मूलम् - ०२.१०.००१
(०२.१०.००१अब्) शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः ।
(०२.१०.००१च्द्) आचण्डालात्तु सङ्कीर्णा अम्बष्ठकरणादयः ॥ १ ॥
लिङ्ग-सूरी - AK.02.10.001
अथ क्रमप्राप्तां शूद्रवर्गविवृतिमुपक्रमते—शूद्रा इति । शुद्धानां शुदं शोधनं दानेन रान्तीति शूद्राः । ‘रा दानेऽ । शुद्धान् स्वस्पर्शनेन उन्दन्ति सेचयन्तीति वा शूद्राः । ‘उन्दी क्लेदनेऽ । अवरोऽधमो वर्णो येषां ते अवरवर्णाः । वृषं धर्मं धनेन लान्तीति वृषलाः । ‘ला आदानेऽ । ब्रह्मणो जघन्यात् पादात् जाताः जघन्यजाः । शूद्रनामानि ॥ सङ्कीर्यन्ते परस्परं मिश्रीभवन्तीति सङ्कीर्णाः । ‘कॄ विक्षेपेऽ । अम्बष्ठादिचण्डालान्तस्य सङ्करजातीयस्य नाम ॥ १ ॥
मल्लि-नाथः - AK.02.10.001
शूद्राश्चावरवर्णाश्च—जघन्यजाः । शूद्रनामानि । ‘पादजा द्विजपोताश्चऽ । एते द्वे च ॥ आ चण्डालात्तु—करणादयः । भिन्नजातिमातापितृकत्वात् चण्डालावधिका अम्बष्ठकरणादयः सङ्कीर्णजातयः । ‘शूद्राः सङ्कीर्णजा अपिऽ इति शास्त्रात् शूद्रा एव सङ्कीर्णजातयः ॥ १ ॥
[[०२.६२१]]
मूलम् - ०२.१०.००२
(०२.१०.००२अब्) शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः
(०२.१०.००२च्द्) शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः ॥ २ ॥
लिङ्ग-सूरी - AK.02.10.002
शूद्रेति—विलेपनादि कर्म करोतीति करणः । ‘डुकृञ् करणेऽ । वैश्यात् शूद्रायां जातस्य नाम ॥ अम्बासमीपे तिष्ठति चिकित्सार्थमिति अम्बष्ठः । ‘ष्ठा गतिनिवृत्तौऽ । वैश्यायां ब्राह्मणात् जातस्य नाम ॥ उच्यति समवैति वर्णद्वयमिति उग्रः । ‘उच समवायेऽ । शूद्रायां क्षत्रियाज्जातस्य नाम ॥ मगध्यति राजानं स्तौतीति मागधः । ‘मगध स्तुतौऽ । क्षत्रियायां वैश्याज्जातस्य नाम ॥ २ ॥
मल्लि-नाथः - AK.02.10.002
शूद्राविशोस्तु करणः । शूद्रायां वैश्यादुत्पन्नः करणः स्यात् । स चायव्ययादिलेखनोपजीवी । स्त्रियां टित्त्वाद् ङीपि करणी ॥ अम्बष्ठो वैश्याद्विजन्मनोः । वैश्यस्त्रीब्राह्मणपुरुषयोरुत्पन्नपुत्रोऽम्बष्ठः स्यात् । स च चिकित्सोपजीवी ॥ शूद्राक्षत्रिययोरुग्रः । शूद्रायां क्षत्रियोत्पन्न उग्रः स्यात् । स च कोशदुर्गरक्षणोपजीवी ॥ मागधः क्षत्रियाविशोः । क्षत्रियस्त्रीवैश्यपुरुषयोरुत्पन्नः पुत्रो मागधः स्यात् । स च वंशवीर्यादिस्तुत्युपजीवी । अनुक्तम्—शूद्राद्विजन्मनोः पारशवः । शूद्रायां ब्राह्मणोत्पन्नः पारशवः स्यात् । स च कालिकापूजनाद्युपजीवी ॥ राज्ञीद्विजन्मनोर्मूर्धावसिक्तः । क्षत्रियायां ब्राह्मणादुत्पन्नः मूर्धावसिक्तः स्यात् । स धनुर्वेदोपजीवी ॥ राज्ञीशूद्रयोः पारधेनुकः । क्षत्रियायां शूद्रादुत्पन्नः पारधेनुकः स्यात् । स च मृगपक्षिबन्धनोपजीवी ॥ २ ॥
[[०२.६२१]]
मूलम् - ०२.१०.००३
(०२.१०.००३अब्) माहिष्योऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः ।
(०२.१०.००३च्द्) ब्राह्मण्यां क्षत्रियात् सूतस्तस्यां वैदेहको विशः ॥ ३ ॥
लिङ्ग-सूरी - AK.02.10.003
माहिष्य इति—राजमहिषीरक्षणे नियुक्तो माहिष्यः । क्षत्रियात् वैश्यायां जातस्य नाम ॥ क्षदतेऽश्वान् ताडयतीति क्षत्ता । ‘क्षदि हिंसार्थेऽ । अर्यायां शूद्राज्जातस्य नाम ॥ सुवति प्रेरयत्यश्वानिति सूतः । ‘षू प्रेरणेऽ । ब्राह्मणयोषिति क्षत्रियाज्जातस्य नाम ॥ विदेहे पण्यस्य विविधोपचयेन वर्तमानः वैदेहकः । तस्यामेव ब्राह्मण्यां वैश्याज्जातस्य नाम ॥ ३ ॥
मल्लि-नाथः - AK.02.10.003
माहिष्योऽर्याक्षत्रिययोः । वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः स्यात् । स च भरतशास्त्रोपजीवी ॥ क्षत्तार्याशूद्रयोः सुतः । वैश्यायां शूद्रादुत्पन्नः सुतः क्षत्ता स्यात् । ऋदन्तः । दूत्यद्वारपाल्योपजीवी ॥ ब्राह्मण्यां क्षत्रियात् सूतः । ब्राह्मण्यां क्षत्रियादुत्पन्नः सुतः सूतः स्यात् । सारथ्योपजीवी ॥ तस्यां वैदेहिको विशः । ब्राह्मण्यां वैश्यादुत्पन्नः वैदेहकः स्यात् । स्तुत्युपजीवी । स एव बन्दी ॥ ३ ॥
[[०२.६२२]]
मूलम् - ०२.१०.००४
(०२.१०.००४अब्) रथकारस्तु माहिष्यात् करण्यां यस्य सम्भवः ।
(०२.१०.००४च्द्) स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥
लिङ्ग-सूरी - AK.02.10.004
रथकार इति—रथं करोतीति रथकारः । करण्यां माहिष्याज्जातस्य नाम ॥ चण्डाय उग्रकर्मणेऽलति पर्याप्त इति चण्डालः । ‘अल भूषणपर्याप्तिशक्तिवारणेषुऽ । ब्राह्मण्यां शूद्राज्जातस्य नाम ॥ ४ ॥
मल्लि-नाथः - AK.02.10.004
रथकारस्तु माहिष्यात्—सम्भवः । शूद्रावैश्ययोर्जातायां वैश्याक्षत्रियजातादुत्पन्नो रथकारः स्यात् । रथवास्तुकर्मोपजीवी । स्याच्चण्डालस्तु—वृषलेन यः । ब्राह्मणस्त्रीशूद्रपुरुषयोरुत्पन्नः पुत्रः चण्डालः स्यात् । स च वीथीमलोत्सारणोपजीवी ॥ ४ ॥
[[०२.६२२]]
मूलम् - ०२.१०.००५
(०२.१०.००५अब्) कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः ।
(०२.१०.००५च्द्) कुलकः स्यात् कुलश्रेष्ठी मालाकारस्तु मालिकः ॥ ५ ॥
लिङ्ग-सूरी - AK.02.10.005
कारुरिति—करोति शिल्पादिकर्म कारुः । शिल्पिकर्मास्यास्तीति शिल्पी । तन्तुवायनापितरजकचर्मकारादिनामनी ॥ श्रियत इति श्रेणिः । ‘श्रिञ् सेवायाम्ऽ । स्वजातीयशिल्पिसङ्घस्य नाम ॥ कुलं करोति श्रेष्ठत्वेनेति कुलकः । कुलिक इति वा पाठः । कुलश्रेष्ठिनो नाम ॥ मालां करोतिति मालाकारः । माला शिल्पमस्यास्तीति मालिकः । पुष्पजीविनो नामनी ॥ ५ ॥
मल्लि-नाथः - AK.02.10.005
कारुः शिल्पी । कारुनामनी । तक्षकरजकनापितादीनां साधारणाभिधानम् ।
‘तक्षा च तन्तुवायश्च नापितो रजकस्तथा ।
पञ्चमश्चर्मकारश्च कारवः शिल्पिनश्च ते ॥ऽ
संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः । कर्मणा सजातीयानां कारूणां सङ्घातः श्रेणिः स्यात् ॥ कुलकः स्यात् कुलश्रेष्ठः । कुले श्रेष्ठः कुलकः स्यात् । ‘कुलकः स्यात् कुलश्रेष्ठे वल्मीके काकतिन्दुकेऽ इति विश्वप्रकाशिका (पृ। ७, श्लो। ५९) । कुलश्रेष्ठीति रभसकोशानुसारिपाठात् कुलश्रेष्ठी च स्यात् ॥ मालकारस्तु मालिकः । पुष्पमालानिर्मातृनामनी । पुष्पलावो वनार्चकः । एते द्वे च ॥ ५ ॥
[[०२.६२३]]
मूलम् - ०२.१०.००६
(०२.१०.००६अब्) कुम्भकारः कुलालः स्यात् पलगण्डस्तु लेपकः ।
(०२.१०.००६च्द्) तन्तुवायः कुविन्दः स्यात् तुन्नवायस्तु सौचिकः ॥ ६ ॥
लिङ्ग-सूरी - AK.02.10.006
कुम्भकार इति—कुम्भं करोतीति कुम्भकारः । कुं भूमिं मृदर्थं लडति मृद्नातीति कुलालः । ‘लड मर्दनेऽ । कुलैः कुम्भकुलैर्गृहमलति भूषयतीति वा । ‘अल भूषणादौऽ । कुम्भकारनामनी ॥ पलेन मांसेनेव मृदादिना गडति भित्त्यादिकमिति पलगण्डः । ‘गड सेचनेऽ । लिम्पति सुधादिना प्रासादादिकमिति लेपकः । ‘लिप उपदेहेऽ । सुधालेपोपजीविनो नामनी ॥ तन्तून् वयतीति तन्तुवायः । ‘वेञ् तन्तुसन्तानेऽ । पटादिरचनार्थं कुं भुवं विन्दतीति कुविन्दः । ‘विदिर् लाभेऽ । वस्त्रकारनामनी ॥ तुन्नं त्रुटितं वस्त्रादि वयति सूच्यादिना तुन्नवायः । सूचीशिल्पमस्यास्तीति सौचिकः । सूचिक इति वा पाठः । कूर्पासादिकारिणो नामनी ॥
मल्लि-नाथः - AK.02.10.006
कुम्भकारः कुलालः स्यात् । घटादिनिर्मातृनामनी । ‘कुम्मलिऽ । पलगण्डस्तु लेपकः । भित्त्यादिलेपकनामनी । ‘उप्पलिऽ । तन्तुवायः कुविन्दः स्यात् । पटकारनामनी । शालिकः पटकारश्च । एते द्वे च ॥ तुन्नवायस्तु सौचिकः । कञ्चुकादिकारनामनी । ‘चिप्पिवाडुऽ ॥ ६ ॥
