्गाः क्रमेणोच्यन्ते ॥ १ ॥
सर्वज्ञं सर्वगतं भजत सदा शैलजार्धसङ्कीर्णम् ।
नानार्थप्रदमव्ययमनेकलिङ्गैः प्रकाशितस्फूर्तिम् ॥
एवं काण्डद्वयेन तत्तल्लोकप्रतिनियतार्थानि नामान्यनुशिष्य सम्प्रति साधारणं काण्डान्तरमारभमाणः प्रेक्षावत्प्रवृत्तिसिद्धये वक्ष्यमाणं सङ्गृह्य दर्शयति विशेष्यनिघ्नैरिति ।
विशेष्यनिघ्नैः—वर्गसंश्रयाः । सकललोकसाधारणार्थनिरूपणादस्य काण्डस्य सामान्यत्वम् । तथाहि‒वक्ष्यमाणाः सुकृतिप्रभृतयः शब्दाः प्रागुक्तमनुष्यादिविशेषणतया साधारणाः, सङ्कीर्णवर्गीयाः कर्मादयस्तु नरसुरादिसाधारणा एव । नाकलोकादिशब्दाश्च तत्तदर्थवाचकत्वेन, आङादीन्यप्यव्ययानि तु प्रागुक्ताना‒मेवावध्यवधिमद्भावादिप्रतिपादकत्वेन, स्त्रियामीदूदादयस्तु तेषामेव पूर्वोक्तशब्दानां लिङ्गप्रतिपादकत्वेन‒इत्येवं द्रष्टव्यम् । तत्र गुणकर्मादिभिरवच्छेद्यं यद्वस्तु तद् विशेष्यम् । तल्लिङ्गवचनायत्ते लिङ्गवचने येषां पदानां तानि विशेष्यनिघ्नानि । इह सङ्कीर्णशब्देन यानि नामानि पूर्वस्मिन् काण्डद्वयेऽपि साक्षादसङ्गतानि नाप्यस्मिन् काण्डे विशेष्यनिघ्नत्वादितत्तदुपाधिवैधुर्येण प्रथमतृतीयादिवर्गेष्वसङ्गतानि विप्रकीर्णरूपाणि तान्युच्यन्ते । यानि पदान्यनेकार्थवाचकानि तानि नानार्थानि । यानि च लिङ्गविभक्तिहीनानि शब्दरूपाणि तान्यव्ययानि । यानि च प्रत्ययतदर्थाद्युपसङ्ग्राहकमुखेन शब्दानां लिङ्गसङ्ग्राहकवाक्यानि स्त्रियामीदूद् इत्यादीनि—आदिशब्देन लङ्काशेफालिकेत्यादीनि स्वरूपतो लिङ्गसङ्ग्राहकवाक्यानि गृह्यन्ते—तान्युभयानि लिङ्गादिसङ्ग्रहशब्देन उच्यन्ते । तैः पञ्चप्रकारभिन्नैः शब्दैः पञ्चवर्गा इह सामान्यकाण्डे उक्ताः । पूर्वकाण्डप्रथमश्लोकात् मण्डूकप्लुतिन्यायेन उदिता इति पदमनुषज्यते, वक्तुं समारव्धा इत्यर्थः ।
इहेदमनुसन्धेयम् । इह सामान्यकाण्डे श्रूयमाणसुपो लुप्तसुपश्चेति द्विविधाः शब्दाः प्रतिपादयिष्यन्ते । अत्र प्रस्तावादनन्तरम् आदौ सुबन्ता एव वक्तव्याः । ते च पर्यायरूपा नानार्थाश्चेति द्विप्रकाराः । काण्डद्वये पर्यायनिरूपणप्रस्तावाद् नानार्थेभ्यः प्राक् पर्याया एव वक्तव्याः । तत्रापि विशेष्यनिघ्नत्वरूपोपसङ्ग्राहकक्रोडीकृतत्वाद् विशेष्यनिघ्नपदानामतथाभूतेभ्यः प्रागुद्देशः कृतः । तदनन्तरं विप्रकीर्णार्थपर्यायजातस्य, अनन्तरं श्रूयमाणसुबन्तत्वसाधर्म्याद् नानार्थशब्दानामतथाभूतेम्योऽव्ययेभ्यः प्राङ्निरूपणम् । अनन्तरमव्ययानाम् । अनन्तरं सर्वशेषित्वात् लिङ्गसङ्ग्रहस्य इत्युद्देशक्रमनियमः । किम्भूता वर्गा वर्गसंश्रया अवान्तरवर्गाणामाश्रयभूताः । तथा हि—नानार्थवर्गे कान्तखान्तादयोऽपि बहवो वर्गाः । अव्ययवर्गे च नानार्थपर्यायभेदेन द्वौ वर्गौ । लिङ्गादिसङ्ग्रहे त्रिलिङ्गवर्गादयो बहवः । प्रथमद्वितीययोर्वर्गयोः अवान्तरवर्गसंश्रयत्वाभावेऽपि ʻबाहुल्येन व्यपदेशा भवन्ति इति न्यायेन तथात्वव्यपदेश उपपन्नः । सामान्यैः वर्गसङ्ग्रहः इति केचित् पठन्ति । तत्र प्रथमोद्दिष्टानां विशेष्यनिघ्नशब्दानां स्वरूपं तेषामौत्सर्गिकं लिङ्गमनुशास्ति ॥ १ ॥
मल्लि-नाथः - AK.03.01.001
अरालकुरलावलीवलदलीकपालीमिल-
त्कलातरलपालिकायमललाल्यमानाननाम् ।
वरालवरमोटिकानटनचातुरीवल्गित-
स्तनोपरिसरां परां नमत धेनुवागम्बिकाम् ॥
पुराणं करिणं देवं पुरारातितनूभवम् ।
वराकारमहं वन्दे सुराधिपनमस्कृतम् ॥
विशेष्य—संश्रयाः । सामान्ये साधारणकाण्डे विशेष्यनिघ्नादिभिः वर्गसंश्रयाः । वर्गाः क्रियन्त इति शेषः ॥ १ ॥
[[०३.००३]]
मूलम् - ०३.०१.००२
(०३.०१.००२अब्) स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः ।
(०३.०१.००२च्द्) गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २ ॥
लिङ्ग-सूरी - AK.03.01.002
स्त्रीति—अत्राद्यशब्देन कलत्रशब्दो गृह्यते । यादृशैः पदैः स्त्रीदाराद्यं यद् विशेष्यं प्रस्तुतं तेन गुणद्रव्यक्रियाशब्दस्तस्य तथा भेदकाः स्युः । विशेष्यं विशेषयितुमिष्टं, यादृशैः यद्रूपभेदादिभिः, प्रस्तुतमुपस्थितं वक्तुमिष्टम् । पदैः सुबन्तैः, गुणद्रव्यक्रियाशब्दाः प्रवीणदन्तिपाठकादिशब्दाः, तथा विशेष्यरूपधारिणः स्युः भवन्ति । तस्य विशेष्यस्य भेदका विशेषणानि । तात्पर्यार्थस्तु—यस्य विशेष्यस्य यानि विशेषणानि तानि तल्लिङ्गान्येव भवन्तीत्यर्थः ॥ २ ॥
स्त्रीदाराद्यैः—भेदकाः । इह स्त्रीशब्देन योषानदीबलाकादयः सर्वेऽपि स्त्रीलिङ्गशब्दाः विवक्षिताः । पुंलिङ्गेन दारशब्देन च वृक्षप्लक्षादयः पुंलिङ्गशब्दाः सर्वेऽपि सङ्गृहीताः । आद्यशब्देन च कलत्रमित्रादयो नपुंसकलिङ्गाः । तथा चायमर्थः—यादृशैः यादृग्रूपलिङ्गवचनविभक्तियुक्तैः स्त्रीदारकलत्रादिभिः सुबन्तशब्दैः यद्विशेष्यं कर्तृत्वकरणत्वाद्यर्थविशेषलिङ्गसङ्ख्यावच्छिन्नमर्थस्वरूपं भार्यादिकं प्रस्तुतमुपस्थापितं तस्य तादृशपदोपस्थापितस्य तथाभूतविशेष्यरूपार्थस्प भेदकाः गुणद्रव्यक्रियायोगोपाधिलक्षणस्वार्थद्वारेणावच्छेदकाः शब्दाः तथा स्युः । विशेष्यवाचकस्त्रीदारादिशब्दवल्लिङ्गसङ्ख्योपाधिकरूपविशेषभाजो भवन्तीत्यर्थः । लिङ्गसङ्ग्रहेऽपि वक्ष्यति—ʻगुणद्रव्यक्रियायोगोपाधयः परगामिनः’ (३। ५। ४४) इति । तत्र गुणयोगवचना यथा—सुकृतिनो दाराः । सुकृतिनी स्त्री । सुकृति कलत्रम् इत्यादि । द्रव्ययोगवचना यथा—धनी श्रीमान् इत्याद्याः । क्रियायोगवचनास्तु चलनं कम्पनं पाचकवाचकादयः । इह गुणद्रव्यक्रियाशब्दा इत्यनेन जातिसञ्ज्ञाव्यतिरिक्ताः शब्दा एवोक्ताः । तेनाभावविशिष्टवचना निर्धननिर्गुणकाणमूकादिशब्दाश्च लिङ्गत्रयेऽप्युदाहार्याः । इह ग्रन्थादौ प्रायशो रूपभेदेन (१। १। ३) लिङ्गनिर्णयः परिभाषितः । तथैवात्रापि वर्गे लिङ्गनिर्णयो भूयादिति दर्शयितुं स्त्रीदाराद्यैरित्यारब्धम् ।
केचित्तु स्त्रीदाराद्यं यद्विशेष्यम् इति प्रथमान्तं पठन्ति । तत्र स्त्रीदारादिकमर्थरूपं यादृशैः पदैः प्रस्तुतमिति व्याख्येयम् ॥ २ ॥
मल्लि-नाथः - AK.03.01.002
स्त्रीदाराद्यैः—भेदकाः । स्त्रीदाराद्येतादृशशब्दैः यद् यादृशं विशेष्यं प्रस्तुतं स्यात्, तस्य विशेष्यस्य गुणद्रव्यक्रियाशब्दाः तथैव विशेषकाः स्युः । सुकृतिनी स्त्री, सुकृतिनो दाराः, सुकृति कलत्रम् । भुक्तमोदनम् । भुक्त ओदनः । तुङ्गा गिरितटी । तुङ्गो गिरितटः । तुङ्गं गिरितटम् । प्रधानं ब्राह्मण इत्यादावाविष्टलिङ्गत्वाद् विशेष्याधीनलिङ्गता न भवति । अल्पं स हन्तीत्यादौ क्रियाविशेषणत्वान्नपुंसकत्वम् ॥ २ ॥
[[०३.००५]]
मूलम् - ०३.०१.००३
(०३.०१.००३अब्) सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः ।
(०३.०१.००३च्द्) हृदयालुः सुहृदयो महोत्साहो महोद्यमः ॥ ३ ॥
लिङ्ग-सूरी - AK.03.01.003
सुकृतीति—सुकृतमस्यास्तीति सुकृती । पुण्यमस्यास्तीति पुण्यवान् । धने धर्मे साधुः धन्यः । सुकृतिनामानि ॥ महती इच्छा अस्यास्तीति महेच्छः । महानाशयोऽभिलाषो यस्य सः महाशयः । अधीकेच्छावतो नामनी ॥ प्रशस्तं हृदयमस्यास्तीति हृदयालुः । प्रशस्तहृदयेन सह वर्तत इति सहृदयः । प्रशस्तमनसो नामनी ॥ महानुत्साहो यस्यते महोत्साहः । महानुद्यमो यस्यते महोद्यमः । दुःसाध्यकार्योद्योगवतो नामनी ॥ ३ ॥
इदानीं तथाविधानि पदान्यनुक्रामति—सुकृती—धन्यः । पुण्यशीलस्य नामानि । आद्यौ व्यक्तयोगौ । पुरुषार्थसाधनत्वाद् इह धनशब्देन पुण्यभिप्रेतम् । ʻतत्र साधुः’ (४। ४। ९८) इति यत्प्रत्यये धन्यः ॥ महेच्छस्तु महाशयः । पुरुषार्थकर्मारम्भणेच्छावतो नामनी ॥ हृदयालुः सहृदयः । स्वच्छान्तःकरणस्य नामनी । प्रशस्तं हृदयमस्येति हृदयालुः । ʻहृदयाच्चालुरन्यतरस्याम् (वा। ५। २। १२२) इति प्रशंसायामालुच् । हृदयेन सह वर्तत इति सहृदयः । ʻवोपसर्जनस्य्ö (६। ३। ८२) इति सहशब्दस्य सभावः ॥ महोत्साहो महोद्यमः । कृच्छ्रसाध्यार्थेऽपि उद्योगवतो नामनी । व्यक्तयोगे च ॥ ३ ॥
मल्लि-नाथः - AK.03.01.003
सुकृती—धन्यः । भाग्यवतो नामानि ॥ ʻक्षेमङ्करोऽरिष्टतातिः शिवतातिः शिवङ्करः (वैज। पृ। २०५, श्लो। ५५) । शुभङ्करस्य नामानि ॥ महेच्छस्तु महाशयः । अधिकाभिप्रायस्य पुंसो नामनी । ʻयनमैनयच्छगलवाण्डु’ ॥ अनुक्तम्—ʻउदीर्ण उद्बलोदारावुदात्तश्च महामनाः’ । उन्नतचित्तस्य नामानि ॥ हृदयालुः सुहृदयः । प्रशस्तहृदयनामनी ॥ महोत्साहो महोद्यमः । महद्भूतकार्यारम्भवतो नामनी ॥ ३ ॥
[[०३.००६]]
मूलम् - ०३.०१.००४
(०३.०१.००४अब्) प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ।
(०३.०१.००४च्द्) वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥
लिङ्ग-सूरी - AK.03.01.004
प्रवीण इति—प्रकृष्टा वीणास्यास्तीति प्रवीणः । निपुणति शुभकर्म करोतीति निपुणः । ʻपुण कर्मणि शुभे । अभितः सर्वतः सुवर्णादिपरीक्षां जानीतीति अभिज्ञः । विशेषेण जानीत इति विज्ञः । ʻज्ञा अवबोधने । निष्णाति नितरां कौशलं स्नाति प्रकटयतीति निष्णातः । ʻष्णा शौचे । शिक्षा सञ्जातास्येति शिक्षितः । विज्ञानं शिल्पबुद्धिः प्रयोजनमस्येति वैज्ञानिकः । कृतं संस्कृतं मुखं मुख्यकर्मानेनेति कृतमुखः । प्रशस्तं कृतमस्यास्तीति कृती । तीक्ष्णान् कुशान् लात्युपादत्ते प्रौढिम्नेति कुशलः । ʻला आदाने । प्रवीणनामानि ॥ ४ ॥
प्रवीणे—इत्यपि । प्रवीणादयो दश लौकिके वैदिके वा कर्मणि कृतबुद्धेर्नामानि । प्रकृष्टा वीणास्येति योगवशात् प्रवीणशब्दो यद्यपि वीणावादनशीले वर्तितुमर्हति, तथापि ʻरूढिर्योगमपहरति इति न्यायाद्, उद्गातृशब्दो यथा छन्दोगे महर्त्विजि वर्तते, न तु यस्मिन् कस्मिंश्चिद् उच्चैर्गातरि, तथा बुद्धिवैशद्यसाधर्म्यात् प्रवीणशब्दोऽपि निपुणपर्यायत्वेनानुशिष्ट इत्यवधेयम् । तदुक्तम्—
ʻनिरूढलक्षणाः काश्चित् सामर्थ्यादभिधानवत् ।
क्रियन्तेऽद्यतनैः काश्चित् काश्चिन्नैव त्वशक्तितः ॥
इति । नितरां पुणति स्वकृतं कर्म शुभं करोतीति निपुणः । ʻपुण शुभकर्मणि । इगुपधलक्षणार्थः कप्रत्ययः (३। १। १३५) । अभितः साकल्येन वस्तुतत्त्वं जानातीति अभिज्ञः । विज्ञश्च । नितरां कौशलं प्रकाशयन् स्नातीति निष्णातः । ʻष्णा शौचे । ʻनिनदीभ्यां स्नातेः कौशले (८। ३। ८९) इति षत्वम् । अत्रापि रूढ्या योगस्यापहारो द्रष्टव्यः । शिक्षा सञ्जातास्येति शिक्षितः । ʻतदस्य सञ्जातं ॥ । इति इतच् (५। २। ३६) । विज्ञानं शिल्पशास्त्रं प्रयोजनमस्येति वैज्ञानिकः । तदस्य ʻप्रयोजनम् (५। १। १०९) इति ठञ् । कलाभिर्विद्याभिः कृतं संस्कृतं मुखमस्येति कृतमुखः । कृतमनेनेति कृती । ʻइष्टादिभ्यश्च्ö (५। २। ८८) इति इनिप्रत्ययः । कुशान् लातीति कुशलः । ʻआतोऽनुपसर्गे कः’ (३। २। ३) । अत्रापि कण्टकप्रचुराणां कुशानां हस्तेनादानं कृतबुद्धिनैव कर्तुं शक्यत इति कुशलशब्दः प्रौढप्रज्ञे निरूढः । शूद्रवर्गे तु ʻदक्षे तु चतुरपेशल ॥। (२। १०। १९) इत्यादिना क्षिप्रकारिणो नामान्यक्तानि । इह तु कृतबुद्धेरिति नार्थपौनरुक्त्यम् ॥ ४ ॥
मल्लि-नाथः - AK.03.01.004
प्रवीणे—कुशल इत्यपि । कार्यज्ञनामानि । अनुक्तम्—ʻचतुरः कृतहस्तश्च कृतकर्मा नदीष्णवत् । एतानि चत्वारि च ॥ ४ ॥
[[०३.००८]]
मूलम् - ०३.०१.००५
(०३.०१.००५अब्) पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ।
(०३.०१.००५च्द्) दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ ५ ॥
लिङ्ग-सूरी - AK.03.01.005
पूज्य इति—पूजामर्हतीति पूज्यः । यावता कालेनागच्छति तावत् प्रतीक्षणीय इति प्रतीक्ष्यः । ʻईक्ष दर्शने । पूज्यस्य नामनी ॥ संशयं प्राप्तः सांशयिकः । संशयापन्नमानसस्य नाम ॥ पटुत्वादिना दक्षिणामर्हतीति दक्षिणीयः । दक्षिण्यश्च । दक्षिणार्हस्य नामनी ॥ ५ ॥
पूज्यः प्रतीक्ष्यः । गुर्वादेर्मान्यस्य नामनी । पूजामर्हति पूज्यः । विवाहमहोत्सवादिषु सन्निधानार्थं प्रतीक्षितुमर्हतीति प्रतीक्ष्यः । ʻअर्हे कृत्यतृचश्च्ö (३। ३। १६९) इति यत् । ʻभक्तिः प्रतीक्ष्येषु कुलोचिता ते इति रघुवंशे प्रयोगः (५। १४)।
सांशयिकः—मानसः । संशयमापन्नं सन्देहयुक्तमित्यर्थः । तथाभूतं मनो यस्मिन् ग्राह्ये स्थाण्वादिविषये स विषयः सांशयिकः । ʻसंशयमापन्नः’ (५। १। ७३) इति ठञ्प्रत्ययः । अत्र न्यासकारः—ʻद्वितीयाप्रकरणे पुनर्द्वितीयोच्चारणमिष्टविषये यथा स्यादित्येवमर्थम् । तेन यद्यपि द्वे कर्तृकर्मणी संशयमापन्ने तथापि यद्विषये संशय उत्पद्यते तत्रैव कर्मणि स्थाण्वादिके प्रत्ययो भवति । न तु संशयस्य कर्तरि पुरुषे इति । अनभ्यासदशायां सांशयिकत्वादिति संशयकर्मण्येव उदयनाचार्यस्य प्रयोगः । ʻसंशयकर्तुरिदं नाम्ö इति सुभूतिचन्द्रः । अनुष्टुप्च्छन्दोमध्ये ʻपूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः’ इति नवाक्षरपादः प्रमादात् पठितः । मिश्रवृत्तप्रभेदेन वा समाधेयः ॥
दक्षिणीयो—इत्यपि । यागादौ ऋत्विगादीनामानतिद्वारा कर्मसाद्गुण्यार्थं तेभ्यो दीयमानं गोहिरण्यादिकं दक्षिणा, तां योऽर्हति तस्य ते नामनी । तदर्हतीत्यर्थे ʻकडङ्गरदक्षिणाच्छ च्ö (५। १। ६९) इति छप्रत्यये दक्षिणीयः । चकाराद् यत्प्रत्यये दक्षिण्यः ॥ ५ ॥ </Amarapadavivarana
मल्लि-नाथः - AK.03.01.005
पूज्यः प्रतीक्ष्यः । पूजयितुमर्हः प्रतीक्ष्यः स्यात् । ʻप्रतिपाल्यः प्रतीक्ष्यः स्यात् । ʻप्रतीक्ष्यौ प्रतिपाल्यार्च्यौ’ इति वैजयन्ती (पृ। २५५, श्लो। १७) । सांशयिकः—मानसः । संशयापन्नं मानसं यस्येति संशयकर्ता सांशयिकः स्यात् । ʻजनमाकलय्य भुवि सांशयिकम् इति प्रयोगात् संशयविषये प्रत्ययविधिरिति वृत्तिकारादयः । सांशयिकः स्थाणुः ॥ दक्षिणीयो—इत्यपि । दक्षिणदेयभेदे (?) स्त्रीति व्याडिः । दक्षिणाया अर्हो नरः दक्षिणीयो दक्षिण्यश्च स्यात् ॥ ५ ॥
[[०३.००९]]
मूलम् - ०३.०१.००६
(०३.०१.००६अब्) स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ।
(०३.०१.००६च्द्) जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥
लिङ्ग-सूरी - AK.03.01.006
स्युरिति—मदीयं धनमिदमर्थिभ्यो दीयतामिति वदतीति वदान्यः । अर्थिभ्यो दातुं स्थूलं बहुलं लक्षयतीति स्थूललक्षः । ʻलक्ष दर्शनाङ्कनयोः’ । स्थूललक्ष्य इति वा पाठः । दाने शौण्डः सक्त इति दानशौण्डः । बहु प्रददातीति बहुप्रदः । ʻडुदाञ् दाने । बहुप्रदस्य नामानि ॥ चिरकालं जीवतीति जैवातृकः । ʻजीव प्राणधारणे । दीर्घमायुरस्यास्तीति आयुष्मान् । दीर्घायुषो नामनी ॥ अस्य शास्त्ररूपा वाणी शिष्याणाम् अन्तश्चित्ते वर्तत इति अन्तर्वाणिः । शास्त्रं वेत्तीति शास्त्रवित् । शास्त्रज्ञस्य नामनी ॥ ६ ॥
स्युः—बहुप्रदे । प्रभूतद्रव्यवितरणशीलस्य नामानि । अर्थिभ्यः प्रार्थितं दीयतामिति यो वदति स वदान्यः । ʻवदेरान्यः’ (उ। ३। १०४) इति आन्यप्रत्ययः । स्थूलं बहुलं देयत्वेन लक्षयतीति स्थूललक्षः । ʻशुण्डा पानभूमिः’ इति द्वितीयकाण्डे (२। १०। ४०) अभिहितम् । शाश्वतकोशे तु ʻशुण्डा कादम्बरी मता’ (पृ। ३०, श्लो। ३४५) इत्युक्तम् । शुण्डायां भवः शौण्डः, तत्रैवासक्त इत्यर्थः । इह तु शौण्डशब्देन सामान्यतः प्रसक्तिमात्रं लक्ष्यते । दाने शौण्डः, दानप्रसक्त इत्यर्थः । ʻसप्तमी शौण्डैः’ (२। १। ४०) इति समासः ॥ जैवातृकः—आयुष्मान् । चिरजीविनो नामनी । चिरकालं जीवतीति जैवातृकः । ʻजीव प्राणधारणे । ʻजीवेरातृकन् वृद्धिश्च्ö (उ। १। ८३) इति आतृकन् प्रत्ययः, धातोर्वृद्धिश्च । दीर्घमायुरस्यास्तीति आयुष्मान् ॥ अन्तर्वाणिस्तु शास्त्रवित् । अन्तः सभामध्ये प्रसरन्ती वाणी वागस्येति अन्तर्वाणिः । समासान्तस्यानित्यत्वात्, ʻनद्यृतश्च्ö (५। ४। १५३) इति कप् न भवति । ʻगोस्त्रियोरुपसर्जनस्य्ö (१। २। ४८) इति ह्रस्वत्वम् । द्वितीयो व्यक्तयोगः । अभ्यस्तशास्त्रस्य नामनी ॥ ६ ॥
मल्लि-नाथः - AK.03.01.006
स्युः—बहुप्रदे । बहुप्रदनामानि । स्थूललक्षशब्दो वहुव्ययेऽपि स्यात् । ʻस्थूललक्षो बहुव्ययी इति हलायुधः (अ। मा। २। २१०) । जैवातृकः—आयुष्मान् । दीर्घायुष्मान् जैवातृकः स्यात् ॥ अन्तर्वाणिस्तु शास्त्रवित् । शास्त्रज्ञो ऽन्तर्वाणिः स्यात् । ʻशास्त्रार्थविदन्तर्वाणिः’ इति वैजयन्तीकारः (पृ। २०३, श्लो। ३१) । अनुक्तम्—ʻव्युत्पन्नः प्रहितः क्षुण्णः संस्कृतश्च समार्थङ्काः’ । व्युत्पन्ननामानि ॥ ६ ॥
[[०३.०११]]
मूलम् - ०३.०१.००७
(०३.०१.००७अब्) परीक्षकः कारणिको वरदस्तु समर्धकः ।
(०३.०१.००७च्द्) हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ७ ॥
लिङ्ग-सूरी - AK.03.01.007
परीक्षक इति—ब्राह्मणादीन् परीक्षते परीक्षकः । ʻईक्ष दर्शने । परीक्षाकारणं प्रयोजनमस्येति कारणिकः । यो दाने पात्रज्ञानार्थं ब्राह्मणादीन् परीक्षते तस्य नामनी ॥ वरं श्रेष्ठं भागं पुत्रेभ्यो ददातीति वरदः । ʻडुदाञ् दाने । समृध्नोति श्रेष्ठभागेन समर्धकः । ʻऋधु वृद्धौ’ । श्रेष्ठभागदस्य पित्रादेर्नामनी ॥ हृष्यति सुखमनुभवतीति हर्षमाणः । ʻहृष तुष्टौ’ । विकरोति हर्षावेशात् शरीरं विकारयतीति विकुर्वाणः । प्रकृष्टं मनोऽस्येति प्रमनाः । हृष्टं मानसं यस्येति हृष्टमानसः । तुष्टचित्तस्य नामानि ॥ ७ ॥
परीक्षकः कारणिकः । जिज्ञासितमर्थं प्रमाणमुखेन परीक्षते निर्धारयति स परीक्षकः । तत्त्वनिर्णये कारणानि हेतून् वेत्तीति कारणिकः । ठक् । अथवा हानोपादनहेतवो विषयगता दोषाश्च कारणानि, तैर्व्यवहरतीति कारणिकः । अथ सन्देहे निर्णयार्थं राजाधिकृतस्य नामनी ॥ वरदस्तु समर्धकः । वरं वाञ्छितं पश्पुत्रादिकं ददातीति वरदः । ʻआतोऽनुपसर्गे कः’ (३। २। ३) । सम्यगर्धयति याचमानं वाञ्छितेन योजयतीति समर्धकः । ʻऋधु वृद्धौ’ । ण्वुल् (३। १। १३३) । इष्टार्थदायकस्य देवतादेर्नामनी ॥ हर्षमाणो—हृष्टमानसः । हृष्यति ताच्छील्येनेति हर्षमाणः । ʻहृष तुष्टौ’ । ʻताच्छील्यवयोवचनशक्तिषु चानश् (३। २। १२९) । विकरोति पूर्वावस्थातो विकृतो भवतीति विकुर्वाणः । पूर्ववच्चानश् । अथवा ʻअकर्मकाच्च्ö (१। ३। ३५) इत्यात्मनेपदे शानच् । प्रमुदितं मनो यस्य प्रमनाः । हृष्टान्तःकरणस्य नामानि ॥ ७ ॥
मल्लि-नाथः - AK.03.01.007
परीक्षकः कारणिकः । परीक्षकनामनी ॥ वरदस्तु समर्धकः । तवर्गतृतीयमध्यः । वरप्रदनामनि ॥ हर्षमाणो—चेतनः । हृष्टचित्तनामानि ॥ ७ ॥
[[०३.०१२]]
मूलम् - ०३.०१.००८
अक्।०३.०१.००८अब् दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ।
अक्।०३.०१.००८च्द् दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ८ ॥
लिङ्ग-सूरी - AK.03.01.008
दुर्मना इति—दुष्टं मनो यस्येति दुर्मनाः । विरुद्धं मनो यस्येति विमनाः । अन्तर्लीनं मनो यस्येति अन्तर्मनाः । महाखेदाद् दुष्टचित्तस्य नामानि ॥ उद्गतं मनो यस्येति उत्कः । उन्मनाश्च । सोत्कण्ठस्य नामनी ॥ दक्षते परकार्यं शीघ्रं करोतीति दक्षिणः । ʻदक्ष वृद्धौ शीघ्रार्थे च्ö । सरति परेच्छामनुसरतीति सरलः । ʻसृ गतौ’ । उदियर्ति परकार्यं कर्तुमेतीति उदारः । ʻऋ गतौ’ । परेच्छानुसारिणो नामनी ॥ शोभना कलास्येति सुकलः । त्यागभोगकलासु कुशलस्य नाम ॥ ८ ॥
दुर्मनाः—स्यात् । दुरवस्थमनस्कत्वेन दुर्मनाः । विमुखं मनो यस्येति विमनाः । अन्तरेव लीनं मनो यस्येति अन्तर्मनाः । शोकरोषादिना वैमनस्ययुक्तस्य नामानि ॥ उत्क उन्मनाः । प्रियदर्शनार्थमुद्गतं मनो यस्येति उत्कः । ʻउत्क उन्मनाः’ इति सूत्रे (५। २। ८०) उच्छब्दाद् स्वार्थे कन् प्रत्यय इति काशिकाकारः । उत्कण्ठासहितस्य नामनी ॥ दक्षिणे सरलोदारौ । दक्षिणे दाक्षिण्यवति परेच्छानुवर्तनशीले शब्दद्वयं स्यात् । दक्षते शीघ्रं करोतीति दक्षिणः । दक्षतेः शीघ्रार्थे औणादिक इनन् प्रत्ययः (उ। २। ५२) । सरति परेच्छामनुसरतीति सरलः । ʻसृ गतौ’ । अलच् प्रत्ययः (उ। १। १११) । उदियर्ति परकीयप्रयोजनेषु इत्युदारः । ʻऋ गतिप्रापणयोः’ । घञ् ॥ सुकलो—भोक्तरि । त्यागभोगशीलयुक्तस्य नाम । शोभना कला त्यागभोगयोर्यस्येति सुकलः ॥ ८ ॥
मल्लि-नाथः - AK.03.01.008
दुर्मनाः—स्यात् । दुष्टचित्तनामानि । उत्क उन्मनाः । उत्कण्ठितचित्तनामनी ॥ अनुक्तम्—ʻवैहासिकः केलिकीलः’ । वैहासिकपुमान् केलिकीलः स्यात् । ʻनविञ्चेवाण्डु’ । दक्षिणे सरलोदारौ । दक्षिणनायकनामानि । ʻजाणैनवाण्डु’ । ʻअग्राम्ये सरलोदारविदग्धच्छेकदक्षिणाः’ इति वैजयन्ती (पृ। २०२, श्लो। २०) । सुकलो—भोक्तरि । दाता भोक्ता च यः स सुकलःस्यात् ॥ ८ ॥
[[०३.०१३]]
मूलम् - ०३.०१.००९
अक्।०३.०१.००९अब् तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः ।
अक्।०३.०१.००९च्द् प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥
लिङ्ग-सूरी - AK.03.01.009
तत्पर इति—तस्याभिमतवस्तुनः परोऽधीनः तत्परः । प्रसिनोति अभिमतविषये चित्तमिति प्रसितः । ʻषिञ् बन्धने । इष्टवस्तुनि आसजति सङ्गच्छत इति आसक्तः । ʻषञ्ज सङ्गे । अभिमतविषयतत्परस्य नामनी ॥ अतिशयेनोद्योगोऽस्त्यस्येति उत्सुकः । इष्टार्थे उद्युक्तस्य नाम ॥ स्वजनं प्रत्येतीति प्रतीतः । ʻइण् गतौ’ । प्रथत इति प्रथितः । ʻप्रथ प्रख्याने । ख्यायत इति ख्यातः । विद्यते ज्ञायत इति वित्तः ʻविद ज्ञाने । विशेषेण ज्ञायत इति विज्ञातः । ʻज्ञा अवबोधने । विशेषेण श्रूयत इति विश्रुतः । ʻश्रु श्रवणे । प्रसिद्धस्य नामानि ॥ ९ ॥
तत्परे—आसक्तौ । यदभिमतं तत्रैव वस्तुनि पर एकाग्रचित्तः तत्परः । तस्य नामनी । अभिमतवस्तुनि प्रकर्षेण चित्तं सिनोति बध्नातीति प्रसितः । ʻषिञ् बन्धने । अभिमतविषये सितो बद्ध इति वा । आसजति क्वचिदतिशयेन सक्तो भवतीत्यासक्तः । ʻषञ्ज सङ्गे । कर्तरि क्तः (३। ४। ७२) ॥ इष्टार्थ—उत्सुकः । अभिमतवस्तुन्युद्योगयुक्तः इष्टार्थोद्युक्तः । उच्छब्द उद्योगार्थः । सुशब्दोऽतिशयार्थः । कशब्दः सुखवचनः । उद्योगेनातिशयितं सुखमस्येति उत्सुकः । भोजराजस्तु—
ʻउदित्युद्योगमाचष्टे स्वित्याधिक्यमभीप्सिते ।
तदस्यास्तीति मत्वर्थे कनि स्यादुतुसुको मतः ॥
इति । स्वेप्सितमर्थं प्राप्तुमयं प्रचलितावस्थ इति पूर्वस्मादस्य भेदः ॥ प्रतीते—विश्रुताः । गुणेन दोषेण वा येन केनचित् प्रसिद्धस्य नामानि । यथा प्रथितपराक्रमः । प्रख्यातपातकः । विश्रुतचरितः इत्यादि । ʻइण् गतौ’ इति धातोर्निष्ठायाम् इत इति रूपम् । प्रतीत्युपसर्गस्य व्याप्तिरर्थः । गत्यर्थानां ज्ञानार्थत्वात् प्रतिपुरुषम् इतः ज्ञातः प्रतीतः । प्रथते प्रसिद्धो भवतीति प्रथितः । ʻप्रथ प्रख्याने । क्तः (३। ४। ७२) । ख्यायते सर्वैरिति ख्यातः । ʻख्या प्रकथने । क्तः (३। २। १०२) । विद्यते ज्ञायत इति वित्तः । ʻविद ज्ञाने । क्तप्रत्ययः (३। २। १०२) । ʻवित्तो भोगप्रत्यययोः’ (८। २। ५८) इति निपातनसूत्रे काशिकाकारेण (२, पृ। ४१०) ʻवित्तोऽयं मनुष्यः’ इत्युदाहृत्य प्रतीत इति व्याख्यातम् । न्यासकारेणापि (भाग २, पृ। १००१) ʻप्रतीतो ज्ञात इत्यर्थः’ इति विवृतम् । अतश्च ʻविद ज्ञाने इति धातोर्वित्त इति निपातित इति ज्ञायते । विदेर्लाभार्थाद् वित्त इति निष्ठानत्वाभावो निपातित इति सर्वानन्दः (४। पृ। ५) । ʻनुदविदोन्दत्रा॥ । इत्यादिसूत्रे (८। २। ५६) वार्त्तिककारोऽप्याह—
ʻवेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते ।
वित्तेर्विन्नश्च वित्तश्च भोगे विन्नश्च विन्दतेः ॥
इति (काशिका २, पृ। ४१०) । विशेषेण ज्ञायते विज्ञातः । विशेषेण श्रूयते विश्रुतः ॥ ९ ॥
मल्लि-नाथः - AK.03.01.009
तत्परे—आसक्तौ । आसक्तनामानि ॥ इष्टार्थ—उत्सुकः । इष्टार्थे उद्युक्तः उत्सुकः स्यात् ॥ प्रतीते—विश्रुताः । प्रसिद्धनामानि ॥ ९ ॥
[[०३.०१५]]
मूलम् - ०३.०१.०१०
अक्।०३.०१.०१०अब् गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ ।
अक्।०३.०१.०१०च्द् इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥
अक्।०३.०१.०११अब् अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः ।
लिङ्ग-सूरी - AK.03.01.010
गुणैरिति—कृताः सत्कृता लक्षणरूपा गुणा यस्य स कृतलक्षणः । आहतास्ताडिता उद्घोषिता लक्षणरूपा गुणा यस्य सः आहतलक्षणः । प्रख्यातस्य नामनी ॥ इभवन्नीराजनादिपूजामर्हतीति इभ्यः । आध्यायन्ति तदुपजीविन एनं स्मरन्तीति आढ्यः । ʻध्यै चिन्तायाम् । धनमस्यास्तीति धनी । धनिनो नामानि ॥ स्वमैश्वर्यमस्यास्तीति स्वामी । ईष्ट इतीश्वरः । ईशिता च । ʻईश ऐश्वर्ये । पाति सेवकानिति पतिः । ʻपा रक्षणे । अधि सेवकानामुपरि भवतीत्यधिभूः । नयति स्वकेवकान् नियुङ्क्त इति नायकः । नेता च । ʻणीञ् प्रापणे । प्रभवति समर्थो भवतीति प्रभुः । ʻभू सत्तायाम् । परिबृंहति सेवकान् पोषयतीति परिवृढः । ʻबृहि वृद्धौ’ । अधिकं पातीत्यधिपः । स्वामिनो नामानि ॥१० ॥
गुणैः—लक्षणौ । त्यागशौर्यादिगुणैः प्रसिद्धस्य नामनी । कृतं मुहुरभ्यस्तं लक्षणं नामास्येति कृतलक्षणः । ʻगुणिताहते (श्लो। ८९) इत्यत्रैव वर्गे वक्ष्यति । आहता गुणिता असकृदुच्चारिता इत्यर्थः । लक्षणशब्देन च व्यावृत्तिजनकतया शौर्यधैर्यादयो गुणा उक्ताः । आहितानि लक्षणान्यस्येति आहितलक्षण इति सम्प्रदायविदः । अन्ये त्वन्यथा व्याचक्रुः । आहितं निहितं जनमुखे स्थापितं लक्षणं गुणजातमस्येत्याहितलक्षण इति । अत्र गुणैरिति पदस्यात्यन्तव्यवहितपूर्वार्धगतप्रतीतिपदेन (श्लो। ९) सम्बन्धे कारणाभावादव्यवहितानन्तरपठितप्रतीतपदेनाकाङिक्षितार्थप्रतिपादकत्वाद् गुणप्रतीतिपदयोरुभयोरपि एकपदप्रायत्वेन ʻत्वन्ताथादि न पूर्वभाक् (१। १। ५) इति परिभाषया विरोधाभावो निर्वोढव्यः । ʻइक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् इति रघुवंशे प्रयोगः (६। ७१) ॥ इभ्यः—धनी । बहुधनस्य नामानि । इभं गजमर्हतीति इभ्यः । ʻदण्डादिभ्यो यत् (५। १। ६६) इति यत्प्रत्ययः । आध्यायन्त्येनं सेवका इत्याढ्यः । ʻध्यै चिन्तायाम् । पृषोदरादिः । अन्यो व्यक्तयोगः ॥ स्वामी—अधिपः । जीवनप्रदानादिना रक्षकस्य नामानि । स्वमैश्वर्यं प्राधान्यमस्येति स्वामी । ʻस्वामिन्नैश्वर्ये (५। २। १२६) इति स्वशब्दाद् ऐश्वर्यवचनाद् मत्वर्थे आमिन्प्रत्ययो निपातितः । ईष्टे ताच्छील्येन ईश्वरः । ʻईश ऐश्वर्ये । ʻस्थेशभासपिसकसो वरच् (३। २। १७५) इति वरच् । स्त्रियां टापि ईश्वरा । ʻविन्यस्तमङ्गलमहौषधिरीश्वरायाः’ इति भारविप्रयोगः (किरा। ५। ३३) । सर्वानन्दस्त्वाह—ʻ अश्नोतेराशुकर्मणि वरट् च्ö (उ। ५। ५८) इति वरट् प्रत्ययः । धातोरादेरकारस्य च ईकारादेशः’ (टी। स। ४, पृ। ५) । तन्मते स्त्रियां टित्वेन ङीपि ईश्वरी । ʻईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् इति प्रयोगः (तै। आ। १०। १। १०) ॥ पाति स्वानुजीविन इति पतिः । ʻपातेर्डतिः’ (उ। ४। ५८) इति डतिप्रत्ययः । स्त्रिलिङ्गे शुचिशब्दवत्, नपुंसके वारिशब्दवद् रूपमुन्नेयम् । ʻईश ऐश्वर्ये इत्यस्मादेव ताच्छील्यार्थे तृन् प्रत्यये (३। २। १३५) ईशिता ॥ अधि स्वानुजीविनामुपरि भवतीति अधिभूः । भवतेः क्विप् (३। २। १७९) ॥ नयति स्वजनं प्रापयतीति नायकः । ʻणीञ् प्रापणे । ण्वुल् (३। १। १३३) ॥ तृच् प्रत्यये नेता ॥ इतरापेक्षया प्रकर्षेण भवतीति प्रभुः ʻविप्रसम्भ्यो ड्वसञ्ज्ञायाम् (३। २। १८०) इति भवतेर्डुप्रत्ययः । डित्त्वेन टिलोपः ॥ परिबृंहति वर्धत इति परिवृढः । ʻबृहि वृद्धौ’ । ʻप्रभौ परिवृढः’ (७। २। २१) इति क्तप्रत्ययः, इडागमाभावः प्रत्ययतकारस्य ढत्वं च, नकारहकारयोर्लोपश्च निपात्यते ॥ अधि पातीत्यधिपः । कप्रत्ययः (३। १। १३६) ॥ १० ॥
मल्लि-नाथः - AK.03.01.010
गुणैः—लक्षणौ । गुणप्रसिद्धनामनी ॥ इभ्यः—धनी । धनिनामानि । ʻअर्थवानस्तिमानपि । एते द्वे च । स्वामी—अधिपः । प्रभुनामानि ॥ १० ॥
[[०३.०१७]]
अक्।०३.०१.०११च्द् अधिकर्धिः समृद्धः स्यात् कुटुम्बव्यापृतस्तु यः ॥ ११ ॥
मूलम् - ०३.०१.०१२
अक्।०३.०१.०१२अब् स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ।
लिङ्ग-सूरी - AK.03.01.011
अधिकर्धिरिति—अधिका ऋद्धिर्यस्येति अधिकर्धिः । सम्यग् ऋद्धं यस्येति समृद्धः । समृद्धिरिति पाठे सम्पूर्णा ऋर्द्धिर्यस्येति समृद्धिः । अधिकसम्पन्ननामनी ॥ अभि अभित आगारे भवः वर्तमानः अभ्यागारिकः । अस्य उप समीपे रक्षणाय कुटुम्बं निधीयत इत्युपाधिः । कलात्रादिपोषणे व्यापारवतो नामनी ॥ ११ ॥
अधिकर्धिः—स्यात् । अतिशयेन धनधान्यसमृद्धस्य नामनी । ʻऋधु वृद्धौ’ इत्यस्मात् सम्पूर्वान्निष्ठायां (३। ४। ७२) समृद्धः । कुटुम्ब—पुमानयम् । अत्र कुटुम्बशब्देन पुत्रकलत्रादिवर्ग उच्यते । तत्र व्यापृतः पोषणादिव्यग्रः, तस्यैते नामनी । अत्र अगारशब्दः कुटुम्बोपलक्षकः । अगारं भक्तिसेव्यमस्येति आगारिकः । भक्तिरित्यनुवृत्तौ ʻअचित्ताददेशकालाट्ठक् (४। ३। ९६) इति ठक् । अभ्यधिक आगारिकः अभ्यागारिकः ॥ उपेत्युगसर्गः समीपवचनः । सर्वदा उप गृहसमीप एवाधीयत इत्युपाधिः । ʻडुधाञ् धारणपोषणयोः’ । ʻउपसर्गे धोः किः’ (३। ३। ९२) इति किप्रत्ययः । कित्वादाकारलोपः (६। ४। ६४) । अयमुपाधिशब्दो योषिदादिविशेषणत्वेऽपि आविष्टलिङ्गत्वात् पुंलिङ्ग एवेति दर्शयितुं पुमानित्युक्तम् ॥ ११ ॥
मल्लि-नाथः - AK.03.01.011
अधिकर्द्धिः—स्यात् । अधिकसम्पद्वतो नाम ॥ कुटुम्ब—पुमानयम् । कुटुम्बपोषणरतनामनी ॥ ११ ॥
[[०३.०१८]]
अक्।०३.०१.०१२च्द् वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥
मूलम् - ०३.०१.०१३
अक्।०३.०१.०१३अब् निर्धार्यः कार्यकर्ता यः सम्पन्नः सत्त्वसम्पदा ।
अक्।०३.०१.०१३च्द् अवाचि मुकोऽथ मनोजवसः पितृसन्निभः ॥ १३ ॥
लिङ्ग-सूरी - AK.03.01.012-13
वराङ्गेति—सिंहस्येव संहननं शरीरमस्येति सिंहसंहननः । वराङ्गरूपोपेतस्य नाम ॥ निर्धार्यते जवेभ्यः सत्त्वसम्पत्त्या पृथगुपदिश्यत इति निर्धार्यः । ʻधृञ् धारणे । निर्वार्य इति वा पाठः । कार्यस्य कर्ता कार्यकर्ता । चित्तोत्कर्षसम्पन्नस्य कार्यकर्तुर्नामनी ॥ मूयते वाक्प्रवृत्तिरस्येति मूकः । ʻमूञ् बन्धने । वागिन्द्रियविकलस्य नाम ॥ मनोऽस्मिन् पितृबुद्ध्या जवते धावतीति मनोजवसः । ʻजु गतौ’ पितृमनोजेऽभिलाषे वसतीति वा मनोजवसः । पितृसन्निभस्य नाम ॥ १२-१३ ॥
ʻ
वराङ्ग—हि सः । वरैः स्वोचितसंस्थानविशेषतया श्रेष्ठैरङ्गैः अवयवैः रूपेण सौन्दर्येण च यः संहितः, सिंहस्येव संहननं शरीरमस्येति कृत्वा, स सिंहसंहनन उच्यते ॥ निर्धार्यः—सम्पदा । सत्यपि दुःखादिकारणे विकाररहितं मनः सत्त्वम् । तथाभूतया मनोवृत्त्या सम्पन्नो युक्त एव यः कार्यं करोति स निर्धार्यः । केचित्तु ʻसम्पतन् सत्त्वसम्पदा’ इति पठन्ति । तत्रापि सम्पतन् सङ्गच्छमान इत्यर्थः । निर्धार्यते सत्त्वसम्पत्त्या जनेभ्यः पृथगपदिश्यत इति निर्धार्यः ॥ अवाचि मूकः । अविद्यमानं वागिन्द्रियमस्येति अवाक् । तत्र मूकशब्दः । मूयते प्रतिबध्यते भाषणक्रियायामिति मूकः । ʻमूञ् बन्धने ॥ अथ—सन्निभः । अवयवसन्निवेशसारूप्यात् गुणसाधर्म्याद् वा यः पित्रा सदृशः स पितृसन्निभः । तस्येदं नाम । पितैवायमिति जनानां मनो जवतेऽस्मिन्निति मनोजवसः । जु इति सौत्रो धातुः । औणादिकोऽसच्प्रत्यय इति स्वामी (पृ। २३८ ) ॥ १२-१३ ॥
मल्लि-नाथः - AK.03.01.012-13
वराङ्ग—हि सः । यः सर्वाङ्गसुन्दरः स सिंहसंहननः स्यात् ॥ निर्धार्यः—संयुक्तः सत्त्वसम्पदा । यः सत्त्वसम्पत्त्या संयुक्तः सन् कार्यकर्ता स निर्धार्यः स्यात् ॥ अवाचि मूकः । वागिन्द्रियविकलो मूकः स्यात् ॥ अथ—पितृसन्निभः । पितृसमानः पुत्रो मनोजवसः स्यात् ॥ ʻमनोजवसं पितृसधर्माणम् इत्यमरमालाकारः ॥ अनुक्तम्—ʻआमुष्यायण उत्पन्नो यः प्रसिद्धकुलात् पितुः’ । प्रसिद्धकुलात् पितुरुत्पन्नः पुत्र आमुष्यायणः स्यात् ॥ ʻस तु स्यादर्जुनो यस्तु मातुरेकतनूभवः’ । मातुरेक एव सुतोऽर्जुनः स्यात् ॥ १२-१३ ॥
[[०३.०२०]]
मूलम् - ०३.०१.०१४
अक्।०३.०१.०१४अब् सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः ।
अक्।०३.०१.०१४च्द् लक्ष्मीवाल्ँलक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः ॥ १४ ॥
लिङ्ग-सूरी - AK.03.01.014
सत्कृत्येति—कूकुं कन्यां ददातीति कूकुदः । ʻडुदाञ् दाने । कोकते महत् पुण्यमादत्त इति वा । ʻकुक आदाने । कूपद इति वा पाठः । तदा कूपं सत्कृत्यालङ्कृतां कन्यां ददातीति कूपदः । ब्राह्मविवाहकर्तुर्नाम ॥ लक्ष्मीः सम्पदस्यास्तीति लक्ष्मीवान् । लक्ष्मणश्च । श्रियं लातायादत्त इति श्रीलः । ʻला आदाने । श्रीरस्यास्तीति श्रीमान् । सम्पद्युक्तस्य नामानि ॥ स्निह्यतीति स्निग्धः । ʻष्णिह प्रीतौ’ । स्नेहेन युक्तः स्निग्धो वा । वत्सः स्नेहः, सोऽस्यास्तीति वत्सलः । स्नेहयुक्तस्य नामनी ॥ १४ ॥
सत्कृत्य—कूकुदः । यः स्वसम्पदनुसारेण वस्त्राभरणालङ्कृतां कन्यां कुलशीलाय वराय विधिवद् ददाति स कूकुदः स्यात् । स्मृतिरपि—ʻकूकुरित्युच्यते कन्या तद्दाता कूकुदः स्मृतः’ इति ॥ लक्ष्मीवान्—श्रीमान् । एतानि धनधान्यदासीदासादिसमृद्धियुक्तस्य चत्वारि नामानि । पूर्वोक्त इभ्यादिशब्दवाच्यस्तु केवलधनयुक्त इत्यनयोर्भेदः । लक्ष्मीरस्यास्तीति लक्ष्मणिः । ʻलक्ष्म्या अच्च्ö (वा। ५। २। १००) इति पामादिसूत्रेण (५। २। १००) लक्ष्मीशब्दात् मत्वर्थीयो नप्रत्ययः, अकारश्चान्तादेशः । श्रियं लात्यादत्ते श्रीलः । ʻआतोऽनुपसर्गे कः’ (३। २। ३) । सिध्मादित्वेन (५.२। ९७) वा श्रीशब्दाद् मत्वर्थीयो लच्प्रत्ययः । रलयोरभेदत्वेन श्लील इति लकारद्वयवानिति सुबोधिनी । कपिलकादित्वाद् (वा। ८। २। १८) रेफस्य लत्वमिति सुभूतिचन्द्रः । रेफसहितस्तु अपपाठः ॥ स्निग्धस्तु वत्सलः । स्नेहयुक्तस्य नामनी । वयस्ये स्निग्धशब्दः प्रागुक्तः (२। ८। १२) । वत्सः स्नेहोऽस्यास्तीति वत्सलः । ʻवत्सांसाभ्यां कामबले (५। २। ९८) इति लच्प्रत्ययः । अत्र सूत्रे वत्सशब्दस्य कामपदेनार्थाभिधानाद् वत्सलः स्नेहवानिति काशिकाकारेण (२, पृ। ४९) व्याख्यातत्वाच्च वत्सशब्दः स्नेहवचन इति गम्यते ॥ १४ ॥
मल्लि-नाथः - AK.03.01.014
सत्कृत्य—कूकुदः । अलङ्कारसहितां कन्यां वरं सत्कृत्य प्रदाता पिता कूकुदः स्यात् ॥ लक्ष्मीवान्—श्रीमान् । श्रीमतो नामानि ॥ स्निग्धस्तु वत्सलः । वात्सल्यवतो नाम ॥ १४ ॥
[[०३.०२१]]
मूलम् - ०३.०१.०१५
अक्।०३.०१.०१५अब् स्याद् दयालुः कारुणिकः कृपालुः सूरतः समाः ।
अक्।०३.०१.०१५च्द् स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥
लिङ्ग-सूरी - AK.03.01.015
स्यादिति—दयास्यास्तीति दयालुः । दयते ताच्छील्येनेति वा । करुणास्यास्तीति कारुणिकः । कृपास्यास्तीति कृपालुः । कृपां लातीति वा । ʻला आदाने । सूरवत् दयालुर्महिम्ना तपति प्रकाशत इति सूरतः । सुरत इति पाठे सुष्ठु रमते दययेति सुरतः । कृपावतो नामानि ॥ स्वः आत्मा तन्त्रं प्रधानमस्येति स्वतन्त्रः । अपगतमावृतम् आवरणं नियामकपुरुषान्तरमस्येति अपावृतः । स्वेन स्वेच्छयैव इयर्ति चरतीति स्वैरी । ʻऋ गतौ’ । स्वकीय एव छन्दोऽभिलाषोऽस्येति स्वच्छन्दः । निष्क्रान्तोऽवग्रहः परप्रेरणमस्येति निरवग्रहः । स्वतन्त्रनामानि ॥ १५ ॥
