मूलम् - ०२.०९.००१
(०२.०९.००१अब्) ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः ।
(०२.०९.००१च्द्) आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥
लिङ्ग-सूरी - AK.02.09.001
अथ क्रमप्राप्तं वैश्यवर्गमुपक्रमते ऊरव्या इति—ब्रह्मण ऊरुस्थाने भवा ऊरव्याः । ऊरुजाश्च । अरणीयाधिकारित्वात् भञ्जकैरधिगम्यन्ते अर्याः । ‘ऋ गतौऽ । विशोऽपत्यानि वैश्याः । भूमिं स्पृशन्ति लाङ्गलादिना भूमिस्पृशः । विशन्ति आपणादिकं विशः । ‘विश प्रवेशनेऽ । वैश्यनामानि ॥ आजीवत्यनेनेति आजीवः । जीविका च । ‘जीव प्राणधारणेऽ । वृत्तिः प्राणधारणा, सा अस्यामस्तीति वार्ता । वर्ततेऽनयेति वृत्तिः । वर्तनं च । ‘वृतु वर्तनेऽ । जीवन्त्यनेनेति जीवनम् । जीवननामानि ॥ १ ॥
मल्लि-नाथः - AK.02.09.001
ऊरव्या ऊरुजा—विशः । वैश्यनामानि ॥ आजीवो जीविका—जीवने । जीवननामानि । वृत्तिशब्दसाहचर्याद् वर्तनशब्दः स्त्रीलिङ्गोऽपि स्यात् । ‘वर्तनी वृत्तिमार्गयोःऽ इति वैजयन्ती (पृ। २४८, श्लो। २१) ॥ १ ॥
[[०२.५५४]]
मूलम् - ०२.०९.००२
(०२.०९.००२अब्) स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः ।
(०२.०९.००२च्द्) सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम् ॥ २ ॥
लिङ्ग-सूरी - AK.02.09.002
स्त्रियामिति—लाङ्गलादिना कर्षणं कृषिः । ‘कृष विलेखनेऽ । पशून् पालयतीति पशुपालः, तस्य कर्म पाशुपाल्यम् । वणिजो भावः वाणिज्यम् । इति शब्दात् कुसीदविजययज्ञप्रतिग्रहसेवाशुश्रूषादयो वृत्तयो भवन्ति । शुनो वर्तनमिव कष्टत्वात् श्ववृत्तिः । सेवनं सेवा । ‘षेवृ सेवनेऽ । सेवावृत्तिनाम ॥ अनृतवत् पापहेतुत्वाद् अनृतम् । कृषिवृत्तिनाम ॥ उलूखलसमीपे पतत्तण्डुलकणानादाय जीवनम् उञ्छम् । उञ्छीयते उञ्छम् । ‘उच्छि उञ्छेऽ । शिलनं शिलम् । ‘शिल उञ्छेऽ । क्षेत्रे त्यक्तकणिकानादाय जीवनं शिलम् । उञ्छं च शिलं च उञ्छशिलम् । तदेव ऋतमित्युच्यते । अर्यते स्तूयत इति ऋतम् । ‘ऋ शब्देऽ । उञ्छवृत्तिनामानि ॥ २ ॥
मल्लि-नाथः - AK.02.09.002
स्त्रियां कृषिः—वृत्तयः । इतिशब्दः प्रकारवचनः । कृषिपाशुपाल्यवाणिज्यानीत्येवम्प्रकाराः वृत्तयः ॥ सेवा श्ववृत्तिः । सेवा परप्रेष्यता । सा गर्हितत्वात् श्ववृत्तिः । ‘शुनो वृत्तिः स्मृता सेवा गर्हिता सा द्विजन्मनाम्ऽ इति मनुः (म। स्मृ। ४। ६) ॥ अनृतं कृषिः । सा कृषिः कृषिकर्म अनृतं स्यात् । उञ्छशिलं त्वृतम् । उञ्छो धान्यांश आदानमिति लूनकेदारावशिष्टधान्यस्यादानम् । ‘उञ्छः कणिशाद्यर्जनं शिलम्ऽ इति लूनकेदारावशिष्टकणिशार्जनम् ।
‘शिलं किमनलं भवेदनलमौदरं बाधितुं
पयः प्रसृतिपूरकं किमु न धारकं सारसम् ।
अयत्नमलमल्लकः पथि पटच्चरं कच्चरं
भजन्ति हि मुधाबुधा अहह कुक्षितः कुक्षितः ॥ऽ (वै। प। श्लो। १)
तदुभयं मिलितं चेदुञ्छशिलं शिलोञ्छोऽपि स्यात् । ‘यन्मतिधात्रीविलूने शिलोञ्छमिव कुर्वते कवयःऽ इति । एवंविधा वृत्तिः ऋत स्यात् ॥ २ ॥
[[०२.५५५]]
मूलम् - ०२.०९.००३
(०२.०९.००३अब्) द्वे याचितायाचितयोर्यथासख्यं मृतामृते ।
(०२.०९.००३च्द्) सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम् ॥ ३ ॥
(०२.०९.००४अब्) उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका ।
लिङ्ग-सूरी - AK.02.09.003
द्वे इति—याच्ञादशायामतिकष्टत्वात् मरणसमदुःखतया मृतवद्भवतीति मृतम् । याच्ञावृत्तिनाम ॥ याच्ञाया अभावाद् अमृतम् । अयाचितवृत्तिनाम ॥ सत्यं चानृतं च विद्येते अस्मिन्निति सत्यानृतम् । वाणिज्यवृत्तिनाम ॥ कालान्तरेऽर्यते प्राप्यत इति ऋणम् । ‘ऋ गतिप्रापणयोःऽ । पर्युदञ्च्यते परिप्राप्यत इति पर्यदञ्चनम् । ‘अञ्चु गतिपूजनयोःऽ । उद्ध्रियते गृह्यत इति उद्धारः । ‘हृञ् हरणेऽ । ऋणनामानि ॥ अर्थस्य प्रयोगोऽर्थप्रयोगः । कुत्सितं सीदति कदाचिन्मूलधननाशे कुसीदम् । ‘षद्लृ विशरणगत्यवसादनेषुऽ । वृद्धिरूपा जीविका वृद्धिजीविका । वृद्धिजीविकानामानि ॥ ३ ॥
मल्लि-नाथः - AK.02.09.003
द्वे याचिता—मृतामृते । याचितायाचितयोरिति भावे निष्ठा । याच्ञा वृत्तिः मृतं स्यात् । अयाच्ञावृत्तिरमृतं स्यात् । अनुक्तम्—‘पाशुपाल्यं जीववृत्तिःऽ । पाशुपाल्यं गवाश्वादिपोषणम् । तदेव जीववृत्तिः स्यात् ॥ सत्यानृतं वणिग्भावः । वणिग्भावो वाणिज्यम् । तत् सत्यानृतं स्यात् । स्यादृणं पर्युदञ्चनम् । ऋणनामनी । ‘अप्पुऽ ॥ उद्धारः । अवृद्धिकमृणमुद्धारः स्यात् । ‘तदवृद्धिकमुद्धारः कुसीदं तु सवृद्धिकम्ऽ इति वैजयन्ती (पृ। १२३, श्लो। ४) ॥ अर्थप्रयोगस्तु—वृद्धिजीविका । वृद्धेर्नामानि । ‘वड्डिऽ । सा च कालिकाद्यनेकभेदभिन्ना ।
‘सा कायिकान्वहं देया प्रतिमासं तु कालिका ।
कारिका तु स्वयं दृष्टा चक्रवृद्धिस्तु वृद्धिजा ॥ऽ
वृद्ध्या जीविका वृद्धिजीविका । सा अर्थप्रयोगः कुसीदं च स्यात् ॥ ३ ॥
[[०२.५५६]]
(०२.०९.००४च्द्) याच्ञयाप्तं याचितकं निमयादापमित्यकम् ॥ ४ ॥
मूलम् - ०२.०९.००५
(०२.०९.००५अब्) उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् ।
(०२.०९.००५च्द्) कुसीदको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः ॥ ५ ॥
लिङ्ग-सूरी - AK.02.09.004-5
याच्ञयेति—याच्ञया आप्तं याचितकम् । याच्ञालब्धद्रव्यनाम ॥ अपमीयते दीयते अपमित्यकम् । तदेव आपमित्यकम् । ‘मेङ् प्रणिदानेऽ । निमयात् अर्थविनिमयात् प्राप्यद्रव्यनाम ॥ ऋणे उत्कृष्टः उत्तमर्णः । वृद्ध्यर्थं धनप्रयोक्तृनाम । ऋणेऽधमः अधमर्णः । धनग्राहकनाम ॥ कुसीदम् अल्पवृद्ध्या गृहीतं बहुवृद्ध्यर्थं प्रयच्छतीति कुसीदकः । वृद्ध्या जीवतीति वार्धुषिकः । वार्धुषिश्च । गर्ह्यवृद्धिमाजीवतीति वृद्ध्याजीवः । अल्पवृद्ध्या अन्यहस्तादादाय अन्यस्य बहुवृद्ध्यर्थं प्रयोक्तुर्नामानि ॥ ४-५ ॥
मल्लि-नाथः - AK.02.09.004-5
याच्ञयाप्तं याचितकम् । निमयेन विना याच्ञयानीतं याचितकं स्यात् । ‘कुदुवलेकतेर्च्चिनदिऽ । निमयादापमित्यकम् । निमयादानीतम् आपमित्यकं स्यात् । ‘कुदवयिच्चि तेच्चिनदिऽ । उत्तमर्णाधमर्णौ—क्रमात् । प्रदाता प्रयोक्ता, ग्रहीता ग्राहकः । तौ द्वौ यथाक्रमम् उत्तमर्णः अधमर्णश्चेत्युच्येते ॥ कुसीदको वार्धुषिको—वार्धुषिः । वृद्ध्या जीवतो नामानि । कुसीदश्च द्वैगुणिको वार्धुषी च प्रयोक्तरि । एतानि चत्वारि च ॥ ४-५ ॥
[[०२.५५६]]
मूलम् - ०२.०९.००६
(०२.०९.००६अब्) क्षेत्राजीवः कर्षकश्च कृषकश्च कृषीवलः ।
(०२.०९.००६च्द्) क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्यद्भवोचितम् ॥ ६ ॥
लिङ्ग-सूरी - AK.02.09.006
क्षेत्राजीव इति—क्षेत्रेणाजीवतीति क्षेत्राजीवः । ‘जीव प्राणधारणेऽ । कर्षतीति कर्षकः । ‘कृष विलेखनेऽ । कृषकश्च । कृषिरस्यास्तीति कृषीवलः । कृषिकनामानि ॥ व्रीह्युद्भवोचितं क्षेत्रं व्रैहेयम् । शाल्युद्भवोचितं क्षेत्रं शालेयम् ॥ ६ ॥
मल्लि-नाथः - AK.02.09.006
क्षेत्राजीवः कर्षकश्च—कृषीवलः । कृष्या जीवतो नामानि । क्षेत्रं व्रैहेयशालेयं—उद्भवोचितम् । व्रीहीणां शालीनां च भवने क्षेत्रे व्रैहेयशालेये स्याताम् ॥ ६ ॥
[[०२.५५७]]
मूलम् - ०२.०९.००७
(०२.०९.००७अब्) यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि तत् ।
(०२.०९.००७च्द्) तिल्यतैलीनवन्माषोमाणुभङ्गाद् द्विरूपता ॥ ७ ॥
लिङ्ग-सूरी - AK.02.09.007
यव्यमिति—यवोद्भवोचितं क्षेत्रं यव्यम् । यवकाः शालिविशेषाः । तद्भवनोचितं क्षेत्रं यवक्यम् । षष्टिकानां भवनोचितं क्षेत्रं षष्टिक्यम् । तिलभवनोचितं क्षेत्रं तिल्यम् । तैलीनं च । माषभवनोचितं क्षेत्रं माष्यम् । माषीणं च । उमानां अतसीनां भवनोचितं क्षेत्रम् उम्य । औमीनं च । अणूनां भवनोचितं क्षेत्रम् अणव्यम् । आणवीनं च । भङ्गानां भवनोचितं क्षेत्रं भङ्ग्यम् । भाङ्गीनं च ॥ ७ ॥
मल्लि-नाथः - AK.02.09.007
यव्यं यवक्यं—भवनं हि यत् । यवयवकषष्टिकभवनक्षेत्राणि यव्ययवक्यषष्टिक्यानि स्युः ॥ तिल्यतैलीनवत्—द्विरूपता । तिलानां भवने क्षेत्रे तिल्यतैलीने स्याताम् । तद्वत् माषाणां भवनक्षेत्रे माष्यमाषीणे स्याताम् । उमानां भवनक्षेत्रे उम्यौमीने, अणूनां भवनक्षेत्रेऽणव्याणवीने, भङ्गानां भवनक्षेत्रे भङ्ग्यभाङ्गीने च स्याताम् ॥ ७ ॥
[[०२.५५७]]
मूलम् - ०२.०९.००८
(०२.०९.००८अब्) मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम् ।
(०२.०९.००८) (शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम्)
(०२.०९.००८च्द्) बीजाकृतं तूप्तकृष्टं सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥
लिङ्ग-सूरी - AK.02.09.008
मौद्गीनमिति—मुद्गभवनोचितं क्षेत्रं मौद्गीनम्, कोद्रवभवनोचितं क्षेत्रं कौद्रवीणम् । आदिग्रहणात् मसूरभवनोचितं क्षेत्रं मासूरीणमित्यादयो गृह्यन्ते । एतानि व्रैहेयादीनि कौद्रवीणान्तानि प्रत्येकं तत्तद्धान्योद्भवोचितक्षेत्रनामानि । तिल्यमाष्योम्याणव्यभङ्ग्यानां तु प्रत्येकं द्वे द्वे नामनी भवतः । शाकभवनोचितं क्षेत्रं शाकशाकटं शाकशाकिनमिति च द्वे नामनी भवतः ॥ बाजावापेन सहैव क्रियते कृष्यते वीजाकृतम् । उप्तेन बीजेन सह कृष्टम् उप्तकृष्टम् । आदौ उप्तं पश्चात् कृष्टमिति वा । बीजावापेन सह कृष्यमाणक्षेत्रनामनी ॥ सीतया सङ्गतं सीत्यम् । हलेन कृष्यते कृष्टम् । हलेन कृष्टं हल्यम् । हललिखितक्षेत्रनामानि ॥ ८ ॥
मल्लि-नाथः - AK.02.09.008
मौद्गीनकौद्रवीणादि—क्षमम् । मुद्गकोद्रवादिशेषधान्यानां भवनक्षेत्राणां मौद्गीनक्रौद्रवीणादीनि स्युः । अनुक्तम्—‘इक्षुशाकटमिक्षूणां क्षेत्रमिक्षुवणं वनम्ऽ । इक्षूणां क्षेत्रमिक्षुशाकटं स्यात् । इक्षूणां वनमिक्षुवणं स्यात् । ‘प्रनिरन्तःशरेक्षुप्लक्षाम्र ॥ ।ऽ (८। ४। ५) इत्यादिना णत्वम् ॥ बीजाकृतं तूप्तकृष्टम् । पूर्वं बीजैरुप्तं पश्चाल्लाङ्गलेन कृष्टं क्षेत्रं बीजाकृतं स्यात् । ‘वित्तिप्राशिनदिऽ । सीत्यं कृष्टं च हल्यवत् । हलेनैकवारं कृष्टक्षेत्रनामानि ॥ ८ ॥
[[०२.५५८]]
मूलम् - ०२.०९.००९
(०२.०९.००९अब्) त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ।
(०२.०९.००९च्द्) द्विगुणाकृते तु तत् सर्वं द्विपूर्वं शम्बाकृतमपीह ॥ ९ ॥
लिङ्ग-सूरी - AK.02.09.009
त्रिगुणाकृतमिति—त्रिवारं कृष्टं त्रिगुणाकृतम् । तृतीयाकृतम् । त्रिहल्यम् । त्रिसीत्यं च । त्रिवारकृष्टक्षेत्रनामानि ॥ द्विवारकृष्टक्षेत्रे पूर्वोक्तानि सर्वाणि नामान्यपि वर्तन्ते । इह द्विवारकृष्टक्षेत्रे न केवलं तावन्त्येव नामानि, किन्तु शम्बाकृतम् इति नामापि वर्तते । शम्बम् अनुलोमेन प्रतिलोमेन च कृष्टं शम्बाकृतम् । कथम् । द्विगुणाकृतम् । द्वितीयाकृतम् । द्विहल्यम् । द्विसीत्यम् । द्विवारकृष्टक्षेत्रनामानि ॥ ९ ॥
मल्लि-नाथः - AK.02.09.009
त्रिगुणाकृतं—त्रिसीत्यमपि तस्मिन् । त्रिवारकृष्टक्षेत्रनामानि ॥ द्विगुणाकृते तु—शम्बाकृतमपीह । द्विवारं हलेन कृष्टे क्षेत्रे द्विगुणाकृतद्वितीयाकृतद्विहल्यद्विसीत्यानि स्युः । तत्र शम्बाकृतशब्दोऽपि स्यात् । ‘सैरिभसम्भाकृते च सीताम्ऽ इति दन्त्यादिषु वर्णनिर्देशना ॥ ९ ॥
[[०२.५५९]]
मूलम् - ०२.०९.०१०
(०२.०९.०१०अब्) द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः ।
(०२.०९.०१०च्द्) खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥
लिङ्ग-सूरी - AK.02.09.010
द्रोणेति—उप्यते धान्यादिकमस्मिन्निति वापः क्षेत्रम् । तस्मिन् द्रोणाढकप्रस्थादिपरिमितबीजावापपर्याप्तक्षेत्रे द्रौणिकम्, आढकिकम्, आदिग्रहणात् प्रास्थकिकादयः शब्दा वर्तन्ते । द्रोणपरिमितं बीजमत्र उप्यते द्रौणिकम् । एवं सर्वत्राप्युन्नेयम् । खारिपरिमितानि बीजान्यत्र उप्यन्ते खारीकः । खारिपरिमितबीजावापपर्याप्तक्षेत्रनाम ॥ उत्तमर्णादयः खारीकान्ताः शब्दाः त्रिषु लिङ्गेषु वर्तन्ते ॥ १० ॥
मल्लि-नाथः - AK.02.09.010
द्रोणाढकादि—आढकिकादयः । द्रोणस्य वापो द्रौणिकं क्षेत्रम् । द्रोणं पचति द्रोणिः । उखा द्रोणं सम्भवत्यवहरति वा । द्रौणिकः प्रसेवः । इति द्रोणाढकादीनां वापादिषु द्रौणिकाढकिकादिशब्दाः स्युः । वापो वपनस्थानम् । पाकस्तण्डुलादीनामन्नादिभावः । सम्भव आधारप्रमाणानतिरिक्ताधेयप्रमाणता । अवहरणमुपसंहारः ॥ खारीवापस्तु खारीकः । खार्या वापः खारीकः स्यात् । पाकादिषु खारिक इति ठगेव स्यात् ॥ उत्तमर्णादयस्त्रिषु । उत्तमर्णादिशब्दास्त्रिलिङ्गाः । उत्तमर्णं किराटकुलम् । किराटो वैश्यः । ‘कोमटिऽ । अधमर्णं कुटिम्बिकुलम् । कुटिम्बिनः शूद्रकुमाराः । ‘काम्पुकोडुकुऽ ॥ १० ॥
[[०२.५५९]]
मूलम् - ०२.०९.०११
(०२.०९.०११अब्) पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु ।
(०२.०९.०११च्द्) कैदारकं स्यात् कैदार्यं क्षैत्रं कैदारिकं गणे ॥ ११ ॥
लिङ्ग-सूरी - AK.02.09.011
पुमिति—उप्यते धान्यमत्र वप्रः । ‘डुवप् बीजसन्तानेऽ । के जले हलेन दार्यत इति केदारः । ‘दॄ विदारणेऽ । क्षीयते हलेन लिख्यते क्षेत्रम् । ‘क्षिणु हिंसायाम्ऽ । क्षीयते धान्यैरस्मिन्निति वा । ‘क्षि निवासगत्योःऽ । व्रीहिक्षेत्रनामानि ॥ केदाराणां समूहः कैदारकम् । कैदार्यम् कैदारिकम् । क्षेत्राणां समूहः क्षैत्रम् । केदारसमूहनामानि ॥ ११ ॥
मल्लि-नाथः - AK.02.09.011
पुन्नपुंसकयोर्वप्रः—क्षेत्रम् । व्रैहेयादिक्षेत्रनामानि । ‘चेनुमडिमुदलैनदिऽ ॥ अस्य तु कैदारकं—कैदारिकं गणे । क्षेत्राणां समूहनामानि ॥ ११ ॥
[[०२.५६०]]
मूलम् - ०२.०९.०१२
(०२.०९.०१२अब्) लोष्टानि लोष्टवः पुंसि कोटिशो लोष्टभेदनः ।
(०२.०९.०१२च्द्) प्राजनं तोदनं तोत्रं खनित्रमवदारणम् ॥ १२ ॥
लिङ्ग-सूरी - AK.02.09.012
लोष्टानीति—लोष्ट्यन्ते पृथगेव संहन्यन्ते लोष्टानि । लोष्टवश्च । ‘लोष्ट सङ्घातेऽ । द्वितीयं पदमुकारान्तम् । लेष्टव इति पाठे लिश्यत इति लेष्टुः । ‘लिश गतौऽ । मृत्पिण्डनामनी ॥ कोटिभिरश्रिभिः लोष्टानि श्यतीति कोटिशः । ‘शो तनूकरणेऽ । लोष्टभेदनदारुयन्त्रनाम ॥ प्राज्यते प्रेर्यतेऽनड्वाननेनेति प्राजनम् । ‘अज गतिक्षेपणयोःऽ । तुद्यते बलीवर्दोऽनेनेति तोदनम् । तोत्रं च । ‘तुद व्यथनेऽ । अल्पशल्ययुक्तवेणुदण्डादेर्नामानि ॥ खन्यते भूमिरनेनेति खनित्रम् । ‘खनु अवदारणेऽ । अवदार्यते भूमिरनेनेति अवदारणम् । ‘दॄ विदारणेऽ । कुद्दालादेर्नामनी ॥ १२ ॥
मल्लि-नाथः - AK.02.09.012
लोष्टानि लोष्टवः पुंसि । उकारान्तबहुवचनम् । लोष्टनामनी । ‘बेड्डलुऽ । पुंसीति विशेषविधिर्लोष्टेषु सम्भाव्यः । ‘लोष्टुः शण्डेऽपि लोष्टः स्यात्ऽ इति गो(बो)पालितः । कोटिशो लोष्टभेदनः । लोष्टानां सम्भेदकः कोटिशः स्यात् । ‘कोदरिपेल्ललु पगलगोट्टिदिऽ । प्राजनं—तोत्रम् । कण्टकवद्यष्टिनामानि । ‘मुल्लुकोलऽ । चर्मदण्डवाचकान्यपि स्युः ॥ खनित्रमवदारणम् । कुद्दालनामनी । ‘गुद्दलिऽ ॥ अनुक्तम्—‘विशिखा तु खनित्री स्यात्ऽ । विशालकुद्दालनामनी । ‘सलिके पारऽ ॥ १२ ॥
[[०२.५६०]]
मूलम् - ०२.०९.०१३
(०२.०९.०१३अब्) दात्रं लवित्रमाबन्धो योत्र योक्त्रमथो फलम् ।
(०२.०९.०१३च्द्) निरीषं कुटकं फालः कृषको लाङ्गलं हलम् ॥ १३ ॥
(०२.०९.०१४अब्) गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः ।
लिङ्ग-सूरी - AK.02.09.013-14
दात्रमिति—दाति भिनत्त्यनेन तृणमिति दात्रम् । ‘दाप् लवनेऽ । लुनन्त्यनेन लवित्रम् । ‘लूञ् छेदनेऽ । वक्रस्यायोमयस्य तृणादिलवनसाधनस्य नामानि ॥ आबध्यतेऽनेन बलीवर्दकण्ठ इति आबन्धः । ‘बधि संयमनेऽ । यूयतेऽनेन बलीवर्दकण्ठ इति योत्रम् । ‘युञ् बन्धनेऽ । युज्यतेऽनेन बलीवर्दकण्ठ इति योक्त्रम् । ‘युजिर् योगेऽ । बलीवर्दादिकण्ठबन्धनार्थनिर्मितवल्कलादिकृतरज्जुनामानि ॥ फलतीति फलम् । ‘ञिफला विशरणेऽ । निर्गता ईषास्मादिति निरीषम् । कुटति कुत्सितं सरतीति कुटकम् । ‘कुट कौटिल्येऽ । फलति विशीर्यते भूमिरनेनेति फालः । ‘ञिफला विशरणेऽ । कृषति भुवमिति कृषकः । ‘कृष विलेखनेऽ । लाङ्गलदण्डरहितस्य लोहमयफलकस्य नामानि ॥ लङ्गति भुवोऽन्तः प्रविश्य गच्छतीति लाङ्गलम् । ‘लगि गतौऽ । हलते विलिखति भुवमिति हलम् । ‘हल विलेखनेऽ । गौर्भूः दार्यतेऽनेन गोदारणम् । ‘दॄ विदारणेऽ । सीयते युगेन सह बध्यते सीरः । ‘षिञ् बन्धनेऽ । ईषाफालाभ्यामन्वितस्य कुटकस्य नामानि ॥ बलीवर्दादिदौष्ट्यं शमयतीति शम्या । ‘शम उपशमनेऽ । युगस्य कीलकः । युगकीलकनाम ॥ १३ ॥
मल्लि-नाथः - AK.02.09.013-14
दात्रं लवित्रम् । लवनसाधननामनी । ‘कोडवलिऽ । आबन्धो—योक्त्रम् । योत्रनामानि । ‘जोतिगेऽ ॥ अथो फले—कृषकः । फालनामानि । ‘कुर्ठुऽ । लाङ्गलं हलं—सीरः । लाङ्गलनामानि । ‘नागलिऽ । ‘क्षेत्रमिव सरोवरं सारासिरावगाहितम्ऽ इति श्लेषाद् दन्त्यादिः । ‘जित्या हलिरुभे स्त्रियाम्ऽ । इत्येते द्वे च ॥ अथ शम्या स्त्री युगकीलकः । युगमध्यस्थः स्वल्पकीलः शम्या स्यात् । ‘कुरुचकाण्डिकोडुसुऽ । ‘हलमिव शम्याश्रयमाश्रममपश्यत्ऽ इति श्लेषात् तालव्यादिः ॥ १३ ॥
[[०२.५६१]]
(०२.०९.०१४च्द्) ईषा लाङ्गलदण्डः स्यात् सीता लाङ्गलपद्धतिः ॥ १४ ॥
मूलम् - ०२.०९.०१५
(०२.०९.०१५अब्) पुंसि मेधिः खले दारु न्यस्तं यत् पशुबन्धने ।
(०२.०९.०१५च्द्) आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ ॥ १५ ॥
लिङ्ग-सूरी - AK.02.09.014-15
ईषेति—बलीवर्दाकृष्टा ईषते गच्छतीति ईषा । ‘ईष गतिहिंसादानेषुऽ । लाङ्गलस्य दण्डः लाङ्गलदण्डः । युगहलयोः मध्यघटितदण्डस्य नामनी ॥ स्यति नाशयति कठिनामपि भुवमिति सीता । ‘षोऽन्तकर्मणिऽ । लाङ्गलपद्धतिनाम ॥ मेधते बलीवर्दैः सङ्गच्छते मेधिः । ‘मेधृ सङ्गमेऽ । खलमध्यबलीवर्दबन्धनविषयस्य दारुणो नाम ॥ आशु पद्यत इति आशुः । अश्नुते वा । ‘अशू व्याप्तौऽ । व्रीणाति देहमिति व्रीहिः । ‘व्री भरणेऽ । आशुव्रीहिरित्येकं पदं वा । पाटलपुष्पवर्णत्वात् पाटलः । रक्तव्रीहिनामानि ॥ शितः तीक्ष्णः शूको यस्य शितशूकः । यूयते सम्बध्यते महाजनेनेति यवः । ‘युञ् बन्धनेऽ । यौति तुषेणेति वा । ‘यु मिश्रणेऽ । यवनामनी ॥ १४-१५ ॥
मल्लि-नाथः - AK.02.09.014-15
ईषा लाङ्गलदण्डः स्यात् । लाङ्गलस्य दण्ड ईषा स्यात् । ‘येण्डिकोलऽ । ‘ईषा मनीषा मञ्जूषा गण्डूषा सह लिक्षयाऽ इति मूर्धन्यान्तेषु चन्द्रगोमिः ।
‘ईशः प्रभौ शङ्करे स्यादीशा लाङ्गलदण्डकेऽ ।
इति तालव्यान्तेषु विश्वप्रकाशिका (पृ। १६८, श्लो। ९) ॥ सीता लाङ्गलपद्धतिः । लाङ्गलेन कृष्टो मार्गः सीता स्यात् । ‘चालुऽ । ‘सीता लाङ्गलरेखा स्याद् व्योमगङ्गा च जानकीऽ इति दन्त्यादिषु रभसः ॥ पुंसि मेधिः—यत्पशुबन्धने । खलो नाम धान्यराशिकरणस्थानम् । तत्र पशुबन्धनार्थं निखातस्तम्भो मेधिः स्यात् । ‘ “मेधृ सङ्गमे” मेध्यन्ते पशवोऽत्र मेधिःऽ इति सुभूतिटीकायां व्युत्पत्त्या तवर्गचतुर्थान्तः । पुंसीति पदं मेधिखलशब्दोभयविशेषणम् । ‘न स्त्री मेधिः खले पाली खलधानं पुनः खलःऽ इति वैजयन्ती (पृ। १२५, श्लो। ३१) ॥ आशुर्व्रीहिः पाटलः स्यात् । व्रीहिनामानि । ‘पड्लुऽ । आशुशब्दः पर्यायवाचकः । ‘व्रीहिराशुश्च पाटलःऽ इति रत्नमाला ॥ शितशूकयवौ समौ । शितशूकशब्दो ह्रस्वादिः । यवनामनी ॥ १४-१५ ॥
[[०२.५६२]]
मूलम् - ०२.०९.०१६
(०२.०९.०१६अब्) तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः ।
(०२.०९.०१६च्द्) हरेणुखण्डिकौ चास्मिन् कोरदूषस्तु कोद्रवः ॥ १६ ॥
लिङ्ग-सूरी - AK.02.09.016
तोक्म इति—तुज्यते पशुभिः खाद्यत इति तोक्मः । ‘तुज हिंसायाम्ऽ । हरितवर्णयवनाम ॥ कं वातं लात्युपादत्त इति कलायः । ‘ला आदानेऽ । सीदन्ति वातप्रकृतयोऽनेनेति सतीनकः । ‘षद्लृ विशरणगत्यवसादनेषुऽ । ह्रियतेऽनेन पुरीषं कुक्षेरिति हरेणुः । ‘हृञ् हरणेऽ । खण्ड्यतेऽद्यते नरैरिति खण्डिकः । ‘खडि भेदनेऽ । कलायनामानि ॥ कोरमन्नं दूषयतीति कोरदूषः । ‘दुष वैकृत्येऽ । केन बहूदकेन उद्यते क्लिद्यत इति कोद्रवः । ‘उन्दी क्लेदनेऽ । कोद्रवाख्यधान्यनामनी ॥ १६ ॥
मल्लि-नाथः - AK.02.09.016
तोक्मस्तु तत्र हरिते । आमयवस्तोक्मः स्यात् । ‘पच्चियवलुऽ ॥ कलायस्तु सतीनकः । खण्डिकौ चास्मिन् । वृत्तचणकनामानि । ‘लङ्कलुऽ ॥ कोरदूषस्तु कोद्रवः । कोद्रवनामनी । ‘आऴंलुऽ ॥ १६ ॥
[[०२.५६३]]
(०२.०९.०१७अब्) मङ्गल्यको मसूरोऽथ मकुष्ठकमयुष्ठकौ ।
(०२.०९.०१७च्द्) वनमुद्गे सर्षपे तु द्वौ तुन्दुभकदम्बकौ ॥ १७ ॥
maṅgalyaka iti—maṅgalamasmādbhavatīti maṅgalyakaḥ . masyati pariṇamati kāle masūraḥ . ‘masī pariṇāme’ . caṇakabhedanāmanī .. maṅkyate phalairiti makuṣṭhakaḥ . ‘maki maṇḍane’ . minoti krimīniti mayuṣṭhakaḥ . ‘ḍumiñ prakṣepaṇe’ . vanamudganāmāni .. kaṭutvena mukhaṃ sarati vyāpnotīti sarṣapaḥ . ‘sṛ gatau’ . tudati vyathayati mukhaṃ tundubhaḥ . ‘tuda vyathane’ . śuṣkadaśāyāṃ kat kutsitamambate kadambakaḥ . ‘abi śabde’ . sarṣapanāmāni .. 17 ..