[[०२.६२४]]
मूलम् - ०२.१०.००७
(०२.१०.००७अब्) रङ्गाजीवश्चित्रकारः शस्त्रमार्जोऽसिधावकः ।
(०२.१०.००७च्द्) पादूकृच्चर्मकारः स्याद् व्योकारो लोहकारकः ॥ ७ ॥
लिङ्ग-सूरी - AK.02.10.007
रङ्गाजीव इति—रङ्गेण चित्रवर्णेन आजीवतीति रङ्गाजीवः । ‘जीव प्राणधारणेऽ । चित्रं करोतीति चित्रकारः । चित्रकारनामनी ॥ शस्त्रं मार्ष्टीति शस्त्रमार्जः । ‘मृजूष् शुद्धौऽ । असिं धावतीति असिधावकः । ‘धावु गतिशुद्ध्योःऽ । आयुधशोधकनामनी ॥ पादूं पादुकां करोतीति पादूकृत् । ‘डुकृञ् करणेऽ । चर्म करोतीति चर्मकारः । चर्मकारस्य नामनी ॥ व्योऽयः करोतीति व्योकारः । विशेषेण लोहामियर्तीति वा । लोहकारकनामनी ॥ ७ ॥
मल्लि-नाथः - AK.02.10.007
रङ्गाजीवश्चित्रकरः । आलेख्यकारनामनी । ‘चित्तरुवुव्राशिवाडुऽ ॥ शस्त्रमार्जोऽसिधावकः । शाणिकनामनी । ‘सानपट्टिवाडुऽ ॥ पादूकृच्चर्मकारः स्यात् । पादरक्षकारनामनी ॥ व्योकारो लोहकारकः । लोहकृन्नामनी । ‘कमरिऽ । कर्मारश्चाप्ययस्कारः । एते द्वे च ॥ ७ ॥
[[०२.६२४]]
मूलम् - ०२.१०.००८
(०२.१०.००८अब्) नाडिन्धमः स्वर्णकारः कलादो रुक्मकारके ।
(०२.१०.००८च्द्) स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः ॥ ८ ॥
लिङ्ग-सूरी - AK.02.10.008
नाडिन्धम इति—नाडीं धमतीति नाडिन्धमः । ‘ध्मा परणेऽ । स्वर्णं करोतीति स्वर्णकारः । कलं स्वर्णादिकमाद्यतीति कलादः । ‘दोऽवखण्डनेऽ । रुक्मं करोतीति रुक्मकारकः । भूषणकारिणो नामानि ॥ शङ्खस्य विकारः शाङ्खम् । तत्पण्यमस्येति शाङ्खिकः । कम्बोर्विकारः काम्बवम् । तत्पण्यमस्येति काम्बविकः । शङ्खध्मानशिल्पिनः शङ्खपण्याजीविनो वा नामनी ॥ शुल्बं ताम्रं तत्पण्यमस्येति शौल्बिकः । ताम्रं कुट्टयतीति ताम्रकुट्टकः । ‘कुट्ट छेदनभर्त्सनयोःऽ । ताम्रपण्याजीविनो नामनी ॥ ८ ॥
मल्लि-नाथः - AK.02.10.008
नाडिन्धमः स्वर्णकारः—रुक्मकारकः । सुवर्णकारनामानि ॥ स्याच्छाङ्खिकः काम्बविकः । शङ्खकारनामनी । अनुक्तम्—मणिकारो वैकटिकः । रत्नकारनामनी ॥ शौल्बिकस्ताम्रकुट्टकः । ताम्रपात्रकारनामनी । ‘चेम्बुचेशे वाडुऽ ॥ ८ ॥
[[०२.६२५]]
मूलम् - ०२.१०.००९
(०२.१०.००९अब्) तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् ।
(०२.१०.००९च्द्) ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ ९ ॥
लिङ्ग-सूरी - AK.02.10.009
तक्षेति—तक्ष्णोति काष्ठादिकमिति तक्षा । नकारान्तोऽयम् । ‘तक्षू तनूकरणेऽ । वर्धयति छिनत्ति काष्ठादिकमिति वर्धकिः । ‘वर्ध छेदनेऽ । त्वक्ष्णोति तनूकरोति काष्ठानीति त्वष्टा । ‘त्वक्षू तनूकरणेऽ । रथं करोतीति रथकारः । काष्ठं तक्ष्णोतीति काष्ठतट् । स्थपतिनामानि ॥ ग्रामस्य तक्षा ग्रामतक्षः । ग्रामाधीनस्थपतिनाम ॥ कुट्यां स्वगृहे वर्तमानः कौटः । स चासौ तक्षा च कौटतक्षः । स्वगृह एवात्मकर्मोपजीविस्थपतिनाम ॥ ९ ॥
मल्लि-नाथः - AK.02.10.009
तक्षा । नान्तः । तु वर्धकिः—काष्ठतट् । वर्धकिनामानि । ‘वड्लवाडुऽ । काष्ठतट् काष्ठतक्षौ काष्ठतक्षः । ग्रामाधीनो ग्रामतक्षः । ग्रामाधीनो वर्धकिर्ग्रामतक्षः स्यात् । कौटतक्षोऽनधीनकः । स्वाधीनो वर्धकिः कौटतक्षः स्यात् । अनुक्तम्—स्यादश्मकुट्टकः कूटः । शिलाकुट्टकनामनी ॥ तैलिकश्चाक्रिकः समौ । तिलन्तुदनामनी ॥ ९ ॥
[[०२.६२६]]
मूलम् - ०२.१०.०१०
(०२.१०.०१०अब्) क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः ।
(०२.१०.०१०च्द्) निर्णेजकः स्याद् रजकः शौण्डिको मण्डहारकः ॥ १० ॥
लिङ्ग-सूरी - AK.02.10.010
क्षुरीति—क्षुरशिल्पमस्यास्तीति क्षुरी । केशान् मुण्डयति मुण्डी । ‘मुडि खण्डनेऽ । दिवैव कीर्त्यते दिवाकीर्तिः । ‘कॄत संशब्दनेऽ । श्रेष्ठकुले न पततीति नापितः । नाप्नोत्यस्पृश्यत्वादिति वा । ग्रामस्यान्ते समीपे आवसत इति अन्तावसायी । अन्तेऽवसातुं शीलमस्येति वा । ‘षोऽन्तकर्मणिऽ । नापितनामानि ॥ निर्णेनेक्ति वस्त्रं शोधयतीति निर्णेजकः । ‘णिजिर् शौचपोषणयोःऽ । रञ्जयति वस्त्राणीति रजकः । ‘रञ्ज रागेऽ । वस्त्रशोधकनामनी ॥ शुण्डा सुरा पण्यमस्यास्तीति शौण्डिकः । मण्डमच्छसुरां हरतीति मण्डहारकः । ‘हृञ् हरणेऽ । सुरापण्यजीविनो नामनी ॥ १० ॥
मल्लि-नाथः - AK.02.10.010
क्षुरी मुण्डी—अन्तावसायिनः नापितनामानि ‘मङ्गलिऽ । चण्डिलः क्षुरमर्दी च । एते द्वे च ॥ निर्णेजकः स्याद्रजकः । वस्त्रधावकनामनी । शौण्डिको मण्डहारकः । सुरापण्यजीविनामनी । सुराजीवी सौरिकश्च । एते द्वे च । ‘कल्पपालस्तु शौण्डिकःऽ इति हलायुधः (अ। मा। २। ४३८) ॥ १० ॥
[[०२.६२६]]
मूलम् - ०२.१०.०११
(०२.१०.०११अब्) जाबालः स्यादजाजीवो देवाजीवस्तु देवलः ।
(०२.१०.०११च्द्) स्यान्माया शाम्बरी मायाकारस्तु प्रातिहारिकः ॥ ११ ॥
लिङ्ग-सूरी - AK.02.10.011
जाबाल इति—जबमलतीति जबालो छागः, तस्यायं जाबालः । अजाः पालयतीति वा । अजा एव आजीवो जीवनमस्येति अजाजीवः । अजापालनामनी ॥ देवः आजीवोऽस्य देवाजीवः । देवान् अलति पूजयतीति देवलः । देवान् पूजार्थं लातीति वा । ‘ला आदानेऽ । देवपूजाजीविनो नामनी ॥ मीनातीति माया । ‘मीञ् हिंसायाम्ऽ । मयस्येयं वा । शम्बरासुरस्येयं माया शाम्बरी । कुहकस्य नामनी ॥ मायां करोतीति मायाकारः । प्रतिहरति संहरति सर्वेषां दृङ्मनसी इति प्रतिहारः माया । स अस्यास्तीति प्रातिहारिकः । इन्द्रजालिकनामनी ॥ ११ ॥
मल्लि-नाथः - AK.02.10.011
जाबालः स्यादजाजीवः । अजाजीविनो नामनी । ‘कुरुबऽ ॥ देवाजीवस्तु देवलः । ‘तम्मलवाण्डुऽ । शूद्रस्य ब्राह्मणस्य वा देवार्चनजीविनो नामनी । तथा च स्मृतिः—
‘देवार्चनपरो विप्रः शूद्रो वा वत्सरत्रयम् ।
जीवेद् देवलको नाम ह्यर्चकश्चैषु गण्यते ॥ऽ
इति ॥ स्यान्माया शाम्बरी । इन्द्रजालनामनी ॥ मायाकारस्तु प्रातिहारिकः । इन्द्रजालविद्याविशारदनामनी ॥ ११ ॥
[[०२.६२७]]
मूलम् - ०२.१०.०१२
(०२.१०.०१२अब्) शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः ।
(०२.१०.०१२च्द्) भरता इत्यपि नटाश्चारणास्तु कुशीलवाः ॥ १२ ॥
लिङ्ग-सूरी - AK.02.10.012
शैलेति—शिलालिना कृशाश्वेन प्रोक्तं सूत्रमधीयत इति शैलालिनः, कृशाश्विनश्च । ‘इङ् अध्ययनेऽ । शिलूषस्यापत्यानि शैलूषाः । जायया जीवन्तीति जायाजीवाः । भरतस्य मुनेरपत्यानि शिष्या वा भरताः । नटन्तीति नटाः । ‘नट नृत्तौऽ । नटनामानि ॥ दिक्षु कीर्तिं चारयन्तीति चारणाः । ‘चर गतौऽ । कुत्सितं शीलं कुशीलम् । तदेषामस्तीति कुशीलवाः । बन्दिविशेषनामनी ॥ १२ ॥
मल्लि-नाथः - AK.02.10.012
शैलालिनस्तु शैलूषा—नटाः । बहुरूपधरनामानि । भरता इत्यत्र उत्सादित्वादञ् (४। १। ८६) । भारतः, भारतौ । ‘यञञोश्चऽ (२। ४। ६४) इति बहुत्वे लुकि भरताः । चारणास्तु कुशीलवाः । नानादेशसञ्चारिनटगायकनामनी । ‘पेरडिवाण्डुऽ । अनुक्तम्—‘ये यष्ट्यादिषु नृत्यन्ति केलकाः प्लवकाश्च तेऽ । यष्टिक्रीडकनामनी ॥ ‘कोलाटलवाण्डुऽ ॥ १२ ॥
[[०२.६२८]]
मूलम् - ०२.१०.०१३
(०२.१०.०१३अब्) मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः ।
(०२.१०.०१३च्द्) वेणुध्माः स्युर्वैणविका वीणावादास्तु वैणिकाः ॥ १३ ॥
लिङ्ग-सूरी - AK.02.10.013