स्याद् दयालुः—समाः । आपन्नरक्षणेच्छया तदुपायप्रवृत्तिशीलस्य नामानि । दयते दयालुः । ʻस्पृहिगृहिपतिदयि ॥ । (३। २। १५८) इत्यादिना आलुच् । कारुण्यशब्दाद् ʻअत इनिठनौ’ (५। २। ११५) इति मत्वर्थीये ठनि ʻहलस्तद्धितस्य्ö (६। ४। १५०) इति यकारलोपे कारुणिकः । कृपां लातीति कृपालुः । ʻडुप्रकरणे मितद्र्वादिभ्य उपसङ्ख्यानम् (वा। ३। २। १५०) इति डुप्रत्ययः । सूरः सूर्य इव तपति प्रसिद्धतया प्रकाशत इति सूरतः । ʻतप सन्तापे । ʻअन्येष्वपि दृश्यते (३। २। १०१) इति डः ॥ स्वतन्त्रो—निरवग्रहः। स्वेच्छावृत्तेर्नामानि । स्वमेव तन्त्रं प्रधानमस्येति स्वतन्त्रः । अपगतमावृतं प्रावरणं प्रतिबन्धः पुरुषान्तरकृतमस्येति अपावृतः । स्वेन स्वचित्तवशेन ईर्ते प्रवर्तत इति स्वैरी । ʻसुप्यजातौ णिनिः ॥ । (३। २। ७८) इति णिनिः । ʻस्वादीरेरिणोः ॥ । (वा। ६। १। ८९) इति वृद्धिः । स्वकीय एव छन्दोऽभिप्रायः प्रवृत्तिहेतुरस्येति स्वच्छन्दः । निष्क्रान्तः पुरुषान्तरकृतोऽवग्रहः प्रतिबन्धोऽस्मादिति निरवग्रहः ॥ १५ ॥
मल्लि-नाथः - AK.03.01.015
स्याद् दयालुः—समाः । दयावतो नामानि ॥ स्वतन्त्रो—निरवग्रहः । स्वाधीननामानि । ʻस्वैरः स्वाधीनः स्वरुचिः पथगामी निरङ्कुशः । एतानि च ॥ १५ ॥
[[०३.०२२]]
मूलम् - ०३.०१.०१६
अक्।०३.०१.०१६अब् परतन्त्रः पराधीनः परवान् नाथवानपि ।
अक्।०३.०१.०१६च्द् अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥ १६ ॥
लिङ्ग-सूरी - AK.03.01.016
परतन्त्र इति—परः तन्त्रं प्रधानमस्येति परतन्त्रः । परस्मिन् अधीनः पराधीनः । परो नियन्तास्येति परवान् । नाथोऽस्यास्तीति नाथवान् । अध्युपरि इनः स्वामी यस्य अधीनः । नियम्यते प्रभुणा तिरस्क्रियत इति निघ्नः । आयत्यते एककर्मसु नियुज्यत इत्यायत्तः । ʻयती प्रयत्ने । स्वच्छन्दो न भवतीति अस्वच्छन्दः । गृह्यते पुरुषार्थनियोगेनेति गृह्यकः । ʻग्रह उपादाने । परतन्त्रनामानि ॥ १६ ॥
परतन्त्रः—गृह्यकोऽप्यसौ । परतन्त्रादयो नव परायत्तवृत्तेर्नामानि । परः स्वस्मादन्यः श्रेष्ठो वा तन्त्रं प्रधानमस्येति परतन्त्रः । परस्मिन् आत्मनोऽन्यस्मिन् अधि गुणभूतः पराधीनः । ʻसप्तमी शौण्डैः’ (२। १। ४०) इति समासः । ʻअषडक्ष॥ । इत्यादिना (५। ४। ७) खः । अत्र काशिका—ʻअध्युत्तरपदस्तत्पुरुषः । अधिशब्दः शौण्डादिषु पठ्यते । उत्तरत्र विभाषाग्रहणात् नित्य एवायं प्रत्ययः’ (२, पृ। ८१) । पराधीनः परमधिकृत्य गुणीभूत इत्यर्थः । परः। श्रेष्ठो नियामकोऽस्यास्तीति परवान्, नाथवानपि । अधि स्वस्योपरि इनः प्रभुरस्येति अधीनः ॥ निहन्यते प्रतिकूलमाचरन् बाध्यत इति निघ्नः । ʻघञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् (वा। ३। ३। ५८) इति घञर्थभूते कर्मणि हन्तेः कप्रत्ययः । ʻगमहनजन ॥ । (६। ४। ९८) इत्यादिना हन्तेरुपधालोपः । यद्यप्यत्र लोपाजादेशस्य स्थानिवद्भावप्राप्तिरस्ति तथापि ʻहो हन्तेः ॥ । (७। ३। ५४) इत्यादिसूत्रे काशिकाकारेणैव (२, पृ। ३४१) ʻस्थानिवद्भावकृतं यदानन्तर्यं तदविघातकं वचनारम्भसामर्थ्यत् इत्युक्तत्वाद् नकारपरतया हकारस्य कुत्वम् ॥ आयत्यते नियुज्यते स्वामिनेति आयत्तः । ʻयती प्रयत्ने । ʻआङित्युपसर्गः पारतन्त्र्यार्थे इति उपसर्गवृत्तौ आयत्त इत्युदाहृतम् । न स्वः छन्दोऽस्येति अस्वच्छन्दः । गृह्यते स्वीक्रियते व्यापारेषु स्वामिनेति गृह्यः । ʻपदास्वैरिबाह्यापक्ष्येषु च्ö (३। १। ११९) इति गृहेरस्वैरिरूपार्थे क्यप्प्रत्ययः । ʻगुणगृह्या वचने विपश्चितः’ इति भारविप्रयोगः (किरा। २। ५) । ततः स्वार्थे कन् प्रत्ययः (ज्ञापित। ५। ४। ५) ॥ १६ ॥
मल्लि-नाथः - AK.03.01.016
परतन्त्रः—नाथवानपि । परतन्त्रनामानि ॥ अधीनो—गृह्यकोऽप्यसौ । अधीननामानि ॥ १६ ॥
[[०३.०२४]]
मूलम् - ०३.०१.०१७
अक्।०३.०१.०१७अब् खलपूः स्याद् बहुकरो दीर्घसूत्रश्चिरक्रियः ।
अक्।०३.०१.०१७च्द् जाल्मोऽसमीक्ष्यकारी स्यात्, कुण्ठो मन्दः क्रियासु यः ॥ १७ ॥
लिङ्ग-सूरी - AK.03.01.017
खलपूरिति—खलं पुनाति शोधयतीति खलपूः । ʻपूञ् पवने । कृष्यादिधान्यं बहु करोतीति बहुकरः । बहुधान्यार्जकस्य नामनी ॥ दीर्घेण कालेन सूत्रयते कार्यं बध्नातीति दीर्घसूत्रः । ʻसूत्र वेष्टने । चिरेण क्रियते कार्यमनेनेति चिरक्रियः । विमृश्य कार्यं कुर्वतो नामनी ॥ जडति जडीभवतीति जाल्मः । ʻजड शून्ये । अविमृश्य कुर्वतो नाम ॥ कुण्ठत्यालस्येन कार्यं हन्तीति कुण्ठः । ʻकुठि प्रतिघाते । कार्येषु मन्दस्य नाम ॥ १७ ॥
खलपूः—करः । यः खले सम्मार्जनादिना निर्बुसं धान्यं राशीभावेन सङ्गृह्णाति तस्यैते नामनी । खलं पुनातीति खलस्थं धान्यं निःशेषं गृह्णाति खलपूः । ʻपूञ् पवने । क्विप् (३। २। ७६) ॥ क्षेत्रसंस्कारधान्यसङ्ग्रहणराशीकरणादिरूपाणि बहूनि कर्माणि करोतीति बहुकरः । ʻकिंयत्तद् ॥। इत्यादिना (वा। ३। २। २१) अच् प्रत्ययः । स्त्रियां तु टापि बहुकरा ॥ दीर्घसूत्रश्चिरक्रियः । कर्तव्यार्थविषये विलम्बकरणशीलस्य नामनी । चिरेणकालेन सूत्रयते क्रमबद्धानि कर्माणि करोतीति दीर्घसूत्रः । ʻसूत्र विमोचने । चुरादिः । विमोचनं मोचनाभावो ग्रथनमिति धातुवृत्तौ (पृ। ५७१) । पचादिः । चिरकालेन क्रियास्येति चिरक्रियः । चिरशब्दोऽकारान्तोऽप्यस्ति । अत एव ʻसायञ्चिरम्प्राह्णे ॥ । इति सूत्रे (४। ३। २३) काशिका—ʻसायादयः शब्दा अनव्यया अपि इति ॥ जाल्मो—स्यात् । अविमृश्य करणशीलस्य नामनी । जाल्मः पामरे व्युत्पादितः (२। १०। १६) । असमीक्ष्य गुणदोषानविमृश्य करोतीति असमीक्ष्यकारी । ʻसुप्यजातौ णिनिस्ताच्छील्ये (३। २। ७८) इति णिनिः ॥ कुण्ठो—यः । क्रियामुपक्रम्य कृतविलम्बः कुण्ठ उच्यते । प्रक्रान्तं कर्म कुण्ठति आलस्येन प्रतिहन्तीति कुण्ठः ʻकुठि प्रतिघाते । ʻपचाद्यच् (३। १। १३४) ॥ १७ ॥
मल्लि-नाथः - AK.03.01.017
खलपूः—करः । बहुकरः खलपूः स्यात् ॥ दीर्घसूत्रश्चिरक्रियः । विलम्ब्य कार्यकारिणो नामनी ॥ जाल्मो—स्यात् । पूर्वमपरं चासमीक्ष्य करोति यः स जाल्मः स्यात् ॥ कुण्ठो—यः । योऽनुद्योगाद् मन्दं मन्दं करोति स कुण्ठः स्यात् ॥ १७ ॥
[[०३.०२६]]
मूलम् - ०३.०१.०१८
अक्।०३.०१.०१८अब् कर्मक्षमोऽलङ्कर्मीणः क्रियावान् कर्मसूद्यतः ।
अक्।०३.०१.०१८च्द् स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥
लिङ्ग-सूरी - AK.03.01.018
कर्मक्षम इति—कर्मणे अलं समर्थो भवतीति अलङ्कर्मीणः । कर्मणि शक्तस्य नाम ॥ क्रियास्यास्तीति क्रियावान् । कार्योद्युक्तस्य नाम ॥ कर्मकरणं शीलमस्येति कार्मः । कर्मकरणस्वभावस्य नाम ॥ कर्मणि शूरः कर्मशूरः । कर्मणि घटते चेष्टत इति कर्मठः । ʻघट चेष्टायाम् । कर्मणि शूरस्य नाम ॥ १८ ॥
कर्मक्षमोऽलङ्कर्मीणः । यः कृषिकार्येण भारवहनादिकं कर्म कर्तुं क्षमः शक्तः स प्रारम्भात् प्राग् अलङ्कर्मीण इत्युच्यते । अलं कर्मणे कर्तुं समर्थ इत्यलङ्कर्मीणः । ʻअषडक्ष ॥ । इत्यादिना (५। ४। ७) अलङ्कर्मशब्दात् स्वार्थे खप्रत्ययः ॥ क्रियावान्—उद्यतः । यः कर्मणि कृतोद्योगः स क्रियावान् उच्यते । क्रियास्यास्तीति । मतुप् (५। २। ९४) ॥ स कार्मः—यः । सर्वदा यत्किञ्चित्करणस्वभावस्य नाम । कर्मकरणं शीलमस्येति कार्मः । ʻछत्रादिम्यो णः’ (४। ४। ६२) इति णप्रत्यये ʻकार्मस्ताच्छील्ये (६। ४। १७२) इति टिलोपो निपातितः ॥ कर्म—कर्मठः । यः प्रयाससहो भूत्वा कृच्छ्रसाध्यमपि यागादिकं वैदिकं लौकिकं वा कर्म फलपर्यन्तं निर्वोढुं समर्थः स कर्मठः । कर्मणि घटते चेष्टत इति कर्मठः । ʻकर्मणि घटोऽठच् (५। २। ३५) इति कर्मशब्दात् सप्तमीसमर्थाद् अठच् प्रत्ययः । ʻनस्तद्धिते (६। ४। १४४) इति टिलोपः । अनायासेन कर्मकरणसामर्थ्यात् पूर्वोक्तादलङ्कर्मीणाद् अस्य कर्मठस्य प्रयाससहत्वेन भेदोऽगवन्तव्यः ॥ १८ ॥
मल्लि-नाथः - AK.03.01.018
कर्मक्षमोऽलङ्कर्मीणः । कर्मणि दक्षोऽलङ्कर्मीणः स्यात् ॥ क्रियावान्—उद्यतः । कर्मण्युद्युक्तः क्रियावान् स्यात् ॥ स कार्मः—यः । क्रियाशीलः कार्मः स्यात् ॥ कर्म—कर्मठः । क्रियाशूरः कर्मठः स्यात् ॥ १८ ॥
[[०३.०२७]]
मूलम् - ०३.०१.०१९
अक्।०३.०१.०१९अब् भरण्यभुक् कर्मकरः कर्मकारस्तु तत्क्रियः ।
अक्।०३.०१.०१९च्द् अपस्नातो मृतस्नात आमिषाशी तु शौष्कलः ॥ १९ ॥
लिङ्ग-सूरी - AK.03.01.019
भरण्यभुगिति—भरण्यं वेतनं भुङ्क्त इति भरण्यभुक् । कर्मण्यभुगिति वा पाठः । परार्थं कर्म करोतीति कर्मकरः । भृतिं गृहीत्वा क्रियाकारिणो नामनी ॥ कर्म करोति वेतनं विना कर्मकारः । ʻडुकृञ् करणे । कर्मकरक्रियावतो वेतनाग्राहकस्य नाम ॥ अमङ्गलस्नानेन संस्कृत इत्यपस्नातः । मृते मरणे स्नातो मृतस्नातः । पुत्रादिना उपचारात् स्नापितस्य मृतस्य नामनी ॥ आमिषमश्नातीति आमिषाशी । शुष्कलं शुष्कमांसमत्तीति शौष्कलः । शाष्कुल इति पाठे शष्कुलीवद् दुर्जरमांसमश्नातीति शाष्कुलः । आमिषाशिनो नाम ॥ १९ ॥
भरण्यभुक् कर्मकरः । भरण्यशब्दो भृतिपर्यायत्वेन प्रागुक्तः (२। १०। ३८) । भरण्यं भुङ्क्तेऽनुभवतीति भरण्यभुक् । यो भृतिग्रहणेन कर्म करोति, न पुनरात्मार्थं परोपकारार्थं वा, स कर्मकरः । ʻकर्मणि भृतौ’ (३। २। २२) इति टः । ʻभृतको भृतिभुक् कर्मकरः’ (२। १०। १५) इति शूद्रवर्गोक्तस्य कर्मकरस्येहापि पुनरभिधानं प्रागनुक्तस्य भरण्यभुग् इति कथनार्थमिति कश्चित् पौनरुक्त्यं परिजहार । तदनुपपन्नम् । तत्रैव भरण्यशब्दस्य भृतिपर्यायत्वेनाभिधानात् । शूद्रवर्गोक्तभृतिभुक्पदेनैव भरण्यभुगित्यस्याप्युक्तप्रायत्वात् । अन्यथा वेतनभुग् इत्यादिपदानामपि वक्तव्यताप्रसङ्गः । अन्ये त्वन्यथा समादधते । कर्मकरकर्मकारशब्दयोरेकप्रकरणपाठे कृते तयोरर्थभेदः सुव्यक्तो भवतीति प्रागुक्त स्याप्यत्र निरूपणमिति । स्वामी तु ʻकर्मण्यभुक् कर्मकरः’ इति पाठमाश्रित्य पौनरुक्त्यदोषं परिहृतवान् । तथा हि—ʻकर्मण्या तु विधा भृत्या’(२। १०। ३८) इति स्त्रीलिङ्ङ्गः कमर्ण्याशब्द उक्तः । इदानीं कर्मण्यशब्दो नपुंसकलिङ्गोऽप्यस्तीति व्याजेन दर्शयितुं कर्मण्यभुगित्युक्तमिति । अपरे तु शूद्रस्य भृतिवृत्तितया तत्प्रस्तावेन कर्मकरः प्रागुक्तः । इदानीं तु क्रियावचनत्वेन विशेष्यनिघ्नत्वादुच्यत इत्याहुः ॥ कर्मकारस्तु तत्क्रियः । यो हि भृतिमगृहीत्वैव कर्मकर इव क्रियाः करोति शिष्यगर्भदासादिः स कर्मकार उच्यते । ʻकर्मण्यण् (३। २। १) इत्यण् प्रत्यये कर्मकारः ॥ अपस्नातो मृतस्नातः । यः पित्रादौ मृते सति कृतस्नानः सोऽपस्नातः । अपेत्युपसर्गो विरुद्धार्थः । मङ्गलस्नानविरुद्धेन स्नानेन संस्कृतोऽपस्नात इत्यर्थः । सुबोधिनीकारस्तु व्याचष्टे—ʻयो मृतः पश्चात् पुत्रादिना संस्कारार्थं स्नातः स्नापितः सोऽपस्नात इति ॥ आमिषाशी तु शौष्कलः । आमिषमश्नातीत्यामिषाशी । ʻसुप्यजातौ ॥ । (३। २। ७८) इति णिनिः । शुष्काणां मांसखण्डानां समूहः शौष्कम् । वल्लूरसङ्घात इत्यर्थः । तल्लाति आदत्त इति शौष्कलः । ʻआतोऽनुपसर्गे कः’ (३। २। ३) । यो हि यत्र प्रियो भवति स तद्वस्तु चूतफलरसादिकं दुर्लभमिति मत्वा शुष्कं विधाय कालान्तरे भक्षयति तद्वन्मांसप्रियोऽपि कश्चित् वल्लूराणि सङ्गृह्य भक्षयतीति शौष्कल इत्युक्तः । सुबोधिनीकारस्तु शाष्कुल इति पठित्वा व्याचष्ट । शष्कुलीशब्दोऽत्र दुर्जरत्वगुणयोगाद् आमिषे वर्तते । तमश्नातीत्यर्थे ʻप्राग्दीव्यतोऽण् (४। १। ८३) इति अण् प्रत्यये शाष्कुल इति ॥ १९ ॥
मल्लि-नाथः - AK.03.01.019
भरण्यभुक्—तत्क्रियः । मूल्योपाधिकर्मकर्ता कर्मकरः स्यात् । निरुपाधिककर्मकर्ता कर्मकारः स्यात् ॥ अनुक्तम्—ʻउत्तालः कर्मसु व्यग्रः’ । कर्मसु व्यग्रः उत्तालः स्यात् । ʻविस्रब्धः कर्मणि स्थिरः । कर्मणि स्थिरो विस्रब्धः स्यात् ॥ अपस्नातो मृतस्नातः । मृतानां स्नातः अपस्नातः । अपस्नातो देवदत्तः । अपस्नातं देवदत्तेन ॥ आमिषाशी तु शौष्कलः । मांसभोजी शौष्कलः स्यात् ॥ १९ ॥
[[०३.०२९]]
मूलम् - ०३.०१.०२०
अक्।०३.०१.०२०अब् बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः ।
अक्।०३.०१.०२०च्द् परान्नः परपिण्डादो भक्षको घस्मरोऽद्मरः ॥ २० ॥
लिङ्ग-सूरी - AK.03.01.020
बुभुक्षित इति—बुभुक्षा सञ्जातास्येति बुभुक्षितः । क्षुध्यतीति क्षुधितः, क्षुदस्य सञ्जाता वा । ʻक्षुध बुभुक्षायाम् । अत्तुमिच्छुः जिघत्सुः । ʻअद भक्षणे । अशनाया सञ्जातास्येति अशनायितः । अशनमात्मन इच्छतीति वा । भोजनेच्छावतो नामानि ॥ परस्मादेवान्नं भोजनमस्यास्तीति परान्नः । परपिण्डं परान्नमत्तीति परपिण्डादः । ʻअद भक्षणे । सर्वदा परान्नभोक्तुर्नामनी ॥ सर्वमपि भक्षयतीति भक्षकः । ʻभक्ष अदने । घसति ताच्छील्येनेति घस्मरः । ʻघस्लृ अदने । अत्ति ताच्छील्येनेत्यद्मरः । भक्षणस्वभावस्य नामानि ॥ २० ॥
बुभुक्षितः—अशनायितः । भोजनेच्छावतो नामानि । अशनायाबुभुक्षाशब्दौ वैश्यवर्गे व्युत्पादितौ (२। ९। ५४) । ताभ्यां ʻतदस्य सञ्जातम् (५। २। ३६) इत्यर्थे तारकादित्वाद् इतच् प्रत्यये अशनायितः, बुभुक्षितः ॥ क्षुध्यतीति क्षुधितः । ʻक्षुध बुभुक्षायाम् । कर्तरि क्तः (३। ४। ७२) । ʻवसतिक्षुधोरिट् (७। २। ५२) इति निष्ठायामिडागमः ॥ अत्तुमिच्छुः जिघत्सुः । ʻअद भक्षणे । इच्छायां सनि घस्लादेशे च तदन्तात् ताच्छील्ये ʻसनाशंसभिक्ष उः’ (३। २। १६५) इत्युप्रत्ययः ॥ परान्नः परपिण्डादः । यः सर्वदा परकीयमेवान्नमश्नाति स्वगृहे तु प्रायेण न भुङ्क्ते, तस्य नामनी । परान्नमत्तीति विग्रहे प्रातिपदिकाद् धात्वर्थे णिचि ʻपचाद्यचि (३। १। १३४) परान्नः । परस्यान्नमस्येति व्यधिकरणो बहुव्रीहिः ॥ परस्मात् लब्धमेव पिण्डमन्नमत्तीति परपिण्डादः । ʻकर्मण्यण् (३। २। १) ॥ भक्षको—अद्मरः । यः प्रायेण शष्कुलिकुल्माषफलादिभक्षणस्वभावो भवति तस्य नामानि । भक्षयतीति भक्षकः । ण्वुल् (३। १। १३३) ॥ घसति ताच्छील्येन घस्मरः । ʻघस्लृ अदनेऽ । ʻसृघस्यदः क्मरच्ऽ (३। २। १६०) इति क्मरच् ॥ अदनशीलोऽद्मरः । पूर्वसूत्रेण क्मरच् ॥ २० ॥
मल्लि-नाथः - AK.03.01.020
बुभुक्षितः—अशनायितः । भोक्तुमिच्छावतो नामानि ॥ परान्नः परपिण्डादः । परैः सततदत्तान्नस्य पुंसो नामनी । ʻकूपिकापरिवाण्डु’ ॥ भक्षको—अद्मरः । सर्वभक्षकनामानि । ʻतिण्डिपोतु’ ॥ २० ॥
[[०३.०३०]]
मूलम् - ०३.०१.०२१
अक्।०३.०१.०२१अब् आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते ।
अक्।०३.०१.०२१च्द् उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके ॥ २१ ॥
लिङ्ग-सूरी - AK.03.01.021
आद्यून इति—आ ईषद् दीव्यति क्रीडत्यन्यत्रासक्तत्वाद् आद्यूनः । ʻदिवु क्रीडादौ’ । उदरे आसक्तः औदरिकः । उदरासक्तत्वाद् अनुद्योगवतो नामनी ॥ आत्मानं स्वदेहमेव बिभर्ति पोषयतीति आत्मम्भरिः । स्वकुक्षिमेव बिभर्तीति कुक्षिम्भरिः । ʻडुभृञ् धारणपोषणयोः’ । भृत्यपोषणं विनैव स्वकीयोदरपूरकस्य नामनी ॥ २१ ॥
आद्यूनः—विवर्जिते । ऐहिकामुष्मिकोपयोगिव्यापारपरित्यागेन यथाकथञ्चित् स्वोदरपूरणमात्रपरितुष्टस्य नामनी । आदीव्यति ईषत्क्रीडत्यन्यत्रासक्तत्वादिति आद्यूनः । ʻदिवु क्रीडादौ’ । क्तप्रत्ययः (३। ४। ७२) । ʻच्छ्वोः शूडनुनासिके च्ö (६। ४। १९) इति वकारस्य ऊडादेशे, इकारस्य यणादेशः (६। १। ७७) । ʻदिवोऽविजिगीषायाम् (८। २। ४९) इत्यविजिगीषाविषयत्वाद् निष्ठातकारस्य नत्वम् ॥ उदरे प्रसित औदरिकः । प्रसित इत्यनुवृत्तौ ʻउदराट्ठगाद्यूने (५। २। ६७) इति ठक् प्रत्ययः ॥ उभौ—पूरके । कलत्रादिकमुपेक्ष्य स्वोदरपूरणमात्रनिरतस्य नामनी । आत्मानं स्वमेव बिङर्तीत्यात्मम्भरिः । ʻफलेग्रहिरात्मम्भरिश्च्ö (३। २। २६) इति निपात्यते । अत्र सूत्रे चकारेण उपपदस्य मुपागमे भृञ इन् प्रत्यये कुक्षिम्भरिशब्दः ॥ २१ ॥
मल्लि-नाथः - AK.03.01.021
आद्यूनः—विवर्जिते । पौरुषशून्यस्य नामानि ॥ उभौ—पूरके । स्वकीयोदरमात्रपूरणे निरतस्य नामानि । ʻआत्मोदरकुक्षिषु भृञः खिः’ (४। ३। २९) इति कातन्त्रसूत्राद् उदरम्भरिरपि स्यात् ॥ २१ ॥
[[०३.०३१]]
मूलम् - ०३.०१.०२२
अक्।०३.०१.०२२अब् सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः ।
अक्।०३.०१.०२२च्द् लुब्धोऽभिलाषुकस्तृष्णक् समौ लोलुपलोलुभौ ॥ २२ ॥
लिङ्ग-सूरी - AK.03.01.022
सर्वान्नीन इति—सर्वमन्नं भक्षयतीति सर्वान्नीनः । सर्वान्नभोक्तुर्नाम । गृध्यति भृशमभिकाङ्क्षतीति गृध्नुः । गर्धनश्च । ʻगृधु अभिकाङ्क्षायाम् । विषयेषु सस्पृहस्य नामनी ॥ लुभ्यति भृशमभिकाङ्क्षतीति लब्धः । ʻलुभ गार्ध्ये । भृशमभिलषतीति अभिलाषुकः । ʻलष कान्तौ’ । तृष्णातुल्या इच्छस्यास्तीति तृष्णक् । जान्तः । विषयेऽत्यन्तसस्पृहस्य नामनी ॥ भृशं लोलुप्यते विमुह्यतीति लोलुपः। ʻलुप विमोहने । भृशं लोलुभ्यते गृध्यतीति लोलुभः । ʻलुभ गार्ध्ये । विषयलम्पटवतो नामनी ॥ २२ ॥
सर्वन्नीनः—भोजी । यः सर्वेषां वर्णानां सम्बन्धि मृष्टममृष्टं वा उष्णमनुष्णं वा भिक्षाटनेन लब्धं सर्वमन्नं भक्षयति स सर्वान्नीनः । ʻअनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु’ (५। २। ९) इति खप्रत्ययः ॥ गृध्नुस्तु—तृष्णक् । गृध्यतीति गृध्नुः । ʻगृधु अभिकाङ्क्षायाम् । दिवादिः । ʻत्रसिगृधिधृषिक्षिपेः क्नुः’ (३। २। १४०) इति क्नुप्रत्ययः ॥ ʻजुचङ्क्रम्यदन्द्रम्यसृगृधी ॥ । इत्यादिना (३। २। १५०) युचि गर्धनः ॥ लुभ्यतीति लुब्धः । ʻलुभ गार्ध्ये । दिवादिः । ʻगार्ध्यमभिकाङ्क्षा’ इति धातुवृत्तिः (पृ। ४४१) । कर्तरि क्तः ॥ अभिलषतीत्यभिलाषुकः । ʻलष कान्तौ’ । कान्तिरिच्छा । ʻलषपतपदस्था ॥ । इत्यादिना (३। २। १५४) उकञ् ॥ तृष्यतीति तृष्णक् । ʻञितृषा पिपासायाम् । दिवादिः । पिपासाशब्देन इच्छामात्रं लक्ष्यते । ʻस्वपितृषोर्नजिङ् (३। २। १७२) । ङित्त्वाद् गुणाभावः । णत्वकुत्वे च । पञ्चापि लोभाख्यगुणयुक्तस्य नामानि । केचित्तु—आद्यं द्वयं परद्रव्यविषयेच्छायुक्ते, लुब्धादित्रयं तु यत्किञ्चिन्मात्रविषयेच्छायुक्त इत्याहुः ॥ समौ—लोलुभौ । तृष्णातिशययुक्तस्य नामनी । लोलुप्यते भृशं मुह्यतीति लोलुपः । ʻलुप विमोहने । लोलुभ्यते भृशमभिकाङ्क्षतीति लोलुभः । ʻलुभ गार्ध्ये । अत्रोभयत्रापि उभाभ्यां धातुभ्यां ʻधातोरेकाचो हलादे॥ । इत्यादिना (३। १। २२) यङ्प्रत्ययः । तदन्तात् पचाद्यचि ʻयङोऽचि च्ö (२। ४। ७४) इति यङो लुक् । ʻन धातुलोप ॥ । इत्यादिना (१। १। ४) गुणप्रतिषेधः ॥ २२ ॥
मल्लि-नाथः - AK.03.01.022
सर्वान्नीनः—भोजी । सर्वेषामन्नभोजी सर्वप्रकारान्नभोजी च यः स सर्वान्नीनः स्यात् ॥ गृध्नुस्तु—तृष्णक् । तृषिधातोर्नजिङि तृष्णक् । जान्तत्वात् तृष्णजौ तृष्णज इत्यादि । लुब्धनामानि ॥ समौ—लोलुभौ । लम्पटनामनी । ʻलोलुपं लोलुभं लोलं लम्पटं लालसं विदुः’ इति हलायुधः (२। १६८) ॥ २२ ॥
[[०३.०३३]]
मूलम् - ०३.०१.०२३
अक्।०३.०१.०२३अब् सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः ।
अक्।०३.०१.०२३च्द् मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः ॥ २३ ॥
अक्।०३.०१.०२४अब् कम्रः कामयिताभीकः कमनः कामनोऽभिकः ।
लिङ्ग-सूरी - AK.03.01.023
सोन्माद इति—उन्मादेन सह वर्तत इति सोन्मादः । सून्माद इति वा पाठः । उन्मदश्च । उन्माद्यति ताच्छील्येनेति उन्मदिष्णुः । ʻमदी हर्षग्लपनयोः’ । भूतावेशादिकृतचित्तविभ्रमस्य नामनी ॥ न विनीतोऽशिक्षितोऽविनीतः । समुद्धन्यते सर्वैरपि ताड्यत इति समुद्धतः । ʻहन हिंसागत्योः’ । अशिक्षितस्य नामनी ॥ माद्यतीति मत्तः । ʻमदी हर्षे । शुण्डा सुरा मदहेतुत्वेनास्यास्तीति शौण्डः । उत्क्रान्तः कटिवसनादिति उत्कटः । क्षीबते माद्यतीति क्षीबः । ʻक्षीबृ मदे । सुरापानमत्तस्य नामानि ॥ कामयते परस्त्रियमिति कामुकः । ʻकमु कान्तौ’ । कमिता च । अनु कामयत इत्यनुकः । कम्रः । कामयिता च । अभिकामयते अभीकः, अभिकश्च । कमनः कामनश्च । ʻकमु कान्तौ’ । कामुकनामानि ॥ २३ ॥
सोन्मादः—स्यात् । भूतावेशकृतचित्तविभ्रमस्य नामनी । उन्मादेन सह वर्तत इति सोन्मादः । उन्माद्यति ताच्छील्येनेति उन्मदिष्णुः। ʻअलङ्कृञ् निराकृञ् ॥ । इत्यादिना (३। २। १३६) ʻमदी हर्षग्लेपनयोः’ इत्यस्मादुत्पूर्वाद् इष्णुच् । ʻउन्मत्त उन्मादवति (२। ६। ६०) इत्यत्र मनुष्यवर्गे उन्मादाख्यरोगयुक्तस्य नामकथनम् । इह तु भूतावेशकृतचित्तविभ्रमसहितस्य नामानुशासनमिति न पौनरुक्त्यम् ॥ अविनीतः समुद्धतः । वाचा कर्मणा परदुःखजनकस्वभाववतो नामनी । सम्यगुद्धतः गर्वितः समुद्धतः । हन्तेः क्तः ॥ मत्ते—क्षीबाः । मद्यपानकृतचित्तविभ्रमस्य नामानि । माद्यति स्म मत्तः । ʻन ध्याख्यापृमूर्च्छिमदाम् (८। २। ५७) इति निष्ठानत्वप्रतिषेधः ॥ ʻशुण्डा कादम्बरी मता’ इति शाश्वतोक्तेः (पृ। ३०, श्लो। ३४५) शुण्डाशब्देन सुरोच्यते । पानागारं वा । तत्र भवः शौण्डः । शैषिकोऽण् (४। २। ९२) ॥ उद्भूतः प्रकाशितः कटः श्रोणीभागोऽस्य उत्कटः । क्षीबदशायां कदाचिन्नग्नतया कटिभागः प्रकाशितो भवति । अथवा ʻसम्प्रोदश्च कटच् (५। २। २९) इति कटच् प्रत्यये उत्कटः ॥ क्षीबते माद्यति स्मेति क्षीबः । ʻक्षीबृ मदे । क्तप्रत्ययः । ʻअनुरपसर्गात् फुल्लक्षीबकृशोल्लाघाः’ (८। २। ५५) इति निष्ठातकारलोपः इडभावश्च निपातितः ॥ कामुके—अभिकः । स्त्रीजनासक्तचित्तस्वभावस्य नामानि । कामयते ताच्छील्येनेति कामुकः । ʻकमु कान्तौ’ । ʻलषपतपद ॥ इत्यादिना (३। २। १५४) उकञ् । तस्मादेव धातोस्ताच्छील्यार्थे तृन्प्रयये इडागमे च कमिता ॥ ʻकर्मेर्णिङ् (३। १। ३०), ʻआयादय आर्धधातुके वा’ (३। १। ३१) इति पाक्षिके णिङ्प्रत्यये कामयिता ॥ ʻअनुकाभिकाभीकः कमिता’ (५। २। ७४) इति निपातनात् कमितेत्यर्थे अनुकः, अभिकः, अभीकः इति त्रयः शब्दाः कन्प्रत्ययान्ताः साधवः ॥ ʻनमिकम्पिस्म्यजसकमहिंसदीपो रः’ (३। २। १६७) इति रप्रत्यये कम्रः ॥ ʻअनुदात्तेतश्च हलादेः’ (३। २। १४९) इति युचि कमनः । तत एव धातोर्वैकल्पिके णिङ्प्रत्यये (३। १। ३०) पूर्ववद् युचि कामनः ॥ २३ ॥
मल्लि-नाथः - AK.03.01.023
सोन्मादः—स्यात् । उन्मत्तनामनी ॥ अविनीतः समुद्धतः । अशिक्षितनामनी ॥ मत्ते—क्षीबाः । मत्तनामानि ॥ कामुके—अभिकः । कामुकनामानि । अनुक्तम्—ʻभुजङ्गी नर्मठो मिण्ठः षिद्गः पल्लविको विटः । विटनामानि ॥ २३ ॥
[[०३.०३५]]
अक्।०३.०१.०२४च्द् विधेयो विनयग्राही वचनेस्थित आश्रवः ॥ २४ ॥
मूलम् - ०३.०१.०२५
अक्।०३.०१.०२५अब् वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः ।
अक्।०३.०१.०२५च्द् धृष्टे धृष्णग् वियातश्च प्रगल्भः प्रतिभान्विते ॥ २५ ॥
लिङ्ग-सूरी - AK.03.01.024-25
विधेय इति—ʻसत्यं वद्ö (तै। उ। १। ११) इत्यादिवाक्यर्विधातव्यत्वाद् विधेयः । ʻडुधाञ् धारणपोषणयोः’ । विनयग्राहिणो नाम ॥ आशृणोति मान्यवाक्यमित्याश्रवः । ʻश्रु श्रवणे । मान्यवाक्यानुल्लङ्घकस्य नाम ॥ वशं गतो वश्यः । प्रकर्षेण वशं नेतुं शक्यत्वात् प्रणेयः । ʻणीञ् प्रापणे । औषधादिना वशीकर्तुर्वशङ्गतस्य नामनी ॥ नितरां सर्वैर्भ्रियत इति निभृतः । ʻभृञ् भरणे । निश्चलवागिन्द्रियत्वाद् विनेतुं योग्यो विनीतः । प्रश्रयते नतो भवतीति प्रश्रितः । ʻश्रिञ् सेवायाम् । अचपलस्य नामानि ॥ धर्षयतीति धृष्टः । धृष्णुश्च । ʻधृष प्रसहने । धृष्णगिति वा पाठः । विशेषेण यातो वियातः । धृष्टनामानि ॥ प्रगल्भत इति प्रगल्भः । ʻगल्भ धाष्ट्रये । प्रतिभान्वितस्य नाम ॥ २४-५ ॥
विधेयो—आश्रवः । वचने गुर्वादिकृतवाक्ये कर्तव्याकर्तव्यविषये स्थितोऽविचलितः, तत्र विधेयादयस्त्रयः शब्दा भवन्ति । विधिनिषेधवाक्यैरप्रमत्ततया विधातुं योग्यो विधेयः । ʻअचो यत् (३। १। ९७) इति यत् । ʻईद्यति (६। ४। ६५) ʻसार्वधातुकार्धधातुकयोः’ (७। ३। ८४) इति गुणः । ʻस्यादाश्रवो विधेयः स्यात् इति रत्नकोशाभिधाने त्रयाणां पर्यायत्वावगमात् । इदं कार्यमिदमकार्यमिति गुर्वाद्युपदेशो विनयः । तं गृह्णातीति विनयग्राही । ʻनन्दिग्रहि ॥ । इत्यादिना (३। १। १३४) णिनिः ॥ गुर्वादिभिरादिष्टमर्थमाशृणोति अङ्गीकरोतीत्याश्रवः । पचाद्यच् (३। १। १३४) । ʻआश्रवोऽस्मि भवतः सहानुजः’ इति माघकाव्ये (शिशु। १४। ११) प्रयोगः ॥ वश्यः प्रणेयः । वश्येत्यादि परपचित्तानुसरणशीलस्य नामनी । ʻवशं गतः’ (४। ४। ८६) इति वशशब्दात् यत्प्रत्यये वश्यः । परानुसरणं प्रकर्षेण नेतुमर्हः प्रणेयः । ʻअचो यत् (३। १। ९७) ॥ निभृत—समाः । विनययुक्तवाचकत्वेन त्रयोऽपि शब्दाः समास्तुल्या इत्यर्थः । ʻभृञ् भरणे ʻणीञ् प्रापणे ʻश्रिञ् सेवायाम् । एतेभ्यः सोपसर्गेभ्यो धातुभ्यः क्तप्रत्यये क्रमेण निभृतः, विनीतः, प्रश्रितश्च । विनययुक्तस्य नामानि ॥ धृष्टे—वियातश्च । गुरुराजादिसमक्षमात्मश्लाघादिपूर्वकं त्यक्तसङ्कोचतया व्यापारवतो नामानि । धृष्णोति राजविद्वत्सभासु निर्लज्जतया प्रगल्भत इति धृष्टः । ʻञिधृषा प्रागल्भ्ये । स्वादिः । क्तः (३। ४। ७२) । यद्यपि ʻआदितश्च्ö (७। २। १६) इति निष्ठायां इडागमः प्रतिषिद्ध एव, तथापि ʻधृषिशसी वैयात्ये (७। २। १९) इत्यर्थविषये नियम्यते ॥ ʻत्रसिगृधिधृषिक्षिपेः क्नुः’ (३। २। १४०) इति क्नुप्रत्यये धृष्णुः । धृष्णक् इति पाठे ʻधृषेश्चेति वक्तव्यम् (वा। ३। २। १७२) इति नजिङ्प्रत्ययः, नकारस्य णत्वे च धृष्णक् । जकारान्तः ॥ विशेषेणाभिमुख्यं यातो वियातः । वैयात्यमविनीतत्वमिति ॥ प्रगल्भः प्रतिभान्विते । प्रत्युत्पन्नमतित्वं प्रतिभा । तदुक्तम्—ʻप्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता’ । लौकिके वैदिके वा कर्मणि प्रतिभया युक्ते प्रगल्भशब्दः । प्रगल्भते प्रौढिमातनोतीति प्रगल्भः । ʻगल्भ धाष्ट्र्ये । भ्वादिः । पचाद्यच् (३। १। १३४) ॥ २४-५ ॥
मल्लि-नाथः - AK.03.01.024-25
विधेयो विनयग्राही । विनयग्रहीता विधेयः स्यात् । वचनेस्थित आश्रवः । वचनानुल्लङ्घी आश्रवः स्यात् । वश्यः प्रणेयः । वशङ्गतनामनी ॥ निभृत—समाः । विनीतनामानि ॥ धृष्टे—वियातश्च । धृष्टनामानि । धृष्णुर्वियातश्चेति पाठान्तरम् ॥ प्रगल्भः प्रतिभान्विते । प्रतिभावान् प्रगल्भः स्यात् । अनुक्तम्—ʻखसूचिः स्यान्निष्प्रतिभः’ । प्रतिभाहीनः खसूचिः स्यात् । खषूचिरिति मूर्धन्यमध्यश्च ॥ १४-५ ॥
[[०३.०३७]]
मूलम् - ०३.०१.०२६
अक्।०३.०१.०२६अब् स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते ।
अक्।०३.०१.०२६च्द् अधीरे कातरस्त्रस्नौ भीरुभीरुकभीलुकाः ॥ २६ ॥
लिङ्ग-सूरी - AK.03.01.026
स्यादिति—शालां स्वगृहमेव प्रवेष्टुमर्हतीति शालीनः । अधृष्टनाम ॥ विगतं लक्षं प्रस्तुतार्थविषयज्ञानमस्येति विलक्षः । विस्मयान्वितस्य नाम ॥ भयवशात् का ईषत्तरतीति कातरः । ʻतॄ प्लवनतरणयोः’ । त्रस्यति बिभेति ताच्छील्येनेति त्रस्नुः । ʻत्रसी उद्वेगे । त्रस्त इति वा पाठः । बिभेतीति भीरुः । भीरुकः । भीलुकश्च । ʻञिभी भये । भयशीलस्य नामानि ॥ २६ ॥
स्यात्—शालीनः । अधृष्टे प्रागुक्तधृष्टत्वरहिते शालीनशब्दः । सलज्जत्वेन सभासु स्थातुमसमर्थतया स्वशालामेव प्रवेष्टुमर्हतीति शालीनः । ʻशालीनकौपीने अधृष्टाकार्ययोः’ (५। २। २०) इति शालाशब्दात् खञ्प्रत्ययः, उत्तरपदलोपश्च निपात्यते ॥ विलक्षो विस्मयान्विते । कदाचित् केनचिद् रहसि कृतेऽप्यनुचितव्यापारे कथञ्चित् प्रकटीभूते सति रहसि मया कृतमिदं कर्म प्रकाशमभूदिति कर्तुर्मनसि विस्मयो भवति लज्जा च जायते, तदुभयमप्यत्र विस्मयशब्देन लक्ष्यते, तद्युक्ते विलक्षशब्दो वर्तत इत्यर्थः । तदुक्तमालङ्कारिकैः —
आत्मनश्चरिते सम्यग्ज्ञाते ऽन्यैर्यस्य जायते ।
अपत्रपातिमहती स विलक्ष इति स्मृतः ॥
इति । प्रतिपत्तिमूढतया विगतं लक्षं ज्ञानविषयोऽस्येति विलक्षः ॥ अधीरे—भीलुकाः । भयशीलस्य नामानि । धीराद् धैर्ययुक्तादन्योऽधीरः । कुशब्द ईषदर्थः । ईषत् तरति भयस्थानमिति कातरः (६। ३। १०५) । केन सुखेन न तीर्णः, प्राप्तो न भवतीति वा कातरः ॥ त्रस्यतीति त्रस्नुः । ʻत्रसी उद्वेजने । उद्वेजनं भयम् । ʻत्रसिगृधि ॥ इत्यादिना (३। २। १४०) ताच्छील्ये क्नुः ॥ बिभेतीति भीरुः । ʻञिभी भये । ʻभियः क्रक्लकनौ’ (३। २। १७४) इति क्रुप्रत्यये भीरुः । कित्त्वाद् गुणाभावः (१। १। ५) ॥ क्रुकन् प्रत्यये भीलुकः ॥ अस्मिन् प्रकरणे शब्दाः प्रायेण ताच्छीलिकप्रत्ययान्ताः ॥ २६ ॥
मल्लि-नाथः - AK.03.01.026
स्यात्—शालीनः । अधृष्टनामनी ॥ विलक्षो विस्मयान्विते । विस्मयेनान्वितो विलक्षः स्यात् । लज्जयान्वितोऽपि भवति ।
ʻआत्मनश्चरिते सम्यग्गीतेऽन्तर्यस्य जायते ।
अपत्रपातिमहती स विलक्ष इति स्मृतः’ ॥
अधीरे—भीलुकाः । भयशीलस्य नामानि । अनुक्तम्—ʻदरिते भीतचकितत्रस्तान्तरितशङ्किताः’ । भीतवतो नामानि । ʻवेरचिनवाण्डु’ ॥ २६ ॥
[[०३.०३८]]
मूलम् - ०३.०१.०२७
अक्।०३.०१.०२७अब् आशंसुराशंसितरि गृहयालुर्ग्रहीतरि ।
अक्।०३.०१.०२७च्द् श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ॥ २७ ॥
लिङ्ग-सूरी - AK.03.01.027
आशंसुरिति—आशंसते प्रियमाकाङ्क्षतीति आशंसुः, आशंसिता च । ʻशंसु स्तुतौ’ । अप्राप्तप्रियकामस्य नामनी ॥ गृह्यते ताच्छील्येन गृहयालुः । ʻगृह ग्रहणे । ग्रहीतुं शीलमस्यास्तीति ग्रहीता । ʻग्रह उपादाने । ग्रहणशीलस्य नामनी ॥ श्रद्धत्ते श्रद्धास्यास्तीति श्रद्धालुः । ʻडुधाञ् धारणपोषणयोः’ । श्रद्धायुक्तस्य नाम ॥ पतितुं शीलमस्यास्तीति पतयालुः । पातुकश्च । ʻपत्लृ गतौ’ । पतनशीलस्य नामनी ॥ २७ ॥
आशंसुराशंसितरि । स्वप्रियार्थविषयेच्छायुक्तस्य नामनी । ʻआङः शसि इच्छायाम् इति धातोः ʻसनाशंसभिक्ष उः’ (३। २। १६८) इति उप्रत्यये आशंसुः । तृन्प्रत्यये (३। २। १३५) आशंसिता ॥ गृहयालुर्ग्रहीतरि । ग्रहणशीलस्य नामनी । ʻगृह ग्रहणे इति धातुरदन्तश्चौरादिकः । तत्र ʻस्पृहिगृहि ॥ । इत्यादिना (३। २। १५८) आलुच्प्रत्यये ʻअयामन्ताल्वाय्येत्न्विष्णुषु’ (६। ४। ५५) इति णेरयादेशे गृहयालुः । ग्रहयालुरिति रेफसहितः पाठो भ्रान्तिमूलः ॥ ʻग्रह उपादाने इत्यतः तृन् प्रत्यये (३। २। १३५) ग्रहीता (७। २। ३७) ॥ श्रद्धालुः श्रद्धया युक्ते । आस्तिक्यबुद्धिः श्रद्धा । तद्युक्तः श्रद्धालुः । श्रद्धत्ते ताच्छील्येनेति । ʻश्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या’ इति श्रत्पूर्वाद् दधातेः ʻस्पृहिगृहि॥ । इत्यादिना (३। २। १५८) आलुच् ॥ पतयालुस्तु पातुके । गुरुत्वादिना पतनशीलस्य नामनी । ʻपत गतौ’ इत्यदन्तात् चौरादिकात् पूर्ववदालुचि (३। २। १५८) पतयालुः ॥ ʻलषपत ॥ । इत्यादिना (३। २। १५४) उकञ्प्रत्यये पातुकः ॥ २७ ॥
मल्लि-नाथः - AK.03.01.027
आशंसुराशंसितरि । आशंसनशीलनामनी ॥ गृहयालुर्ग्रहीतरि । ग्रहणशीलनामनी ॥ श्रद्धालुः श्रद्धया युक्ते । श्रद्धायुक्तः श्रद्धालुः स्यात् । श्राद्धोऽपि स्यात् । ʻश्राद्धः श्रद्धालुरास्तिकः’ इति वैजयन्ती (पृ। २०४, श्लो। ३७) । पतयालुश्च पातुके । पतनशीलनामनी ॥ २७ ॥
[[०३.०३९]]
मूलम् - ०३.०१.०२८
अक्।०३.०१.०२८अब् लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके ।
अक्।०३.०१.०२८च्द् शरारुर्घातुको हिंस्रः स्याद् वर्द्धिष्णुस्तु वर्धनः ॥ २८ ॥
लिङ्ग-सूरी - AK.03.01.028
लज्जाशील इति—अपत्रपितुं शीलमस्यास्तीति अपत्रपिष्णुः । ʻत्रपूष् लज्जायाम् । लज्जाशीलस्य नाम ॥ वन्दनशीलो वन्दारुः । अभिवादकश्च । ʻवदि अभिवादनस्तुत्योः’ । अभिवादनशीलस्य नामनी ॥ शृणाति ताच्छील्येनेति शरारुः । ʻशॄ हिंसायाम् । हन्तुं शीलमस्यास्तीति घातुकः । ʻहन हिंसागत्योः’ । हिनस्ति ताच्छील्येनेति हिंस्रः । ʻहिसि हिंसायाम् । हिंसनशीलस्य नामानि ॥ वर्धितुं शीलमस्यास्तीति वर्धिष्णुः । वर्धनश्च । ʻवृधु वृद्धौ’ । वृद्धिशीलस्य नामनी ॥ २८ ॥
लज्जाशीलेऽपत्रपिष्णुः । व्रीडायुक्तस्वभावस्य नामनी । अपत्रपते अपत्रपिष्णुः । ʻत्रपूष् लज्जायाम् । ʻअलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रप॥ । इत्यादिना (३। २। १३६) इष्णुच् ॥ वन्दारुरभिवादके । अभिवादनशब्देन स्वस्तिवादप्रयोजको नमस्कार उच्यते । तस्य कर्ता वन्दारुः । ʻवदि अभिवादनस्तुत्योः’ । वन्दते । ʻशॄवन्द्योरारुः’ (३। २। १७३) इत्यारुः ॥ ʻवद व्यक्तायां वाचि इत्यतः सोपसर्गाद् औणादिके बाहुलक उकञ् प्रत्यये अभिवादुकः । ʻअभिवादुक एनं भ्रातृव्यो भवति इति श्रुतौ प्रयोगः । ण्वुल्प्रत्यये अभिवादक इति केचित् ॥ शरारुर्धातुको हिंस्रः । ʻशॄ हिंसायाम् इत्यतो धातोः पूर्ववद् आरुप्रत्यये (३। २। १७३) शरारुः ॥ हन्तीति घातुकः । ʻलषपतपद ॥ । इत्यादिना (३। २। १५४) उकञ् । ʻहो हन्तेर्ञ्णिन्नेषु’ (७। ३। ५४) इति कुत्वम् । ʻहनस्तोऽचिण्णलोः’ (७। ३। ३२) इति तकारः ॥ हिनस्तीति हिंस्रः । ʻहिसि हिंसायाम् । ʻनमिकम्पि ॥ । इत्यादिना (३। २। १६७) रः । हननशीलस्य नामानि ॥ स्यात्—वर्धनः । वृद्धिशीलस्य नामनी । ʻवृधु वृद्धौ’ । वर्धते ताच्छील्येनेति वर्धिष्णुः । ʻअलङ्कृञ् ॥ । (३। २। १३६) इत्यादिना इष्णुच् ॥ तत एव धातोः ʻअनुदात्तेतश्च हलादेः’ (३। २। १४९) इति युचि वर्धनः ॥ २८ ॥
मल्लि-नाथः - AK.03.01.028
लज्जाशीलेऽपत्रपिष्णुः । लज्जाशोलोऽपत्रपिष्णुः स्यात् ॥ वन्दारुरभिवादके । वन्दनशीलनाम ॥ शरारुर्घातुको हिंस्रः । हिंसाशीलनामानि ॥ स्याद्वर्धिष्णुस्तु वर्धनः । वृद्धिशीलनामनी ॥ २८ ॥
[[०३.०४१]]
मूलम् - ०३.०१.०२९
अक्।०३.०१.०२९अब् उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः ।
अक्।०३.०१.०२९च्द् भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ २९ ॥
लिङ्ग-सूरी - AK.03.01.029
उत्पतिष्णुरिति—उत्पतितुं शीलमस्यास्तीति उत्पतिष्णुः । उत्पतिता च । उत्पतनशीलस्य नामनी ॥ अलङ्कर्तुं शीलमस्यास्तीति अलङ्करिष्णुः । मण्डयति ताच्छील्येनेति मण्डनः । ʻमडि भूषायाम् । अलङ्करणशीलस्य नामनी ॥ भवितुं शीलमस्यास्तीति भूष्णुः । भविष्णुः । भविता च । ʻभू सत्तायाम् । पुनः पुनर्भवनशीलस्य केशादेर्नामानि ॥ वर्तितुं शीलमस्यास्तीति वर्तिष्णुः । वर्तनश्च । ʻवृतु वर्तने । वर्तनशीलस्य कालादेर्नामनी ॥ २९ ॥
उत्पतिष्णुस्तूत्पतिता । उत्पतनशीलस्य विहगादेर्नामनी । ऊर्ध्वं पतति गच्छतीत्युत्पतिष्णुः । इष्णुच् (३। २। १३६) । तृन्प्रत्यये उत्पतिता (३। २। १३५) ॥ अलङ्करिष्णुस्तु मण्डनः । गृहाद्यलङ्करणशीलस्य नामनी । पूर्ववद् इष्णुच्प्रत्यये अलङ्करिष्णुः ॥ ʻमडि भूषायाम् । ʻक्रुधमण्डार्थेभ्यश्च्ö । (३। २। १५१) इति युचि मण्डनः ॥ भूष्णुः—भविता । पुनः पुनर्भवनशीलस्य केशनखादेर्नामानि । ताच्छील्येन भवतीति भूष्णुः । ʻग्लाजिस्थश्च ग्स्नुः’ (३। २। १३९) इति सूत्रे चकरात् भवतेरपि ग्स्नुप्रत्यये भूष्णुः ॥ ʻभुवश्च्ö (३। २। १३८) इति इष्णुचि भविष्णुः ॥ तृन्प्रत्यये (३। २। १३५) भविता ॥ वर्तिष्णुः—समौ । वर्तनशीलस्य नामनी । वर्तते ताच्छील्येनेति वर्तिष्णुः । इष्णुच् (३। २। १३६) ॥ ʻअनुदात्तेतश्च हलादेः’ (३। २। १४९) इति युचि वर्तनः ॥ २९ ॥
मल्लि-नाथः - AK.03.01.029
उत्पतिष्णुस्तूत्पतिता । उत्पतनशीलनामनी ॥ अलङ्करिष्णुस्तु मण्डनः । अलङ्करणशीलनामनी ॥ भूष्णुः—भविता । भवनशीलनामानि ॥ वर्तिष्णुः—समौ । वर्तनशीलनामनी ॥ २९ ॥
[[०३.०४२]]
मूलम् - ०३.०१.०३०
अक्।०३.०१.०३०अब् निराकरिष्णुः क्षिप्नुः स्यात् सान्द्रस्निग्धस्तु मेदुरः ।
अक्।०३.०१.०३०च्द् ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः ॥ ३० ॥
लिङ्ग-सूरी - AK.03.01.030
निराकरिष्णुरिति—निराकर्तुं शीलमस्यास्तीति निराकरिष्णुः । क्षिपति प्रतिपक्षमिति क्षिप्नुः । ʻक्षिप प्रेरणे । परपक्षनिराकरणशीलस्य नामनी ॥ सान्द्रमत्यन्तं स्निग्धः सान्द्रस्निग्धः । मेद्यति स्निह्यतीति मेदुरः । ʻञिमिदा स्नेहने । वनश्रेष्ठस्य शादादेर्नामनी ॥ ज्ञातुं शीलमस्यास्तीति ज्ञाता । ʻज्ञा अवबोधने । वेदितुं शीलमस्यास्तीति विदुरः । विन्दुश्च । ʻविद ज्ञाने । पण्डितस्य नामानि ॥ विकसति ताच्छील्येनेति विकासी । ʻकस गतौ’ । विकस्वरश्च । विकसनशीलस्य पुष्पादेर्नामनी ॥ ३० ॥
