द्वितीयकाण्डः
वर्गभेदाः
मूलम् - ०२.००.००१
(०२.००.००१अब्) वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः ।
(०२.००.००१च्द्) नृब्रह्मक्षत्रविट्शूद्रैः साङ्गोपाङ्गैरिहोदिताः ॥ १ ॥
लिङ्ग-सूरी - AK.02.01.001
एवं प्रथमकाण्डं परिसमाप्य द्वितीयकाण्डे वक्ष्यमाणवर्गान् सङ्ग्रहेण वक्ति वर्गाः पृथ्वीतिश्लोकेन । पृथ्वी च पुरं च क्ष्माभृच्च वनौषधिश्च मृगादिश्च, तैरिह काण्डे पृथ्वीप्रभृतिभिः नृब्रह्मक्षत्रविट्शूद्रैः साङ्गोपाङ्गैः, अङ्गप्रत्यङ्गसहितैः वर्गा उदिताः वक्तुमुपक्रान्ताः ॥ १ ॥