मार्दङ्गिका इति—मृदङ्गवादेन जीवन्तीति मार्दङ्गिकाः । मुरजवादनं शिल्पमेषामिति मौरजिकाः । मृदङ्गवाद्यजीविनां नामनी ॥ पाणी वादयन्तीति पाणिवादाः । ‘वद व्यक्तायां वाचिऽ । पाणी घ्नन्तीति पाणिघाः । ‘हन हिंसागत्योःऽ । पाणिभ्यां ये वादमुत्पादयन्ति तेषां नामनी ॥ वेणुं धमन्ति पूरयन्तीति वेणुध्माः । ‘ध्मा शब्दाग्निसंयोगयोःऽ । वेणोरिदं ध्मानं वैणवम् । तच्छीलमेषामस्तीति वैणविकाः । वांशिकनामनी ॥ वीणावादनमेषामस्तीति वीणावादाः । वीणा शिल्पमेषामिति वैणिकाः । वीणाजीविनां नामनी ॥ १३ ॥
मल्लि-नाथः - AK.02.10.013
मार्दङ्गिका मौरजिकाः । मर्दलवादकनामनी ॥ पाणिवादास्तु पाणिघाः । करतलवादकनामनी ॥ वेणुध्माः स्युर्वैणविकाः । वेणुवादकनामनी । ‘पिल्लकोविवूदवाण्डुऽ ॥ ‘वैणुको वांशिकस्तथाऽ । एते द्वे च ॥ वीणावादास्तु वैणिकाः वीणावादकनामनी । ‘वीणेलवारुऽ ॥ १३ ॥
[[०२.६२८]]
मूलम् - ०२.१०.०१४
(०२.१०.०१४अब्) जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ ।
(०२.१०.०१४च्द्) वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ॥ १४ ॥
लिङ्ग-सूरी - AK.02.10.014
जीवान्तक इति—जीवानां पक्षिणामन्तं नाशं करोतीति जीवान्तकः । शकुनान् पक्षिणो हन्तीति शाकुनिकः । जीवान्तकस्य नामनी ॥ वागुरया मृगबन्धिन्या चरतीति वागुरिकः । जालेन चरतीति जालिकः । येऽरण्यादौ मृगबन्धनाय जालेन चरन्ति तेषां नामनी ॥ मृगपक्ष्यादेर्बन्धनोपायो वितंसः । तेन चरतीति वैतंसिकः । कूटेन सामिषबन्धेन चरतीति कौटिकः । मांसं पण्यमस्य मांसिकः । मांसविक्रयजीविनो नामानि ॥ १४ ॥
मल्लि-नाथः - AK.02.10.014
जीवान्तकः शाकुनिकः । पक्ष्याखेटकनामनी । ‘गुव्वपेण्टिकाण्डुऽ । द्वौ वागुरिकजालिकौ । मृगाखेटकनामनी । ‘मेकमरुदवेङ्काण्डुऽ ॥ वैतंसिकः कौटिकश्च—समं त्रयम् । कौटिकनामानि । ‘कटिकारवाण्डुऽ ॥
‘विज्ञातव्यौ पक्षिमृगप्रभृतेर्वर्धनाधने ।
शब्दौ वितंसवीतंसौ कूटोऽस्त्री तत्र सामिषः ॥ऽ
इति माधवः । शेषकारश्च—
‘मृगपक्ष्यादिकं हत्वा मांसविक्रयजीविनि ।
किरातशबरम्लेच्छप्रभृतौ कौटिकादिकम् ॥ऽ
इति ॥ १४ ॥
[[०२.६२९]]
मूलम् - ०२.१०.०१५
(०२.१०.०१५अब्) भृतको भृतिभुक् कर्मकरो वैतनिकोऽपि सः ।
(०२.१०.०१५च्द्) वार्तावहो वैवधिको भारवाहस्तु भारिकः ॥ १५ ॥
लिङ्ग-सूरी - AK.02.10.015
भृतक इति—भ्रियत इति भृतकः । ‘डुभृञ् धारणपोषणयोःऽ । भृतिं वेतनं भुङ्क्ते भृतिभुक् । ‘भुज पालनाभ्यवहारयोःऽ । नियुक्तं कर्म करोतीति कर्मकरः । वेतनेन जीवतीति वैतनिकः । नियुक्तकर्मकारिणो नामानि ॥ धान्यादिवार्तां वहतीति वार्तावहः । ‘वह प्रापणेऽ । विवधः पर्याहारः सः पण्यं तेन वा जीवतीति वैवधिकः । पर्याहारवतो नामनी ॥ भारं वहतीति भारवाहः । भारिकश्च । भारवाहकनामनी ॥ १५ ॥
मल्लि-नाथः - AK.02.10.015
भृतको भृतिभुक्—वैतनिकश्च सः । भृत्युपजीविनामानि । ‘कूलिकाण्डुऽ । ‘भरटः स्याद्वैतनिकःऽ । एते द्वे च ॥ वार्तावहो वैवधिकः । वार्तावाहकनामनी । ‘परिकतवाण्डुऽ ॥ भारवाहस्तु भारिकः । भारवहनसमर्थकनामनी । ‘बाडीरडिङ्गरप्रेङ्खपालूकपरिकर्मिणःऽ । एतानि च ॥ १५ ॥
[[०२.६२९]]
मूलम् - ०२.१०.०१६
(०२.१०.०१६अब्) विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।
(०२.१०.०१६च्द्) निहीनोऽपशदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥
लिङ्ग-सूरी - AK.02.10.016
विवर्ण इति—विरुद्धो वर्णोऽस्येति विवर्णः । पामानं शोफं रातीति पामरः । ‘रा आदानेऽ । निकृष्टं चिनोतीति नीचः । ‘चिञ् चयनेऽ । प्रकृतौ भवो वर्तमानः प्राकृतः । जनेभ्यः पृथक् इतरः जनः पृथग्जनः । नियतं हिनोतीति निहीनः । नितरां हीयते जनैरिति वा । ‘हि गतौ वृद्धौ चऽ, ‘ओहाक् त्यागेऽ । अपशीयते हीनो भवतीति अपशदः । ‘शिञ् निशातनेऽ । अपसद इति वा पाठः । जलति जडो भवतीति जाल्मः । ‘जल घातनेऽ । तुच्छत्वात् क्षुधं लातीति क्षुल्लकः । ‘ला आदानेऽ । इतं तुच्छगमनं रातीति इतरः । ‘रा आदानेऽ । नीचजननामानि ॥ १६ ॥
मल्लि-नाथः - AK.02.10.016
विवर्णः पामरो—क्षुल्लकश्चेतरश्च सः । विवर्णादयो दश पामरवाचकाः । ‘नीचिडुऽ ॥ १६ ॥
[[०२.६३०]]
मूलम् - ०२.१०.०१७
(०२.१०.०१७अब्) भृत्ये दासेयदासेरदासगोप्यकचेटकाः ।
(०२.१०.०१७च्द्) नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः ॥ १७ ॥
लिङ्ग-सूरी - AK.02.10.017
भृत्य इति—भ्रियत इति भृत्यः । भरणीयो वा । ‘भृञ् भरणेऽ । दास्या अपत्यं दासेयः, दासेरश्च । दस्यति बहुतरकर्मणि उपक्षीयत इति दासः । ‘दसु उपक्षयेऽ । दीयत इति वा । ‘दीङ् क्षयेऽ । गोपनीयो रक्षणीयः गोप्यकः । ‘गुपू रक्षणेऽ । चेटति परप्रेष्यं करोतीति चेटः । ‘चिट परप्रेष्येऽ । नियुज्यते कर्मसु नियोज्यः । ‘युजिर् योगेऽ । किं करोमीति आज्ञां प्रतीक्षत इति किङ्करः । ‘डुकृञ् करणेऽ । प्रेषणीयः प्रैष्यः । ‘इष गतौऽ । प्रेष्य इति वा पाठः । वेतनं भुङ्क्ते भुजिष्यः । ‘भुज पालनाभ्यवहारयोःऽ । परिचरति स्वामिनमिति परिचारकः । ‘चर गतिभक्षणयोःऽ । भृत्यनामानि ॥ १७ ॥
मल्लि-नाथः - AK.02.10.017
भृत्ये दासेयदासेर—भुजिष्यपरिचारकाः । भृत्यनामानि । स्त्रियां तु दासी चेटी प्रेष्या परिचारिका । टाबपि किङ्करा । किङ्करीति प्रेष्यार्थे विधिः ॥ १७ ॥
[[०२.६३१]]
मूलम् - ०२.१०.०१८
(०२.१०.०१८अब्) पराचितपरिस्कन्दपरजातपरैधिताः ।
(०२.१०.०१८च्द्) मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ॥ १८ ॥
लिङ्ग-सूरी - AK.02.10.018
परिचित इति—परैराचीयते पोष्यत इति पराचितः । ‘चिञ् चयनेऽ । परैः स्कन्द्यते शोष्यते परस्कन्दः । ‘स्कन्दिर् गतिशोषणयोःऽ । परिस्कन्द इति वा पाठः । परस्मात् जात इव पुष्टः परजातः । परैरेधितो वर्धितः परैधितः । ‘एध वृद्धौऽ । परपोषितनामानि ॥ आलस्येन मन्दते स्वपितीति मन्दः । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषुऽ । पुनः पुनः तुन्दं परिमार्ष्टीति तुन्दपरिमृजः । ‘मृजृष् शुद्धौऽ । न लसति जाड्यादित्यलसः । अलस एव आलस्यः । ‘लस श्लेषणक्रीडनयोःऽ । शीत इव जडत्वात् शीतकः । न विद्यते उष्णमस्य जडत्वात् अनुष्णः । अलसनामानि ॥ १८ ॥
मल्लि-नाथः - AK.02.10.018
पराचितपरिस्कन्द—परैधिताः । परपुष्टवत् परैः संवर्धितनामानि । ‘परपुट्टुऽ । अनुक्तम्—‘बन्धके स्थित आयत्तःऽ । बन्धकार्थं स्थितनाम । ‘कुटुववृग्गवाडुऽ । ‘भक्तायावस्थितः कृतःऽ । अन्नस्य हेतोर्वसति यः स कृतः स्यात् । ‘कूटिकवुन्नवाण्डुऽ ॥ मन्दस्तुन्दपरिमृजः—अलसोऽनुष्णः । अलसनामानि । ‘सोमरिपोतुऽ ॥ १८ ॥
[[०२.६३१]]
मूलम् - ०२.१०.०१९
(०२.१०.०१९अब्) दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च ।
(०२.१०.०१९च्द्) चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः ॥ १९ ॥
(०२.१०.०२०अब्) निषादश्वपचावन्तेवासिचाण्डालपुल्कसाः ।
लिङ्ग-सूरी - AK.02.10.019-20
दक्ष इति—दक्षते कार्यं शीघ्रं करोतीति दक्षः । ‘दक्ष वृद्धौ शीघ्रार्थे चऽ । चतते कार्यमिति चतुरः । ‘चते याचनेऽ । पिंशति कार्यार्थं यत्र तत्र वा गच्छतीति पेशलः । ‘पिश गतौऽ । पाटयति प्रयोजनानीति पटुः । ‘पट गतौऽ । सुष्ठु उत्थानमुद्योगो यस्य सूत्थानः । ओषत्यकार्यमिति उष्णः । ‘उष दाहेऽ । चतुरनामानि ॥ चण्डते कुप्यतीति चण्डालः । ‘चडि कोपेऽ । प्लवते उग्रकर्मण इति प्लवः । ‘प्लुङ् गतौऽ । मा तङ्गति न गच्छति ग्राममध्यमिति मातङ्गः । ‘तगि गतौऽ । दिवैव कीर्त्यते दिवाकीर्तिः । ‘कॄत संशब्दनेऽ । सामर्थ्यात् जनं गच्छतीति जनङ्गमः । निषीदति पापमस्मिन्निति निषादः । ‘षद्लृ विशरणगत्यवसादनेषुऽ । श्वानं पचतीति श्वपचः । ‘डुपचष् पाकेऽ । ग्रामान्ते वसतीति अन्तेवासी । ‘वस निवासेऽ । चण्डाल एव चाण्डालः । पुलन्तीति पुलाः महान्तः । ‘पुल महत्त्वेऽ । तान् स्पर्शनेन कसति क्लेशयतीति पुल्कसः । ‘कस गतिशातनयोःऽ । चण्डालनामानि ॥ १९ ॥