निराकरिष्णुः क्षिप्नुः स्यात् । अधिक्षेपकरणशीलस्य नामनी । निराकरोतीति निराकरिष्णुः । इष्णुच्प्रत्ययः (३। २। १३६) । क्षिपति अधिक्षिपति क्षिप्नुः । ʻक्षिप प्रेरणे । ʻत्रसिगृधिधृषिक्षिपेः क्नुः’ (३। २। १४०) इति क्नुः ॥ सान्द्रस्निग्धस्तु मेदुरः । सान्द्रो निबिडावयवारब्धः, स्नेहाख्यगुणयोगेन कार्कश्यरहितः स्निग्धः, सान्द्रश्चासौ स्निग्धश्च सान्द्रस्निग्धः, तथाविधः तरुणवृषभनवजल धरादिर्मेदुर उच्यते । मेद्यतीति मेदुरः । ʻञिमिदा स्नेहने । ʻभञ्जभासमिदो घुरच् (३। २। १६१) इति घुरच् । अत्र धात्वर्थपर्यालोचनायां स्नेहनमात्रमेव मेदुरशब्दप्रवृत्तिनिमित्तम् । ततश्च स्निग्धत्वं निरन्तरावयवसंश्लेषे सत्येव भवतीति सान्द्रस्निग्धत्वयोः द्वयोरपि कथनम् ॥ ज्ञाता विन्दुः । वस्तुविषययाथार्थ्यज्ञानयुक्तस्य नामानि । ʻज्ञा अवबोधने । तृन्प्रत्यये (३। २। १३५) ज्ञाता ॥ सम्यग् वेत्तीति विदुरः । ʻविद ज्ञाने । ʻविदिभिदिछिदेः कुरच् (३। २। १६२) इति कुरच् ॥ ʻविन्दुरिच्छुः’ (३। २। १६९) इति निपातनात् तत एव धातोर्विन्दुः ॥ विकासी तु विकस्वरः । विकसनशीलस्य कुसुमादेर्नामनी । विविधं कसति गच्छतीति विकासी । ʻकस गतौ’ । ʻसुप्यजातौ णिनिस्ताच्छील्ये (३। २। ७८) इति णिनिप्रत्ययः । अत्र सूत्रे ʻसुब्ग्रहणमुपसर्गनिवृत्त्यर्थम् इति यद्यपि वृत्तावुक्तं (काशिका १। पृ। १८८) तथापि क्वचिदुपसर्गपूर्वकत्वेऽपि णिनिर्भवति । तथा च न्यासकारः (पृ। ६२२) ʻअन्येभ्योऽपि दृश्यन्ते (३। २। ७५) इत्यत्र अपिशब्दः सर्वोपाधिव्यभिचारार्थोऽनुवर्तते । तेन उदासारिण्यः प्रत्यासारिण्यः इत्याद्युपसर्गेऽपि णिनिर्भवति इति ॥ ʻस्थेशभासपिसकसो वरच् (३। २। १७५) इति वरच्प्रत्यये विकस्वरः ॥ ३० ॥
मल्लि-नाथः - AK.03.01.030
निराकरिष्णुः क्षिप्नुः स्यात् । निराकरणशीलनामनी ॥ सान्द्रस्निग्धस्तु मेदुरः । स्नेहशीलनामनी ॥ ज्ञाता—विन्दुः । ज्ञानशीलनामानि ॥ विकासी तु विकस्वरः । विकसनशीलनामनी ॥ ३० ॥
[[०३.०४३]]
मूलम् - ०३.०१.०३१
अक्।०३.०१.०३१अब् विसृत्वरो विसृमरः प्रसारी च विसारिणि ।
अक्।०३.०१.०३१च्द् सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ॥ ३१ ॥
लिङ्ग-सूरी - AK.03.01.031
विसृत्वर इति—विसर्तुं शीलमस्यास्तीति विसृत्वरः । विसृमरः । प्रसारी च । ʻसृ गतौ’ । विसर्पणशीलस्य जलोपरिस्थितस्य तैलबिन्द्वादेर्नामानि ॥ सोढुं शीलमस्यास्तीति सहिष्णुः । सहनश्च । ʻषह मर्षणे । क्षाम्यति ताच्छील्येनेति क्षन्ता । क्षमिता । क्षमी च । ʻक्षमू सहने । तेजयति ताच्छील्येन सहत इति तितिक्षुः । ʻतिज निशातने क्षमायां च्ö । सहनशीलस्य नामानि ॥ ३१ ॥
विसृत्वरो—विसारिणि । परितः सर्पणशीलस्य जलस्थतैलबिन्द्वादेर्नामानि । विशेषेण सरति विसृत्वरः । ʻसृ गतौ’ । ʻइण्नश्जिसर्तिभ्यः क्वरप् (३। २। १६३) । कित्त्वाद् गुणाभावः । पित्त्वात्तुगागमश्च (६। १। ७१) । स्त्रियां तु ङीपि (४। १। १५) विसृत्वरी ॥ सृघस्यदः क्मरच् (३। २। १६०) इति क्मरच्प्रत्यये विसृमरः ॥ ʻप्रे लपसृद्रुमथवदवसः’ (३। २। १४५) इति घिनुण्प्रत्यये प्रसारी ॥ विपूर्वात् सरतेर्ग्रह्यादिणिनिप्रत्यये (३। १। १३४) विसारी ॥ सहिष्णुः—क्षमी । एतानि
ʻबाह्ये चाध्यात्मिके चैव दुःखे चोत्पादिते सति ।
न कुप्यति न वा हन्ति सा क्षमा परिकीर्तिता ॥
इत्युक्तलक्षणक्षमायुक्तस्य नामानि । सहते ताच्छील्येनेति सहिष्णुः । ʻषह मर्षणे । ʻअलङ्कृञ्॥ । इत्यादिना (३। २। १३६) इष्णुच् ॥ ʻअनुदात्तेतश्च हलादेः’ (३। २। १४९) इति युचि सहनः । क्षमत इति क्षमः । ʻक्षमूष् सहने । पचाद्यच् (३। १। १३४) । अस्य धातोः ऊदित्वेनेडागमस्य वैकल्पिकत्वात् (७। २। ४४) तदभावपक्षे तृनि क्षन्ता । इडागमपक्षे क्षमिता ॥ ʻशमित्यष्टाभ्यो घिनुण् (३। २। १४१) इति घिनुण्प्रत्यये क्षमी ॥ ʻतिज निशातने इति धातोः ʻगुप्तिज्किद्भ्यः सन् (३। १। ५) इत्यत्र ʻनिन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यते (इष्टिः ३। १। ५) इति क्षमायां सन्प्रत्यये ʻसनाशंसभिक्ष उः’ (३। २। १६८) इत्युप्रत्यये तितिक्षुः ॥ ३१ ॥
मल्लि-नाथः - AK.03.01.031
विसृत्वरो—विसारिणि । विसरणशीलनामानि ॥ सहिष्णुः—क्षमी । क्षमाशीलनामानि ॥ ३१ ॥
[[०३.०४५]]
मूलम् - ०३.०१.०३२
अक्।०३.०१.०३२अब् क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः ।
अक्।०३.०१.०३२च्द् जागरूको जागरिता घूर्णितः प्रचलायितः ॥ ३२ ॥
लिङ्ग-सूरी - AK.03.01.032
क्रोधन इति—क्रुध्यति ताच्छील्येनेति क्रोधनः । ʻक्रुध कोपे । न मृष्यति न सहत इत्यमर्षणः । ʻमृष तितिक्षायाम् । कोपो ऽस्यास्तीति कोपी । कोपनशीलस्य नामानि ॥ चण्डतेऽतीव कुप्यतीति चण्डः । ʻचडि कोपने । अत्यन्तकोपनस्य नामनी ॥ जागर्ति ताच्छील्येनेति जागरूकः । जागरिता च । ʻजागृ निद्राक्षये । जागरणशीलस्य नामनी ॥ घूर्णते इतस्ततो डोलयत इति घूर्णितः । ʻघुण घूर्ण भ्रमणे । प्रचल इवाचरतीति प्रचलायितः । क उपविश्यैव निद्रां गतस्य नामनी ॥ ३२ ॥
क्रोधनो—कोपी । क्रोधशीलस्य नामानि । क्रुध्यतीति क्रोधनः । ʻक्रुधमण्डार्थेभ्यश्च्ö (३। २। १५१) इति युच् ॥ ʻमृष सहने इति धातोः ʻअनुदात्तेतश्च ॥ । (३। २। १४९) इति युचि मर्षणशब्देन सहनशील उक्तः, तादृशो न भवतीत्यमर्षणः ॥ ʻकुप कोपे इत्यस्मादावश्यके णिनिप्रत्यये (३। ३। १७०) कोपी ॥ चण्डस्त्वत्यन्तकोपनः । ʻचडि कोपे इत्यस्मात् पचाद्यचि (३। १। १३४) चण्डः ॥ ʻक्रुधमण्ड ॥ । (३। २। १५१) इत्यादिना युचि कोपनः ॥ अतिशयेन कोपनशीलोऽत्यन्तकोपनः ॥ जागरूको जागरिता । निद्रारहितस्य नामनी । जागर्तीति जागरूकः । ʻजागृ निद्राक्षये । ʻजागुरूकः’ (३। २। १६५) इति ऊकप्रत्ययः ॥ तृन्प्रत्यये (३। २। १३५) जागरिता ॥ घूर्णितः प्रचलायितः । स्वप्नावस्थातः पूर्वं मनसो निमीलनावस्थामापन्नस्य नामनी । घूर्ण्यते इतस्ततो डोलायते स्म घूर्णितः । ʻघुण घूर्ण भ्रमणे । क्तः ॥ प्रचल इवाचरतीति प्रचलायितः । उपमानादाचार इत्यर्थे कर्तुः क्यङ् (३। १। ११) । सनाद्यन्तत्वेन धातुसञ्ज्ञायां क्तप्रत्ययः ॥ ३२ ॥
मल्लि-नाथः - AK.03.01.032
क्रोधनो—कोपी । कोपनशीलनामानि ॥ चण्डस्त्वत्यन्तकोपनः । अतिकोपशीलनामनी ॥ अनुक्तम्—ʻगोष्ठश्वस्तु स यो द्वेष्टि स्थान एव स्थितः परान् । स्थान एव स्थितः सन् परान् यो द्वेष्टि स गोष्ठश्वः स्यात् । ʻगेहेनर्दी गृहेशूरः’ । स्वगृहे शौर्यवतो नामनी ॥ जागरूको जागरिता । जाकरणशीलनामनी ॥ घूर्णितः प्रचलायितः । तन्द्रीवशात् पुनः पुनः पतनशीलनामनी ॥ ३२ ॥
[[०३.०४६]]
मूलम् - ०३.०१.०३३
अक्।०३.०१.०३३अब् स्वप्नक् शयालुर्निद्रालुर्निद्राणशयितौ समौ ।
अक्।०३.०१.०३३च्द् पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः ॥ ३३ ॥
लिङ्ग-सूरी - AK.03.01.033
स्वप्नगिति—स्वपिति ताच्छील्येनेति स्वप्नक् । ʻञिप्वप् शये । शेते ताच्छील्येनेति शयालुः । ʻशीङ् स्वप्ने । निद्राति ताच्छील्येनेति निद्रालुः । ʻद्रा कुत्सायां गतौ’ । निद्राणशीलस्य नामानि ॥ निद्रातीति निद्राणः । शेते स्म शयितः । सुप्तस्य नामनी ॥ परमञ्चतीति पराक् । पराङ् मुखं यस्य पराङ्मुखः । पराक् एव पराचीनः । ʻअञ्चु गतिपूजनयोः’ । पराङ्मुखस्य नामनी ॥ अव अञ्चति मुखमिति अवाङ् । अपिशब्दाद् अवाचीनश्च । अधोमुखस्य नामनी ॥ ३३ ॥
स्वप्नक्—निद्रालुः । निद्राशीलस्य नामानि । स्वपितीति स्वप्नक् । ʻस्वपितृषोर्नजिङ् (३। २। १७२) ॥ शेत इति शयालुः । ʻशीङ् स्वप्ने । ʻआलुचि शीङो ग्रहणं कर्तव्यम् (वा। ३। २। १५८) इत्यालुच् ॥ नितरां द्रातीति निद्रालुः । ʻद्रा कुत्सायां गतौ’ । ʻकुत्सिता गतिः पलायनं स्वप्नश्च्ö इति धातुवृत्तिः (मा। धा। पृ। ३६३) । ʻस्पृहिगृहि ॥ । इत्यादिना (३। २। १५८) आलुच् ॥ निद्राणशयितौ समौ । निद्रावस्थापन्नस्य नामनी । निद्राति स्मेति निद्राणः । ʻद्रा कुत्सायां गतौ’ । क्तः । ʻसंयोगादेरातो धातोर्यण्वतः’ (८। २। ४३) इति निष्ठानत्वम् ॥ शेते स्म शयितः । इडागमः । ʻनिष्ठा शीङ् ॥ । इत्यादिना (१। २। १९) कित्त्वप्रतिषेधाद् गुणायादेशौ ॥ पराङ्मुखः पराचीनः । पार्श्वतः पश्चाद्वा भुग्नशिरसो नामनी । पराञ्चति पुरस्तादप्यर्थाद् अन्यतो मुखं प्रसारयतीति पारङ् । ʻअञ्चु गतौ’ । ʻऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च्ö (३। २। ५९) इति क्विन्-प्रत्ययः । तदन्तात् प्रातिपदिकाद् ʻविभाषाञ्चेरदिक् स्त्रियाम् (५। ४। ८) इति स्वार्थिके खप्रत्यये पराचीनः । पराग्भूतं मुखमस्येति पराङ्मुखः । स्यादवाङप्यधोमुखः । पुरोभागनमितशिरस्कस्य नामनी । अवेति निपातोऽधोदेशे वर्तते । अवाञ्चतीति अवाङ् । पूर्ववदेव क्विन् (३। २। ५९) । स्त्रियां तु ङीपि अवाची । अपिशब्दात् पूर्ववदेव विकल्पेन स्वार्थिके खप्रत्यये (५। ४। ८) अवाचीनश्च ॥ ३३ ॥
मल्लि-नाथः - AK.03.01.033
स्वप्नक्—निद्रालुः । निद्राशीलनामानि ॥ निद्राण—समौ । कृतनिद्रस्य नामनी ॥ पराङ्मुखः पराचीनः । पारक्कृतमुखनामनी ॥ स्यादवाङप्यधोमुखः । अधोमुखनामनी ॥ अनुक्तम्—ʻउत्पश्य उन्मुखस्तुल्यौ’ । उपरि पश्यतो नामनी ॥ ३३ ॥
[[०३.०४७]]
मूलम् - ०३.०१.०३४
अक्।०३.०१.०३४अब् देवानञ्चति देवद्र्यङ् विष्वद्र्यड् विष्वगञ्चति ।
अक्।०३.०१.०३४च्द् यः सहाञ्चति सध्र्यङ् स स तिर्यङ् यस्तिरोऽञ्चति ॥ ३४ ॥
लिङ्ग-सूरी - AK.03.01.034
देवानिति—देवान् प्रति अञ्चति गच्छतीति देवद्र्यङ् । देवानुद्दिष्याभिमुख्येन गच्छतो नाम ॥ विष्वक् सर्वतोऽञ्चतीति विष्वद्र्यङ् । यः क्रमेण सर्वतो गच्छति तस्य नाम ॥ सहाञ्चतीति सध्र्यङ् । योऽन्येन सह गच्छति तस्य नाम ॥ तिरोऽञ्चति गच्छतीति तिर्यङ् । यस्तिरो गच्छति तस्य नाम ॥ ३४ ॥
देवा—देवद्र्यङ् । यः सेवार्थं हरिहरादीन् गच्छति तत्र देवद्र्यङ् शब्दः ॥ विष्वद्र्यङ् विष्वगञ्चति । यः क्रमेण विष्वक् सर्वत्राञ्चति गच्छति तत्र विष्वद्र्यङ्शब्दः । ʻअञ्चु गतिपूजनयोः’ । ʻविष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये (६। ३। ९२) इति अद्रिः । देवशब्दस्य टेरद्र्यादेशे देवद्र्यङ्शब्दोऽपि तद्वदेव ॥ यः सहा—सः । ʻसहस्य सध्रिः’ (६। ३। ९५) इति सहशब्दस्य सध्र्यादेशः । स्त्रियां तु देवद्रीची, विष्वद्रीची, सध्रीचीत्यादयो ङीप्प्रत्ययान्ताः ॥ स तिर्यङ् यस्तिरोऽञ्चति । तिर्यग्गच्छति तिर्यङ् । तिरोऽञ्चति । ʻतिरसस्तिर्यलोपे (६। ३। ९४) इति तिरःशब्दस्य तिर्यादेशः ॥ ३४ ॥
मल्लि-नाथः - AK.03.01.034
देवा—देवद्र्यङ् । देवान् प्रति यो याति स देवद्र्यङ् । स्त्री चेद् देवद्रीची ॥ विष्वद्र्यङ् विष्वगञ्चति । सर्वतो यो गच्छति स विष्वद्र्यङ् स्यात् । स्त्री चेद् विष्वग्द्रीची ॥ यः सहा—सः । यः सह गच्छति स सध्र्यङ् स्यात्, स्त्री चेत् सध्रीची ॥ स तिर्यङ् यस्तिरोऽञ्चति । तिर्यग् यो गच्छति स तिर्यङ् स्यात् । स्त्री चेत् तिरश्ची ॥ ३४ ॥
[[०३.०४८]]
मूलम् - ०३.०१.०३५
अक्।०३.०१.०३५अब् वदो वदावदो वक्ता वागीशो वाक्पतिः समौ ।
अक्।०३.०१.०३५च्द् वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५ ॥
लिङ्ग-सूरी - AK.03.01.035
वद इति—वदतीति वदः । वदावदश्च । ʻवद व्यक्तायां वाचि । वक्तीति वक्ता । ʻवच परिभाषणे । मुख्यवक्तुर्नामानि ॥ वाचामीशो वागीशः । वाचां पतिः वाक्पतिः । प्रबन्धादिकरणसमर्थस्य वाग्युक्तस्य नामनी॥ वाचां युक्तौ प्रयोगे पटुः वाचोयुक्तिपटुः । प्रशस्ता वागस्येति वाग्मी । वावद्यते भृशं वदतीति वावदूकः । विवक्षितार्थकथनप्रवीणस्य नामानि ॥ ३६ ॥
वदो—वक्ता । राजब्रह्मसभादौ निर्भीकत्वेनाभिवदनशीलस्य नामानि । वदतीति वदः । ʻवद व्यक्तायां वाचि । पचाद्यच् (३। १। १३४) ॥ ʻचरिचलिपतिवदीनां द्वित्वमच्याक् चाभ्यासस्य्ö (वा। ६। १। १२) इति वदेः पचाद्यचि विकल्पेन द्विर्वचने आगागमे वदावदः । अभ्यासस्याग्विधानादेव ʻहलादिः शेषः’ (७। ४। ६०) अत्र न भवति ॥ तृचि वक्ता (३। १। १३३) ॥ वागीशो—समौ । गद्यपद्यादिप्रबन्धनिर्माणपाटवसम्पन्नस्य नामनी ॥ वाचोयुक्ति—वक्तरि । वाचोयुक्तिर्वचसां प्रयोगः । ʻवाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु’ (वा। ६। ३। २१) इत्यलुक् । तत्र पटुः चतुरो वाचोयुक्तिपटुः ॥ युक्तियुक्तवचसामभिधानशीलतया प्रशस्ता वागस्येति वाग्मी । ʻवाचो ग्मिनिः’ (५। २। १२४) इति प्रशंसारूपे मत्वर्थे ग्मिनिः ॥ वावद्यते साधु वदतीति वावदूकः । ʻयजजपदशां यङः’ (३। २। १६६) इति सूत्रे वदेरनुप्रवेशः कार्यः इति पदकारवाक्याद् ऊकप्रत्ययः इति क्षीरस्वामी (पृ। २४३) । यङन्तानां, ʻयजिजपिदंशिवदामूकः’ इति कालापाः इति सर्वानन्दः (टी। स। पृ। १८) । ʻउलूकादयश्च्ö (उ। ४। ४१) इति वदेर्यङन्ताद् ऊकप्रत्यये वावदूकः, इति सुभूतिचन्द्रः ॥ तृनि वक्ता (३। २। १३५) ॥ ३५ ॥
मल्लि-नाथः - AK.03.01.035
वदो—वक्ता । भाषणाभिज्ञनामानि ॥ वागीशो—समौ । निपुणभाषिणो नामनी ॥ वाचोयुक्ति—वक्तरि । समञ्जसभाषिणो नामानि ॥ ३५ ॥
[[०३.०५०]]
मूलम् - ०३.०१.०३६
अक्।०३.०१.०३६अब् स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ।
अक्।०३.०१.०३६च्द् दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियंवदे ॥ ३६ ॥
लिङ्ग-सूरी - AK.03.01.036
स्यादिति—बहु जल्पतीति जल्पाकः । ʻजप जल्प व्यक्तायां वाचि । कुत्सिता वागस्येति वाचालः । वाचाटश्च । बहुनिन्दायुक्तवचसो नामानि ॥ मुखनिर्गतं दुष्टं वचनमस्येति मुखरः । अबद्धमनियन्त्रितं मुखनिःसृतं वचनमस्येति अबद्धमुखः । दुर्वचसो नामानि ॥ शक्नोति प्रियमेव वक्तुमिति शक्लः । श्लक्षण इति वा पाठः । ʻशक्लृ शक्तौ’ । प्रियंवदस्य नामनि ॥ ३६ ॥
स्यात्—बहुगर्ह्यवाक् । यः बहूनि प्रकृतानुपयुक्तानि गर्ह्याणि निन्द्यानि च वाक्यानि वक्ति तस्य जल्पाकादयः शब्दाः । जल्पतीति जल्पाकः । ʻजल्प व्यक्तायां वाचि । ʻजल्पभिक्षकुट्टलुण्टवृङः षाकन् (३। २। १५५) इति षाकन्प्रययः । स्त्रियां तु षित्त्वाद् ङीषि जल्पाकी ॥ बह्वी कुत्सिता वागस्येति वाचालः । वाचाटश्च । ʻआलजाटचौ बहुभाषिणि (५। २। १२५) इति सूत्रस्य पदसामर्थ्यादेव वाचां गर्ह्यत्वमपि लभ्यते । न्यायुक्तपरःसहस्रवादिन्यपि बहुभाषित्वव्यपदेशाभावात् ॥ दुर्मुखे—मुखौ । मुखशब्देनात्र वचनं लक्ष्यते । दुर्मुखे दुर्वचसि देशजातिकुलाद्याक्षेपकनिष्ठुरवचने मुखरादिशब्दद्वयम् । दुष्टं मुखं वचनमस्येति दुर्मुखः । ʻखमुखकुञ्जेभ्यो र इति वक्तव्यम् (वा। ५। २। १०७) इति निन्दारूपे मत्वर्थे रप्रत्यये मुखरः ॥ अबद्धम् असम्बद्धम् अनियन्त्रितं मुखमस्येति अबद्धमुखः ह्रस्वादिः ॥ शक्लः प्रियंवदे । शक्नोति प्रियमेव वक्तुमिति शक्लः । औणादिको लप्रत्ययः कल्प्य इति सुबोधिनीकारः । प्रायेण प्रियमेव वदतीति प्रियंवदः । ʻप्रियवशे वदः खच् (३। २। ३८) इति खच्, मुमागमश्च ॥ ३६ ॥
मल्लि-नाथः - AK.03.01.036
स्यात्—बहुगर्ह्यवाक् । बहुभाषिणो नामानि ॥ दुर्मुखे—मुखौ । असम्बद्धवचोवक्तृनामानि । ʻवठरः स्यान्मातृमुखः’ । ʻवराकवठरैरहो जगदिदं महद्वञ्चितम् ।इत्येते द्वे च ॥ श्लक्ष्णः प्रियंवदे । प्रियवादिनामनी ॥ ३६ ॥
[[०३.०५१]]
मूलम् - ०३.०१.०३७
अक्।०३.०१.०३७अब् लोहलः स्यादस्फुटवाग् गर्ह्यवादी तु कद्वदः ।
अक्।०३.०१.०३७च्द् समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः ॥ ३७ ॥
लिङ्ग-सूरी - AK.03.01.037
लोहल इति—लोहति स्थानप्रयत्नवैकल्यं करोतीति लोहलः । ʻलुह कत्थनादौ’ । अस्फुटवचसो नाम ॥ कुत्सितं वदतीति कद्वदः । ʻवद व्यक्तायां वाचि । निन्द्यवादिनो नाम ॥ कुत्सितः परदोषप्रख्यापनशीलो वादो भाषणं यस्येति कुवादः । कुत्सितं वदतीति कुवद इति वा पाठः । कुत्सितं चरतीति कुचरः । ʻचर गतौ’ । कुत्सितं चरति भाषते कुचरः । ʻचर गतिभक्षणयोः’ । परदोषख्यापनशीलस्य नामनी ॥ विरुद्धः श्रवणकटुः स्वरो यस्येत्यस्वरः । असौम्यस्वरवतो नाम ॥ ३७
लोहलः स्यादस्फुटवाक् । स्थानप्रयत्नवैकल्याद् अव्यक्तवचनस्य नाम । लोहति । ʻलुह गार्ध्ये इत्यस्माद् भौवादिकाद् अलप्रत्यये लोहलः इति केचित् । लुनाति वाक्यं मध्ये भिनत्तीति लोहलल इत्यन्ये । लोहम् अतिमांसलतया काठिन्येन लोहसदृशं रसनाताल्वादिकर्म लातीति लोहलः (३। २। ३) इत्यपरे ॥ गर्ह्यवादी तु कद्वदः । यो गर्ह्य कुत्सितं वचनमल्पमेव वदति ताच्छील्येन स गर्ह्यवादी कद्वदः । वाचाटस्तु बहुभाषीति कद्वदाद् भिन्नः । कुत्सितं वदतीति कद्वदः । ʻरथवदयोश्च्ö (६। ३। १०२) इति कोः कदादेशः ॥ समौ कुवादकुचरौ । कुत्सितः परदोषप्रख्यापनशीलो वादो भाषणं यस्येति कुवादः इति सर्वानन्दः । सुबोधिनीकारस्तु द्वितीयमक्षरमोष्ठ्यवर्गप्रथमयुक्तं पठित्वा कुत्सितः पदः पादसाध्यं गमनमस्येति व्याख्याय तत्संवादत्वेन ʻकुपदे कुचरः’ इति वैजयन्तीसंवादं (पृ। २०५, श्लो। ४८) दर्शितवान् । कुत्सितं चरति भाषते गच्छति वा कुचरः । पचाद्यच् (३। १। १३४) ॥ स्यादसौम्यस्वरोऽस्वरः । असौम्यः काकस्वरघर्घरादिरश्राव्यस्वरो यस्येति असौम्यस्वरः । विरुद्धः श्रवणकटुः स्वरो यस्येति अस्वरः । अत्र नञ् विरुद्धार्थः ॥ ३७ ॥
मल्लि-नाथः - AK.03.01.037
लोहलः स्यादस्फुटवाक् । म्लिष्टवचननामनी । ʻतोक्किमाट लाण्डिवाण्ड्ü । ʻलोहलोऽव्यक्तवाग् भवेत् इति हलायुधः (अ। मा। २। २३२) ॥ गर्ह्यवादी तु कद्वदः । गर्ह्यवादी कद्वदः स्यात् ॥ समौ कुवादकुचरौ । निकृष्टवाचिनो नामनी ॥ स्यात्—अस्वरः । हीनकण्ठस्य नामनी । ʻओरलुकुत्तिकवाण्ड्ü ॥ ३७ ॥
[[०३.०५२]]
मूलम् - ०३.०१.०३८
अक्।०३.०१.०३८अब् रवणः शब्दनो नान्दीवादी नान्दीकरः समौ ।
अक्।०३.०१.०३८च्द् जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥
लिङ्ग-सूरी - AK.03.01.038
रवण इति—रौति ताच्छील्येन शब्दायते रवणः । ʻरु शब्दे । शब्दयत इति शब्दनः । ʻशब्द शब्दक्रियायाम् । ध्वनिकरणशीलस्य नामनी ॥ नान्दीं मङ्गलवाद्यं वदतीति नान्दीवादी । नान्दीं मङ्गलपाठं करोतीति नान्दीकरः । मङ्गलपाठकस्य नामनी ॥ जडति जडीभवतीति जडः । ʻजल घातने । न जानातीत्यज्ञः । ʻज्ञा अवबोधने । जडस्य नामनी ॥ एडो बधिरः, स चासौ मूकश्च एडमूकः । अनेडमूक इति पाठे, एडमूको मूकसदृशो भवतीति अनेडमूकः । अव्युत्पन्नदशायां वक्तुं श्रोतुं वा शिक्षितस्य नाम ॥ ३८ ॥
रवणः शब्दनः । नरतिर्यगादिकारणभेदाविवक्षया श्रोतृग्राह्यशब्दप्रवृत्तिहेतोः करितुरगसमुद्रभेरीवीणादेर्नामनी । रौति शब्दायते ताच्छील्येन रवणः । ʻरु शब्दे ॥ शब्दयतीति शब्दनः । ʻशब्द शब्दे । चुरादिः । शब्दः शब्दनमिति तद्वृत्तौ । ʻचलनशब्दार्थादकर्मकाद् युच् (३। २। १४८) इतियुभयत्र युच् । नान्दीवादी—समौ ।
ʻदेवद्विजनृपादीनां स्तुतिर्यत्र प्रवर्तते ।
आशीर्वचनसंयुक्ता सा नान्दी नन्दिनो मुदे ॥ (ना। शा। ५। २४)
ʻनाट्यादौ पठ्यते यत्तु सा नान्दी कथिता बुधैः ।
सा स्यात् पदैर्द्वादशभिरष्टाभिर्वाप्यलङ्कृता ॥
इत्यादिना कोहलादिभिरुक्तलक्षणः पद्यविशेषो नान्दीत्युच्यते । यत्किञ्चिन्मङ्गलसूचकं वाक्यमात्रं वा । तथा च ʻनान्दीमुखं कर्म्ö इति मङ्गलमुखमित्यर्थः । तथा च ʻमदकलकलविङ्कीकाकुनान्दीकरेभ्यः’ इति मुरारिप्रयोगश्च (अ। रा। २। ४५) । नान्दीं वदति ताच्छील्येनेति नान्दीवादी । ʻसुप्यजातौ णिनिस्ताच्छील्ये (३। २। ७८) इति णिनिः । नान्दीं मङ्गलं करोति वदतीति नान्दीकरः । ʻदिवाविभानिशा॥ । बहुनान्दी॥ । इत्यादिना (३। २। २) करोतेष्टप्रत्ययः ॥ जडोऽज्ञे । अज्ञे मन्दबुद्धौ जडशब्दः ।
ʻइष्टं वानिष्टं वा सुखमितरद्वा न वेत्ति यो मोहात् ।
तूष्णीकः परवशगः स भवति जडसञ्ज्ञकः पुरुषः ॥
इति । जलतीति जडः । ʻजल घान्ये । घान्यं तीक्ष्णत्वाभावः । पचाद्यच् (३। १। १३४) । डलयोरभेदः ॥ एडमूकस्तु—अशिक्षिते । संस्कृतभाषादौ कृतबुद्धिषु व्यवहरत्सु यः स्वयमव्युत्पन्नतया तदीयवाक्यानि श्रोतुं प्रतिवक्तुं च समर्थो न भवति स एडमूक उच्यते । एडो बधिरो मूको वागिन्द्रियरहितः, एडश्चासौ मूकश्चेति विशेषणसमासः । श्रुतावधारणशक्तिराहित्यप्रतिवचनशक्तिराहित्यलक्षणोभय सादृश्याल्लक्षणाशब्दोऽयम् एडमूक इति । केचित्तु—जडो ऽज्ञेऽनेडमूकः इति पठित्वा व्याचक्षते । एडमूक इव भवतीति अनेडमूकः । अत्र नञ्शब्द इवार्थे । तदुक्तम्—ʻनञिव युक्तमन्यसदृशाधिकरणे तथाह्यर्थावगतेः’ इति । अयमर्थः—नञ्युक्तमिव युक्तं चान्यस्मिन् सदृशे वर्तते लोके तथैवार्थसम्प्रत्ययादिति । ʻन खल्वनेडमूका वा सर्व एते महर्षयः’ इति सुभूतिचन्द्रेण हर्षप्रयोगो दर्शितः ॥ ३८ ॥
मल्लि-नाथः - AK.03.01.038
रवणः शब्दनः । क्रोशनशीलनामनी ॥ नान्दीवादी—समौ । आशीर्वादकनामनी ॥ ʻदेवद्विजनृपादीनामाशीर्नान्दीति कीर्त्यते इति रभसकोशः । खेलिवादकनामन्यपि स्याताम् । ʻदुन्दुभिस्त्वानको भेरी भम्भा नासूश्च नान्द्यपि इति वैजयन्ती (पृ। १४६, श्लो। १३३) ॥ जडोऽज्ञः । अज्ञनामनी ॥ अनेडमूकस्तु—अशिक्षिते । सम्यगुक्तं वक्तुं श्रोतुं चाशिक्षितः सन् स्ववक्रिमाणं यो न जहाति सोऽनेडमूकः स्यात् । वाक्च्छोत्रेन्द्रियविकलश्चेद् एडमूकः स्यात् । ʻएडमूकस्त्ववाक्च्छ्रुतिः’ इति वैजयन्ती (पृ। २०२, श्लो। १३) ॥ ३८ ॥
[[०३.०५४]]
मूलम् - ०३.०१.०३९
अक्।०३.०१.०३९अब् तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे ।
अक्।०३.०१.०३९च्द् निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ॥ ३९॥
लिङ्ग-सूरी - AK.03.01.039
तूष्णीमिति—तूष्णीं शीलमस्यास्तीति तूष्णीकः । तूष्णींस्वभावस्य नामनी ॥ न लज्जते व्रीड्यतीति नग्नः । ʻओलस्जी व्रीडने । अविद्यमानं वासोऽस्येति अवासाः । दिश एवाम्बरं यस्य सः दिगम्बरः । वस्त्रहीनस्य नामानि ॥ निष्कायते निर्वास्यत इति निष्कासितः । ʻकस गतü । अवकृष्यते वलात्कारेणेति अवकृष्टः । ʻकृष विलेखने । गृहान्निर्वासितस्य नामनी ॥ अपध्वस्यत इत्यपध्वस्तः । ʻध्वंसु भ्रंसु अवस्रंसने । धिक्कृतं तव वर्तनम् इत्येवमुक्तो धिक्कृतः । न्यक्कृतस्य नामनी ॥ ३९ ॥
तूष्णींशीलस्तु तूष्णीकः। तूष्णीमित्यव्ययं वाङ्मुद्रणे वर्तते । तदेव शीलं यस्य सः तूष्णींशीलः । ʻतूष्णीमः शीले को मलोपश्च्ö (वा। ५। ३। ७१) इति ताच्छील्ये कप्रत्यये तूष्णीकः । मौनशीलस्य नामनी ॥ नग्नोऽवासा दिगम्बरः । परिधानप्रावारोभयवस्त्ररहितः पुरुषो नग्नादिशब्दैरुच्यते । परिधानराहित्येन सभामध्ये लज्जत इति नग्नः । ʻओलस्जी व्रीडे । क्तप्रत्ययः (३। ४। ७२) । ʻओदितश्च्ö (८। २। ४५) इति निष्ठानत्वम् । कुत्वे सति गकारः । वर्णव्यत्ययाद् नग्न इति सर्वानन्दः । नजिधातोरेवेति सुबोधिनीकारः । अथवा ʻछन्दांसि वै नग्ना’ इति श्रुतेः नग्नशब्देन वेदा उच्यन्ते । ʻतस्माद यज्ञोपवीत्येवाधीयीत्ö इति श्रुतेः विवसनस्य वेदाध्ययनाधिकाराभावाद् अविद्यमानवेदत्वेन नग्न इति ॥ अविद्यमानवस्त्रत्वाद् अवासाः ॥ दिश एवाम्बरं वस्त्रसदृशमस्येति दिगम्बरः ॥ निष्कासितोऽवकृष्टः स्यात् । गृहग्रामादिभ्यो बहिर्निःसारितस्य नामनी । निर्त्युपसर्गो निषेधे । तत्पूर्वात् ʻकस गतü इति धातोर्णिचि निष्ठायाम् ʻइसुसोः सामर्थ्ये (८। ३। ४४) इति षत्वे च निष्कासितः । समीपस्थितिं निषिध्य बहिर्निःसारित इत्यर्थः ॥ अवज्ञया कृष्यते बहिः क्रियते इत्यवकृष्टः ॥ अपध्वस्तस्तु धिक्कृतः । अल्पापराधेषु राजादिभिः ʻतव चरित्रं धिक् इति प्राप्तवाग्दण्डो धिक्कृतः । धिगिति कृत उक्त इत्यर्थः । सः अपध्वस्तः, अपध्वस्यते स्म धिक्कारेण न्यक्क्रियते स्म अपध्वस्तः । क्तः ॥ ३९ ॥
मल्लि-नाथः - AK.03.01.039
तूष्णींशीलस्तु तूष्णीकः । तूष्णींस्वभावमापन्नः तूष्णीकः स्यात् ॥ नग्नोऽवासा दिगम्बरः । अवसननामानि । जिनमुनिनामान्यपि स्युः । ʻक्षपणः श्रमणो नग्नो नग्नाटश्च दिगम्बरḵ इति वैजयन्ती (पृ। २०२, श्लो। १५) ॥ निष्कासितोऽवकृष्टः स्यात् । गृहात् परिहृतस्य नामनी ॥ अपध्वस्तस्तु धिक्कृतः । निर्भर्त्सनेन बहिष्कृतस्य नामनी ॥ ३९ ॥
[[०३.०५६]]
मूलम् - ०३.०१.०४०
अक्।०३.०१.०४०अब् आत्तगर्वोऽभिभूतः स्याद् दापितः साधितः समौ ।
अक्।०३.०१.०४०च्द् प्रत्यादिष्टो निरस्तः स्यात् प्रत्याख्यातो निराकृतः ॥ ४० ॥
अक्।०३.०१.०४१अब् निकृतः स्याद् विप्रकृतो विप्रलब्धस्तु वञ्चितः ।
अक्।०३.०१.०४१च्द् मनोहतः प्रतिहतः प्रतिबद्धो हतश्च स ॥ ४१ ॥
लिङ्ग-सूरी - AK.03.01.040-41
आत्तगर्व इति—नृपादिना आत्तो हृतो गर्वो यस्येत्यात्तगर्वः । आत्तगन्ध इति वा पाठः । अभिभूयत इत्यभिभूतः । रज्ञा हृताभिमानस्य नामनी ॥ राज्ञा दाप्यत इति दापितः । ʻडुदाञ् दाने । साध्यते साक्ष्यादिनेति साधितः । ʻसाध संसिद्धü । राज्ञा विवादेऽपराजितस्य नामनी ॥ प्रत्यादिश्यते निराक्रियते प्रत्यादिष्टः । ʻदिश अतिसर्जने । निराकृतस्य नाम । निरस्यते स्म निरस्तः । ʻअसु क्षेपणे । प्रत्याख्यायते स्म प्रत्याख्यातः । ʻख्या प्रकथने । निराक्रियते स्म निराकृतः । ʻडुकृञ करणे । विप्रकृतश्च । विप्रलभ्यते स्म विप्रलब्धः । वञ्च्यते स्म वञ्चितः । ʻडुलभष् प्राप्तü । ʻवञ्च प्रलम्भने । मनसि हतः मनोहतः । मनसि प्रतिहन्यते स्म प्रतिहतः । ʻहन हिंसागत्योḵ । मनसि प्रतिबध्यते स्म प्रतिबद्धः । ʻबन्ध बन्धने । हन्यते स्म हतः । ʻहन हिंसागत्योḵ ॥ ४०-१ ॥
आत्तगर्वोऽभिभूतः स्यात् । महायुद्धेषु पलायनेन, जल्पवितण्डादौ परवादिकृतनिग्रहप्रापणेन, महापराधेषु धनदण्डमुण्डादिना वा हृताभिमानोऽभिभूतः । अभिभूयते तिरस्क्रियते स्म अभिभूतः । क्तः । आत्तगन्ध इति केचित् पठन्ति । ʻगन्ध अर्दने इति धातोः पीडावचनात् पचाद्यचि (३। १। १३४) गन्धः । आत्तः स्वीकृतो गन्धो दुःखं येनेति आत्तगन्धः ॥ दापितः साधितः समौ । अर्थविवादेषु पराजितस्यैते नामनी । विवादास्पदीभूतं धनं धनिने दाप्यते स्मेति दापितः । ददातेर्णिचि पुगागमे (७। ३। ३६) च निष्ठा । सुभूतिचन्द्रस्तु—द्वितीयमक्षरं प्रथमान्तस्थं पठित्वा व्याचष्ट; ʻदय दानगतिरक्षणहिंसादानेष्ü इति धातोरिदं रूपमिति पुरुषोत्तम इति । सर्वानन्दस्तु पाठद्वयेनापि व्याख्यातवान् ॥ प्रतिवादिना साक्षिलेख्यादिभिः साध्यते स्मेति साधितः । अत्राह सुभूतिचन्द्रः—ʻसाधिताधिक्षिप्तशब्दयोः (श्लो। ४०, ४२) मध्ये क्वचित् पुस्तके,
प्रत्यादिष्टो निरस्तः स्यात् प्रत्याख्यातो निराकृतः ।
निकृतः स्याद् विप्रकृतो विप्रलब्धस्तु वञ्चितः ।
मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥
इति सार्धश्लोकस्य पाठो दृश्यते । स त्ववान्तरे प्रक्षिप्तः । पुरातनव्याख्यातृभिः अव्याख्यातत्वाद् इति । दशटीकासर्वस्वकारः सर्वानन्दोऽपि प्रत्यादिष्टादिकमर्धत्रयं परित्यक्तवानेव । तथापि इदानीन्तनपुस्तकेषु केषुचिद् विद्यमानत्वात् सुबोधिनीकारेण व्याख्यातत्वाच्च अस्माभिरपि तद्वयाख्यानुसारेण विविच्यते । तत्र प्रत्यादिष्टादिचतुष्टयं प्रागेकदा पराभूते पुनरपि प्राङ्न्यायादिना पराभूते वर्तत इति । प्रतीत्युपसर्गः पौनःपुन्ये, निरिति निश्चये यथायथम् उपसर्गवशात् पूर्वोक्त एवार्थे वर्तमानेभ्यः ʻदिश अतिसर्जने, ʻअसु क्षेपणे, ʻख्या प्रकथने, ʻडुकृञ् करणे इत्येतेभ्यो धातुभ्यः कर्मणि क्तप्रत्यये क्रमेण प्रत्यादिष्टः, निरस्तः, प्रत्याख्यातः, निराकृत इत्येते चत्वारः शब्दा भवन्ति । निराकृतादिद्वयं परकृततिरस्कारदुःखार्थे वर्तते । निपूर्वो विप्रपूर्वो वा करोतिधातुः शत्रुकृततिरस्कारसञ्जाते दुःखविशेषे वर्तते । तथा च ʻनवीकरिष्यत्युपशुष्यदार्द्रः स त्वद्विना मे हृदयं निकारḵ इति भारविः (किरा। ३। ४४) । ʻतस्मिन् विप्रकृताः काले तारकेण दिवौकसḵ इति कालिदासश्च (कु। सं। २। १) । ततः कर्मणि निष्ठायां निकृतो विप्रकृतश्च ॥ विप्रलब्धादिद्वयम् अनाप्तवचनादिना प्रमाणाभासेन विसंवादिज्ञानयुक्ते । उपसर्गद्वयवशेन वञ्चनार्थात् लभतेः कर्मणि निष्ठायां विप्रलब्धः । वञ्च्यते स्म वञ्चितः । ʻवञ्चु प्रलम्भने । प्रलम्भनं मिथ्याज्ञानमिति धातुवृत्तौ (मा। धा। पृ। ९३) । मनोहतादिचतुष्कं प्रतिकूलार्थप्राप्त्या निरुत्साहे मनसि हतः ताडित इव भवतीति मनोहतः । प्रतिहन्यते स्म प्रतिहतः । प्रतिबध्यते स्म निरुद्धः क्रियत इति प्रतिबद्धः । निश्चेष्टत्वेन हतसदृशतया हतः ॥ ४०-१ ॥
मल्लि-नाथः - AK.03.01.040-41
आत्तगन्धोऽभिभूतः स्यात् । तिरस्कृतनामनी ॥ दापितः साधितः समौ । अत्यन्तनिर्बन्धेन क्लेशितनामनी ॥ प्रत्यादिष्टो—निराकृतः । निराकृतनामानि ॥ निकृतः स्याद् विप्रकृतः । अपकृतस्य नामनी ॥ विप्रलब्धस्तु वञ्चितः । प्रतारितस्य नामनी ॥ मनोहतः—हतश्च सः । हतमनस्कस्य नामानि ॥ ४०-१ ॥
[[०३.०५८ ]]
मूलम् - ०३.०१.०४२
अक्।०३.०१.०४२अब् अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ ।
अक्।०३.०१.०४२च्द् आपन्न आपत्प्राप्तः स्यात् कान्दिशीको भयद्रुतः ॥ ४२ ॥
लिङ्ग-सूरी - AK.04.01.042
अधिक्षिप्त इति—अधिक्षिप्यते तिरस्क्रियत इत्यधिक्षिप्तः । प्रतिक्षिप्यत इति प्रतिक्षिप्तः । ʻक्षिप प्रेऱणे । सभायां जितस्य कूटसाक्ष्यादेर्नामनी ॥ कील्यते स्मेति कीलितः । ʻकील बन्धने । संयम्यते बध्यते स्म संयतः । ʻयम उपरमे । रज्जवादिना बद्धचोरादेर्नामानि ॥ आपद्यते आपदं प्राप्नोतीति आपन्नः । ʻपद गतü । आपदं प्राप्तस्य नाम ॥ कां दिशं व्रजामीति विह्वलो भवतीति कान्दिशीकः । भयद्रुतस्य नाम ॥ ४२ ॥
अधिक्षिप्तः प्रतिक्षिप्तः । सभामध्ये कूटसाक्षित्वादिदोषेण सभ्यैः परेण वा निन्दितस्य नामनी । ʻक्षिप प्रेरणे इत्यस्माद उपसर्गवशेन निन्दारूपार्थत्वाद् धातोः कर्मणि क्तप्रत्यये (३। २। १०२) अधिक्षिप्तः प्रतिक्षिप्तश्च ॥ बद्धे कीलितसंयतौ । चौर्याद्यपराधेषु रज्जुशृङ्खलादिना बद्धस्य नामनी । कील्यते बध्यते स्म कीलितः । ʻकील बन्धने । क्तः । रज्ज्वादिना संयम्यते स्म संयतः । ʻयमु उपरमे । क्तप्रत्यये सति अनुनासिकलोपः (६। ४। ३७) ॥ आपन्न आपत्प्राप्तः स्यात् । राज्यभ्रंशसर्वस्वनाशादिदुर्दिशां प्राप्तस्य नामनी । पद्यतिरत्र आङ्पूर्वो विपत्तिवचनः । तथा चोक्तम्—ʻविपत्त्यां विपदापदü इति (२। ८.८२) । आपद्यते स्म आपन्नः । ʻपद गतü । ʻरदाम्याम् ॥ । इत्यादिना (८। २। ४२) निष्ठानत्वम् ॥ आपदं प्राप्तः आपत्प्राप्तः । ʻद्वितीया श्रित ॥ । इत्यादिना (२। १। २४) समासः ॥ कान्दिशीको भयद्रुतः । शात्रवादिनिमित्ताद् भयात् कां दिशं व्रजामीति चिन्तयन् पलायितः कान्दिशीकः । पृषोदरादित्वात् (६। ३। १०९) साधुः ॥ ४२ ॥
मल्लि-नाथः - AK.03.01.042
अधिक्षिप्तः प्रतिक्षिप्तः । आरोपितदोषस्य नामनी ॥ बद्धे कीलितसंयतौ । शृङ्खलादिना बद्धस्य नामनी ॥ आपन्न आपत्प्राप्तः स्यात् । विपदाविष्टनामनी ॥ कान्दिशीको भयद्रुतः । भयात् पलायितस्य नामनी ॥ ४२ ॥
[[०३.०५९]]
मूलम् - ०३.०१.०४३
अक्।०३.०१.०४३अब् आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे ।
अक्।०३.०१.०४३च्द् व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ ॥ ४३ ॥
लिङ्ग-सूरी - AK.03.01.043
आक्षारित इति—आक्षार्यते व्याकुप्यते आक्षारितः । क्षारितश्च । ʻक्षर सञ्चलने । अभिशस्यते वाक्यसायकैः प्रतुद्यत इत्यभिशस्तः । ʻशसु हिंसायाम् । वाक्यपारुष्यात् ब्रह्महत्यादिना दूषितस्य नामनी ॥ सङ्कसति इतस्ततो गच्छतीति सङ्कसुकः । ʻकस गतü । ʻअस्थिरस्य कूटसाक्ष्यादेर्नाम ॥ व्यसनमियर्ति प्राप्नोतीति व्यसनार्तः । ʻऋ गतü । दुराग्रहेण मुखमुपरज्यतेऽस्येति उपरक्तः । ʻरञ्ज रागे । प्राप्तव्यसनस्य नामनी ॥ विगतव्यापारौ हस्तौ यस्येति विहस्तः । व्याकुल्यते मनोऽस्येति व्याकुलः । ʻकुल संस्त्याने । किङ्कर्तव्यतामूढस्य नामनी ॥ ४३ ॥
आक्षारितः—अभिशस्ते । अगम्यागमनमुद्घोष्य दूषिते आक्षारितद्वयम् । आक्षार्यते दुःसहवाक्यै सञ्चाल्यते स्म आक्षारितः, क्षारितश्च । णिचि कर्मणि क्तः । अभिशस्यते तीव्रवाक्यैरित्यभिशस्तः । ʻशसु हिंसायाम् । क्तः ॥ सङ्कसुकोऽस्थिरे । असन्दिग्धेऽप्यर्थे यः सदा सन्दिग्धे तत्र चलप्रकृतौ सङ्कसुकशब्द इति सर्वानन्द-सुभूतिचन्द्रौ (टी। स। पृ। २१) । सम्यक् कसति चलतीति सङ्कसुकः । ʻकस गतü । ʻसमि कस उकन् (उ। २। ३२) इति उकन्प्रत्ययः ॥ व्यसनार्तोपरक्तौ द्वौ । समावित्यर्थः । द्यूतमृगयादावत्यान्ताग्रहो व्यसनम् । तेन ऋतः प्राप्तो व्यसनार्तः । ʻऋते च तृतीयासमासेऽवर्णाद् वृद्धिर्वक्तव्या’ (वा। ६। १। ८९) इति पूर्वपरयोर्वृद्धिः । व्यसनेनार्त इति वा ॥ द्यूतादिविषयदुराग्रहेणोपरज्यत इति उपरक्तः । अथवा राहुणा ग्रस्तोऽर्कश्चन्द्रो वा । अयमपि दुस्त्यजदुराग्रहग्रहग्रस्तत्वेन तत्सादृश्यादुपरक्त इत्युक्तः । विहस्तव्याकुलौ समौ । शोकादिना किङ्कर्तव्यतामूढवाचकत्वेन समावित्यर्थः । निर्व्यापारतया विगताविव हस्तावस्येति विहस्तः ॥ विशेषेणाकीर्णं कुलमस्येति व्याकुलः ॥ ४३ ॥
मल्लि-नाथः - AK.03.01.043
आक्षारितः—अभिशस्ते । अभिशस्तनामानि । ʻबीडिम्पबडिनवाण्ड्ü ॥ अनुक्तम्—ʻआक्षिप्तो हतकः समü । सर्वैर्नष्ट इत्युक्तस्य नामनी । ʻचड्डमामाटलपाडवाण्ड्ü ॥ सङ्कसुकोऽस्थिरे । क्षणिकप्रकृतिकः सङ्कसुकः स्यात् ॥ व्यसनार्तोपरक्तौ द्वौ । दण्डपीडितस्य नामनी ॥ विहस्तव्याकुलौ समौ । अस्वस्थ हृदयनामनी ॥ ४३ ॥
[[०३.०६१]]
मूलम् - ०३.०१.०४४
अक्।०३.०१.०४४अब् विक्लवो विह्वलः स्यात् तु विवशोऽरिष्टदुष्टधीः ।
अक्।०३.०१.०४४च्द् कश्यः कशार्हे सन्नद्धे त्वाततायी वधोद्यते ॥ ४४ ॥
लिङ्ग-सूरी - AK.03.01.044
विक्लव इति—विक्लवते कातरीभवतीति विक्लवः । ʻक्लब कातर्ये । विरुद्धलक्षणया ह्वलतीति विह्वलः । ʻह्वल चलने । भयावेशादुत्पन्नप्रतिभयस्य नामनी ॥ विरुद्धं चिरं जीवितं वष्टि कामयत इति विवशः । ʻवश कान्तü । अरिष्टैरत्यासन्नमरणचिह्नैर्दुष्टबुद्धेर्नाम ॥ कशामर्हतीति कश्यः । कशाताडनार्हस्य नाम ॥ आततं विस्तृतमधिकमपराधमेति इत्याततायी । ʻइण् गतü । यो वधोद्यतः आसन्नद्धः तस्य नाम ॥ ४४ ॥
विक्लवो विह्वलः । भयादिनिमित्तेन स्वशरीरधारणेऽपि असमर्थस्य नामनी । विक्लबते शक्तो न भवतीति विक्लबः । ʻधातुपारायणेऽपठितोऽपि क्लबिधातुरुन्नेयः, पाठस्य प्रदर्शनार्थत्वात् इति सुबोधिनीकारः । विक्लव इत्यव्युत्पन्नं पदमिति केचित् ॥ विशेषेण ह्वलति चलतीति विह्वलः । ʻह्वल सञ्चलने । अच् (३। १। १३४) ॥ स्यात्तु—दुष्टधीः । अरिष्टम् आसन्नमहाव्यापत्तिलिङ्गदर्शनम् । तेन दुष्टा कातरा धीर्बुद्धिः यस्य स विवश इत्युच्यते । विविधमरिष्टनिरसनोपायं वष्टि कामयते विवशः । ʻवश कान्तü । पटाद्यच् (३। १। १३४) ॥ कश्यः कशार्हः । कृतापराधस्य चोरादेर्नामनी । ʻअश्वादेस्ताडनी कशा’ इति प्रागुक्तां (२। १०। ३१) तामर्हतीति कश्यः । ʻदण्डादिभ्यो यḵ (५। १। ६६) इति यः ॥ सन्नद्धे—वधोद्यते । अत्र वधोद्यतपदेन —
ʻअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारहरश्चैव षडेते आततायिनः ॥ (शु। नी। ३। ४२) इति स्मृत्युक्ताः परानिष्टकारिणो गृह्यन्ते । सन्नद्धे कृतसन्नाहे गृहदाहाद्यनिष्टकारिणि आततायिशब्दः । आङ्पूर्वाद् ʻअत सातत्यगमने इति धातोः पचाद्यच् (३। १। १३४) । आतशब्देन समन्ततः पलायमानः उक्तः, तं तयते जिघांस्या गच्छतीति आततायी । ʻतय गतü । ʻसुप्यजातौ णिनिḵ (३। २। ७८) । आततं यथा भवति तथा अयति ताच्छील्येन गच्छतीति वा ॥ ४४ ॥
मल्लि-नाथः - AK.03.01.044