मल्लि-नाथः - AK.02.09.017
मङ्गल्यको मसूरः । चणकविशेषनामनी । मसूरोऽथेति पाठे वैजयन्ती (पृ। १२६, श्लो। ४०) ‘मसुरस्तु मसूरकःऽ इति । मसूराथेति पाठे—‘वेश्यायां व्रीहिभेदे च मसूरा मसुरा स्त्रियाम्ऽ इति रभसकोशः ॥ अथ मकुष्ठकमयुष्ठकौ वनमुद्गे । वनमुद्गनामानि ॥ अनुक्तम्—‘खण्डिरः पीतमुद्गः स्यात्ऽ । हरितमुद्गनाम । ‘कृष्णमुद्गस्तु शिम्बिकःऽ । नीलमुद्गनाम ॥ सर्षपे तु—कदम्बकौ । सर्षपनामानि । ‘आवालुऽ ॥ १७ ॥
[[०२.५६४]]
मूलम् - ०२.०९.०१८
(०२.०९.०१८अब्) सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ ।
(०२.०९.०१८च्द्) स्याद् यावकस्तु कुल्माषः चणको हरिमन्थकः ॥ १८ ॥
लिङ्ग-सूरी - AK.02.09.018
सिद्धार्थ इति—सिद्धोऽर्थः प्रयोजनमस्य सिद्धार्थः । श्वेतसर्षपनाम ॥ आ समन्तात् गां भुवं शूकैर्धुनोतीति गोधूमः । ‘धूञ् कम्पनेऽ । शोभनं मन्यते सर्व एनमिति सुमनः । ‘मन ज्ञानेऽ । अकारान्तोऽयम् । गोधूमनामनी ॥ यूयते पाकसमयेऽल्पाम्भसा युज्यत इति यावकः । ‘युञ् बन्धनेऽ । कोलति पाकसमये स्थूलो भवति कुल्माषः । ‘कुल संस्त्यानेऽ । कुलुत्थनामनी ॥ अर्धपक्वदशायामेव निकृत्तानां गोधूमानां नामेति केचित् । चण्यते भक्षणार्थं दीयत इति चणकः । ‘चण दानेऽ । हरिभिरश्वैः मथ्यते हरिमन्थकः । ‘मथि विलोडनेऽ । चणकनामनी ॥ १८ ॥
मल्लि-नाथः - AK.02.09.018
सिद्धार्थकस्तु धवलः । एष सर्षपो धवलश्चेत् सिद्धार्थकः स्यात् । ‘तेल्लनि आवालुऽ । गोधूमः सुमनः समौ । ‘गोधूमसुमनौ समौऽ इति रभसकोशपाठाद् अकारान्तः । गोधूमनामनी । स्याद्यावकस्तु कुल्माषः । गोधूमानन्तरपाठाद् गोधूमविशेषनामनी । ‘यावके बलकुल्माषौ यवके तोयपर्णिकाऽ इति यवविशेषे वैजयन्ती (पृ। १२७, श्लो। ९३) ॥ चणको हरिमन्थकः । चणकनामनी ॥ १८ ॥
[[०२.५६४]]
मूलम् - ०२.०९.०१९
(०२.०९.०१९अब्) द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले ।
(०२.०९.०१९च्द्) क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी ॥ १९ ॥
लिङ्ग-सूरी - AK.02.09.019
द्वाविति—निष्फलस्तिलः तिलपेजः। तिलपिञ्जश्च । निष्फलतिलनामनी । क्षौत्यनेन क्षवः । ‘टुक्षु शब्देऽ । क्षुतमभिजनयतीति क्षुताभिजननः । ‘जनी प्रादुर्भावेऽ । राजते कृष्णवर्णपुष्पैरिति राजिका । ‘राजृ दीप्तौऽ । कृष्णवर्णयोगात् कृष्णिका । कटुरसेन असुरस्त्रीवदनिष्टकारिणीत्वात् आसुरी । कृष्णसर्षपनामानि ॥ १९ ॥
मल्लि-नाथः - AK.02.09.019
द्वौ तिले—तिलपिञ्जश्च निष्फले । निष्फले तिले तिलपेजतिलपिञ्जशब्दौ स्याताम् । ‘पोल्लुनूपुऽ । अनुक्तम्—‘जालकश्चूलिकस्तिलःऽ । तिलनामानि ॥ ‘नव्वुऽ ॥ ‘जर्तिलोऽरण्यजस्तिलःऽ । अरण्यजातस्तिलो जर्तिलः स्यात् । क्षवः क्षुताभिजननः—कृष्णिकासुरी । कृष्णसर्षपनामानि ॥ १९ ॥
[[०२.५६५]]
मूलम् - ०२.०९.०२०
(०२.०९.०२०अब्) स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा ।
(०२.०९.०२०च्द्) मातुलानी तु भङ्गायां व्रीहिभेदस्त्वणुः पुमान् ॥ २० ॥
लिङ्ग-सूरी - AK.02.09.020
स्त्रियाविति—केन जलेन गच्छत्युद्गच्छतीति कङ्गुः । ‘गम्लृ गतौऽ । प्रियाण्यङ्गान्यस्याः प्रियङ्गुः । प्रियङ्ग्वाख्यधान्यनामनी ॥ न तस्यते न क्षीयत इति अतसी । ‘तसु उपक्षयेऽ । अवते शुष्कदशायां स्वनतीति उमा । ‘उङ् शब्देऽ । क्षौतीति क्षुमा । ‘टुक्षु शब्देऽ । अतसीनामानि ॥ मा तोल्यते न उपमीयते उपयोगिधान्येनेति मातुलानी । ‘तुल उन्मानेऽ । भज्यते वल्कलार्थमिति भङ्गा । ‘भञ्जो आमर्दनेऽ । शणविशेषस्य नामनी ॥ अल्पधान्यत्वात् अणुः । व्रीहिभेदाल्पधान्यनाम ॥ २० ॥
मल्लि-नाथः - AK.02.09.020
समौ कङ्गुप्रियङ्गू द्वौ । प्रियङ्ग्वाख्यधान्यजातिनामनी । ‘कोर्रलुऽ ॥ अतसी स्यादुमा क्षुमा । अतसीनामानि । मातुलानी तु भङ्गायाम् । भङ्गाख्यधान्यविशेषजातिनामनी । ‘कुसुमुलुऽ । अनुक्तम्—‘यावनालस्तु जोनालो जोन्नला बीजपुष्पिकाऽ । जोनलनामानि । ‘जोन्नलुऽ ॥ ‘समौ तु खल्वनिष्पावौऽ । निष्पावनामनी । ‘अनुमुलुऽ । ‘वल्ला तुवरिकाढकीऽ । आढकीनामानि । ‘कन्दुलुऽ । ‘राजमाषोऽलसान्द्रः स्यात्ऽ । ‘अलसन्दऽ । ‘माषो वृष्यः पचेलिमःऽ । माषनामानि । ‘कुलुत्थिका बलकुलःऽ । कुलुत्थनामनी । ‘उलुवलुऽ । ‘व्रीहिभेदस्त्वणुः पुमान्ऽ । व्रीहिविशेषोऽणुः स्यात् । ‘कोरेऽ । ‘ऊदरवित्तुलुऽ ॥ २० ॥
[[०२.५६५]]
मूलम् - ०२.०९.०२१
(०२.०९.०२१अब्) किंशारुः सस्यशूकं स्यात् कणिशं सस्यमञ्जरी ।
(०२.०९.०२१च्द्) धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥
लिङ्ग-सूरी - AK.02.09.021
किंशारुरिति—कुत्सितं शृणाति हस्तादिकमिति किंशारुः । ‘शॄ हिंसायाम्ऽ । सस्यस्य शूकं तीक्ष्णाग्रम् । सस्यशूकनाम ॥ कणा धान्यकणाः सन्त्यत्रेति कणिशम् । सस्यमञ्जरीनाम ॥ दधाति देहमिति धान्यम् । ‘डुधाञ् धारणपोषणयोःऽ । व्रीहिशब्दो व्युत्पन्नः (श्लो। १५) । स्तम्बं गुच्छं करोतीति स्तम्बकरिः । धान्यनामानि ॥ तिष्ठतीति स्तम्बः । गुध्यति परिवेष्टयति भुवमिति गुच्छः । ‘गुध परिवेष्टनेऽ । तृणादिस्तम्बनाम ॥ २१ ॥
मल्लि-नाथः - AK.02.09.021
किंशारुः सस्यशूकं स्यात् । धान्यस्य कण्टकः किंशारुः स्यात् । पुंलिङ्गः पुमानिति पूर्वोत्तरान्वयः ॥ कणिशं सस्यमञ्जरी । धान्यमञ्जरी कणिशं स्यात् ॥ धान्यं व्रीहिः स्तम्बकरिः । धान्यनामानि । धान्यध्वनिरथेत्यादिवक्ष्यमाणवचनाद्, व्रीहिस्तम्बकरिशब्दौ पुंलिङ्गौ ॥ स्तम्बो गुच्छस्तृणादिनः । तृणादीनां गुच्छः स्तम्बः स्यात् ॥ ‘परिघण्टऽ ॥ २१ ॥
[[०२.५६६]]
मूलम् - ०२.०९.०२२
(०२.०९.०२२अब्) नाली नाल च काण्डोऽस्य पलालोऽस्त्री स निष्फलः ।
(०२.०९.०२२च्द्) कडङ्गरो बुसं क्लीबे धान्यत्वचि पुमांस्तुषः ॥ २२ ॥
लिङ्ग-सूरी - AK.02.09.022
नालीति—नलति बध्नातीति नाली । नालं। च । ‘णल बन्धनेऽ । तृणशलाकानामानि ॥ पलति उच्चैर्गच्छतीति पलालः । ‘पल गतौऽ । निष्फलनाडीनाम ॥ कटति खलमावृणोति कट् । तदेवाङ्गं रूपं यस्य सः कडङ्गरः । ‘कटे वर्षावरणयोःऽ बुस्यते उत्सृज्यत इति बुसम् । ‘बुस उत्सर्गेऽ । खले पशुपादघट्टितस्य क्षोद्स्य नामनी ॥ तुष्यतेऽग्निनेनेति तुषः । ‘तुष तुष्टौऽ । धान्यत्वङ्नाम ॥ २२ ॥
मल्लि-नाथः - AK.02.09.022
नाली नालं च काण्डोऽस्य । अस्य तृणादिनो दण्डनामानि । पलालोऽस्त्री स निष्फलः । विफलस्तृणादिकाण्डः पलालः स्यात् । ‘यन्नुलु दाडिपोयिनदण्डमुऽ । ‘मोडुऽ ॥ कडङ्गरो बुसं क्लीबे । पलालादिक्षोदस्य नामनी । ‘पोल्लुकुऴुऽ । धान्यत्वचि पुमांस्तुषः । धान्यस्य त्वक् तुषः स्यात् । ‘उमुकऽ । अनुक्तम्—‘कञ्जूकः कण्डनं चेति तण्डुलस्य मले द्वयम्ऽ । तण्डुलमलनामनी । ‘तवुडुऽ ॥ २२ ॥
[[०२.५६७]]
(०२.०९.०२३अब्) शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे ।
(०२.०९.०२३च्द्) ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् ॥ २३ ॥
शूक इति—श्यति स्वापगमनेन धान्यं तनूकरोतीति शूकः । ‘शो तनूकरणेऽ । श्लक्ष्णतीक्ष्णाग्रधान्यकण्टकनाम ॥ शाम्यति सस्यवृद्धिरस्यां सत्यामिति शमी । ‘शमु उपशमनेऽ । शिनोति तनूकरोति स्वगतबीजद्वारेण कफं पित्तं चेति शिम्बा । ‘शिञ् निशानेऽ । मुद्गादित्वङ्नाम ॥ उत्तरे बहुलीकृतान्ताः शब्दाः त्रिषु लिङ्गेषु वर्तन्ते ॥ अवैगुण्येन सम्पन्नं फलम् ऋद्धम् । ‘ऋधु वृद्धौऽ । श्रिया शोभया आवस्यते आवसितम् । ‘वस आच्छादनेऽ । सुक्षेत्रादिगुणैः सम्पूर्णधान्यनाम ॥ बुसापकरणेन शुद्धत्वात् पूतम् । ‘पूञ् पवनेऽ । बुहुमूल्यं लातीति बहुलम् । तथा कृतं बहुलीकृतम् । ‘ला आदानेऽ । निर्बुसीकृतधान्यनामनी ॥ २३ ॥
मल्लि-नाथः - AK.02.09.023
शूकोऽस्त्री—तीक्ष्णाग्रे । यस्याग्रं श्लक्ष्णं तीक्ष्णं च स्यात् तच्छूकं स्यात् । ‘मुल्लुऽ ॥ शमी शिम्बा । मुद्गादित्वङ्नामनी । ‘चिप्पजून्नलमिदि नूगुऽ ॥ त्रिषूत्तरे । इत उपरि वक्ष्यमाणा ऋद्धादयश्चत्वारः शब्दास्त्रिलिङ्गाः । ऋद्धो जोनलः । ऋद्धा राजिका ॥ ऋद्धमावसितं धान्यम् । अनडुद्भिरावसितं धान्यं ऋद्धं स्यात् । ‘नुरिचिनकोलुचुऽ ॥ पूतं तु बहुलीकृतम् । वायुना निस्तुषं कृतं धान्यं पूतं स्यात् । ‘तूरुपत्तिनरोल्पुऽ ॥ २३ ॥
[[०२.५६७]]
(०२.०९.०२४अब्) माषादयः शमीधान्ये शूकधान्ये यवादयः ।
(०२.०९.०२४च्द्) शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी ॥ २४ ॥
माषादय इति—मष्यते वातोऽनेनेति माषः । ‘मष हिंसायाम्ऽ । शमीसहितं धान्यं शमीधान्यम् । माषादयः शमीधान्ये वर्तन्ते । आदिशब्देन मुद्गादयो गृह्यन्ते । यवादयो यवगोधूमरक्तशाल्यादयः शूकधान्येषु वर्तन्ते ॥ शाल्यन्ते श्लाघ्यन्ते जनैरिति शालयः । ‘शाडृ श्लाघायाम्ऽ । कल्यन्त इति कलमाः । ‘कड घसनेऽ । षष्टिरात्रेण पच्यन्ते षष्टिकाः । कलमाद्याः षष्टिकाद्याश्च शालय इत्युच्यन्ते । पुंस्यमी । अमी माषयवशालिकलमषष्टिकशब्दाः पुंसि वर्तन्ते ॥ २४ ॥
मल्लि-नाथः - AK.02.09.024
माषादयः शमीधान्ये । शमीसहितं धान्यं शमीधान्यम् । तस्मिन् माषादयः स्युः । माषादयः शमीधान्यानीत्यर्थः ॥ शूकधान्ये यवादयः । शूकसहितं धान्यं शूकधान्यम् । तस्मिन् यवादयः स्युः । यवादयः शूकधान्यानीत्यर्थः ॥ शालयः—षष्टिकाद्याश्च । कलमप्रभृतयो व्रीहयश्च षष्टिकाद्याः षष्टिसङ्ख्याकदिवसपचेलिमा व्रीहयश्च शालयः स्युः ॥ पुंस्यमी । सामान्यविशेषनामभिस्ते पुंलिङ्गाः । कलमान् वप । षष्टिकान् वप । शालीन् वप ॥ २४ ॥
[[०२.५६८]]
(०२.०९.०२५अब्) तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका ।
(०२.०९.०२५च्द्) अयोऽग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम् ॥ २५ ॥
तृणेति—नितरां व्रियन्ते नीवाराः । ‘वृञ् वरणेऽ । तृणधान्यनाम ॥ गवि अकृष्टभमावेधते गवेधुः । गवेधुका च । ‘एध वृद्धौऽ । वनगोधूमनामनी ॥ अयोऽगग्रेऽस्य अयोऽग्रम् । मुस्यते धान्यमनेनेति मुसलः । ‘मुस खण्डनेऽ । येन धान्यादिकं भिद्यते तस्य नामनी ॥ उद् ऊर्ध्वं खमाकाशमस्येति उदूखलम् । उलूखलं च । धान्यखण्डनार्थमाधारभूतस्य दार्वादेर्नामनी ॥ २५ ॥
मल्लि-नाथः - AK.02.09.025
तृणधान्यानि नीवाराः । तृणधान्यनाम । ‘निव्वरिलुऽ । तृणधान्यशब्दः पर्यायवचनश्चाधिकारवचनश्च स्यात् । स्त्री गवेधुर्गवेधिका । अरण्यगोधूमनामनी । ‘वट्टुवड्लुऽ ॥ अनुक्तम्—‘श्यामाकस्तु स्मयाकः स्यात्ऽ । श्यामाकनामनी ॥ ‘चामऽ ॥ ‘गर्मुद्गर्मुटिका समेऽ । गर्मुन्नामनी । ‘बरगुऽ ॥ अयोऽग्रं मुसलोऽस्त्री स्यात् । ‘मुसलो दन्त्यमध्यो मूर्धन्यमध्यश्च स्यात्ऽ इति वर्णनिर्देशनामवचनाद् मुषलोऽपि स्यात् । मुसलनामनी । ‘रोङ्कलिऽ ॥ ‘उदूखलमुलूखलम्ऽ । अवहननस्थानगर्तवच्छिलानामनी । ‘रोलुऽ ॥ २५ ॥
[[०२.५६९]]
(०२.०९.०२६अब्) प्रस्फोटनं शूर्पमस्त्री चालनी तितौ’ः पुमान् ।
(०२.०९.०२६च्द्) स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ ॥ २६ ॥
प्रस्फोटनमिति—प्रस्फोट्यते तुषादिरनेन बहिष्क्रियत इति प्रस्फोटनम् । ‘स्फुटिर् विशरणेऽ । शीर्यते विशीर्यते तुषादिरनेन शूर्पम् । ‘शॄ हिंसायाम्ऽ । शूर्पनामनी ॥ चाल्यतेऽनया पिष्टमिति चालनी । ‘चल कम्पनेऽ । तनोत्यधस्तात् पिष्टसारमिति तितौ’ः । ‘तनु विस्तारेऽ । क्षुद्रच्छिद्रोपेतस्य शूर्पविशेषस्य नामनी ॥ सीव्यते वेणुदलैरिति स्यूतः । स्योन वा पाठः । प्रसेवश्च । ‘पिवु तन्तुसन्तानेऽ । वेणूदलनिर्मितस्य तिर्यग्वृत्तपात्रस्य नामनी ॥ कण्ड्यते मूषकैरिति कण्डोलः । ‘कडि भेदनेऽ । पिट्यते वेणुदलैरिति पिटः । ‘पिट शब्दसङ्घातयोःऽ । वेणुदलादिनिर्मितस्य वर्तुलोन्नतस्य धान्यवापनसाधनस्य नामनी ॥ कटत्यङ्गणदेशमिति कटः । ‘कटे वर्षावरणयोःऽ । किल्यते धान्यमस्मिन्निति किलिञ्जकः । ‘किल क्षेपेऽ । व्रीह्यादिप्रसारणार्थं वेणुदलनिर्मितास्तरणनामनी ॥ २६ ॥
मल्लि-नाथः - AK.02.09.026
प्रस्फोटनं शूर्पमस्त्री । ‘सुश्रॄभ्यां निच्चऽ (उ। ३। २५) इति शृणातेः पप्रत्यये उत्रपरत्वदीर्घत्वानि । केचित्तु सर्तेर्दन्त्यादिसूर्पमिच्छन्तीति पुरुषोत्तमवचनात् तालव्यादिश्च दन्त्यादिश्च स्यात् । तण्डुलादिवैतुष्यसाधननामनी । ‘चाटऽ ॥ चालनी तितौ’ः पुमान् । ‘तनोतेर्ड उः सन्वच्चऽ (उ। ४। ५१) इति निर्देशसामर्थ्याद् गुणाभावः । तितौ’ तितवः इत्यादि । ‘चालनं तितौ’ प्रोक्तम्ऽ इति रत्नकोशमते तितौ’नी तितऊनि । चालननामनी । ‘जल्लेडऽ । स्यूतप्रसेवौ । बिलकनामनी । ‘सञ्जिऽ । ‘स्यूनः स्यूतः प्रसेवकःऽ इति रभसकोशपाठात् स्यूनशब्दोऽपि स्यात् ॥ कण्डोलपिटौ । वेण्वादिकृतपिटकस्य नामनी । ‘गम्प्पऽ ॥ कटकिलिञ्जकौ । वेण्वादिकृतकटकस्य नामनी । ‘चापऽ ॥ २६ ॥
[[०२.५७०]]
(०२.०९.०२७अब्) समानौ रसवत्यां तु पाकस्थानमहानसे ।
(०२.०९.०२७च्द्) पौरोगवस्तदध्यक्षः सूपकारास्तु वल्लवाः ॥ २७ ॥
(०२.०९.०२८अब्) आरालिका आन्धसिकाः सूदा औदनिका गुणाः ।
समानाविति—अनेकरसयोगात् रसवती । पाकस्य स्थानं पाकस्थानम् । अनोवत् शकटवदुपकारत्वादनः पाकस्थानम् । महच्च तदनश्च महानसम् । पाकवेश्मनामानि ॥ पुरः गौर्जलमत्रास्तीति पुरोगुः पाकस्थानम् । तस्यायमध्यक्षः पौरोगवः । पाकस्थानाध्यक्षनाम ॥ सूपं व्यञ्जनं कुर्वन्तीति सूपकाराः । ‘डुकृञ् करणेऽ । वल्लन्ति भोक्तुः प्रीतिमुत्पादयन्तीति वल्लवाः । ‘वल्ल प्रीतौऽ । सूपशाकव्यञ्जनादिपाचकस्य नाम ॥ अरालमन्नं प्रयोजनमेषामिति आरालिकाः । अन्धोऽन्नं प्रयोजनमेषामिति आन्धसिकाः । ओदनः प्रयोजनमेषां ते औदनिकाः । सूदयन्ति हिङ्गुमरीचादिगताल्पप्राणिन इति सूदाः । ‘षूद क्षरणेऽ । गुणयन्ति पुनः पुनः पाकमावर्तयन्तीति गुणाः । ‘गुण अभ्यासेऽ । भक्तादिकारिणां नामानि ॥ २७ ॥
मल्लि-नाथः - AK.02.09.027-28
समानौ रसवत्यां तु—महानसे । पाकस्थाननामानि । ‘बाणसेल्लुऽ । पौरोगवस्तदध्यक्षः । महानसाधिकारी पौरोगवः स्यात् ॥ सूपकारस्तु—औदनिका गुणाः । पाचकनामानि । इमे त्रिष्वित्यनेन त्रिलिङ्गाः ।
‘कान्ता चेयं गुणा चेयं प्रेष्या चेयं ममैकिकाऽ ॥ २७ ॥
[[०२.५७०]]
(०२.०९.०२८च्द्) आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु ॥ २८ ॥
(०२.०९.०२९अब्) अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका ।
आपूपिक इति—अपूपः प्रयोजनमस्य आपूपिकः । कन्दौ संस्कृतं कान्दवम् । तत् पण्यमस्येति कान्दविकः । भक्ष्यं करोतीति भक्ष्यकारः । मोदकादिकारिणां नामानि ॥ इमे त्रिषु । इमे पौरोगवाद्याः भक्ष्यकारान्ताः शब्दाः त्रिषु लिङ्गेषु वर्तन्ते ॥ अश्नुते स्थालीमूलमिति अश्मन्तम् । ‘अशू व्याप्तौऽ । अश्मनोऽपि अन्तोऽत्रेति वा । उद्धीयतेऽग्निरनेनेति उद्धानम् । ‘डुधाञ् धारणपोषणयोःऽ । उद्वानमिति पाठे उद्वयन्ते ज्वाला अत्रेति । ‘वेञ् तन्तुसन्तानेऽ । अधिश्रीयतेऽनयेति अधिश्रयणी । ‘श्रीञ् पाकेऽ । चोद्यते निरस्यतेऽग्निरस्यामिति चुल्ली । ‘चुद प्रेरणेऽ । ‘चुल्ल भावकरणेऽ इति वा धातुः । पुनः पुनः अन्तो नाशोऽस्यामस्तीति अन्तिका । चुल्लीनामानि ॥ २८ ॥
मल्लि-नाथः - AK.02.09.028-29
आपूपिकः—भक्ष्यकारः । सुभूतिटीकायां कान्दुकः कान्दविकः भक्ष्यङ्कार इति मुमागमश्चोक्तः । भक्ष्यपाचकनामानि । अनुक्तम्—‘शाककारः कटम्बकःऽ । शाकपाचकः कटम्बकः स्यात् ॥ इमे त्रिषु । इमे पौरोगवाद्याः भक्ष्यकारान्ताः शब्दाः त्रिषु लिङ्गेषु स्युः ॥ अश्मन्तं—चुल्लिरन्तिका । चुल्लीनामानि ॥ ‘प्रोय्यऽ ॥ २८ ॥
[[०२.५७१]]
(०२.०९.०२९च्द्) अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि ॥ २९ ॥