मल्लि-नाथः - AK.02.10.019-20
दक्षे तु चतुर—सूत्थान उष्णश्च । चतुरनामानि । ‘पनिकि देहमु वाड्डिटिवाडुऽ ॥ चण्डालप्लवमातङ्ग—चाण्डालपुल्कसाः । [ पुत् ] पुण्यं कशतीति व्युत्पत्त्या पुल्कशस्तालव्यान्तः । दन्त्यान्त इति टीकासर्वस्वकारः (पृ। २६४) । चण्डालनामानि । ‘मालऽ ॥ १९ ॥
[[०२.६३२]]
(०२.१०.०२०च्द्) भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥ २० ॥
मूलम् - ०२.१०.०२१
(०२.१०.०२१अब्) व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ।
लिङ्ग-सूरी - AK.02.10.020-21
भेदा इति—किरातशबरपुलिन्दा म्लेच्छजातयो निषादभेदा भवन्ति । म्लेच्छतीति म्लेच्छः । ‘म्लेच्छ अव्यक्ते शब्देऽ । कीति शब्दं रातीति किरातः । ‘रा दानेऽ । शवति गच्छति वनमिति शबरः । ‘शव गतौऽ । पुलिन्ददेशे भवः पुलिन्दः । विध्यति मृगानिति व्याधः । ‘व्यध ताडनेऽ । मृगवधेन आजीवतीति मृगवधाजीवः । ‘जीव प्राणधारणेऽ । मृगान् हन्तुं यातीति मृगयुः । मृगान् मृगयते वा । ‘मृग अन्वेषणेऽ । मृगेषु लुभ्यति गृध्यतीति लुब्धकः । ‘लुभ गार्ध्येऽ । व्याधनामानि ॥ २० ॥
मल्लि-नाथः - AK.02.10.020
भेदाः किरात—म्लेच्छजातयः । बहुवचनग्रहणमुपलक्षणार्थम् । किरातशबरपुलिन्दनिष्ट्यावाहलभिल्लमालप्रभृतिम्लेच्छजातयश्चण्डालभेदा एव । व्याधो मृगवधाजीवो—लुब्धकश्च सः । व्याधनामानि । ‘बोयवाण्डुऽ ॥ २० ॥
[[०२.६३३]]
(०२.१०.०२१च्द्) कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ॥ २१ ॥
मूलम् - ०२.१०.०२२
(०२.१०.०२२अब्) शुनको भषकः श्वा स्यादलर्कस्तु स योगितः ।
(०२.१०.०२२च्द्) श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी ॥ २२ ॥
लिङ्ग-सूरी - AK.02.10.021-22
कौलेयक इति—कुले गृहे भवः कौलेयकः । सरमा शुनी तस्या अपत्यं सारमेयः । कोकतेऽस्थ्यादिकमादत्त इति कुक्कुरः । ‘कुक आदानेऽ । मृगान् दशतीति मृगदंशकः । ‘दंश दशनेऽ । इतस्ततः शुनति गच्छतीति शुनकः । ‘शुन गतौऽ । भषतीति भषकः । ‘भष भर्त्सनेऽ । भर्त्सनं श्वरवः । श्वयति इतस्ततो गच्छतीति श्वा । ‘टुओश्वि गतिवृद्ध्योःऽ । शुनकनामानि ॥ अलति वीथ्यां जनान् निवारयतीति अलर्कः । ‘अल पर्याप्तिभूषणवारणेषुऽ । विषादियोगतः उन्मत्तभूतशुनकनाम ॥ विश्वं जनं कन्दयति रोदयतीति विश्वकद्रुः । ‘कदि आह्वाने रोदने चऽ । मृगयाचतुरस्य शुनकस्य नाम ॥ सरति श्वानं प्रति सरमा । ‘सृ गतौऽ । श्वजातिस्त्री शुनी । शुनकस्त्रीनामनी ॥ २१-२२ ॥
मल्लि-नाथः - AK.02.10.021-22
कौलेयकः सारमेयः—भषकः श्वा स्यात् । शुनकनामानि । श्वानो गृहमृगो यक्षः कृतज्ञो रात्रिजागरः । एतानि पञ्च च ॥ अलर्कस्तु स योगतः । योग औषधम् । तद्भक्षणादुन्मत्तः श्वा अलर्कः स्यात् ।
‘प्रभूयमानामभिनायकेन्दुं तारावलिं वीक्ष्य नवामुदीताम् ।
हृष्यत्सु सर्वेष्वसहिष्णुरुच्चैरुच्चावचं बुक्कति कोऽप्यलर्कः ॥ऽ
इति नागभूपालीये ॥ श्वा विश्वकद्रुर्मृगयाकुशलः । आखेटपटुः श्वानः विश्वकद्रुः स्यात् । ‘वेण्टकुक्कऽ ॥ सरमा शुनी । शुनकस्त्रीनामनी ॥ २१-२२ ॥
[[०२.६३३]]
मूलम् - ०२.१०.०२३
(०२.१०.०२३अब्) विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः ।
(०२.१०.०२३च्द्) आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् ॥ २३ ॥
लिङ्ग-सूरी - AK.02.10.023
विट्चर इति—विट् विष्ठा तां चरति भक्षयतीति विट्चरः । ‘चर गतिभक्षणयोःऽ । ग्राम्यवराहनाम ॥ वर्कते आदत्ते तृणमिति वर्करः । ‘वृक आदानेऽ । युवपशुनाम ॥ आ समन्तात् चोद्यन्ते मृगा अत्रेति आच्छोदनम् । ‘चुद प्रेरणेऽ । मृगान् व्ययन्त्यत्रेति मृगव्यम् । ‘व्येञ् संवरणेऽ । आखेट्यन्ते त्रास्यन्ते मृगा अत्रेति आखेटः । ‘खिट त्रासेऽ । मृग्यन्ते मृगा अत्रेति मृगया । ‘मृग अन्वेषणेऽ । मृगयानामानि ॥ २३ ॥
मल्लि-नाथः - AK.02.10.023
विट्चरः सूकरो ग्राम्यः । ग्रामसूकरनामानि । वर्करस्तरुणः पशुः । बाला पशुजातिर्बर्करः स्यात् ॥ आच्छोदनं मृगव्यं—मृगया स्त्रियाम् । आखेटनामानि । ‘वेण्टपेरुऽ ॥ पापर्द्धिश्च पराधिश्च । एते द्वे च । ‘विराजपापर्द्धिविवादशीलेऽ । इत्युदारराघवम् ॥ २३ ॥
[[०२.६३४]]
मूलम् - ०२.१०.०२४
(०२.१०.०२४अब्) दक्षिणारुर्लुब्धयोगाद् दक्षिणेर्मा कुरङ्गकः ।
(०२.१०.०२४च्द्) चोरैकागरिकस्तेनदस्युतस्करमोषकाः ॥ २४ ॥
(०२.१०.०२५अब्) प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः ।
लिङ्ग-सूरी - AK.02.10.024-25
दक्षिणेति—दक्षिणे दक्षिणभागे ईर्मं व्रणोऽस्तीति दक्षिणेर्मा । नान्तः । दक्षिणभागे व्याधेन कृतव्रणस्य हरिणस्य नाम ॥ चोरयतीति चोरः । ‘चुर स्तेयेऽ । एकमसम्बाधं गृहं प्रयोजनमस्येति ऐकागरिकः । स्तेनयतीति स्तेनः । ‘स्तेन चौर्येऽ । दस्यति कदाचित् उपक्षिणोतीति दस्युः । ‘दसु उपक्षयेऽ । तत् चोरकर्म करोतीति तस्करः । ‘डुकृञ् करणेऽ । मुष्णातीति मोषकः । ‘मुष स्तेयेऽ । परान् प्रतिरुणद्धि प्रतिरोधी । ‘रुधिर् आवरणेऽ । परान् आस्कन्दयति शोषयतीति परास्कन्दी । ‘स्कन्दिर् गतिशोषणयोःऽ । परान् पाटयन् विदलयन् चरतीति पाटच्चरः । ‘चर गतौऽ । पटच्चरं जीर्णवस्त्रमपि गृह्णातीति वा । मलिनमपि म्लोचयतीति मलिम्लुचः । ‘म्लुच स्तेयेऽ । चोरनामानि ॥ २४ ॥
मल्लि-नाथः - AK.02.10.024-25
दक्षिणारुर्लुब्धयोगात्—कुरङ्गकः । दक्षिणभागे व्याधेन कृतव्रणो मृगो दक्षिणेर्मा स्यात् । दक्षिणेर्माणं पश्य ॥ अनुक्तम्—‘यूथभ्रष्टः पक्षचरःऽ । स्वकीययूथं परित्यज्य सञ्चरदेकाकी मृगः पक्षचरः स्यात् । ‘कदुप्पलोनुण्डतप्पिपोय्नि मृगमुऽ ॥ चोरैकागरिकस्तेन—पाटच्चरमलिम्लुचाः । अत्र प्रतिरोधिपरास्कन्दिशब्दौ द्वौ नान्तौ । चोरनामानि ॥ ‘वणिग्भ्यः परि न सन्ति पश्यतोहराःऽ इति पश्यतोहरः । पश्यतां धनापहारी चोरः । ‘कनुपापदोचे दोङ्गऽ ।
‘स खल्वर्द्धिपरिपन्थी यः परस्य दौस्थित्यम् ।
जानन्नप्यभिलषत्यर्थम् ॥ऽ
इति परिपन्थी मार्गप्रहारी चोरः । ‘त्रोघगोट्टेदोङ्गऽ ॥ २४ ॥
[[०२.६३५]]
(०२.१०.०२५च्द्) चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धनम् ॥ २५ ॥
मूलम् - ०२.१०.०२६
(०२.१०.०२६अब्) वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् ।
(०२.१०.०२६च्द्) उन्माथः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी ॥ २६ ॥
लिङ्ग-सूरी - AK.02.10.025-26
चौरिकेति—चोरस्य कर्म चौरिका । चौर्यं च । स्तेनस्य कर्म स्तैन्यं । स्तेयं च । चौरिकानामानि ॥ लुप्यत इति लोप्त्रम् । ‘लुप्लृ छेदनेऽ । चोरितधनस्य नाम ॥ वितंसयति व्याधानिति वितंसः । ‘तसि भूषायाम्ऽ । मृगपक्षिबन्धनसाधनस्य नाम ॥ ऊर्ध्वमाक्रम्य मथतीति उन्माथः । ‘मथे विलोडनेऽ । कूटेन कपटेन कृतं यन्त्रं कूटयन्त्रम् । ‘यम उपरमेऽ । मृगपक्षिबन्धनाय दारुकृतसाधनस्य नामनी ॥ मृगबन्धनेऽवागुरत इति वागुरा । ‘गुरी उद्यमनेऽ । मृगा अनया बध्यन्त इति मृगबन्धनी । ‘बन्ध बन्धनेऽ । जालविशेषनामनी ॥ २५-२६ ॥
मल्लि-नाथः - AK.02.10.025-26