विक्लबो विह्वलः । विह्वलनामनी ॥ स्यात्तु—दुष्टधीः । अशुभेन मतिभ्रष्टो विवशः स्यात् ॥ कश्यः कशार्हे । कशाघातार्हः कश्यः स्यात् ॥ सन्नद्धः—वधोद्यते । वधोद्युक्तनामनी ॥ ४४ ॥
[[०३.०६२]]
मूलम् - ०३.०१.०४५
अक्।०३.०१.०४५अब् द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ ।
अक्।०३.०१.०४५च्द् विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः ॥ ४५ ॥
लिङ्ग-सूरी - AK.03.01.045
देवेष्य इति—द्वेषमर्हतीति द्वेष्यः । ʻद्विष अप्रीतü । अक्षिगतशूकादिवत् पीडाकरत्वाद् अक्षिगतः । द्वेष्यनामनी ॥ वधमर्हतीति वध्यः । शीर्षच्छेदमर्हतीति शीर्षच्छेद्यः । वधार्हस्य नामनी ॥ विषेण वध्यो विष्यः । विषवध्यस्य नाम ॥ मुसलेन वधमर्हतीति मुसल्यः । मुसलवध्यस्थ नाम ॥ ४५ ॥
द्वेष्ये त्वक्षिगतः । द्वेषविषयमहानिष्टकारिणि अक्षिगतः । नेत्रमध्यपतिततृणसिकतादिवद् दुःखकारित्वसादृश्याद् अक्षिगत इति रूढलक्षणा ॥ वध्यः—इमौ समौ । ब्रह्महननादिमहापराधकरणेन वधरूपदण्डार्हस्य वाचकावित्यर्थः वधमर्हतीति वध्यः । ʻदण्डादिभ्यो यḵ (५। १। ६६) ॥ शीर्षच्छेदं शिरसश्छेदनमर्हतीति शीर्षच्छेद्यः । ʻशीर्षच्छेदाद्यच्च्ö (५। १। ६५) इति यत् ॥ विष्यो—वध्यः । यो निगूढापकारकारी विषप्रयोगव्यतिरिक्तोपायासम्भवाद् विषप्रयोगेणैव वध्यो भवति महामात्यादिः स विष्य उच्यते । ʻनौवयोधर्मविषमूल ॥ । इत्यादिना (४। ४। ९१) विषशब्दात् तृतीयासमर्थाद् वध्यार्थे यत्प्रत्ययः ॥ मुसल्यो मुसलेन यः । वध्यत इत्यनुवर्तते । यः सुवर्णस्तेयादिप्रायश्चित्ताद्यर्थं मुसलेनैव वध्यः स मुसल्यः । ʻदण्डादिभ्यो यḵ (५। १। ६६) इति यः ॥ ४५ ॥
मल्लि-नाथः - AK.03.01.045
द्वेष्ये त्वक्षिगतः । द्वेष्टुं योग्यनामनी । ʻअनिष्टो दुर्भगोऽपि सḵ । एते द्वे च ॥ वध्यः—इमौ समौ । शिरश्छेत्तुं योग्यस्य नामनी ॥ विषयो—वध्यः । विषेण हन्तुं योग्यो विष्यः स्यात् ॥ मुसल्यो मुसलेन यः । मुसलेन वध्यस्य नाम ॥ अनुक्तम्—ʻस त्वायःशूलिको यस्तु साध्यः स्यात् तीक्ष्णसाधनैḵ । तीक्ष्णसाधनैः साधयितुं योग्य आयःशूलिकः स्यात् ॥ ४५ ॥
[[०३.०६३]]
मूलम् - ०३.०१.०४६
अक्।०३.०१.०४६अब् शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ ।
अक्।०३.०१.०४६च्द् दोषैकदृक् पुरोभागी निकृतस्त्वनृजुः शठः ॥ ४६ ॥
लिङ्ग-सूरी - AK.03.01.046
शिश्विदान इति—श्विन्दते कर्मणि शुद्धत्वं प्राप्नोतीति शिश्विदानः । ʻश्विदि श्वैत्ये । अकृष्णं शुद्धं कर्म यस्येति अकृष्णकर्मा । शुद्धकर्मणो नामनी ॥ चपति मानसस्य प्रीतिमापादयतीति चपलः । ʻचप सान्त्वने । चरित्रे चकते प्रीणातीति चिकुरः । ʻचक तृप्तौ प्रतिघाते च । चञ्चलस्य विद्युत्प्रकाशादेर्नामनी ॥ पुरः ताच्छील्येन दोषं भजति गृह्णातीति पुरोभागी । ʻभज सेवायाम् । दोषैकग्राहिणो नामनी ॥ आशां निकृणोति हिनस्तीति निकृतः । ʻकृञ् हिंसायाम् । कुटिलहृदयत्वाद् अनृजुः । शठतीति शठः । ʻशठ कैतवे । कुटिलहृदयस्य नामानि ॥ ४६ ॥
शिश्वितानः कृष्णकर्मा । कृष्णं पापं तथाभूतं कर्म यस्य सः कृष्णकर्मा पापाचरणशीलः । शिश्विदान इति सर्वानन्दसुभूतिचन्द्रौ (टी। स। पृ। २२) । सुबोधिनीकारस्तु शिश्वितानोऽकृष्णकर्मा इति पठित्वा पापादन्यद् अकृष्णं निष्पापं कर्म यस्यासौ अकृष्णकर्मेति व्याख्यातवान् । अत्र च व्याख्याने ʻसुकृती पुण्यवान् (श्लो। ३) इत्यनेनास्य पौनरुक्त्यं परिहरणीयम् । कापुरुषनामानुशासनप्रस्तावे तद्विलक्षणस्यास्य प्रायपाठोऽपि सोढव्यः । चिरन्तनप्रयोगदर्शनाद् निघण्टृन्तरगवेषणाच्च शब्दार्थनिर्णयोऽधिगन्तव्यः । अथवा अरिष्टशब्दस्य मिथोविरुद्धशुभाशुभार्थद्वयवत्, शिश्वितानशब्दोऽपि पुण्यापुण्यकृल्लक्षणोभयार्थवाचक इत्यवधातव्यम् । श्वेतते पापविशेषाद् वैवर्ण्यं प्राप्नोतीति श्वितेः ʻछन्दसि लिट् (३। २। १०५) इति लिट् । ʻलिटः कानज्वा’ (३। २। १०६) इति कानजादेशः । ʻलिटि धातोरनभ्यासस्य्ö (६। १। ८) इति द्विर्वचनम् । कानच्प्रत्ययस्य भाषायामप्यस्ति प्रयोगः । तथा च ʻलिटः कानज्वा’ इति सूत्रे न्यासकारः (पञ्जिका पृ। ६३२)— ʻअसंयोगान्तेभ्यो हि “असंयोगाल्लिट् कित्” (१। २। ५) इत्येव कित्त्वं सिद्धं, संयोगान्ता अपि भाषायामेव प्रयोजयन्ति “न छन्दसि” इत्यादिना महता सन्दर्भेण भाषायामेव कित्त्वमर्थवद्भवति इति प्रत्यपीदत् ॥ चपलश्चिकुरः समौ । समौ इत्यनवस्थितचित्तस्य वाचकावित्यर्थः । प्रागुक्तः सङ्कसुकः सन्दिहानस्वभावः (श्लो। ४३) । अयं तु नित्यचञ्चलनिश्चयस्वभाव इति ततोऽस्य भेदः । ʻचुप मन्दायां गतü । चोपति । ʻचुपेरच्चोपधायाḵ (उ। १। ११६) इति कलप्रत्यये उपधाया अकारश्च । अथवा ʻचप सान्त्वने इति धातोः पचाद्यचि (३। १। १३४) चपः प्रियवादी, तं लात्यात्मसात्करोतीति चपलः (३। २। ३) । चिकुरः केशेषु व्युत्पादितः (२। ६। ९५) ॥ दोषैकृक् पुरोभागी । एकस्मिन्नेव दृङ् मनो यस्येत्येकदृक् । दोष एव एकदृक् दोषैकदृक् । न तु वस्तुगतं गुणमाद्रियत इत्यर्थः ॥ पुरोऽग्रतो दोषमेव भजति जानातीति पुरोभागी । ʻभज सेवायाम् । ʻसम्पुचानुरुधा ॥ । इत्यादिना (३। २। १४२) ताच्छील्ये घिनुण् । ʻचजोः कु घिण्ण्यतोḵ (७। ३। ५२) इति कुत्वम् ॥ निकृतस्त्वनृजुः शठः । निगूढापकारकारिणो नामानि । निगूढं कृणोति हिनस्तीति निकृतः । ʻकृञ् हिंसायाम् । क्तः । निकृष्टं कृतमस्येति वा निकृतः ॥ ऋजोः कपटरहितादन्योऽनृजुः । अथवा ʻअनुदरा कन्या’ इतिवत् नञि ईषदर्थे मनोवाक्कायकर्मणां मध्ये वाङ्मात्रेणैवार्जवप्रकाशनाद् ईषद्भाव आर्जवस्य । ʻशठ कैतवे इति धातोः पचाद्यचि (३। १। १३४) शठः । ʻगूढविप्रियकृच्छठḵ इत्यालङ्कारिकाः ॥ ४६ ॥
मल्लि-नाथः - AK.03.01.046
शिश्विदानोऽकृष्णकर्मा । दुराचारनामनी । ʻशिश्विदानो दुराचारो निषेधैकरुचिः खरुḵ इति वैजयन्ती (पृ। ८४, श्लो। १२) ॥ चपलश्चिकुरः समौ । चपलनामनी ॥ दोषैकदृक् पुरोभागी । सदा दोषान्वेषी पुरोभागी स्यात् ॥ निकृतस्त्वनृजुः शठः । शठनामनी। ʻजालिको ढण्डुकश्चायम् । एते द्वे च ॥ ४६ ॥
[[०३.०६५]]
मूलम् - ०३.०१.०४७
अक्।०३.०१.०४७अब् कर्णेजपः सूचकः स्यात् पिशुनो दुर्जनः खलः ।
अक्।०३.०१.०४७च्द् नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चक। ॥ ४७ ॥
लिङ्ग-सूरी - AK.03.01.047
कर्णेजप इति—कर्णे जपति सूचयतीति कर्णेजपः । ʻजप व्यक्तायां वाचि । सूचयति परकीयदोषानिति सूचकः । ʻसूच पैशुन्ये । पिंशति अनृतस्यावयवो भवतीति पिशुनः । ʻपिश अवयवे । दुष्टो जनो दुर्जनः । खलति स्वदत्तभाषाविषये चलतीति खलः । ʻखल सञ्चलने । दुर्जननामानि ॥ नृन् परपीडाकरान् शंसतीति नृशंसः । ʻशंसु स्तुतü । प्राणिनं हन्तीति घातुकः । ʻहन हिंसागत्योḵ । कृणोति हिंसयति प्राणिनमिति क्रूरः । ʻकृञ् हिंसायाम् । महत् पापमस्यास्तीति पापः । परपीडारतस्य नामानि ॥ धूर्वति हिनस्तीति धूर्तः । ʻधुर्वी हिंसायाम् । वञ्चयतीति वञ्चकः । ʻवञ्चु प्रलम्भने । यः पराधिक्यं न प्रकाशयति तस्य नामनी ॥ ४७ ॥
कर्णेजपः सूचकः स्यात् । राजादीनां कर्णे जपति व्यक्तं वदति परकीयदोषानिति कर्णेजपः । ʻजप व्यक्तायां वाचि । ʻस्तम्बकर्णयो रमिजपोḵ (३। २। १३) इत्यत्र ʻहस्तिसूचकयोरिति वक्तव्यम् इत्यच् । ʻहलदन्तात् सप्तम्याः सञ्ज्ञायाम् (६। ३। ९) इति सप्तम्या अलुक् ॥ सूचयति परदोषानिति सूचकः । ʻसूच पैशुन्ये । ण्वुल् (३। १। १३३) । तदुक्तम् (शुक्र। ४। ५। ६९)—
ʻराजादिभिर्नियुक्तो यः परदोषानवेक्षितुम् ।
तदग्रे सूचयन् ज्ञात्वा सूटकोऽयमुदाहृतः ॥
इति ॥ पिशुनो दुर्जनः खलः । संहतेषु मिथो भेदकारिणो नामानीति सुभूतिचन्द्रः । पिंशति दोषकारिणमङ्गुल्यादिना सूचयतीति पिशुनः । ʻपिश अवयवे । अवयवोऽङ्गुल्यादिना सूचनमिति धातुवृत्तौ (मा। धा। पृ। ७४) । उनन् प्रत्ययः (उ। ३। ५५) ॥ दुष्टो जनो दुर्जनः ॥ खलति धर्मादिति खलः । ʻखल सञ्चलने । पचाद्यच् (३। १। १३४) । खं रन्ध्रस्थानं लात्यादत्त इति वा । ʻआतोऽनुपसर्गे कḵ इति कः (३। २। ३) । कर्णेजपपञ्चकं परदोषख्यापकमात्र इति केचित् ॥ नृशंसो—पापः । परद्रोहाचरणशीलस्य नामानि । नॄन् प्राणिनः शसति हिनस्तीति नृशंसः । ʻशसु हिंसायाम् । पचाद्यच् (३। १। १३४) । नैरुक्तो वर्णागमः ॥ हन्ति ताच्छील्येनेति घातुकः । ʻलषपतपद ॥ । (३। २। १५४) इत्यादिना हन्तेरुकञ्प्रत्ययः । ʻहो हन्तेः ॥ । इत्यादिना (७। ३। ५४) कुत्वम्, वुद्धिश्च ॥ कृन्ततीति क्रूरः । ʻकृती छेदने । ʻकृतेश्छः क्रू च्ö (उ। २। २३) इति रक् । धातोश्च क्रू इत्यादेशः ॥ पापमस्यास्तीति पापः । अर्शआद्यच् (५। २। १२७) ॥ धूर्तस्तु वञ्चकः । प्रतारणशीलस्य नामनी । धूर्तशब्दोऽक्षदेविनि व्युत्पादितः (२। १०। ४३) । वञ्चकः सृगाले (२। ५। ५) ॥ ४७ ॥
मल्लि-नाथः - AK.03.01.047
कर्णेजपः—पिशुनः । द्विजिह्वनामानि ॥ दुर्जनः खलः । दुष्टजननामनी ॥ नृशंसो—पापः । हिंसकनामानि ॥ धूर्तस्तु वञ्चकः । धूर्तस्तु व्यंसक इति पाठान्तरम् ।
ʻयदतीव प्रयत्नेन संयोगादेरगौरवम् ।
न छन्दोभङ्ग इत्याहुस्तदा दोषाय सूरयः ॥
इति सरस्वतीकण्ठाभरणवचनाद् (१। १२३) अत्र श्लथोच्चारणम् । वञ्चकनामनी ॥ अनुक्तम्—ʻसमौ दुर्वृत्तदुरटü । दुर्वृत्तनामनी ॥ ʻठक्के मायाविमायिनü । ठ्क्कनामनी ॥ ४७ ॥
[[०३.०६७]]
मूलम् - ०३.०१.०४८
अक्।०३.०१.०४८अब् अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः ।
अक्।०३.०१.०४८च्द् कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः ॥ ४८ ॥
लिङ्ग-सूरी - AK.03.01.048
अज्ञ इति—किमपि न जानातीत्यज्ञः । ʻज्ञा अवबोधने । मुह्यति कार्येष्विति मूढः । ʻमुह वैचित्ये । मूर्खश्च । बुद्धिहीनतया यथाजाता बुद्धिरस्येति यथाजातः । अज्ञत्वेन विधातव्यत्वाद् विधेयः । स एव वैधेयः । बालते आप्लवते मनसि बालिशः । ʻबाडृ आप्लाव्ये । मूर्खनामानि ॥ कुत्सितोऽर्यः स्वामी कदर्यः । अल्पमेव व्ययं कर्तुं कल्पते समर्थो भवतीति कृपणः । ʻकृपू सामर्थ्ये । क्षुणत्ति यवाग्वादि कर्तुं तण्डुलादीन् पिनष्टीति क्षुद्रः । ʻक्षुदिर् सम्पेषणे । किञ्चिदेवान्नं पचतीति किम्पचानः । मितमेवान्नं पचतीति मितम्पचः । ʻडुपचष् पाके । लोभिनो नामनि ॥ ४८ ॥
अज्ञे—बालिशाः । विवेकरहितस्य नामानि । जानातीति ज्ञः, विद्वान् । ततोऽन्योऽज्ञः ॥ मुह्यति कार्येषु व्यामोहं गच्छतीति मूढः । ʻमुह वैचित्ये । क्तप्रत्यये (३। ४। ७२) ʻहो ढḵ (८। २। ३१) इति ढत्वं ष्टुत्वं (८। ४। ४१), ढलोपे दीर्घश्च (६। ३। १११) ॥ उत्पत्त्यवस्थायां यथा मन्दबुद्धिस्तथैव सर्वदापीति यथाजातः ॥ मुह्यतीति मूर्खः । ʻमुहेः खो मुर्च्ö (उ। ५। २२) इति खप्रत्ययः, धातोर्मुरादेशश्च । ʻहलि च्ö (८। २। ७७) इत्युपधादीर्घः ॥ स्वयं ज्ञानरहितत्वेन त्वयेदं कर्माचरणमित्थं कर्तव्यमिति परैर्विधातुं योग्यो विधेयः । ततः स्वार्थिकेऽण्-प्रत्यये वैधेयः । देवतार्थं दत्तमपूपादिबलिं श्यति भक्षणेन तनूकरोतीति बलिशः । ʻशो तनूकरणे । ततः स्वार्थेऽण्प्रत्यये बालिशः ॥ कदर्ये—मितम्पचाः । लोभातिशयेन कुटुम्बभरणं कुर्वाणस्य नामानि । तथा चोक्तं स्मृतिकारैः—
ʻआत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् ।
लोभाद् यः पितरौ भृत्यान् स कदर्य इति स्मृतः ॥
इति । अर्यशब्दः स्वामिन्यर्थे निपातितः (३। १। १०३) । कुत्सितोऽर्यः कदर्यः । ʻकोः कत्तत्पुरुषेऽचि (६। ३। १०१) इति कुशब्दस्य कदादेशः ॥ कुटुम्बपीडनेनापि जीवनाय कल्पते समर्थो भवतीति कृपणः । ʻकृपू सामर्थ्ये । बाहुलकः क्युन्प्रत्ययः । ʻकृपो रो लḵ (८। २। १८) इति प्राप्तस्य लत्वस्याभावश्च । अन्यस्त्वाह—कुत्सितं पणते व्यवहरति कृपणः । ʻपण व्यवहारे स्तुतौ च्ö । पृषोदरादित्वाद् आद्यवर्णस्यान्यथाभाव इति ॥ क्षुणत्ति कुटुम्बं पिनष्टि पीडयतीति क्षुद्रः । ʻक्षुदिर् सम्पेषणे । ʻस्फायितञ्चि॥ । (उ। २। १३) इति रक्प्रत्ययः ॥ किञ्चिदेव पचानः किम्पचानः । ʻताच्छील्यवयोवचनशक्तिषु चानश् (३। २। १२९) । आगमशासनस्यनित्यत्वाद् मुमागमो नास्ति । अथवा पचतेर्धातोः ʻषिद्भिदादिभ्योऽङ् (३। ३। १०४) इत्यङ्प्रत्यये टापि पचाशब्देन पाक उक्तः । किमित्येतदव्ययं किञ्चिदर्थे । अत्यल्पया पचया पाकेन अनिति प्राणितीति किम्पचानः । ʻअन प्राणने । पचाद्यच् (३। १। १३४) ॥ मितम् अत्यल्पमेव पचतीति मितं पचः । ʻमितनखे च्ö (३। २। ३४) इति खश् । मुमागमश्च (६। ३। ६७) । मितशब्देनार्थग्रहणाद् अल्पम्पचोऽप्यस्तीति रक्षितः इति सर्वानन्दः (टी। स। पृ। २४) ॥ ४८ ॥
मल्लि-नाथः - AK.03.01.048
अज्ञे—बालिशाः । मूर्खनामानि । ʻयो देवानाम्प्रियोऽनेडḵ । एते द्वे च ॥ कदर्ये—मितम्पचाः । कार्पण्यवतो नामानि । ʻलोभि ॥ ४८ ॥
[[०३.०६९]]
मूलम् - ०३.०१.०४९
अक्।०३.०१.०४९अब् निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः ।
अक्।०३.०१.०४९च्द् वनीयको याचनको मार्गणो याचकार्थिनौ ॥ ४९ ॥
लिङ्ग-सूरी - AK.03.01.049
निःस्व इति—न विद्यते स्वं धनमस्येति निःस्वः । दुष्टा विधा प्रकारोऽस्येति दुर्विधः । दीयते क्षीयत इति दीनः । ʻदीङ् क्षये । दरिद्राति दुर्गतिं प्राप्नोतीति दरिद्रः । ʻदरिद्रा दुर्गतü । दुरवस्थां गतो दुर्गतः । दरिद्रनामानि ॥ वनति याचत इति वनीयकः । ʻवनु याचने । याचतीति याचनकः । याचकश्च । ʻटुयाचृ याच्ञायाम् । दातारमेव मार्गयतीति मार्गणः । ʻमार्ग अन्वेषणे । अर्थयत इत्यर्थी । ʻअर्थ उपयाच्ञायाम् । याचकनामानि ॥ ४९ ॥
निःस्वस्तु—दुर्गतोऽपि सः । धनधान्यादिजीवनोपायरहितस्य नामानि । निष्क्रान्तः स्वाद् धनादिति निःस्वः । ʻनिरादयः क्रान्ताद्यर्थे पञ्चम्या’ (वा। १। ४। ७९) इति समासः ॥ दुष्टा जीर्णवस्त्रधारणकदन्नभोजनादिरूपा विधा प्रकारा यस्येति दुर्विधः ॥ दीयते क्षीयत इति दीनः । ʻदीङ् क्षये । कर्तरि क्तप्रत्यये स्वादीनामोदित्त्वपरिभाषया निष्ठानत्वम् (८। २। ४५) ॥ दरिद्राति दुर्गतो भवतीति दरिद्रः । ʻदरिद्रा दुर्गतü । पचादिः (३। १। १३४) ॥ दुःखं गतो दुर्गतः ॥ वनीपको—याचकार्थिनौ । याच्ञालब्धमात्रजीवनोपायस्य नामानि । ʻवनु याचने इत्यस्मादिन्प्रत्यये (उ। ४। ११९) वा ङीषि वनी । वनिशब्देन याच्ञाभिधीयते । तां पाति रक्षति सर्वदावतीति वनीपकः । ʻसञ्ज्ञायां कन् (५। ३। ७५) । ʻनवकदम्बकदम्बकसन्ततप्रसवनीपवनीपकषट्पदḵ इति कप्फिणाम्युदये । सर्वानन्दस्तु (टी। स। पृ। २४) वनीयक इति तालव्यान्तस्थमध्याक्षरपाठेन व्याचष्ट । वनीं याच्ञां आत्मन इच्छतीति क्यचि (३। १। ८) ण्वुलि वनीयक इति ॥ याचते याचनः । ʻटुयाचृ याच्ञायाम् । ʻअनुदात्तेतश्च हलादेḵ (३। २। १४९) इति युच् । तदन्तात् सज्ञायां कनि (५। ३। ७५) याचनकः ॥ याचति । ण्वुलि (३। १। १३३) याचकः ॥ मार्गति अन्वेषते दातारमिति मार्गणः । ʻमार्ग अन्वेषणे । नन्द्यादिः (३। १। १३४) ॥ ʻअर्थाच्चासन्निहिते (वा। ५। २। १३५) इत्यर्थशब्दाद् इनिप्रत्यये अर्थी ॥ ४९ ॥
मल्लि-नाथः - AK.03.01.049
निःस्वस्तु—दुर्गतश्च सः । दरिद्रनामानि ॥ ʻकठेरोऽकिञ्चनोदुःस्थḵ । एतानि त्रीणि च ॥ वनीपको—याचकार्थिनौ । याचकनामानि ॥ अनुक्तम्—ʻयद्भविष्यो दैवपरḵ । स्वप्रयत्नशून्यस्य नामनी ॥ ʻवराको नामवर्जितḵ । अनामधेयनाम ॥ ४९ ॥
[[०३.०७१]]
मूलम् - ०३.०१.०५०
अक्।०३.०१.०५०अब् अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः ।
अक्।०३.०१.०५०च्द् दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ५० ॥
लिङ्ग-सूरी - AK.03.01.050
अहमिति—अहङ्कारोऽस्यास्तीत्यहंयुः । अहङ्कारवतो नाम ॥ शुभमस्यास्तीति शुभंयुः । शुभान्वितस्य नाम ॥ दिवि भवा दिव्याः । उपपादुका अयोनिजशरीरिणः । दिव्याश्च ते उपपादुकाश्च दिव्योपपादुकाः देवाः । देवानां नाम ॥ जरायोर्गर्भाशयात् जाता जरायुजाः । मनुष्यगवादीनां नाम ॥ ५० ॥
अहंयुःस्यादहङ्कारी । अहमिति निपातोऽहङ्कारार्थः । अहङ्कारो गर्वोऽस्यास्तीति अहंयुः । ʻअहंशुभमोर्युस् (५। २। १४०) । अत्र सकारानुबन्धः ʻसिति च्ö (१। ४। १६) इति पदसञ्ज्ञार्थः । ततश्च ʻवा पदान्तस्य्ö (८। ४। ५९) इति परसवर्णविकल्पः ॥ शुभंयुस्तु शुभान्विते । अहंशुभमोरिति (५। २। १४०) सूत्रनिर्देशादेव शुभमिति मकारान्तमव्ययमस्तीति सूचितम् । शुभं मङ्गलम् अस्यास्तीति शुभंयुः पूर्ववद् युस्प्रत्ययः (५। २। १४०) ॥ दिव्योपपादुका देवाः । इन्द्रादयो देवाः, ते दिव्योपपादुका उच्यन्ते । दिवि स्वर्गे भवा दिव्याः । ʻद्युप्रागपागुदक्प्रतीचो यत् (४। २। १०१) । शुक्लशोणितादिकारणमनपेक्ष्य धर्मविशेषादेवोपपद्यन्त इत्युपपादुकाः । ʻलषपतपद ॥ । इत्यादिना (३। २। १५५) उकञ् । दिव्याश्च ते उपपादुकाश्चेति कर्मधारयः । नारकाणामपि योन्यादिकमनपेक्ष्यैव धर्मवशादुपपादुकत्वमस्तीति तद्व्यावृत्त्यर्थं दिव्यपदम् । अत एव ʻस्वर्गोपपादुका देवाḵ इति त्रिकाण्डे स्वर्गपदं व्यावर्तकतयोक्तम् । नृगवाद्या जरायुजाः । उत्पत्तिसमये जरायोर्निर्गत्य जाता जरायुजाः । आद्यशब्देन अश्वमहिषादयो गृह्यन्ते ॥ ५० ॥
मल्लि-नाथः - AK.03.01.050
अहंयुः स्यादहङ्कारी । अहङ्कारिणो नामनी । ʻगर्विकः स्तब्ध उद्ग्रीवः शौण्डीरो दृप्त इत्यपि । एतानि पञ्च च ॥ शुभंयुस्तु शुभान्विते । शुभयुक्तनाम ॥ अनुक्तम्—ʻनीलीरागः स्थिरप्रेमा’ । स्थिरस्नेहः नीलीरागः स्यात् ॥ ʻहरिद्रारागकोऽन्यथा’ । अस्थिरस्नेहः हरिद्रारागकः स्यात् ॥ दिव्योपपादुका देवाः । देवताः दिव्योपपादकारणत्वाद् दिव्योपपादुकाः ॥ नृगवाद्या जरायुजाः । नृग्वाद्या जरायुकारणत्वात् जरायुजाः ॥ ५० ॥
[[०३.०७२]]
मूलम् - ०३.०१.०५१
अक्।०३.०१.०५१अब् स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ।
अक्।०३.०१.०५१च्द् उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ॥ ५१ ॥
लिङ्ग-सूरी - AK.03.01.051
स्वेदजा इति—स्वेदसङ्गृहीतेभ्यः पार्थिवपरमाणुभ्यो जाताः स्वेदजाः । कृमिदंशादीनां नाम ॥ अण्डाज्जायन्त इत्यण्डजाः । पक्षिसर्पादीनां नाम ॥ भुवमुद्भिनत्तीति उद्भित् । उद्भिदं च । ʻभदिर् विदारणे । उद्भिद्य उद्भिदो जायन्त इति उद्भिज्जाः । अङ्कुरजातानां वृक्षगुल्मादीनां नामानि ॥ ५१ ॥
स्वेदजाः कृमिदंशाद्याः । अत्र घर्मवाचिना स्वेदशब्देन भौमोष्मविशेषो विवक्षितः । कृमिदंशादीनां पार्थिवपरमाणुजन्यत्वेऽपि स्वेदोपग्रहमन्तरेणानुत्पत्तेः । तदभिसन्धाय स्वेदजत्वमुक्तम् । स्वेदात् जाताः स्वेदजाः । ʻपञ्चम्यामजातü (३। २। ९८) इति डः । आद्यशब्देन मशकमत्कुणादीनां ग्रहणम् । पक्षिसर्पादयोऽण्डजाः । गर्भस्थानान्निर्गतम् उत्पत्स्यमानप्राण्यावारकं शुक्लवर्णं गोलाकारमण्डमिति प्रागुक्तम् (२। ५। ३७) । अण्डाज्जाता अण्डजाः । डः (३। २। ९८) । आदिशब्देन पिपीलिकादीनां ग्रहणम् ॥ उद्भिज्जास्तरुगुल्माद्याः । ʻभिदिर् विदारणे । ʻसम्पदादिभ्यः क्विप् (वा। ३। ३। ९४) इति क्विपि भिच्छब्देन भेदनमुच्यते । भूमौ आलवालादिगर्तदेशाद् ऊर्ध्वभागभेदनात् जाता उद्भिज्जाः । डः । आद्यशब्देनात्र तृणौषध्यादीनां ग्रहणम् । एवं च केषाचित् प्राणिनाम् अयोनिजत्वम्, इतरेषां च जरायुजाण्डजस्वेदजोद्भिज्जनिरूपणात् चातुर्विध्यं चेति दर्शितम् । एषां चतुर्विधानामपि एकत्र प्रकरणे स्वर्गादावितः पूर्वं साङ्गत्याभावाद् बालबुद्धीवैशद्यार्थमेकत्रैव चातुर्विध्यनिरूपणीयतायां विशेष्यनिघ्नप्रस्तावादत्र कथनमित्यवगन्तव्यम् ॥ उद्भिदुद्भिज्जमुद्भिदम् । उद्भिज्जप्रसङ्गात् तत्पर्यायानाह । भुवमुद्भिनत्तीति उद्भित् । कर्तरि क्विप् (३। १। ६१) । इगुपधलक्षणे कप्रत्यये (३। १। १३५) उद्भिदम् । विशेष्यनिघ्नशब्दे निर्देशकामचारादत्र नपुंसकत्वम् ॥ ५१ ॥
मल्लि-नाथः - AK.03.01.051
स्वेदजाः कृमिदंशाद्याः । स्वेदकारणत्वात् स्वेदजाः ॥ पक्षिसर्पादयोऽण्डजाः । पक्षिसर्पाद्याः अण्डकारणत्वाद् अण्डजाः ॥ उद्भिदस्तरुगुल्माद्याः । तरुगुल्माद्या भूम्युद्भेदकारणत्वाद् उद्भिदः ॥ उद्भिदुद्भिज्जमुद्भिदम् । एतानि त्रीण्यपि एकार्थकानि ॥ ५१ ॥
[[०३.०७३]]
मूलम् - ०३.०१.०५२
अक्।०३.०१.०५२अब् सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।
अक्।०३.०१.०५२च्द् कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२ ॥
(रम्यं मनोहरं सौम्यं भद्रकं रामणीयकम् । )
लिङ्ग-सूरी - AK.03.01.052
सुन्दरमिति—सुष्ठु नन्दयतीति सुन्दरम् । ʻटुनदि समृद्धü । रुचिं मनःप्रीतिं राति ददातीति रुचिरम् । ʻरा दाने । चरति मनोऽस्मिन्निति चारु । ʻचर गतü । सुष्ठु समत्वमत्रास्तीति सुषमम् । साध्नोति सिध्यतीति साधु । ʻसाध संसिद्धü । शोभत इति शोभनम् । ʻशुभ दीप्तü । काम्यत इति कान्तम् । ʻकमु कान्तü । मनो रमयतीति मनोरमम् । ʻरमु क्रीडायाम् । मनो हरतीति मनोहरमिति वा पाठः । रोचत इति रुच्यम् । ʻरुच दीप्तावभिप्रीतौ च्ö । मनसा ज्ञेयं मनोज्ञम् । ʻज्ञा अवबोधने । सर्वैर्मन्यत इति मञ्जु । मञ्जुलं च । ʻमन ज्ञाने । मनोहरवस्तुनामानि ॥ ५२ ॥
सुन्दरं—मञ्जुलम् । सुन्दरादयो द्वादश शब्दाः सर्वेषामनुकूलवेदनीयस्य वस्तुनो वाचकाः । सुष्ठु आदरो यत्रेति सुन्दरम् । गौरादिपाठात् (४। १। ४१) साधुः । अत एव स्त्रियां ङीष् (४। १। ४१) ॥ रुचिं प्रीतिं राति ददातीति रुचिरम् ॥ चरति मनोऽस्मिन्निति चारु । ʻचर गतü । ʻदृसनिजनि चरिचटिभ्यो ञुण् (उ। १। ३) इति ञुण् । अत्र द्व्यनुबन्धग्रहणं ʻजनिवध्योश्च्ö (७। ३। ३५) इति वृद्धिप्रतिषेधो मा भूदित्येवमर्थं कृतम् ॥ सर्वेषामप्यभिलाषविषयत्वेन तुल्यतया सुष्ठु समं सुषमम् । ʻसुविनिर्दुर्भ्यः सुपिसूतिसमाḵ (८। ३। ८८) इति षत्वम् ॥ साध्नोति सुखसाधनतयेति साधु । ʻसाध संसिद्धौ । ʻकृवापाजि ॥ । इत्यादिना (उ। १। १) उण्प्रत्ययः ॥ शोभत इति शोभनम् । ʻशुभ दीप्तü । ʻअनुदात्तेतश्च हलादेḵ (३। २। १४९) इति युच् ॥ काम्यत इति कान्तम् । ʻकमु कान्तü । क्तः (३। २। १०२) । कस्य सुखस्य अन्तो निश्चयो ऽत्रेति वा ॥ मनो हरत्याकर्षति स्वाधीनं करोतीति मनोहरम् । ʻहरतेरनुद्यमनेऽच् (३। २। ९) इत्यच् । केचित् मनो रमयतीति व्युत्पत्त्या मनोरममिति पठन्ति ॥ रोचत इति रुच्यम् । ʻरुच दीप्तü । ʻराजसूयसूर्यमृषोद्यरुच्य॥ । (३। १। ११४) इत्यादिनिपातनात् साधुत्वम् ॥ मनसा ज्ञायत इति मनोज्ञम् । ʻद्वन्द्वमनोज्ञादिभ्यश्च्ö (५। १। १३३) इति निर्देशात् साधुत्वम् ॥ द्रव्यवचनाद् मञ्जुशब्दाद् भावमात्रविवक्षायां मत्वर्थीये लच्प्रत्यये सति श्यामश्यामलमृदुमृदुलशब्दवद् मञ्जु मञ्जुलमिति शब्दद्वयमपि समार्थम् ॥ ५२ ॥
मल्लि-नाथः - AK.03.01.052
सुन्दरं—मज्जुलम् । शोभननामानि । ʻचक्षुष्यं सुभगं रम्यं लटहं हारि वल्गु च्ö । एतानि षट् च ॥ ५२ ॥
[[०३.०७५]]
मूलम् - ०३.०१.०५३
अक्।०३.०१.०५३अब् तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्
अक्।०३.०१.०५३च्द् अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥
लिङ्ग-सूरी - AK.03.01.053
तदिति—आसिच्यते आप्यायते दृगिन्द्रियमनेनेति आसेचनकम् । ʻषिच क्षरणे । यस्य दर्शनात् तृप्तेरन्तो नास्ति तस्य चन्द्रमण्डलादेर्नाम ॥ आभिमुख्येनेष्यते प्राप्यत इति अभीष्टम् । ʻइष गतü । आभिमुख्येनाप्तुमिष्टम् अभीप्सितम् । ʻआप्लृ व्याप्तü । हृदयस्य प्रियं हृद्यम् । दयते चित्तमादत्त इति दयितम् । ʻदय दानगतिरक्षणहिंसादानेष्ü । वल्लते प्रीणातीति वल्लभम् । ʻवल्ल प्रीतü । प्रीणातीति प्रियम् । ʻप्रीञ् तर्पणे कान्तौ च्ö । प्रियवस्तुनो नामानि ॥ ५३ ॥
तदासेचनकं—दर्शनात् । यस्य चन्द्रमण्डलादेः दर्शनात् चक्षुरादीनां तृप्तेरन्तो नास्ति, किन्तु पुनःपुनः दिदृक्षाद्यतिशय एव भवति तच्चन्द्रमण्डलादिकम् आसेचनकमुच्यते । आसिच्यते आपूर्यते दृगिन्द्रियादिकम् अनेनेति आसेचनकम् । ʻषिच क्षरणे । आङ्पूर्वः । ल्युट् (३। ३। ११७) । ʻसञ्ज्ञायां कन् (५। ३। ७५) । सुभूतिचन्द्रस्तु ह्रस्वादिमाह । न सिञ्चन्ति न क्षरन्ति चक्षुरादीन्यस्मादिति असेचनकमिति । सर्वानन्दोऽपि ह्रस्वत्वमेवाह (टी। स। पृ। २५, श्लो। ५१) ॥ अभीष्टे—प्रियम् । इच्छाविषयस्य वस्तुनो नामानि । आभिमुख्येन इष्यत इत्यभीष्टम् । ʻइषु इच्छायाम् । क्तः (३। २। १०२) । आभिमुख्येनाप्तुमिष्टम् अभीप्सितम् । ʻआप्लृ व्याप्तü । सन् (३। १। ७) । ʻआप्ज्ञप्यृधामीत् (७। ४। ५५) । क्तः (३। २। १०२) ॥ ʻहृदयस्य प्रियḵ (४। ४। ९५) इति हृदयशब्दात् यत् । ʻहृदयस्य हृल्लेखयदण्लासेष्ü (६। ३। ५०) इति हृदादेशः ॥ दय्यते याच्यत इति दयितम् । ʻदय दानगतिरक्षणयाचनेष्ü । क्तः ॥ वल्लते प्रीणयतीति वल्लभम् । वल्लिः सौत्रो धातुः । ʻरासिवल्लिभ्यां च्ö (उ। ३। १२५) इत्यभच्प्रत्ययः ॥ प्रीणातीति प्रियम् । ʻप्रीञ् तर्पणे । इगुपधेत्यादिना (३। १। १३५) कः ॥ ५३ ॥
[[०३.०७६]]
मल्लि-नाथः - AK.03.01.053
तदासेचनकं—दर्शनात् । यस्य वस्तुनो दर्शनात् तृप्तेरन्तो नास्ति तत् आसेचनकं स्यात् ॥ अभीष्टे—प्रियम् । प्रियवस्तुनामानि ॥ ʻहृदिस्पृग्घृदयङ्गमम् । एते द्वे च ॥ ५३ ॥
मूलम् - ०३.०१.०५४
अक्।०३.०१.०५४अब् निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः ।
अक्।०३.०१.०५४च्द् कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५४ ॥
लिङ्ग-सूरी - AK.03.01.054
निकृष्टेति—निकृष्यते तिरस्क्रियत इति निकृष्टः । प्रतिकृष्टश्च । ʻकृष विलेखने अर्वति श्रेयोलवमनुगच्छतीति अर्वा । नान्तोऽयम् । ʻअर्व गतü । रिफति हिनस्ति दूषयतीति रेफः । ʻरिफ कत्थनयुद्धनिन्दाहिंसादानेष्ü । याप्यन्ते गुणा यस्माद् दूष्यन्त इति याप्यः । ʻया प्रापणे । अवमत्वाद् अधमत्वाद् अवमः । अधमत्वाद् अधमः । कुत्सितं यथा भवति तथा पूयते विशीर्यत इति कुपूयः । ʻपूयी विशरणे । कुत्स्यते सभ्यैरिति कुत्सितः । ʻकुत्स अवक्षेपणे । न उद्यते नोच्यत इत्यवद्यः । ʻवद व्यक्तायां वाचि । खेटति सभ्यैराक्षिप्यत इति खेटः । ʻखिट त्रासे । सभ्यैर्गर्ह्यत इति गर्ह्यः । ʻगर्ह कुत्सायाम् । अणति बहु जल्पतीत्यणकः । ʻअण शब्दे । जात्या हीनस्य नामानि ॥ ५४ ॥
निकृष्ट—अणकाः समाः । निकृष्यते निकृष्टः । प्रतिकृष्यते प्रतिकृष्टः । ʻकृष विलेखने । उपसर्गद्वयं न्यग्भावे वर्तत इति उपसर्गवृत्तौ । यथा—निकृतः प्रतिक्षिप्त इति ॥ अर्वति सेवार्थम् अन्यमुपगच्छतीति अर्वा । ʻअर्व गतü । वनिप्प्रत्ययः (३। २। ७५) । ʻअर्वणस्त्रसावनञḵ (६। ४। १२७) इति प्राप्तस्त्रादेशस्तु अश्ववचनस्यैव नान्यस्य, प्रयोगाणामदर्शनात् इति वैजयन्तीव्याख्यायामुक्तम् ॥ रिफति सर्वत्र कलहं करोतीति रेफः । ʻरिफ कत्थनयुद्धनिन्दाहिंसादानेष्ü । पचाद्यच् (३। १। १३४) । अकारान्तः । ʻरवर्णे पुंसि रेफः स्यात् कुत्सिते वाच्यलिङ्गवत् इति फकारान्तेषु मार्तण्डेनाभिधानात् ॥ याप्यन्ते गुणा अस्मादिति याप्यः । ʻयाप्ये पाशप् (५। ३। ४७) इति निर्देशात् साधुः । यापयत्यात्मानं कृच्छ्रजीवनेनेति वा याप्यः । णिचि पुगागमे (७। ३। ३६) ʻअचो यत् (३। १। ९७) इति यत् ॥ अवस् अधस् इत्येतौ द्वावुपसर्गौ निकर्षार्थौ । निकर्षोऽस्यास्तीति अवमः, अधमश्च । ʻअवोऽधसोर्लोपश्च्ö इति वक्तव्यादुभाभ्यामपि निपाताभ्यां मत्वर्थीयो मक्प्रत्ययः । सलोपश्च ॥ कुत्सितं पूयते विशीर्णो भवतीति कुपूयः । ʻपूयी विशरणे । पचाद्यच् (३। १। १३४) । लघूपधत्वाभावाद् गुणाभावः (७। ३। ८६) ॥ कुत्सा सञ्जाता अस्येति कुत्सितः । तारकादित्वादितच् (५। २। ३६) ॥ नोद्यते नोच्यते न प्रशस्यत इत्यवद्यः । ʻवद व्यक्तायां वाचि । ʻअवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेष्ü (३। १। १०१) इति नञ्पूर्वात् वदेर्यत्प्रत्ययान्तो गर्ह्यरूपार्थे निपातितः ॥ खेटति सत्पुरुषानिति खेटः । ʻखिट उत्त्रासने । उत्त्रासनं भयजननमिति धातुवृत्तौ (मा। धा। पृ। १०९) । अच् ॥ सर्भ्यैर्गह्यत इति गर्ह्यः । ʻगर्ह कुत्सायाम् । ʻऋहलोर्ण्यत् (३। १। १२४) ॥ अणति बहु जल्पतीति अणः । अच् (३। १। १३४) । ʻअणतेः क्वुन्, ह्रस्वादिḵ इति सर्वानन्दः (टी। स। पृ। २६) ॥ ५४ ॥
मल्लि-नाथः - AK.03.01.054
निकृष्टे—अधमाः । ʻखेटं पापं च रेफं च सम्प्राहुḵ इति हलायुधः (अ। मा। २। १८२) । कुपूय—अणकाः समाः । निकृष्टनामानि । अनुक्तम्—ʻस स्यादलञ्जः किञ्जश्च यस्य जन्म निरर्थकम् । यस्य पुंसो जन्म व्यर्थं स अलञ्जः किञ्जश्च स्यात् ॥ ५४ ॥
[[०३.०७८]]
मूलम् - ०३.०१.०५५
अक्।०३.०१.०५५अब् मलीमसं तु मलिनं कच्चरं मलदूषितम् ।
अक्।०३.०१.०५५च्द् पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् ॥ ५५ ॥
लिङ्ग-सूरी - AK.03.01.055
मलीमसमिति—मलोऽस्यास्तीति मलीमसम् । मलिनं च । कुत्सितं चरतीति कच्चरम् । ʻचर गतü । मलदूषितस्य नामानि ॥ पुनाति देहादिकमिति पूतम् । पूयतेऽनेनेति पवित्रम् । ʻपूञ् पवने । मेधनीयं देहशोधकत्वात् सङ्गमनीयं मेध्यम् । ʻमेधृ सङ्गमने । शुद्धिहेतुभूतस्य वस्तुनो नामानि ॥ विशेषेण इन्धे दीप्यत इति वीध्रम् । ʻञिइन्धी दीप्तü । निर्मलस्फटिकादेर्नाम ॥ ५५ ॥
मलीमसं—मलदूषितम् । यत् सहजेन आगन्तुकेन वा किट्टादिना मलेन दूषितं सत् वैवर्ण्यं प्रापितं कांस्यताम्रपात्रादिकं तस्य नामानि । मलोऽस्यास्तीति मलीमसम् । मलिनं च ʻज्योत्स्नातमिस्रा ॥ । इत्यादिसूत्रे (५। २। ११४) मलशब्दाद् ईमसचिनच्प्रत्ययान्तौ मलीमसमलिनशब्दौ द्वावपि मत्वर्थे निपातितौ ॥ कुत्सितं चरतीति कच्चरम् । चरतेः पचाद्यचि (३। १। १३४) ʻरथवदयोश्च्ö (६। ३। १०२) इति चकारात् कोः कदादेशः (६। ३। १०१) । केचिदाहुः—काशब्दः कुत्सितार्थः । ततश्च काचर इति दीर्घादिरिति ॥ पूतं पवित्रं मेध्यश्च । पूतपवित्रशब्दौ द्वावपि ब्रह्मवर्गे स्वभावशुद्धपरिव्राजकादिवचनावुक्तौ (२। ७। ४५) । इह तु द्रव्यान्तरशुद्धिहेतुवस्तुवचनादित्यपौनरुक्त्यम् । पुनाति देहादिकमिति पूतम् । पूयतेऽनेन देहादिकमिति पवित्रम् । ʻपूञ् पवने । इत्रप्रत्ययः (३। २। १८६) । शोधनद्रव्येण सङ्गमनाय योग्यो मेध्यः । ʻमेधृ सङ्गमे । ण्यत्प्रत्ययः (३। १। १२४) ॥ वीध्रं तु विमलार्थकम् । स्वभावशुद्धस्फटिकादिवचनं विमलशब्दसमानार्थमित्यर्थः । विशेषेण इन्धे वीध्रम् । ʻञिइन्धी दीप्तü । औणादिकः क्रन् प्रत्ययः (उ। २। २९) । कित्त्वाद् उपधानकारस्य लोपः (६। ४। २४) ॥ ५५ ॥
मल्लि-नाथः - AK.03.01.055
मलीमसं—मलदूषितम् । मलवतो नामानि ॥ पूतं—मेध्यं च । पवित्रनामानि । ʻशिवं पुण्यं च पावनम् । एतानि त्रीणि च ॥ वीध्रं तु विमलार्थकम् । ʻविमले वीध्रं मलिने द्वौ कच्चरमलीमसü इति वैजयन्ती (पृ। २०६, श्लो। ६६) । निर्मलनामानि ॥ ५५ ॥
[[०३.०७९]]
मूलम् - ०३.०१.०५६
अक्।०३.०१.०५६अब् निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् ।
अक्।०३.०१.०५६च्द् असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ॥
लिङ्ग-सूरी - AK.03.01.056
निर्णिक्तमिति—निर्णिज्यते शोध्यत इति निर्णिक्तम् । ʻणिजिर् शौचपोषणयोḵ । शोध्यत इति शोधितम् । ʻशुध शौचे । मृज्यत इति मृष्टम् । ʻमृजूष् शुद्धü । निर्गतं शोध्यात् परित्याज्यादिति निःशोध्यम् । अविद्यमानोऽवस्करोऽस्येति अनवस्करम् । शोधितद्रव्यनामानि ॥ न सारोऽस्येत्यसारम् । शीघ्रमेव फलतीति फल्गु । ʻञिफला विशरणे । निःसारस्य तूलादेर्नामनी ॥ बाधकाभावेन शुने हितं शून्यम् । वश्यते काम्यते उपवेशनायेति वशिकम् । ʻवश कान्तü । तुदति शून्यत्वात् मनः क्लेशयतीति तुच्छम् । ʻतुद व्यथने । रिच्यते वस्तुभिर्हीयत इति रिक्तकम् । ʻरिचिर् विरेचने । वस्तुविरहितस्य गृहादेर्नामानि ॥ ५६ ॥
निर्णिक्तं—अनवस्करम् । वस्त्रगालनप्रक्षालनादिभिरपसारितहेयभागस्य द्रव्यस्य नामानि । निर्णिज्यते शोध्यत इति निर्णिक्तम् । ʻणिजिर् शौचपोषणयोḵ क्तः (३। २। १०२) । ʻउपसर्गादसमासेऽपि णोपदेशस्य्ö (८। ४। १४) इति णत्वम् ॥ शोध्यत इति शोधितम् । ʻशुध शौचे । णिचि क्तप्रत्ययः । मृज्यते मृष्टम् । ʻमृजुष् शुद्धü । ʻव्रश्चभ्रस्जसृजमृज ॥ । इत्यादिना (८। २। ३६) षत्वम् ॥ निष्क्रान्तं शोध्यात् परिहरणीयभागाद् इति निःशोध्यम् ॥ इह अवस्करशब्देन वर्चस्कवाचिना त्याज्यं वस्तुमात्रं लक्ष्यते । अविद्यमानोऽवस्करो यत्र इत्यनवस्करम् ॥ असारं फल्गु । यत् सारभागरहितं शिग्रुकाष्ठादिकम्, यच्च ततोऽन्यदपि उपादेयांशरहितं वाक्यादिकं तत्सर्वं फल्गुशब्देनोच्यते । फलति निःसारत्वेन शीघ्रं विशीर्यत इति फल्गु । ʻञिफला विशरणे । औणादिक उप्रत्ययः गुगागमश्च (उ। १। १८) । शून्यं तु—रिक्तके । स्वसमुचितमनुष्याद्याधेयरहितस्य गृहादेर्नामानि । यथा—शून्यं गृहम्, शून्यो घट इत्यादि । शुने हितं शून्यम् । ʻउगवादिभ्यो यत् इत्यत्र ʻशुनः सम्प्रसारणं वा च दीर्घत्वम् (ग। सू। ५। १। २) इति गणसूत्रे श्वन्शब्दस्य यत्प्रत्यये परतः सम्प्रसारणं भवति, विकल्पेन दीर्घश्च ॥ जनान्तरानवरुद्धत्वेन वशः स्वाधीनत्वमत्रास्तीति वशिकम् । ʻवश कान्तü । मत्वर्थे ठन् प्रत्ययः ॥ ʻतुद व्यथने इत्यस्मात् सम्पदादिक्विपि (वा। ३। ३। ९४) तुच्छब्दो दुःखवचनः । तुदं श्यति सम्बन्धरहितत्वेन तनूकरोति, छ्यति छिनत्तीति, तुच्छम् । ʻशो तनूकरणे ʻछो छेदने इति वा धातुः । ʻआतोऽनुपसर्गे कḵ (३। २। ३) । रिच्यते पृथगवस्थितवस्तुभिर्वियुज्यत इति रिक्तम् । ʻरिचिर् विरेचने । क्तप्रत्ययः (३। २। १०२) । कुत्वं च (८। २। ३०) । स्वार्थे कन् (५। ४। ५) ॥ ५६ ॥
मल्लि-नाथः - AK.03.01.056
निर्णिक्तं—अनवस्करम् । क्षालनादिक्रियया निर्मलवस्तुनामानि । असारं फल्गु । असारनामनी । शून्यं तु—रिक्तके । शून्यनामानि ॥ ʻवशिकविशिखाविहारिणीष्वभिसारिकास्ü इति हर्षचरितप्रयोगात् वशिकं तालव्यशकारम् ॥ ५६ ॥
[[०३.०८१]]
मूलम् - ०३.०१.०५७
अक्।०३.०१.०५७अब् क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ।
अक्।०३.०१.०५७च्द् मुख्यवर्यवरेण्याश्च प्रबर्होऽनवरार्ध्यवत् ॥ ५७ ॥
अक्।०३.०१.०५८अब् परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम् ॥
लिङ्ग-सूरी - AK.03.01.057
क्लीब इति—प्रधत्ते स्वोपसर्जनीभूतं धारयतीति प्रधानम् । प्रकृष्टं मुखमिव प्रियमानसत्वमस्येति प्रमुखः । प्रकृष्टो वेकः पृथक्त्वमस्ति असामान्यमस्येति प्रवेकः । अस्मादुत्तमो नास्तीत्यनुत्तमः । उद्गतानाम् उत्कृष्टानामयम् अतिशयेनोन्नत इति उत्तमः । मुखमिव प्रधानं प्रियमानसत्वमस्येति मुख्यः । वरणीयो वर्यः । वरेण्यश्च । ʻवृञ् वरणे । प्रकर्षेण बृहति स्वशेषभूतानुद्धरतीति प्रबर्हः । ʻबृहू उद्यमने । गणस्यानपरार्धे मुख्यभागे भवो वर्तमानोऽनपरार्ध्यः । परार्ध्यश्च । अनवरार्ध्य इति वा पाठः । गणकार्यमकृत्वा न गच्छतीत्यग्रः । प्राग्रं सभायां मुख्यस्थानं हरतीति प्राग्रहरः । प्राग्रे मुख्यस्थाने भवो वर्तमानः प्राग्र्यः । अग्रे मुख्यस्थाने भवो वर्तमानोऽग्र्यः । अग्रियः, अग्रीयश्च । मुख्यनामानि ॥ ५७ ॥