(०२.०९.०३०अब्) हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् ।
(०२.०९.०३०च्द्) क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम् ॥ ३० ॥
अङ्गार इति—अङ्गारा धीयन्तेऽस्यामिति अङ्गारधानिका । अङ्गाराणां शकटी अङ्गारशकटी । अङ्गारप्रकाशेन हसति चकास्ते हसन्ती । हसनी च । ‘हसे हसनेऽ । अङ्गाराहरणार्थं निर्मितस्य अयःशकटस्य नामानि ॥ अङ्गति इतस्ततो गच्छतीति अङ्गारः । ‘अगि गतौऽ । अयं पुन्नपुंसकयोर्वर्तते । अतिक्रान्तकाष्ठदशस्य अप्राप्तभस्मावस्थस्य इन्धनस्य नाम ॥ दहनभयात् न लान्ति एतन्न स्वीकुर्वन्तीति अलातम् । ‘ला आदानेऽ । स्फुलिङ्गैरुलति उल्मुकम् । ‘उल आवरणेऽ । अग्नियुक्तकाष्ठनामनी ॥ अम्बते भृज्यमानलाजादिभिरिति अम्बरीषम् । ‘अबि शब्देऽ । भृज्यते लाजादिरत्रेति भ्राष्ट्रः । ‘भ्रस्ज पाकेऽ । लाजादिकरणार्थं कृतस्य घटकपालस्य नामनी ॥ स्कन्दयति स्वगततापेन अपूपादिकं शोषयतीति कन्दुः । ‘स्कन्धिर गतिशोषणयोःऽ । स्वेद्यतेऽग्नितापेनेति स्वेदनी । ‘ञिष्विदा गात्रप्रक्षरणेऽ । अपूपादिपचनार्थं निर्मितस्यायोमयस्य पात्रस्य नामनी ॥ २९-३० ॥
मल्लि-नाथः - AK.02.09.029-30
अङ्गारधानिका—हसन्यपि । अग्निष्ठाननामानि । ‘कुम्प्पटिऽ । अथ न स्त्री स्यादङ्गारः । ‘हरनयनेङ्गारितो मदनःऽ इति प्राकृतरूपस्यापि ग्रहणम् । ‘इङ्गारो दृश्यते क्वापिऽ इति रभसकोशपाठात् प्रयोगार्ह एव । ‘वितेनुरिङ्गालमिवायशः परेऽ इति नैषधः (१। ९) ॥ अलातमुल्मुकम् । अङ्गारनामानि । ‘निप्पुऽ । अनुक्तम्—अग्निचित् कालिका । ‘बोग्गुऽ । अथ स्याद्रक्षा भसितभस्मनी । भस्मनामानि ॥ क्लीबेऽम्बरीषं भ्राष्ट्रो ना । भर्जनपात्रनामनी । ‘मङ्गलमुऽ । अम्बरीषशब्दस्य भ्राष्ट्रशब्दसाहचर्यं केचिदिच्छन्ति ॥ कन्दुर्ना स्वेदिनी स्त्रियाम् । अयोनिर्मितपात्रनामनी । ‘पेनमुऽ । कन्दुशब्दस्य स्वेदनीशब्दसाहचर्यं केचिदिच्छन्ति ॥ २९-३० ॥
[[०२.५७२]]
(०२.०९.०३१अब्) अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका ।
(०२.०९.०३१च्द्) पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥
(०२.०९.०३२अब्) घटः कुटनिपावस्त्री शरावो वर्धमानकः ।
अलिञ्जर इति—अलं शीघ्रं जीर्यते अलिञ्जरः । ‘जॄष् झृष् वयोहानौऽ । मणति गम्भीरं ध्वनतीति मणिकः । ‘मण शब्देऽ । महाकुम्भनामनी ॥ किरति जलधारामिति कर्करी । ‘कॄ विक्षेपेऽ । आ ईषदुदकं लातीति आलुः । ‘ला आदानेऽ । गलति ईषदुदकमिति गलन्तिका । ‘गल क्षरणेऽ ॥ गलन्तिकानामानि ॥ पिठ्यते बह्वन्नमत्र संश्लिष्यते पिठरः । ‘पिठ हिंसाक्लेशनयोःऽ । स्थलन्ति तण्डुलादयोऽस्यामिति स्थाली । ‘ष्ठल प्रतिष्ठायाम्ऽ । ओखति भोजनस्थानं गच्छतीति उखा । ‘उख गतौऽ । कुण्ड्यन्ते तण्डुला अत्र पच्यन्त इति कुण्डम् । ‘कुडि दाहेऽ । कुण्डनामानि ॥ कमुदकं लातीति कलशः । ‘ला आदानेऽ । घटते जलाहरणक्रियायामिति घटः । ‘घट चेष्टायाम्ऽ । घटशब्दः स्त्रीपुंलिङ्गयोर्वर्तते । कुटति स्वनति पूर्यमाणोऽम्भसेति कुटः । ‘कुट शब्देऽ । नितरां पिबति जलमस्मादिति निपः । ‘पा पानेऽ । इमौ पुन्नपुंसकयोर्वर्तेते । उदकघटनामानि ॥ शरं शीर्यमाणं पतदुदकादिकम् अवतीति शरावः । ‘अव रक्षणेऽ । शरावशब्दः पुन्नपुंसकयोर्वर्तते । वर्ध्यते छिद्यते महतः कर्मण इति वर्धमानकः । ‘वर्ध छेदनपूरणयोःऽ । वर्धतेऽनेन उदकादिकमिति वा । ‘वृधु वृद्धौऽ । मृण्मयपतद्ग्रहनामनी ॥ ३१ ॥
मल्लि-नाथः - AK.02.09.031-32
अलिञ्जरः स्यान्मणिकः । आवपननामनी । ‘निराडुमुन्त्तकलुऽ । भाषान्तरे ‘केलपेसरुऽ ॥ कर्कर्यालूर्गलन्तिका । करकनामानि । ‘गरगेऽ । ‘वर्धनी तु गलन्त्यालूः कर्करी करकोऽपि चऽ इति वैजयन्ती (पृ। १६३, श्लो। ५७) । अनुक्तम्—‘करङ्को नारिकेलस्यऽ । स एव करकः नालिकेरसम्बन्धी चेत् करङ्कः स्यात् । ‘टेकायकमण्डलमुऽ । कृत्तिः करकवर्तिका । स एव करकः चर्मसबन्धी चेत् करकवर्तिका स्यात् । ‘करवतिगेऽ ‘तोलुगिण्डिऽ ॥ पिठरः—कुण्डम् । पचनपात्रनामानि । ‘वण्टकुण्डलुऽ ॥ कलशस्तु—घटः कुटनिपौ । घटनामानि । ‘रडुवऽ ॥ अस्त्री शरावो वर्धमानकः । शरावनामानि । ‘मूकुडुऽ । शरावं तालव्यादि । शालाजिरशब्दोऽपि तद्वदेव ॥ ३१ ॥
[[०२.५७३]]
(०२.०९.०३२च्द्) ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् ॥ ३२ ॥
(०२.०९.०३३अब्) कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् ।
(०२.०९.०३३च्द्) सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ३३ ॥
ऋजीषमिति—अर्जयत्यपूपादिकमिति ऋजीषम् । ‘अर्ज अर्जनेऽ । ऋचीषमिति वा पाठः । पिष्टं पच्यतेऽस्मिन्निति पिष्टपचनम् । पिष्टपचनसाधनस्य नामनी ॥ काम्यतेऽस्मिन्निःसृतं पानं कंसः । ‘कमु कान्तौऽ । पानस्य भाजनं पानभाजनम् । भोजनकाले चोष्याद्याहाराधारस्य कांस्यादिसाधनस्य नामनी ॥ कुत्सितं शुद्धिरहितं चर्म तन्यतेऽत्र कुतूः । ‘तनु विस्तारेऽ । कृत्तिनिर्मितस्नेहपात्रनाम ॥ अल्पा कुतूः कुतुपः । अल्पकुतूनाम ॥ आ समन्तात् उप्यते न्यस्यते धान्यादिकमस्मिन्निति आवपनम् । आङ्पूर्वो वपिः न्यसने । भन्दयति आधेयस्य कल्याणं करोतीति भाण्डः । ‘भदि कल्याणे सुखे चऽ । सर्वपात्राणां साधारणनामनी ॥ पाति मृगादन्नादिकमिति पात्रम् । ‘पा रक्षणेऽ । अमति सम्भजति, भुङ्क्ते निर्दुष्टमन्नमत्रेति अमत्रम् । ‘अमगत्यादिपुऽ । भज्यते भोक्तृणेति भाजनम् । ‘भज सेवायाम्ऽ । भोजनपात्रनामानि ॥ ३२-३ ॥
मल्लि-नाथः - AK.02.09.032-33
ऋजीषं पिष्टपचनम् । पिष्टानां पचनपात्रमृजीषं स्यात् । ‘शिरीषं पुरीषं करीषम् ऋजीषं तरीषम्ऽ इति दीर्घमध्येषु सरस्वतीकण्ठालङ्कारः । ‘पिष्टपचनं त्वृजिषम्ऽ इति नाममाला । ‘बाणरिऽ ॥ कंसोऽस्त्री पानभाजनम् । पानपात्रनामनी । ‘गिण्डिऽ । रूढशब्दत्वात् हेमरजतादिनिर्मितमपि कंसमेव । स्वार्थे ष्यञि प्राप्ते कांस्यमपि स्यात् । ‘कांस्यं कंसोऽस्त्रियां पानपात्रे तैजस आढकेऽ इति वैजयन्ती (पृ। २३०, श्लो। ११) । कुतूः—स्नेहपात्रम् । चर्ममयं स्नेहपात्रं कुतूः स्यात् । ‘नूनेशिद्धेऽ । सैवाल्पा—पुमान् । अल्पा सैव कुतूः कुतुपः स्यात् । ‘तऴिगे ऽ ॥ अनुक्तम्—‘काचपात्रं तु कुन्नारम्ऽ । काचपात्रनामनी । ‘पिङ्गाऴिगिनेऽ । ‘अथ मृद्भाण्डमुष्ट्रिकाऽ । मृत्पात्रनाम । ‘मण्टिकुण्डऽ । सर्वमावपन भाण्डम् । अलिञ्जराद्यावपनान्तं सर्वं भाण्डं स्यात् ॥ पात्रामत्रं च भाजनम् । कास्यपात्रनामानि । ‘कञ्चमुऽ । चशब्दाद् भाण्डपर्यायोऽपि स्यात् ॥ ३२-३ ॥
[[०२.५७४]]
(०२.०९.०३४अब्) दर्वी कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः ।
(०२.०९.०३४च्द्) अस्त्री शाकं हरितकं शिग्रुरस्य तु नालिका ॥ ३४ ॥
(०२.०९.०३५अब्) कडम्बश्च कलम्बश्च वेषवार उपस्करः ।
दर्वीति—दृणाति पाक्यमन्नमनयेति दर्वी । ‘द्दृ विदारणेऽ । दर्विरिति वा पाठः । कम्यते उष्णान्नस्पर्शपरिहारायेति कम्बिः । ‘कमु कान्तौऽ । खजति मथ्नाति अन्नमनयेति खजाका । ‘खज मन्थेऽ । कांस्यदर्वीनामानि ॥ उष्णपायसादिकं तनोत्यनया तर्दूः । ‘तनु विस्तारेऽ । तरत्यनया उष्णभयमिति वा । ‘तॄ प्लवनतरणयोः ऽ । दारुमयहस्तवद्विशालदर्वीनाम ॥ शक्यते भोक्तुमनेनेति शाकम् । ‘शक्लृ शक्तौऽ । प्रायेण हरितवर्णत्वात् हरितकम् । शिनोति तनूकरोत्यरुचिमिति शिग्रुः । ‘शिञ् निशातनेऽ । शाकमात्रनामानि ॥ कड्यते त्वचमुत्सृज्य भक्ष्यते कडम्बः । कलम्बश्च । ‘कड घसनेऽ । शाकनालनामानि ॥ वेषं पच्यमानशाकव्याप्तं वृणोतीति वेषवारः । ‘वृञ् वरणेऽ । उपस्क्रियते संस्क्रियते शाकमनेनेति उपस्करः । ‘डुकृञ् करणेऽ । मरीचिहिङग्वादिसंस्कारनामनी ॥ ३४ ॥
मल्लि-नाथः - AK.02.09.034-35
दर्विः कम्बिः—दारुहस्तकः । तड्डूनामानि । ‘तेड्डुऽ । तड्डूशब्दस्य खजूकाशब्दसाहचर्यमपि केचिदिच्छन्ति । केचिद्दारुहस्तकशब्दसाहचर्यमिच्छन्ति । ‘तड्डूर्द्वयोः खजूका स्यात्ऽ इति नाममाला ॥ अस्त्री शाकं—शिग्रुः । शाकनामानि । अस्त्रीशब्देन शाकः पुन्नपुंसकः । हरितकं रूपभेदात् नपुंसकम् । शिग्रुशब्दोऽनभिधानात् स्त्रीपुंलिङ्गयोरन्यतरः । ‘शाकोऽस्त्री हरितकं शिग्रुः स्त्रीऽ इति वैजयन्ती (पृ। १६६, श्लो। ९०) । ‘पुंलिङ्गः शाकमात्रे स्यात् । शिग्रुः शोभाञ्जनेऽपि चऽ इति रभसकोशः ॥ अस्य तु—कदम्बश्च कलम्बश्च । अस्य तु नाडिकेति शाकस्य वल्कलम् । सा नाडिका कदम्बश्च कलम्बश्च स्यात् । ‘वण्डे कूर कुतुचिन नारऽ ॥ वेशवार उपस्करः । संस्कारनामनी । वेसवारप्रसभसेतुसिनीवालीति दन्त्यसकारेषु वर्णनिर्देशना ॥ ३४ ॥
[[०२.५७५]]
(०२.०९.०३५च्द्) तिन्त्रिणीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् ॥ ३५ ॥
मूलम् - ०२.०९.०३६
(०२.०९.०३६अब्) मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम् ।
लिङ्ग-सूरी - AK.02.09.035-36
तिन्त्रिणीकमिति—ताडयति वातमाहन्तीति तिन्त्रिणीकम् । ‘तड आघातेऽ । तिन्त्रिणीवृक्षजातत्वाद्वा । चुक्कयति व्यथयति दन्तानिति चुक्रम् । ‘चुक्क व्यथनेऽ । तिन्त्रिणीवृक्षस्याम्लं वृक्षाम्लम् । तिन्त्रिणीफलनामानि ॥ वेल्ले समुद्रवेलातटे प्रायेण जायते वेल्लजम् । जिह्वा म्रियते इव व्यथतेऽनेनेति मरीचम् । ‘मृङ् प्राणत्यागेऽ । कुडत्यल्पीभवतीति कोलकम् । ‘कुड अल्पीभावेऽ । कृष्णवर्णफलत्वात् कृष्णम् । ऊषति तापयतीति ऊषणम् । ‘ऊष दाहेऽ । धर्मपत्तनाख्यस्थानविशेषे भवं धर्मपत्तनम् । मरीचनामानि ॥ ३५ ॥
मल्लि-नाथः - AK.02.09.035-36
तिन्त्रिणीकं—वृक्षाम्लम् । तिन्त्रिणीफलनामानि । ‘चिन्तपण्डुऽ । अथ वेल्लजं मरिचम् । ह्रस्वदीर्घोभयेकारः । ‘मरीचं मरिचं कोलम्ऽ इति रभसकोशः । अनुक्तम्—
‘कोलकं कृष्णमुषणमूषणं धर्मपत्तनम् ।
श्यामं च ।ऽ
मरिचनामानि । ‘मिरियालुऽ ॥ ३५ ॥
[[०२.५७६]]
(०२.०९.०३६च्द्) जीरको जीरणोऽजाजी कणा कृष्णे तु जीरके ॥ ३६ ॥
मूलम् - ०२.०९.०३७
(०२.०९.०३७अब्) सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका ।
लिङ्ग-सूरी - AK.02.09.036-37
जीरक इति—जीर्यतेऽन्नमनेनेति जीरकः । जीरणश्च । जरण इति वा पाठः । ‘जॄष् वयोहानौऽ । अजं स्वाभाविकमग्निम् अजत्याक्षिपतीति अजाजी । ‘अज गतिक्षेपणयोःऽ । कणाः सन्त्यस्यामिति कणा । जीरकनामानि ॥ सुष्ठु सवति मन्दमग्निं प्रेरयतीति सुषवी । ‘षू प्रेरणेऽ । कारुवदग्निप्रदीपनकर्मणि नैपुण्यात् कारवी । बृहत्कणयोगात् पृथ्वी । पृथुश्च । कालवर्णत्वात् काला । उपकुञ्चयति वातादिकमल्पीकरोतीति उपकुञ्चिका । ‘कुञ्च गतिकौटिल्याल्पीभावयोःऽ । कृष्णजीरकनामानि ॥ ३६ ॥
मल्लि-नाथः - AK.02.09.036-37
जीरको जीरणो—कणा । जीरकनामानि । ‘जीलकर्रऽ । कृष्णे तु जीरके—कालोपकुञ्चिका । कृष्णजीरकनामानि । ‘नल्लजीलकर्रऽ ॥ ३६ ॥
[[०२.५७६]]
(०२.०९.०३७च्द्) आर्द्रकं शृङ्गबेरं स्यादथ छत्रा वितुन्नकम् ॥ ३७ ॥
मूलम् - ०२.०९.०३८
(०२.०९.०३८अब्) कुस्तुम्बरु च धान्याकमथ शुण्ठी महौषधम् ।
(०२.०९.०३८च्द्) स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥
लिङ्ग-सूरी - AK.02.09.037-38
आर्द्रकमिति—अर्दयति कफशूलादीनिति आर्द्रकम् । ‘अर्द हिंसायाम्ऽ । ‘आर्द्रायां भवमिति वाऽ । शृङ्गोपेतं बेरं शरीरमस्येति शृङ्गबेरम् । आर्द्रकनामनी ॥ छादयति पित्तादिदोषानभिभवतीति छत्रा । ‘छद अपवारणेऽ । वितुदति रोगान्नाशयति वितुन्नकम् । ‘तुद व्यथनेऽ । कुत्सितं दाहादिरोगं तुम्बयति कुस्तुम्बरु । ‘तुबि अर्दनेऽ । धान्यं धान्यसादृश्यमकति प्राप्नोतीति धान्याकम् । ‘अक अग कुटिलायां गतौऽ । कुस्तुम्बरुनामानि ॥ आतपेन शुण्ठति शुष्यतीति शुण्ठी । ‘शुठि शोषणे प्रतिघाते चऽ । महच्च तदौषधं च महौषधम् । विश्वभेषजनामैकदेशत्वाद् विश्वम् । नगराख्यदेशे समीचीनं भवतीति नागरम् । बहुरोगभेषजत्वाद् विश्वभेषजम् । शुण्ठीनामानि ॥ ३७-८ ॥
मल्लि-नाथः - AK.02.09.037-38
आर्द्रकं शृङ्गबेरं स्यात् । आर्द्रकनामनी । ‘अल्लमुऽ । अथ छत्रा—धान्याकम् । ‘छत्रा कुस्तुम्बरी धान्या धन्या धाना धनीयिकाऽ इति वैजयन्त्यां (पृ। १२७, श्लो। ४९) प्रकारान्तरेणापि पठितम् । कुस्तुम्बर्या नामानि । ‘कोतिमिदिऽ ॥ अथ शुण्ठी—विश्वभेषजम् । शुण्ठीनामानि । ऊषणं सिंहणं च स्यात् । एते द्वे च ॥ ३७-८ ॥
[[०२.५७७]]
मूलम् - ०२.०९.०३९
(०२.०९.०३९अब्) आरनालकसौवीरकुल्माषाभिषुतानि च ।
(०२.०९.०३९च्द्) अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥
लिङ्ग-सूरी - AK.02.09.039
आरनालकमिति—आरनालमन्नम् । तन्निस्रावजत्वाद् आरनालकम् । सुवीराख्यदेशे प्रायेण भवतीति सौवीरम् । कुल्माषैरर्धस्विन्नैर्जीरकादिभिरभिषूयते परिवास्यत इति कुल्माषाभिषुतम् । ‘षुञ् अभिषवेऽ । अवन्त्याख्यदेशे सूयते प्रायेण सम्पद्यत इति अवन्तिसोमम् । पूर्वोक्त एव धातुः । धान्यं तण्डुलक्षालनोदकं कालेनाम्लीभवति धान्याम्लम् । कुत्सितं रसयुक्तजलमस्येति कुञ्जलम् । केन जलेन अञ्जिका अभिव्यक्तिरस्येति काञ्जिकम् । काञ्जिकमिति पाठे कञ्चयति दीपयति अग्निम् । ‘कचि दीप्तिबन्धनयोःऽ । काञ्जिकनामानि ॥ ३९ ॥
मल्लि-नाथः - AK.02.09.039
आरनालकसौवीर—कुञ्जलानि च काञ्जिके । धान्याम्लनामानि । ‘कलिऽ । गृहोदकं स्यात् सन्धानं रक्षोघ्नं शुक्तमित्यपि । एतानि चत्वारि च ॥ ३९ ॥
[[०२.५७७]]
मूलम् - ०२.०९.०४०
(०२.०९.०४०अब्) सहस्रवेधि जतुकं बाह्लीकं हिङ्गु रामठम् ।
(०२.०९.०४०च्द्) तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥ ४० ॥
लिङ्ग-सूरी - AK.02.09.040
सहस्रेति—सहस्रं बहुतरमपि शाकं स्वगन्धेन विध्यति परिवासयतीति सहस्रवेधि । ‘व्यध ताडनेऽ । वृक्षविशेषे जायत इति जतुकम् । बाह्लीकदेशे भवत्वात् बाह्लीकम् । हिनोति गन्धेन गृहान्तरमपि गच्छतीति हिङ्गु । ‘हि गतौऽ । रामठदेशे वृक्षविशेषे भवं रामठम् । हिङ्गुनामानि ॥ कारुवत् कर्मणि निपुणत्वात् कारवी । बहुकार्यकरत्वात् पृथ्वी । पृथुश्च । बाष्पं निर्यासं मुञ्चतीति बाष्पिका । कथञ्चित् कबरीसादृश्यात् कबरी । त्वक्पत्रिणो हिङ्गुवृक्षस्य नामानि ॥ ४० ॥
मल्लि-नाथः - AK.02.09.040
सहस्रवेधि—हिङ्गु रामठम् । हिङ्गुनामानि । तत्पत्री कारवी—कबरी पृथुः । कारव्यादयस्तत्पत्री हिङ्गुपत्रम् । अथवा त्वक्पत्रादयः हिङ्गुपत्रम् ।
‘त्वक्पत्रं तु समाख्यातं त्वक्पत्रीति च कारवीऽ ।
इति रुद्रः ॥ ४० ॥
[[०२.५७८]]
मूलम् - ०२.०९.०४१
(०२.०९.०४१अब्) निशाह्वा काञ्चनी पीता हरिद्रा वरवर्णिनी ।
(०२.०९.०४१च्द्) सामुद्रं यत्तु लवणमक्षीबं वशिरं च तत् ॥ ४१ ॥
लिङ्ग-सूरी - AK.02.09.041
निशाह्वेति—निशाया नामान्यस्याः सन्तीति निशाह्वा । काञ्चनवर्णयोगात् काञ्चनी । पीतवर्णयोगात् पीता । हरितं पर्णवर्णसदृशं पीतवर्णं द्रातीति हरिद्रा । ‘द्रा कुत्सायां गतौऽ । श्रेष्ठवर्णत्वाद् वरवर्णिनी । हरिद्रानामानि ॥ अक्ष्णोति व्याप्नोति बहुतरशाकमपि अक्षीबम् । ‘अक्षू व्याप्तौऽ । वष्टि कामयते रसाभिव्यञ्जकत्वादेतदिति वशिरम् । ‘वश कान्तौऽ । समुद्रे भवं सामुद्रम् । समुद्रोद्भवलवणनामनी ॥ ४१ ॥
मल्लि-नाथः - AK.02.09.041
निशाख्या काञ्चनी—वरवर्णिनी । हरिद्रानामानि । ‘पसपुऽ ॥ सामुद्रं यत्तु—वशिरं च तत् । समुद्रलवणम् अक्षीबं स्यात् । तदेव वशिरं स्यात् । तालव्यमध्यः । अक्षीबं च शिवं च तत्—इति पाठेऽपि तदेव शिवशब्दस्तालव्यादि ॥ ४१ ॥
[[०२.५७८]]
मूलम् - ०२.०९.०४२
(०२.०९.०४२अब्) सैन्धवोऽस्त्री शीतशिवं माणिबन्धं च सिन्धुजे ।