चौरिका—स्थेयम् । चौर्यनामानि । ‘दोङ्गुलुटऽ । चौरशब्दव्युत्पत्तिद्वारा चुराशब्दसिद्धिः । सुभूतिटीकायामपि तथैव व्युतपादितं चुरा शीलमस्येति । ‘छत्रादिभ्यो णःऽ (४। ४। ६२) । चौरः । लोप्त्रं तु तद्धनम् । चोरापहृतं धनं लोप्त्रं स्यात् । ‘दोङ्गिविन सोम्मुऽ । वीतंसस्तूपकरणं—मृगपक्षिणाम् । मृगपक्षिणां बन्धनोपकरणं वितंसः स्यात् । वीतंस इति दीर्घीभूतोपसर्गश्च ॥ उन्माथः कूटयन्त्रं स्यात् । कूटेन कपटेन कल्पितं यन्त्रमुन्माथः स्यात् । ‘बोनुऽ ॥ वागुरा मृगबन्धनी । मृगजालिका वागुरा स्यात् । वागुरा मृगजालिकाऽ इति हलायुधः (अ। मा। २। ४४२) । मृगजालनामनी । ‘बलऽ ॥ २६ ॥
[[०२.६३६]]
मूलम् - ०२.१०.०२७
(०२.१०.०२७अब्) शुल्बं वटारकः स्त्री तु रज्जुस्त्रिषु वटी गुणः ।
(०२.१०.०२७च्द्) उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥
लिङ्ग-सूरी - AK.02.10.027
शुल्बमिति—शुल्ब्यते इति शुल्बम् । ‘शुल्ब मानेऽ । वट्यते वेष्ट्यत इति वटारकः । ‘वट वेष्टनेऽ । वराटक इति वा पाठः । सृज्यत इति रज्जुः । ‘सृज विसर्गेऽ । वटति वेष्टयतीति वटी । ‘वट वेष्टनेऽ । वटशब्दः त्रिषु लिङ्गेषु वर्तते, वटः वटी वटमिति । गुण्यतेऽभ्यस्यते बन्धनायेति गुणः । ‘गुण अभ्यासेऽ । रज्जुनामानि ॥ उद्घाट्यन्ते प्रकाश्यन्ते आपोऽनेनेति उद्घाटनम् । ‘घट चेष्टायाम्ऽ । घटीभिः कृतं यन्त्रं घटीयन्त्रम् । प्रहेः कूपात् । सलिलम् उद्वाह्यतेऽनेनेति सलिलोद्वाहनम् । कूपात् सलिलोद्वहनस्य घटीयन्त्रस्य नामनी ॥ २७ ॥
मल्लि-नाथः - AK.02.10.027
शुल्बं वराटकः—वटी गुणः । ‘शुल्बं स्याद् रज्जुताम्रयोःऽ इति रुद्रः । रज्जुनामानि । ‘त्राडुऽ । अनुक्तम्—‘पक्षिणो येन गृह्यन्ते पक्षिणैव स दीपकःऽ । पक्षिग्राहकमृगयापक्षी दीपकः स्यात् । ‘वेण्टपिट्टऽ । कूटगर्तस्तूपशयः । जालं वितत्य तत्समीपे देहगोपनार्थं निखातगर्तनाम ॥ ‘माधुर्यं व्याधगीतिकाऽ । पक्ष्याद्यागमनार्थं कृतव्याधगीतनाम । ‘ईलवट्टुटऽ ॥ उद्घाटनं घटीयन्त्रं—प्रहेः । कूपस्थितोदकस्य बहिर्गमनाय कृतयन्त्रविशेषः उद्घाटनं घटीयन्त्रं च स्यात् । ‘यान्तामुऽ ॥ २७ ॥
[[०२.६३६]]
मूलम् - ०२.१०.०२८
(०२.१०.०२८अब्) पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः ।
(०२.१०.०२८च्द्) वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥
लिङ्ग-सूरी - AK.02.10.028
पुंसीति—वयन्त्यनेनेति वेमा । नान्तः । ‘वेञ् तन्तुसन्तानेऽ । वयनं वायः । वायस्य दण्डो वायदण्डः । वस्त्रवयनदण्डनामनी ॥ सूयन्ते वस्त्राण्येमिरिति सूत्राणि । सीव्यन्ते एभिरिति वा । ‘षिवु तन्तुसन्तानेऽ । तन्यते वस्त्रमनेनेति तन्तुः । ‘तनु विस्तारेऽ । नरीति पुंसि वर्तते तन्तुशब्द इत्यर्थः । तन्तुनाम ॥ वणतीति वाणिः । ‘वण शब्देऽ । व्यूयते व्यूतिः । ‘वेञ् तन्तुसन्तानेऽ । वयननामनी ॥ पुस्त्यते आद्रियत इति पुस्तम् । ‘पुस्त आदरानादरयोःऽ । लेप्यादिकर्मनाम ॥ २८ ॥
मल्लि-नाथः - AK.02.10.028
पुंसि वेमा वायदण्डः । शाटिकाघातफलकनामनी । ‘ताङ्कुडुफलकऽ ॥ सूत्राणि नरि तन्तवः । सूत्रनामनी । ‘नूलुऽ ॥ वाणिर्व्यूतिः स्त्रियौ तुल्ये । वयननामनी । ‘नेतपेरुऽ । तुरी (स्यान्न तुली?) स्यान्नरि तन्तूनामन्तरालप्रसारिणी । ‘कण्टिक्रोवितुलिऽ । ‘नाडेऽ ॥ पुस्तं लेप्यादिकर्मणि । लेप्यादिकर्म पुस्तं स्यात् ।
‘मुद्दारुचर्मवस्त्राद्यैः कृतं वर्णैर्विचित्रितम् ।
सुवर्णरजताद्यैर्वा रचितं पुस्तमुच्यते ॥ऽ
इति ग्रन्थलेखनयोग्ये वर्णकलिप्ते पटखण्डादिसञ्चये लेख्यत्वेनोपकारात् । तालपत्रादिसञ्चये च पुस्तकशब्दप्रयोगः ॥ अनुक्तम्—‘या तु लेप्यमयी नारी सा स्यादञ्जलिकारिकाऽ । लेप्यस्वरूपा नारी अञ्जलिकारिका स्यात् ॥ २८ ॥
[[०२.६३७]]
मूलम् - ०२.१०.०२९
(०२.१०.०२९अब्) पाञ्चालिका पुत्रिका स्याद् वस्त्रदन्तादिभिः कृता ।
(०२.१०.०२९च्द्) पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका ॥ २९ ॥
(०२.१०.०३०अब्) भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका ।
(०२.१०.०३०च्द्) पादूरुपानत् स्त्री सैवानुपदीना पदायता ॥ ३० ॥
लिङ्ग-सूरी - AK.02.10.029-30
पाञ्चालिकेति—पञ्चालदेशे भवा पाञ्चालिका । पाञ्चालैः शिल्पिभिः कृता वा । पुत्रीव कृत्रिमा पुत्रिका । यया बालाः खेलन्ति वस्त्रदन्तदार्वादिनिर्मितविहङ्गादिप्रकृत्या तस्या नामनी ॥ पेटति महत्त्वं प्राप्नोतीति पिटकः । ‘पिट महत्त्वेऽ । पेटकश्च पेटा च । मञ्जु मनोज्ञं यथा भवति तथा शत्राद्यैरत्रोष्यत इति मञ्जूषा । ‘ऊष रुजायाम्ऽ । मञ्जूषानामानि ॥ विहङ्गप्रतिकृतित्वात् विहङ्गिका । भारवहनार्थं यष्टिः । भारयष्टिनाम ॥ शक्यते भारं वोढुमिति शिक्यम् । ‘शक्लृ शक्तौऽ । कच्यतेऽनेनेति काचः । ‘कच बन्धनेऽ । भारयष्टेरुभयतो लम्बमानयोर्नामनी ॥ पद्यतेऽनया पादूः । पादूरेव पादुका । ‘पद गतौऽ । उपनह्यतेऽनया उपानत् । ‘णह बन्धनेऽ । पादत्राणस्य नामनी ॥ अनुपदं पादायामेनेव बद्धा अनुपदीना । अनुपादयतायाः तस्या एव नाम ॥ २९-३० ॥
मल्लि-नाथः - AK.02.10.029-30
पाञ्चालिका पुत्रिका—दन्तादिभिः कृता । वस्त्रदन्तकाष्ठादिभिः कृतप्रतिमानामनी । ‘सालभञ्जी पुत्तलिकाऽ । एते द्वे च । जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु । जतुविकारे जातुषं त्रपुविकारे त्रापुषं च स्यात् । तदुभयं त्रिलिङ्गम् ॥ पिटकः पेटकः पेटो मञ्जूषा । पेटनामानि । ‘पेट्टिऽ । अनुक्तम्—‘वस्त्रकोशं करोटकम्ऽ । वस्त्रपेटनामनी । ‘बोक्कसमुऽ । अथ विहङ्गिका भारयष्टिः । स्कन्धचापविशेषनामनी । ‘कम्बिकावडिऽ ॥ तदालम्बि शिक्यं काचः । भारयष्ट्यवलम्बियन्त्रनामनी । ‘उट्टिऽ । शिक्यं तालव्यादि । काचः चवर्गप्रथमान्तः ॥ अथ पादुका पादूः । दारुमयपादरक्षानामनी । ‘पादुकलुऽ । पादूपानत् स्त्री । चर्ममयपादरक्षनामनी । ‘उद्दालुऽ ‘पादुकोपानहोः पादूःऽ इति वैजयन्ती (पृ। २२२, श्लो। २४) ॥ सैवानुपदीना पदायता । सैवोपानात् पादप्रमाणा चेद् अनुपदीना स्यात् । अनुक्तम्—‘पादकोशी पादरथीऽ । ‘मुच्चपेरुऽ ॥ २९-३० ॥
[[०२.६३८]]
मूलम् - ०२.१०.०३१
(०२.१०.०३१अब्) नध्री वर्ध्री वरत्रा स्यादश्वादेस्ताडनी कशा ।
(०२.१०.०३१च्द्) चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥ ३१ ॥
लिङ्ग-सूरी - AK.02.10.031
नध्रीति—नह्यतेऽश्वमध्यमनया नध्री । ‘णह बन्धनेऽ । वर्धते दीर्घीभवतीति वर्ध्री । ‘वृधु वृद्धौऽ । व्रियते आव्रियतेऽनयेति वरत्रा । ‘वृञ् वरणेऽ । पल्ययनबन्धनाय कृतचर्मरज्जुनामानि ॥ कशति ताडयति अनयेति कशा । ‘कश गतिशासनयोःऽ । अश्वादिताडनीनाम ॥ चण्डालस्येयं चाण्डालिका । कण्ड्यतेऽभिरक्ष्यते चण्डालेनेति कण्डोला । ‘कडि भेदाभिरक्षणयोःऽ । सा च वीणा च कण्डोलवीणा । चण्डालवीणानामानि ॥ ३१ ॥
मल्लि-नाथः - AK.02.10.031
नघ्नी वर्ध्री वरत्रा स्यात् । वरत्रानामानि । ‘वार्लुऽ । अश्वादेस्ताडनी कशा । अश्वादिताडनोपकरणं कशा स्यात् । ‘गुर्रवुचाटिऽ । ‘सज्जवोमुऽ । ‘कशाकशिशशाककुशेशकऽ (?) इति कर्पिणाभ्युदयद्व्यक्षरप्रयोगत् तालव्यान्तः । चाण्डालिका तु—चण्डालवल्लकी । चण्डालवीणानामानि । ‘किन्नेरऽ ॥ ३१ ॥
[[०२.६३९]]
मूलम् - ०२.१०.०३२
(०२.१०.०३२अब्) नाराची स्यादेषणिका शाणस्तु निकषः कषः ।
(०२.१०.०३२च्द्) व्रश्चनः पत्रपरशुरीषिका तूलिका समे ॥ ३२ ॥
लिङ्ग-सूरी - AK.02.10.032