क्लीबे—अग्रियम् । सार्धश्लोकेन प्रधानाद्याः सप्तदश शब्दाः तत्तज्जातीयसमूहापेक्षया गुणातिशययुक्तस्य वाचकाः । प्रकर्षेण धत्ते स्वोपसर्जनीभूतान् पुष्णातीति प्रधानम् । ल्युट् (३। ३। ११३) । अस्य प्राकरणिकं विशेष्यनिघ्नत्वं नास्तीति दर्शयितुं क्लीब इत्युक्तम् । ततश्च गुणेषु विनयः प्रधानम्, विद्वत्सु वैयाकरणः प्रधानम् इत्येव भवति । अतश्च ʻन जाने सप्रधानो मे शूरो हस्ती सदामदḵ इति देवीमाहत्म्येऽपि (१। १४) प्रधानेन सह वर्तत इति बहुव्रीहिरेवेति सर्वानन्दः (टी। स। पृ। २८) ॥ प्रकृष्टं मुखं वागारम्भोऽस्येति प्रमुखः ॥ प्रकृष्टो वेकः पृथक्त्वम् इतरापेक्षमुत्कर्षलक्षणं वैलक्षण्यमस्येति प्रवेकः ॥ नास्त्युत्तमोऽस्मादित्यनुत्तमः ॥ उदिति निपातः उत्कर्षार्थः । अतिशयेन उत्कृष्टः उत्तमः । अतिशायने तमप् प्रत्ययः (५। ३। ५५) ॥ मुखमिव प्राधान्येन प्रतीयमानत्वेन मुख्यः । इवार्थे ʻशाखादिभ्यो यḵ (५। ३। १०३) इति यः ॥ वरणीयः स्वशेषभूतैर्भजनीय इति वर्यः । ʻवर ईप्सायाम् । चुरादौ अदन्ताद् ʻअचो यत् (३। १। ९७) इति यत् ॥ व्रियते सेव्यत इति वरेण्यः । ʻवृञ् वरणे । ʻवृञ एण्यḵ (उ। ३। ९८) इत्यौणादिकैण्यप्रत्ययः ॥ प्रकर्षेण बृंहति वर्धते प्रबर्हः । ʻबृह वृहि वृद्धü । पचादिः (३। १। १३४) । वरः श्रेष्ठः, ततोऽन्योऽवरः । अवरार्धे निकृष्टभावे भवः अवरार्ध्यः । ʻपरावराधमोत्तमपूर्वाच्च्ö (४। ३। ५) इति यत् प्रत्ययः । ततो नञ्समासे (२। २। ६) सति अनवरार्ध्यः ॥ प्रधानादिशब्दानां प्रबर्हादिशब्दसाम्यप्रतिपादको वतिप्रत्ययः पादपूरणार्थः ॥ परार्धे श्रेष्ठभागे भवः परार्ध्यः । पूर्ववदेव यत्प्रत्ययः (४। ३। ५) ॥ अङ्गति पुरो गच्छतीत्यग्रः । ʻअगि गतü । ʻअग्राद्यत् (४। ४। ११६) इति निर्देशाद् बाहुलको रक् प्रत्ययः नकारलोपश्च ॥ प्रकर्षेण अग्रं श्रेष्ठं रत्नकुण्डलपट्टांशुकादिकं हरति स्वीकर्तुमर्हतीति प्राग्रहरः । ʻहरतेरनुद्यमनेऽच् (३। २। ९) इति अच् प्रत्ययः ॥ प्राग्रे पुरःप्रदेशे भवः प्राग्र्यः । अग्रस्थाने भवोऽग्र्यः । ʻअग्राद्यत् (४। ४। ११६) इति यत्प्रत्ययः ॥ ʻघच्छौ च्ö (४। ४। ११७) इति छप्रत्यये अग्रीयः । घप्रत्यये अग्रियः (७। १। २) ॥ ५७ ॥
मल्लि-नाथः - AK.03.01.057
क्लीबे—अग्र्याग्रीयम् । दीर्घादि । अग्रियम् । मुख्यवस्तुनामानि ॥ ५७ ॥
[[०३.०८२]]
अक्।०३.०१.०५८च्द् श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश्चातिशोभने ॥ ५८ ॥
मूलम् - ०३.०१.०५९
अक्।०३.०१.०५९अब् स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।
अक्।०३.०१.०५९च्द् सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५९ ॥
लिङ्ग-सूरी - AK.03.01.058-59
श्रेयानिति—अतिशयेन प्रशस्यत इति श्रेयान् । श्रेष्ठश्च । ʻशंसु स्तुतü । महिम्ना पुष्यतीति पुष्कलः । ʻपुष पुष्टü । अतिशयेन सन् सत्तमः । अतिशोभनस्य नामानि ॥ व्याघ्रः, पुङ्गवः, ऋषभः, कुञ्जरः, सिंहः, शार्दूलः, नागः, आद्यग्रहणात् चन्द्रादयश्च । एते व्याघ्रादयः शब्दा उत्तरपदानि सन्तः पुंसि पुरुषे श्रेष्ठार्थवाचकाः श्रेष्ठार्थप्रतिपादनपराः स्युः भवेयुः । अत्रोदाहरणानि—पुरुषव्याघ्रः, मुनिपुङ्गवः, राजर्षभः, नृपकुञ्जरः, पुरुषसिंहः, मुनिशार्दूलः, गोनागः, मुखचन्द्रः इत्यादि ॥ ५८-९ ॥
श्रेयान्—अतिशोभने । अत्यन्तप्रशंसाविषयस्य नामानि । अन्यापेक्षया अतिशयेन प्रशस्यः श्रेयान् । ʻद्विवचनविभज्य ॥ । इत्यादिना (५। ३। ५७) ईयसुन् प्रत्ययः ॥ ʻअतिशायने तमबिष्ठनü (५। ३। ५५) इति प्रशस्यशब्दादेव इष्ठन् प्रत्यये श्रेष्ठः । उभयत्रापि प्रशस्यशब्दस्य श्रादेशः (५। ३। ६०) ॥ पुष्यति पुनः पुनराधिक्यं प्राप्नोतीति पुष्कलः । ʻपुष पुष्टü । ʻपुषः कित् ʻकलंश्च्ö (उ। ४। ४-५) इति कलन् प्रत्ययः ॥ अतिशायनार्थे सत्-शब्दात् तमप् प्रत्यये सत्तमः । ʻअग्रं प्राग्रहरं श्रेष्ठं मुख्यं वर्यं प्रबर्हणम् इति त्रिकाण्डशेषे पाठात्, ʻश्रेष्ठं प्रधानं युक्तमनुत्तमं सत्तमं प्रबर्हणं च्ö इति नाममालायां पाठाच्च प्रधानाद्या एकविंशतिः शब्दा एकार्था इति केचित् ॥ स्युरुत्तरपदे—श्रेष्ठार्थगोचराः । अस्यार्थः—पुरुषमुनिराजादीनामुपमितशब्दानां पूर्वपदत्वे सति उत्तरपदत्वेन समस्यमाना उपमानवचना व्याघ्रादयो नागान्ताः शब्दाः आद्यशब्दसङ्गृहीता वृषभवृषचन्द्रवराहादयोऽपि महाकविप्रयोगेषु परिदृश्यमानाः शब्दाश्च श्रेष्ठार्थगोचराः, स्वार्थव्याघ्रादिगतसजातीयगुणयुक्तेषु पुरुषादिषु पूर्वपदार्थेषु गुणातिशयप्रतिपादनपरा भवन्तीति । यथा—पुरुषव्याघ्रः, मुनिपुङ्गवः, पुरुषर्षभः, वादिसिंहः, गोनागः, राजचन्द्र इत्यादयः प्रयोगानिरोधाद् अवगन्तव्याः । ʻउपमितं व्याघ्रादिभिः सामान्याप्रयोगे (२। १। ५६) इति समासः । व्याघ्रादिश्चाकृतिगणः । पुंसीत्यनेन व्याघ्राद्युत्तरपदानामाविष्टलिङ्गत्वमिति दर्शितम् । तेन योषिद्व्याघ्रः, कलत्रशार्दूलः, अपत्यसिंह इत्यादिकमेव भवति ॥ १८-९ ॥
मल्लि-नाथः - AK.031.01.058-59
श्रेयान्—अतिशोभने । अत्यन्तमुख्यभूतवस्तुनामानि ॥ स्युरुत्तरपदे—श्रेष्ठार्थगोचराः । उत्तरपदीभूता व्याघ्रादिशब्दाः पूर्वपदार्थश्रैष्ठ्यगमकाः । पुरुषव्याघ्रः, गजपुङ्गवः, हयकुञ्जरः, ब्राह्मणर्षभः, राजपुण्डरीकः, गोवृषभः, कविवराहः । पुन्निर्देशः पूर्वपदसापेक्षः । तेन स्त्रीसत्तमा, कुमारीश्रेष्ठा इत्यादि ॥ ५८-९ ॥
[[०३.०८४]]
मूलम् - ०३.०१.०६०
अक्।०३.०१.०६०अब् अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने ।
अक्।०३.०१.०६०च्द् विशङ्कटं पृथु बृहद् विशालं पृथुलं महत् ॥ ६० ॥
अक्।०३.०१.०६१अब् रुन्द्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे ।
लिङ्ग-सूरी - AK.03.01.060
अप्राग्र्यमिति—न प्राग्र्यं भवतीत्यप्राग्र्यम् । प्रधानं न भवतीत्यप्रधानम् । उपसृज्यते प्रधानीभूतेनेति उपसर्जनम् । ʻसृज विसर्गे । अमुख्यस्य नामानि ॥ विस्तीर्यत इति विशङ्कटम् । विशालं च । प्रथत इति पृथु । पृथुलं च । ʻप्रथ प्रख्याने । बर्हति सर्वतो वर्तत इति बृहत् । ʻबृह वृद्धü । महति पूजयतीति महत् । ʻमह पूजायाम् । रवतेऽवयवद्वारैर्गच्छतीति रुन्द्रम् । ʻरुङ् गतिरेषणयोḵ । ऊर्णोति आच्छादयतीति उरु । ʻऊर्णुञ् आच्छादने । विपोलति महत्त्वमाप्नोतीति विपुलम् । ʻपुल महत्त्वे । महत्त्वमापन्नस्य जलादेर्नामानि ॥ प्यायते वर्धते इति पीनम् । पीवरं च । ʻओप्यायी वृद्धü । स्थूलयते स्थूलम् । ʻस्थूल परिबृंहणे । पीनस्य वृषभस्कन्धादेर्नामानि ॥ ६० ॥
अप्राग्र्यं—उपसर्जने । गुणभूतस्य नामानि । प्राग्र्याद् मुख्यादन्यद् अप्राग्र्यम् । प्रधानादन्यदप्रधानम् । उपसृज्यते नियुज्यते प्रधानभूतेनेति उपसर्जनम् । ʻसृज विसर्गे । ल्युट् (३। ३। ११३) । अप्रधानम् उपसर्जनं चेति द्वे पदे नपुंसकलिङ्गे इत्यर्थः ॥ विशङ्कटं—विपुलम् । द्रव्यान्तरापेक्षया महत्त्वाधिकरणपरिमाणयुक्तस्य नामानि । गृहादङ्गणं विशालम् । कुवलादामलकं महत् । दर्पणाद् रथाङ्गं महद् इत्यादि । विस्तारार्थात् ʻवेः शालच्छङ्कटचü (५। २। २८) इति शालच् प्रत्यये विशालम् । शङ्कटचि विशङ्कटम् ॥ प्रथत इति पृथु । ʻप्रथ प्रख्याने । ʻप्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च्ö (उ। १। २८) इति कुप्रत्ययः सम्प्रसारणं च । पृथुलं च ॥ बर्हति वर्धत इति बृहत् । ʻबृह वृद्धü । उणादौ निपातनात् (उ। २। ८४) अतिप्रत्ययः ॥ महति पूजयति श्रेयःस्थानमिति महत् । ʻमह पूजायाम् । ʻवर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च्ö (उ। २। ८४) इति अतिप्रत्ययान्तत्वेन शब्दद्वयमपि निपातितं शतृवच्च कार्यं भवति ॥ पृथुशब्दाद् भावमात्रविवक्षायां मत्वर्थीये लच् प्रत्यये (५। २। ९७) श्यामलमञ्जुलादिशब्दवत् पृथुलशब्दः । पृथुत्वं लात्यादत्त इति वा पृथुलम् (३। २। ३) ॥ भूयोऽवयवत्वेन परितो रुन्धन् द्राति कुटिलं गच्छतीति रुन्द्रः । ʻद्रा कुत्सायां गतü । मूलविभुजादिः । पृषोदरादित्वात् साधुः । रुन्द्रं प्रातिपदिकमव्युत्पन्नमिति केचित् ॥ उर्णोति स्वाधारदेशमाच्छादयतीति उरु । ʻऊर्णुञ् आच्छादने । ʻऊर्णोतेर्नुलोपश्च्ö इत्यनुवृत्तौ ʻमहति ह्रस्वश्च्ö (उ। १। ३२) इति कुप्रत्ययः ॥ विशेषेण पोलति महद् भवतीति विपुलम् । ʻपुल महत्त्वे । इगुपधलक्षणः कः (३। १। १३५) ॥ पीनपीव्नी तु स्थूलपीवरे । वेणुदण्डाद्यपेक्षया परिणाहातिशयवतः स्तम्भादेर्नामानि । यथा—तृणकाण्डाद् इक्षुदण्डः पीवरः, ततोऽपि कीचकः, ततोऽपि स्तम्भः इत्यादि । प्यायते वर्धत इति पीनम् । ʻओप्यायी वृद्धü । क्तप्रत्यये (३। ४। ७२) ʻप्यायः पी (६। १। २८) इति धातोः पीभावः, ʻओदितश्च्ö (८। २। ४५) इति निष्ठानत्वम् ॥ तत एव धातोः ʻअन्येभ्योऽपि दृश्यते (३। २। ७५) इति क्वनिप् प्रत्यये दृशिग्रहणस्य विध्यन्तरोपसङ्ग्रहार्थत्वेन सम्प्रसारणे च पीवा । स्त्रियां तु ʻवनो र च्ö (४। १। ७) इति ङीपि रेफे च पीवरी । ʻछित्वरछत्वरधीवरपीवर ॥ । इत्याद्युणादिसूत्रे (उ। ३। १) प्यायतेः पिबतेर्वा पीभावः ष्वरच् प्रत्ययश्च निपात्यत इति वृत्तिकारः । स्थूलयत इति स्थूलम् । ʻस्थूल परिबृंहणे । पचाद्यच् (३। १। १३४) ॥ ६० ॥
मल्लि-नाथः - AK.03.01.060
अप्राग्र्यं—उपसर्जने । अमुख्यभूतवस्तुनामानि । द्वयहीने नपुंसके । ʻउपाग्रं तु गुणः पुंसि क्लीबे स्यादुपसर्जनम् इति वैजयन्ती (पृ। २०६, श्लो। ६४) ॥ विशङ्कटं—विपुलम् । विपुलनामानि । ʻविस्तीर्णं विकरालं च व्यूढं विततमाततम् । इमानि पञ्च च ॥ पीनपीव्नी तु स्थूलपीवरे । स्थूलस्य नामानि ॥ ६० ॥
[[०३.०८६]]
अक्।०३.०१.०६१च्द् स्तोकाल्पक्षुल्लकाः श्लक्ष्णं सूक्ष्मं दभ्रं कृशं तनु ॥ ६१ ॥
मूलम् - ०३.०१.०६२
अक्।०३.०१.०६२अब् स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः ।
अक्।०३.०१.०६२च्द् अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ६२ ॥
लिङ्ग-सूरी - AK.03.01.061-62
स्तोकेति—स्तूयत इति स्तोकः । ʻष्टुञ् स्तुतü । अल्यते महद्वस्तुषु निवार्यत इत्यल्पः । ʻअल निवारणे । क्षुद्यते सम्पिष्यत इति क्षुल्लकः । ʻक्षुदिर् सम्पेषणे । सुष्ठु उक्ष्यते सिच्यत इति सूक्ष्मम् । ʻउक्ष सेचने । स्वरन्ध्रेषु श्लिष्यतीति श्लक्ष्णम् । ʻश्लिष आलिङ्गने । दभ्यते शिलादौ सम्पिष्यत इति दभ्रम् । ʻदम्भु विक्षेपे । कृश्यत इति कृशम् । ʻकृश तनूकरणे । तन्यत इति तनु । ʻतनु विस्तारे । सूक्ष्मस्य तन्त्वादेर्नामानि ॥ मीयत इति मात्रा । ʻमाङ् माने । त्रुट्यते छिद्यत इति त्रुटिः । ʻत्रुट छेदने । लूयत इति लवः । ʻलूञ् छेदने । लिशति अल्पीभवतीति लेशः । ʻलिश अल्पीभावे । कणति सूक्ष्मत्वात् कणः । ʻकण निमीलने । अणति कांस्यादौ पतितः शब्दायत इत्यणुः । ʻअण शब्दे । स्वल्पनामानि ॥ अतिशयेनाल्पम् अत्यल्पम् । अल्पिष्ठम् । अल्पीयः । कनीयश्च । अतिशयेनाणुः अणीयः । अपिशब्दात् कनिष्ठाणिष्ठशब्दावप्यूह्यौ । अत्यल्पस्य नामानि ॥ ६१-२ ॥
स्तोकाल्प—कृशं तनु । बह्ववयवारब्धापेक्षया न्यूनावयवारब्धस्य नामानि । स्तूयत इति स्तोकः । ʻस्तोकान्तिक॥ । (२। १। ३९) इति निर्देशात् साधुः । अल्यते निवार्यत इत्यल्पम् । ʻअल भूषणादü । ʻबह्वल्पार्थात् ॥ । (५। ४। ४२) इति निर्देशात् साधुः ॥ क्षुल्लकशब्दः पामरे निरुक्तः (२। १०। १६) ॥ सूच्यत इति सूक्ष्मम् । ʻसूच पैशुन्ये । ʻसूचेः स्मन् (उ। ४। १७८) इति स्मन् ॥ श्लिष्यति सर्वत्र लग्नो भवतीति श्लक्ष्णम् । ʻश्लिषेरच्चोपधायाḵ (उ। ३। १९) इति क्स्न प्रत्ययः उपधाया अकारादेशश्च । ʻषढोः कः सि (८। २। ४१) इति षकारस्य ककारः । ʻइण् कोḵ इत्यादिना (८। ३। ५९) षत्वं, णत्वं च (८। ४। १) ॥ दभ्यते क्षिप्यत इति दभ्रम् । ʻदम्भु क्षेप् । रक् (उ। २। १३) ॥ कृशतीति कृशम् । ʻकृश तनूकरणे । इगुपधलक्षणः कः (३। १। १३५) । अथवा क्तप्रत्यये सति ʻअनुपसर्गात् फुल्लक्षीबकृशोल्लाघाḵ (८। २। ५५) इति निपातनात् साधुत्वम् । निष्ठातकारस्य लोपः, इडागमाभावश्च ॥ तनुशब्दः शरीरे व्युत्पादितः (२। ६। ७१) ॥ स्त्रियां मात्रा—कणाणवः । परिमाणाल्पविश्रान्तिस्थानस्य परमाण्वादेर्नामानि । मात्रा च त्रुटिश्चेति कृतद्वन्द्वसमासाभ्यामपि ʻस्त्रियाम् इति पदं सम्बध्यते । ʻपुंसि इति पदं तु लवादिभिश्चतुर्भिरिति षण्णामपि विशेष्यनिघ्नत्वं नास्तीति दर्शितम् ॥ स्वगतगुरुत्वज्ञानाय तुलया मीयते परिच्छिद्यत इति मात्रा । ʻमा माने । त्रन् (उ। ४। १६९) ॥ त्रुट्यते छिद्यत इति त्रुटिः । ʻत्रुट छेदने । ʻइगुपधात् किḵ (उ। ४। १२०) इत्यौणादिकः किः ॥ लूयते छिद्यत इति लवः (३। ३। ५७) ॥ लिशति अल्पादप्यल्पीभवतीति लेशः । ʻलिश अल्पीभावे । तुदादिः अच् (३। १। १३४) ॥ कणति स्वल्पपरिमाणत्वेन सङ्कुचितो भवतीति कणः । ʻकण निमीलने । ʻनिमीलनं सङ्कोचनम् इति धातुवृत्तिः (मा। घा। पृ। १४७) । अच् (३। १। १३४) ॥ गुरुत्वातिशयाभावाद् नोदनाभिघातयोरसम्भवेन शब्दोत्पत्तौ कारणाभावाद् विरुद्धलक्षणया अणति शब्दायत इत्यणुः । ʻअण शब्दे । ʻअणश्च्ö (उ। १। ८) इत्यौणादिक उप्रत्ययः ॥ अत्यल्पे—अणीय इत्यपि । स्वल्पपरिमाणद्रव्यान्तरापेक्षया न्यूनपरिमाणद्रव्यस्य नामानि । अतिशयेनाल्पम् अल्पिष्ठम् । ʻअतिशायने तमबिष्ठनü (५। ३। ५५) इत्यल्पशब्दाद् इष्ठन् प्रत्ययः । ʻद्विवचनविभज्य ॥ । इत्यादिना (५। ३। ५७) ईयसुन् प्रत्यये अल्पीयः । ʻयुवाल्पयोः कनन्यतरस्याम् (५। ३। ६४) इत्यल्पशब्दस्य विकल्पेन कन् इत्यादेशे कनीयः । कनिष्ठशब्दस्याप्युपलक्षणमेतत् ॥ अणुशब्दादीयसुन् प्रत्यये (५। ३। ५७) अणीयः । अपिशब्दाद् अणिष्ठमपि ॥ ६१-२ ॥
उत्तरश्लोकपठिताः प्रभूतादयो द्वादश शब्दाः प्रकृतकार्योपयुक्तापेक्षया अधिकपरिमाणे वर्तन्ते ॥
मल्लि-नाथः - AK.03.01.061-62
स्तोकाल्प—कणाणवः । अल्पनामानि । मात्रादयो धर्मिधर्मवचनाः । तव लेशोऽपि न विद्यते प्रियम् । सुखस्य लेशोऽपि न विद्यते भवे ॥ अत्यल्पे—अणीय इत्यपि । अत्यल्पनामानि ॥ ६१-२ ॥
[[०३.०८८]]
मूलम् - ०३.०१.०६३
अक्।०३.०१.०६३अब् प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ।
अक्।०३.०१.०६३च्द् पुरुभूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च ॥ ६३ ॥
लिङ्ग-सूरी - AK.03.01.063
प्रभूतमिति—स्वकार्यमापादयितुं प्रभवतीति प्रभूतम् । प्रचीयते बहुभिरवयवैरिति प्रचुरम् । ʻचिञ् चयने । बहूकर्तुमेकत्र प्राज्यते क्षिप्यत इति प्राज्यम् । ʻअज गतिक्षेपणयोḵ । न दभ्रमदभ्रम् । बंहते सङ्ग्रहणेन वर्धत इति बहु । बहुलं च । ʻबहि महि वृद्धü । पुर्वित्यनया सञ्ज्ञया भूयते ऽनुभूयत इति पुरुभूः । पुरुहूरिति वा पाठः । पूर्यत इति पुरु । ʻपूरी आप्यायने । अतिशयेन बहु भूयिष्ठम् । भूयश्च । स्फायते वर्धत इति स्फारम् । ʻस्फायी वृद्धü । अनल्पतया भवतीति भूरि । ʻभू सत्तायाम् । अनल्पस्य नामानि ॥ ६३ ॥
प्रभूतं—भूरि च । प्रभवति समर्थो भवतीति प्रभूतम् । क्तः (३। ४। ७२) । प्रकर्षेण चीयते उपचीयत इति प्रचुरम् ॥ प्रकर्षेण अज्यते व्यक्तीक्रियत इति प्राज्यम् । ʻअञ्जू व्यक्तिम्रक्षणकान्तिगतिष्ü । क्यप् प्रत्यये (वा। ३। १। १०९) ʻअनिदितां ॥ । (६। ४। २४) इत्यनुनासिकलोपः ॥ दभ्रादल्पाद् अन्यद् अदभ्रम् ॥ बंहते वर्धत इति बहु । ʻबहि महि वृद्धौ । ʻलङ्घिबंह्योर्नलोपश्च्ö (उ। १। २९) इति उप्रत्ययः नलोपश्च ॥ ततो भावमात्रवचनाद् मत्वर्थीये लच् प्रत्यये श्यामलादिशब्दवद् बहुलम् ॥ पिपर्ति पूर्यते वा पुरु । ʻपृ पालनपूरणयोḵ । ʻपृभिदिव्यधिगृधिधृषिभ्यḵ (उ। १। २३) इति कुप्रत्ययः । ʻउदोष्ठ्यपूर्वस्य्ö (७। २। १०२) इत्युत्वम् ॥ पुरुभिरवयवैर्भवतीति पुरुभूः । भवतेः क्विप् (३। २। ७६) ॥ ʻपुरु इत्यनया सञ्ज्ञया हूयत इति पुरुहूḵ इति सुबोधिनीकारः ऊष्मपधामाह । सर्वानन्दस्तु (टी। स। पृ। २९) पुरून् हरति हन्ति वा पुरुहम् । ʻअन्येष्वपि दृश्यते (३। २। १०१) इति डप्रत्ययः, इत्यकारान्तमूष्मोपधं चाह ॥ अतिशयेन बहु भूयिष्ठम् । इष्ठन् प्रत्यये (५। ३। ५५) ʻइष्ठस्य यिट् च्ö (६। ४। १५९) इति यिडागमः, बहोर्भूभावश्च (६। ४। १५८) ॥ स्फायते वर्धत इति स्फारम् । ʻस्फायी वृद्धü । ʻस्फायितञ्चि॥ । (उ। २। १३) इति रक् । स्फिरमिति पाठे ʻअजिरशिशिरशिबिरशिबिलस्थिरस्फिरस्थविरखदिराḵ (उ। १। ५६) इत्यौणादिकनिपातनात् स्फायतेः किरच् प्रत्ययः, आकारयकारयोर्लोपश्च ॥ बहुशब्दाद् अतिशायनविवक्षायाम् ईयसुन् प्रत्यये (५। ३। ५७) ʻबहोर्लोपो भू च बहोḵ (६। ४। १५८) इति बहोर्लोपे भूभावे च भूयःशब्दः । सकारान्तः ॥ अनल्पत्वेन भवतीति भूरि । क्रिन् प्रत्ययः (उ। ४। ६५) ॥ ६३ ॥
मल्लि-नाथः - AK.03.01.063
प्रभूतं—प्राज्यं बहलं बहुलं बहु । अदभ्रं बहुलमिति पाठान्तरम् । पुरुहं पुरु—भूरी च । बहुलनामानि ॥ ʻसमग्रं पुष्कलं स्फारमदभ्रमति मात्रकम् । एतानि पञ्च च ॥ ६३ ॥
[[०३.०९०]]
मूलम् - ०३.०१.०६४
अक्।०३.०१.०६४अब् परःशताद्यास्ते येषां परा सङ्ख्या शतादिकात् ।
अक्।०३.०१.०६४च्द् गणनीये तु गणेयं सङ्ख्याते गणितमथ समं सर्वम् ॥ ६४ ॥
अक्।०३.०१.०६५अब् विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ।
अक्।०३.०१.०६५च्द् समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥
लिङ्ग-सूरी - AK.03.01.064-65
परःशताद्या इति—येषां सङ्ख्येयानां शतादिकात् शतसहस्रादिकात् परा अधिका सङ्ख्या या विद्यते तया परःशताद्या भवन्ति । आदिग्रहणेन परःसहस्रादयः । गणितव्यं गणनीयम् । गणेयं च । ʻगण सङ्ख्याने । सङ्ख्येयस्य तारकादेर्नामानि ॥ गण्यते सङ्ख्यायत इति गणितम् । सङ्ख्यातस्य क्रमुकादेर्नाम ॥ समति न्यूनत्वं न प्राप्नोतीति समम् । ʻषम अवैकल्ये । सर्वति स्वसंवन्धिवर्गोपेतं गच्छतीति सर्वम् । ʻषर्व गतü । विशत्यंशेन सह संविशतीति विश्वम् । ʻविश प्रवेशने । नास्ति शेषोऽस्येत्यशेषम् । कृत्यते व्याप्यते स्थानादि कर्म वानेनेति कृत्स्नम् । ʻकृती वेष्टने । समस्यते ऊरीक्रियत इति समस्तम् । ʻअसु क्षेपणे । खिलादुपेक्षितांशाद् निवृत्तं निखिलम् । नास्ति खिलमुपेक्षितांशोऽत्रेति अखिलम् । शेषान्निष्क्रान्तमिति निःशेषम् । सङ्गतमग्रमग्रांशोऽत्रेति समग्रम् । कलाभिः सह वर्तत इति सकलम् । पूर्यत इति पूर्णम् । ʻपूरी आप्यायने । न खण्डमखण्डम् । न विद्यते ऊनत्वमत्रेति अनुनकम् । अभिन्नस्य पुटादेर्नामानि ॥ ६४-५ ॥
परःशताद्याः—शतादिकात् । अत्र शतादिकाद् इत्यादिशब्देन सहस्रादीनां ग्रहणम् । ततश्च येषां सङ्ख्येयानां गजतुरगादीनां सङ्ख्या शतसहस्रादेः परा अधिका भवति ते परःशतपरःसहस्रादिशब्दैरुच्यन्ते । शतात् परा इति विग्रहे ʻपञ्चमी (२। १। ३७) इति योगविभागात् समासे राजदन्तादित्वात् (२। २। ३१) परशब्दस्य पूर्वनिपाते पारस्करादित्वात् (६। १। १५७) सुडागमे च परःशता अश्वाः, परःशतान्यश्वीयानि, परःकोटयो गजता इत्यादि भवति । ʻआलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताḵ इति माघः (शिशु। १२। ५०) । ʻब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रं शरदस्तपांसि इति भवभूतिश्च (उ। च। १। १५) । अत्र सर्वानन्दः (टी। स। पृ। ३०)— ʻगवां परःशतं, गवां परःसहस्रमित्यादि सङ्ख्यानमात्रेऽपि नपुंसकलिङ्गत्वेन प्रयोगोऽस्ति इति ॥ गणनीयं तु गणेयम् । गणनार्हद्रव्यस्यैते नामनी । ʻगण सङ्ख्याने इति चौरादिकाददन्ताद् धातोः ʻतव्यत्तव्यानीयरḵ (३। १। ९६) इत्यनीयर् प्रत्यये गणनीयम् । तत एव धातोः ʻअचो यत् (३। १। ९७) इति यत्प्रत्यये ʻक्यस्य विभाषा’ (६। ४। ५०) इत्यनुवर्तमानस्य विभाषाग्रहणस्य व्यवस्थितविभाषात्वात् ʻणेरनिटि (६। ४। ५१) इति णिलोपाभावे गणेयमिति भवति इति धातुप्रदीपिकायामुक्तम् । ʻगण्यमिति तु चिन्त्यम् इति सर्वानन्दः (टी। स। पृ। ३०) । ʻगणेरेयḵ इति औणादिकसूत्रेण एयप्रत्यये गणेयमिति सुबोधिनीकारः ॥ सङ्ख्याते गणितम् । निश्चितसङ्ख्याविशेषस्य क्रमुकादिद्रव्यस्य गणितमिति क्तप्रत्ययान्तं (३। २। १०२) नाम ॥ अथ समं सर्वमित्यादि यस्य वस्तुनः सम्बन्धिनो लोके वेदे वा प्रसिद्धा यावन्तोऽवयवगुणकर्मादयः सन्ति मात्रयापि वैकल्यरहिता भवन्ति तावत्सम्बन्धं तद् द्रव्यगुणकर्मादिकमनूनमुच्यते । तत्र समादयः पूर्णान्तास्त्रयोदश शब्दाः स्युः ॥ अथ समम्—स्यादनूनके । समतीति समम् । ʻषम ष्टम वैक्लव्ये । अच् (३। १। १३४) । वैकल्याभावान्निर्भीकत्वेन विरुद्धलक्षणया वैक्लव्यं द्रष्टव्यम् । सर्वादिगणेषु पाठादस्य सर्वनामसञ्ज्ञा ॥ सृतमनेनेति सर्वम् । ʻसृ गतü । ʻसर्वनिघृष्व ॥ । इत्यादिना (उ। १। १५९) औणादिकसूत्रेण कर्तृव्यतिरिक्तार्थे वन्प्रत्ययान्तः सर्वशब्दो निपातितः ॥ विशतीति विश्वम् । ʻविश प्रवेशने । ʻअशूप्रुषि ॥ । इत्यादिना (उ। १। १५७) क्वन् प्रत्ययः ॥ अविद्यमानः शेषोऽस्येति अशेषम् ॥ कृत्यते तिरोधीयते स्वाधारोऽनेनेति कृत्स्नम् । ʻकृती वेष्टने । ʻकृत्यशूभ्यां क्स्नḵ (उ। ३। १७) इति क्स्नः ॥ समस्यते स्वगुणीभूतैः एकीक्रियत इति समस्तम् । ʻअसु क्षेपणे । क्तः ॥ निवृत्तं खिलमाहतमस्मादिति निखिलम् ॥ अविद्यमानं खिलमत्रेत्यखिलम् ॥ निष्क्रान्तं शेषादिति निःशेषम् ॥ सङ्गतमग्रम् अग्रभागोऽस्येति समग्रम् ॥ कलाभिरवयवैः सह वर्तत इति सकलम् ॥ विकलावयवभागो हि खण्डमुच्यते । नास्त्यस्य खण्डमित्यखण्डम् ॥ पूर्यते स्वावयवैरिति पूर्णम् । ʻपूरी आप्यायने । क्तः (७। २। २७) । पूरितपर्यायोऽपि पूर्णशब्दोऽवगम्यते । आदिशब्देन पुष्कलाविकलाभिन्नादीनां ग्रहणम् ॥ ʻऊन परिहाणे इत्यस्मात् चौरादिकात् पचाद्यचि (३। १। १३४), स्वार्थिके कप्रत्ययः (५। ४। ५) । ततो नञ् समासे (२। २। ६) सति अनूनकम् ॥ ६४-५ ॥
मल्लि-नाथः - AK.03.01.064-65
परःशताद्याः—शतादिकात् । येषां सङ्ख्येयानां शतादिकात् परा सङ्ख्या ते परःशताद्याः ।
ʻस जवेन पतन् परःशतानां
पततां व्रात इवारवं वितेने । (किरा। १३। २६)
इति वैयधिकरण्येनापि प्रयोगः, ʻपरःसहस्रं करिणां ममारेḵ इति ॥ गणनीयं तु गणेयम् । सङ्ख्यातुं योग्यस्य नामनी ॥ सङ्ख्याते गणितम् । सङ्ख्यातनाम ॥ अथ समं—स्यादनूनके । समस्तनामानि । समः समौ समे । समस्मै । समेषाम् । समं सर्वार्थ इति नियमादितरार्थेषु सर्वनामसञ्ज्ञा न भवति । तेन समाय समानायेत्यर्थः । समानां संवत्सरणामित्यर्थः । समे साधावित्यर्थः । ʻसमा स्त्री वत्सरे साधुसर्वतुल्येषु वाच्यवत् इति वैजयन्ती (पृ। २३७, श्लो। ९५) ॥ अनुक्तम्—ʻखण्डनेमोनविकलाḵ । असमस्तनामानि ॥ ६४-५ ॥
[[०३.०९३]]
मूलम् - ०३.०१.०६६
अक्।०३.०१.०६६अब् धनं निरन्तरं सान्द्रं पेलवं विरलं तनु ।
अक्।०३.०१.०६६च्द् समीपे निकटासन्नसन्निकृष्टसनीडवत् ॥ ६६ ॥
अक्।०३.०१.०६७अब् सदेशाभ्याशसविधसमर्यादसवेशवत् ।
अक्।०३.०१.०६७च्द् उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७ ॥
लिङ्ग-सूरी - AK.03.01.066-67
घनमिति—वायुजलादिना हन्यत इति घनम् । ʻहन हिंसागत्योḵ । निर्गतमन्तरमत्रेति निरन्तरम् । सह अन्द्यते वध्यत इति सान्द्रम् । ʻअदि बन्धने । निबिडसंयोगावयवस्य गोण्यादेर्नामानि ॥ पेल्यते क्षिप्यते शिथिलसंयोगावयवेष्विति पेलवम् । ʻपिल क्षेपे । विशेषेणावयवानामन्तरं रातीति विरलम् । ʻरा दाने । तन्यते विस्तीर्यत इति तनु । ʻतनु विस्तारे । शिथिलसंयोगावयवस्य पटादेर्नामानि ॥ सङ्गता आपोऽत्रेति समीपः । निकटति विवध्नातीति निकटः । ʻकटे वर्षावरणयोḵ । आसीदन्त्यत्रेत्यासन्नः । ʻषद्लृ विशरणे । सन्निकृष्यतेऽस्मादिति सन्निकृष्टः । ʻकृष विलेखने । समानं नीडमस्येति सनीडः । समानो देशोऽत्रेति सदेशः । अभ्यश्यते व्याप्यत इति अभ्याशः । ʻअशू व्याप्तü । समाना विधा अस्येति सविधः । समाना मर्यादा अत्रेति समर्यादः । समानो वेशः प्रवेशोऽत्रेति सवेशः । उपगतः कण्ठमित्युपकण्ठः । अन्तोऽस्यास्तीति अन्तिकः । अभ्यर्द्यते गम्यत इत्यभ्यर्णः । ʻअर्द गतü । अभिमुखमग्रमत्रेत्यभ्यग्रः । अभित इत्यव्ययम् । समीपस्य नामानि ॥ ६६-७ ॥
घनं निरन्तरं सान्द्रम् । दृढावयवसंयोगस्य प्राकाराद्यवयविनो नामानि । निबिडावयवतया वाय्वादिभिर्हन्यत इति घनम् । ʻहन हिंसागत्योḵ । ʻमूर्तौ घनḵ (३। ३। ७७) इत्यप् प्रत्ययः, धातोर्घनादेशश्च ॥ निर्गतमन्तरम् अवयवव्यवधानमस्येति निरन्तरम् ॥ स्वावयवैः सह अन्द्यते बध्यत इति सान्द्रम् । ʻअदि बन्धने । रक्प्रत्ययः ॥ पेलवं विरलं तनु । प्रशिथिलावयवसंयोगस्य तूलपटादेर्नामानि ʻपिल क्षेपे इति धातोर्घञ् (३। ३। १८) । पेलशब्देन शिथिलत्वमुच्यते । पेलं वाति गच्छतीति पेलवम् । कः ॥ स्वगतशैथिल्येन तृणशलाकादिद्रव्यान्तरस्य प्रवेशं विशेषेण रान्ति ददतीति विराः अवयवाः, तान् लातीति विरलम् ॥ तनुशब्दः शरीरे व्युत्पादितः (२। ६। ७१) ॥ समीपे—अभितोऽव्ययम् । निकटादयश्चतुर्दशशब्दाः समीपे देशतः कालतो वा प्रत्यासन्ने वर्तन्ते । उपकण्ठादिशब्दानां निकटसदेशादिभिरेकार्थत्वलक्षणसादृश्यप्रतिपादकौ वतिप्रत्ययौ । सङ्गता आपोऽत्र समीपम् । ऋक्पूरब्धू ॥ । (५। ४। ७४) इत्यादिना अकारः समासान्तः । ʻद्व्यन्तरुपसर्गेभ्योऽप ईत् (६। ३। ९७) इतीत्वम् ॥ नीत्युपसर्गात् कटच् प्रत्यये (५। २। २९) निकटः । अथवा निश्चयेन कटति स्वानन्तरदेशमावृणोतीति निकटः । ʻकटे वर्षावरणयोḵ । पचाद्यच् (३। १। १३४) ॥ आसीदति स्म आसन्नम् । क्तः ॥ सन्निकृष्यते स्म सन्निकृष्टम् ॥ समानमेकं नीडं स्थानमस्येति सनीडः । ʻवोपसर्जनस्य्ö (६। ३। ८२) इति समानस्य सभावः । एवं सदेशसविधसमर्यादसवेशशब्दाः वक्तव्याः ॥ अभितोऽश्यते व्याप्यते इत्यभ्याशः । ʻअशू व्याप्तü । घञ् । तालव्योपध इति केचित् । ʻसमीपेऽभ्यसनेऽभ्यासḵ इति दन्त्योपधेषु रभसवाक्याद् दन्त्योपधोऽयम् । तालव्योपधस्तु चिन्त्य इति सुभूतिचन्द्रसर्वानन्दौ (टी। स। पृ। ३१) ॥ उपगतः कण्ठमित्युपकण्ठः । ʻप्रादयो गताद्यर्थे प्रथमया’ (वा। २। २। १८) इति समासः ॥ अन्तोऽस्यास्तीति अन्तिकः । मत्वर्थे ठन् प्रत्ययः (५। २। ११५) ॥ अभ्यर्दतीति अभ्यर्णः । ʻअर्द गतü । क्तः । ʻअभेश्चाविदूर्ये (७। २। २५) इति निष्ठायामिडभावः । ʻरदाभ्याम् ॥ । इत्यादिना (८। २। ४२) निष्ठानत्वम्, पूर्वदकारस्य च नकारः । ʻहलो यमां यमि लोपḵ (८। ४। ६४) इति धातुनकारस्य लोपः । ʻरषाभ्यां ॥ । (८। ४। १) इति णत्वम् ॥ अभिमुखमग्रम् अस्य अभ्यग्रः ॥ अभीत्युपसर्गात् तसिल् प्रत्यये (५। ३। ९) अभित इत्येतदव्ययम् ॥ ६६-७ ॥
मल्लि-नाथः - AK.03.01.066-67
घनं निरन्तरं सान्द्रम् । निर्गतान्तरनामानि । ʻदट्टमैनदानिपेल्ल्ü । ʻनिबिडं निविरीसं च्ö । एते द्वे च ॥ पेलवं विरलं तनु । विरलनामानि । ʻपलुचनिदानि पेल्ल्ü ॥ समीपे—अभितोऽव्ययम् । समीपनामानि । ʻसमीपाद्याः । धर्मे क्ली तद्वति त्रिष्ü इति वैजयन्तीवचनात् (पृ। २१२, श्लो। १४३) धर्मिणि त्रिलिङ्गाः, धर्मे नपुंसकलिङ्गाः । समीपः पर्वतः । पर्वतस्य समीपम् । अभितःशब्दो धर्मधर्मिणोरप्यलिङ्गः । अभितो नगरी । नगरीमभितः ॥ ६६-७ ॥
[[०३.०९५]]
मूलम् - ०३.०१.०६८
अक्।०३.०१.०६८अब् संसक्ते त्वव्यवहितमपदान्तरमित्यपि ।
अक्।०३.०१.०६८च्द् नेदिष्ठमन्तिकतमं स्याद् दूरं विप्रकृष्टकम् ॥ ६८ ॥
लिङ्ग-सूरी - AK.03.01.068
संसक्त इति—संसज्यत इति संसक्तम् । ʻषञ्ज सङ्गे । न व्यवधीयत इति अव्यवहितम् । ʻडुधाञ् धारणपोषणयोḵ । नास्ति तिरस्करणार्थेन पदेनान्तरमिति अपदान्तरम् । अपटान्तरमिति वा पाठः । तदा अपगतं पटेनान्तरमिति विग्रहः । अत्यन्तश्लिष्टस्य नामनी ॥ अतिशयेनान्तिकं नेदिष्ठम् । समीप तमस्य नाम ॥ दुःखेनेयत इति दूरम् । ʻइण् गतü । विप्रकृष्यते समीपादिति विप्रकृष्टम् । दूरनामनी ॥ ६८ ॥
संसक्ते—अपदान्तरमित्यपि । अव्यवहितलग्नस्य नामानि । सज्यते स्म सक्तम् । ʻषञ्ज सङ्गे । क्तः । सम्यक् सक्तं संसक्तम् । संलग्नमित्यर्थः । वस्त्वन्तरेण यद् व्यवधीयते तद् व्यवहितम् । ततोऽन्यद् अव्यवहितम् । पदं पदमात्रपरिमितम् अन्तरं मध्यभागोऽस्य नास्तीति अपदान्तरम् । केचित्तु—नास्ति पटेन वस्त्रेणान्तरं व्यवधानमस्येति अपटान्तरमिति पठित्वा व्याचक्षते ॥ नेदिष्ठमन्तिकतमम् । अन्यापेक्षया अतिशयेनान्तिकं सन्निकृष्टम् अन्तिकतमम् । अतिशयेनान्तिकं नेदिष्ठम् । ʻअन्तिकबाढयोर्नेदसाधü (५। ३। ६३) इति अन्तिकशब्दस्य इष्ठनि परतो नेदादेशः । तमप् प्रत्यये अन्तिकतमम् (५। ३। ५५) ॥ स्याद् दूरं विप्रकृष्टकम् । दुःखेन ईयते गम्यत इति दूरम् । ʻइण गतü । ʻदुरीणो लोपश्च्ö (उ। २। २२) इति रन् प्रत्ययः । धातोर्लोपश्च । ʻरो रि (८। ३। १४) इत्युपसर्गरेफलोपः । ʻढ्रलोपे॥ । (६। ३। १११) इति दीर्घः ॥ द्रव्यान्तरापेक्षया संयुक्तासंयोगभूयस्त्वं विप्रकर्षः । तद्युक्तं विप्रकृष्टम् ॥ ६८ ॥
मल्लि-नाथः - AK.03.01.068
संसक्ते—अपदान्तरमित्यपि । संसक्तनामानि ॥ नेदिष्ठमन्तिकतमम् । अत्यन्तसमीपनामनी ॥ स्याद् दूरं विप्रकृष्टकम् । दूरनामनी ॥ ६८ ॥
[[०३.०९६]]
मूलम् - ०३.०१.०६९
अक्।०३.०१.०६९अब् दवीयश्च दविष्ठं च सुदूरे दीर्घमायतम् ।
अक्।०३.०१.०६९च्द् वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम् ॥ ६९ ॥
लिङ्ग-सूरी - AK.03.01.069
दवीय इति—अतिशयेन दूरं दवीयः । दविष्ठं च । सुतरां दूरं सुदूरम् । अत्यन्तदूरनामानि ॥ दृणाति दूरस्थितं विदारयतीति दीर्घम् । ʻदॄ विदारणे । आयम्यते विस्तीर्यत इत्यायतम् । ʻयम उपरमे । दीर्घस्य नामनी ॥ वर्तते भुवि परिवर्तत इति वर्तुलम् । वृत्तं च । ʻवृतु वर्तने । निर्गतं तलमत्रेति निस्तलम् । वर्तुलस्य कन्दुकादेर्नामानि ॥ बध्नात्युन्नतत्वेन सहावनतत्वमिति बन्धुरम् । ʻबन्ध बन्धने । उन्नतानतस्य स्तनादेर्नाम ॥ ६९ ॥
दवीयश्च—सुदूरे । इतरापेक्षया अतिशयेन दूरमिति विग्रहे ʻद्विवचनविभज्य ॥ । इत्यादिना (५। ३। ५७) ईयसुन् प्रत्यये ʻस्थूलदूर ॥ । इत्यादिना (६। ४। १५६) दूरशब्दस्य यणादिलोपे पूर्वस्य च गुणे दवीयः । इष्ठन् प्रत्यये (५। ३। ५५) पूर्ववदेव दविष्ठम् । अतिशयेन दूरं सुदूरम् ॥ दीर्घमायतम् । आयामाख्यपरिमाणयुक्तस्य वेणुदण्डादेर्नामनी । दृणाति दूरं दारयतीति दीर्घम् । ʻदृ विदारणे । बाहुलकात् घङ् ॥ दूरदेशमभिव्याप्य यम्यते नियम्यत इति आयतम् । ʻयम उपरमे । क्तप्रत्ययः । आङोऽभिव्याप्तिरर्थः ॥ वर्तुलं निस्तलं वृत्तम् । कुत्रापि समप्रदेशरहितस्य कन्दुककपित्थफलादेर्नामानि । भुवि वर्तते नैकत्र तिष्ठतीति वर्तुलम् । ʻवृतु वर्तने बाहुलक उलच् प्रत्ययः ॥ तलति प्रतितिष्ठतीति तलशब्देन समदेशो विवक्षितः । ʻतल प्रतिष्ठायाम् । निर्गतं तलमस्मादिति निस्तलम् ॥ क्तप्रत्यये वृत्तम् (३। ४। ७२) । बिम्बग्रहणभागस्य तलयुक्तत्वेऽपि दर्पणादावश्रिरहितत्वसादृश्याद् वृत्तशब्दप्रयोगः ॥ बन्धुरं तून्नतानतम् । यदेकमेव स्वभावादुन्नतम् उपाधिवशात् प्रदेशान्तरे चानतम् ईषन्नम्रं लज्जानतमस्तकादि तद् बन्धुरम् । बध्नाति स्वैकदेशमवस्थान्तरं प्रापयतीति बन्धुरम् । ʻबधि संयमने । उरच् प्रत्ययः (उ। १। ४३) । बन्धूरमिति दीर्घमध्योऽप्यस्ति । तथा च रभसः—ʻबन्धूरबन्धुरौ रम्ये नम्रे हंसे च बन्धुरḵ इति ॥ ६९ ॥
मल्लि-नाथः - AK.03.01.069
दवीयश्च । सान्तोऽयम् । दविष्ठं च सुदूरे । अतिदूरनामानि ॥ दीर्घमायतम् । दीर्घनामनी । ʻनिडुव्ü ॥ वर्तुलं निस्तलं वृत्तम् । वर्तुलनामानि ॥ अनुक्तम्—ʻसुवृत्तं परिमण्डलम् । अतिवर्तुलनामनी । बन्धुरं तून्नतानतम् । मध्योन्नतं पार्श्वनतं च यत् तद्बन्धुरं स्यात् । अनुक्तम्—ʻस्थपुटं विषमोन्नतम् । मध्यनतं पार्श्वोन्नतं स्थपुटं स्यात् ॥६९ ॥
[[०३.०९८]]
मूलम् - ०३.०१.०७०
अक्।०३.०१.०७०अब् उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ।
अक्।०३.०१.०७०च्द् न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानतम् ॥ ७० ॥
लिङ्ग-सूरी - AK.03.01.070
उच्चेति—उच्चीयत ऊर्ध्वमुपचीयत इत्युच्चः । ʻचिञ् चयने । प्राश्नुते प्रकर्षेणोर्ध्वमिति प्रांशुः । ʻअशू व्याप्तü । उन्नमत्यूर्ध्वमित्युन्नतः । ʻणम प्रह्वत्वे शब्दे च्ö । उद्गतमग्रमस्येत्युदग्रः । उच्छ्रीयत ऊर्ध्वं श्रयत इत्युच्छ्रितः । ʻश्रिञ् सेवायाम् । तुञ्ज्यते वाय्वादिना भज्यत इति तुङ्गः । ʻतुजि हिंसायाम् । उन्नतस्य प्रासादादेर्नामानि ॥ वामो वल्गुत्वमस्यास्तीति वामनः । निम्नमञ्चति गच्छतीति न्यक् । ʻअञ्चु गतü । नीचैस्त्वं विद्यतेऽस्येति नीचः । खर्वत्यवयवदाढ्र्येन दृप्यतीति खर्वः । ʻखर्व दर्पे । दैर्ध्याभावाद् ह्रसतीति ह्रस्वः । ʻह्रस शब्दे अल्पत्वे च्ö । अनुन्नतस्य नामानि ॥ अवनतमग्रमस्येत्यवाग्रम् । अधो नमतीत्यवनतम् । आ ईषन्नतम् आनतम् । अधोमुखस्य नामानि ॥ ७० ॥
उच्चप्रांशू—तुङ्गे । उत्सेधाख्यपरिमाणयुक्ते तालसालादौ उच्चादिषट्कं वर्तते । उच्चीयते ऊर्ध्वं चीयत इत्युच्चः । ʻचिञ् चयने । ʻअन्येष्वपि दृश्यते (३। २। १०२) इति डप्रत्ययः ॥ प्रकृष्टा उन्नतत्वेन प्रकाशमाना अंशवोऽवयवा अस्येति प्रांशुः ॥ उन्नमति स्म उन्नतः । ʻणम प्रह्वत्वे शब्दे । कर्तरि क्तः (३। ४। ७२) । उद् ऊर्ध्वं गतमग्रमस्येत्युदग्रः । ऊर्ध्वदेशं श्रयति स्म उच्छ्रितः । ʻश्रिञ् सेवायाम् । क्तः ॥ तुञ्ज्यते वाय्वादिना हिंस्यत इति तुङ्गः । ʻतुजि हिंसायाम् । कर्मणि घञ्प्रत्यये (३। ३। १९) ʻचजोः कु घिण्यतोḵ (७.३। ५२) इति कुत्वम् । विशेष्यनिघ्नेषु कामचारात् पुंलिङ्गनिर्देशः कृतः ॥ अथ वामने—ह्रस्वाः स्युः । द्रव्यान्तरापेक्षया स्वल्पोच्छ्राययुक्तस्य नामानि । नीत्युपसर्गो निकर्षवचनः । ʻअञ्चु गतü । निकृष्टं अञ्चतीति न्यङ् । ʻऋत्विग्दधृक् ॥ । इत्यादिना (३। २। ५९) अञ्चतेः क्विन् प्रत्ययः । ʻक्विन् प्रत्ययस्य कुḵ (८। २। ६२) इति कुत्वम् । चकारान्तः । स्त्रियां तु ङीपि नीची ॥ नीचैःशब्देन स्वल्पपरिमाणमुच्यते । तद्योगाद् अर्शआद्यचि (५। २। १२७) अव्ययानां भमात्रे टिलोपे (वा। ६। ४। १४४) नीचः । नीचशब्दोकारान्तः पामरेऽपि व्युत्पादितः (२। १०। १६) । यथा हिरण्यलोहवाहिनीलतादयः शब्दाः सामान्यविशेषोभयरूपार्थाः तद्वदिहापि ॥ मनुष्यवर्गे ʻखर्वो ह्रस्वश्च वामनḵ इति मनुष्यविशेषे (२। ६। ४६) दर्शिताः । तत्रैव कृतनिर्वचनाश्च । इह तु स्वल्पोच्छ्राययुक्तद्रव्यमात्रवचनत्वेनोच्यन्त इति ज्ञेयम् ॥ अवाग्रेऽवनतानतम् । अवाग्रेऽधोमुखे द्वयम् । अवनतमग्रमस्येति अवाग्रम् । अवनमति स्म अवनतम् । क्तः ईषन्नमति स्म आनतम् । आङ् ईषदर्थः । अवनतम् आननं मुखमस्येति अवनताननमिति सुभूतिचन्द्रः ॥ ७० ॥
मल्लि-नाथः - AK.03.01.070
उच्चप्रांशू—तुङ्गे । तुङ्गनामानि ॥ अथ वामने—ह्रस्वाः स्युः । वामननामानि ॥ अवाग्रेऽवनतानतम् । अवनताग्रनामानि ॥ ७० ॥
[[०३.०९९]]
मूलम् - ०३.०१.०७१
अक्।०३.०१.०७१अब् अरालं वृजिनं जिह्ममूर्मिमत् कुञ्चितं नतम् ।
अक्।०३.०१.०७१च्द् आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥
लिङ्ग-सूरी - AK.03.01.071
अरालमिति—अरा वेष्टनान्यस्य सन्तीत्यरालम् । वर्ज्यते आर्जवमनेनेति वृजिनम् । ʻवृजी वर्जने । जहात्यार्जवमिति जिह्मम् । ʻओहाक् त्यागे । ऊर्मयो वक्रभावाः सन्त्यस्येति ऊर्मिमत् । कुञ्चति वक्रतया अल्पीभवतीति कुञ्चितम् । ʻकुच गतिकौटियाल्पीभावयोḵ । नमतीति नतम् । ʻणम प्रह्वत्वे शब्दे । ईषद्विद्धमाविद्धम् । ʻव्यध ताडने । कुटति कौटिल्यं प्राप्नोतीति कुटिलम् । ʻकुट कौटिल्ये । भुजतीति भुग्नम् । ʻभुज कौटिल्ये । वेल्लति श्लक्ष्णतया चलतीव तिष्ठतीति वेल्लितम् । ʻवेल्ल चलने । वञ्चति कौटिल्यं प्राप्नोतीति वक्रम् । ʻवञ्चु गतü । कुटिलस्य केशादेर्नामानि ॥ ७१ ॥