(०२.०९.०४२च्द्) रौमके बस्तकं पाक्यं बिडं च कृतके द्वयम् ॥ ४२ ॥
लिङ्ग-सूरी - AK.02.09.042
सैन्धव इति—सिन्ध्वाख्यदेशे सैन्धवम् । शीतं मन्दाग्निं शिनोति तनूकरोतीति शीतशिवम् । ‘शिञ् निशातनेऽ । मणिबन्धाख्यगिरौ भवं माणिबन्धम् । माणिमन्थमिति वा पाठः । सिन्धुदेशजलवणनामानि ॥ रुमाख्याकरे भवं रौमकम् । बस्तोऽजः तस्य ईषद्गन्धयोगात् बस्तकम् । वसुकमिति वा पाठः । रुमाख्याकरोद्भवलवणनामनी ॥ पक्तव्यं पाक्यम् । बिडति विष्कम्भशूलादिं नाशयतीति बिडम् । ‘बिड भेदनेऽ । पक्तव्यलवणनामनी ॥ ४२ ॥
मल्लि-नाथः - AK.02.09.042
सैन्धवोऽस्त्री—सिन्धुजे । सैन्धवलवणनामानि । रौमके बस्तकम् । रौमकलवणनामनी । ‘दोनवुप्पुऽ ॥ पाक्यं बिडं—द्वयम् । बिडलवणनामनी ॥ ४२ ॥
[[०२.५७९]]
मूलम् - ०२.०९.०४३
(०२.०९.०४३अब्) सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके ।
(०२.०९.०४३च्द्) मत्स्यन्दी फाणितं खण्डविकारे शर्करा सिता ॥ ४३ ॥
लिङ्ग-सूरी - AK.02.09.043
सौवर्चल इति—सौवर्चलाकरोद्भवत्वात् सौवर्चलम् । अक्ष्णोति बह्वौषधादिकमिति अक्षम् । ‘अक्षू व्याप्तौऽ । रोचतेऽन्नमनेनेति रुचकम् । ‘रुच दीप्तौ अभिप्रीतौ चऽ । सुवर्चलाख्याकरोद्भवलवणनामानि ॥ तिलति स्निह्यतीति तिलकम् । ‘तिल स्नेहनेऽ । कृष्णवर्णरुचकनाम ॥ मन्दं स्यन्दत इति मत्स्यन्दी । ‘स्यन्दू प्रस्रवणेऽ । मत्स्यण्डीति वा पाठः । श्रेष्ठगुडचूर्णाभनिकृष्टशर्कराविकारनाम ॥ फाण्यते पक्वसमये घाटान्तरे निक्षिप्यते फाणितम् । ‘फण गतौऽ । पङ्कवदपिण्डावस्थगुडविकारनाम ॥ विशेषनिष्पीडितपाकजखण्डविकारस्य नामानीति केचित् ॥ शीर्यत इति शर्करा । ‘शृ विशरणेऽ । धवलवर्णत्वात् सिता । पञ्चसारानाम्नः शर्कराया नाम ॥ ४३ ॥
मल्लि-नाथः - AK.02.09.043
सौवर्चलेऽक्षरुचके । सौवर्चललवणनामानि । ‘ना चक्रे शकटेऽप्यक्षः क्ली सौवर्चल इन्द्रियेऽ इत्यभिधानादक्षं षान्तम् । ‘अक्ष्यं काङ्क्ष्यं रुचिष्यं चऽ इति पाठादक्ष्यं यान्तं च ॥ तिलकं तत्र मेचके । नीलसौवर्चललवणं तिलकं स्यात् । अनुक्तम्—‘पटु क्षेत्र्यं चोषरजेऽ । क्षेत्रजलवणनामानि ॥ मत्स्यण्डी फाणितं खण्डविकारे । खण्डशर्करानामानि ॥ शर्करा सिता । शर्करानामनी ॥ ४३ ॥
[[०२.५८०]]
मूलम् - ०२.०९.०४४
(०२.०९.०४४अब्) कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता ।
(०२.०९.०४४च्द्) स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः ॥ ४४ ॥
लिङ्ग-सूरी - AK.02.09.044
कूर्चिकेति—कूर्चकः क्षीरमस्तु, तदस्यास्तीति कूर्चिका । नवप्रसूतगोक्षीरविकारनाम ॥ दध्यादिगतनानाविधरसयोगाद् रसाला । रसान् आलातीति रसाला । ‘ला दानेऽ । यत्सूदशास्त्रम्—
‘अर्धाढकं सुदृढपर्युषितस्य दध्नः खण्डस्य षोडश पलानि शशिप्रभस्य ।
सर्पिष्पलं मधुपलं मरिचद्विकर्षं शुण्ठ्याः पलार्धमपि वार्धपलं चतुर्णाम् ॥
श्लक्ष्णे पटे ललनया मृदुपाणिघृष्टा कर्पूरधूलिसुरभीकृतभाण्डसंस्था ।
एषा वृकोदरकृता सुरसा रसाला या स्वादिता भगवता मधुसूदनेन ॥ऽ
इति क्षीरस्वामी (पृ। २०९) ॥ पटे निधाय मृज्यते शोध्यते मार्जिता । ‘मृजूष् शुद्धौ अलङ्कारे चऽ । शिखरिणीनाम्नो लेह्यस्य नामनी ॥ तिम्यति आर्द्रीभवतीति तेमनम् । ‘तिम आर्द्रीभावेऽ । नितिष्ठत्यन्तं गच्छत्यनेनान्नमिति निष्ठानम् । चोष्यनामनी ॥ इत आरभ्य वासितशब्दपर्यन्तं त्रिलिङ्गाः ॥ ४४ ॥
मल्लि-नाथः - AK.02.09.044
कूर्चिका क्षीरविकृतिः स्यात् । क्षीरविकारः कूर्चिका स्यात् । संस्कारभेदात् सा द्विविधा ।
‘दध्ना सह पयः पक्वं यत्स्यात् सा दधिकूर्चिका ।
तक्रेण पक्वं यत्क्षीरं सा भवेत् तक्रकूर्चिका ॥ऽ
स्याद्रसाला तु मार्जिता । शिखरिणीनामनी । ‘शिखरिऽ ॥
‘अपक्वतक्रं सद्योषं चातुर्जातगुडार्द्रकम् ।
सजीरकं रसाला स्यात् मार्जिका शिखरिण्यपि ॥ऽ
स्यात्तेमनं तु निष्ठानम् । तेमनं निष्ठानं स्यात् । ‘पऴिधेऽं । अनुक्तम्—सूदः पुंस्यस्त्रियां सूपम् । सूपनामनी । ‘पप्पुऽ ॥ उपदंशोऽपदंशकः । उपदंशनामनी ॥ त्रिलिङ्गा वासितावधेः । वासितशब्दावधेस्त्रिलिङ्गाः । शूल्या पेशी । पैठरी भिस्सा ॥ ४४ ॥
[[०२.५८१]]
मूलम् - ०२.०९.०४५
(०२.०९.०४५अब्) शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम् ।
(०२.०९.०४५च्द्) प्रणीतमुपसम्पन्नं प्रशस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥
लिङ्ग-सूरी - AK.02.09.045
शूलाकृतमिति—शूलेनोद्भिद्य पच्यत इति शूलाकृतम् । भटति बिभर्ति पुष्णातीति भटित्रम् । ‘भट भृतौऽ । शूलेन संस्कृतं शूल्यम् । यद्वेण्वादिशलाकया उद्भिद्य जम्बीररसादिभावितमांसादिकम् अङ्गारेषु पच्यते तस्य नामानि ॥ उखायां संस्कृतं उख्यम् । पिठरे संस्कृतं पैठरम् । स्थाल्यां संस्कृतस्य पिष्टादेर्नामनी ॥ रसादिना प्रकर्षं नीतं प्रणीतम् । उप समीपे रसेन सम्पन्नम् उपसम्पन्नम् । पाकरसरूपातिशयान्वितस्यान्नादेर्नामनी ॥ प्रशस्यत इति प्रशस्तम् । ‘शंसु स्तुतौऽ । प्रयस्तमिति पाठे प्रयत्ननिष्पन्नम् । ‘यसु प्रयत्नेऽ । कर्पूरादिसंस्कृतस्य लेह्यादेर्नामनी ॥ ४५ ॥
मल्लि-नाथः - AK.02.09.045
शूलाकृतं—शूल्यम् । शूले पक्वस्य नामानि । ‘कर्रकुट्लुऽ । उख्यं तु पैठरम् । पिठरे पक्वस्य नामनी । प्रणीतमुपसम्पन्नम् । उदकपक्वस्य नामनी ॥ प्रयस्तं स्यात् सुसंस्कृतम् । तैलघृतादिभिर्घृष्टस्य नामनी । ‘यसु प्रयत्न इत्यतः क्तःऽ इति सुभूतिटीकावचनात् प्रयस्तमन्तस्थमध्यम् ॥ ४५ ॥
[[०२.५८१]]
मूलम् - ०२.०९.०४६
(०२.०९.०४६अब्) स्यात् पिच्छिलं तु विजिलं सम्मृष्टं शोधितं समे ।
(०२.०९.०४६च्द्) चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते
लिङ्ग-सूरी - AK.02.09.046
स्यादिति—पिच्छा अस्य सञ्जाता पिच्छिलम् । विजते सद्रवत्वेन चलतीति विजिलम् । ‘ओविजी भयचलनयोःऽ । मण्डान्वितादेर्नामनी ॥ सम्मृज्यत इति सम्मृष्टम् । ‘मृजूष् शुद्धौऽ । शोध्यत इति शोधितम् । ‘शुध शौचेऽ । वस्त्रादिना परिशोधितस्य तक्रादेर्नामनी ॥ पेषणकाले चिमिति कणति चिक्कणम् । ‘कण शब्देऽ । मस्यति द्रवत्वेन परिणमति मसृणम् । ‘मसी परिणामेऽ । स्निह्यतीति स्निग्धम् । ‘ष्णिह प्रीतौऽ । स्निग्धस्य जलयुक्तस्य गोधूमपिष्टादेर्नामानि ॥ भाव्यते वास्यते भावितम् । ‘भुवोऽवकल्कनेऽ । वास्यत इति वासितम् । ‘वस स्नेहमोहच्छेदापहरणेषुऽ । कृत्रिमगन्धान्तरवतः पानीयादेर्नामनी ॥ ४६ ॥
मल्लि-नाथः - AK.02.09.046
स्यात् पिच्छिलं तु विजिलम् । घनीभूतस्य दध्यादेर्नामनी । ‘जिनुगज्दिनदानि पेरुऽ ॥ सम्मृष्टं शोधितं समे । वस्त्रादिना शोधितस्य वस्तुनो नामनी । ‘कोलगिन्नचातकोलचिनविऽ ॥ चिक्कणं—स्निग्धम् । सान्द्रवस्तुनामानि । ‘सायं सूक्ष्मं मसृणं मसूरं सिन्दूरं सन्धानम्ऽ इत्यूष्मभेदपाठात् मसृणं दन्त्यम् ॥ तुल्ये भावितवासिते । कर्पूरादिभिः सौगन्ध्यादिगुणापादितस्य नामनी ॥ ४६ ॥
[[०२.५८२]]
मूलम् - ०२.०९.०४७
(०२.०९.०४७अब्) आपक्वं पौलिरभ्यूषो लाजाः पुम्भूम्नि चाक्षताः ।
(०२.०९.०४७च्द्) पृथुकः स्याच्चिपिटको धाना भृष्टयवे स्त्रियः ॥ ४७ ॥
लिङ्ग-सूरी - AK.02.09.047
आपक्वमिति—ईषत्पक्वम् आपक्वम् । पुलति ईषत् पृथु भवतीति पौलिः । ‘पुल महत्वेऽ । अभ्यूषति रुजतीत्यभ्यूषः । ‘ऊष रुजायाम्ऽ । भृष्टचणकादेर्नामनी ॥ लाज्यन्ते भृज्यन्त इति लाजाः । ‘लाज भर्जने भर्त्सने चऽ । भृष्टधान्यानां नाम । न विद्यते क्षतं येषां ते अक्षताः । अक्षतशब्दः लाजशब्दवत् पुंसि भूम्नि च वर्तते । न क्षण्यन्त इति वा अक्षताः । ‘क्षणु हिंसायाम्ऽ । हरिद्रादियुक्तशाल्यादिबीजनाम ॥ भर्जनात् पृथु भवतीति पृथुकः । मुसलावघातेन चिपिटो भवतीति चिपिटकः । सार्द्रान् व्रीहीन् भृष्टान् कृत्वा उलूखले मुसलेन कुट्टयित्वा भक्ष्यत्वेन कल्पितानां नामनी ॥ धीयन्ते धानाः । ‘डुधाञ् धारणपोषणयोःऽ । भृष्टयवनाम ॥ ४७ ॥
मल्लि-नाथः - AK.02.09.047
आपक्वं—अभ्यूषः । आसमन्तात्पक्वनिष्पावादिनामानि । ‘गुल्लिल्लुऽ । आपक्वं पुन्नपुंसकम् । पौलिः पुंलिङ्गः ॥ लाजाः—चाक्षताः । ‘बहवस्तु सक्तवो लाजाःऽ इति वामनसूत्राल् लाजशब्दो बहुवचनान्तः पुंलिङ्गः । लाजा इति पृथक्पदकरणात् तत्पर्यायस्यापि पुंस्त्वं बहुवचनं च । ‘लाजा अक्षता असवः प्राणाःऽ इति तद्वृत्त्या अक्षतशब्दश्च पुंलिङ्गो बहुवचनान्तः । ‘अक्षतं तण्डुले क्लीबं न ना लाजेषु कथ्यतेऽ इति केषाञ्चिदपुंलिङ्गो बहुवचनान्तश्च ॥ पृथुकः स्याच्चिपिटकः । पृथुकनामनी । ‘अटुकुलुऽ ॥ धाना—स्त्रियः । भृष्टयवतण्डुला धानाः स्युः । स्त्रिय इत्यनेन स्त्रीलिङ्गो बहुवचनान्तश्च । ‘वेचिनयवलुऽ । अनुक्तम्—शम्बूकास्तण्डुलकणाः । तण्डुलकणनाम । ‘नूकलुऽ । समौ शदकतण्डुलौ । समीचीनतण्डुलनामनी । गोधूमचूर्णे कणिका । गोधूमचूर्णनाम । पललं तिलचूर्णके । तिलानां चूर्णं पललं स्यात् ॥ ४७ ॥
[[०२.५८३]]
मूलम् - ०२.०९.०४८
(०२.०९.०४८अब्) पूपोऽपूपः पिष्टकः स्यात् करम्भो दधिसक्तवः ।
(०२.०९.०४८च्द्) भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः ॥ ४८ ॥
लिङ्ग-सूरी - AK.02.09.048
पूप इति—पूयते पाकसमये लग्नं भस्म मृज्यतेऽस्येति पूपः । ‘पूञ् पवनेऽ । न पूय[ य्य ]ते न विशीर्यत इति अपूपः । ‘पूयी विशरणेऽ । पिष्टविकारत्वात् पिष्टकः । गोधूमादिपिष्टकृतस्य भक्ष्यस्य नामानि ॥ कीर्यते दध्यत्रेति करम्भः । ‘कॄ विक्षेपेऽ । दध्युपसिक्तसक्तुनाम ॥ भस्यते मनुष्यैरिति भिस्सा । ‘भस भक्षणदीप्त्योःऽ । भज्यते सेव्यत इति भक्तम् । ‘भज सेवायाम्ऽ । अद्यत इत्यन्धः । ‘अद भक्षणेऽ । सान्तोऽयम् । अद्यत इति अन्नम् । आज्येन उद्यते सिच्यत इति ओदनम् । ‘उन्दी क्लेदनेऽ । अनेन दीव्यति प्रहृष्यतीति दीदिविः । ‘दिवु क्रीडादौऽ । पुमानयम् । अन्ननामानि ॥ ४८ ॥
मल्लि-नाथः - AK.02.09.048
पूपोऽपूपः पिष्टकः स्यात् । भक्ष्यनामानि । पूपलिकापि ।
‘पूरिकया घारिकया पोलिकया ड्ढारिकया च वटकेन ।
किमितरपूपलिकाभिः क्षीरसखो मन्दकः स यदि ॥ऽ
करम्भो दधिसक्तवः । दध्युपसिक्ताः सक्तवः करम्भः स्यात् । पवर्गचतुर्थान्तः । अनुक्तम्—‘चक्षुष्या बुम्बिका भूम्नि पुंलिङ्गेऽपि च सक्तवःऽ । सक्तुनामानि ॥ भिस्सा स्त्री—स दीदिविः । अन्ननामानि स दीदिविरिति दीदिविशब्दस्याप्यस्त्रीत्वमुक्तम् । ‘अशनं कूरमाहारो वाजो वा दीदिविः स्त्रियाम्ऽ इति केषाञ्चित् स्त्रीपुंसलिङ्गः ॥ ४८ ॥
[[०२.५८४]]
मूलम् - ०२.०९.०४९
(०२.०९.०४९अब्) भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्त्रियाम् ।
(०२.०९.०४८च्द्) मासराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥ ४९ ॥
लिङ्ग-सूरी - AK.02.09.049
भिस्सटेति—कुत्सिता भिस्सा भिस्सटा । दग्धैव दग्धिका । स्थाल्यामधो दग्धान्ननाम ॥ मण्डयति रसमिति मण्डम् । ‘मडि भूषायाम्ऽ । इक्षुरसादेर्निर्मलस्योपरिभागस्य नाम ॥ मस्यति घनीभावेन परिणमति मासरः । ‘मसी परिणामेऽ । आचम्यते ओदनाभावेन आचामः । ‘चमु अदनेऽ । निस्राव्यते स्थाल्यामवस्राव्यते निस्रावः । ‘स्रु स्रवणेऽ । ‘स्रु गतौऽ वा । भक्तसमुद्भवमण्डनामानि ॥ ४९ ॥
मल्लि-नाथः - AK.02.09.049
भिस्सटा दग्धिका । दग्धान्ननामनी । ‘माडुऽ । ‘दग्धान्नं भिस्सटा झिल्लीऽ इति वैजयन्ती (पृ। १६५, श्लो। ७७) ॥ अनुक्तम्—मुद्गादिसिद्धं कृसरम् । मुद्गान्ननाम । ‘पुगलम्ऽ ॥ संयावो यन्त्रपातितः । यन्त्रपातितो मृणालतन्त्वाकृतिरोदनः संयावः स्यात् । ‘सारे सत्तुऽ ॥ सर्वरसाग्रे मण्डमस्त्रियाम् । सर्वेषामन्नादीनामग्ररसो मण्डः स्यात् ॥ मासराचामनिस्रावाः—समुद्भवे । अन्नाग्ररसनामानि । द्वन्द्वान्तश्रूयमाणपुंस्त्वानि ॥ ४९ ॥
[[०२.५८४]]
मूलम् - ०२.०९.०५०
(०२.०९.०५०अब्) यवागूरुष्णिका श्राणा विलेपी तरला च सा ।
(०२.०९.०५०च्द्) गव्यं त्रिषु गवां सर्वं गोविड् गोमयमस्त्रियाम् ॥ ५० ॥
लिङ्ग-सूरी - AK.02.09.050
यवागूरिति—यूयते तण्डुलादिनेति यवागूः । ‘यु मिश्रणेऽ । उष्णत्वाद् उष्णिका । श्रायत इति श्राणा । ‘श्रा पाकेऽ । विलिम्पति दर्वीमिति विलेपी । ‘लिप उपदेहेऽ । बहुपेयांशत्वेन चञ्चलत्वात् तरला । अल्पान्नपुलाकाया बहुपेयांशाया नामानि ॥ गोरिदं गव्यम् । गोसम्बन्धिनः सर्वस्य शकृद्व्यतिरिक्तस्य साधारणनाम ॥ गोर्विट् पुरीषं गोविट् । गोः पुरीषं गोमयम् । गोपुरीषनामनी ॥ ५० ॥
मल्लि-नाथः - AK.02.09.050
यवागूरुष्णिका—तरला च सा । यवागूनामानि । गव्यं त्रिषु गवां सर्वम् । गवां क्षीरादिकं सर्वं गव्यं स्यात् ॥ गोविड् गोमयमस्त्रियाम् । गोपूरीषनामनी । ‘पेण्डऽ ॥ ५० ॥
[[०२.५८५]]
मूलम् - ०२.०९.०५१
(०२.०९.०५१अब्) तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयः समम् ।
(०२.०९.०५१च्द्) पयस्यमाज्यदध्यादि द्रप्सं दधि घनेतरत् ॥ ५१ ॥
(०२.०९.०५२अब्) घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्धृतम् ।
लिङ्ग-सूरी - AK.02.09.051-52
तदिति—अग्निमिन्धं करोतीति करीषम् । कीर्यते इन्धनत्वेनेति वा । ‘कॄ विक्षेपेऽ । शुष्कगोमयनाम ॥ दुह्यत इति दुग्धम् । ‘दुह प्रपूरणेऽ । घस्यत इति क्षीरम् । ‘घस्लृ अदनेऽ । पीयत इति पयः । ‘पा पानेऽ । सान्तोऽयम् । क्षीरनामानि ॥ पयसो विकारः पयस्यम् । दध्याज्यनवनीतादेर्नाम ॥ दध्नो मूलं द्रवः । दधिमध्यं घनः । दध्यग्रं शरः । तत्र घनादितरत् दधिद्रवशरभूतं द्रप्समित्युच्यते । द्रवति सारांशत्वाद् उपरिस्थितत्वाच्चेति द्रप्सम् । ‘द्रु गतौऽ । जिघर्ति घृतम् । ‘घृ क्षरणदीप्त्योःऽ । आ ईषदञ्जनीयम् ओदनादौ सेचनीयमिति आज्यम् । ‘अञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ । म्रक्षणं सेचनम् । हूयतेऽग्नाविति हविः । ‘हु दानादनयोःऽ । सर्पति चलतीति सर्पिः । ‘सृप्लृ गतौऽ । उभे सान्ते । घृतनामानि ॥ नवं तत्कालदध्नो मन्थनानन्तरं नीतं नवनीतम् । नवं तस्मिन् काल एव तक्रादुद्धृत नवोद्धृतम् । मथनानन्तरं दध्नो विनिर्गतस्य सर्पिषः प्रकृतिभूतस्य सारांशस्य नामनी ॥ ५१ ॥
मल्लि-नाथः - AK.02.09.051-52
तत्तु शुष्कं करीषोऽस्त्री । शुष्कगोमयं करीषं स्यात् । ‘पिडकऽ । केषाञ्चित् ‘दोहलस्तु करीषा स्त्रीऽ इति गोमयखण्डाः । ‘येरुवुऽ । गोग्रन्थिः शुष्कगोमयः । करीषो गोग्रन्थिः स्यात् ॥ दुग्धं क्षीरं पयः समम् । क्षीरनामानि । दोहजं स्तन्यमूधन्यम् । एतानि च ॥ पयस्यमाज्यं दध्यादि । आज्यदध्यादि पयस्यं स्यात् ॥ द्रप्सं दधि घनेतरत् । सोदकं दधि द्रप्सं स्यात् । अनुक्तम्—निःसारं तद्दधिबुसम् । साररहितं दधि दधिबुसं स्यात् । ‘मीगडतीचिनपेरुगुऽ । मङ्गल्यं श्रीधनं दधि । पयःपुत्रनामनी । ‘मीगडपेरुगुऽ । घृतमाज्यं—सर्पिः । घृतनामानि ॥ नवनीतं नवोद्धृतम् । तस्मिन् दिने मथित्वोद्धृतं नवनीतं स्यात् । ‘वेन्नऽ ॥ ५१ ॥
[[०२.५८५]]
(०२.०९.०५२च्द्) तत्तु हैयङ्गवीनं यद् ह्योगोदोहोद्भवं घृतम् ॥ ५२ ॥
मूलम् - ०२.०९.०५३
(०२.०९.०५३अब्) दण्डाहतं कालशेयमरिष्टमपि गोरसः ।
(०२.०९.०५३च्द्) तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३ ॥
लिङ्ग-सूरी - AK.02.09.052-53
तदिति—ह्यः पूर्वेद्युर्गोदोहः ह्योगोदोहः । तस्य विकारः हैयङ्गवीनम् । पूर्वेद्युर्दुग्धगोक्षीरकृतघृत नवनीतयोर्नाम ॥ मथनदण्डेनाहतं दण्डाहतम् । कलश्यां मन्थनघटे भवं कालशेयम् । न रिष्यति हिंसयति इत्यरिष्टम् । ‘रिष हिंसायाम्ऽ । गोः रसः गोरसः । वक्ष्यमाणतक्रोदश्विन्मथितानां प्रत्येकनामानि ॥ तच्यते उदश्विदपेक्षया सङ्कुच्यत इति तक्रम् । ‘तञ्चू सङ्कोचनेऽ । चतुर्थांशपरिमितजलेन सहालोडितस्य दण्डाहतस्य नाम ॥ उदकेन श्वयति वर्धते उदश्वित् । ‘टुओश्वि गतिवृद्धौऽ । अर्धाम्बुना सह मथितस्य तस्यैव नाम ॥ मन्थनमात्रात् निष्पन्नं मथितम् । ‘मथे विलोडनेऽ । जलमदत्वैव लोडितस्य नाम ॥ ५२-५३ ॥