नाराचीति—नाराणि नरसमूहान् अञ्चति नाराट् स्वर्णकारः । तस्येयं नाराची । ‘अञ्चु गतिपूजनयोःऽ । इष्यते व्यवहारिजनैरिति एषणिका । ‘इषु इच्छायाम्ऽ । स्वर्णकारस्य स्वर्णच्छेदनसाधनस्य नामनी ॥ श्यति सुवर्णं तनूकरोतीति शाणः । ‘शो तनूकरणेऽ । निकष्यते स्वर्णमत्रेति निकषः । कषश्च । ‘कष हिंसायाम्ऽ । शाणोपलनामानि ॥ वृश्च्यते सुवर्णादिकमनेनेति व्रश्चनः । ‘ओव्रश्चू छेदनेऽ । पत्रमिव परशुः पत्रपरशुः । स्वर्णादिभेदनिकायाः पत्रशिलाया नामनी ॥ ईष्यते चित्रसौष्ठवमनयेति ईषिका । ‘ईष उञ्छेऽ । तूल्यते कृष्यत इति तूलिका । ‘तूल निष्कर्षेऽ । चित्रकाराद्युपकरणनामनी ॥ ३२ ॥
मल्लि-नाथः - AK.02.10.032
नाराची स्यादेषणिका । स्वर्णच्छेदनसाधननामनी । ‘शानमुऽ । स्वर्णकाराणां नाराचाकृतौ लोहतुलायामिदं द्वयमिति केचित् । ‘त्रासुऽ ॥ शाणस्तु निकषः कषः । सुवर्णपरीक्षणोपलनामानि । ‘वोरगल्लुऽ । शाणो नाम नृपोऽपि स्यात् ।
‘शाणे दधानेव कटाक्षबाणम् ।ऽ
‘गलत्परागं भ्रमिभङ्गिभिः पतत्प्रसक्तभृङ्गावलिनागकेसरम् ।
स मारनाराचनिघर्षणस्खलज्ज्वलत्कणं शाणमिदं(व?)व्यलोकत ॥ऽ
इत्यादिप्रयोगात् (नैष। १। ९२) ॥ व्रश्चनः पत्रपरशुः । आयसभेदकनामनी । ‘आकुरायऽ ॥ इषीका । दीर्घमध्यः । तूलिका समे । चित्रलेखनसाधनशलाकानामनी ॥ ३२ ॥
[[०२.६४०]]
मूलम् - ०२.१०.०३३
(०२.१०.०३३अब्) तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका ।
(०२.१०.०३३च्द्) आस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥ ३३ ॥
लिङ्ग-सूरी - AK.02.10.033
तैजसेति—तैजसं हेमादिकम् आवर्त्यते द्रवीक्रियतेऽस्यामिति तैजसावर्तनी । ‘वृतु वर्तनेऽ । मूयते बध्यते स्वर्णादिकमत्रेति मूषा । ‘मूङ् बन्धनेऽ । मूष्यते स्वर्णादिकमस्यामिति वा । ‘मूष स्तेयेऽ । मूषानामानि ॥ भस्यते दीप्यतेऽनया अग्निरिति भस्त्रा । ‘भस भर्त्सनदीप्त्योःऽ । प्रसेवतेऽग्निमिति प्रसेविका । चर्मनिर्मिता प्रसेविका चर्मप्रसेविका । ‘षेवृ सेवनेऽ । चर्मप्रसेविकानाम ॥ आस्फोट्यते विध्यतेऽनया आस्फोटनी । ‘स्फुटिर् विशरणेऽ । विध्यतेऽनयेति वेधनिका । मणिशङ्खादिवेधोपकरणनामनी ॥ कल्पते छेत्तुं समर्थो भवतीति कृपाणी । ‘कृपू सामर्थ्येऽ । कृत्यते छिद्यतेऽनयेति कर्तरी । ‘कृती छेदनेऽ । केशादिकर्तनसाधनस्य नामनी ॥ ३३ ॥
मल्लि-नाथः - AK.02.10.033
तैजसावर्तनी मूषा । सुवर्णादिद्रवीकरणपात्रनामनी । भस्त्रा चर्मप्रसेविका । चर्ममयवायुपूरकबिलकानामनी । ‘कोलिमितित्तिऽ । अनुक्तम्—‘सन्दंशः स्यात् काकमुखःऽ । गृध्रचञ्चूपुटाकारमुखतप्तायसादिग्राहकायोनाम । ‘पट्टजारुऽ । सन्दंशीति समदलम् ॥ आस्फोटनी वेधनिका । वज्रसूचीनामनी ॥ कृपाणी कर्तरी समे । केशवस्त्रादिकृन्तनीनामनी । ‘कत्तेरऽ । कौटिककरवालनामन्यपि भवतः । ‘सूनातटिर्वधस्थानं कृपाणीली च कर्तरीऽ इति वैजयन्ती (पृ। १३९, श्लो। ३७) ॥ ३३ ॥
[[०२.६४०]]
मूलम् - ०२.१०.०३४
(०२.१०.०३४अब्) वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः ।
(०२.१०.०३४च्द्) क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका ॥ ३४ ॥
लिङ्ग-सूरी - AK.02.10.034
वृक्षादनीति—वृक्षोऽद्यते भिद्यतेऽनयेति वृक्षादनी । ‘अद भक्षणेऽ । वृक्षं भिनत्तीति वृक्षभेदी । ‘भिदिर् विदारणेऽ । वृक्षभेदिनः परशोर्नामनी ॥ टेत्यनुकरणशब्दं करोतीति टङ्कः । पाषाणं दारयतीति पाषाणदारणः । ‘द्दृ विदारणेऽ । पाषाणभेदकस्यायोविकारस्य नामनी ॥ क्र इति शब्दं कचतीति क्रकचः । ‘कच बन्धनेऽ । करकरेति शब्दाच्चारणेन पततीति करपत्रम् । ‘पत्लृ गतौऽ । दारुच्छिद्रकरणसाधनस्य नामनी ॥ आ इयर्ति चर्मेति आरा । ‘ऋ गतौ प्रापणे चऽ । चर्म प्रभिनत्तीति चर्मप्रभेदिका । चर्मभेदिकाया नामनी ॥ ३४ ॥
मल्लि-नाथः - AK.02.10.034
वृक्षादनी वृक्षभेदी । वृक्षरन्ध्रकरायसनामनी । ‘उलिऽ ॥ टङ्कः पाषाणदारकः । पाषाणभेदकनामनी । ‘काशवुलिऽ । क्रकचः करपत्रं स्यात् । करपत्रनामनी । ‘करकसरंवमुऽ ॥ अनुक्तम्—‘वाशी स्याद् दारुतक्षणीऽ । वाश्या नाम । ‘बाडसिऽ ॥ आरा चर्मप्रभेदिका । चर्मभेदिका आरा स्यात् । ‘आरिऽ ॥ ३४ ॥
[[०२.६४१]]
(०२.१०.०३५अब्) सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम् ।
(०२.१०.०३५च्द्) प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ॥ ३५ ॥
(०२.१०.०३६अब्) प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।
सूर्मीति—सुष्ठुशोभनमूर्वति अमङ्गलत्वादिति सूर्मी । ‘उर्वी हिंसायाम्ऽ । चिरकालं तिष्ठतीति स्थूणा । ‘ष्ठा गतिनिवृत्तौऽ । अयःप्रतिमानामनी ॥ शिल्यन्ते उच्चीयन्ते सर्वाः कला अत्रेति शिल्पम् । ‘शिल उञ्छेऽ । गीतादिचतुःषष्टिकलादिकर्मनाम ॥ प्रतिमीयतेऽनेनेति प्रतिमानम् । ‘माङ् मानेऽ । प्रतिबिम्ब्यते प्रतिमीयतेऽनेनेति प्रतिबिम्बम् । ‘बिम्ब दीप्तौऽ । प्रतिमीयतेऽनयेति प्रतिमा । प्रतियात्यतेऽनया प्रतियातना । ‘यती प्रयत्नेऽ । प्रतिरूपा छाया प्रतिच्छाया । प्रतिरूपं क्रियत इति प्रतिकृतिः । अर्च्यत इत्यर्चा । ‘अर्च पूजायाम्ऽ । प्रतिनिधीयत इति प्रतिनिधिः । ‘डुधाञ् धारणपोषणयोःऽ । मूर्तिसदृशशिलादिप्रतिरूपस्य नामानि ॥ उपमीयते इत्युपमा । उपमानं च । ‘माङ् मानेऽ । अन्यस्य वस्तुनो गुणान् अन्यस्मिन् वस्तुनि आरोपस्य नामनी ॥ ३४ ॥
मल्लि-नाथः - AK.02.10.035-36
सूर्मी स्थूणायःप्रतिमा । लोहप्रतिमानामनि । शूर्मिस्तालव्यादिरिति श्रीधरः । अयःशब्दस्ताम्रादिलोहवचनः । ‘हरिणी हेमप्रतिमा सूर्मिः स्थूणान्यलोहजाऽ । इति वैजयन्ती (पृ। १३७, श्लो। २२) ॥ शिल्पं कर्म कलादिकम् । अत्र कलाशब्देन गीतवाद्यादिका बाह्याः कलाश्चतुःषष्टिक्रिया, आलिङ्गनचुम्बनाद्याश्चाभ्यन्तराश्चतुःषष्टिः परिगृहीताः । आदिशब्देन विश्वकर्माद्युक्तकारुकर्म सङ्गृहीतम् । तत् सर्वं शिल्पं स्यात् ॥ प्रतिमानं प्रतिबिम्बं—पुंसि प्रतिनिधिः । शिलादिनिर्मितविनायकादिमूर्तिनामानि ॥ उपमोपमानं स्यात् ॥ ३५ ॥
[[०२.६४२]]
(०२.१०.०३६च्द्) वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥
मूलम् - ०२.१०.०३७
(०२.१०.०३७अब्) साधारणः समानश्च स्युरुत्तरपदे त्वमी ।
(०२.१०.०३७च्द्) निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३७ ॥
लिङ्ग-सूरी - AK.02.10.036-37
वाच्येति—समति समीभवतीति समः । ‘षम ष्टम अवैकल्येऽ । तुलया सम्मित इव तुल्यः । समान इव दृश्यते सदृक्षः । सदृशः । सदृक् च । ‘दृशिर् प्रेक्षणेऽ । समानमाधारणं मानमस्येति साधारणः । समानं मानमस्येति समानः । नितरां भातीति निभः । ‘भा दीप्तौऽ । सङ्काशते इति सङ्काशः । ‘काशृ दीप्तौऽ । नितरां काशते नीकाशः । प्रति काशते प्रतीकाशः । उपमीयत इत्युपमा । आदिग्रहणात् भूतरूपकल्पादयो गृह्यन्ते । उत्तरपदीभूता निभादयः समादयश्च तुल्यनामानि वाच्यलिङ्गाश्च भवन्ति । उत्तरपदीभूता यथा—चन्द्रनिभः, सूर्यप्रतीकाशः, विष्णुरूपः, कामसदृशः, नारायणसाधारण इत्यादि ॥ ३६-३७ ॥
मल्लि-नाथः - AK.02.10.036-37
वाच्यलिङ्गाः समस्तुल्यः—प्रतीकाशोपमादयः । समाननामानि । ‘सरिऽ । अत्रोपमोपमानशब्दावाविष्टलिङ्गौ ।
‘रात्रावेव मधावेव राकायामेव सुन्दरम् ।
मुखचन्द्रस्य ते चन्द्रं कथयेदुपमां कथम् ॥
न मञ्जुभाषणं पद्मं न मन्दहसितः शशी ।
अतोऽन्यदपि पश्यामि नोपमानं मुखस्य ते ॥ऽ
समादिशब्दा वाच्यालिङ्गाः । ‘शशिना सदृशं वक्त्रं वक्त्रस्य सदृशः शशीऽ इत्यादि । निभादिशब्दा वाच्यलिङ्गा अपि उत्तरपदीभूता समासचरमावयवा एव । ‘सागरः सागरोपमःऽ (रामा। ६। ११०। २४) ‘व्याजहार हरसूनुसन्निभःऽ (रघु। ११। ८३) ॥ ३६-३७ ॥
[[०२.६४३]]
मूलम् - ०२.१०.