अरालं—वक्रमित्यपि । अरालमित्यादिश्लोकेन एकादशनामानि आर्जवविरुद्धावयवसंस्थाने वक्रनाम्ना प्रसिद्धे आन्दोलिकादण्डादौ वर्तन्ते । अरमत्यर्थमल्यते कार्यानुपयोगित्वेन निवार्यत इत्यरालम् । ʻअल भूषणपर्याप्तिवारणेष्ü ॥ इह वृजिनशब्देन पापवाचिना तद्गतं हेयत्वं लक्ष्यते । तद्योगाद् अर्शआद्यच् (५। २। १२७) । वृजिनम् ॥ जहाति त्यजत्यार्जवमिति जिह्मम् । ʻओहाक् त्यागे । मन् प्रत्ययः (उ। १। १४६) ॥ अवयवसङ्कोचनिबन्धनास्त्वक्सङ्कोचरूपावलय एव सादृश्यात् ऊर्मिशब्देन विवक्षिताः । तद्योगाद् ऊर्मिमत् । मतुप् (५। २। ९४) ॥ कुञ्चति अवयवसङ्कोचेनाल्पीभवतीति कुञ्चितम् । ʻकुञ्च क्रुञ्च गतिकौटिल्याल्पीभावयोḵ । क्तः ॥ नमति प्रह्वभवतीति नतम् । कर्तरि क्तः (३। ४। ७२) ॥ शरादिभिरीषद्विद्धः आविद्धः । ʻव्यध ताडने । क्तः । स हि दुःसहव्यथाभराद् ईषत्सङ्कुचितावयवो भवति । तत्सादृश्यादिदमपि आविद्धमित्युच्यते ॥ अत्र कुटशब्देन गृहवाचिना सादृश्यात् सङ्कुचितावयवभागो विवक्षितः । ʻकुट कौटिल्ये । ततो मत्वर्थे पिच्छादित्वाद् इलचि (५। २। १००) कुटिलम् ॥ भुजति कुटिलो भवतीति भुग्नम् । ʻभुजो कौटिल्ये । ʻओदितश्च्ö (८। २। ४५) इति निष्ठानत्वम् ॥ वेल्लति स्वसन्निवेशात् चलतीति वेल्लितम् । ʻवेल्ल चलने । क्तः ॥ वञ्चति अग्रावयवैर्मूलभागं गच्छतीति वक्रम् । ʻवञ्चु गतü । ʻस्फायितञ्चिवञ्चि ॥ । इत्यादिना (उ। २। १३) रक् प्रत्ययः । अनुनासिकलोपः । न्यङ्क्वादिः (७। ३। ५३) ॥ ७१ ॥
मल्लि-नाथः - AK.03.01.071
अरालं—वक्रमित्यपि । कुटिलनामानि । ʻडोङ्कनदि । अनुक्तम्—ʻविकटं तु विरूपकम् । अतिवक्रनामनी ॥ ७१ ॥
[[०३.१०१]]
मूलम् - ०३.०१.०७२
अक्।०३.०१.०७२अब् ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ ।
अक्।०३.०१.०७२च्द् शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ७२ ॥
लिङ्ग-सूरी - AK.03.01.072
ऋजाविति—ऋज्यते आदरेण सम्पाद्यत इति ऋजुः । ʻऋज गतिस्थानार्जनोपार्जनेष्ü । न जिह्म इत्यजिह्मः । प्रकृष्टोऽवक्रत्वगुणोऽस्येति प्रगुणः । ऋजुनामानि ॥ व्यस्यते विपर्यस्यत इति व्यंस्तः । प्रकृष्टगुणयोगाभावाद् अप्रगुणः । आकोलति एकीभवतीत्याकुलः । ʻकुल संस्त्याने बन्धुषु च्ö । व्याकीर्णस्य नामानि ॥ शश्वद् वर्तमानः शाश्वतः । ध्रुवतीति ध्रुवः । ʻध्रुव स्थैर्ये । नियतं भवो नित्यः । सदा भवः सदातनः । सनातनश्च । विनाशरहितस्य नामानि ॥ ७२ ॥
ऋजावजिह्मप्रगुणौ । वक्रविरुद्धस्य दीर्घवेणुदण्डादेर्नामानि । ऋज्यते कार्योपयोगित्वेन सम्पाद्यत इति ऋजुः । ʻऋज गतिस्थानार्जनोपार्जनेष्ü । औणादिकः कुप्रत्ययः (उ। १। २७) ॥ जिह्माद् भिन्नोऽजिह्मः ॥ प्रकृष्टो गुण उपादेयत्वलक्षणोऽस्येति प्रगुणः ॥ व्यस्ते त्वप्रगुणाकुलौ । विप्रकीर्णसन्निवेशस्य नामानि । व्यस्यते विरुद्धं क्षिप्यत व्यस्तम् । ʻअसु क्षेपणे । कर्मणि क्तः ॥ रमणीयत्वाभावेन प्रकृष्टगुणाभावाद् अप्रगुणः ॥ आ समन्तात् कोलति संस्त्यानो भवतीति आकुलः । ʻकुल संस्त्याने । मूलविभुजादिः (वा। ३। २। ५) ॥ शाश्वतस्तु—सनातनाः । विनाशरहितस्य नामानि । शाश्वदिति कालत्रयवाचकमव्ययम् । तत्र भवो वर्तमानः शाश्वतः । ʻतत्र भवḵ (४। ३। ५३) इत्यण् । ʻआराच्छश्वतोर्नेष्यते इति निषेधात् ʻअव्ययानां भमात्रे— (वा। ६। ४। १४४) इति टिलोपस्याभावः ॥ ध्रुवनित्यशब्दौ प्रथमकाण्डे व्युत्पादितौ (१। ३। २०, १। १। ६७) ॥ सदासनाशब्दौ कालत्रयवचनाव्ययेषु वक्ष्येते (३। ४। २२, १७) । ताभ्यामुभाभ्यामपि भवार्थे ʻसायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च्ö (४। ३। २३) इति ट्युप्रत्यये तुडागमे च सदातनः, सनातनश्च । शाश्वतिकशब्दोऽप्यत्र ॥ ७२ ॥
मल्लि-नाथः - AK.03.01.072
ऋजावजिह्मप्रगुणौ । ऋजुनामानि । ʻचक्कनिदि । व्यस्ते त्वप्रगुणाकुलौ । व्यस्तनामानि । ʻवेरे बुण्डेदि । अनुक्तम्—ʻकरम्बः कम्बरो मिश्रḵ । मिश्रनामानि । ʻकलशिनदि । शाश्वतस्तु—सनातनाः । स्थिरनामानि ॥ ७२ ॥
[[०३.१०२]]
मूलम् - ०३.०१.०७३
अक्।०३.०१.०७३अब् स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः ।
अक्।०३.०१.०७३च्द् कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः ॥ ७३ ॥
लिङ्ग-सूरी - AK.03.01.073
स्थानुरिति—तिष्ठति चिरकालं ताच्छील्येनेति स्थास्नुः । ʻष्ठा गतिनिवृत्तü । अतिशयेन स्थिरः स्थिरतरः । स्थेयांश्च । चिरकाले वर्तमानस्य नामानि ॥ कूटेन निश्चलत्वेन तिष्ठतीति कूटस्थः । वाल्याद्यवस्थारहितत्वेन भूतभविष्यद्वर्तमानकालव्यापितस्यात्मादेर्नाम ॥ तिष्ठति ताच्छील्येनेति स्थावरः । जङ्गमादितरस्य नाम ॥ ७३ ॥
स्थास्नुः—स्थेयान् । आशुविनाशिजलबुद्बुदापेक्षया चिरकालावस्थायिनः पाषाणादेर्नामानि । चिरं तिष्ठतीति स्थास्नुः । ʻग्लाजिस्थश्च ग्स्नुḵ (३। २। १३९) इति ताच्छील्यार्थे ग्स्नुप्रत्ययः ॥ इतरापेक्षया अतिशयेन स्थिर इति विग्रहे ʻद्विवचनाविभज्य ॥ । इत्यादिना (५। ३। ५७) तरप् प्रत्यये स्थिरतरः ॥ ईयसुन् प्रत्यये (५। ३। ५७) ʻप्रियस्थिर ॥ । इत्यादिना (६। ४। १५७) स्थिरशब्दस्य स्थादेशे च स्थेयान् ॥ एकरूपतया—कूटस्थः । एकेनैव स्वभावेन निरवधिकालत्रयव्यापको नित्यचैतन्यादिः कूटस्थ इत्युच्यते । ʻकूटं निश्चलम् इति नानार्थे वक्ष्यते (३। ३। ३७) । नैश्चल्येन स्वभावान्तरराहित्येन तिष्ठतीति कूटस्थः (३। २। ४) ॥ स्थावरो जङ्गमेतरः । जङ्गमात् चलनस्वभावात् मनुष्यादेरन्यः पर्वतादिः स्थावरःस्यात् । तिष्ठति ताच्छील्येनेति स्थावरः । ʻस्थेशभास ॥ । इत्यादिना (३.२। १७५) वरच् ॥ ७३ ॥
मल्लि-नाथः - AK.03.01.073
स्थास्नुः—स्थेयान् । अतिस्थिरनामानि ॥ एकरूपतया—कूटस्थः । एकस्वरूपतया कालव्यापि आकाशादिद्रव्यं कूटस्थं स्यात् ॥ स्थावरो जङ्गमेतरः । जङ्गमादितरः शैलवृक्षादिः स्थावरः स्यात् ॥ ७३ ॥
[[०३.१०३]]
मूलम् - ०३.०१.०७४
अक्।०३.०१.०७४अब् चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् ।
अक्।०३.०१.०७४च्द् चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥ ७४ ॥
अक्।०३.०१.०७५अब् चञ्चलं तरलं चैव पारिप्लवपरिप्लवे ।
लिङ्ग-सूरी - AK.03.01.074
चरिष्णिवति—चरति ताच्छील्येनेति चरिष्णु । चरम् । चराचरं च । ʻचर गतिभक्षणयोḵ । कदाचित् कुटिलं गच्छतीति जङ्गमम् । ʻगम्लृ गतü । त्रस्यति चिरचलत्वादिति त्रसम् । ʻत्रसु उद्वेगे । इङ्गति चलतीति इङ्गम् । ʻइगि गतü । गमनशीलस्य नामानि ॥ चलति ताच्छील्येनेति चलनम् । ʻचल कम्पने । कम्पते ताच्छील्येनेति कम्पनम् । कम्प्रं च । ʻकपि चलने । चलनशीलस्य नामानि ॥ चलतीति चलम् । चलाचलं च । लोडति चलतीति लोलम् । ʻलुड विलोडने । चञ्चतीति चञ्चलम् । ʻचञ्चु गतü । तरतीति तरलम् । ʻतॄ प्लवनतरणयोḵ । परिप्लवते गच्छतीति पारिप्लवम् । परिप्लवं च । प्लुङ् गतü । चलतो वृक्षादेर्नामानि ॥ ७४ ॥
चरिष्णु—चराचरम् । चलनस्वभावस्य मनुष्यपश्वादेर्नामानि । चरतीति चरिष्णु । ʻअलङ्कृञ्निराकृञ् ॥ । इत्यादिना (३। २। १३६) इष्णुच् ॥ कुटिलं गच्छतीति जङ्गमम् । ʻगम्लृ गतü । ʻनित्यं कौटिल्ये गतü (३। १। २३) इति यङ् । ʻसन्यङोḵ (६। १। ९) इति द्विर्वचनम् । ʻनुगतोऽनुनासिकान्तस्य्ö (७। ४। ८५) इति नुक् । अस्य चानुस्वारपरसवर्णौ । पचाद्यच् (३। १। १३४) । ʻयङोऽचि च्ö (२। ४। ७४) इति यङो लुक् ॥ चरतीति चरम् । पचाद्यच् (३। १। १३४) । त्रस्यतीति त्रसम् । ʻत्रसी उद्वेगे । अच् ॥ इङ्गति गच्छतीति इङ्गम् । ʻइगि गतü । अच् ॥ चरतीति चराचरम् । ʻचरचलिपति ॥ । (वा। ६। १। १२) इति पचाद्यचि विकल्पेन द्विर्वचनागागमयोः चराचरम् । द्विर्वचनाभावपक्षे चरम् ॥ चलनं—कम्प्रम् । चलनस्वभावस्य नामानि । ʻचल गतü, ʻकपि चलने इत्याभ्यां धातुभ्यां ʻचलनशब्दार्थादकर्मकाद्युच् (३। २। १४८) इति ताच्छील्यार्थे कर्तरि युच्प्रत्यये चलनम्, कम्पनम् । ʻनमिकम्पि ॥ । इत्यादिना (३। २। १६७) रप्रत्यये कम्प्रम् ॥ चलं—परिप्लवे । कादाचित्कचलनयुक्तस्य हस्तादेर्नामानि । ʻचल गतü इति धातोः पचाद्यचि (३। १। १३४) चलम् ॥ लोलति लोलम् । लुड इत्येके पठन्ति । धातोः पचाद्यचि लडयोरभेदः । लुडतिरपठितो धातुरिति माघव्याख्याने वल्लभाचार्यः (शिशु। ३। ७२) ॥ चलतीति चलाचलम् । चराचरशब्दवत् ॥ चञ्चतीति चञ्चलम् । ʻचञ्चु गतü । औणादिकः कलच्प्रत्ययः ॥ परिप्लवते, ʻप्लुङ् गतü इति धातोः परिपूर्वात् पचाद्यचि (३। १। १३४) परिप्लवम् । ततः स्वार्थिके अण्प्रत्यये (५। ४। ३८) पारिप्लवम् ॥ ७४ ॥
मल्लि-नाथः - AK.03.01.074
चरिष्णु जङ्गमचरम् । एकवद्भावाद् नपुंसकत्वम् । त्रसमिङ्गम् । सञ्चरणशीलस्य मनुष्यादेर्नामानि ॥ चराचरं । स्थावरजङ्गमोभयनाम । ʻउभयं तच्चराचरम् इति वैजयन्ती (पृ। २०६, श्लो। ६२) ॥ चलनं—परिप्लवे । चलननामानि ॥ ७४ ॥
[[०३.१०५]]
अक्।०३.०१.०७५च्द् अतिरिक्तः समधिको दृढसन्धिस्तु संहतः ॥ ७५ ॥
मूलम् - ०३.०१.०७६
अक्।०३.०१.०७६अब् कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् ।
अक्।०३.०१.०७६च्द् जठरं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥
लिङ्ग-सूरी - AK.03.01.075-76
अतिरिक्त इति—अतिरिच्यत इत्यतिरिक्तः । ʻरिञ्चिर् विरेचने । सम्यगधिकः समधिकः । क्लृप्ताधिकस्य नामनी ॥ संहन्यते सन्धिप्रदेशेषु संश्लिष्यत इति संहतः । ʻहन हिंसागत्योḵ । दृढसन्धिहस्तपादाद्यवयवस्य नामनी ॥ कृणोति पीडयतीति कर्कशम्, क्रूरं च । ʻकृञ् हिंसायाम् । कक्खट इति वा पाठः । तदा ʻकखे हसने इति धातुः । कठति अनेकक्लेशेन जीवतीति कठिनम् । कठोरं च । ʻकठ कृच्छ्रजीवने । निन्दितमिव तिष्ठतीति निष्ठुरम् । ʻष्ठा गतिनिवृत्तü । दृंहतीति दृढम् । ʻदृहि वृद्धü । जीर्यतेऽनेनेति जठरम् । जरठमिति वा पाठः । ʻजॄष् वयोहानü । मूर्तिः काठिन्यमस्यास्तीति मूर्तिमत् । मूर्तं च । कठिनद्रव्यस्य नामानि ॥ प्रवर्धत इति प्रवृद्धम् । ʻवृधु वृद्धü । प्रकर्षेण वृद्धिं वहतीति प्रौढम् । ʻवह प्रापणे । एधत इत्येधितम् । ʻएध वृद्धü । प्रवृद्धस्य नामानि ॥ ७५-७६ ॥
अतिरिक्तः समधिकः । स्वापेक्षितपरिमाणादभ्यधिकपरिमाणद्रव्यस्य नामनी । अतिरिच्यते स्म अतिरिक्तः। ʻरिचिर् विरेचने । क्तः (३। २। १०२) । अपेक्षितादपि सम्यगधिकः समधिकः ॥ दृढसन्धिस्तु संहतः । दृढावयवसन्धानस्य शरीरादेर्नामनी । दृढः सन्धिर्यस्य दृढसन्धिः । संहन्यते स्म संहतः । ʻहन हिंसागत्योḵ । क्तः ॥ कर्कशं—जठरं मूर्तिमन्मूर्तम् । कर्कशादिनवकम् अतिनिबिडावयवसंयोगारब्धे दारुपाषाणादौ वर्तते । कर्को नाम दृढगात्रोऽश्वविशेषः । तमपि श्यति तनूकरोति स्वावयवसंयोगेनेति कर्कशम् । ʻशो तनूकरणे । कप्रत्ययः (३। २। ३) । कठति क्लेशेन जीवति, दुःखकरत्वादस्येति कठिनम् । ʻकठ कृच्छ्रजीवने । इनच्प्रत्ययः (उ। २। ५१) । तत एव धातोः ʻकठिचकिभ्यामोरन् (उ। १। ६७) इत्योरन्प्रत्यये कठोरम् । घातुके क्रूर उक्तः (श्लो। ४७) । परपीडायां निष्ठां तात्पर्यं रातीति निष्ठुरम् । पृषोदरादिः ॥ ʻदृढःस्थूलबलयोḵ (७। २। २०) इति निपातनाद् बलवति दृढशब्दो निपातितः ॥ जठरशब्दः कुक्षौ व्युत्पादितः (२। ६। ७७) ॥ रेफोपधोऽयं शब्दः । अत एव ʻजठरः कठिनेऽपि स्यात् इति नानार्थवर्गे रेफान्तेषु वक्ष्यते (३। ३। १८९) ॥ मूर्तिः काठिन्यमस्यास्तीति मूर्तिमत् । मतुप् (५। २। ९४) ॥ अर्शआद्यचि (५। २। १२७) मूर्तम् ॥ प्रवृद्धं प्रौढमेधितम् । पूर्वावस्थातो महत्त्वमापन्ने प्रवृद्धादित्रयम् । प्रकर्षेण वर्धते स्म प्रवृद्धम् । ʻवृधु वृद्धü । क्तः ॥ प्रकर्षेणोह्यते स्म प्रौढम् । ʻवह प्रापणे । क्तप्रत्ययः । ʻप्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या’ (वा। ६। १। ८९) इति वृद्धिः ॥ एध्यते स्म एधितम् । ʻएध वृद्धü । कर्मणि क्तप्रत्ययः ॥ ७५-६ ॥
मल्लि-नाथः - AK.03.01.075-76
अतिरिक्तः समधिकः । अत्यधिकनामनी । ʻवेग्गलमैनदि । ʻउल्बणं चोत्कटोद्भेदü । एतानि त्रीणि च ॥ दृढसन्धिस्तु संहतः । दृढसंयोगवतो नामनी । ʻविग्गिलाकट्टिनदि । अनुक्तम्—ʻश्लथं शिथिलमित्यपि । तद्विपरीतनामनी ॥ कर्कशं—मूर्तम् । कठिननामानि ॥ प्रवृद्धं—एधितम् । प्रवृद्धनामानि ॥ ७५-६ ॥
[[०३.१०७]]
मूलम् - ०३.०१.०७७
अक्।०३.०१.०७७अब् पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः ।
अक्।०३.०१.०७७च्द् प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥
अक्।०३.०१.०७८अब् नूत्नश्च सुकुमारं तु कोमलं मृदुलं मृदु ।
लिङ्ग-सूरी - AK.03.01.077
पुराण इति—पुरा भवः पुराणः । पुरातनश्च । पुराणार्थत्वात् प्रतनः । प्रत्नश्च । चिरं भवतीति चिरन्तनः । पूर्वभूतस्य कालादेर्नामानि ॥ प्रतिगतमग्रमस्येति प्रत्यग्रः । अभिनूयत इत्यभिनवः । नवश्च । ʻणु स्तुतü । नव एव नव्यः । नवीनः । नूतनः । नूत्नश्च । अभिनवस्य नामानि ॥ अल्पाभिघातादिकेन सुष्ठु कुत्सितं म्रियत इति सुकुमारम् । ʻमृङ् प्राणत्यागे ॥ कम्यते जनैरिति कोमलम् । ʻकमु कान्तü । मृद्यते वाय्वादिनेति मृदुलम् । ʻमृदु च्ö । ʻमृद क्षोदे । कोमलस्य पुष्पादेर्नामानि ॥ ७७ ॥
पुराणप्रतन—चिरन्तनाः । अतिविप्रकृष्टभूतकालसम्बन्धिमात्रस्य नामानि । पुरेत्यव्ययं चिरविप्रकृष्टं भूतकालमाह । अत एव वक्ष्यति—ʻस्यात् प्रबन्धे चिरातीते (३। ४। २५३) इत्यादि । पुराशब्दात् तत्र भव इत्यर्थे ʻसायं चिरं ॥ । इत्यादिना (४। ३। २३) ट्युप्रत्यये तस्य तुडागमे च पुरातनम् । ʻपुराणप्रोक्तेषु ब्राह्मणकल्पेष्ü (४। ३। १०५) इति निर्देशसामर्थ्यात् तुडागमाभावे पुराणम् । स्त्रियां तु ङीपि पुराणी । पुरा पूर्वकालेऽण्यते शब्द्यत इति विग्रहस्तु स्त्रियामनिष्टः । टाबन्तत्वं प्रापयेदिति परिहरणीयः । ʻनश्च पुराणे प्रात् (वा। ५। ४। २५) इति वार्त्तिकचकारवचनेन पुराणार्थे वर्तमानार्थात् प्रशब्दात् त्नप् प्रत्यये प्रत्नः । तनप्प्रत्यये प्रतनः । चिरमित्यव्ययात् पूर्ववदेव (४। ३। २३) ट्युप्रत्यये चिरन्तनः ॥ प्रत्यग्रो—नूत्नश्च । सन्निकृष्टभूतकालसम्बन्धिनो नामानि । प्रतिगतमग्रमस्येति प्रत्यग्रः ॥ अभितो नूयते स्तूयत इत्यभिनवः । ʻणु स्तुतü । ʻऋदोरप् (३। ३। ५७) इत्यप्प्रत्ययः ॥ ʻपादार्घाभ्यां च्ö (५। ४। २५) इति सूत्रे काशिकाकारः (२, पृ। ८५) —ʻअत्र चकारोऽनुक्तसमुच्चयार्थः । तेन यथादर्शनमन्यत्रापि यत्प्रत्ययो भवति इति । ततश्च नवशब्दात् यत्प्रत्यये नव्यः ॥ नव एव नवीनः । ʻनवस्य नू आदेशस्त्नप्तनप्खाश्च प्रत्ययाḵ (वा। ५। ४। २५) इति नवशब्दात् स्वार्थे त्नप्रत्यये नवशब्दस्य नू इत्यादेशे नूत्नः । तनप्प्रत्यये नूतनः । खप्रत्यये नवीनः ॥ सुकुमारं—मृदु । एतानि कुसुमादेः कोमलद्रव्यस्य नामानि । सुष्ठु कुत्सितेनापि अभिघातेन मार्यते विनाश्यत इति सुकुमारम् ॥ काम्यत इति कोमलम् । ʻकमु कान्तü इति धातोः अलच्प्रत्यये उपधाया ओकारादेशे च कोमलम् इति धातुवृत्तावुक्तम् ॥ मृद्यते स्वल्पाभिघातेनापि क्षुद्यत इति मृदु । ʻमृद क्षोदे । औणादिकः कुप्रत्ययः । ततो भावमात्रविवक्षायां मत्वर्थीये लच्प्रत्यये (५। २। ९७) श्यामश्यामलशब्दवत् मृदुलम् ॥ ७७ ॥
मल्लि-नाथः - AK.03.01.077
पुराणप्रतन—चिरन्तनाः । चिरत्नमपि स्यात् । ʻचिरत्नरत्नाधिकमुच्चितं चिरात् इत नैषधः (१। १०७) । पुरातननामानि ॥ प्रत्यग्रो—नूत्नश्च । नूतननामानि ॥ सुकुमारं—मृदु । कोमलनामानि ॥ ७७ ॥
[[०३.१०८]]
अक्।०३.०१.०७८च्द् अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ ७८ ॥
मूलम् - ०३.०१.०७९
अक्।०३.०१.०७९अब् प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् ।
लिङ्ग-सूरी - AK.03.01.078
अन्वगिति—अनुगच्छन्तं पश्चादञ्चते गच्छतीति अन्वक् । ʻअञ्चु गतü । अत्राव्ययमिति सम्बध्यते । अक्षस्य पुरोगामिनः अनु पश्चाद् गच्छतीति अन्वक्षम् ॥ पदस्य पुरोगामिनः अनु पश्चाद् गच्छतीति अनुपदम् । यो गच्छन्तमनु पश्चाद् गच्छति तस्य नामानि ॥ प्रत्यक्ष्णोति पुरो व्याप्नोतीति प्रत्यक्षम् । ʻअक्षू व्याप्तü । इन्द्रियैर्ग्राह्यम् ऐन्द्रियकम् । इन्द्रियग्राह्यस्य रूपरसादेर्नामनी ॥ प्रत्यक्षं न भवतीत्यप्रत्यक्षम् । अधिगत्मक्षमिन्द्रियम् अध्यक्षम् । तदतिक्रान्तम् अत्यध्यक्षमिति वा पाठः । इन्द्रियाण्यतिक्रान्तमतीन्द्रियम् । इन्द्रियैरग्राह्यस्य नामनी ॥ ७८ ॥
अन्वक्—अव्ययम् । यो गच्छन्तमनुगच्छति तस्य नामानि । अनु पश्चाद् अञ्चति गच्छतीति अन्वक् । ʻअञ्चु गतिपूजनयोḵ । ʻऋत्विग् ॥ । इत्यादिना (३। २। ५९) क्विन् प्रत्ययः । चकारान्तः । ʻआगच्छतोऽनूचि गजस्य घण्टयोḵ इति माघः (शिशु। १२। ३४) । स्त्रियां तु ङीपि अनूची ॥ अनुगतमक्षं पादरूपं कर्मेन्द्रियमस्येति अन्वक्षम् ॥ पुरोगतापेक्षया अनुगतं पश्चाद्भूतं पदमस्येति अनुपदम् । बहुव्रीहित्वोपाधिकवक्ष्यमाणपरोपगत्वव्युदासाय क्लीबमित्युक्तम् । अतश्च गुरोरनुपदमन्तेवासी भर्तुरनुपदं पत्नी इत्याद्येव भवति । यदा तु पदस्य पुरोगतस्य पश्चादिति विग्रहो विवक्षितः, तदा ʻअव्ययं विभक्ति ॥ । इत्यादिना (२। १। ६) पश्चादर्थेऽव्ययीभावादव्ययत्वम् । केचित्तु ʻक्लीबमव्ययम् इति शब्दद्वयस्य प्रागुक्तगत्या अन्वक्षशब्देनापि सम्बन्धमाहुः ॥ प्रत्यक्षं स्यादैन्द्रियकम् । बुद्धीन्द्रियग्राह्यस्य रूपरसादेर्नामनी । प्रतिगतम् अक्षमिन्द्रियमिति प्रत्यक्षम् । प्रतीतमक्षेणेति वा । यथा प्रत्यक्षा बुद्धिः । प्रत्यक्षो घटः । प्रत्यक्षं रूपमित्यादि । अध्यक्षमिति केषाञ्चित् पाठः । तत्रापि पूर्ववदेव निरुक्तिक्रमः । इन्द्रियादागतम् ऐन्द्रियकम् । कुलालादेः (४। ३। ११८) आकृतिगणत्वाद् वुञ् ॥ अप्रत्यक्षमतीन्द्रियम् । पूर्वोक्तात् प्रत्यक्षादन्यद् अप्रत्यक्षम् । अतिक्रान्तमध्यक्षम् अत्यध्यक्षम् इति केचित् । इन्द्रियमतिक्रान्तम् अतीन्द्रियम् ॥ ७८ ॥
मल्लि-नाथः - AK.03.01.078
अन्वक्—अव्ययम् । अनुगतनामानि । ʻवेनुसनिनदि । अनुक्तम्—ʻसहितं संहितं युक्तयुतमन्वीतमन्वितम् । युतनामानि । ʻकूडिनदि ॥ प्रत्यक्षं स्यादैन्द्रियकम् । चक्षुरादीन्द्रियविषयनामनी । अध्यक्षसमक्षशब्दावपि स्तः । ʻअध्यक्षप्रत्यक्षौ तु समक्षवत् इति वैजयन्ती (पृ। २१२, श्लो। १३३) ॥ अप्रत्यक्षमतीन्द्रियम् । अप्रत्यक्षनामनी । परोक्षशब्दोप्यस्ति । ʻपरोक्षेऽतीन्द्रियḵ इति वैजयन्ती (पृ। २१२, श्लो। १३३) ॥ ७८ ॥
[[०३.११०]]
अक्।०३.०१.०७९च्द् एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि ॥ ७९ ॥
मूलम् - ०३.०१.०८०
अक्।०३.०१.०८०अब् अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि च ।
लिङ्ग-सूरी - AK.03.01.079
एकतान इति—एकस्मिन्नेव विषये तानो बुद्धिविस्तारोऽस्येति एकतानः । अन्यस्मिन्नेव विषये वृत्तिर्यस्येति अन्यवृत्तिः । न अन्यवृत्तिरनन्यवृत्तिः । एकमग्रम् एकदेशस्थं ज्ञेयमस्येति एकाग्रः । एकमेवायनं गतिरस्येति एकायनः । एकविषयः सर्गो निश्चयोऽस्य एकसर्गः । एकाग्र एव एकाग्र्यः । ऐकाग्र्य इति वा पाठः । एक मेवायनं गतिं गतः प्राप्तः एकायनगतः । एकाग्रचित्तस्य नामानि ॥ ७९ ॥
एकतानो—गतोऽपि च । एकतानादिसप्तकं तदेकायत्तचित्ते । ʻतनु श्रद्धोपकरणयोḵ इति चुरादिः, ण्यन्तात् ʻएरचि (३। ३। ५६) तानो विस्तारः । एकस्मिन्नेव विषये तानोऽस्यास्तीति एकतानः ॥ एकमग्रम् अग्रस्थं ज्ञेयमस्येति एकाग्रः । स्वार्थिकेऽण्प्रत्यये सति ऐकाग्रः । एकस्मिन्नेव विषयेऽयनमिन्द्रियगतिरस्येति एकायनः । एकस्मिन्नेव विषये सर्गो निश्चयोऽस्येति एकसर्गः । एकमग्र्यं ज्ञेयमस्य एकाग्र्यः । एकमयनं विषयस्थानं गतः एकायनगतः ॥ ७९ ॥
मल्लि-नाथः - AK.03.01.079
एकतानो—गतोऽपि च । एकाग्रनामानि ॥ ७९ ॥
अक्।०३.०१.०८०च्द् पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अतास्त्रियाम् ॥ ८० ॥
मूलम् - ०३.०१.०८१
अक्।०३.०१.०८१अब् अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमम् ।
लिङ्ग-सूरी - AK.03.01.080
पुंसीति—आदीयते प्रथममुपादीयत इत्यादिः । ʻदा दाने । पूर्वतीति पूर्वः । ʻपूर्व पूरणे । पुरः पूर्वस्मिन् काले देशे वा भवः पौरस्त्यः । प्रथतेऽनेनाद्वितीयेनेति प्रथमः । ʻप्रय प्रख्या’ । आदौ भवः आद्यः । प्रथमभाविनः पदार्थस्य नामानि ॥ अमति उपान्त्यपङ्क्तिपदार्थमतिक्रम्य गच्छतीति अन्तः । ʻअम गत्यादिष्ü । जघने पश्चाद् भवं जघन्यम् । चरति उपान्तं पर्यन्तमतिक्रम्य तदनन्तरस्थानं गच्छतीति चरमम् । अन्ते भवमन्त्यम् । पश्चाद् भवं पाश्चात्यम् । पश्चिमं च । अन्तिमस्य पदार्थस्य नामानि ॥ ८० ॥
पुंस्यादिः—प्रथमाद्याः । यत्किञ्चिदपेक्षया प्राक्कालसम्बन्धिनः पञ्च नामानि । आदीयते प्रारम्भसमय एव व्यवह्रियत इत्यादिः । ʻउपसर्गे घोः किḵ (३। ३। ९२) । भार्याकलत्रादिविशेषणत्वेऽपि आदिशब्दः पुंलिङ्ग एवेति नियम्यते ॥ पुरं वाति गच्छति श्रेष्ठत्वेनेति पूर्वः । ʻवा गतिगन्धनयोḵ । ʻआतोऽनुपसर्गे कḵ (३। २। ३) ॥ पुरः पूर्वस्मिन् काले देशे वा भवः पौरस्त्यः । ʻदक्षिणापश्चात्पुरसस्त्यक् (४। २। ९८) इति त्यक्प्रत्ययः । ʻकिति च्ö (७। २। ११८) इति वृद्धिः ॥ प्रथते द्वितीयादिभिः सहेति प्रथमः । ʻप्रथ प्रख्याने । ʻप्रथेरमच् (उ। ५। ६८) इत्यमच्प्रत्ययः ॥ आदौ देशे काले वा भवः आद्यः । ʻदिगादिभ्यो यत् (४। ३। ५४) इति यत्प्रत्ययः ॥ अथास्त्रियाम्—पश्चिमम् । षडेतानि दानादानादिक्रियासु गणनासमाप्तिस्थानस्य नामानि । अमति समाप्तिं गच्छतीत्यन्तः । ʻअम गत्यादिष्ü । कर्तरि क्तः (३। ४। ७२) । अन्तशब्दस्य योषिदादौ विशेष्यभूतेऽपि पुन्नपुंसकलिङ्गयोरन्यतरत्वमेवेति दर्शयितुम् अस्त्रियामित्युच्यते । जघन्यादयस्तु शब्दा लिङ्गत्रयेऽपि भवन्ति । जघने पश्चाद्भागे भवतीति जघन्यम् । दिगादित्वाद् (४। ३। ५४) यत् ॥ प्रथमप्रतीतिस्थानमुपक्रम्य चरतीति चरमम् । ʻचर गतü । ʻप्रथेरमच् इत्यनुवृत्तौ । ʻचरेश्च्ö (उ। ५। ६९) इत्यमच् ॥ अन्तेऽवसाने भवम् अन्त्यम् । दिगादित्वाद् (४। ३। ५४) यत् । पश्चाद् देशे काले वा भवं पाश्चात्यम् । ʻदक्षिणापश्चात्पुरसस्त्यक् (४। २। ९८) इति त्यक् ॥ पश्याद् भवं पश्चिमम् । ʻअग्रपश्चाड्डिमच् (वा। ४। ३। २३) इति डिमच् । डित्त्वात् टिलोपः ॥ ८० ॥
मल्लि-नाथः - AK.03.01.080
पुंस्यादिः—प्रथमाद्याः । आदिनामानि ॥ अथास्त्रियाम्—पश्चिमम् । अन्त्यनामानि ॥ ८० ॥
[[०३.११२]]
अक्।०३.०१.०८१च्द् मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥
मूलम् - ०३.०१.०८२
अक्।०३.०१.०८२अब् साधारणं तु सामान्यं एकाकी त्वेक एककः ।
अक्।०३.०१.०८२च्द् भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥
लिङ्ग-सूरी - AK.01.01.081-82
मोघमति—मुह्यत्यस्मिन्निति मोघम् । ʻमुह वैचित्ये । निर्गतोऽर्थः प्रयोजनमस्मादिति निरर्थकम् । निरर्थकस्य वस्तुनो नामनी ॥ अज्ञानं स्पशते बाधत इति स्पष्टम् । ʻस्पश बाधनस्पर्शनयोḵ । स्फुटति प्रकाशत इति स्फुटम् । ʻस्फुट विकसने । अतिव्यक्तस्य नामनी ॥ प्रकृष्टं व्यज्यत इति प्रव्यक्तम् । ʻअञ्चू व्यक्तिम्रक्षणकान्तिगतिष्ü । उल्वणति हठात् दर्शनं गच्छतीति उल्बणम् । ʻबण गतü । हठाद्दर्शनेन ज्ञायमानवस्तुनो नामनी ॥ समानमाधारणम् एकस्थानमस्येति साधारणम् । समानस्य भावः सामान्यम् । अप्रातिस्विकपदार्थस्य नामनी ॥ एति कार्यं कर्तुं स्वयमेव गच्छतीत्येकः । एकाकी । एककश्च । ʻइण् गतü । सहायरहितस्य नामानि ॥ अनिति पृथगेव प्राणितीति अन्यः । ʻअन प्राणने । अन्य एवान्यतरः । एति पृथग्गच्छतीत्येकः । त्विषति पृथग् भासत इति त्वः । ʻत्विष दीप्तü । एकतर इति वा पाठः स्वयमेतीति इतरः । प्रकृतादन्यार्थस्य नामानि ॥ ८१-२ ॥
मोघं निरर्थकम् । स्वगतधर्मवैकल्यवशात् निरर्थकस्यैते नामनी । मुह्यत्यत्र पुरुषो कार्यसाधकत्वभ्रान्त्येति मोघम् । ʻमुह वैचित्ये । ʻहलश्च्ö (३। ३। १२१) इति घञ् । न्यङ्क्वादिकुत्वम् (७। ३। ५३) ॥ निष्क्रान्तोऽर्थः प्रयोजनमस्मादिति निरर्थकम् ॥ स्पष्टं स्फुटम् ॥ स्वगतजातिगुणादिवैशिष्ट्येन प्रतीयमानस्यैते नामनी । स्पशते स्वविषयमज्ञानं बाधत इति स्पष्टम् । ʻस्पश बाधनस्पर्शनयोḵ । कर्तरि क्तः (३। ४। ७२) । षत्वष्टुत्वे ॥ स्फुटति विकासितमिव प्रकाशत इथि स्फुटम् । ʻस्फुट विकसने । इगुपधलक्षणः कः (३। १। १३५) । व्यक्तशब्दोऽप्यत्र ॥ प्रव्यक्तमुल्बणम् । अतिदूरत्वादिदोषसम्भवेऽपि स्वगतसकलधर्मवैशिष्ट्येन प्रतीयमानस्यैते नामनी । प्रकर्षेण व्यज्यत इति प्रव्यक्तम् । ʻअञ्जू व्यक्तü । क्तः । अथवा ʻअञ्चु गतिपूजनयोḵ । गत्यर्थाः ज्ञानार्थाः । कर्मणि क्तः (३। २। १०२) । ʻयस्य विभाषा’ (७। २। १५) इति निष्ठायामिडभावः । कुवलादामलकं व्यक्तम् इत्यपादानविषयत्वाद् ʻअञ्चोऽनपादाने (८। २। ४८) इति निष्ठानत्वं न भवति ॥ उत्कृष्टत्वेन बण्यते शब्द्यत इति उल्बणम् । ʻबण शब्दे । पृषोदरादित्वाद् वर्णव्यत्ययः । स्पष्टादयश्चत्वारोऽप्येकार्था इति केचित् ॥ साधारणं तु सामान्यम् । यो ह्यनेकव्यक्तीनां तुल्यरूपो गुणकर्मादिः, यश्चानेकानुभवयोग्यो ग्रामादिः, तस्य द्विविधस्यापि नामनी । साधारणसमानशब्दौ सदृशपर्यायेषु शूद्रवर्गे व्युत्पादितौ (२। १०। ३७) । समान एव सामान्यम् । चातुर्वर्ण्यादित्वात् (वा। ५। १। १२४) स्वार्थिकः ष्यञ् । ʻसामान्योऽयं धर्मसेतुर्नृपाणाम् इति प्रयोगः । धर्मयोरेव साधारण्यम्, सादृश्यं तु धर्माश्रययोरिति साधारणसदृशयोर्भेदः ॥ एकाकी त्वेक एककः । असाहयस्य नामानि । एति पृथगेव गच्छतीति एकः । ʻइण् गतü । ʻइण्भीकापाश ॥ । इत्यादिना (उ। ३। ४३) कन्प्रत्ययः ॥ एक एव एकाकी । ʻकन् लुकौ च्ö (४। ३.५१) इति वर्तमाने ʻएकादाकिनिच्चासहाये (५। ३। ५२) इत्याकिनिच्प्रत्यये एकाकि । चकारात् कन्प्रत्यये एककः । तस्य वैकल्पिके लुकि एकः ॥ भिन्नार्थका—इतरावपि । भिन्नशब्दस्य योऽर्थः प्रकृतादन्यत्वलक्षणः, तदर्था अन्यतरादयः पञ्च शब्दा इत्यर्थः । अनिति प्राणिति जीवति प्रतियोगिसद्भावेनेति अन्यः । ʻअन प्राणने । अघ्न्यादिगणपाठात् (उ। ४। ११२) साधुः ॥ अल्पाच्तरमिति (२। २। ३४) ज्ञापकाद् अन्यशब्दादपि स्वार्थ एव तरप्प्रत्यये अन्यतरः । एकशब्दो व्युत्पादितः ॥ त्वशब्दस्त्वखण्ड एव भिन्नार्थ इति सुबोधिनीकारः । ʻउतो त्वस्मै तन्वं विसस्रे (ऋक्। १०। ७१। ४) इति श्रुतौ प्रयोगः ॥ एति पृथगेव गच्छतीति इतरः । ʻइण् गतü । स्वार्थीयतरप्प्रत्ययः । इतं रातीति वा ॥ ८१-२ ॥
मल्लि-नाथः - AK.03.01.081-82
मोघं निरर्थकम् । व्यर्थनामनी । ʻअन्तर्गडु निरर्थकम् इत्यस्मिन्नर्थे हलायुधः (अ। मा। ४। ८९) ॥ स्पष्टं—उल्बणम् । व्यक्तनामानि । ʻप्रकटं विशरं चापि । एते द्वे च ॥ साधारणं तु सामान्यम् । अनेकसम्बन्धकार्थनामनी । ʻचतुर्मुखकुटुम्बिनी द्रविडमात्रसाधारणी । ʻविक्रमव्यतिहारेण सामान्याभूद् द्वयोरपि (रघु। १२। ९३) ॥ एकाकी—एककः । असहायनामानि ॥ भिन्नार्थका—इतरावपि । भिन्ननामानि । ʻवेरैनवानि पेर्ü । ʻअन्यतरादीनि सर्वनामानि इत्येतानि सर्वनामानि । अन्यतरस्मात् । एकस्मात् । त्वत्त्वपदावन्यार्थकाविति त्वच्छब्दोऽपि त्वशब्दार्थ एव ॥ ८१-२ ॥
[[०३.११४]]
मूलम् - ०३.०१.०८३
अक्।०३.०१.०८३अब् उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् ।
अक्।०३.०१.०८३च्द् अरुन्तुदं तु मर्मस्पृगबाधं तु निरर्गलम् ॥ ८३ ॥
लिङ्ग-सूरी - AK.03.01.083
उच्चावचमिति—उच्चं च तदवाक् च उच्चावचम् । नैकेऽनेके भेदा अस्य सन्तीति नैकभेदम् । अनेकप्रकारस्य चित्रादेर्नामनी ॥ उच्चण्डति कोपेनाशु भवतीत्युच्चण्डम् । ʻचडि कोपे । न विद्यते विलम्बितमस्येत्यविलम्बितम् । कोपेन क्रियमाणापकारवद् आशुकृतस्य नामनी ॥ अरूंषि व्रणानि तुदतीत्यरुन्तुदम् । ʻतुद व्यथने । मर्माणि स्पृशतीति मर्मस्पृक् । ʻस्पृश संस्पर्शने । मर्मव्यथाकरस्य वचनादेर्नामनी ॥ न विद्यते बाधा अस्येत्यबाधम् । निष्क्रान्तमर्गलाद् नियामकादिति निरर्गलम् । उच्छृङ्खलशीलस्य नामनी ॥ ८३ ॥
उच्चावचं नैकभेदम् । अविद्यमान एको भेदः स्वगतावान्तरविशेषोऽस्येति नैकभेदम् । स्थावरजङ्गमात्मकं जगदादि तदुच्चावचमुच्यते । उदक् चावाक् च उच्चावचम् । मयूरव्यंसकादिपाठात् साधुः । ʻउच्चावचैरुपगतेषु सहस्रसङ्ख्याम् इति माघकाव्ये प्रयोगः (शिशु। ४। ४६) ॥ उच्चण्डमविलम्बितम् । ʻचण्डस्त्वत्यन्तकोपनḵ इति प्रागुक्तम् (श्लो। ३२) । त्वरायाः कोपकार्यत्वात् त्वरायुक्त एव कारणप्राधान्येन उच्चण्ड इत्युक्तः । स्वर्गवर्गोक्तस्यापि (पृ। ४४) अविलम्बितपर्यायान्तरकथनार्थमत्राभिधानमिति ज्ञेयम् ॥ अरुन्तुदं तु मर्मस्पृक् । अतिदुःखजनकस्य शस्त्रप्रहाराभिशंसनादेर्नामनी । अरूंषि व्रणानि तत्सदृशानि मर्माणि वा तुदतीति अरुन्तुदम् । ʻतुद व्यथने । ʻविध्वरुषोस्तुदḵ (३.२। ३५) इति खश् । ʻअरुर्द्विषत् ॥ । इत्यादिना (६। ३। ६७) मुमागमः । संयोगान्तलोपः (८। २। २३) ॥ ʻस्पृश स्पर्शने । ʻस्पृशोऽनुदके क्विन् (३। २। ५८) इति क्विन् प्रत्यये कुत्वे च (८। २। ६२) मर्मस्पृक् ॥ अबाधं तु निरर्गलम् । अनिवारितोद्योगस्य नामनी । अविद्यमानो बाधः प्रतिरोधोऽस्येति अबाधम् ॥ निष्क्रान्तोऽर्गलात् प्रतिबन्धकादिति निरर्गलम् ॥ ८३ ॥
मल्लि-नाथः - AK.03.01.083
उच्चावचं नैकभेदम् । ʻनञो नलोपो यः प्रोक्तो न स मध्यपदे परे इति नलोपो न भवति । बहुप्रकारकनामनी ॥ उच्चण्डमविलम्बितम् । विलम्बशून्यस्य नामनी ॥ अरुन्तुदस्तु मर्मस्पृक् । मर्मस्थानव्यथकनामनी ॥ अबाधं तु निरर्गलम् । अप्रतिरोधकनामनी । ʻअपि निर्यन्त्रणोद्दामोच्छृङ्खलानर्गलादि च्ö । एतान्यपि । ʻस्यादनर्गलमुद्दाममुच्छृङ्खलमयन्त्रितम् इति वैजयन्ती (पृ। २१२, श्लो। १३२) ॥ ८३ ॥
[[०३.११६]]
मूलम् - ०३.०१.०८४
अक्।०३.०१.०८४अब् प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च ।
अक्।०३.०१.०८४च्द् वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणे ॥ ८४ ॥
लिङ्ग-सूरी - AK.03.01.084
प्रसव्यमिति—प्रगतं सव्याद् वामभागाद् दक्षिणं प्राप्तमिति प्रसव्यम् । प्रतिस्पर्धि कूलमस्येति प्रतिकूलम् । अपगतं सव्याद् वामभागादिति अपसव्यम् । अपतिष्ठत्यनुकूलमपास्येति अपष्ठु । ʻष्ठा गतिनिवृत्तü । प्रतिकूलस्य नामानि ॥ वमयति यज्ञसूत्रमनेनेति वामम् । ʻटुवमु उद्गिरणे । सूयते यज्ञसूत्रमनेनेति सव्यम् । ʻषुञ् अभिषवे । शरीरस्य वामभागस्य नामनी ॥ अपक्रान्तं सव्यभागादिति अपसव्यम् । दक्षते वलवत्तया वर्धत इति दक्षिणम् । ʻदक्ष वृद्धौ शीघ्रार्थे च्ö । शरीरस्य दक्षिणभागार्धस्य नामनी ॥ ८४ ॥
प्रसव्यं—अपष्ठु च । प्रस्तुतार्थविरोधिनोऽर्थस्य नामानि । स्रोतसः स्वारसिकगमनविरोधिकूलाभिमुखवचनः प्रतिकूलशब्दः स्वाभाविकार्थविरोधिकमात्रसाधर्म्येण विरुद्धमात्रे वर्तते । प्रगतमपसृतं सव्यादिति दक्षिणभागस्थितं प्राचीनावीताख्यं ब्रह्मसूत्रं प्रसव्यापसव्याभ्यामुच्यते । तत्साधर्म्येण शुभकार्यविरुद्धमात्रेणान्यदपि प्रकृतकार्यविरोधि प्रसव्यापसव्यशब्दाभ्यामुक्तम् । अपेत्युपसर्गो वर्जने । अपतिष्ठत्यानुकूल्यं वर्जयित्वा तिष्ठतीति अपष्ठु । ʻअपदुःसुषु स्थḵ (उ। १। २५) इति तिष्ठतेः कुप्रत्ययः । कित्त्वादाकारलोपः (६। ४। ६४) । ʻअम्बाम्ब ॥ । इत्यादिना (८। ३। ९७) षत्वम् । ʻतव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते इति इति माघकाव्ये प्रयोगः (शिशु। १५। १७) ॥ वामं—सव्यं स्यात् । शरीरस्य वामार्धं सव्यं स्यात् । वमतीति वामम् । ʻटुवम उद्गिरणे । ज्वलादित्वाद् णप्रत्ययः (३। १। १४०) ॥ सूयते सव्यम् । ʻषुञ् अभिषवे । ʻअचो यत् (३। १। ९७) । ʻसव्यं वामे च दक्षिणे इत्यजयः ॥ अपसव्यं तु दक्षिणम् । शरीरस्य दक्षिणमर्धम् अपसव्यम् । अपक्रान्तं सव्यादित्यपसव्यम् । दक्षते वीर्ययुक्तत्वेनेति दक्षिणम् । ʻतस्माद् दक्षिणोऽर्ध आत्मनो वीर्यवत्तरḵ इति श्रुतेः । ʻदक्ष वृद्धü । इनन् प्रत्ययः (उ। २। ५०) ॥ ८४ ॥
मल्लि-नाथः - AK.03.01.084
प्रसव्यं—अपष्ठु च । प्रतिकूलनामानि ॥ वामं—स्यात् । वामं दक्षिणेतरत् । तत् शरीरे सव्यं स्यात् ॥ अपसव्यं तु दक्षिणम् । दक्षिणं नाम वामेतरत् । तत्तु शरीरेऽपसव्यं स्यात् । सव्यमपि स्यात् । ʻसव्यवामे च दक्षिणे इति जयकोशः । ʻसव्यहस्ते च खङ्गḵ इति पुरातनप्रयोगः ॥ ८४ ॥
[[०३.११७]]
मूलम् - ०३.०१.०८५
अक्।०३.०१.०८५अब् सङ्कटं ना तु सम्बाधः कलिलं गहनं समे ।
अक्।०३.०१.०८५च्द् सङ्कीर्णं सङ्कुलाकीर्णे मुण्डितं परिवापितम् ॥ ८५ ॥
लिङ्ग-सूरी - AK.03.01.085
सङ्कटमिति—सङ्कटन्त्यन्योन्यमन्नेति सङ्कटम् । ʻकटे वर्षावरणयोḵ । अस्मिन् परस्परं सम्बाध्यन्त इति सम्बाधः । ʻबाधृ लोडने । सङ्कोचस्थलनामनी ॥ कल्यते क्षिप्यते मतिरत्रेति कलिलम् । ʻकल किल क्षेपे । गाहते मतिरत्रेति गहनम् । ʻगाहू विलोडने । दुर्विज्ञेयस्य नामनी ॥ सङ्कीर्यते नैरन्तर्येणेति सङ्कीर्णम् । ʻकु विक्षेपे । सङ्कोलति निरन्तरीभवतीति सङ्कुलम् । ʻकुल संस्त्याने । आकीर्यत इत्याकीर्णम् । सङ्कीर्णस्य नामानि ॥ मुण्ड्यते खण्ड्यत इति मुण्डितम् । ʻमुडि खण्डने । परिवाप्यते खण्ड्यते परिवापितम् । ʻडुवप् बीजसन्ताने । क्षुरादिनापसारितकेशश्मश्रुशिरसो नामनी ॥ ८५ ॥
सङ्कटं—सम्बाधः । बहुद्रव्यसङ्कीर्णस्याल्पीयस आधारस्य नामनी । सङ्कोचरूपार्थात् समित्युपसर्गात् ʻसम्प्रोदश्च कटच् (५। २। २९) इति कटच् प्रत्यये सङ्कटम् ॥ अन्योन्यसम्मर्देन बाध्यन्तेऽत्र जना इति सम्बाधः । ʻबाधृ विलोडने । अधिकरणे घञ् (३। ३। १२१) । सम्बाधशब्दस्य विशेष्यायत्तलिङ्गत्वापवादार्थं नेत्युक्तम् । ततश्च विप्रसम्बाधः सभा, जनसम्बाधो राजद्वारम् इत्येव भवति ॥ कलिलं—समे । दुष्प्रवेशस्यैते नामनी । कलिं विवादं लात्यादत्त इति कलिलम् । ʻकल किल क्षेपे इति वा धातोः इलच् प्रत्यये (उ। १। ५४) कलिलम् ॥ गहनं वने व्युत्पादितम् (२। ४। १) ॥ सङ्कीर्णं सङ्कुलाकीर्णम् । नैरन्तर्येण बहुविधद्रव्यैरधिष्ठितस्य हट्टादेर्नामानि । सङ्कीर्यते नैरन्तर्येण क्षिप्यत इति सङ्कीर्णम् । आकीर्णं च । ʻकॄ विक्षेपे । ʻऋत इद्धातोḵ (७। १। १००) इति इत्वम् । क्तः । ʻर्वोरुपधाया ॥ । (८। २। ७६) इति दीर्घः । ʻरदाभ्याम् ॥ । इत्यादिना (८। २। ४२) निष्ठानत्वम् ॥ सम्यक् कोलति संस्त्यानं भवतीति सङ्कुलम् । ʻकुल संस्त्याने । मूलविभुजादिः (वा। ३। २। ५) । ʻशकि शङ्कायाम् इत्यस्माद् उलच् प्रत्यये शङ्कुलमिति तालव्यादिरिति गोवर्धनः ॥ मुण्डितं परिवापितम् । क्षुरेण मूलपर्यन्तं कृत्तकेशश्मश्रोः पुरुषस्य नामनी । मुण्ड्यते स्म मुण्डितम् । ʻमुडि खण्डने । क्तः ॥ धातूनामनेकार्थत्वाद् वपिर्मुण्डनार्थः । ʻकेशश्मश्रु वपते ʻकेशश्मश्रुनखानि वापयित्वा’ इत्यादयः प्रयोगाः । परितः शिरसि वापः केशखण्डनं सञ्जातोऽस्येति परिवापितम् ॥ ८५ ॥
मल्लि-नाथः - AK.03.01.085
सङ्कटं—सम्बाधः । सङ्कटनामनी ॥ ʻइद्वाडिम्बिदि कलिलं—समे । प्रवेष्टुमशक्यनामनी । ʻचोररानिदि ॥ सङ्कीर्णं सङ्कुलाकीर्णम् । सङ्कीर्णनामानि । ʻसन्दडिञ्चिनदि ॥ मुण्डितं परिवापितम् । परितः छिन्ननामनी । लोमच्छेदननामनी अपि । ʻवपिः प्रकिरणेऽपीष्टः केशच्छेदेऽपि दृश्यते इति धातुप्रदीपः ॥ ८५ ॥
[[०३.११८]]
मूलम् - ०३.०१.०८६
अक्।०३.०१.०८६अब् ग्रथितं ग्रन्थितं दृब्धं विसृतं विस्तृतं ततम् ।
अक्।०३.०१.०८६च्द् अन्तर्गतं विस्मृतं स्यात् प्राप्तप्रणिहिते समे ॥ ८६ ॥
लिङ्ग-सूरी - AK.03.01.086
ग्रथितमिति—ग्रथ्यते बध्यत इति ग्रथितम् । ʻग्रन्थ सन्दर्भे । ग्रन्थितं च । ʻग्रथि कौटिल्ये । दृभ्यते ग्रथ्यत इति दृब्धम् । ʻदृभी ग्रन्थे । ग्रथितस्य पुष्पादेर्नामनी ॥ विस्रियत इति विसृतम् । ʻसृ गतü । विस्तीर्यत इति विस्तृतम् । ʻस्तृञ् आच्छादने । तन्यत इति ततम् । ʻतनु विस्तारे । विस्तृतस्य नामानि ॥ अन्तर्गतवद् न प्रकाशत इति अन्तर्गतम् । विस्मर्यत इति विस्मृतम् । ʻस्मृ आध्याने । विस्मृतस्य नामनी ॥ प्राप्यत इति प्राप्तम् । ʻआप्लृ व्याप्तü । प्रणिधीयत इति प्रणिहितम् । प्राप्तस्य वस्तुनो नामनी ॥ ८६ ॥