मल्लि-नाथः - AK.02.09.052-53
तत्तु हैयङ्गवीनं—घृतम् । ह्यो गतदिवसः । तस्मिन् गोदोहेन सम्पन्नं घृतं हैयङ्गवीनं स्यात् ॥ दण्डाहतं—गोरसः । गोरसनामानि । अर्शोघ्नं मोरटं घोलं स्याद्रसायनमित्यपि । एतानि च ॥ तक्रं—निर्जलम् । पादोदकार्धोदकनिरुदकानि कालशेयानि क्रमात् तक्रोदश्विन्मथितानि स्युः ॥ ५२-५३ ॥
[[०२.५८६]]
मूलम् - ०२.०९.०५४
(०२.०९.०५४अब्) मण्डं दधिभवं मस्तु पीयूषोऽभिनवं पयः ।
(०२.०९.०५४च्द्) अशनाया बुभुक्षा क्षुद् ग्रासस्तु कबलः पुमान् ॥ ५४ ॥
लिङ्ग-सूरी - AK.02.09.054
मण्डमिति—मस्यति ईषदम्लत्वेन परिणमति मस्तु । ‘मसी परिणामेऽ । दध्युत्पन्नमण्डनाम ॥ पीयते वत्सेनैवेति पीयूषः । ‘पीङ् पानेऽ । पेयूष इति वा पाठः । नवप्रसूतधेनुक्षीरनाम ॥ अशने भक्षणे इच्छा अशनाया । भोक्तुमिच्छा बुभुक्षा । क्षुध्यत्यनया क्षुत् । ‘क्षुध बुभुक्षायाम्ऽ । दीपननामानि ॥ ग्रस्यत इति ग्रासः ।‘ग्रसु ग्लसु अदनेऽ । भक्षणसमये के तालुनि वलते चलतीति कबलः । ‘वल सञ्चलनेऽ । मयूराण्डसङ्गितस्य अन्नपिण्डस्य नामनी ॥ ५४ ॥
मल्लि-नाथः - AK.02.09.054
मण्डं दधिभवं मस्तु । दध्नो मण्डं मस्तु स्यात् । ‘पेरुगुमीगडऽ । पीयूषोऽभिनवं पयः । आ सप्ताहात्तु पीयूषमिति शास्त्रात् सप्तदिनपयः पीयूषं स्यात् । ‘जुन्नुऽ । अशनाया—क्षुत् । क्षुधानामानि ॥ ग्रासस्तु कबलः पुमान् । कबलनामनी । ‘कडिऽ ॥ ५४ ॥
[[०२.५८७]]
मूलम् - ०२.०९.०५५
(०२.०९.०५५अब्) सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् ।
(०२.०९.०५५च्द्) उदन्या तु पिपासा तृट् तर्षो जग्धिस्तु भोजनम् ॥ ५५ ॥
(०२.०९.०५६अब्) जेमनं लेप आहारो निघसो न्याद इत्यपि ।
लिङ्ग-सूरी - AK.02.09.055-56
सपीतिरिति—सह पीतिः पानं सपीतिः । एकपङ्क्त्युपविष्टानाम् अविशेषेण पानस्य नाम ॥ सह अदनं सग्धिः । एकपङ्क्तौ एकभाजने वा भुजिक्रियानाम ॥ उदके इच्छा उदन्या । पातुमिच्छा पिपासा । तर्षणं तृट् । तर्षश्च । ‘ञितृषा पिपासायाम्ऽ । जलपानेच्छानामानि ॥ अदनं जग्धिः । ‘अद भक्षणेऽ । भुज्यत इति भोजनम् । ‘भुज पालनाभ्यवहारयोःऽ । जिम्यत इति जेमनम् । ‘जिमु अदनेऽ । लिप्यते उपचीयते देहोऽनेनेति लेपः । ‘लिप उपदेहेऽ । आह्रियते भुज्यते आहारः । ‘हृञ् हरणेऽ । नितरामद्यते निघसः । न्यादश्च । ‘अद भक्षणेऽ । भुजिक्रियानामानि ॥ ५५ ॥
मल्लि-नाथः - AK.02.09.055-56
सपीतिः—तुल्यपानम् । सहपाननाम ॥ सग्धिः—सहभोजनम् । सहभोजननामनी ॥ उदन्या—तर्षः । तृषानामानि ॥ जग्धिस्तु भोजनम्—न्याद इत्यपि । भोजननामानि । अनुक्तम्—‘उपोषितस्य या भुक्तिः पारणा सा निगद्यतेऽ । कृतोपवासस्य भोजनं पारणा स्यात् ॥ ५५ ॥
[[०२.५८७]]
(०२.०९.०५६च्द्) सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् ॥ ५६ ॥
मूलम् - ०२.०९.०५७
(०२.०९.०५७अब्) कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ।
(०२.०९.०५७च्द्) गोपे गोपालगोसङ्ख्यगोधुगाभीरवल्लवाः ॥ ५७ ॥
लिङ्ग-सूरी - AK.02.09.056-57
सौहित्यमिति—सुह्यति तृप्यतीति सुहितः, तस्य भावः सौहित्यम् । ‘सुह चक्यर्थेऽ । चक्यर्थः तृप्त्यर्थः । तृप्यतेऽनेनेति तर्पणम् । तृप्तिश्च । ‘तृप प्रीणनेऽ । भुजिक्रियाफलस्य नामानि ॥ फेल्यते भोजनादपास्यते फेला । ‘फेलृ गतौऽ । भुक्तेन समज्झितान्ननाम ॥ काम्यते सर्वैरिति कामम् । प्रकामं च । निकामं च । ‘कमु कान्तौऽ । पर्याप्यते इच्छाया अन्तः सम्यगाप्यते अनेनेति पर्याप्तम् । ‘आप्लृ व्याप्तौऽ । इष्यत इति इष्टम् । ‘इष इच्छायाम्ऽ । आप्तुमिच्छा ईप्सा । अस्या अधिकं यथेप्सितम् । यस्य कस्यापि वस्तुन इच्छाधिक्योपेतस्य नामानि ॥ इदानीं पाशुपाल्यमाह—गाः पातीति गोपः । ‘पा रक्षणेऽ । गाः पालयतीति गोपालः । ‘पाल रक्षणेऽ । गाः सञ्चष्टे गोमिने तव गावः सुखेनागता इति गोसङ्ख्यः ।‘चक्षिङ् व्यक्तायां वाचिऽ । गाः दोग्धीति गोधुक् । ‘दुह प्रपूरणेऽ । अभि अग्रे गा ईरयतीति आभीरः । ‘ईर प्रेरणेऽ । गाः वल्लयति कण्डूयनादिना प्रीणयतीति वल्लवः । ‘वल्ल प्रीतौऽ । गोपनामानि ॥ ५६-५७ ॥
मल्लि-नाथः - AK.02.09.056-57
सौहित्यं तर्पणं तृप्तिः । तृप्तिनामानि । ‘तनिविऽ । सुहितस्य भावः सौहित्यमिति व्युत्पत्त्या सुहितस्तृप्तः ॥ फेला भुक्तसमुज्झितम् । भुक्त्वा परित्यक्तमुच्छिष्टान्नं फेला स्यात् । ‘फेला फेण्डोलिफेलयःऽ इति रभसकोशः ॥ कामं प्रकामं—यथेप्सितम् । यथेष्टनामानि । क्रियाविशेषणत्वान्नपुंसकानि । काममभोजि । प्रकाममभोजि । अनुक्तम्—ताम्बूलं स्याद्वीटिका स्त्री ताम्बूलं मुखभूषणम् । ताम्बूलनामानि ॥ गोपे गोपाल—आभीरवल्लवाः । गोपालकनामानि । ‘गोपऽ ॥ ५६-५७ ॥
[[०२.५८८]]
मूलम् - ०२.०९.०५८
(०२.०९.०५८अब्) गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे ।
(०२.०९.०५८च्द्) गोमान् गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे ॥ ५८ ॥
लिङ्ग-सूरी - AK.02.09.058
गोमेति—पादे बन्धनमस्य पादबन्धनम् । यादवं धनमिति पाठे गोमहिष्यादिकं धनम् । यदूनामिदं यादवम् । गोमहिष्यादिनाम ॥ गवामीश्वरे स्वामिनि गवीश्वरे । गावः सन्त्यस्य गोमान् । गोमी च । गोस्वामिनामनी ॥ गवां कुलं समूहो गोकुलम् । गोरूपधनानां समूहो गोधनम् । गोव्रजस्य गोनिवासस्य वा नामनी ॥ ५८ ॥
मल्लि-नाथः - AK.02.09.058
गोमहिष्यादिकं पादबन्धनम् । गोमहिषीप्रमुखाः पादबन्धनं स्यात् । रभसकोशेऽपि तथैवोक्तम् ‘गोसङ्ख्यायादवं क्लीबं गवादि पादबन्धनम्ऽ इति । सुभूतिटीकायां तु यादवं धनमिति पठितम् । द्वौ गवेश्वरे—गोमी । गवाध्यक्षनामनी ॥ गोकुलं तु—गवां व्रजे । गोव्रजनामानि । ‘आवुलदोड्डिऽ ॥ ५८ ॥
[[०२.५८९]]
मूलम् - ०२.०९.०५९
(०२.०९.०५९अब्) त्रिष्वाशितङ्गवीनं तद् गावो यत्राशिताः पुरा ।
(०२.०९.०५९च्द्) उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ॥
(०२.०९.०६०अब्) अनड्वान् सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् ।
लिङ्ग-सूरी - AK.02.09.059-60
त्रिष्विति—पुरा यत्र गावः आशिताः उषिताः तदेव आशितङ्गवीनम् । यत्र शाड्वलादिस्थले गावः पुरा उषिताः तस्य स्थलस्य नाम ॥ उक्षति रेतः सिञ्चति उक्षा । ‘उक्ष सेचनेऽ । भन्दते कल्याणाङ्गत्वाद् भद्रः । ‘भदि कल्याणेऽ । बलीः कण्ठप्रदेशे वृणुते स्वीकृतवान् बलीवर्दः । ‘वृञ् वरणेऽ । ऋषति गां प्रति गच्छतीति ऋषभः । ‘ऋषी गतौऽ । वर्षति रेत इति वृषभः । ‘वृष सेचनेऽ । वृषश्च । अनः शकटं वहतीति अनड्वान् । ‘वह प्रापणेऽ । सुरभेर्गोरपत्यं सौरभेयः । रुचिरं गच्छतीति गौः । साण्डस्य पुङ्गवस्य नामानि ॥ उक्ष्णां समूह औक्षकम् । वृषसमूहनाम ॥ ५९ ॥
मल्लि-नाथः - AK.02.09.059-60
त्रिष्वाशितङ्गवीनं—पुरा । यत्र पूर्वं तृणं भक्षयित्वा गावो गतास्तत् तृणान्नारण्यम् आशितङ्गवीनं स्यात् । उक्षा नान्तोऽयम् । भद्रो बलीवर्दः—गौः । अनडुहां नामानि । शाक्वरो बाडबेयः स्यात् ककुद्मानक्षधूर्तिलः । एतानि चत्वारि च ॥ उक्ष्णां संहतिरौक्षकम् । अनडुहां समूह औक्षकं स्यात् ॥ ५९ ॥
[[०२.५८९]]
(०२.०९.०६०च्द्) गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके ॥ ६० ॥
मूलम् - ०२.०९.०६१
(०२.०९.०६१अब्) उक्षा महान् महोक्षः स्याद् वृद्धोक्षस्तु जरद्गवः ।
(०२.०९.०६१च्द्) उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः ॥ ६१ ॥
लिङ्ग-सूरी - AK.02.09.060-61
गव्येति—गवां समूहो गव्या । गोत्रा च । गोसमूहनामनी । वत्सानां समूहो वात्सकम् । वत्ससमूहनाम ॥ धेनूनां समूहो धैनुकम् । धेनुसमूहनाम ॥ महांश्चासौ उक्षा च महोक्षः । महावृषभनाम ॥ वृद्धश्चासौ उक्षा च वृद्धोक्षः । जरंश्चासौ गौश्च जरद्गवः । वृद्धवृषभनामनी ॥ जातश्चासौ उक्षा च जातोक्षः । उत्पन्नस्य वृषभस्य नाम ॥ तृणोति स्तन्यं पयः परप्रेरणया पिबतीति तर्णकः । ‘तृणु भक्षणेऽ । सद्य एव जातस्य वत्सस्य नाम ॥ ६०-६१ ॥
मल्लि-नाथः - AK.02.09.060-61
गव्या गोत्रा गवाम् । गवां समूहः गव्या गोत्रा च स्यात् ॥ वत्सधेन्वोर्वात्सकधैनुके । वत्सानां समूहो वात्सः स्यात् । धेनूनां समूहो धैनुकं स्यात् ॥ उक्षो महान् महोक्षः स्यात् । महावृषनाम । ‘सरिगेद्दुऽ ॥ वृद्धोक्षस्तु जरद्गवः । वृद्धवृषभनामनी ॥ उत्पन्न उक्षा जातोक्षः । मर्दितवृषणो वृषभो जातोक्षः स्यात् । ‘पिड्डगोट्टिनयद्दुऽ ॥ सद्योजातस्तु तर्णकः । सद्यः समुत्पन्नवत्सनाम । ‘लेङ्गदूडऽ ॥ ६०-६१ ॥
[[०२.५९०]]
मूलम् - ०२.०९.०६२
(०२.०९.०६२अब्) शकृत्करिस्तु वत्सः स्याद् दम्यवत्सतरौ समौ ।
(०२.०९.०६२च्द्) आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः ॥ ६२ ॥
लिङ्ग-सूरी - AK.02.09.062
शकृदिति—शकृत् विष्ठां करोतीति शकृत्करिः । ‘डुकृञ् करणेऽ । प्रथमे वयसि वसतीति वत्सः । ‘वस निवासेऽ । दशदिनाभ्यन्तरवर्तिनो वत्सस्य नामनी ॥ दमनार्हः शिक्षार्हः दम्यः । ‘दमु उपशमनेऽ । प्रथमवयसो निवृत्तो वत्सो वत्सतरः । यूनो वत्सतरस्य नामनी ॥ ऋषभस्य आकृष्टाण्डस्य प्रतिकृतिरिति आर्षभ्यः । अण्डाकर्षणयोग्यकालस्य वत्सतरस्य नाम ॥ सन्यत उत्सृज्यत इति षण्डः । ‘षणु दानेऽ । गोषु पतिवत् गर्भाधानकारित्वात् गोपतिः । इषा स्वेच्छया चरतीति इट्चरः । उत्सृष्टवृषभस्य नामानि ॥ ६२ ॥
मल्लि-नाथः - AK.02.09.062
शकृत्करिस्तु वत्सः स्यात् । वत्सनाम । ‘दूडऽ । अनुक्तम्—कयाहो महिषीशिशुः । महिष्याः शिशुः कयाहः स्यात् । दम्यवत्सतरौ समौ । दण्डयोग्यवत्सनामनी । ‘दिद्दनैनकाडेऽ । आर्षभ्यः षण्डतायोग्यः । उत्सर्जनयोग्यस्य वत्सतरस्य नामनी । ‘व्राशिविडिचिपेट्टयोग्यमैनकोडेऽ । षण्डो गोपतिरिट्चरः । षण्डो गोपतिरिट्चरः, षण्डो गोपतिरित्वरः, इति च पाठान्तरम् । वृषभराजनामानि । ‘गूऴिबसुवण्डुऽ । ‘षण्डस्तु गोपतिः श्रीमान् डङ्क इट्वर ईश्वरःऽ इति वैजयन्ती (पृ। ६९, श्लो। ५३) ॥ ६२ ॥
[[०२.५९१]]
मूलम् - ०२.०९.०६३
(०२.०९.०६३अब्) स्कन्धप्रदेशस्तु वहः सास्ना तु गलकम्बलः ।
(०२.०९.०६३च्द्) स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड् युगपार्श्वगः ॥ ६३ ॥
लिङ्ग-सूरी - AK.02.09.063
स्कन्धेति—वहति शकटादिकमनेनेति वहः । ‘वह प्रापणेऽ । बलीवर्दादिस्कन्धप्रदेशनाम ॥ सस्ति अप्रयोजकत्वात् स्वपितीव तिष्ठतीति सास्ना । ‘षस स्वप्नऽं । बलीवर्दकण्ठे मृदुकम्बलवत् स्थितस्यावयवस्य नाम ॥ नस्तः नासिकायां सूच्यादिना विद्धो नस्तितः । ‘णस कौटिल्येऽ । नसि नासिकायां रज्वादिना प्रोतो नस्योतः । नासिकायां कृतच्छिद्रस्य बलीवर्दस्य नामनी ॥ प्रष्ठम् अग्रगामिनं वहतीति प्रष्ठवाट् । ‘वह प्रापणेऽ । षष्टवाडिति पाठे पञ्चमं षष्ठं वा वर्षं वहति । युगपार्श्वे गच्छतीति युगपार्श्वगः । युगस्य दान्तपार्श्वे दमनाय योजितबलीवर्दस्य नामनी ॥ ६३ ॥
मल्लि-नाथः - AK.02.09.063
स्कन्धप्रदेशस्तु वहः । वृषस्कन्धदेशो वहः स्यात् । ‘अंसकूटस्तु ककुदम्ऽ इति ककुत्पर्याये हलायुधः (अ। मा। २। १११) । ‘मूपरमुऽ ॥ सास्ना तु गलकम्बलः । गवां ग्रीवाकम्बलनाम । ‘गङ्गडोलुऽ । स्यान्नस्तितस्तु नस्योतः । रज्ज्वा प्रोतनासिको वृषभो नस्तितः स्यात् । ‘मुकुदाडुपेट्टिनयद्दुऽ ॥ प्रष्ठवाड् युगपार्श्वकः । शिक्षार्थं युगादधोनिबद्धो वृषः प्रष्ठवाड् स्यात् । ‘अणिकवेसिन कुट्टियद्दुऽ ॥ ६३ ॥
[[०२.५९१]]
मूलम् - ०२.०९.०६४
(०२.०९.०६४अब्) युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः ।
(०२.०९.०६४च्द्) खनति तेन तद्वोढास्येदं हालिकसैरिकौ ॥ ६४ ॥
लिङ्ग-सूरी - AK.02.09.064
युगादीनामिति—युगं वहतीति युग्यः । प्रासङ्गं वहतीति प्रासङ्ग्यः । शकटं रथं वहतीति शाकटः । युगप्रासङ्गशकटवाहकानां बलीवर्दानां क्रमेण नामानि ॥ हलेन खनतीति हालिकः । हलं वहतीति हालिकः । हलस्य सम्बन्धी हालिकः । एवं सैरिकश्च । हलेन खनतः हलं वहतः हलसम्बन्धिनो वा बलीवर्दस्य नामानि ॥ ६४ ॥
मल्लि-नाथः - AK.02.09.064
युगादीनां तु—शाकटाः । युगप्रासङ्गशकटानां वाहकाः वृषाः क्रमाद् युग्यप्रासङ्ग्यशाकटाः स्युः । ‘तद्वहति रथयुगप्रासङ्गम्ऽ इति यत् । खनति येन—हालिकसैरिकौ । तेन खनति, तस्येदम्, तस्य वोढा इत्यर्थेषु हालिकसैरिकशब्दौ स्याताम् । हलेन खनति, हलास्यायं, हलस्य वोढा वा अनड्वान् हालिकः । सीरेण खनति, सीरस्यायं, सीरस्य वोढा वा सैरिकोऽनड्वान् ॥ ६४ ॥
[[०२.५९२]]
मूलम् - ०२.०९.०६५
(०२.०९.०६५अब्) धूर्वहे धुर्यधौरेयधुरीणाः सधुरन्धराः ।
(०२.०९.०६५च्द्) उभावेकधुरीणैकधुरावेकधुरावहे ॥ ६५ ॥
लिङ्ग-सूरी - AK.02.09.065
धूर्वह इति—धुरं वहतीति धूर्वहः । धुर्यः । धौरेयः । धुरीणश्च । धुरं धारयतीति धुरन्धरः । युगधुरां वोढुः बलीवर्दस्य नामानि ॥ एकां धुरं वहतीति एकधुरीणः । एकधुरः । एकधुरावहश्च । शकटलाङ्गलतैलिक्ययन्त्रादिनानाविधधुरावहस्य बलीवर्दस्य नामानि ॥६५ ॥
मल्लि-नाथः - AK.02.09.065
धूर्वहे धुर्यधौरेय—धुरन्धराः । भारक्षमवृषभनामानि ॥ उभावेक—धुरावहे । हलं विना शकटं न वहति, शकटं विना हलं न वहति, इत्येतादृग्विधैकधुरावहो वृषः, तस्मिन् एकधुरीण एकधुरशब्दौ स्याताम् ॥ ६५ ॥
[[०२.५९३]]
मूलम् - ०२.०९.०६६
(०२.०९.०६६अब्) स तु सर्वधुरीणो यो भवेत् सर्वधुरावहः ।
(०२.०९.०६६च्द्) माहेयी सौरभेयी गौरुस्रा माहा च शृङ्गिणी ॥ ६६ ॥
(०२.०९.०६७अब्) अर्जुन्यध्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी ।
लिङ्ग-सूरी - AK.02.09.066
स इति—सर्वधुरां वहतीति सर्वधुरीणः । सर्वधुरायाः वहः । सर्वधुरावहस्य नाम ॥ मह्यते देवैरिति महा सुरभिः । तस्या अपत्यं स्त्री माहेयी । सुरभेरपत्यं सौरभेयी । स्वस्थानं प्रति गच्छतीति गौः । ‘गम्लृ गतौऽ । वसति क्षीरमस्यामिति उस्रा । ‘वस निवासेऽ । मह्यते सर्वैरिति माहा । ‘मह पूजायाम्ऽ । शृङ्गयोगात् शृङ्गिणी । प्रायेण धवलवर्णत्वात् अर्जुनी । अङ्घते वेगेन गच्छतीति अघ्न्या । ‘अघि लघि गत्याक्षेपेऽ । न हन्यत इति वा । रोहिणीनक्षत्रवद् उदयहेतुत्वात् रोहिणी । गोजातीयस्त्रीनामानि ॥ नीचैर्भूतेन पालकध्वनिनापि चरतीति नैचिकी । ‘चर गतिभक्षणयोःऽ । बहुक्षीरादिगुणवत्या गोर्नाम ॥ ६६ ॥
मल्लि-नाथः - AK.02.09.066
स तु सर्वधुरीणो—सर्वधुरावहः । हलशकटगोण्यादिसर्वधुरावहो वृषभः सर्वधुरीणः स्यात् । अनुक्तम्—भग्नशृङ्गस्तु कूटः स्यात् । भग्नविषाणो वृषः कूटः स्यात् । पण्डस्तु भिन्नपुच्छकः । छिन्नपुच्छो वृषः पण्डः स्यात् । माहेयी सौरभैयी—अघ्न्या रोहिणी स्यात् । सुभूतिटीकायां अघ्न्यामाहाशब्दौ अङ्घा माता इति पठितौ । वृषभपत्नीनामानि । तम्बा निलिम्पिका तम्पा चानड्वाह्यनडुह्यपि । एतानि पञ्च च ॥ उत्तमा गोषु नैचिकी । रूपशीलवयःक्षीराद्यशेषगुणसम्पन्ना गौर्नैचिकी स्यात् ॥ ६६ ॥
[[०२.५९३]]
(०२.०९.०६७च्द्) वर्णादिभेदात् सञ्ज्ञाः स्युः शबलीधवलादयः ॥ ६७ ॥
मूलम् - ०२.०९.०६८
(०२.०९.०६८अब्) द्विहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी ।
(०२.०९.०६८च्द्) चतुरब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायणी ॥ ६८ ॥
लिङ्ग-सूरी - AK.02.09.067-68