(०२.१०.०३८) कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ।
(०२.१०.०३८) भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ॥ ३८ ॥
लिङ्ग-सूरी - AK.02.10.038
कर्मण्येति—कर्मणि साध्वी कर्मण्या । विधीयते कर्मानया विधा । ‘डुधाञ् धारणपोषणयोःऽ । भ्रियते पोष्यतेऽनयेति भृत्या । भृतिश्च । भर्म च । भरण्यं च । भरणं च । ‘डुभृञ् धारणपोषणयोःऽ । वीयते भ्रियतेऽनेनेति वेतनम् । ‘वी गत्यादिषुऽ । मूलेन साम्यं मूल्यम् । निर्विश्यते भुज्यत इति निर्वेशः । ‘विश प्रवेशनेऽ । पण्यते व्यवह्रियतेऽनेनेति पणः । ‘पण व्यवहारे स्तुतौ चऽ । वेतननामानि ॥ ३८ ॥
मल्लि-नाथः - AK.02.10.038
कर्मण्या तु विधा—भर्म वेतनम् । वेतनमन्तस्थादि । भरण्यं भरणं—पण इत्यपि । वेतननामानि । ‘कूलिऽ ॥ ३८ ॥
[[०२.६४३]]
मूलम् - ०२.१०.०३९
(०२.१०.०३९अब्) सुरा हलिप्रिया हाला परिस्रुद् वरुणात्मजा ।
(०२.१०.०३९च्द्) गन्धोत्तमा प्रसन्नेराकादम्बर्यः परिस्रुता ॥ ३९ ॥
(०२.१०.०४०अब्) मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् ।
लिङ्ग-सूरी - AK.02.10.039-40
सुरेति—सूयतेऽभिषूयत इति सुरा । ‘षुञ् अभिषवेऽ । हलिनो बलभद्रम्य प्रिया हलिप्रिया । हलति लज्जां नाशयतीति हाला । ‘हल विलेखनेऽ । परिस्रवतीति परिस्रुत् । परिस्रुता च । ‘स्रु स्रवणेऽ । वरुणास्यात्मजा वरुणात्मजा । गन्धेनोत्तमा गन्धोत्तमा । प्रसीदतीति प्रसन्ना । ‘षद्लृ विशरणादौऽ । मदमेत्यनयेति इरा । ‘इण् गतौऽ । कदम्बकोटरे जाता कादम्बरी । कत् कुत्सितं नीलमम्बरं यस्य कदम्बरः हली । तस्येयं प्रिया कादम्बरी । मदयतीति मदिरा । ‘मदी हर्षेऽ । कश्यते मदमुपैत्यनेनेति कश्यम् । ‘कश गतिसाधनयोःऽ । मदे साधु मद्यम् । ‘मदि हर्षग्लपनयोःऽ । माद्यन्त्यनेनेति वा । सुरानामानि ॥ अवदश्यते पानसमये अवदंशः । उपदंश इति वा पाठः । ‘दंश दशनेऽ । सुरापानसमये कृतभक्षणस्य नाम ॥ ३९ ॥
मल्लि-नाथः - AK.02.10.039-40
सुरा हलिप्रिया—कश्यमद्ये चापि । सुरानामानि । शुण्डा स्वादुरसा कल्या। मधूलिः कापिशायनम् । एतानि पञ्च च ॥ अवदंशस्तु भक्षणम् । पलाण्ड्वादिपानसाधननाम ॥ ३९ ॥
[[०२.६४४]]
(०२.१०.०४०च्द्) शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ ४० ॥
मूलम् - ०२.१०.०४१
(०२.१०.०४१अब्) मध्वासवो माधवको मधु माद्वीकमद्वयोः ।
(०२.१०.०४१च्द्) मैरेयमासवः शीधुर्मेदको जगलः समौ ॥ ४१ ॥
लिङ्ग-सूरी - AK.02.10.040-41
शुण्डेति—शुण्डा सुरा पीयतेऽत्रेति शुण्डापानम् । ‘पा पानेऽ । शुण्डा पानमिति पदद्वयं वा । मदस्य स्थानं मदस्थानम् । सुरागृहनामनी ॥ मधुनो मद्यपानस्य वाराः मधुवाराः । मधुनो मद्यस्य क्रमाः परिपाट्यः मधुक्रमाः । मदेनासकृत् मधुपानावसरनामनी । मधुना मधुकपुष्पेण कृतः आसवः मध्वासवः । मधुनो द्राक्षायाः विकारः माधवकः । मधु प्रकृतिकत्वात् मधु । मृद्वीका द्राक्षा तस्या विकारो माद्वीकम् । द्राक्षाकृतमद्यनामानि ॥ एते चत्वारो माक्षिककृतमद्यस्यैव पर्याया इति केचित् ॥ इरां सामान्यसुरां स्वरुच्या मेति प्रतिषेधयतीति मेरा । सैव मैरेयम् । धातकीपुष्पमिश्रगुडसहितधान्याम्बुकृतमद्यनाम ॥ आसूयते अभिषूयत इति आसवः । अपक्वेक्षुरसकृतमद्यनाम ॥ मत्ता शेरतेऽनेनेति शीधुः । ‘शीङ् स्वप्नेऽ । पक्वेक्षुरसकृतमद्यनाम ॥ मेद्यति स्निह्यत्यत्र सुरेति मेदकः । ‘ञिमिदा स्नेहनेऽ । भृशं सुरां गलति आदत्त इति जगलः । ‘गल अदनेऽ । सुरासन्धानकरकल्कनामनी ॥ ४०-४१ ॥
मल्लि-नाथः - AK.02.10.040-41
शुण्डापानं मदस्थानम् । पानगृहनामनी ॥ मधुवारा मधुक्रमाः । सुरापानक्रमनामनी । ‘मारचुकोनित्रागुणऽ । मध्वासवो माधवको मधु । माधवशब्दसाहचर्यं केचिदिच्छन्ति ।
‘मकरन्दस्य मद्यस्य माक्षिकस्य च वाचकः ।
अर्धर्चादिगणे पाठात् पुन्नपुंसकयोर्मधुः ॥ऽ
इति दुर्गसिंहः । माध्वीकमद्वयोः । अद्वयोरिति विशेषविधिर्मधुमाध्वीकशब्दयोरनित्यताज्ञापनार्थः । मधूकपुष्पजनितसुरानामानि ॥ मैरेयमासवः शीधुः । इक्षुरसजनितसुरानामानि ॥ मेदको जगलः समौ । पैष्टिकसुरानामनी ॥ ४०-४१ ॥
[[०२.६४५]]
मूलम् - ०२.१०.०४२
(०२.१०.०४२अब्) सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः ।
(०२.१०.०४२च्द्) कारोत्तमः सुरामण्ड आपानं पानगोष्ठिका ॥ ४२ ॥
लिङ्ग-सूरी - AK.02.10.042
सन्धानमिति—मद्यस्य सन्धा सन्धानम् । ‘डुधाञ् धारणपोषणयोःऽ । अभिषूयत इत्यभिषवः । ‘षुञ् अभिषवेऽ । फलादिसन्धानस्य नामनी ॥ किणन्ति मत्ता अनेनेति किण्वम् । ‘किण शब्देऽ । नग्ना हूयन्तेऽनेनेति नग्नहूः । ‘ह्वेञ् स्पर्धायां शब्दे चऽ । अयं शब्दः पुंसि वर्तते । नानाद्रव्यकृतसुरासाधनस्य नामनी ॥ कारेण क्रियया उत्तमः कारोत्तमः । सुराया मण्डः । सुराग्रभागनामनी ॥ आपिबन्ति सम्भूय सुरामत्रेति आपानम् । ‘पा पानेऽ । गावो बद्धवाचः अत्र तिष्ठन्तीति गोष्ठी । पानस्य पानाय वा गोष्ठी पानगोष्ठिका ॥ सुरापानगोष्ठीनामनी ॥ ४२ ॥
मल्लि-नाथः - AK.02.10.042
सन्धानं स्यादभिषवः । निर्मलत्वनामनी । ‘तेटऽ । ‘आसूतिर्मद्यसन्धानमासवोऽभिषवोऽपि चऽ इति वैजयन्ती (पृ। १४०, श्लो। ५१) ॥ किण्वं पुंसि तु नग्नहूः । सुराबीजनामनी । ‘मुलकऽ । ‘नानाद्रव्ये सुराबीजे किण्वादिद्वयम्ऽ इति सर्वधरः ॥ कारोत्तमः सुरामण्डः । सुरादिपिच्छानाम ॥ आपानं पानगोष्ठिका । पानगोष्ठीनामनी ॥ ४२ ॥
[[०२.६४५]]
मूलम् - ०२.१०.०४३
(०२.१०.०४३अब्) चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् ।
(०२.१०.०४३च्द्) धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः ॥ ४३ ॥
लिङ्ग-सूरी - AK.02.10.043
चषक इति—चषन्ति पिबन्ति सुरामत्रेति चषकः । ‘चष भक्षणेऽ । पानस्य पात्रं पानपात्रम् । सुरापानपात्रस्य नामनी ॥ सरति सुरात्र सरकः । ‘सृ गतौऽ । अनुतृष्यन्त्यनेनेति अनुतर्षणम् । ‘ञितृषा पिपासायाम्ऽ । सुरापरिवेषणनामनी ॥ धूर्वति हिनस्तीति धूर्तः । ‘धूर्व हिंसायाम्ऽ । अक्षैर्दीव्यतीति अक्षदेवी । ‘दिवु क्रीडादौऽ । किं तवास्तीति वदतीति कितवः । अक्षेषु धूर्तः अक्षधूर्तः । द्यूतं करोतीति द्यूतकृत् । द्यूतक्रीडाकरस्य नामानि ॥ ४३ ॥