ग्रथितं—दृब्धम् । आनुपूर्वीविशेषेणैवावयवकृतस्य पुष्पमालादेः कविनिबद्धश्लोकादेश्च नामानि । ग्रथ्यते सन्दर्भ्यते कुसुमादिभिरिति ग्रथितम् । ʻग्रन्थ सन्दर्भे । क्र्यादिः । ʻसन्दर्भो निबन्धनम् इत्युक्तं धातुवृत्तौ । क्तप्रत्यये ʻअनिदिताम्॥ । (६। ४। २४) इत्युपधानकारलोपः ॥ ʻग्रथि कौटिल्ये इति भौवादिकः । ʻकौटिल्यं कुसृतिर्बन्धश्च्ö इति धातुवृत्तौ (पृ। ६४) । क्तः । ʻइदितो नुम्धातोḵ (७। १। ५८) इति नुम् । सर्वानन्दस्त्वाह—धातूनामनेकार्थत्वेन ग्रन्थरूपार्थे वर्तमानाद् ʻमृद क्षोदे इति धातोर्ण्यन्तात् स्वार्थे मर्दितम् इति । अन्ये तु सन्दीयते संहतत्वेन सूच्यादिना सच्छिद्रं क्रियत इति सन्दितम् इत्याहुः ॥ दृभ्यत इति दृब्धम् । ʻदृभी ग्रन्थे । क्तः (३। २। १०२) । ग्रन्थो ग्रन्थनम् ॥ विसृतं—ततम् । परिणाहवतः प्रसारितस्य कटकम्बलादेर्नामानि । विस्रियते प्रसार्यते स्म विसृतम् । ʻसृ गतü । क्तः (३। ४। ७२) ॥ विस्तीर्यते स्म विस्तृतम् । ʻस्तॄञ् आच्छादने । क्तः । तायते स्म ततम् । तनोतेः क्तप्रत्ययः । ʻअनुदात्तोपदेशवनतितनोति ॥ । इत्यादिना (६। ४। ३७) नकारलोपः ॥ अन्तर्गतं—स्यात् । पूर्वकालोपलब्धस्य संस्कारप्रमोषाद् बुद्ध्यनारूढस्य नामनी । अन्तर्गतवदप्रकाशमानत्वाद् अन्तर्गतम् ॥ अत्र वीत्युपसर्गो निषेधे । तत्पूर्वात् ʻस्मृ चिन्तायाम् इति धातोः कर्मणि क्तप्रत्यये (३। २। १०२) विस्मृतम् ॥ प्राप्तप्रणिहिते समे । प्रत्यासन्नवस्तुवाचकत्वेन तुल्ये इत्यर्थः । प्रकर्षेण आप्यत इति प्राप्तम् । प्रकर्षेण निधीयते सन्निधौ स्थाप्यत इति प्रणिहितम् । उपसर्गद्वयपूर्वाद् दधातेः क्तप्रत्ययः । दधातेर्हिरादेशः (७। ४। ४२) । ʻनेर्गदनदपतपदघुमास्यति ॥ । इत्यादिना (८। ४। १७) णत्वम् ॥ ८६ ॥
मल्लि-नाथः - AK.03.01.086
ग्रथितं—दृब्धम् । तन्त्वादिना गुम्फितस्य नामानि ॥ विसृतं—ततम् । विस्तृतनामानि ॥ अन्तर्गतं—स्यात् । अनाध्यातनामनी । ʻमरवपड्ढदि ॥ प्राप्त—समे । प्राप्तनामनी । ʻदोरकपड्ढदि । अनुक्तम्—उपस्थितं तृपनतमुपपन्नमिति त्रयम् । उपस्थितनामानि ॥ ʻउपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात्ö इति रघुवंशः (१२। १०२) । तत्र मणिबन्धः पट्टाभिषेकसमयः ॥ ८६ ॥
[[०३.१२०]]
मूलम् - ०३.०१.०८७
अक्।०३.०१.०८७अब् वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते ।
अक्।०३.०१.०८७च्द् नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः ॥ ८७ ॥
लिङ्ग-सूरी - AK.03.01.087
वेल्लितेति—वेल्लति चलतीति वेल्लितः । ʻवेल्ल चलने । प्रेङ्खति चलतीति प्रेङ्खितः । ʻइखि गतü । आधूनुते कम्पत इति आधूतः । धुतश्च । ʻधुञ् कम्पने । चलतीति चलितः । ʻचल कम्पने । आकम्पत इति आकम्पितः । ʻकपि चलने । कम्पितस्य शाखादेर्नामानि ॥ नुद्यते प्रेर्यत इति नुत्तः । नुन्नश्च । ʻनुद प्रेरणे । अस्यत इत्यस्तः । ʻअसु क्षेपणे । निष्ठीव्यत इति निष्ठ्यूतः । ʻष्ठिवु निरसने । आविध्यत इत्याविद्धः । ʻव्यध ताडने । क्षिप्यत इति क्षिप्तः । ʻक्षिप प्रेरणे । ईर्यत इतीरितः । ʻईर प्रेरणे । प्रेरितस्य शरादेर्नामानि ॥ ८७ ॥
वेल्लित—धुते । वाय्वभिघातादिनिमित्तेन चलनक्रियायुक्तस्य नामानि । वेल्लति स्म वेल्लितम् । ʻवेल्ल चलने । अत्र धातुवृत्तिकारः—ʻधातोरसंयोगान्तत्वेऽपि प्रयोगवशाद् द्विर्बद्धो लकारḵ इति । प्रकर्षेण इङ्खति स्म प्रेङ्खितः । ʻइखि गतü । आधूनुते स्म आधूतः । ʻधूञ् कम्पने । आङ्पूर्वः । चलति स्म चलितः ॥ ʻकपि चलने इत्यस्माद् आङ्पूर्वात् क्तः आकम्पितः । ʻधुञ् कम्पने इत्यतो ह्रस्वान्तात् धुतः ॥ नुत्त—समाः । नोदनाख्यसंयोगादिना प्रेरितस्य शरादेर्नामानि । ʻणुद प्रेरणे इत्यतो धातोः कर्मणि क्तप्रत्यये ʻनुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (८। २। ५६) इति वैकल्पिके निष्ठानत्वे नुन्नः । तदभावपक्षे नुत्तः ॥ ʻअसु क्षेपणे इत्यस्माद् अस्तः ॥ ʻष्ठिवु निरसने इत्यस्माद्धातोर्निष्ठायां ʻच्छ्वोः शूडनुनासिके च्ö (६। ४। १९) इत्यूठादेशे निष्ठ्यूतः । रूढ्या वृत्त्या मुखवाय्वभिघातेन मुखकुहराद् बहिः प्रेरिते श्लेष्मलालादिके वर्तमानोऽपि निष्ठ्यूतशब्दः प्रेरितत्वसादृश्याद् अन्यत्रापि शरादौ वर्तते ॥ आविध्यते स्म आविद्धः । ʻव्यध ताडने । क्तप्रत्यये ʻग्रहिज्यावयिव्यधि ॥ । इत्यादिना (६। १। १६) सम्प्रसारणम् । ʻझषस्तथोर्धोऽधḵ(८। २। ४०) इति निष्ठातकारस्य धत्वम् ॥ ʻक्षिप प्रेरणे इति धातोः क्षिप्तः ॥ ईर्यते स्म ईरितः । ʻईर प्रेरणे । चुरादिः । क्तप्रत्यये ईडागमः । ʻनिष्ठायां सेटि (६। ४। ५२) इति णिलोपः ॥ ८७ ॥
मल्लि-नाथः - AK.03.01.087
वेल्लित—धुते । चलितनामानि । करेण कम्पितः खड्गः । ʻप्रेङ्खोलीतस्तरलितो लोलितान्दोलितावपि । आन्दोलितनामानि । ʻअल्लाडिपडुदि ॥ ʻआन्दोलिता करतले नवशक्तिकेयम् । ʻपृथुलजघनभारं मन्दमान्दोलयन्ती इति वाणः ॥ नुत्त—समाः । क्षिप्तनामानि । ʻदोब्बलबड्डदि । अनुक्तम्—ʻआबर्हितोच्छृतोत्खातोत्पाटितोन्मूलिताः समाḵ । उत्पाटितनामानि । ʻपेरकपड्ढदि ॥ ८७ ॥
[[०३.१२१]]
मूलम् - ०३.०१.०८८
अक्।०३.०१.०८८अब् परिक्षिप्तं तु निवृतं मूषितं मुषितार्थकम् ।
अक्।०३.०१.०८८च्द् प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ॥ ८८ ॥
लिङ्ग-सूरी - AK.03.01.088
परिक्षिप्तमिति—परिक्षिप्यते समन्ताद् वेष्ट्यत इति परिक्षिप्तम् । ʻक्षिप प्रेरणे । नितरां व्रियते निवृतम् । ʻवृञ् वरणे । नियतं भ्रियते निभृतमिति वा पाठः । कण्टकादिपरिवेष्टितस्य क्षेत्रादेर्नामनी ॥ मूष्यत इति मूषितम् । ʻमूष स्तेये । मुष्यत इति मुषितम् । ʻमुष स्तेये । तस्करितस्य नामनी ॥ प्रकर्षेण वर्धत इति प्रवृद्धम् । ʻवृधु वृद्धü । प्रसरतीति प्रसृतम् । ʻसृ गतü । प्रसृतस्य जङ्घादेर्नामनी ॥ व्ययादौ न्यस्यते स्वामिनेति न्यस्तः । ʻअसु क्षेपणे । निसृज्यते स्वामिनेति निसृष्टः । कार्येषु स्वामिना नियुक्तस्य ग्रामाधिपादेर्नामनी ॥ गुण्यत इति गुणितम् । ʻगुण अभ्यासे । आहन्यतेऽभ्यस्यत इति आहतम् । अभ्यस्तवेदादेर्नामनी ॥ ८८ ॥
परिक्षिप्तं तु विवृतम् । यदृच्छागतपश्वादिसञ्चारपरिहाराय कण्टकशाखादिभिरावृतस्यारामादेर्नामनी । परितः क्षिप्यते बहिःसञ्चाराद् निरस्यत इति परिक्षिप्तम् ॥ नितरां व्रियते कण्टकशाखादिभिरिति निवृतम् । ʻवृञ् वरणे । क्तः ॥ मूषितं मुषितार्थकम् । स्तेनापहृतवचनो मुषितशब्दः, तत्समानार्थो मूषितशब्द इत्यर्थः । ʻमुष स्तेये इत्यतो लघूपधाद् धातोः क्र्यादेः क्तप्रत्यये मुषितम् । दीर्घोपधात्तु भौवादिकाद् मूषितम् ॥ प्रवृद्धप्रसृते । एतदादिश्लोकद्वयान्तस्थितं समे (श्लो। ९०) इति पदम् एतदादिभिर्द्वादशभिर्वाक्यैः सम्बध्यते । प्रपूर्वो वृधिः प्रसरणे वर्तते । तथा च—ʻतस्मादयं प्रववृधे पृथिवीपतीनामुद्गीतपुण्यचरितो भुवनेषु वंशḵ इति भवभूतिप्रयोगः । प्रौढेऽपि प्रवृद्धमुक्तम् (श्लो। ७६) । प्रसरति स्म प्रसृतम् । ʻसृ गतü । क्तः ॥ न्यस्तनिसृष्टे । चोरादिपरिहाराय परहस्ते स्थापितस्य सुवर्णादेर्नामनी । दावोपभोगादिभ्यो निवार्य अस्यते क्षिप्यत इति न्यस्तम् । नियमेन सृज्यते दीयत इति निसृष्टम् । ʻसृज विसर्गे । क्तप्रत्ययः । षत्वं ष्टुत्वं च ॥ गुणिताहते । यं कञ्चिदेकादिसङ्ख्याव्यञ्जकमङ्कं फलकादौ क्वचिद् विन्यस्य सोऽङ्को यत्सङ्ख्यागुणितो विधित्सितः तत्सङ्ख्याङ्कमधो विन्यस्य गणितशास्त्रोक्तक्रमेण उपरितनमङ्कमाहत्य अङ्कान्तरं निधायाभ्यस्तं सत् गुणिताहतशब्दाभ्यामुच्यते । गुण्यतेऽभ्यस्यते स्म गुणितम् । ʻगुण अभ्यासे ॥ गणकैरङ्कान्तरेणाहन्यत इति आहतम् । ʻहन हिंसागत्योḵ । क्तः ॥ ८८ ॥
मल्लि-नाथः - AK.03.01.088
परिक्षिप्तं तु निवृतम् । परितः वेष्टितस्य नामनी । ʻमुसुरुकोपड्ढदि ॥ मूषितं मुषितार्थकम् । चोरितं मुषितं स्यात् ॥ प्रवृद्धप्रसृते । प्रसृतनामनी । ʻप्रसरेपड्ढदि । ʻतस्मादयं प्रववृधे पृथिवीपतिनामुद्गीतपुण्यचरितो भुवनेषु वंशḵ इति धर्मशर्माभ्युदयः ॥ न्यस्तनिसृष्टे । समर्पितनामनी । ʻग्रामेष्वात्मनिसृष्टेष्ü (रघु। १। ४४) ॥ गुणिताहते । द्वे चत्वारि अष्टावित्यावर्तनामनी ॥ ८८ ॥
[[०३.१२३]]
मूलम् - ०३.०१.०८९
अक्।०३.०१.०८९अब् निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते ।
अक्।०३.०१.०८९च्द् द्रुतावदीर्णे उद्गूर्णोद्यते कारितशिक्षिते ॥ ८९ ॥
लिङ्ग-सूरी - AK.03.01.089
निदिग्धेति—निदिह्यत उपचीयत इति निदिग्धम् । ʻदिह उपचये । उपचीयत इति उपचितम् । ʻचिञ् चयने । उपचितस्य धान्यादेर्नामनी ॥ गुह्यत इति गूढम् । ʻगुहू संवरणे । गुप्यत इति गुप्तम् । ʻगुपू रक्षणे । गुप्तस्य धान्यादेर्नामनी ॥ गुण्ठ्यते माल्यादिनेति गुण्ठितम् । ʻगुठि वेष्टने । रूष्यत इति रूषितम् । ʻरुष हिंसायाम् । माल्यादिना रूषितस्तनादेर्नामनी ॥ द्रूयत इति द्रुतम् । ʻद्रु गतौ । अवदीर्यत इति अवदीर्णम् । ʻदॄ विदारणे । विदारितस्य नामनी ॥ उद्गूर्यत इति उद्गूर्णम् । ʻगुरी उद्यमने । उद्यम्यत इति उद्यतम् । उद्यक्तस्य नामनी ॥ कार्यते शिक्ष्यत इति कारितम् । शिक्ष्यत इति शिक्षितम् । ʻशिक्ष विद्योपादाने । शिक्षितस्य विद्यादेर्नामनी ॥ ८९ ॥
निदिग्धोपचिते । हरितालसुधाहिङ्गुलादिलिप्तस्य कुड्यादेर्नामनी । नितरां दिह्यते स्म निदिग्धम् । ʻदिह उपचये । क्तः ॥ उपचीयते द्रव्यान्तरेण वर्ध्यत इति उपचितम् । ʻचिञ् चयने । क्तः । उपसर्गवशादत्र वृद्धिरर्थः ॥ गूढगुप्ते । यस्य कस्यचिदप्रकटीभूतस्य वस्तुनो नामनी । गुह्यते स्म गूढम् । ʻगुहू संवरणे । क्तप्रत्ययढत्वष्टुत्वढलोपाः ॥ गुप्यते स्म गुप्तम् । ʻगुपू रक्षणे । क्तः ॥ गुण्ठितरूषिते । द्रव्यान्तरेणाच्छादितस्य नामनी । यथा—उत्तरीयावगुण्ठितं कुचमण्डलम् । रेणुरूषितं शिरः इत्यादि । ʻगुठि वेष्टने इति धातोः कर्मणि क्तप्रत्यये गुण्ठितम् ॥ रूषिः लौकिको धातुः व्याप्त्यर्थो भूवादिषु विज्ञेयः । ततः कर्मणि निष्ठायां रूषितम् ॥ द्रुतावदीर्णे । द्रवीभूतस्य मांसादेर्नामनी । द्रूयते स्म द्रुतम् । ʻद्रु गतü ॥ अवदीर्यते स्म प्रशिथिलावयवत्वेनेत्यवदीर्णम् । ʻदृ विदारणे । कर्मणि क्तप्रत्यये ऋत इत्वं निष्ठानत्वं च ॥ उद्गूर्णोद्यते । ऊर्ध्वदेशसंयोगं प्राप्तस्य खड्गलगुडादेर्नामनी । उद्गूर्यते स्म उद्गूर्णम् । ʻगुरी उद्यमने । निष्ठानत्वम् (८। २। ४२), उपधादीर्घश्च (८। २। ७७) ॥ ʻयम उपरमे इत्यस्माद् निष्ठायामनुनासिकलोपे (६। ४। ३७) उद्यतः । उद्गूर्णोच्छ्रिते इति केचित् पठन्ति । ʻश्रिञ् सेवायाम् इत्यतः उत्पूर्वात् क्तप्रत्यये उच्छ्रितम् ॥ कारितशिक्षिते । समे इत्येव । लौकिके वैदिके वा कर्मणि कृताभ्यासस्य नामनी । यथा कारितो युद्धकर्मणि, शिक्षित इत्यर्थः । शिक्षां कार्यते स्मेति कारितम् । कृञो णिचि निष्ठा ॥ शिक्ष्यते स्म शिक्षितम् । ʻशिक्ष विद्योपादाने । क्तः । सुभूतिचन्द्रस्तु काचितशिक्यिते इति पठित्वा व्याचष्ट । काचवद् अञ्चितं कृतं काचितम् । शिक्यवत् कृतं शिक्यितम् । संहतमित्यर्थः इति । टीकासर्वस्वकारोऽपि तमेव पाठं मनसि निधाय व्याकृत । ʻकाचितादिद्वयं शिक्यारोपिते वर्तते । “प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च” (ग। सू। ७। ४। ९७) इति काचशब्दात् शिक्यशब्दाच्च णिचि तदन्ताद् धातुद्वयादपि क्तप्रत्यये काचितं शिक्यितं चेति (पृ। ४०) ॥ ८९ ॥
मल्लि-नाथः - AK.03.01.089
निदिग्धोपचिते । अवचितनामनी । ʻपेम्पवड्डिदि ॥ गूढगुप्ते । गुप्तनामनी । ʻदाञ्चबड्डिदि । गुण्ठितरूषिते । परागादिना छन्ननामनी ॥ द्रुतादीर्णे । स्वयं विदीर्णनामनी । ʻद्रुतं शीघ्रे शीघ्रगतेऽप्यवदीर्णविलीनयोḵ इति वैजयन्ती (पृ। २२८, श्लो। ८) । ʻद्रु गतü इत्यर्थपाठो निदर्शनम् । तदुक्तम्—
ʻनिपाताश्चचोपसर्गाश्च धातवश्चेति ते त्रयः ।
अनेकार्थाः स्मृता लोके पाठस्तेषां निदर्शनम् ॥
उद्गूर्णोद्यते । उत्क्षिप्तनामनी । उद्गूर्णः करवालः ॥ काचितशिक्यिते । कारडिकायन्त्रे कृतस्य नामनी ॥ ८९ ॥
[[०३.१२५]]
मूलम् - ०३.०१.०९०
अक्।०३.०१.०९०अब् घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे ।
अक्।०३.०१.०९०च्द् वेष्टितं स्याद् वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥
लिङ्ग-सूरी - AK.03.01.090
घ्राणेति—घ्रायत इति घ्राणम् । घ्रातं च । ʻघ्रा गन्धोपादाने । घ्रातस्य पुष्पादेर्नामनी ॥ दिह्यत इति दिग्धम् । ʻदिह उपचये । लिप्यत इति लिप्तम् । ʻलिप उपदेहे । लिप्तस्य भित्त्यादेर्नामनी ॥ समुदच्यत इति समुदक्तम् । ʻअञ्चु गतिपूजनयोḵ । उद्ध्रियत इति उद्धृतम् । ʻहृञ् हरणे । उद्धृतस्य शल्यादेर्नामनी ॥ वेष्ट्यत इति वेष्टितम् । ʻवेष्ट वेष्टने । वलयाकारः सञ्जातोऽस्येति वलयितम् । वेष्टितस्य वस्त्रादेर्नामनी । संवीयत इति संवीतम् । ʻव्येञ् संवरणे । रुध्यते आव्रियत इति रुद्धम् । ʻरुधिर् आवरणे । आव्रियत इत्यावृतम् । ʻवृञ् वरणे । वस्त्रादिना आवृतस्य देहादेर्नामनी ॥ ९० ॥
घ्राणघ्राते । घ्राणेन्द्रियानुभूतगन्धस्य कुसुमादेर्नामनी । घ्रायते स्म घ्रातम् । ʻघ्रा गन्धोपादाने । कर्मणि क्तप्रत्ययः । ʻनुदविदोन्द ॥ । इत्यादिना (८। २। ५६) वैकल्पिके निष्ठानत्वे घ्राणम् ॥ दिग्धलिप्ते । चन्दनादिना लिप्तस्य नामनी । दिह्यते स्म दिग्धम् । ʻदिह उपचये । उपचयो लेप इति धातुवृत्तौ । क्तप्रत्यये ʻदादेर्धातोर्घḵ (८। २। ३२) इति घत्वे ʻझषस्तथोर्धोऽधḵ (८। २। ४०) इति धत्वम् ॥ लिप्यते स्म लिप्तम् । ʻलिप उपदेहे । क्तः ॥ समुदक्तोद्धृते समे । कूपादेरधःप्रदेशाद् ऊर्ध्वप्रदेशमात्रं नीतस्य जलादेर्नामनी । सम्यग् उदच्यते उद्ध्रियते स्म समुदक्तम् । ʻअञ्चु गतिपूजनयोḵ । अत्राञ्चतेः पूजार्थत्वाभावाद् ʻअञ्चेः पूजायाम् (७। २। ५३) इति प्राप्तस्य इडागमस्याभावः । ʻउदितो वा’ (७। २। ५६) इति इडागमस्य क्त्वाप्रत्यये वैकलिपकत्वाद् ʻयस्य विभाषा’ (७। २। १५) इति निष्ठायामिडभावः । ʻउदक्तमुदकं कूपात् इत्यादिवद् अञ्चनस्यापि अपादानविषयत्वाद् ʻअञ्चोऽनपादाने (८। २। ४८) इति निषेधाद् निष्ठानत्वस्याभावः ॥ समुदस्तेति क्वाचित्के पाठे सोपसर्गद्वयात् ʻअसु क्षेपणे इति धातोः कर्मणि क्तप्रत्ययः ॥ उद्ध्रियते स्मेति उद्धृतम् । ʻहृञ् हरणे । क्तः । प्रागुक्तम् उद्गूर्णमुद्यतं चेति शब्दद्वयं तु स्वशरीरापेक्षया उपरिप्रदेशं नीते लगुडादौ वर्तत इति न पौनरुक्त्यम् । क्वचिद् अर्थसाङ्कर्यप्रयोगो लक्षणया निर्वोढव्यः ॥ वेष्टितं स्याद् वलयितम् । लतादिना वेष्टितस्य वृक्षप्रकाण्डादेर्नामनी । ʻवेष्ट वेष्टने इति धातोर्निष्ठायां वेष्टितम् ॥ वलयो वलयाकारोऽस्य सञ्जात इति वलयितम् (५। २। ३६) ॥ संवीतं रुद्धमावृतम् ॥ हिमधूमाद्यावरकद्रव्यव्याप्तसर्वावयवस्य पर्वतादेर्नामानि । समन्ततो वीयते उद्यत इति संवीतम् । ʻव्येञ् संवरणे । क्तप्रत्यये यजादित्वात् (६। १। १५) सम्प्रसारणे परपूर्वत्वे च (६। १। १०८) ʻहलḵ (६। ४। २) इति दीर्घः ॥ ʻरुधिर् आवरणे इत्यतः क्तप्रत्यये रुद्धम् ॥ ʻवृञ् वरणे इत्यस्माद् आङ्पूर्वाद् आवृतम् ॥ वेष्टितादयः पञ्चैकार्था इति केचित् ॥ ९० ॥
मल्लि-नाथः - AK.03.01.090
घ्राणघ्राते । आघ्रातनामनी ॥ दिग्धलिप्ते । पङ्कादिना लिप्तनामनी ॥ समुदक्तोद्धृते समे । उद्धृतस्य जलादेर्नामनी ॥ वेष्टितं—रुद्धमावृतम् । परिवेष्टितनामनी ॥ ९० ॥
[[०३.१२७]]
मूलम् - ०३.०१.०९१
अक्।०३.०१.०९१अब् रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते ।
अक्।०३.०१.०९१च्द् स्याद् विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते ॥ ९१ ॥
लिङ्ग-सूरी - AK.03.01.091
रुग्णमिति—रुज्यत इति रुग्णम् । ʻरुजो भङ्गे । भुज्यत इति भुग्नम् । ʻभुजो कौटिल्ये । भुग्नस्य रथादेर्नामनी ॥ निशायते तनूक्रियत इति निशितम् । शातं च । ʻशो तनूकरणे । क्ष्णूयते तनूक्रियत इति क्ष्णुतम् । ʻक्ष्णु तेजने । तेज्यते निशायत इति तेजितम् । ʻतिज निशातने । शाणादिना तीक्ष्णीकृतस्य खड्गादेर्नामानि ॥ पच्यते स्मेति पक्वम् । ʻडुपचष् पाके । पतनोन्मुखस्य फलादेर्नाम ॥ जिह्रेतीति ह्रीणः । ह्रीतश्च । ʻह्री लज्जायाम् । लज्जास्य सञ्जातेति लज्जितः । व्रीडितस्य नामानि ॥ ९१ ॥
रुग्णं भुग्ने । आनताग्रभागस्य नामनी । यथा‒फलभारभुग्नास्तरवः इति । ʻरुजो भङ्गे ʻभुजो कौटिल्ये । आभ्यां धातुभ्यां कर्मणि क्तप्रत्यये ʻओदितश्च्ö (८। २। ४५) इति निष्ठानत्वेन रुग्णम् । भुग्नं च ॥ अथ—तेजिते । शाणादिनिघर्षणेन तीक्ष्णीकृतधाराप्रदेशस्य खड्गादेर्नामानि ʻशो तनूकरणे इत्यतो निपूर्वात् कर्मणि क्तप्रत्यये ʻशाच्छोरन्यतरस्याम् (७। ४। ४१) इति विकल्पेन इत्वे निशितम् । तदभावपक्षे शातम् । क्ष्णूयत इति क्ष्णुतम् । ʻक्ष्णु तेजने । तेजनं तनूकरणम् । ʻतिज निशाने इत्यतः चौरादिकात् तेजितम् ॥ स्यात्—पक्वम् । विनाशः विलयनम्, तत्र उन्मुखम् । आसन्नविनाशमित्यर्थः । यथा—पक्वो ज्वरः । पक्वः प्रतिश्यायः इत्यादि । परिणतेऽपि पक्वं वक्ष्यते । पच्यते स्म पक्वम् । ʻपचो वḵ (८। २। ५२) इति निष्ठातकारस्य वकारः ॥ ह्रीणह्रीतौ तु लज्जिते । व्रीडायुक्तस्य नामनी । जिह्रेति स्म ह्रीणः । ह्रीतश्च । ʻह्री लज्जायाम् । ʻमुदविद ॥ । इत्यादिना (८। २। ५६) विकल्पेन निष्ठानत्वम् ॥ लज्जास्य सञ्जाता लज्जितः । तारकादिः (५। २। ३६) ॥ ९१ ॥
मल्लि-नाथः - AK.03.01.091
रुग्णं भुग्ने । भुग्ननामनी ॥ अथ—तेजिते । उत्तेजितनामानि ॥ स्यात्—पक्वम् । आसन्नविनाशनाम । ʻपक्वो मानज्वरः स्त्रीणाम् ॥ ह्रीण—लज्जिते । ल्ज्जितनामानि ॥ ९१ ॥
[[०३.१२८]]
मूलम् - ०३.०१.०९२
अक्।०३.०१.०९२अब् वृते तु वृत्तवावृत्तौ संयोजित उपाहितः ।
अक्।०३.०१.०९२च्द् प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्रुतं स्नुते ॥ ९२ ॥
लिङ्ग-सूरी - AK.03.01.092
वृत इति—व्रियते कन्यादिनेति वृतः । ʻवृञ् वरणे । वृत्यते स्मेति वृत्तः । ʻवृतु वर्तने । वावृत्यते व्रियते स्मेति वावृत्तः । ʻवावृतु वरणे । कन्यादिना वृतस्य वरादेर्नामानि ॥ संयोज्यते युगादिनेति संयोजितः । ʻयुजिर् योगे । उप समीपे आधीयते स्थाप्यत इत्युपाहितः । युगादिना संयोजितस्य बलीवर्दादेर्नामनी ॥ प्राप्तुं योग्यं प्राप्यम् । ʻआप्लृ व्याप्तü । गन्तुं योग्यं गम्यम् । समासादितुं प्राप्तुं योग्य समासाद्यम् । ʻषद्लृ विशरणादü । प्राप्तव्यस्य वस्तुनो नामानि ॥ स्यन्दते स्मेति स्यन्नम् । ʻस्यन्दू प्रस्रवणे । रीयते प्रस्रवतीति रीणम् । ʻरीङ् स्रवणे । स्रवतीति स्रुतम् । ʻस्रु गतü । स्नौति स्रवतीति स्नुतम् । ʻष्णु प्रस्रवणे । सुषिरद्वारान्निःसृतस्य जलादेर्नामानि ॥ ९२ ॥
वृते—वावृत्तौ । प्रसन्नदेवतां प्रति प्रार्थितार्थस्य नामानि । व्रियते स्म वृतम् । ʻवृञ् वरणे । क्तः । यथा वृतः पुत्र इति ॥ ʻतप ऐश्वर्ये इत्यनन्तरं दिवादिषु ʻवावृतु वर्तने इति पठ्यते । तत्र वाग्रहणं पूर्वस्य धातोः दैवादिकविकल्पनार्थमिति व्याख्याने ʻवृतु वर्तने इत्यस्मादेव धातोः कर्मणि क्तप्रत्यये वृत्तम् । अपरे तु—वाशब्दमप्युत्तरधात्ववयवमाहुः । तन्मते वावृत्यते स्मेति वावृत्तम् । ʻवावृतु वर्तने । वर्तनं वरणमिति धातुवृत्तिः । कर्मणि क्तप्रत्ययः । तथा च— ʻततो वावृत्यमानासौ रामशालां न्यविक्षत्ö इति भट्टिः (४। २८) । अत्र वावृत्यमाना वृण्वतीत्यर्थः ॥ संयोजित उपाहितः । द्रव्यान्तेरण सह प्रापितसंयोगस्य वस्तुनो नामनी । सम्यग् योजितः संयोजितः ॥ उप समीपे आधीयते स्म उपाहितः । ʻउपाहितां वक्षसि पीवरस्तने इति भारविः (किरा। ८। ३७) ॥ प्राप्यं—समासाद्यम् । प्राप्तुं शक्यं ग्रामादिकं प्राप्यम् । ʻऋहलोर्ण्यत् (३। १। १२४) ॥ ʻगम्लृ गतü इत्यतः ʻपोरदुपधात् (३। १। ९८) इति यत्प्रत्यये गम्यम् ॥ आङि सदिः पद्यर्थे इति चौरादिकाद्धातोः शक्यार्थे ण्यत्प्रत्यये (३। १। १२४) समासाद्यम् ॥ स्यन्नं—स्नुतम् । प्रशिथिलावयावारब्धतटाकसेतुघटादेः बहिर्निःसृतजलक्षीरादेर्नामानि । ʻस्यन्दू प्रस्रवणे इत्यतः कर्तरि क्तप्रत्यये (३। ४। ७२) ʻरद्भायाम् ॥ । इत्यादिना (८। २। ४२) निष्ठानत्वे स्यन्नम् । रीयते स्म रीणम् । ʻरीङ् गतü दैवादिकाद्धातोः ʻस्वादय ओदितḵ (ग। सू।) इत्यतिदेशाद् ʻओदितश्च्ö (८। २। ४५) इति निष्ठानत्वम् ॥ स्रवति स्म स्रुतम् । ʻस्रु स्रवणे ॥ स्नौति स्म स्नुतम् । ʻष्णु प्रस्रवणे ॥ ९२ ॥
मल्लि-नाथः - AK.03.01.092
वृते—वावृत्तौ । वृतनामानि । ʻततो वावृत्तमाना सा रामशाला न्यविक्षत्ö इति भट्टिः (४। २८) ॥ संयोजित उपाहितः । द्रव्यान्तरेण मिश्रितस्य नामनी । क्षीरेणोपाहितं नीरम् ॥ प्राप्यं—समासाद्यम् । प्राप्तुं योग्यनामानि ॥ स्यन्नं—स्नुतम् । स्यन्ननामानि ॥ ९२ ॥
[[०३.१३०]]
मूलम् - ०३.०१.०९३
अक्।०३.०१.०९३अब् सङ्गूढः स्यात् सङ्कलितोऽवगीतः ख्यातगर्हणः ।
अक्।०३.०१.०९३च्द् विविधः स्याद् बहुविधो नानारूपः पृथग्विधः ॥ ९३ ॥
लिङ्ग-सूरी - AK.03.01.093
सङ्गूढ इति—सङ्गुह्यते सङ्कल्यत इति सङ्गूढः । ʻगुहू संवरणे । सङ्कल्यत इति सङ्कलितः । सङ्कलितस्य भारतमञ्जर्यादेर्नामनी ॥ अवगीयते पापिष्ठोऽसाविति शब्द्यतेऽवगीतः । ʻगै शब्दे । ख्यातं गर्हणं यस्येति ख्यातगर्हणः । प्रख्यातनिन्दस्य नामनी ॥ विचित्रा विधा प्रकारोऽस्येति विविधः । वह्व्यो विधाः प्रकारा अस्येति बहुविधः । पृथग्विधश्च । नानाविधानि रूपाण्यस्येति नानारूपः । बहुरूपस्य मयूरादेर्नामानि ॥ ९३ ॥
सङ्गूढः स्यात् सङ्कलितः । बहुविधोऽप्यर्थः क्वचिदेकत्र सङ्क्षिप्तः सङ्गूढादिशब्दद्वयेनोच्यते । यथा—श्रीमहाभारतार्थो बालभारताख्ये काव्ये । यथा वा—श्रीरामायणार्थः सङ्क्षेपरामायणे इत्यादि । गणितज्ञैरप्युक्तम्—
ʻयद्वस्तु भिन्नकृत्येषु विभज्य विनियोजितम् ।
अङ्गैरेकीकृताङ्कं चेत् सङ्कलीकृतमुच्यते ॥
इति । सङ्क्षेपेण गुह्यते संव्रियत इति सङ्गूढः । ʻगुहू संवरणे । क्तः । गुप्तेऽपि गूढ उक्तः ॥ सङ्कल्यते सङ्क्षिप्यत इति सङ्कलितः । कलतिः सर्वार्थो धातुः ॥ अवगीतः ख्यातगर्हणे । लोकप्रसिद्धमहापातकादिदोषदूषितस्य नामनी । अवगीयते सगर्हं शब्द्यत इति अवगीतः । ʻगै शब्दे । क्तः । अवेत्युपसर्गो गर्हार्थः ॥ विविधः—पृथग्विधः । विचित्ररूपस्य मयूरादेः कालभेदेन वा नानाप्रकारस्य मेघमण्डलादेर्नामानि । विचित्रा विधा प्रकारो यस्येति विविधः । अन्ये व्यक्तयोगाः ॥ ९३ ॥
मल्लि-नाथः - AK.03.01.093
सङ्गूढः स्यात् सङ्कलितः । भूगतत्वेन कृतस्य नामनी ॥ अवगीतः ख्यातगर्हणः । प्रकटनिन्दायुक्तो ऽवगीतः स्यात् । पुनः पुनः प्रेक्षितमपि । ʻअवगीतं मुहुर्दृष्टम् इति हलायुधः (अ। मा। ४। ७०) ॥ विविधः—पृथग्विधः । नानाविधनामानि ॥ ९३ ॥
[[०३.१३१]]
मूलम् - ०३.०१.०९४
अक्।०३.०१.०९४अब् अवरीणो धिक्कृतश्चाप्यपध्वस्तोऽवचूर्णित ।
अक्।०३.०१.०९४च्द् अनायासकृतं फाण्टं स्वनितं ध्वनितं समे ॥ ९४ ॥
लिङ्ग-सूरी - AK.03.01.094
अवरीण इति—अवरीयते भृशं पीड्यत इति अवरीणः । ʻरी गतिरेषणयोḵ । धिक्क्रियते तिरस्क्रियत इति धिक्कृतः । अपध्वस्यते पीड्यत इति अपध्वस्तः । ʻध्वंसु भ्रंसु अवस्रंसने । अवचूर्ण्यते सम्पिष्यत इति अवचूर्णितः । ʻचूर्ण सम्पेषणे । परेरत्यन्तपीडितस्य नामानि ॥ फणति द्रवत्वाद् गच्छतीति फाण्टम् । ʻफण गतü । आयासं विनैव कृतस्य सोमकषायादिविशेषनाम ॥ स्वन्यत इति स्वनितम् । ʻस्वन शब्दे । ध्वन्यत इति ध्वनितम् । ʻध्वन शब्दे । कृतनिनदस्य भेर्यादेर्नामनी ॥ ९४ ॥
अवरीणो—अवचूर्णितः । ʻपरैरत्यन्तं पीडितस्य चत्वार्येतानि नामानि इति सुबोधिनीकारः । अवगर्हितं यथा भवति तथा भृशं पीड्यत इति अवरीणः । ʻरी गतिरेषणयोḵ । रेषणं हिंसेति धातुवृत्तिः । क्तः । ʻल्वादिभ्यḵ (८। २। ४४) इति निष्ठानत्वम् । अत्र केचित्—अधरीण इति द्वितीयाक्षरं दन्त्यवर्गचतुर्थं पठन्ति । तत्राधरशब्दात् खप्रत्ययोपपत्तिश्चिन्तनीया ॥ धिक् इत्यव्ययं भर्त्सनशब्दस्य विषयः । कुतो धिक्कृतः ॥ ध्वसिः धातुपारायणे गत्यर्थः पठितः । प्रयोगे तु हिंसायां वर्तते । ततः कर्मणि क्तप्रत्यये ऽपध्वस्तः ॥ दुःखजनकत्वसादृश्यात् चूर्णशब्देन परकृतस्तिरस्कारो विवक्षितः । अवकीर्णं चूर्णमस्मिन्निति, अवचूर्णः कृतोऽवचूर्णितः । टीकासर्वस्वकारस्तु अपध्वस्तादिद्वयं क्षिप्तचूर्णे वर्तत इति व्याचष्ट (पृ। ४२) । अवचूर्णयतीति णिचि (३। १। २५) क्तप्रत्यये अवचूर्णितः ॥ अनायासकृतं फाण्टम् । आयासः प्रयत्नाधिक्यम् । तदन्तरेणैव स्वल्पव्यापारमात्रात् कषायरूपं यद्भवति तत् फाण्टमित्युच्यते । फणति गच्छति द्रवरूपत्वाद् नैकत्रावतिष्ठत इति फाण्टम् । ʻफण गतü । क्तप्रत्यये सति ʻक्षुब्धस्वान्त ॥ । फाण्टबाढानि ॥ । इत्यादिना (७। २। १८) निपातनाद् इडागमाभावः । ष्टुत्वं च । अत्र सूत्रे काशिका—ʻयदपक्वम् अपिष्टं कषायम् उदकसम्पर्कमात्राद् विभक्तरसम् ईषदुष्णं भवति तत्फाण्टमुच्यते । अल्पप्रयाससाध्यत्वाद् अनायासेन लक्ष्यते इति (पृ। ३०३) । अत्र टीकासर्वस्वकारोऽपि—
ʻद्रव्यादचूर्णितात् तोये प्रतप्ते विनिवेशिते ।
रसो निर्याति यः सद्यः स फाण्ट इति संस्तुतः ॥
इति । सुभूतिरप्याह—ʻयदुदकनिमज्जनमात्रेण तस्मिन्नेवाहनि निर्यासविनिर्गमात् सम्पन्नमौषधं कषायद्रव्यात्मकं तदनायासकृतं फाण्टमिति ॥ स्वनितध्वनिते समे । ताड्यमानस्य भेर्यादेर्नामनी । व्यक्तयोगे च ॥ ९४ ॥
मल्लि-नाथः - AK.03.01.094
अवरीणो धिक्कृतः । निन्दितनामनी ॥ अवध्वस्तोऽवचूर्णितः । चूर्णीकृतनामनी । अनुक्तम्—ʻअवज्ञातोऽपहस्तितḵ । करविसृष्टनामनी ॥ अनायासकृतं फाण्टम् । आयासेन विना रचितं फाण्टं स्यात् । फाण्टमौषधम् ॥ स्वनितं ध्वनितं समे । शब्दितनामनी ॥ ९४ ॥
[[०३.१३२]]
मूलम् - ०३.०१.०९५
अक्।०३.०१.०९५अब् बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम् ।
अक्।०३.०१.०९५च्द् निष्पक्वं क्वथितं पाके क्षीराज्यहविषां शृतम् ॥ ९५ ॥
लिङ्ग-सूरी - AK.03.01.095
बद्ध इति—बध्यते स्म बद्धम् । ʻबध संयमने । सन्दान्यते बध्यत इति सन्दानितम् । ʻदान खण्डने । मूयत इति मूतम् । ʻमूञ् बन्धने । उद्दीयत इति उद्दितम् । सन्दीयत इति सन्दितम् । ʻदो ऽवखण्डने । सीयत इति सितम् । ʻषिञ् बन्धने । रज्ज्वादिना बद्धस्य पश्वादेर्नामानि ॥ निःशेषेण पक्वं निष्पक्वम् । क्वथ्यते निःशेषेण पच्यते क्वथितम् । ʻक्वथे निष्पाके । अष्टभागावशिष्टस्य कषायादेर्नामनी ॥ श्रायते पच्यत इति शृतम् । ʻश्रा पाके । क्षीराज्यवविषां पाकस्य नाम ॥ ९५ ॥
बद्धे—सितम् । रज्ज्वादिना निगलितावयवस्य बलीवर्दादेर्नामानि । ʻबध संयमने इत्यतः कर्मणि क्तप्रत्यये बद्धम् । ʻदाम सन्दानम् इति पूर्वमुक्तम् (१, पृ। ५९६) । तत् सञ्जातमस्येति सन्दानितम् । तारकादिः (५। २। ३६) । ʻमूङ् बन्धने इति धातोर्मूतम् । टीकासर्वस्वकार आह (पृ। ४३)—ʻमुर्वी बन्धने इत्यतः कर्मणि क्तप्रत्यये वकारलोपे “र्वोरुपधाया दीर्घ इकः” (८। २। ७६) इत्युपधादीर्घे च मूर्णम् इति ॥ उत्पूर्वः सम्पूर्वश्च द्यतिधातुः बन्धने वर्तते । अत एव प्रागुक्तम् (१, पृ। ४९९) ʻसमे तूद्दानबन्धने इति । ततः क्तप्रत्यये सति उद्दितम् । सन्दितं च । ʻद्यतिस्यति ॥ । इत्यादिना (७। ४। ४०) इत्वम् ॥ ʻषिञ् बन्धने इत्यतः क्तप्रत्यये धात्वादिसत्वे (६। १। ६४) च सितम् ॥ निष्पक्वं क्वथितम् । अग्निसंयोगेनाष्टमभागाद्यवशेषितस्य त्रिफलाकषायादेर्नामनी । निःशेषेण पच्यते स्म निष्पक्वम् ॥ ʻक्वथे निष्पाके इत्यतः कर्मणि क्तप्रत्यये क्वथितम् ॥ पाके—शृतम् । पक्वेषु पुरोडाशाज्यक्षीरेषु प्रत्येकं शृतशब्दो वर्तत इत्यर्थः । ʻशृतं मयि श्रयताम् (तै। ब्रा। ३। ७। ६। १२) इति क्षीरे प्रयोगः । ʻआग्नीध्रो हवींषि सुशृतानि करोति इति हविर्मात्रे इत्यादि । हविर्ग्रहणेनैव क्षीरस्यापि ग्रहणे ʻशृतं पाके (६। १। २७) इति सूत्रे ʻक्षीरहविषोरिति वक्तव्यम् इति वार्त्तिकच्छायया पृथग्ग्रहणम् । ʻघृतमाज्यं हविḵ (१, पृ। ५८५) इत्यादौ हविःशब्दस्य घृतमात्रे रूढत्वात् तस्यैव ग्रहणं मा भूदित्याज्यस्याप्युपादानं कृतम् । क्वचित्तु ʻपाके स्यात् क्षीरहविषोः शृतम् इत्येव पाठः । श्रायत इति शृतम् । ʻश्रा पाके इति क्षीरहविषोरर्थयोः शृभावो निपातितः ॥ ९५ ॥
मल्लि-नाथः - AK.03.01.095
बद्धे—सितम् । बद्धनामानि ॥ निष्पक्वं क्वथितम् । नितरामग्निना सन्तप्तनामनी ॥ पाके—शृतम् । क्षीरादीनां पाके शृतं स्यात् । शृतं क्षीरामाज्यं हविर्वा । अन्यत्र श्राणा यवागूः ॥ ९५ ॥
[[०३.१३४]]
मूलम् - ०३.०१.०९६
अक्।०३.०१.०९६अब् निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतानिले ।
अक्।०३.०१.०९६च्द् पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते ॥ ९६ ॥
लिङ्ग-सूरी - AK.03.01.096
निर्वाण इति—निर्वाति शाम्यति स्मेति निर्वाणः । ʻवा गतिगन्धनयोḵ । शान्तमुनिवह्न्योर्मोक्षादेर्नाम ॥ निर्गतो वातोऽस्येति निर्वातः । निवृत्तसञ्चारस्य वायोर्नाम ॥ पच्यते कालक्रमेणेति पक्वम् । ʻडुपचष् पाके । परिणमति अवस्थान्तरमापद्यत इति परिणतम् । ʻणमु प्रह्वत्वे शब्दे च्ö । कालेन परिणामं गतस्य बुद्ध्यादेर्नामनी ॥ गूयते गुदेनोत्सृज्यते गूनम् । ʻगु पुरीषोत्सर्गे । हद्यते गुदेनेति हन्नम् । ʻहद पुरीषोत्सर्गे । गुदान्निःसृतस्य पुरीषादेर्नामनी ॥ मिह्यते सिच्यतेऽनेनेति मीढम् । ʻमिह सेचने । मूत्र्यते प्रस्रूयत इति मूत्रितम् । ʻमूत्र प्रस्रवणे । मेहनेनोत्सृष्टस्य मूत्रस्य नामनी ॥ ९६ ॥
निर्वाणो मुनिवह्न्यादौ । निर्वाति स्म निर्वाणः । ʻवा गतिगन्धनयोḵ । क्तः । ʻनिर्वाणोऽवाते (८। २। ५०) इति वातव्यतिरिक्तार्थे निष्ठानत्वेन निपातितः । यथा—निर्वाणो मुनिः, मुक्त इत्यर्थः । निर्वाणो गजः, मग्न इत्यर्थः । निर्वाणो मोक्ष इत्यादि ॥ निर्वातस्तु गतेऽनिले । वातरहित इत्यर्थः । निर्वाति स्म निर्वातः । निर्वातो देशः । निर्वाता शाला । निर्वातं मन्दिरमित्यादि ॥ पक्वं परिणते । कालवशेन परिपाकं गते अवस्थान्तरापन्नत्वेन पक्वसादृश्यात् पक्वम् । यथा—पक्वा बुद्धिः, पक्वं कार्यम् इत्यादि । पक्वशब्दोऽत्रैव वर्गे व्युत्पादितः (श्लो। ९१) ॥ परणमति स्म परिणतम् । पूर्वरूपपरित्यागेन रूपान्तरापत्तिः परिणामः । ʻउपसर्गादसमासेऽपि णोपदेशस्य्ö (८। ४। १४) इति णत्वम् ॥ गूनं हन्ने । गुदमुखाद् बहिरुत्सृष्टस्य पुरीषादेर्नामनी । यथा—गूनं पुरीषम् । गूना यवागूःइत्यादिमनुष्यवर्गोक्तानि उत्सृष्टानुत्सृष्टसाधारणपुरीषस्येति न पौनरुक्त्यम् । गूयते स्मेति गूनम् । ʻगु पुरीषोत्सर्गे । ʻदुग्वोर्दीर्घश्चेति वक्तव्यम् (वा। ८। २। ४४) इति निष्ठानत्वं दीर्घश्च । हद्यते पायुदेशादिति हन्नम् । ʻहद पुरीषोत्सर्गे । ʻरदाभ्याम् ॥ । (८। २। ४२) इति निष्ठानत्वम् । केचित्तु शब्दद्वयमपि कर्तरि निष्ठायां कृतपुरीषोत्सर्गे प्राणिनि वर्तत इत्याहुः ॥ मीढं तु मूत्रिते । बहिरुत्सृष्टस्य मूत्रस्य नामनी । मिह्यते सिच्यते स्म मीढम् । ʻमिह सेचने । क्तप्रत्यये ʻहो ढḵ (८। २। ३१) इति ढत्वे ʻझषस्तथोर्धोऽधḵ (८। २। ४०) इति निष्ठातकारस्य धत्वे, ष्टुत्वे (८। ४। ४१) ढलोपे (८। ३। १३) दीर्घश्च (६। ३। १११) ॥ मूत्र्यते प्रस्रूयत इति मूत्रितम् । ʻमूत्र प्रस्रवणे । शब्दद्वयमपि पूर्ववत् कर्तरि निष्ठायाम् उत्सृष्टमूत्रे प्राणिनि वर्तत इति केचित् । यथा मूत्रितो बाल इत्यादि ॥ ९६ ॥
मल्लि-नाथः - AK.03.01.096
निर्वाणो मुनिवह्न्यादौ । मुनिवह्निप्रभृतौ निर्वाणः स्यात् । निर्वाणो मुनिः । मुक्त इत्यर्थः । निर्वाणो वह्निः, दीपो वा । विनश्वरतया स्थित इत्यर्थः । निर्वाणो हस्ती । जले निमग्न इत्यर्थः । ʻनिर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने इति विश्वप्रकाशिका (पृ। ५२, श्लो। ५६) ॥ निर्वातस्तु गतेऽनिले । वायावपि निर्वातः स्यात् । निर्वातो वायुः । स्थिर इत्यर्थः ॥ पक्वं परिणते । परिपक्वनामनी ॥ गूनं हन्ने । कृत पुरीषस्य नामनी ॥ मीढं तु मूत्रिते । कृतमूत्रस्य नाम ॥ ९६ ॥
[[०३.१३६]]
मूलम् - ०३.०१.०९७
अक्।०३.०१.०९७अब् पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते ।
अक्।०३.०१.०९७च्द् दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः ॥ ९७ ॥
लिङ्ग-सूरी - AK.03.01.097
पुष्ट इति—पुष्यत इति पुष्टम् । पुषितं च । ʻपुष पुष्टü । पुष्टावयवस्य नामनी ॥ सह्यते मृष्यते स्मेति सोढम् । ʻषह मर्षणे । क्षम्यत इति क्षान्तम् । ʻक्षमूष् सहने । सहनादेर्नामनी ॥ उद्वम्यते उद्वान्तम् । ʻटुवमु उद्गिरणे । उद्गम्यते स्म उद्गतम् । त्वगादिकं भित्त्वोद्गतस्य लोहितादेर्नामनी ॥ दम्यते शिक्ष्यत इति दान्तः । दमितश्च । ʻदमु उपशमने । आचार्यादिशिक्षया शिक्षितस्य नामनी ॥ शम्यते स्मेति शान्तः शमितश्च । ʻशमु उपशमने । शान्तस्य मुन्यादेर्नामनी ॥ प्रार्थ्यत इति प्रार्थितः । अर्थ उपयाच्ञायाम् । अर्द्यते स्म अर्दितः । ʻअर्द गतौ याचने च्ö । याचितस्य पदार्थस्य नामनी ॥ ९७ ॥
पुष्टे तु पुषितम् । मुष्टाहारादिभिः उपचितावयस्य नामनी । पुष्यते स्म पुष्टम् । ʻपुष पुष्टü । दिवादिः । अनिट्कारिकासु पुष्यति शुष्यतीति दैवादिकस्य ग्रहणात् इडागमो नास्ति । भौवादिकात्तु कर्मकर्तरि क्तप्रत्यये भवत्येव । स्वयमेव पुष्यते स्म पुषितम् ॥ सोढे क्षान्तम् । अनादृतस्य वाक्पारुष्यादेरपराधस्य नामनी । यथा—सोढाः परुषालापाः, सोढः कशाघातः इति । सह्यते स्म सोढम् । ʻषह मर्षणे । क्तप्रत्ययः । ढत्वधत्वष्टुत्वढलोपेषु ʻसहिवहोरोदवर्णस्य्ö (६। ३। ११२) इत्योकारादेशः ॥ क्षम्यते स्म क्षान्तम् । ʻक्षमूष् सहने । कर्मणि क्तप्रत्यये सति ʻअनुनासिकस्य क्विझलोः क्ङिति (६। ४। १५) ॥ इत्युपधादीर्घः, अनुनासिकस्य परसवर्णादेशश्च (८। ४। ५८) ॥ उद्वान्तमुद्गते । वल्मीककुहरादेरुद्गच्छतो दन्दशूकादेर्नामनी । उद्वम्यते बहिरुद्गीर्यते स्मेति उद्वान्तम् । क्तप्रत्ययः । उपधादीर्घः (६। ४। १५), परसवर्णदेशश्च (८। ४। ५८) ॥ ʻओहाङ् गतü इति धातोः उत्पूर्वात् ʻओदितश्च्ö (८। २। ४४) इति निष्ठानत्वे सति उद्धानमिति सुभूतिचन्द्रादयः । गमेरुत्पूर्वात् कर्तरि क्तप्रत्यये (३। ४। ७२) उद्गतः ॥ दान्तस्तु दमिते । कर्मकरणभारवहनादिक्लेशसहत्वेन कृतशिक्षस्य भृत्यबलीवर्दादेर्नामनी । ब्रह्मवर्गोक्तस्यापि दान्तस्य (१, पृ। ४७४) विशेष्यनिघ्नप्रस्तावे वैकल्पिकरूपान्तरप्रदर्शनार्थमभिधानमित्यपौनरुक्त्यम् । दम्यते स्वामिना नियम्यत इति दमितः । ʻदमु उपशमे । हेतुमण्णिजन्तात् कर्मणि क्तप्रत्यये इडागमे ʻनिष्ठायां सेटि (६। ४। ५२) इति णिलोपः । ʻवा दान्तशान्त ॥ । इत्यादिना (७। २। २७) विकल्पेन निपातनाद् इडागमाभावे दान्तः ॥ शान्तः शमिते । प्रतिक्रियानिवर्तितस्य रोगादेर्नामनी । ʻशमु उपशमे इत्यतो हेतुमण्णिचि पूर्ववदेव शमितः, शान्त इति रूपद्वयसिद्धिः ॥ प्रार्थितेऽर्दितः । याचितस्य धनादेर्नामनी । ʻअर्थ उपयाच्ञायाम् इत्यस्मात् चुरादिण्यन्तात् कर्मणि क्तप्रत्यये प्रार्थितः ॥ ʻअर्द गतौ याचने च्ö इत्यतः कर्मणि क्तप्रत्यये इडागमे च अर्दितः ॥ ९७ ॥