वर्णेति—वर्णभेदात् आदिग्रहणात् द्विवर्षत्वादिधर्मभेदात् । शबली । धवला । पाटला । कृष्णा । रक्ता कपिला । द्विवर्षा । त्रिवर्षा इत्येवमादयः सञ्ज्ञा भवन्ति । द्विहायनवयःपरिमाणमस्या इति द्विहायनी । द्विवर्षगोनाम ॥ एकाब्दो वयःपरिमाणमस्या इति एकाब्दा । एकहायनो वयःपरिमाणमस्या इति एकहायनी । एकवत्सरगोनाम ॥ एवं चतुरब्दा । चतुर्हायणी । त्र्यब्दा । त्रिहायणी । पञ्चाब्दा । पञ्चहायनी इत्यादयः सञ्ज्ञा विज्ञेयाः ॥ ६७-६८ ॥
मल्लि-नाथः - AK.02.09.067-68
वर्णादिभेदात्—धवलादयः । वर्णादिभेदेन गवां शबलीधवलादिसञ्ज्ञाः स्युः । धवलीत्यपि । ‘चारौ श्रेष्ठे वृषे श्वेते धवलो धवली गविऽ इति प्रमाणात् ॥ द्विहायनी—गौः । द्विवर्षानड्वाही द्विहायनी स्यात् ॥ एकाब्दा त्वेकहायनी । एकवर्षा गौरेकहायनी स्यात् । ‘हायनो वयसि स्मृतःऽ इत्यनेन ‘वयसि प्रथमेऽ (४। १। २०) इति ङीप् । अन्यत्र टाबेव, द्विहायना चित्रगवी ॥ चतुरब्दा चतुर्हायणी । चतुर्वर्षा गौश्चतुर्हायणी स्यात् । एवं त्र्यब्दा त्रिहायणी । त्रिवर्षा गौस्त्रिहायणी स्यात् । णत्वमपि वयस्येव स्मर्यत इत्यनेनान्यत्र णत्वं न भवति । चतुर्हायना लेख्यगवी ॥ ६७-६८ ॥
[[०२.५९४]]
मूलम् - ०२.०९.०६९
(०२.०९.०६९अब्) वशा वन्ध्यावतोका तु स्रवद्गर्भाथ सन्धिनी ।
(०२.०९.०६९च्द्) आक्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी ॥ ६९ ॥
लिङ्ग-सूरी - AK.02.09.069
वशेति—वष्टि कामयते वन्ध्यात्वापगमहेतुभूतमौषधमिति वशा । ‘वश कान्तौऽ । बध्नाति स्वगतदोषेण गर्भमिति वन्ध्या । ‘बन्ध बन्धनेऽ । वृषयोगादपि गर्भविहीनगोर्नामनी ॥ अवसृतम् अवनष्टं तोकमपत्यं यस्याः सा अवतोका । स्रवन् नश्यन् गर्भो यस्याः सा स्रवद्गर्भा । अवसृतगर्भगोनामनी ॥ सन्धा गर्भसन्धानमस्या इति सन्धिनी । वृषाक्रान्तगोनाम ॥ विहन्ति गर्भं वेहत् । ‘हन हिंसागत्योःऽ । विहद्गर्भेति वा पाठः । गर्भम् उपहन्तीति गर्भोपघातिनी । गर्भहन्तृगोर्नामनी ॥ ६९ ॥
मल्लि-नाथः - AK.02.09.069
वशाव वन्ध्या । अनपत्या गौर्वशा स्यात् ॥ अवतोका तु स्रवद्गर्भा । स्रवद्गर्भा गौरवतोका स्यात् ॥ अथ सन्धिनी—वृषभेण । गदोपतिनोपर्याक्रान्ता गौः सन्धिनी स्यात् ॥ अथ वेहद्गर्भोपघातिनी । उपहतगर्भा गौर्वेहत् स्यात् । ‘कन्दुवेचिनदिऽ ॥ ६९ ॥
[[०२.५९५]]
मूलम् - ०२.०९.०७०
(०२.०९.०७०अब्) काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी ।
(०२.०९.०७०च्द्) स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका ॥ ७० ॥
लिङ्ग-सूरी - AK.02.09.070
काल्येति—वृषभेण उपसर्तुं योग्या उपसर्या । ‘सृ गतौऽ । प्रजने प्रथमगर्भग्रहणे प्राप्तकालाया गोर्नाम । प्रष्ठं प्रथमगर्भं वहतीति प्रष्ठौही । ‘वह प्रापणेऽ । पञ्चमं षष्ठं वा वर्षं वहतीति पष्ठौहीति वा पाठः । बालगर्भिणीगोर्नाम ॥ न चण्डते न कुप्यतीति अचण्डी । ‘चडि कोपेऽ । सु शोभनं करोतीति सुकरा । अकोपनागोर्नामनी । बह्व्यः सूतयः प्रसवाः अस्याः सन्तीति बहुप्रसूतिः । उत्पन्नापत्येभ्यः परमन्यदपत्यमिच्छतीति परेष्टुका । ‘इषु इच्छायाम्ऽ । बह्वपत्याया गोर्नामनी ॥ ७० ॥
मल्लि-नाथः - AK.02.09.070
काल्योपसर्या प्रजने । प्रजनं नाम गर्भग्रहणम् । तत्र काल्येति प्राप्तकाला गौरुपसर्या स्यात् । ‘कट्टुपड्डऽ ॥ प्रष्ठौही बालगर्भिणी । प्रथमगर्भा गौः प्रष्ठौही स्यात् । ‘तोलिचूलिपड्डऽ । ‘पलिक्नी बालगर्भिणीऽ इति हलायुध (अ। मा। २। ११८) वैजयन्ती (पृ। ६८, श्लो। ४६) इत्युभयपाठात् पलिक्नी च स्यात् । अनुक्तम्—प्रस्तुता तु प्रसोष्यन्ती । प्राप्तप्रसवसमया गौः प्रस्तुता स्यात् ॥ सूता दोग्ध्री पयस्विनी । जनिततोका गौः पयस्विनी दोग्ध्री च स्यात् । स्यादचण्डी तु सुकरा । साधुः गौः सुकरा स्यात् । अनुक्तम्—सुकता दद्विपर्यये । असाधुर्गौः सुकता स्यात् ॥ बहुसूतिः परेष्टुका । बहुलसूतिमती गौः परेष्टुका स्यात् ॥ ७० ॥
[[०२.५९५]]
मूलम् - ०२.०९.०७१
(०२.०९.०७१अब्) चिरसूता बष्कयणी धेनुः स्यान्नवसूतिका ।
(०२.०९.०७१च्द्) सुव्रता सुखसन्दोह्या पीनोध्नी पीवरस्तनी ॥ ७१ ॥
लिङ्ग-सूरी - AK.02.09.071
चिरसूतेति—चिरं सूता चिरसूता । ‘षूञ् प्राणिप्रसवेऽ । बष्कते यातीति बष्कयः । प्रसवादूर्ध्वभाविचिरकालः । ‘बष्क गतौऽ । सोऽस्या अस्तीति बष्कयणी । चिरप्रसूतगोर्नाम ॥ वत्सो धयत्येनां धेनुः । ‘धेट् पानेऽ । नवं सूता नवसूतिका । नवसूतिकायाः सवत्सायाः गोर्नामनी ॥ सुशीलत्वादिगुणयोगात् सुव्रता सुखेन सन्दुह्यते सुखसन्दोह्या । सुशीलायाः गोर्नामनी ॥ पीनमूधो यस्याः पीनोध्नी । पीवरः स्तनोऽस्याः पीवरस्तनी । स्थूलस्तनाया गोर्नामनी ॥ ७१ ॥
मल्लि-नाथः - AK.02.09.071
चिरसूता बष्कयणी । बहुकालप्रसूता गौः बष्कयणी स्यात् । बष्कयेण नीता अनुगता बष्कयणीति शाकटायनव्युत्पत्त्या । बष्कयो नामैकवत्सरवत्सः । ‘तलिपिदूडऽ ॥ धेनुः स्यान्नवसूतिका । बालवत्सा गौर्धेनुः स्यात् ॥ सुव्रता सुखसन्दोह्या । अनायासेन दोग्धुं योग्या गौः सुव्रता स्यात् ॥ अनुक्तम्—‘करटा तद्विपर्ययेऽ । प्रयासेन सन्दोह्या गौः करटा स्यात् ॥ पीनोध्नी पीवरस्तनी । पीवरस्तनी गौः पीनोध्नी स्यात् । ‘बलमैनटोदुगुगलदिऽ । स्तनशब्द ऊधःपर्यायः ॥ ७१ ॥
[[०२.५९६]]
मूलम् - ०२.०९.०७२
(०२.०९.०७२अब्) द्रोणक्षीरा द्रोणदुघा धेनुष्या बन्धके स्थिता ।
(०२.०९.०७२च्द्) समांसमीना सा यैव प्रतिवर्षं प्रसूयते ॥ ७२ ॥
लिङ्ग-सूरी - AK.02.09.072
द्रोणेति—द्रोणपरिमितं क्षीरं दोग्धीति द्रोणदुघा । ‘दुह प्रपूरणेऽ । द्रोणपरिमितं क्षीरं यस्याः द्रोणक्षीरा । द्रोणपरिमितक्षीरदोग्ध्रीनामनी ॥ धेनुरेव धेनुष्या । भोगाधिकत्वेन धनिकगृहस्थापितधेनोर्नाम ॥ समायां समायां वत्सरे वत्सरे प्रसूते समांसमीना । प्रतिवर्षं प्रसूताया गोर्नाम ॥ ७२ ॥
मल्लि-नाथः - AK.02.09.072
द्रोणक्षीरा द्रोणदुघा । द्रोणपरिमितक्षीरदोग्ध्री धेनुर्द्रोणदुघा स्यात् । ‘अडिगिनपुड्डपिण्डे पाण्डि आवुऽ ॥ धेनुष्या बन्धके स्थिता । बन्धके संस्थिता गौर्धेनुष्या स्यात् । ‘कुदववुन्न आवुऽ ॥ समांसमीना सा—प्रसूयते । या गौः प्रतिसंवत्सरं वत्सान् प्रसूते सा गौः समांसमीना स्यात् ॥ अनुक्तम्—‘सकृत्प्रसूतिर्गृष्टिः स्यात्ऽ । एकवारं प्रसूता गौर्गृष्टिः स्यात् । ‘निडिचूलि आवुऽ ॥ ७२ ॥
[[०२.५९६]]
मूलम् - ०२.०९.०७३
(०२.०९.०७३अब्) ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ ।
(०२.०९.०७३च्द्) न पुंसि दाम सन्दानं पशुरज्जुस्तु दामनी ॥ ७३ ॥
लिङ्ग-सूरी - AK.02.09.073
ऊध इति—उनत्ति क्षीरबिन्दुभिः स्थालीमिति ऊधः । ‘उन्दी क्लेदनेऽ । सान्तः । दोहनादुपरि पुनराप्यायते वर्धत इति आपीनम् । ‘ओप्यायी वृद्धौऽ । स्तन्यमूलबन्धनस्य नामनी ॥ दौष्ट्यशमनेन शिवकरत्वात् शिवकः । कील्यते पश्वादिरत्रेति कीलकः । ‘कील बन्धनेऽ । पशुबन्धनाय निखातदार्वादेर्नामनी ॥ द्यति पशुदौष्ट्यमिति दाम । ‘दोऽवखण्डनेऽ । दीयते पलायनाद् रक्ष्यतेऽनेनेति वा । ‘देङ् रक्षणेऽ । सन्दीयते बध्यतेऽनेनेति सन्दानम् । ‘दाण् दानेऽ । सम्पूर्वत्वात् बन्धनार्थः । वत्सादिबन्धनरज्जुनामनी ॥ मध्ये तत्र तत्र बहुदामयोगात् दामनी । बहुपशुबन्धनाय निर्मितदीघकरज्जुनाम ॥ ७३ ॥
मल्लि-नाथः - AK.02.09.073
ऊधस्तु क्लीबमापीनम् । क्षीरजननस्थाननामनी । ‘पोदुगुऽ ॥ समौ शिवककीलकौ । पशुबन्धनगुण्ठनामनी । ‘गूण्टालुऽ ॥ न पुंसि दाम सन्दानम् । दोहनसमये चरणबन्धनरज्जुनामनी ॥ पशुरज्जुस्तु दामनी । पशुबन्धनदीर्घरज्जुः दामनी स्यात् । अनुक्तम्—नासारज्जुर्गवां नास्या । गोराजनासिकारज्जुर्नास्या स्यात् । ‘यद्दुमुक्कुत्ताडुऽ ॥ ७३ ॥
[[०२.५९७]]
मूलम् - ०२.०९.०७४
(०२.०९.०७४अब्) वैशाखमन्थमन्थानमन्थानो मन्थदण्डके ।
(०२.०९.०७४च्द्) कुटरो दण्डविष्कम्भे मन्थनी गर्गरी समे ॥ ७४ ॥
लिङ्ग-सूरी - AK.02.09.074
वैशाखेति—विशाखा प्रयोजनमस्य वैशाखः । विशाखस्य काष्ठविशेषस्यायमिति वा । मथ्यते दध्यनेनेति मन्थः । ‘मन्थ विलोडनेऽ । मन्थानश्च । मन्थाश्च । दधिमन्थनदण्डनामानि ॥ कुटति कुटिलगतिमानिव भ्रमति कुटरः । ‘कुट कौटिल्येऽ । दण्डं विष्कभ्नाति दण्डविष्कम्भः । ‘स्कम्भु रोधनेऽ । मन्थनदण्डस्यान्ते निक्षिप्तनारिकेलफलसदृशदारुपिण्डनामानि ॥ मथ्यते दध्यस्यामिति मन्थनी । ‘मन्थ विलोडनेऽ । गिरति अन्तर्गतं दधीति गर्गरी । ‘गॄ निगरणेऽ । दधिमन्थनघटस्य नाम ॥ ७४ ॥
मल्लि-नाथः - AK.02.09.074
वैशाखमन्थ—मन्थदण्डके । दधिमन्थनदण्डनामानि । ‘कव्वमुऽ ॥ कुठरो दण्डविष्कम्भः । दण्डो मन्थदण्डः । तस्य विष्कम्भो विष्कम्भनस्तम्भः स कुठरः स्यात् । मन्थदण्डबन्धस्तम्भः ॥ मन्थनी गर्गरी समे । दधिमथन(?)नामनी । ‘कलशिमुदधिगुर्वी वल्लवा लोडयन्तिऽ इति माघप्रयोगात् (शिशु। ११। ८) कलशिशब्दः कालकेय(?)व्युत्पत्तिसिद्धः ॥ ७४ ॥
[[०२.५९८]]
मूलम् - ०२.०९.०७५
(०२.०९.०७५अब्) उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः ।
(०२.०९.०७५च्द्) करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥
लिङ्ग-सूरी - AK.02.09.075
उष्ट्र इति—उष्यते सदा आतपेनेति उष्ट्रः । ‘उष दाहेऽ । क्रमेण पादानिलयति दूरे क्षिपतीति क्रमेलकः । ‘इल स्वप्नक्षेपणयोःऽ । मयते बहूनि योजनानि गच्छतीति मयः । ‘मय गतौऽ । महान्ति ग्रीवाद्यङ्गानि यस्येति महाङ्गः । उष्ट्रनामानि ॥ कं शिरो रभतेऽसकृदुन्नमयतीति करभः । ‘रभ राभस्येऽ । उष्ट्रशिशुनाम ॥ शृङ्खलं बन्धनमेषामस्तीति शृङ्खलकाः । दारुमयैः पादबन्धनैरुपलक्षितानां करभाणां नाम ॥ ७५ ॥
मल्लि-नाथः - AK.02.09.075
उष्ट्रे क्रमेलकमयमहाङ्गाः । उष्ट्रनामानि । ‘लोटिपेट्टऽ । ‘दाशेरकश्च रवणःऽ । एते द्वे च ॥ करभः शिशौ । उष्ट्रशिशुः करभः स्यात् ॥ करभाः स्युः—पादबन्धनैः । दारुमयपादबन्धनविशिष्टाः करभा इत्यर्थः ॥ ७५ ॥
[[०२.५९८]]
मूलम् - ०२.०९.०७६
(०२.०९.०७६अब्) अजा छागी स्तभच्छागबस्तच्छगलका अजे ।
(०२.०९.०७६च्द्) मेढ्रोरभ्रोरणोर्णायुर्मेषवृष्णय एडके ॥ ७६ ॥
लिङ्ग-सूरी - AK.02.09.076
अजेति—अजतीत्यजा । ‘अज गतिक्षेपणयोःऽ । छ्यति रोगानिति छागी । ‘छो छेदनेऽ । अजजातिस्त्रीनामनी ॥ स्तभ्नाति युद्धार्थमुद्यते वेगं प्रतिबध्नातीति स्तभः । ‘स्तम्भु रोधनस्तम्भनयोःऽ । तुभ इति पाठे तोभते हिनस्ति पर्णानीति तुभः । ‘तुभ हिंसायाम्ऽ । छ्यति भक्षणार्थं पत्राणीति छागः । छगलकश्च । ‘छो छेदनेऽ । बस्त्यते हिंस्यत इति बस्तः । ‘वस्त अर्दनेऽ । अजति पर्णभक्षणाय गच्छतीति अजः । ‘अज गतिक्षेपणयोःऽ । अजनामानि ॥ मेहति रेतः सिञ्चतीति मेढ्रः । ‘मिह सेचनेऽ । मेण्ढ इति वा पाठः । उरःस्थलमितस्ततो भ्रमयतीति उरभ्रः । ‘भ्रमु चलनेऽ । उच्चैः रणतीति उरणः । ‘रण शब्देऽ । ऊर्णा मेषरोम । तदस्यास्तीति ऊर्णायुः । रेतो मिषति सिञ्चतीति मेषः । ‘मिष सेचनेऽ । मिषति स्पर्धत इति वा । रेतो वर्षतीति वृष्णिः । ‘वृषु सेचनेऽ । आ समन्तात् ईडन्ते मांसभक्षका एनमिति एडकः । ‘ईड स्तुतौऽ । एडकनामानि ॥ ७६ ॥
मल्लि-नाथः - AK.02.09.076
अजा छागी । अजानामनी । ‘मेकऽ ॥ स्तभच्छाग—अजे । छागनामानि । ‘मेकपोतुऽ । मेढ्रोरभ्रोरणो—एडके । मेषनामानि । ‘तगरुऽ ॥ अनुक्तम्—‘एडका कुररी मेषीऽ । मेषीनामानि । ‘गोद्रेऽ ॥ एतानि त्रीणि च ॥ ७६ ॥
[[०२.५९९]]
मूलम् - ०२.०९.०७७
(०२.०९.०७७अब्) उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् ।
(०२.०९.०७७च्द्) चक्रीवन्तस्तु बालेया रासभा गर्दभाः खराः ॥ ७७ ॥
लिङ्ग-सूरी - AK.02.09.077
उष्ट्रेति—उष्ट्राणां समूहः औष्ट्रकम् । उरभ्रकाणां समूहः औरभ्रकम् । अजानां समूहः आजकम् । उष्ट्रोरभ्राजानां क्रमेण समूहनामानि । चक्रं समूहः तद्वन्तः चक्रीवन्तः । प्रायेण बालेभ्यो वत्सेभ्य एव हिताः बालेयाः । रासन्ते वाश्यन्ते उच्चैरिति रासभाः । ‘रासृ शब्देऽ । गर्दन्ति उच्चैरिति गर्दभाः । ‘गर्द शब्देऽ । खं मुखान्तर्वर्ति महदाकाशमेषामिति खराः । गर्दभनामानि ॥ ७७ ॥
मल्लि-नाथः - AK.02.09.077
उष्ट्रोरभ्राजवृन्दे—आजकम् । उष्ट्राणां समूहः औष्ट्रकम् । उरभ्राणां समूहः औरभ्रकम् । अजानां समूहः आजकम् । उष्ट्रादीनां समूहे औष्ट्रकादिशब्दाः स्युरिति वा योजना । चक्रीवन्तस्तु—गर्दभाः खराः । गर्दभनामानि । ‘गाडिडिपेरुऽ । कोलिण्टाः करभाः शालाः । एतानि त्रीणि च ॥ ७७ ॥
[[०२.६००]]
मूलम् - ०२.०९.०७८
(०२.०९.०७८अब्) वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।
(०२.०९.०७८च्द्) पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८ ॥
लिङ्ग-सूरी - AK.02.09.078
वैदेहक इति—विदेहे विविधोपचये भवः वर्तमानः वैदेहकः । अर्थेन सह वर्तते सार्थः । तं नरं स्वपण्यं वाहयतीति सार्थवाहः । ‘वह प्रापणेऽ । निगमे धनागमे भवो वर्तमानः नैगमः । वणिगेव वाणिजः । पणते व्यवहरतीति वणिक् । ‘पण व्यवहारेऽ । धात्वादेः पकारस्य वकारादेशः । पण्यम् आजीवो यस्य पण्याजीवः । आपणः प्रयोजनमस्य आपणिकः । क्रयविक्रयाभ्यां जीवतीति क्रयविक्रयिकः । वाणिज्यवृत्त्युपजीविनो नामानि ॥ ७८ ॥
मल्लि-नाथः - AK.02.09.078
वैदेहकः सार्थवाहो—वणिक् । जान्तः । वणिजां नामानि । ‘वरवारुऽ ॥ पण्याजीवो—क्रयविक्रयिकश्च सः । क्रयविक्रयोभयवतो नामानि ॥ ७८ ॥
[[०२.६००]]
मूलम् - ०२.०९.०७९
(०२.०९.०७९अब्) विक्रेता स्याद्विक्रयिकः क्रायकः क्रयिकः समौ ।
(०२.०९.०७९च्द्) वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः ॥ ७९ ॥
लिङ्ग-सूरी - AK.02.09.079
विक्रेतेति—विक्रीणाति पण्यमिति विक्रेता । ‘डुक्रीञ् द्रव्यविनिमयेऽ । विक्रयेण जीवतीति विक्रयिकः । यः पण्यस्य विक्रयेण जीवति तस्य नामनी ॥ उच्चनीचमूल्यकल्पनया पण्यं क्रीणाति गृह्णातीति क्रायकः । क्रयेण जीवतीति क्रयिकः । पण्यकर्तृनामनी ॥ वणिजः कर्म वाणिज्यम् । वणिज्या च । वाणिज्यवृत्तिनामनी ॥ मूलेनानाम्यम् अनभिभवनीयं मूल्यम् । वसत्यस्मिन् स्वधनव्ययेन कारितं पण्यादिकमिति वस्नः । ‘वस निवासेऽ । वसत्यनिर्वाहकक्रयः अनेन मूलद्रव्यरहितेनेति अवक्रयः । मूल्यनामानि ॥ ७९ ॥
मल्लि-नाथः - AK.02.09.079
विक्रेता स्याद्विक्रयिकः । विक्रयमात्रिणो नामनी । क्रायकः क्रयिकः समौ । मूल्येन पण्यानि गृह्णतो नामनी । ‘कोनेडिवाण्ड्लुऽ ॥ वाणिज्यं तु वणिज्यं स्यात् । नपुंसके स्यादपि वणिज्यापि स्यात् । वणिक्कर्मनामनी ॥ मूल्यं वस्नोऽप्यवक्रयः । मूल्यनामानि । ‘वेलऽ । योगविभागादवक्रयो भाटकः । ‘भाटकोऽवक्रयः स्मृतःऽ । इति हलायुधः (अ। मा। २। ४१८) । ‘बाडिगेऽ ॥ ७९ ॥
[[०२.६०१]]
मूलम् - ०२.०९.०८०
(०२.०९.०८०अब्) नीवी परिपणो मूलधनं लाभोऽधिकं फलम् ।
(०२.०९.०८०च्द्) परिदानं परीवर्तो नैमेयनिमयावपि ॥ ८० ॥
लिङ्ग-सूरी - AK.02.09.080
नीवीति—नितरां वीयते संव्रियत इति नीवी । ‘व्येञ् संवरणेऽ । स्त्रीनीवीस्थानवत् परसम्पत्प्राप्तिनिमित्तत्वात् वा । परिपण्यते लाभार्थं प्रयुज्यते परिपणः । ‘पण व्यवहारे स्तुतौ चऽ । लाभार्थं प्रयुज्यमानधनस्य नामानि ॥ मूलधनप्रयोगेण लभ्यत इति लाभः । ‘डुलभष् प्राप्तौऽ । मूलधनप्रयोगेण फलतीति फलम् । ‘फल निष्पत्तौऽ । मूलधनप्रयोगेण यदधिकं लभ्यते तस्य नामनी ॥ परिदीयत इति परिदानम् । ‘दा दानेऽ । परिवर्त्यते दीयत इति परिवर्तः । ‘वृतु वर्तनेऽ । निमेये परिवर्तनीये भवो नैमेयः । ‘मेङ् प्रणिदानेऽ । निमयते विनियुज्यते निमयः । ‘मय गतौऽ । विनिमयनामानि ॥ ८० ॥