मल्लि-नाथः - AK.02.10.043
चषकोऽस्त्री पानपात्रं—अनुतर्षणम् । सुरापानपात्रनामानि । अपिशब्देनास्त्रीति पदं सरकेणापि सम्बध्यते । अत एव ‘अर्धर्चाः पुंसि चऽ इत्यत्र महाभाष्ये सरकः सरकमित्युभयमुदाहृतम् । ‘चषकश्चानुतर्षश्च सरकश्चऽ इति भागुरिः । नपुंसकमध्यप्रयोगात् सरकः पुन्नपुंसकश्च । पानपात्रमात्रनामानीति सर्वधरः । केचित्तु चषकादिद्वयं सुरापानपात्रे, सरकादिद्वयं सुरापरिवेषणे वर्तत इत्याहुः । शेषकारेण तु पक्षद्वयमप्युक्तम् ‘सरकोऽप्यनुतर्षश्च चषके परिवेषणेऽ इति । ‘सरकं चषकं चास्त्री गल्वर्तोऽप्यनुकर्षणम्ऽ इति वैजयन्ती (पृ। १४०, श्लो। ५३) । ‘शीधौ च शीधुनः पाने चषके सरकोऽस्त्रियाम्ऽ इति रुद्रः ॥ धूर्तोऽक्षदेवी—द्यूतकृत्समाः । द्यूतकारनामानि । ‘जूजङ्गाण्डुऽ । ‘शारिको जगलश्च स्यात् साक्षिकः कृष्णकोहलःऽ । एतानि चत्वारि च ॥ ४३ ॥
[[०२.६४६]]
मूलम् - ०२.१०.०४४
(०२.१०.०४४अब्) स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः ।
(०२.१०.०४४च्द्) द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ ४४ ॥
लिङ्ग-सूरी - AK.02.10.044
स्युरिति—लगन्ति द्यूते प्रसज्यन्ते लग्नकाः । ‘लग सङ्गेऽ । अधमर्णस्य प्रतिनिधयो भवतीति प्रतिभुवः । ‘भू सत्तायाम्ऽ । द्यूतप्रतिभूनामनी ॥ सभास्यास्तीति सभिकः । द्यूतं कारयन्तीति द्यूतकारकाः । यः स्वगृहे द्यूतं कारयति तस्य नामनी ॥ दीव्यते स्मानेन द्यूतः । ‘दिवु क्रीडादौऽ । अक्षा अस्यां सन्तीति अक्षवती । कितवस्य कर्म कैतवम् । पण्यते व्यवह्रियतेऽनेन पणः । द्यूतक्रीडनस्य नामानि ॥ ४४ ॥
मल्लि-नाथः - AK.02.10.044
स्युर्लग्नकाः प्रतिभुवः । मदर्थमयं दास्यतीत्यन्येन नियुक्तनामनी । ‘जामीनुऽ ॥ सभिका द्यूतकारकाः ।
‘द्यूतशालामधिष्ठाय द्यूतोपकरणान्वितः ।
यः प्रवर्तयति द्यूतं सभिकः स उदाहृतः ॥ऽ
द्यूतप्रवर्तकनामनी । लग्नकादिचतुष्टयमेकार्थमिति स्वामी । ‘अच्चेटिवाण्डुऽ ॥ द्यूतो स्त्रियामक्षवती । स्त्रीलिङ्गः । ‘नियुज्य कुन्तीसुतमक्षवत्याम्ऽ । कैतवं पण इत्यपि । द्यूतनामानि । ‘जूजमुऽ । कलिखल इति क्रीडाद्यूतम् । ‘क्रीडाद्यूते कलिखलऽ इति वैजयन्ती (पृ। ३०१, श्लो। १४०) । क्रीडाद्यूतनाम ॥ ४४ ॥
[[०२.६४७]]
मूलम् - ०२.१०.०४५
(०२.१०.०४५अब्) पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते ।
(०२.१०.०४५च्द्) परिणायस्तु शारीणां समन्तान्नयनेऽस्त्रियाम् ॥ ४५ ॥
लिङ्ग-सूरी - AK.02.10.045
पण इति—गृह्यते इति ग्लहः । ‘ग्रह उपादानेऽ । अक्षविषयपणनाम ॥ अक्षन्ति पाणिभिरिति अक्षाः । ‘अक्षू व्याप्तौऽ । दीव्यन्ति एभिरिति देवनाः । ‘दिवु क्रीडादौऽ । पाश्यन्ते बध्यन्त एभिरिति पाशकाः । ‘पश बन्धनेऽ । प्रासक इति पाठे ‘असु क्षेपणेऽ इति धातुः । अक्षनामानि ॥ परितः शारीणां नयनं परिणायः । शारीणां समन्तान्नयनस्य क्षेपणस्य नाम ॥ ४५ ॥
मल्लि-नाथः - AK.02.10.045
पणोऽक्षेषु ग्लहः । पराजये देयद्रव्यनाम । ‘पिड्ढमिऽ ॥ अक्षास्तु—पाशकाश्च ते । पाशकनामानि । शेषे—‘प्रासकाः पाशकाः पाशाःऽ । एतानि च । परिणायस्तु शारीणां—अस्त्रियाम् । ‘ना पर्याणे विहङ्गे स्त्री शारिर्द्यूते गुडे न षण्ऽ इति वैजयन्ती (पृ। २३७, श्लो। ८८) । शारीणां सव्यापसव्यप्रसारणं परिणायः स्यात् ॥ ४५ ॥
[[०२.६४७]]
मूलम् - ०२.१०.०४६
(०२.१०.०४६अब्) अष्टापदं शीरिफलं प्राणिद्यूतं समाह्वयः ।
(०२.१०.०४६च्द्) उक्ता भूरिप्रयोगत्वादेकस्मिन् येऽत्र यौगिकाः ॥ ४६ ॥
(०२.१०.०४७अब्) ताद्धर्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते ।
(०२.१०.०४७अब्) इत्यमरसिंहकृतौ नामलिङ्गानुशासने ।
(०२.१०.०४७च्द्) द्वितीयः काण्डो भूम्यादिः साङ्ग एव समर्थितः ॥ ४७ ॥
इति श्रीमदमरसिंहकृते नामलिङ्गानुशासने शूद्रवर्गः
लिङ्ग-सूरी - AK.02.10.046-47
अष्टापदमिति—अष्टौ पदान्यस्य अष्टापदम् । शारिफलकनाम ॥ प्राणिनां द्यूतं प्राणिद्यूतम् । स्पर्धया समाहूयन्ते जना अत्रेति समाह्वयः ‘ह्वेञ् स्पर्धायां शब्दे चऽ । कुक्कुटमहिषादिभिः क्रियमाणस्य द्यूतस्य नाम ॥ अत्र वर्गे ये यौगिकाः शब्दाः मायाकारादयो भूरिप्रयोगत्वात् प्रयोगाधिक्यात् एकस्मिन्नेव लिङ्गे पुंलिङ्गे उक्ताः ते शब्दाः ताद्धर्म्यात् मायाकारादिधर्मयोगाद् अन्यतो वृत्तौ स्त्र्यादिवृत्तौ सत्यां लिङ्गान्तरेऽपि स्त्रीलिङ्गे नपुंसकलिङ्गे च । एवमूह्याः ऊहनीयाः । तद्यथा मायाकारी स्त्री । मायाकारि कुलमित्यादि ॥ ४६-४७ ॥
इति वङ्गलकामयभट्टोपाध्यायसूनुलिङ्गयसूरिविरचितायाममरकोशपदनिवृतौ शूद्रवर्गः
मल्लि-नाथः - AK.02.10.046-47
अष्टापदं शारिफलम् । शारिफलकनामनी । ‘पगडसालपिण्टऽ ‘अदिपाशापट्टऽ ॥ प्राणिद्यूतं समाह्वयः । मेषकुक्कुटादिद्यूतनाम ।
‘अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते ।
प्राणिभिः क्रियमाणं तु स विज्ञेयः समाह्वयःऽ ॥
अनुक्तम्—‘चतुरङ्गं बिन्दुतन्त्रःऽ । ‘चतुरङ्गमुऽ ॥ उक्ता भूरिप्रयोगत्वात्—लिङ्गान्तरेऽपि ते । अत्रास्मिन् वर्गे ये केचिद्यौगिका मायाकारमार्दङ्गिकादिशब्दा भूरिप्रयोगत्वात् प्रचुरप्रयोगदर्शनाद् एकस्मिन् पुंलिङ्गमात्रे उक्ताः कथिताः, ते शब्दास्ताद्धर्म्यात् तद्धर्मयोगाद् अन्यतो वृत्तौ स्त्र्यादिवृत्तौ सत्यां लिङ्गान्तरेऽपि स्त्र्यादिलिङ्गेऽपि ऊह्याः ऊहनीयाः ।
‘मायाकारो मार्दङ्गिको वैणवो वैणिको लोकः ।
मायाकारी मार्दङ्गिकी वैणवी वैणिकी सभा ।
मायाकारं मार्दङ्गिकं वैणवं वैणिकं वृन्दम् ॥ऽ
सौचिककुम्भकारादिशब्दा जातिवचनत्वादसर्वलिङ्गा एव । ‘आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्ऽ इति जातिलक्षणम् । सौचिकः, सौचिकी । कुम्भकारः, कुम्भकारी । इत्यादि ॥ ४६-४७ ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचितेऽमरपदपारिजाते शूद्रवर्गः
श्रीवत्सान्वयमान्येन मल्लिनाथेन निर्मिते ।
व्याख्यानेऽमरसिंहस्य द्वितीयः काण्ड उम्भितः ॥
[[०३.००१]]