मल्लि-नाथः - AK.03.01.097
पुष्टे तु पुषितम् । पुष्टनामनी ॥ सोढे क्षान्तम् । सोढनामनी ॥ उद्वान्तमुद्गते । उद्गतनामनी । दान्तस्तु दमिते । दमितनामनी । दान्तोऽश्वः ॥ शान्तः शमिते । शमितनामनी । शान्तो रोगः ॥ प्रार्थितेऽर्दितः । याचितनामनी ॥ ९७ ॥
[[०३.१३७]]
मूलम् - ०३.०१.०९८
अक्।०३.०१.०९८अब् ज्ञप्तस्तु ज्ञापिते छन्नश्छादिते पूजितेऽञ्चितः ।
अक्।०३.०१.०९८च्द् पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः ॥ ९८ ॥
लिङ्ग-सूरी - AK.03.01.098
ज्ञप्त इति—ज्ञाप्यत इति ज्ञप्तः । ज्ञापितश्च । ʻज्ञा अवबोधने । उपाध्यायादिना ज्ञापितस्य पदार्थस्य नामनी ॥ छद्यत इति छन्नः । ʻछद अपवारणे । छादितश्च । छादितस्य पङ्कजादेर्नामनी ॥ पूज्यत इति पूजितः । ʻपूज पूजायाम् । अञ्च्यते पूज्यत इति अञ्चितः । ʻअञ्चु गतिपूजनयोḵ । पूजितस्य देवादेर्नामनी । पूर्यत इति पूर्णः । पूरितश्च । ʻपूरी आप्यायने । जलादिना पूरितस्य कुम्भादेर्नामनी ॥ क्लिश्यते बाध्यत इति क्लिष्टः । क्लिशितश्च । ʻक्लिशू विबाधने । दारिद्र्यादिना पीडितस्य नामनी ॥ अवस्यति पर्यवस्यति स्मेति अवसितः । सितश्च । ʻषोऽन्तकर्मणि । समाप्तस्य कार्यादेर्नामनी ॥ ९८ ॥
ज्ञप्तस्तु ज्ञापिते । गुरूपदेशादिना प्रकाशितस्यार्थस्य नामनी । यथा—ज्ञप्तोऽयमर्थः । ज्ञापितोऽयमर्थः । ʻज्ञा अवबोधने इत्यस्माद् हेतुमण्ण्यन्ताद् ʻवा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताḵ (७। २। २७) इति सर्वार्थसाधारण्येन निपातनादिडागमाभावे ज्ञप्तः । इडागमपक्षे ज्ञापितः । केचित्तु—ज्ञपित इति ह्रस्वादिं पठित्वा ज्ञपिते सञ्ज्ञपिते छागादौ वर्तत इति व्याचक्षते । तत्र ʻज्ञा मारणतोषणनिशामनेष्ü इति धातुसूत्रेण मित्सज्ञायां सत्यां ʻमितां ह्रस्वḵ (६। ४। ९२) इति ह्रस्वत्वे च ज्ञपितमिति भवति । ज्ञप्तशब्दस्य तु सर्वार्थसाधारण्येन निपातनाद् मारिताद्यर्थत्रयेऽपि साधुत्वम् । यथा—ʻसञ्ज्ञप्तहोमं जुहोति (आप। श्रौ। ७। १७। ३) इत्यादि ॥ छन्नश्छादिते । आवरणकद्रव्येणाप्रकाशितरूपस्य नामनी । यथा—मेघच्छन्नो दिनकरः, सिचयच्छन्नं कुचयुगम् इत्यादि । छाद्यते स्म छन्नः । छादितश्च । ʻछद अपवारणे । अत्रापि पूर्ववद् विकल्पेन निपातनात् शब्दद्वयसिद्धिः ॥ पूजितेऽञ्चितः । ʻपूज पूजायाम् इत्यतः कर्मणि क्तप्रत्यये पूजितः । ʻअञ्चु गतिपूजनयोḵ । ʻअञ्चेः पूजायाम् (७। २। ५३) इति नियमाद् ʻयस्य विभाष्ȫ (७। २। १५) इतीडागमप्रतिषेधो नास्ति । ʻनाञ्चेः पूजायाम् (६। ४। ३०) इत्युपधानकारलोपाभावे सति अञ्चितः । ʻस्यादर्हिते नमस्यित ॥ । (श्लो। १०१) इत्यादिना वक्ष्यमाणाद् गुर्वादिरूपात् पूजिताद् अन्यादृश एवायं पूजितः केनचिद्विशेषेण प्राप्तोत्कर्षलक्षणः । तत्राञ्चितशब्दः । यथा—ʻहासाञ्चिता वचोभङ्गी वलनाञ्चितमीक्षणम् इति ॥ पूर्णस्तु पूरिते । उदकादिना पूरितस्य कटकादेर्नामनी । पूर्यते स्म पूर्णः । पूर्ववन्निपातनात् (७। २। २७) साधुः । वैकल्पिक इडागमे सति पूरितः ॥ क्लिष्टः क्लिशिते । पुत्रशोकादिना पीडितस्य नामनी । क्लिश्यते स्म क्लिष्टः । ʻक्लिशू विबाधने । क्तः । क्लिशितश्च, ʻक्लिशः क्त्वानिष्ठयोḵ (७। २। ५०) इति विकल्पेनेडागमः ॥ अवसिते सितः । समाप्तस्य नामनी । अवस्यति अन्तं गच्छति स्म अवसितः । सितश्च । ʻषोऽन्तकर्मणि । क्तप्रत्ययः । ʻद्यतिस्यतिमास्थामित्ति किति (७। ४। ४०) इति धातोराकारस्येत्वम् ॥ ९८ ॥
मल्लि-नाथः - AK.03.01.098
ज्ञप्तस्तु ज्ञापिते । घटादिपाठाद् बोधितनामनी । चुरादिपाठाद् बुद्धनामनी ॥ छन्नश्छादिते । आच्छादितनामनी ॥ पूजितेऽञ्चितः । पूजार्थेऽञ्चितः स्यात् । सेट् । अन्यत्रानिट् । उदक्तमुदकं कूपात् ॥ पूर्णस्तु पूरिते । पूरितनामनी ॥ क्लिष्टः क्लिशिते । क्लेशितनामनी । ʻउढिकिम्पपड्ढवाण्ड्ü । अवसिते सितः । निश्चितनामनी ॥ ९८ ॥
[[०३.१३९]]
मूलम् - ०३.०१.०९९
अक्।०३.०१.०९९अब् प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते ।
अक्।०३.०१.०९९च्द् वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते ॥ ९९ ॥
लिङ्ग-सूरी - AK.03.01.099
प्रुष्टेति—प्रुष्यत इति प्रुष्टः। ʻप्रुष दाहे । प्लुष्यते प्लुष्टः । ʻप्लुष दाहे । उष्यत इत्युषितः । ʻउष दाहे । दह्यत इति दग्धः । ʻदह भस्मीकरणे । दग्धस्य तृणादेर्नामानि ॥ तक्ष्यत इति तष्टः । ʻतक्षू तनूकरणे । त्वक्ष्यत इति त्वष्टः । ʻत्वक्षू तनूकरणे । वर्धक्यादिना तनूकृतस्य काष्ठादेर्नामनी ॥ वेध्यते स्मेति वेधितः । ʻविध विधाने । छिद्रं सञ्जातमस्येति छिद्रितः । विद्ध्यत इति विद्धः । ʻव्यध ताडने । सूच्यादिना विद्धस्य कर्णमूलादेर्नामानि ॥ विद्यते विचार्यते विन्नः । वित्तश्च । ʻविद विचारणे । विचार्यत इति विचारितः । ʻचर गतिभक्षणयोḵ । विचारितस्य कार्यादेर्नामानि ॥ ९९ ॥
प्रुष्ट—दग्धे । भस्माङ्गारावशेषितस्य काष्ठादेर्नामानि । ʻप्रुष प्लुष दाहे । ʻउष दाहे । ʻदह भस्मीकरणे । एतेभ्यः कर्मणि क्तप्रत्यये प्रुष्टः, प्लुष्टः, उषितः, दग्धश्चेति चत्वारः शब्दाः क्रमेण निर्वक्तव्याः ॥ तष्टत्वष्टौ तनूकृते । वाश्यादिव्यापारकृतेन बहिरवयवापसारणेन स्वल्पपरिमाणीकृतस्य स्तम्भादेर्नामानि । ʻतक्षू त्वक्षू तनूकरणे । आभ्यां धातुभ्यां कर्मणि क्तप्रत्यये ʻस्कोः संयोगाद्योरन्ते च्ö (८। २। २९) इति संयोगादिभूतस्य ककारस्य लोपे निष्ठातकारस्य ष्टुत्वे तष्टं त्वष्टं च ॥ वेधितच्छिद्रितौ विद्धे । सूच्यादिना सरन्ध्रीकृतस्य नामानि । वेधः सूच्यादिकृतं रन्ध्रं सञ्जातोऽस्येति वेधितः । ʻविध विधाने इत्यस्माद्वा चुरादिण्यन्तात् कर्मणि निष्ठा ॥ छिद्रं रन्ध्रं सञ्जातमस्येति छिद्रितः ॥ विद्धम् इहैव वर्गे व्युत्पादितम् (श्लो। ८७) ॥ विन्नवित्तौ विचारिते । उभयत्र गुणदोषतारतम्यचिन्तया ग्राह्यत्वेन निर्धारितार्थस्य नामानि । ʻविद विचारणे इति धातोः कर्मणि निष्ठायां ʻनुदविद ॥ । इत्यादिना (८। २। ५६) विकल्पेन निष्ठानत्वे विन्नः, वित्तश्च ॥ ९९ ॥
मल्लि-नाथः - AK.03.01.099
प्रुष्ट—दग्धे । दग्धनामानि ॥ तष्ट—तनूकृते । वास्यादिनाल्पीकृतनामानि । ʻचक्कपड्ढदि । वेधित—विद्धे । विद्धनामानि । ʻकोरयपड्ढदि ॥ विन्न—विचारिते । विचारितनामनी ॥ ९९ ॥
[[०३.१४०]]
मूलम् - ०३.०१.१००
अक्।०३.०१.१००अब् निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ ।
अक्।०३.०१.१००च्द् सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १०० ॥
लिङ्ग-सूरी - AK.03.01.100
निष्प्रभ इति—निर्गता प्रभा अस्मादिति निष्प्रभः । विशेषेण गता प्रभा अस्मादिति विगतः । न विद्यते रोको दीप्तिर्यस्येति अरोकः । दिवा निष्प्रभस्य चन्द्रमण्डलादेर्नामानि ॥ विलीयतेऽग्नाविति विलीनः । ʻली द्रवीकरणे । विद्रवत्यग्निसंयोगादिति विद्रुतः । द्रुतश्च । ʻद्रु गतü । अग्निसंयोगाद् विलीनस्य घृतादेर्नामानि ॥ सिद्ध्यतीति सिद्धः । ʻषिधु संराद्धü । निर्वर्तत इति निर्वृत्तः । ʻवृतु वर्तने । निष्पद्यत इति निष्पन्नः । ʻपद गतü । पाकादिना सिद्धस्यौदनादेर्नामानि । दार्यत इति दारितः । ʻदृ विदारणे । भिद्यत इति भिन्नः । भेदितश्च । ʻभिदिर् विदारणे । प्रहारादिना भिन्नस्य घटादेर्नामानि ॥ १०० ॥
निष्प्रभे विरतारोकौ । कान्तिहीनस्य दिवातनचन्द्रादेर्नामानि । निर्गता प्रभा कान्तिरस्मादिति निष्प्रभः । विरतश्च अरोकश्चेति द्वन्द्वः । सतोऽप्यर्थक्रियाकारित्वाभावाद् विरतः उपरतसदृश इत्यर्थः । ʻरुच दीप्तü इत्यस्माद्धातोः घञि (३। ३। १८) रोको दीप्तिः । स नास्त्यत्रेति अरोकः । एष चिरन्तनव्याख्यातृसम्मतः पाठः । कश्चित्तु—विगतः आलोकः प्रकाशोऽस्येति विगतालोक इति पाठेन व्याचष्ट ॥ विलीने विद्रुतद्रुतौ । अग्निसंयोगादिना द्रवीभूतस्य सर्पिर्जतुसुवर्णादेर्नामानि । विलीयत इति विलीनम् । ʻलीङ् द्रवीकरणे । क्तः । ʻआज्यं विलाप्य्ö इत्यादिप्रयोगः ॥ द्रवत्वगुणयोगाद् द्रवति गच्छति नैकत्रावतिष्ठत इति द्रुतम् । विद्रुतं च । ʻद्रु गतü । क्तः (३। ४। ७२) ॥ सिद्धे निर्वृत्तनिष्पन्नौ । पाकादिसंस्कारनिष्पन्नस्य भक्तव्यञ्जनादेर्नामानि । यथा—ʻसिद्धस्य हविष्यस्य जुहुयात् इति । ʻषिधु संराद्धü इत्यतः सिद्धम् । निर्वृत्तनिष्पन्नशब्दावपि उपसर्गवशात् तदर्थावेव ॥ दारिते भिन्नभेदितौ । कुठारादिभिराग्रादामूलं द्विधाकृतस्य वेणुदलादेर्नामानि । दार्यते स्म दारितम् । ʻदॄ विदारणे । क्तः । भिद्यते स्म भिन्नः । ʻभिदिर् विदारणे । रुधादिः । चुरादावप्ययं धातुः पठ्यते । ततो ण्यन्तात् कर्मणि क्तप्रत्यये भेदितः ॥ १०० ॥
मल्लि-नाथः - AK.03.01.100
निष्प्रभे विगतारोकौ । अप्रतिभस्य नामानि । विकतोऽपि स्यात् । ʻविगतौ वीतनिष्प्रभü इति रुद्रः ॥ विलीने विद्रुतद्रुतौ । वह्न्यादिना द्रवीभूतस्य नामानि । ʻकरगपड्ढदि ॥ सिद्धे निर्वृत्तनिष्पन्नौ । परिसिमाप्तनामानि ॥ दारिते भिन्नभेदितौ । द्वेधाकृतनामानि ॥ १०० ॥
[[०३.१४२]]
मूलम् - ०३.०१.१०१
अक्।०३.०१.१०१अब् ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते ।
अक्।०३.०१.१०१च्द् स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् ॥ १०१ ॥
लिङ्ग-सूरी - AK.03.01.101
ऊतमिति—ऊय्यते तन्तुभिः सन्तन्यत इति ऊतम् । ʻऊयी तन्तुसन्ताने । सीव्यत इति स्यूतम् । ʻषिवु तन्तुसन्ताने । ऊयते तन्तुभिः सन्तन्यत इति उतम् । ʻवेञ् तन्तुसन्ताने । वहुतन्तुसमूहस्य कन्थादेर्नामानि ॥ अर्ह्यत इत्यर्हितम् । ʻअर्ह पूजायाम् ॥ नमः कृतं नमस्यितम् । नमसितं च । ʻणमु प्रह्वत्वे शब्दे च्ö । अपचाय्यते पूज्यत इत्यपचायितम् । अपचितं च । ʻचायृ पूजानिशामनयोḵ । अर्च्यत इत्यर्चितम् । ʻअर्च पूजायाम् । अर्चितस्य देवगृहादेर्नामानि ॥ १०१ ॥
ऊतं—तन्तुसन्ताने । तन्तुभिः सन्तन्यते सूचीमूलस्थरन्ध्रप्रवेशितैः सूक्ष्मसूत्रैर्व्याप्यत इति तन्तुसन्ततः कन्थाकूर्पासादिः तत्रेत्यर्थः । ʻऊयी तन्तुसन्ताने इत्यतः क्तप्रत्यये ऊतम् । स्यूतशब्दो वैश्यवर्गे व्युत्पादितः (पृ। ५६९) ॥ ʻवेञ् तन्तुसन्ताने इत्यतः क्तप्रत्ययसम्प्रसारण पूर्वरूपत्वेषु उतम् ॥ स्यादर्हिते—अपचितम् । इतो वर्गसमाप्तिपर्यन्तं वृत्तद्वादशकमार्याच्छन्दः । पूजितो हरिहरगुर्वादिः, तत्रैते शब्दा वर्तन्ते । अर्ह्यते स्म अर्हितम् । ʻअर्ह पूजायाम् । हरिहरगुर्वादिः नमस्यते पूज्यते स्मेति नमस्यितः । ʻनमो वरिवश्चित्रङः क्यच् (३। १। १९) इत्यत्र नमसः पूजायाम् इति वक्तव्येन पूजाकरणार्थे क्यच्प्रत्यये सति सनाद्यन्तत्वेन धातुसञ्ज्ञायां कर्मणि क्तप्रत्यये इडागमश्च ॥ ʻक्यस्य विभाष्ȫ (६। ४। ५०) इति वैकल्पिके यकारलोपे नमसितः ॥ अपचाय्यते पूज्यते स्म अपचायितः । ʻचायृ पूजानिशामनयोḵ इति कर्मणि क्तप्रत्यये इडागमश्च ॥ तत एव धातोः ʻअपचितं च्ö (७। २। ३०) इति सूत्रेण निष्ठायामनिट्त्वस्य चिभावस्य च निपातनाद् अपचितम् ॥ अर्च्यते स्मेति अर्चितम् । ʻअर्च पूजायाम् ॥ १०१ ॥
मल्लि-नाथः - AK.03.01.101
ऊतं—तन्तुसन्तते । तन्तुसन्तानितनामानि । ʻकुट्टपड्ढदि ॥ स्यादर्हिते—अपचितम् । पूजितनामानि ॥ १०१ ॥
[[०३.१४३]]
मूलम् - ०३.०१.१०२
अक्।०३.०१.१०२अब् वरिवसिते वरिवस्यितमुपासितं चोपचरितं च ।
अक्।०३.०१.१०२च्द् सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२ ॥
लिङ्ग-सूरी - AK.03.01.102
वरिवसित इति—वरिवस्यत उपास्यत इति वरिवसितम् । वरिवस्यितं च । उपास्यते सेव्यत इति उपासितम् । ʻआस उपवेशने । उपचर्यते सेव्यत इति उपचरितम् । ʻचर गतü । शिष्यादिभिः संसेवितस्य उपाध्यायादेर्नामानि ॥ सन्तप्यते स्म सन्तापितः । सन्तप्तश्च । ʻतप सन्तापे । धूप्यते सन्तप्यत इति धूपितः । धूपायितश्च । ʻधूप सन्तापे ॥ दूयत इति दूनः । ʻदूङ् परितापे । अग्न्यादिसन्तप्तस्य नामानि ॥ १०२ ॥
वरिवसिते—चोपचरितं च । पुत्रशिष्यादिभिः कृतपरिचर्याविशेषस्य पितृगुर्वादेर्नामानि । ʻनमो वरिवश्चित्रङः क्यच् (३। १। १९) इत्यत्र वरिवसः परिचर्याकरणरूपेऽर्थे क्यच्प्रत्यये पूर्ववदेव वैभाषिके यलोपे वरिवसितम्, वरिवस्यितं च ॥ उपास्यते स्म उपासितम् । ʻआस उपवेशने ॥ उपचर्यते स्म उपचरितम् । ʻचर गतü । उपपूर्वः सेवार्थ इति धातुवृत्तौ ॥ सन्तापित—दूनश्च । निदाघक्षुत्तृष्णादिभिः पीडितस्य नामानि । ʻतप सन्तापे इत्यस्मात् चौरादिकात् सम्पूर्वात् कर्मणि क्तप्रत्यये सन्तापितः । भौवादिकात्तु सन्तप्तः ॥ धूप्यते स्म धूपितः । ʻधूप सन्तापे । ʻगुपूधूप ॥ । (३। १। २८) इत्यादिसूत्रे ʻआयादय आर्धधातुके व्ȫ (३। १। ३१) इति विकल्पेनायप्रत्यये धूपायितः ॥ ʻटुदु उपतापे इत्यस्माद् ʻदुग्वोर्दीर्घश्च्ö (वा। ८। २। ४४) इति निष्ठानत्वे दूनः । यद्वा ʻदूङ् परितापे इत्यस्मात् स्वादय ओदित इति प्रतिज्ञानाद् ʻओदितश्च्ö (८। २। ४५) इति निष्ठानत्वे दूनः ॥ १०२ ॥
मल्लि-नाथः - AK.03.01.102
वरिवसिते—चोपचरितं च । सेवितनामानि ॥ सन्तापित—दूनश्च । सन्तप्तनामानि ॥ १०२ ॥
[[०३.१४४]]
मूलम् - ०३.०१.१०३
अक्।०३.०१.१०३अब् हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः ।
अक्।०३.०१.१०३च्द् छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ॥ १०३ ॥
लिङ्ग-सूरी - AK.03.01.103
हृष्ट इति—हृष्यतीति हृष्टः । ʻहृष तुष्टü । माद्यति तुष्यतीति मत्तः । ʻमदी हर्षे । तृप्यतीति तृप्तः । ʻतृप तृप्तü । प्रह्लादते स्म प्रह्लन्नः । ʻह्लादी सुखे अव्यक्तशब्दे च्ö । प्रमोदत इति प्रमुदितः । ʻमुद हर्षे । प्रीयते स्म प्रीतः । ʻप्रीङ् प्रीणने । हृष्टस्य नामानि ॥ छिद्यते स्म छिन्नम् । ʻछिदिर् द्वैधीकरणे । छायते स्म छातम् । छितं च । ʻछो छेदने । लूयते स्म लूनम् । ʻलूञ् छेदने । कृत्यते स्म कृत्तम् । ʻकृती छेदने । दायते स्म दातम् । ʻदाप् लवने । दीयत इति दितम् । ʻदो अवखण्डने । वृश्च्यते स्म वृक्णम् । ʻओव्रश्चू छेदने । लवित्रादिना छिन्नस्य वस्त्रादेर्नामानि ॥ १०३ ॥
हृष्टो—प्रीतः । इष्टप्राप्तिजनितानन्दयुक्तस्य नामानि । हृष्यति स्म हृष्टः । सर्व एते कर्तरि क्तप्रत्ययान्ताः ॥ माद्यति स्म मत्तः । ʻमदी हर्षे । ʻन ध्याख्यापॄमूर्च्छिमदाम् (८। २। ५७) इति निष्ठानत्वप्रतिषेधः । क्षीबेऽपि मत्त उक्तः (श्लो। २३) । तृप्यति स्म तृप्तः । तृपिर्दिवादिः ॥ प्रह्लादते स्म प्रह्लन्नः । ʻह्लादी सुखे च्ö । ʻह्लादो निष्ठायाम् (६। ४। ९५) इति ह्रस्वत्वम् । रदाभ्यामिति (८। २। ४२) निष्ठानत्वम् ॥ ʻमुद हर्षे इत्यस्माद् मुदितः । प्रीयते स्म प्रीतः ॥ छिन्नं—वृक्णम् । लवित्रादिना छिन्नस्य तृणादेर्नामानि । सर्वाण्यपि कर्मणि क्तप्रत्ययान्तानि । छिद्यते स्म छिन्नम् । ʻछिदिर् द्वैधीकरणे । निष्ठानत्वे (८। २। ४२) छिन्नम् ॥ ʻछो छेदने । क्तः । छातम् । ʻशाच्छोरन्यतरस्याम् (७। ४। ४१) इति विकल्पेनेत्वे छितम् ॥ ʻलूञ् छेदने लूनम् । ʻल्वादिभ्यḵ (८। २। ४४) इति निष्ठानत्वम् ॥ कृत्यते छिद्यते स्म कृत्तम् । ʻकृती छेदने । ʻश्वीदितो निष्ठायाम् (७। २। १४) इति इडागमप्रतिषेधः ॥ दायते स्म दातम् । ʻदाप् लवने ॥ दीयते खण्ड्यते स्म दितम् । ʻदो अवखण्डने । ʻद्यतिस्यतिमास्थामित्ति किति (७। ४। ४०) इति इत्वम् ॥ वृश्च्यते स्म वृक्णम् । ʻओव्रश्चू छेदने इत्यस्मात् ʻस्कोः संयोगाद्योरन्ते च्ö (८। २। २९) इति संयोगादिभूतस्य सकारस्य लोपः । ʻग्रहिज्या ॥ । इत्यादिना (६। १। १६) सम्प्रसारणम् ॥ १०३ ॥
मल्लि-नाथः - AK.03.01.103
हृष्टो—प्रीतः । हृष्टनामानि ॥ छिन्नं—वृक्णम् । छिन्ननामानि ॥ १०३ ॥
[[०३.१४५]]
मूलम् - ०३.०१.१०४
अक्।०३.०१.१०४अब् स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ।
अक्।०३.०१.१०४च्द् लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ॥ १०४ ॥
लिङ्ग-सूरी - AK.03.01.104
स्रस्तमिति—स्रस्यते स्रस्तम् । ʻस्रंसु अवस्रंसने । ध्वस्यते ध्वस्तम् । ʻध्वंसु अवस्रंसने । भ्रश्यत इति भ्रष्टम् । ʻभ्रंशु अवस्रंसने । स्कद्यत इति स्कन्नम् । ʻस्कन्दिर् गतिशोषणयोḵ । पद्यते स्रस्यते पन्नम् । ʻपद गतü । च्यूयत इति च्युतम् । ʻच्युङ् गतü । गल्यत इति गलितम् । ʻगल स्रवणे । स्रस्तस्य वस्त्रादेर्नामानि ॥ लभ्यत इति लब्धम् । ʻडुलभष् प्राप्तü । प्राप्यत इति प्राप्तम् । ʻआप्लृ व्याप्तü । विद्यत इति विन्नम् । ʻविद्लृ लाभे । भाव्यत इति भावितम्, भूतं च । ʻभू प्राप्तü । आसाद्यते प्राप्यत इति आसादितम् । ʻषद्लृ विशरणादü । लब्धस्य दानादेर्नामानि ॥ १०४ ॥
स्रस्तं—गलितम् । नूतनघटादेरधःप्रसृतस्य तैलजलादेर्नामानि । ʻस्रंसु अवस्रंसने ʻध्वंसु गतü, ʻभ्रंसु अधःपतने, ʻस्कन्दिर् गतिशोषणयोḵ, ʻपद गतü, ʻच्युङ् गतü, ʻगल स्रवणे । एतेभ्यः सप्तभ्यो धातुभ्यः कर्तरि क्तान्ताः स्रस्तादयः सप्त शब्दा वेदितव्याः । चतुर्थपञ्चमयोस्तु रदाभ्यामिति (८। २। ४२) निष्ठानत्वम् ॥ लब्धं—भूतं च । यथेष्टविनियागत्वेन प्राप्तस्य नामानि । ʻडुलभष् प्राप्तü इत्यतः लब्धम् । प्रपूर्वाद् आप्नोतेः प्राप्तम् । ʻविद्लृ लाभे इत्यतो निष्ठानत्वे विन्नम् ॥ ʻभू प्राप्तü इत्यात्मनेपदी धृषादौ पठितः । तस्माद् ʻआधृषाद्व्ȫ इति विकल्पेन णिचि भावितम् । तदभावपक्षे भूतम् । आङः सदिः पद्यर्थ इति चौरादिकाद् आङ्पूर्वाद् आसादितम् । सर्व एते कर्मणि निष्ठान्ताः ॥ १०४ ॥
मल्लि-नाथः - AK.03.01.104
स्रस्तं—गलितम् । च्युतनामानि ॥ लब्धं—भूतं च । लब्धनामानि ॥ १०४ ॥
[[०३.१४६]]
मूलम् - ०३.०१.१०५
अक्।०३.०१.१०५अब् अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् ।
अक्।०३.०१.१०५च्द् आर्द्रं सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च ॥ १०५ ॥
लिङ्ग-सूरी - AK.03.01.105
अन्वेषितमिति—अन्वेष्यत इत्यन्वेषितम् । ʻएषृ गतü । गवेष्यत इति गवेषितम् । ʻगवेष मार्गणे । अन्विष्यत इत्यन्विष्टम् । ʻइषु इच्छायाम् । मार्ग्यत इति मार्गितम् । ʻमार्ग अन्वेषणे । मृग्यत इति मृगितम् । ʻमृग अन्वेषणे । आदराद् विचेतव्यस्य वस्तुनो नामानि ॥ अर्द्यत पीड्यत इत्यार्द्रम् । ʻअर्द हिंसायाम् । आर्द्रेण सह वर्तत इति सार्द्रम् । क्लिद्यत इति क्लिन्नम् । ʻक्लिदू आर्द्रीभावे । तिम्यत इति तिमितम् । ʻतिम आर्द्रीभावे । स्तिम्यत इति स्तिमितम् । ʻष्टिम आर्द्रीभावे । समुद्यत आर्द्रीक्रियत इति समुन्नम् । उत्तं च । ʻउन्दी क्लेदने । आर्द्रीभूतस्य नामानि ॥ १०५ ॥
अन्वेषितं—मृगितम् । आदरातिशयेनजिज्ञासितार्थस्य नामानि । ʻएषृ गतü, अनुपूर्वः, ʻगवेष मार्गणे, ʻइषु इच्छायाम् ʻमार्ग अन्वेषणे ʻमृग अन्वेषणे; एतेभ्यो धातुभ्यः कर्मणि निष्ठान्ता अन्वेषितादयः पञ्च शब्दाः ॥ आर्द्रं—उत्तं च । आतपवातादिभिरनपाकृतजलावयवसुश्लेषस्य वस्त्रादेर्नामानि । अर्द्यते रसग्रहणार्थं पीड्यते स्म आर्द्रम् । ʻअर्द हिंसायाम् । आङ्पूर्वः, रक्प्रत्ययः (उ। २। १८) ॥ आर्द्रशब्देन धर्ममात्रविवक्षायाम् आर्द्रत्वेन सह वर्तत इति सार्द्रोऽपि ॥ क्लिद्यते स्म क्लिन्नम् । ʻक्लिदू आर्द्रीभावे । निष्ठानत्वं च (८। २। ४२) ॥ ʻतिम ष्टिम आर्द्रीभावे इत्याभ्यां धातुभ्यां कर्मणि क्तप्रत्यये इडागमे च क्रमेण तिमितं स्तिमितं च ॥ ʻउन्दी क्लेदने इत्यतः ʻनुदविदोन्दत्र ॥ । इत्यादिना (८। २। ५६) विकल्पेन निष्ठानत्वे समुन्नम् । अभावपक्षे उत्तं च ॥ १०५ ॥
मल्लि-नाथः - AK.03.01.105
अन्वेषितं—मृगितम् । अन्वेषितनामानि । ʻवेतकपड्ढदि ॥ आर्द्रं—उत्तं च । आर्द्रनामानि ॥ १०५ ॥
[[०३.१४७ ]]
मूलम् - ०३.०१.१०६
अक्।०३.०१.१०६अब् त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ।
अक्।०३.०१.१०६च्द् अवगणितमवमतावज्ञाते अवमानितं च परिभूते ॥ १०६ ॥
लिङ्ग-सूरी - AK.03.01.106
त्रातमिति—त्रायत इति त्रातम् । त्राणं च । ʻत्रैङ् पालने । रक्ष्यत इति रक्षितम् । ʻरक्ष पालने । अव्यत इत्यवितम् । ʻअव रक्षणे । गोप्यत इति गोपायितम् । गुप्तं च । ʻगुपू रक्षणे । रक्षितस्य नामानि ॥ अवगण्यते नाद्रियत इत्यवगणितम् । ʻगण सङ्ख्याने । अवमन्यतेऽवश्लाघ्यत इत्यवमतम् । ʻमन ज्ञाने । अवज्ञायते तिरस्क्रियत इति अवज्ञातम् । अवमान्यत इत्यवमानितम् । ʻमान पूजायाम् । परिभूयत इति परिभूतम् । ʻभू सत्तायाम्ö । तिरस्कृतस्य नामानि ॥ १०६ ॥
त्रातं—गुप्तं च । चोरव्याघ्रादिभयाद्यपाकरणेन रक्षितस्य नामानि । षडमी शब्दाः कर्मणि निष्ठान्ताः । त्रायते स्म त्रातम् । ʻत्रैङ् पालने । ʻनुदविदोन्दत्रा ॥ । इत्यादिना (८। २। ५६) विकल्पेन निष्ठानत्वे त्रातं त्राणं च । ʻरक्ष पालने, रक्षितम् । ʻअव रक्षणे, अवितम् । ʻगुपू रक्षणे इत्यस्माद् गुप्तम् । ʻआयादय आर्धधातुके व्ȫ (३। १। ३१) इत्यायप्रत्यये तदन्ताद्धातोः क्तप्रत्यये गोपायितम् ॥ अवगणितं—परिभूते । परिभूयते आदरविषयतया न स्वीक्रियते स्मेति परिभूतम् । तत्र अवगणितादयः शब्दाः वर्तन्ते । ʻगण सङ्ख्याने, ʻमन ज्ञाने दैवादिकः, ʻज्ञा अवबोधने, ʻमान पूजायाम्; अवेत्युपसर्गवशाद् अवज्ञालक्षणेऽर्थे वर्तमानेभ्यः चतुर्भ्यो धातुभ्यः क्रमेण अवगणितम्, अवमतम्, अवज्ञातम्, अवमानितं चेति चत्वारः शब्दाः स्युः ॥ १०६ ॥
मल्लि-नाथः - AK.03.01.106
त्रातं—गुप्तं च । रक्षितनामानि ॥ अवगणितं—परिभूते । परिभूतनामानि ॥ १०६ ॥
[[०३.१४८]]
मूलम् - ०३.०१.१०७
अक्।०३.०१.१०७अब् त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टम् ।
अक्।०३.०१.१०७च्द् उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम् ॥ १०७ ॥
लिङ्ग-सूरी - AK.03.01.107
त्यक्तमिति—त्यज्यत इति त्यक्तम् । ʻत्यज हानü । हीयत इति हीनम् । ʻओहाक् त्यागे । विधूयत इति विधुतम् । ʻधुञ् कम्पने । समुज्झ्यत इति समुज्झितम् । ʻउज्झ उत्सर्गे । धूयत इति धूतम् । ʻधू विधूनने । उत्सृज्यत इति उत्सृष्टम् । ʻसृज विसर्गे । त्यक्तस्य नामानि ॥ उच्यत इत्युक्तम् । ʻवच परिभाषणे । भाष्यत इति भाषितम् । ʻभाष व्यक्तायां वाचि । उद्यत इति उदितम् । ʻवद व्यक्तायां वाचि । जल्प्यत इति जल्पितम् । ʻजल्प व्यक्तायां वाचि । आख्यायत इति आख्यातम् । ʻख्या प्रकथने । अभिधीयत इत्यभिहितम् । ʻडुधाञ् धारणपोषणयोḵ । लप्यत इति लपितम् । ʻलप व्यक्तायां वाचि । भाषितस्य नामानि ॥ १०७ ॥
त्यक्तं—उत्सृष्टम् । दृष्टादृष्टोपकारकोद्देशं विनैव वैराग्येण परिहृतस्य नामानि । सर्व एते कर्मणि क्तप्रत्ययान्ताः । ʻत्यज हानü । त्यक्तम् ॥ हीयते स्म हीनम् । क्तः । ʻघुमास्थागापाजहातिसां हलि (६। ४। ६६) इति ईकारादेशे हीनम् ॥ ʻधुञ् कम्पने इत्यतो ह्रस्वादेर्विपूर्वाद् विधुतम् ॥ ʻउज्झ त्यागे सम्पूर्वः । उज्झितम् ॥ ʻधू विधूनने । तौदादिकाद् दीर्घादेर्धूतम् ॥ ʻसृज विसर्गे इत्यतः उत्पूर्वाद् उत्सृष्टम् ॥ उक्तं—लपितम् । कण्ठरवेण व्यक्ततया प्रकाशितस्य वचसस्तदर्थस्य च नामानि । ʻवच परिभाषणे । ʻवचिस्वपि ॥ । इत्यादिना (६। १। १५) सम्प्रसारणे उक्तम् ॥ ʻभाष व्यक्तायां वाचि इत्यतो भाषितम् ॥ ʻवद व्यक्तायां वाचि इत्यतो यजादिसम्प्रसारणे (६। १। १५) सति उदितम् ॥ ʻजल्प व्यक्तायां वाचि इत्यतो जल्पितम् ॥ ʻख्या प्रकथने इत्याङ्पूर्वतः आख्यातम् ॥ अभि इत्युपसर्गवशाद् अर्थान्तरेण वर्तमानात् कर्मणि क्तप्रत्यये ʻदधातेर्हिḵ (७। ४। ४२) इति हिरादेशे सति अभिहितम् ॥ ʻलप व्यक्तायां वाचि इत्यतो लपितम् ॥ १०७ ॥
मल्लि-नाथः - AK.03.01.107
त्यक्तं—उत्सृष्टम् । त्यक्तनामानि ॥ उक्तं—लपितम् । उक्तनामानि ॥ १०७ ॥
[[०३.१५०]]
मूलम् - ०३.०१.१०८
अक्।०३.०१.१०८अब् बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते ।
अक्।०३.०१.१०८च्द् ऊरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥
अक्।०३.०१.१०९अब् सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् ।
लिङ्ग-सूरी - AK.03.01.108
बुद्धमिति—बुध्यत इति बुद्धम् । ʻबुध अवगमने । बुध्यत इति बुधितम् । ʻबुध बोधने । मन्यते स्म मनितम् । ʻमन अवबोधने । विद्यत इति विदितम् । ʻविद ज्ञाने । प्रतिपद्यते ज्ञायते इति प्रतिपन्नम् । ʻपद गतü । अवसीयत इत्यवसितम् । ʻषोऽन्तकर्मणि । अवगम्यत इत्यवगतम् । ʻगम्लृ गतü । ज्ञातस्य नामानि ॥ ऊरीक्रियतेऽङ्गीक्रियत इति ऊरीकृतम् । उररीक्रियत इति उररीकृतम् । अङ्गीक्रियत इत्यङ्गीकृतम् । आश्रूयतेऽङ्गीक्रियत इत्याश्रुतम् । संश्रुतम् उपश्रुतं च । ʻश्रु श्रवणे । प्रतिज्ञायत इति प्रतिज्ञातम् । सङ्गीर्यतेऽङ्गीक्रियत इति सङ्गीर्णम् । ʻगॄ शब्दे । विद्यत इति विदितम् । ʻविद ज्ञाने । समाधीयतेऽङ्गीक्रियत इति समाहितम् । ʻडुधाञ् धारणपोषणयोḵ । उपगम्यत इत्युपगतम् । अङ्गीकृतस्य नामानि ॥ १०८ ॥
बुद्धं—अवगते । ज्ञातार्थस्य नामानि । ʻबुध अवगमने । अनिट्कारिकासु शुध्यति बुध्यतीति पाठाद् अस्य बुध्यतेर्दैवादिकत्वेन इडागमाभावे बुद्धम् । ʻबुध बोधने इति तु भौवादिकाद् इडागमे सति बुधितम् ॥ ʻमन अवबोधने इति स्वादेरिडागमे मनितम् । ʻमन ज्ञाने इत्यस्य तु दैवादिकत्वेन ʻयश्च श्यनि पठ्यते मनिḵ (काशिका २, पृ। २९९) इति पाठाद् इडागमो नास्ति । अथवा—मनःशब्दात् ʻतत्करोति (ग। सू।) इति णिचि टिलोपे मनितम् ॥ ʻविद ज्ञाने इत्यतो विदितम् ॥ ʻपद गतü, प्रतिपूर्वो ज्ञानार्थः । निष्ठानत्वे (८। २। ४२) प्रतिपन्नम् ॥ ʻषोऽन्तकर्मणि । धातुरवपूर्वो ज्ञानार्थः । ʻद्यतिस्यति ॥ । इत्यादिना (७। ४। ४०) इत्वेऽवसितम् ॥ अवगम्यते स्म अवगतम् ॥ सर्वे शब्दाः कर्मणि निष्ठान्ताः ॥ ऊरीकृतं—उपगतम् । ऊरीकृतमित्यादिश्लोकेनैकादशशब्दाः अभ्युपगतार्थवाचकाः । ऊरी-उररीतिशब्दयोः अङ्गीकरणार्थे वर्तमानयोः ʻऊर्यादिच्विडाचश्च्ö (१। ४। ६१) इति गतिसञ्ज्ञायां ʻकुगतिप्रादयḵ (२। २। १८) इति कृदन्तेनोत्तरपदेन समासे ऊरीकृतम् उररीकृतं च । अत्र आद्यो दीर्घादिः । द्वितीयो ह्रस्वादिः । आर्यावृत्तानुरोधात् । नैषधकाव्ये तु ʻअर्थिषु स्वयमुरीकृतकाम्य्ȫ (५। ११७) इति प्रथमो ह्रस्वादिरपि प्रयुक्तः । द्वितीयस्तु दीर्घादिरप्यस्तीति अव्ययवर्गे (३। ३। २५४) वक्ष्यते ॥ अङ्गीक्रियते स्म अङ्गीकृतम् ॥ आश्रूयते स्म आश्रुतम् । ʻश्रु श्रवणे । उपसर्गवशाद् अङ्गीकारार्थत्वम् । अत एव संश्रुतम् उपश्रुतं च ॥ प्रतिपूर्वत्वेनाङ्गीकारार्थात् जानातेः प्रतिज्ञातम् ॥ सम्पूर्वस्य ʻगॄ निगरणे इति धातोरङ्गीकारार्थत्वं प्रसिद्धम । ʻऋत इद्धातोḵ (७। १। १००) इति इत्वम् । ʻरदाभ्यां ॥ । (८। २। ४२) इति निष्ठानत्वे च सङ्गीर्णम् ॥ धातूनामनेकार्थत्वाद् ʻविद ज्ञाने इत्यस्माद् इडागमप्रतिषेधाभावाद् विदितम् ॥ सम्यगाधियते स्म समाहितम् । ʻदधातेर्हि (७। ४। ४२) ॥ उपगम्यते स्म उपगतम् ॥ सर्वत्रोपसर्गवशादत्र धातूनामङ्गीकारार्थत्वं विज्ञेयम् ॥ १०८ ॥
मल्लि-नाथः - AK.03.01.108
बुद्धं—अवगते । अवगतनामानि ॥ ऊरीकृतं—उपगतम् । अङ्गीकृतनामानि ॥ १०८ ॥
[[०३.१५१]]
अक्।०३.०१.१०९च्द् ईडितशस्तपणायितपनायितप्रणुतपणितपनितानि ॥ १०९ ॥
मूलम् - ०३.०१.११०
अक्।०३.०१.११०अब् अवगीर्णवर्णिताभिष्टुतेलितानि स्तुतार्थानि ।
लिङ्ग-सूरी - AK.03.01.109
ईडितेति—ईड्यत इतीडितम् । ईलितं च । ʻईड स्तुतü । शस्यत इति शस्तम् । ʻशंसु स्तुतü । पणाय्यते स्तूयते पणायितम् । पणितं च । ʻपण व्यवहारे स्तुतौ च्ö । पनाय्यते पनायितं पनितं च । ʻपन स्तुतü । प्रणूयत इति प्रणुतम् । ʻणु स्तुतü । अवगीर्यते स्तूयत इत्यवगीर्णम् । ʻगॄ शब्दे । वर्ण्यत इति वर्णितम् । ʻवर्ण वर्णक्रियाविस्तारगुणवचनेष्ü । अभिष्टूयत इत्यभिष्टुतम् । स्तुतं च । ʻष्टुञ् स्तुतü । स्तुतस्य नामानि ॥ १०९ ॥
ईडित—स्तुतार्थानि । ईडितादयः शब्दा एकादश स्तुतशब्दसमानार्थाः । ईड्यते स्तूयते स्म ईडितम् । ʻईड स्तुतü । लडयोरेकत्वे ईलितं च ॥ शस्यते स्म शस्तम् । ʻशंसु स्तुतü ॥ पण्यते स्म पणितम् । ʻपण व्यवहारे स्तुतौ च्ö । मूर्धन्यपञ्चम-मध्यम् । ʻपन च्ö इति धातोस्तु पनितमिति दन्त्यपञ्चम-मध्यम् । आभ्यामेव धातुभ्याम् ʻआयादय आर्धधातुके व्ȫ (३। १। ३१) इति विकल्पेन आयादेशे पणायितं पनायितं च ॥ ʻणु स्तुतü इत्यस्मात् प्रपूर्वात् प्रणुतम् । ʻउपसर्गादसमासेऽपि ॥ । (८। ४। १४) इति णत्वम् । ʻगॄ शब्दे इत्यस्माद् अवपूर्वाद् अवगीर्णम् ॥ ʻवर्ण स्तुतü इत्यस्माद् वर्णितम् ॥ ʻष्टुञ् स्तुतü इत्यस्मात् स्तुतम् । तत एवाभिपूर्वाद् अभिष्टुतम् ॥ १०९ ॥
मल्लि-नाथः - AK.03.01.109
ईडित—स्तुतार्थानि । स्तुतनामानि ॥ १०९ ॥
[[०३.१५२ ]]
अक्।०३.०१.११०च्द् भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् ॥ ११० ॥
मूलम् - ०३.०१.१११
अक्।०३.०१.१११अब् अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ।
लिङ्ग-सूरी - AK.03.01.110
भक्षितेति—भक्ष्यत इति भक्षितम् । ʻभक्ष अदने । चर्व्यत इति चर्वितम् । ʻचर्व अदने । लिप्यते भक्ष्यत इति लिप्तम् । ʻलिप उपदेहे । लीढमिति वा पाठः । प्रत्यवसीयत इति प्रत्यवसितम् । ʻषोऽन्तकर्मणि । गिल्यत इति गिलितम् । ʻगिल अदने । खाद्यत इति खादितम् । ʻखादृ भक्षणे । प्सायत इति प्सातम् । ʻप्सा रक्षणभक्षणयोḵ । अभ्यवह्रियते भक्ष्यत इति अभ्यवहृतम् । अद्यत इत्यन्नम् । जग्धं च । ʻअद भक्षणे । ग्रस्यत इति ग्रस्तम् । ग्लस्यत इति ग्लस्तम् । ʻग्रसु ग्लसु अदने । अश्यत इत्यशितम् । ʻअश भोजने । भुज्यत इति भुक्तम् । ʻभुज पालनाभ्यवहारयोḵ । भुक्तस्य नामानि ॥ ११०॥
भक्षित—भुक्ते । भुक्तस्यान्नादेर्नामानि । ʻभक्ष अदने इत्यस्माद् भक्षितम् ॥ ʻचर्व अदने इत्यस्मानात् चर्वितम् ॥ धातूनामनेकार्थत्वाद् भक्षणरूपार्थे वर्तमानात् ʻलिप उपदेहे इत्यस्मात् लिप्तम् ॥ उपसर्गद्वयवशाद् भक्षणे वर्तमानात् स्यतेः प्रत्यवसितम् ॥ ʻगिल अदने इत्यतो गिलितम् ॥ ʻखादृ भक्षणे इत्यतः खादितम् ॥ ʻप्सा भक्षणे इत्यस्मात् प्सातम् ॥ अभ्यवपूर्वाद् ʻहृञ् हरणे इत्यस्माद् अभ्यवहृतम् ॥ अद्यते स्म जग्धम् । ʻअद भक्षणे । ʻअदो जग्धिर्ल्यप्ति किति (२। ४। ३६) इति जग्धादेशः । अस्मादेव धातोः ʻअन्नाण्णḵ (४। ४। ८५) इति निर्देशसामर्थ्याद् अन्नम् ॥ ʻग्रसु ग्लसु अदने इत्याभ्यां धातुभ्यां ग्रस्तं ग्लस्तं च ॥ अश्यते स्म अशितम् । ʻअश भोजने । भुज्यते स्म भुक्तम् ॥ ११० ॥
मल्लि-नाथः - AK.03.01.110
भक्षित—भुक्ते । भुक्तनामानि ॥ ११० ॥
[[०३.१५३]]
अक्।०३.०१.१११च्द् क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥
अक्।०३.०१.११२अब् क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्थाः ।
kṣepiṣṭheti—atiśayena kṣipraḥ kṣepiṣṭhaḥ . atiśayena kṣudraḥ kṣodiṣṭhaḥ . atiśayena priyaḥ preṣṭhaḥ . atiśayena uruḥ variṣṭhaḥ . atiśayena sthūlaḥ sthaviṣṭhaḥ . atiśayena bahulaḥ baṃhiṣṭhaḥ . ete śabdāḥ kramāt kṣiprakṣudrābhīpsitapṛthupīvarabahūnāṃ prakarṣārthā atiśayārthā bhavanti .. 111 ..
क्षेपिष्ठ—प्रकर्षार्थाः । क्षिप्रादीनां बह्वन्तानां षण्णां मध्ये ये पदार्थाः क्षिप्रत्वादितत्तद्धर्मप्रकर्षवन्तो भव।न्ति तथाभूतार्थवचना इष्ठन्प्रत्ययान्ताः क्षेपिष्ठादयः षडपि शब्दाः क्रमेण भवन्तीत्यर्थः । अतिशयेन क्षिप्र इति विग्रहे ʻअतिशायने तमबिष्ठनü (५। ३। ५५) इतीष्ठन् प्रत्यये, ʻस्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणḵ (६। ४। १५६) इति यणादिपरस्य लोपे पूर्वस्य च गुणे क्षेपिष्ठः । एवं क्षुद्रशब्दादपि क्षोदिष्ठः ॥ द्वितीयार्धे वृत्तानुरोधात् प्रयुक्तेन अभीप्सितपदेन तत्पर्यायः प्रियशब्दो लक्षितः । ततश्च अतिशयेन प्रिय इति विग्रहे ʻप्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाḵ (६। ४। १५७) इति सूत्रेण प्रियशब्दस्य प्रादेशे प्रेष्ठः ॥ पृथुशब्देन तत्पर्यायः उरुशब्दो लक्ष्यते । ततश्च अतिशयेन उरुरिति विग्रहे उरुशब्दस्य ʻप्रियस्थिर ॥ । इत्यादिना (६। ४। १५७) वरादेशे च वरिष्ठः ॥ पीवरशब्देन तत्समानार्थः स्थूलशब्दोऽभिप्रेतः । ततश्च अतिशयेन स्थूल इति विग्रहे इष्ठनि यणादिलोपे गुणे च स्थविष्ठः ॥ बहुशब्देन बहुलशब्दोऽभिप्रेतः । तस्य ʻप्रियस्थिर ॥ । इत्यादिना (६। ४। १५७) बंहादेशे बंहिष्ठः ॥ १११ ॥
मल्लि-नाथः - AK.03.01.111
क्षेपिष्ठ—प्रकर्षार्थाः । क्षेपिष्टादयः शब्दाः क्षिप्रादीनां प्रकर्षार्थकाः । अतिशयेन क्षिप्रः क्षेपिष्ठः । अतिशयेन क्षुद्रः क्षोदिष्ठः । अतिशयेन प्रियः प्रेष्ठः अतिशयेन उरुः वरिष्ठः । अतिशयेन स्थूलः स्थविष्ठः । अतिशयेन बहुलो बंहिष्ठः ॥ १११ ॥
[[०३.१५४]]
अक्।०३.०१.११२च्द् साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः ॥ ११२ ॥
मूलम् - ०३.०१.११३
अक्।०३.०१.११३अब् बाढव्यायतबहुगुरुवामनवृन्दारकातिशये ॥
इति श्रीमदमरसिंहकृते नामलिङ्गानुशासने विशेष्यनिघ्नवर्गः
लिङ्ग-सूरी - AK.03.01.112
साधिष्ठेति—अतिशयेन बाढः साधिष्ठः । अतिशयेन दीर्घो द्राघिष्ठः । अतिशयेन स्फिरः स्फेष्ठः । अतिशयेन गुरुः गरिष्ठः । अतिशयेन ह्रस्वो ह्रसिष्ठः । अतिशयेन वृन्दारको मनोज्ञो वृन्दिष्ठः । एते शब्दाः क्रमेण बाढव्यायतबहुगुवामनवृन्दारकाणाम् अतिशयार्था भवन्ति ॥ ११२ ॥
इति वङ्गलभट्टोपाध्यायसूरिसुतलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ विशेष्यनिघ्नवर्गः समाप्तः
साधिष्ठ—अतिशये । अत्रातिशयशब्दोऽतिशयवति वर्तते । बाढादीनां मध्ये तत्तद्धर्मातिशययोगिनि प्रथमार्थे द्वन्द्वसमाससङ्गृहीता इष्ठन्प्रत्ययान्ताः साधिष्ठादयः शब्दा वर्तन्ते । अतिशयेन बाढ इति विग्रहे ʻअन्तिकबाढयोर्नेदसाधü (५। ३। ६३) इति साधादेशे सति साधिष्ठः ॥ अत्रापि वृत्तानुरोधात् प्रयुक्तेन व्यायतशब्देन तत्पर्यायो दीर्घशब्दोऽभिप्रेतः । अतिशयेन दीर्घ इति विग्रहे ʻप्रियस्थिर ॥ । इत्यादिना (६। ४। १५७) दीर्घशब्दस्य द्राघ्यादेशे द्राधिष्ठः ॥ बहुशब्देन तत्पर्यायस्फिरशब्दो गृह्यते । तस्य स्फ इत्यादेशे स्फेष्ठः ॥ गुरुशब्दस्य गरादेशे गरिष्ठः ॥ इह वामनशब्देन ह्रसवशब्दो विवक्षितः । तस्य ʻस्थूलदूर ॥ । इत्यादिना (६। ४। १५६) यणादिलोपे ह्रसिष्ठः ॥ ʻवृन्दारके सुरे श्रेष्ठे मनोज्ञे वाच्यलिङ्गवत् इति प्रतापमार्तण्डेनाभिधानाद् इह वृन्दारकशब्देन मनोज्ञः श्रेष्ठश्च विवक्षितः । तत्र अतिशयविवक्षायां वृन्दादेशे वृन्दिष्ठः ॥ उपलक्षणमेतत् । एवमेव क्षुद्रादिशब्देभ्यः तत्तदतिशयविवक्षायां तमप्प्रत्ययान्ता अप्युदाहार्याः । यथा—क्षिप्रतमः, प्रियतम इत्यादयः । तथा ʻद्विवचनविभज्योपपदे तरबीयसुनü (५। ३। ५७) इति सूत्रेण तरप्प्रत्ययान्ता ईयसुन्प्रत्ययान्ताश्च विशेष्यनिघ्नत्वेन विज्ञेया इति सर्वं समञ्जसम् ॥ ११२ ॥
बोम्मगण्ट्यप्पयार्येण नामलिङ्गानुशासने ।
विशेष्यनिघ्नवर्गस्य सङ्क्षिप्य व्याकृतिः कृता ॥
इह यत्त्यक्तमज्ञानादालस्याद् यदुपेक्षितम् ।
प्रमादादन्यथोक्तं यत् तद्विद्वद्भिर्विशोध्यताम् ॥
इति विशेष्यनिघ्नविवरणं समाप्तम्
मल्लि-नाथः - AK.03.01.112
साधिष्ठ—अतिशये । साधिष्ठादयो बाढादीनामतिशयार्थकाः । अतिशयेन बाढः साधिष्ठः । अतिशयेन दीर्घो द्राघिष्ठः । अतिशयेन स्फिरः स्फेष्ठः । अतिशयेन गुरुर्गरिष्ठः । अतिशयेन ह्रस्वो ह्रसिष्ठः । अतिशयेन वृन्दारको वृन्दिष्ठः ॥ ११२ ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचितेऽमरपदपारिजाते विशेष्यनिघ्नवर्गः
[[०३.१५६]]