मल्लि-नाथः - AK.02.09.080
नीवी परिपणो मूलधनम् । मूलधननामानि ॥ लाभोऽधिकं धनम् । मूलधनेनार्जितमधिकं धनं लाभः स्यात् । ‘बण्डवलमुकन्न आमीदगणिञ्चिन धनमुलाभमनिपिञ्चुकोनुनुऽ ॥ परिदानं परीवर्तो—नियमावपि । घृतादेस्तैलादिप्रत्यर्पणनामनी । ‘साटिपेरुऽ ॥ ८० ॥
[[०२.६०१]]
मूलम् - ०२.०९.०८१
(०२.०९.०८१अब्) पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् ।
(०२.०९.०८१च्द्) क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥
लिङ्ग-सूरी - AK.02.09.081
पुमानिति—आधारकहस्तस्य उप समीपे निधीयत इति उपनिधिः । ‘डुधाञ् धारणपोषणयोःऽ । ग्राहकजनसन्निधौ न्यस्यत इति न्यासः । ‘असु क्षेपणेऽ । निक्षेपविशेषस्य नामनी ॥ प्रतिदीयत इति प्रतिदानम् । ‘डुदाञ् दानेऽ । न्यासप्रत्यर्पणस्य नाम ॥ क्रयार्थं प्रसारितं क्रय्यम् । क्रेतुं योग्यं क्रेयम् । क्रेतव्यमात्रनाम ॥ ८१ ॥
मल्लि-नाथः - AK.02.09.081
पुमानुपनिधिर्न्यासः । निक्षेपविशेषनामनी । ‘वाडिकेऽ ॥ प्रतिदानं तदर्पणम् । तस्योपनिधेः प्रत्यर्पणं प्रतिदानं स्यात् । ‘वाडिकतिरुगतिरुगवोप्पिञ्चुटऽ ॥ क्रये प्रसारितं क्रय्यम् । क्रयार्थे प्रसारितं द्रव्यं क्रय्यं स्यात् ॥ क्रेयं क्रेतव्यमात्रके । क्रयार्हं द्रव्यं क्रेयं स्यात् । परिक्रेतुं पुष्टं द्रव्यमित्यर्थः ॥ ८२ ॥
[[०२.६०२]]
मूलम् - ०२.०९.०८२
(०२.०९.०८२अब्) विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु ।
(०२.०९.०८२च्द्) क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम् ॥ ८२ ॥
लिङ्ग-सूरी - AK.02.09.082
विक्रेयमिति—विक्रेतुं योग्यं विक्रेयम् । पणितुं व्यवहर्तुं योग्यं पणितव्यम् । पण्यत इति पण्यम् । ‘पण व्यवहारे स्तुतौ चऽ । पण्यमात्रनामानि ॥ क्रय्यादयः पण्यान्ताः त्रिषु लिङ्गेषु वर्तन्ते ॥ सत्यस्य करणं सत्यापनम् । सत्यङ्कारश्च । सत्याकृतिश्च । विक्रेत्रे क्रेत्रा इदं पण्यं मया गृहीतमित्युक्त्वा यत्किञ्चिदङ्गुलीयादिकं दीयते तस्य नामानि ॥ ८२ ॥
मल्लि-नाथः - AK.02.09.082
विक्रेयं पणितव्यं च । विक्रेतुमापृष्टद्रव्यनामनी । क्रव्यादयस्त्रिषु । क्रव्यादयः शब्दास्त्रिलिङ्गाः । क्रय्यः कर्पूरः । क्रय्या कस्तूरिका ॥ क्लीबे सत्यापनं—स्त्रियाम् । क्रयनिश्चयार्थं दत्तवित्तस्य नामानि ॥ ‘सञ्चकरुवुऽ ॥ ८२ ॥
[[०२.६०२]]
मूलम् - ०२.०९.०८३
(०२.०९.०८३अब्) विपणो विक्रयः सङ्ख्याः सङ्ख्येये ह्यादश त्रिषु ।
(०२.०९.०८३च्द्) विंशत्याद्याः सदैकत्वे सर्वाः सङ्ख्येयसङ्ख्ययोः ॥ ८३ ॥
लिङ्ग-सूरी - AK.02.09.083
विपण इति—विपण्यते व्यवह्रियते विपणः । ‘पण व्यवहारेऽ । विक्रीयत इति विक्रयः । ‘डुक्रीञ् द्रव्यविनिमयेऽ । मूल्यं गृहीत्वा पण्यार्पणस्य नामनी ॥ एकाद्याः अष्टादशशब्दपर्यन्ताः सङ्ख्याः सङ्ख्येये घटादौ सङ्ख्येयलिङ्गानुसारेण त्रिषु लिङ्गेषु वर्तन्ते । कदाचिदपि सङ्ख्यामात्रे न वर्तन्ते । अत्रोदहरणानि—एकः पुमान् । द्वौ पुमांसौ । त्रयो गुणाः । इत्यादि ॥ अत्र विंशतिशब्देन एकोनविंशतिशब्दो विज्ञेयः । एकोनविंशत्याद्याः नवतिशब्दपर्यन्ताः सर्वाः सङ्ख्याः बहुषु सङ्ख्येयेषु घटादिषु सङ्ख्यायां च वर्तमाना अपि सदा एकत्वे एकवचने वर्तन्ते ॥ ८३ ॥
मल्लि-नाथः - AK.02.09.083
विपणो विक्रयः । पणमादाय द्रव्यदाननामनी । ‘अम्मकमुऽ । निरुपसर्गौ चेत् क्रयवाचकौ । सङ्ख्याः सख्येयेष्वादश त्रिषु । अष्टादशशब्दावधिकाः सङ्ख्याशब्दाः सङ्ख्येयमात्रवृत्तयः । एको ब्राह्मण इति सामानाधिकरण्यं सुवचनम् । तथा ब्राह्मणानां दश द्वादश वेति वैयधिकरण्यं न सुवचनम् । एक, द्वे, त्रीणि, चत्वारि, पञ्च, षट्। सप्त, अष्ट, नव, दश, एकादश, द्वादश, त्रयोदश, चतुर्दश, पञ्चदश,षोडश, सप्तदश, अष्टादश । त्रिष्वित्यनेन त्रिलिङ्गाः ॥ विंशत्याद्याः—सङ्ख्येयसङ्ख्ययोः । विंशत्यादिसङ्ख्याशब्दाः सर्वे सङ्ख्येयसङ्ख्यारूपयोरुभयोरप्यर्थयोः स्युः । विंशतिर्गावः । विंशतिर्गवाम् । सामानाधिकरण्यवैयधिकरण्ये उभये अपि सुवचने । विंशतिः, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टिः, सप्ततिः, अशीतिः, नवतिः, शतम्, सहस्रम्, अयुतम्, नियुतम्, कोटिः । सदैकत्वे इत्यनेन नित्यैकवचनता ॥ ८३ ॥
[[०२.६०३]]
मूलम् - ०२.०९.०८४
(०२.०९.०८४अब्) सख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।
(०२.०९.०८४च्द्) पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥ ८४ ॥
लिङ्ग-सूरी - AK.02.09.084
सङ्ख्यार्थ इति—सङ्ख्यार्थे सङ्ख्यामात्रे वर्तमानानाम् एकोनविंशत्यादीनां द्विवचनबहुवचनेऽपि स्तः । तात्पर्यार्थस्तु एकोनविंशत्याद्याः शब्दाः सङ्ख्यायामेकवचनद्विवचनबहुवचनान्ता भवन्ति । सङ्ख्येये वर्तमानास्तु एकवचनान्ता एव भवन्तीत्यर्थः ॥ तासु सङ्ख्येयसङ्ख्यासु वर्तमाना एकोनविंशत्याद्याः सर्वे शब्दा आनवतेः नवतिशब्दपर्यन्तं स्त्रियः स्त्रीलिङ्गा भवन्ति । सङ्ख्येयानुसारेण तल्लिङ्गा न भवन्ति । अत्रोदहरणानि—विंशत्या शरैर्विद्धः । विंशत्यै स्त्रीभ्यो देयानि फलानि । विंशतिः फलानि ॥ सङ्ख्यायामुदाहरणानि—गवां द्वे विंशती । गवां तिस्रो विंशतयः॥ पङ्क्तिः दश सङ्ख्या, तस्या आरभ्य दशगुणोत्तरं क्रमात् शतं सहस्रम् । दश दशगुणं शतम् । शतं दशगुणं सहस्रम् । आदिग्रहणात् अयुतं प्रयुतमित्यादि । सहस्रं दशगुणम् अयुतम् इत्यादि । एवमादि परार्धशब्दपर्यन्ता भवन्ति ॥ ८४ ॥
मल्लि-नाथः - AK.02.09.084
सङ्ख्यार्थे द्विबहुत्वे स्तः । सङ्ख्यार्थे विंशत्यादीनां द्वित्वबहुत्वेऽपि स्याताम् । अमत्राणां द्वे विंशती । अतिथीनां तिस्रो विंशतयः ॥ तासु चानवतेः स्त्रियाम् । तासु नवतिशब्दान्ताः सर्वे शब्दाः स्त्रीलिङ्गाः । विंशत्या पुरुषैर्भुक्तम् । ‘कोट्याः शतादिसङ्ख्यान्या वा लक्षा नियुतं च तत्ऽ (३। ५। २४) इति वक्ष्यमाणत्वात् शतादीनि नपुंसकान्येव । ‘परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम्ऽ (म। भा। ३। २३२। १२) ॥ पङ्क्तेः शतसहस्रादि—दशगुणोत्तरम् । पङ्क्तिशब्दो दशपर्यायः । ‘नृपतेः प्रतिषिद्धमेव तत् कृतवान् पङ्क्तिरथो विलङ्घ्य यत्ऽ । (रघु। ९। ७४) इति दशरथे पङ्क्तिरथशब्दप्रयोगः । दशशब्दान्यत्वादस्य विंशतिशब्दवत् लिङ्गवचनव्यवस्था । पङ्क्तिशब्दादारभ्य शतसहस्रादीनि पदानि क्रमेण दशगुणोत्तरसङ्ख्यावाचकानि । पङ्क्तिर्दशगुणा चेच्छतम् । शतं दशगुणं चेत् सहस्रम् । सहस्रं दशगुणं चेदयुतमित्यादि ॥ ८४ ॥
[[०२.६०४]]
मूलम् - ०२.०९.०८५
(०२.०९.०८५अब्) पौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ।
(०२.०९.०८५च्द्) मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्चाद्यमाषकः ॥ ८५ ॥
लिङ्ग-सूरी - AK.02.09.085
पौतवमिति—पुनाति धान्यादिमानं शोधयतीति पोतुः राजपुरुषः । तस्येदं पौतवम् । यौतवमिति वा पाठः । द्रोः द्रुमस्य विकारः द्रुवयम् । मकारस्य वकारादेशो भवति । मीयतेऽनेनेति पाय्यम् । ‘माङ् मानेऽ । धात्वादेर्मकारस्य पकारादेशः । धान्यादिमानार्थनामानि ॥ मीयतेऽनेनेति मानम् । तच्च तुलाङ्गुलिप्रस्थैः त्रिप्रकारं भवति । यथा हिरण्यादिमानं तुलादिरूपम् । क्षेत्रादिमानम् अङ्गुल्यादिकम् । धान्यादिमानं प्रस्थादिरूपम् इति । माषवत् स्थूलत्वात् माषकः । आद्यश्चासौ माषकश्च आद्यमाषकः । रजतव्यतिरिक्तपञ्चगुञ्जापरिमितहिरण्यादेर्नाम ॥ ८५ ॥
मल्लि-नाथः - AK.02.09.085
पौतवं द्रुवयं—त्रयम् । पौतवादीनि त्रीण्यपि मानसामान्यनामानि । पाय्यं हस्तादिभिर्मानं, द्रुवयं कुडुबादिभिः । पौतवं तु लयेत्यन्या राद्धान्ता तुलाङ्गुलिप्रस्थैरिति व्यत्यस्तपाठेन प्रत्याख्यातः ॥ मानं तुलाङ्गुलिप्रस्थैः । मीयतेऽनेनेति मानम् । यत् पण्यद्रव्यादीयत्तापरिच्छेदकं तन्मानम् । तच्च तुलाङ्गुलिप्रस्थैस्त्रिविधं स्यात् । तत्र पलकर्षादीनि तुलामानानि । हस्तवितस्त्यादीनि अङ्गुलिमानानि । द्रोणाढकादीनि प्रस्थमानानि ॥ गुञ्जाः पञ्चाद्यमाषकः । गुञ्जाः पञ्च स्युश्चेद् आद्यमाषकः स्यात् ॥ ८५ ॥
[[०२.६०५]]
मूलम् - ०२.०९.०८६
(०२.०९.०८६अब्) ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् ।
(०२.०९.०८६च्द्) सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८६ ॥
लिङ्ग-सूरी - AK.02.09.086
त इति—अक्ष्णोति सङ्घातरूपतामापद्यत इति अक्षः । ‘अक्षू व्याप्तौऽ । कर्षति स्वभारेण तुलाकोटिमिति कर्षः । ‘कृष विलेखनेऽ । षोडशाद्यमाषकपरिमितसुवर्णादिनामनी ॥ पलति तुलाकोटिं गच्छतीति पलम् । ‘पल गतौऽ । कर्षाणां चतुष्टयस्य नाम ॥ शोभनो वर्णो यस्य सुवर्णः । बिस्यति तुलाकोटिं नीचैः प्रेरयतीति बिस्तः । ‘बिस क्षेपेऽ । अक्षपरिमितहेम्नो नामनी ॥ कुरुदेशे बिस्त इति प्रसिद्धत्वात् कुरुविस्तः । पलपरिमितहेम्नो नाम ॥ ८६ ॥
मल्लि-नाथः - AK.02.09.086
ते षोडशाक्षः—अस्त्री । आद्यमाषाः षोडश स्युश्चेद् अक्षः स्यात् । स एव कर्षः ॥ पलं कर्षचतुष्टयम् । कर्षाश्चत्वारः स्युश्चेत् पलं स्यात् ॥ सुवर्णबिस्तौ हेम्नोऽक्षे । काञ्चनस्य कर्षे सुवर्णबिस्तशब्दौ स्याताम् ॥ कुरुबिस्तस्तु तत्पले । तस्यैव हेम्नः पले कुरुबिस्तशब्दश्च स्यात् । अनुक्तम्—राजते पल इन्दुः स्यात् । रजतस्य पले इन्दुशब्दः स्यात् ॥ ८६ ॥
[[०२.६०५]]
मूलम् - ०२.०९.०८७
(०२.०९.०८७अब्) तुला स्त्रियां पलशतं भारः स्याद् विंशतिस्तुलाः ।
(०२.०९.०८७च्द्) आचितो दश भाराः स्युः शाकटो भार आचितः ॥ ८७ ॥
लिङ्ग-सूरी - AK.02.09.087
तुलेति—तोल्यत इति तुला । ‘तुल उन्मानेऽ । पलानां शतस्य नाम ॥ भ्रियत इति भारः । ‘भृञ् भरणेऽ । द्विसहस्रपलपरिमितताम्रादिद्रव्यनाम ॥ आचीयते राशीक्रियते आचितः । ‘चिञ् चयनेऽ । विंशतिसहस्रपलपरिमितताम्रादिद्रव्यराशिनाम ॥ शकटेन उह्यते शाकटः । शकटेन वोढुं शक्यस्य भारस्य नाम ॥ ८७ ॥
मल्लि-नाथः - AK.02.09.087
तुला स्त्रियां पलशतम् । पलानां शतं तुला स्यात् ॥ भारः स्याद् विंशतिस्तुलाः । तुला विंशतिश्चेत् भारः स्यात् । आचितं दश भाराः स्युः । भारा दश चेदाचितं स्यात् । नपुंसकम् ॥ शाकटो भार आचितः । शकटभार आचितः स्यात् । पुंलिङ्गः । लिङ्गविवेकद्वारा आनुषङ्गिकार्थाभिधानम् ॥ ८७
[[०२.६०६]]
मूलम् - ०२.०९.०८८
(०२.०९.०८८अब्) कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः ।
(०२.०९.०८८च्द्) अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥
(०२.०९.०८९अब्) कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।
लिङ्ग-सूरी - AK.02.09.088
कार्षापण इति—कर्षरूपेण ताम्रेण पण्यत इति कार्षापणः । कर्षप्रमाणमस्येति कार्षिकः । पण्यते व्यवह्रियतेऽनेनेति पणः । ‘पण व्यवहारेऽ । ताम्रकृतकर्षप्रमाणकरूपकनामानि ॥ आ समन्तात् ढौकते गच्छतीति आढकः । ‘ढौकृ गतौऽ । प्रस्थचतुष्टयपरिमाणस्य नाम ॥ द्रुणति धान्यपरिमाणाय वर्तते सर्वतो गच्छतीति द्रोणः । ‘द्रुण हिंसागतिकौटिल्येषुऽ । अष्टाढकप्रमाणस्य नाम ॥ खं महदाकाशमस्या इति खारी । चतुर्विंशतिद्रोणपरिमाणनाम ॥ वहति धान्यादिकमिति वाहः । ‘वह प्रापणेऽ । अष्टद्रोणान्न्यूनाष्टखारिपरिमाणनाम ॥ निकुञ्चति कुडवापोक्षया अल्पीभवतीति निकुञ्चकः । ‘कुञ्च कौटिल्याल्पीभावयोःऽ । कुडवचतुर्थांशनाम ॥ कुड्यते संस्त्यायते धान्यमिति कुडवः । ‘कुल संस्त्याने बन्धुषु चऽ । द्वादशप्रसृतिपरिमाणनाम ॥ प्रतिष्ठते धान्यमत्रेति प्रस्थः । ‘ष्ठा गतिनिवृत्तौऽ । कुडवचतुष्टयपरिमाणनाम ॥ ८८ ॥
मल्लि-नाथः - AK.02.09.088
कार्षापणः कार्षिकः स्यात् । हेमरजतादि कर्षादिमुद्रया हताक्षनामनी । ‘हेमरजतादिकर्षं चेतवोष्ट्रिञ्चिन अच्चुऽ । कार्षिके ताम्रिके पणः । ताम्रेण कृतः कार्षापणः पणः स्यात् ॥ अस्त्रियामाढकद्रोणौ—परिमाणार्थकाः पृथक् । आढकं प्रस्थचतुष्टयपरिमाणनाम । ‘तूमेडुऽ । द्रोणं चत्वार्याढकानि । ‘तलुतुमुऽ । खारी द्रोणार्धम् । ‘यिहुमुऽ । वाह आढकार्धम् । ‘यिरनऽ । ‘कुम्भः शूर्पोऽस्त्रियां तौ द्वौ गोणिवाहस्तु तद्द्वयम्ऽ । तौ द्वौ खारीति केचित् । केषाञ्चित् खारिवाहौ । तन्मते वाहश्चतुःशूर्पाः, खारिरष्टशूर्पाः । द्विवण्टकः प्रसृतिः । ‘चारेडुऽ । निकुञ्चक इति पाठान्तरम् । निकुञ्चकश्च मानचतुर्थांशः । ‘सौलेडुऽ । कुडुबो मानम् । ‘पडेडुऽ । पलचतुष्टयं कुडुब इति तुलामानविषयः । प्रस्थ इति मानचतुष्टयम् । एवमूह्याः पृथक्परिमाणार्थकाः ॥ ८८ ॥
[[०२.६०७]]
(०२.०९.०८९च्द्) पादस्तुरीयो भाग स्यादंशभागौ तु वण्टके ॥ ८९ ॥
मूलम् - ०२.०९.०९०
(०२.०९.०९०अब्) द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।
(०२.०९.०९०च्द्) हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥
लिङ्ग-सूरी - AK.02.09.089-90
पाद इति—पद्यत इति पादः । ‘पद गतौऽ । चतुर्थांशनाम ॥ अंश्यते अंशः । ‘अंश विभागेऽ । अम्यते सेव्यते क्रमेणेति वा । ‘अम गत्यादिषुऽ । भज्यते क्रमेण भागः । ‘भज सेवायाम्ऽ । वण्ट्यते सेव्यते वण्टकः । ‘वटि विभाजनेऽ । माषाद्येकदेशनामानि ॥ द्रवणीयमिति द्रव्यम् । ‘द्रु गतौऽ । द्रविणं च । विद्यते लभ्यत इति वित्तम् । ‘विद्लृ लाभेऽ । स्वपतौ वित्तस्वामिनि साधु स्वापतेयम् । रिच्यते पुत्रादिना निःसार्यत इति रिक्थम् । ‘रिचिर् विरेचनेऽ । ऋच्यते स्तूयत इति ऋक्थम् । ‘ऋच स्तुतौऽ । धिनोति स्वामिनमिति धनम् । ‘धिवि प्रीणनेऽ । धनतीति वा । ‘धन धान्येऽ । वसति नीतिमतां गृह इति वसु । ‘वस निवासेऽ । हर्यति गच्छतीति हिरण्यम् । ‘हर्य गतिकान्त्योःऽ । द्यूयतेऽभिगम्यते द्युम्नम् । ‘द्यु अभिगमनेऽ । अर्थ्यते जनैरिति अर्थः । ‘अर्थ उपयाच्ञायाम्ऽ । राति पुष्टिमिति राः । ‘रा दानेऽ । विभवति कार्यसिद्धौ समर्थो भवति विभवः । धननामानि ॥ ८९-९० ॥
मल्लि-नाथः - AK.02.09.089-90
पादस्तुरीयो भागः स्यात् । चतुर्थभागः पादः स्यात् । प्रस्थपादः कुडुबः । पलपादः कर्ष इत्यादि ॥ अंशभागौ तु वण्टके । एकदेशनामनी ॥ द्रव्यं वित्तं—विभवा अपि । धननामानि ॥ ८९-९० ॥
[[०२.६०८]]
मूलम् - ०२.०९.०९१
(०२.०९.०९१अब्) स्यात् कोशश्च हिरण्यं च हेमरूप्ये कृताकृते ।
(०२.०९.०९१च्द्) ताभ्यां यदन्यत् तत्कुप्यं रूप्यं तद् द्वयमाहतम् ॥ ९१ ॥
लिङ्ग-सूरी - AK.02.09.091
स्यादिति—कूयते स्तूयत इति कोशः । ‘कु शब्देऽ । हर्यति दीव्यतीति हिरण्यम् । ‘हर्य गतिकान्त्योःऽ । कृतावस्थस्य अकृतावस्थस्य वा हेम्नो रूप्यस्य च नामनी ॥ गोप्यते अप्रमत्तैरिति कुप्यम् । धात्वादेर्गकारस्य ककारादेशः । ताभ्यां कृताकृताभ्यां हेमरूप्याभ्याम् अन्यस्य कांस्यादिलोहस्य नाम ॥ रूपमस्यास्तीति रूप्यम् । आहतस्य राजमुद्राङ्कितस्य तद्द्वयस्य कुप्याकुप्यस्य नाम ॥ ९१ ॥
मल्लि-नाथः - AK.02.09.091
स्यात् कोशश्च—कृताकृते । अग्निना द्रुतं पश्चाद्घनीभूतं तत् हेम कोशहिरण्यशब्दवाच्यम्, तद्रूप्यं च कोशहिरण्यशब्दवाच्यम् । अंशरूपपरित्यागात् कृतं च, कटकादिरूपाप्राप्तेरकृतं च, इति कृताकृतं पिण्डीभूतमुच्यते । ताभ्यां यदन्यत् तत्कुप्यम् । ताभ्यां हेमरूप्याभ्यामन्यत्ताम्रादि द्रव्यं कुप्यं स्यात् ॥ रूप्यं तद्द्वयमाहतम् । व्यवहारार्थं आहते मुद्रिते कुप्याकुप्ये द्वे च रूप्यं स्यात् ॥ ९१ ॥
[[०२.६०८]]
मूलम् - ०२.०९.०९२
(०२.०९.०९२अब्) गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः ।
(०२.०९.०९२च्द्) शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् ॥ ९२ ॥
(०२.०९.०९३अब्) मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् ।
लिङ्ग-सूरी - AK.02.09.092-93
गारुत्मतमिति—गरुत्मत इदं गारुत्मतम् । मरणं तरत्यनेन मरकतम् । गरुडोद्गारलिप्तः अश्मा गर्भे यस्य अश्मगर्भः । हरितवर्णो मणिः हरिन्मणिः । हरितवर्णस्य रत्नस्य नामानि ॥ शोणवर्णं रत्नं शोणरत्नम् । लोहितवर्णत्वात् लोहितकः । पद्मवद् रागो यस्य पद्मरागः । रक्तवर्णरत्नस्य नामानि ॥ मुक्तैव मौक्तिकम् । मुच्यते शुक्तिसम्पुटगर्भान्मुक्ता । ‘मुच्लृ मोक्षणेऽ । मुक्तानामनी ॥ विशिष्टश्चासौ द्रुमश्च विद्रुमः । अप्सु प्रकृष्टं वलते प्रवालम् । ‘वल सञ्चलनेऽ । विद्रुमनामनी ॥ ९२ ॥
मल्लि-नाथः - AK.02.09.092-93
गारुत्मतं मरकतं—हरिन्मणिः । मरकतमिति क्वचित् पाठः । मरकतमणिनामानि ॥ शोणरत्नं—पद्मरागः । शोणमणिनामानि । कुरुविन्दोऽपि । ‘कुरुविन्दमणिश्रेणिकनत्कोटीरशोभिताऽ इति प्रयोगात् (ललिता। ४) ।
‘बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम्ऽ ।
इति माघश्च (शिशु। ९। ८) ॥ अथ मौक्तिकं मुक्ता । मुक्ताफलमपि स्यात् । ‘मुक्ताफलं शौक्तिकेयं गङ्गेष्टिः कटशर्कराऽ इति वैजयन्ती (पृ। २५२, श्लो। ५७) । मुक्तामणिनामनी ॥ अथ विद्रुमः—पुन्नपुंसकम् । प्रवालनामनी । ‘पगडमुऽ । अनुक्तम्—इन्द्रनीलं महानीलम् । नीलरत्ननामनी ॥ सूर्यकान्तस्त्वग्निमणिः । रविरत्ननामनी । वैडूर्यं वालवायजम् । वैडूर्यमणिनामनी ॥ ९२ ॥
[[०२.६०९]]
(०२.०९.०९३च्द्) रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ॥ ९३ ॥
मूलम् - ०२.०९.०९४
(०२.०९.०९४अब्) स्वर्णं सुवर्णं कनकं हिरण्य हेम हाटकम् ।
(०२.०९.०९४च्द्) तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम् ॥ ९४ ॥
(०२.०९.०९५अब्) चामीकरं जातरूपं महारजतकाञ्चने ।
(०२.०९.०९५च्द्) रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥
लिङ्ग-सूरी - AK.02.09.093-95
रत्नमिति—रमन्तेऽस्मिन् जना इति रत्नम् । ‘रमु क्रीडायाम्ऽ । मण्यते रत्नमिति मणिः । ‘मण शब्देऽ । गारुडाद्यश्मजातीयमुक्ताप्रवालादेर्नामनी ॥ शोभनो वर्णो यस्य स्वर्णम् । सुवर्णं च । कनति दीव्यतीति कनकम् । ‘कन दीप्तिकान्तिगतिषुऽ । हर्यतीति हिरण्यम् । ‘हर्य गतिकान्त्योःऽ हिनोति ताम्राद्यवलेपनात् वर्धत इति हेम । ‘हि गतौऽ । नान्तः । हटति दीव्यतीति हाटकम् । ‘हट दीप्तौऽ । तप्यतेऽग्नाविति तपनीयम् । ‘तप सन्तापेऽ । शतकुम्भाख्ये आकरे गिरौ वा भवतीति शातकुम्भम् । गङ्गाया अपत्यं गाङ्गेयम् । भ्रियतेऽङ्गुल्यादिभिरिति भर्म । ‘भृञ् भरणेऽ । नान्तः । कर्वति लोहमध्ये स्वश्रैष्ठ्यादिति कर्बुरम् । ‘कर्व दर्पेऽ । चामीकराख्याकरे गिरौ वा भवत्वात् चामीकरम् । महार्घतया जातं प्रशस्तं रूपमस्येति जातरूपम् । रज्यते ताम्रादिकमनेनेति रजतम् । महच्च तद्रजतं च महारजतम् । काञ्चते दीप्यत इति काञ्चनम् । ‘काचि दीप्तिबन्धनयोःऽ । रोचत इति रुक्मम् । ‘रुच दीप्तौऽ । कृतस्वराख्याकरभवत्वात् कार्तस्वरम् । जम्बूफलरसोत्पन्ननदीभवत्वात् जाम्बूनदम् । अष्टसु लोहेषु पदं प्रतिष्ठास्येति अष्टापदम् । अष्टलोहानि यथा—
‘सुवर्णं रजतं ताम्रं रीतिः कांस्यं तथा त्रपु ।
सीसं च धीवरं चैव अष्टलोहानि चक्षते ॥ऽ
इति । सुवर्णनामानि ॥ ९३-९५ ॥
मल्लि-नाथः - AK.02.09.093-95
रत्नं मणिर्द्वयोः—मुक्तादिकेऽपि च । रत्नमणिशब्दौ द्वौ मरकताद्यश्मजातौ मौक्तिकाद्यनश्मजातावपि स्याताम् ॥ स्वर्णं सुवर्णं कनकं हिरण्यं हेम । ‘हेममष्टापदं स्वर्णम्ऽ इति धनञ्जयपाठाद् अकारान्तोऽपि स्यात् । हाटकं—भर्म । ‘भर्मं रुक्मं हाटकं शातकुम्भम्ऽ इति हलायुधपाठाद् (अ। मा। २। १८) अकारान्तोऽपि स्यात् । कर्बुरं—अष्टापदोऽस्त्रियाम् । कनकनामानि । कल्याणमग्निबीजं च देवार्हं गौरमर्जुनम् । एतानि पञ्च च ॥ ९३-९५ ॥
[[०२.६१०]]
मूलम् - ०२.०९.०९६
(०२.०९.०९६अब्) अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः ।
(०२.०९.०९६च्द्) दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥
लिङ्ग-सूरी - AK.02.09.096
अलङ्कारेति—शृङ्ग्यामलङ्कारे उपादेयं कनकं शृङ्गीकनकम् । अलङ्कारयोग्यसुवर्णनाम ॥ कनकापेक्षया निकृष्टवर्णत्वाद् दुर्वर्णम् । रज्यते ताम्रादिकमनेनेति रजतम् । ‘रञ्ज रागेऽ । प्रशस्तं रूपमस्येति रूप्यम् । खर्जति व्यथते घनस्याघातिकतया खर्जूरम् । ‘खर्ज व्यथनेऽ । श्वेतवर्णत्वात् श्वेतम् । रजतनामानि ॥ ९६ ॥
मल्लि-नाथः - AK.02.09.096
अलङ्कारसुवर्णं—कनकमित्यदः । कटकाद्यलङ्कारसम्बन्धि सुवर्णं शृङ्गीकनकं स्यात् । शृङ्गीकनकमित्यौर्वानलादिवत् प्रयोगः । ‘स्त्री शृङ्गी मण्डनसुवर्णम्ऽ इति रत्नकोशे पृथङ्निर्देशः । केषाञ्चित् शृङ्गीकनकमिति सङ्घातोऽपि गृहीत एव । ‘अलङ्कारसुवर्णं तु शृङ्गीकनकमाशु चऽ इति वैजयन्ती (पृ। ४२, श्लो। २२) । दुर्वर्णं रजतं—श्वेतमित्यपि । रजतनामानि । अनुक्तम्—‘तारं शुभ्रं चन्द्रहासम्ऽ । एतानि त्रीणि च ॥ ९६ ॥
[[०२.६११]]
मूलम् - ०२.०९.०९७
(०२.०९.०९७अब्) रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ।
(०२.०९.०९७च्द्) शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्ठोदुम्बराणि च ॥ ९७ ॥
लिङ्ग-सूरी - AK.02.09.097
रीतिरिति—रीयतेऽग्निसंयोगात् रीतिः । ‘रीङ् स्रवणेऽ । आरस्य सुवर्णस्य कूटो मायारूपमिव भासत इति आरकूटः । पित्तलाख्यलोहनामनी ॥ ताम्यति व्यथतेऽग्निसंयोगादिति ताम्रम् । ‘तमु ग्लानौऽ । ताम्यति काङ्क्षते स्वनैर्मल्यार्थमाम्लरसमिति वा । ‘तमु काङ्क्षायाम्ऽ । शलति द्रवावस्थायामाशुगच्छतीति शुल्बम् । ‘शल गतौऽ । म्लेच्छदेशे मुख्यत्वात् म्लेच्छमुखम् । द्वे हेमरूप्ये अश्नुते द्व्यष्टम् । ‘अशू व्याप्तौऽ । सुवर्णरजतेतरलोहेभ्यः श्रेष्ठत्वात् वरिष्ठम् । उदुम्बरं सुवर्णम् । तत्सादृश्यात् उदुम्बरम् । औदुम्बरमिति वा पाठः । ताम्रनामानि ॥ ९७ ॥
मल्लि-नाथः - AK.02.09.097
रीतिः स्त्रियां—न स्त्रियाम् । रीतिनामनी । ‘पित्तसिऽ । पित्तलं कपिलोहं च । एते द्वे च ॥ अथ ताम्रकं—उदुम्बराणि च । ताम्रनामानि । अनुक्तम्—कांस्यं प्रभासं सौराष्ट्रमसुराह्वयमप्यदः । कांस्यनामानि ॥ ९७ ॥
[[०२.६११]]
मूलम् - ०२.०९.०९८
(०२.०९.०९८अब्) लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी ।
(०२.०९.०९८च्द्) अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले ॥ ९८ ॥
लिङ्ग-सूरी - AK.02.09.098
लोह इति—लुनात्यङ्गमिति लोहः । ‘लूञू छेदनेऽ । शस्यते हिंस्यतेऽनेनेति शस्त्रकम् । ‘शसु हिंसायाम्ऽ । तिज्यते तनूक्रियते शातनायेति तीक्ष्णम् । ‘तिज निशातनेऽ । पिण्ड्यते संहन्यतेऽनेनेति पिण्डम् । ‘पिडि सङ्घातेऽ । कालवर्णं च तदयश्च कालायसम् । शल्यादिरूपेण भेद्यमेतीत्ययः । ‘इण् गतौऽ । अश्मनः सारोऽश्मसारः । अयसो नामानि ॥ मण्ड्यतेऽयःपिण्डात् विभज्यत इति मण्डूरम् । ‘मडि विभाजनेऽ । हिनस्ति नाशयति पाण्डुरोगमिति सिंहाणम् । ‘हिसि हिंसायाम्ऽ । अयोमलस्य नामनी ॥ ९८ ॥
मल्लि-नाथः - AK.02.09.098
लोहोऽस्त्री शस्त्रकं—अश्मसारः । अयसो नामानि । ‘यनुमुऽ । शस्त्रशब्देन शस्त्रपर्यायस्यापि ग्रहणम् । ‘शस्त्राख्यं विषमायुधम्ऽ इति वैजयन्ती (पृ। ४३, श्लो। ३३) ॥ अथ मण्डूरं—तन्मले । शिङ्घाणमिति वा पाठः । आयसमलनामनी । ‘चिट्टमुऽ ॥ ९८ ॥
[[०२.६१२]]
मूलम् - ०२.०९.०९९
(०२.०९.०९९अब्) सर्वं स्यात्तैजसं लोहं विकारस्त्वयसः कुशी ।
(०२.०९.०९९च्द्) क्षारः काचोऽथ चपलो रसः सूतश्च पारदे ॥ ९९ ॥
लिङ्ग-सूरी - AK.02.09.099
सर्वमिति—तेजसो विकारः तैजसम् । सर्वं तैजसं हेमादि लोहं भवति । सुवर्णं रजतमित्यादि अष्टौ लोहानि । कुत्सितं श्यति लोहादिकं तनूकरोतीति कुशी । अयोविकारनाम ॥ क्षरति चलतीति क्षारः । ‘क्षर सञ्चलनेऽ । हारतया सूत्रेण कच्यते काचः । ‘कचि बन्धनेऽ । काचनामानि ॥ अस्थिरत्वात् चपलः । रस्यते औषधत्वेनेति रसः । ‘रस आस्वादनेऽ । सूते हेमादिकमिति सूतः । ‘षूङ् प्राणिप्रसवेऽ । रोगस्य पारं ददातीति पारदः । ‘दा दानेऽ । पारत इति वा पाठः । पादरसनामानि ॥ ९९ ॥
मल्लि-नाथः - AK.02.09.099
सर्वं स्यात्तैजसं लोहम् । सुवर्णरजतशुल्बादि तैजससामान्यं लोहं स्यात् ॥ विकारस्त्वयसः कुशी । अयोविकारः कुशी स्यात् । ‘सरऴुमुदलैनदिऽ ॥ क्षारः काचः । मृद्विकारनामनी । ‘गाजुमुदलैनदिऽ ॥ अथ चपलो—पारदे । तान्तो दान्तोऽपि स्यात् । ‘रसेन्द्रः पारदः प्रोक्तः पारतोऽपि निगद्यतेऽ इति तारपालः । पारदनामानि । ‘पादरसमुऽ ॥ ९९ ॥
[[०२.६१३]]
मूलम् - ०२.०९.१००
(०२.०९.१००अब्) गवलं माहिषं शृङ्गमभ्रकं गिरिजामले ।
(०२.०९.१००च्द्) स्रोतोऽञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ १०० ॥
लिङ्ग-सूरी - AK.02.09.100
गवलमिति—गामलति निवारयतीति गवलम् । ‘अल भूषणपर्याप्तिवारणेषुऽ । महिषशृङ्गनाम ॥ शरदभ्ररेखासदृशत्वाद् अभ्रकम् । गिरौ जायत इति गिरिजम् । न विद्यते मलमत्रेति अमलम् । अभ्रकनामानि ॥ अज्यते लोचनमनेनेति अञ्जनम् । ‘अञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ । स्रोतसि यमुनास्रोतसि जातमञ्जनं स्रोतोऽञ्जनम् । सुवीराख्यदेशे भवत्वात् सौवीरम् । कपोतवर्णसदृशम् अञ्जनं कपोताञ्जनम् । यमुनायां भवं यामुनम् । सुवीरदेशोद्भवाञ्जननामानि ॥ १०० ॥
मल्लि-नाथः - AK.02.09.100
गवलं माहिषं शृङ्गम् । महिषविषाणं गवलं स्यात् । अभ्रकं गिरिजामले । पदद्वयमेतत् । अभ्रकनामानि । ‘भिङ्गमुऽ । व्योममेघपर्यायाभिधेयत्वादभ्रकं व्योममेघाभिधानं च । गौरीबीजाख्यमभ्रकमिति तन्त्रान्तरम् ॥ स्रोतोऽञ्जनं तु—यामुने । नीलाञ्जननामानि ॥ १०० ॥
[[०२.६१३]]
मूलम् - ०२.०९.१०१
(०२.०९.१०१अब्) तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके ।
(०२.०९.१०१च्द्) कर्परी दार्विका क्वाथोद्भवं तुत्थं रसाञ्जनम् ॥ १०१ ॥
(०२.०९.१०२अब्) रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धकः ।
(०२.०९.१०२च्द्) सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलुत्थिका ॥ १०२ ॥
लिङ्ग-सूरी - AK.02.09.101-102
तुत्थाञ्जनमिति—तुदति नाशयत्यक्षिरोगमिति तुत्थम् । ‘तुद व्यथनेऽ । तुत्थं च तदञ्जनं च तुत्थाञ्जनम् । शिखिग्रीवाभत्वात् शिखिग्रीवम् । विशेषेण तुदति रोगानिति वितुन्नकम् । मयूरसदृशत्वात् मयूरकम् । कल्पतेऽक्षिरोगं जेतुमिति कर्परी । ‘कृपू सामर्थ्येऽ । तुत्थाञ्जननामानि ॥ दार्वी हरिद्रा । तस्याः क्वाथोद्भवमञ्जनं दार्विका । क्वाथोद्भवं च । तुत्थं व्युत्पन्नम् । दार्व्या रसोद्भवमञ्जनं रसाञ्जनम् । दार्वीरसो गर्भ उत्पत्तिस्थानमस्येति रसगर्भम् । तार्क्ष्यस्य गरुडस्य शिलायां भवं तार्क्ष्यशैलम् । रसाञ्जननामानि ॥ गन्धप्रधानोऽश्मा गन्धाश्मा । सालगन्धवत् गन्धोऽस्यास्तीति गन्धकः । शोभनो गन्धो यस्य सुगन्धिः । सुगन्धिरेव सौगन्धिकः । गन्धाश्मनामानि ॥ चक्षुषे हिता चक्षुष्या । कुलं पाषाणकुलम् अलति भूषयतीति कुलाली । ‘अल भूषणादौऽ । कुलुत्थसदृशत्वात् कुलुत्थिका । कुलुत्थसदृशाञ्जनस्य नामानि ॥ १०१-१०२ ॥
मल्लि-नाथः - AK.02.09.101-102
तुत्थाञ्जनं—मयूरके । मयूरतुत्थनामानि ॥ कर्परी दार्विका—तुत्थम् । कर्परीतुत्थनामानि ॥ रसाञ्जनं—तार्क्ष्यशैलम् । रसाञ्जननामानि ॥ गन्धाश्मनि—सौगन्धिकं च । ‘सौगन्धिकः पद्मरागे कल्हारे गन्धके च षण्ऽ इति नपुंसकम् । गन्धकनामानि ॥ चक्षुष्याकुलाल्यौ तु कुलत्थिका । कुलत्थाञ्जननामानि ॥ ‘कनुपालवित्तुलुऽ ॥ १०१-१०२ ॥
[[०२.६१४]]
मूलम् - ०२.०९.१०३
(०२.०९.१०३अब्) रीतिपुष्पं पुष्पकेतु पौष्पकं कुसुमाञ्जनम् ।
(०२.०९.१०३च्द्) पिञ्जरं पीतनं तालमालं च हरितालके ॥ १०३ ॥
लिङ्ग-सूरी - AK.02.09.103
रीतिपुष्पमिति—रीतेः पित्तलस्य पुष्पसदृशं मलं रीतिपुष्पम् । अक्षिगतपुष्पस्य केतुः परिपन्थीभूतं पुष्पकेतु । पुष्पसदृशत्वात् पौष्पकम् । कुसुमसदृशमञ्जनं कुसुमाञ्जनम् । कुसुमाञ्जननामानि ॥ पीतवर्णत्वात् पिञ्जरम् । पीतनं च । तलति प्रतितिष्ठति प्रीतिरत्रेति तालम् । ‘तल प्रतिष्ठायाम्ऽ । अलति भूषयति चित्रादिकमिति आलम् । ‘अल भूषणादौऽ । हरितवर्णं तालकं हरितालकम् । हरितालनामानि ॥ १०३ ॥
मल्लि-नाथः - AK.02.09.103
रीतिपुष्पं पुष्पकेतु—कुसुमाञ्जनम् । पुष्पाञ्जननामानि । अनुक्तम्—विस्रगन्धि तु गोवन्तं वैरं च नखमण्डनम् ॥ पिञ्जरं पीतनं—हरितालके । हरितालनामानि । ‘हरिदऴमुऽ । ‘वालमूलं वंशपत्रम्ऽ इति वैजयन्तीपाठात् (पृ। ४२, श्लो। १४) वालमूलम् । ‘हरितालमलं तालं तालकं दलम्ऽ इति माधवीयपाठाद् दलमपि ॥ १०३ ॥
[[०२.६१५]]
मूलम् - ०२.०९.१०४
(०२.०९.१०४अब्) गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु ।
(०२.०९.१०४च्द्) बोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४ ॥
लिङ्ग-सूरी - AK.02.09.104
गैरेयमिति—गिरौ गिरिशिलायां भवं गैरेयम् । गिरिजं च । अर्थ्यते औषधादिभिरिति अर्थ्यम् । ‘अर्थ उपयाच्ञायाम्ऽ । अश्मनि जायत इत्यश्मजम् । ‘जनी प्रादुर्भावेऽ । शिलाविशेषे जायत इति शिलाजतु । गिरिशिलोत्थलाक्षानामानि ॥ बोल्यते मषीकरणाय कज्जलपुञ्जं निमज्ज्यते बोलः । ‘बुल निमज्जनेऽ । गन्धवाहो रसः गन्धरसः । प्राणित्यनेन प्राणः । पिण्ड्यते पिण्डीक्रियते पिण्डः । ‘पिडि सङ्घातेऽ । औषधार्थं गोप्यते गोपः । रस्यते आस्वाद्यते रसः । ‘रस आस्वादनेऽ । बोलनामानि ॥ १०४ ॥
मल्लि-नाथः - AK.02.09.104
गैरेयमर्थ्यं—शिलाजतु । शिलामदनामानि । ‘कलुमदमुऽ । बोलगन्धरस—रसाः समाः । ‘बोलो गोलः शशः पिण्डःऽ इति वैजयन्ती (पृ। ४२, श्लो। १५) । बोलनामानि ॥ १०४ ॥
[[०२.६१५]]
मूलम् - ०२.०९.१०५
(०२.०९.१०५अब्) डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसम्भवम् ।
(०२.०९.१०५च्द्) नागसीकयोगेष्टवप्राणि त्रपु पिच्चटम् ॥ १०५ ॥
(०२.०९.१०६अब्) रङ्गवङ्गे चाथ पिचुस्तूलोऽथ कमलोत्तरम् ।
(०२.०९.१०६च्द्) स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६ ॥
लिङ्ग-सूरी - AK.02.09.105-106
डिण्डीर इति—डिण्डीत्येवमनुकारध्वनिम् ईरयतीति डिण्डीरः । ‘ईर क्षेपेऽ । अब्धेः कफ इव प्रतिभात्यब्धिकफः । स्फायते वर्धत इति फेनः । ‘स्फायी वृद्धौऽ । समुद्रफेननामानि ॥ स्यन्दते प्रस्रवति सूक्ष्मत्वादिति सिन्दूरम् । ‘स्यन्दू प्रस्रवणेऽ । नागात् सीसात् सम्भवोऽस्य नागसम्भवम् । सिन्दूरनामनी ॥ न गच्छतीत्यगम् । तन्न भवतीति नागम् । ‘गम्लृ गतौऽ । सिनोति पारदं बध्नातीति सीसकम् । ‘षिञ् बन्धनेऽ । सुवर्णकरणयोगे इष्टं भवतीति योगेष्टम् । सुवर्णयोगे उप्यत इति वप्रम् । ‘डुवप् बीजसन्तानेऽ । सीसकनामानि ॥ त्रपतेऽग्निसन्निधावाशु द्रवतीति त्रपु । ‘त्रपूष् लज्जायाम्ऽ । पिच्च्यते कुट्ट्यते घटेष्वनेनेति पिच्चटम् । ‘पिच्च कुट्टनेऽ । रज्यते चर्माद्यनेन रङ्गम् । ‘रञ्ज रागेऽ । वङ्गति द्रवतीति वङ्गम् । ‘वगि गतौऽ । त्रपुसञ्ज्ञकलोहनामानि ॥ पञ्च्यते तन्तुरस्माद् व्यक्तीक्रियते पिचुः । ‘पचि व्यक्तीकरणेऽ । तोल्यते फलसकाशात् निष्कृष्यते तूलः । ‘तूलःऽ । ‘तूल निष्कर्षेऽ । उपगतहबीजस्य कार्पासस्य नामनी ॥ कमलेभ्य उत्कृष्टवर्णं कमलोत्तरम् । कुस्यत्यङ्गुल्यादिकमिति कुसुम्भम् । ‘कुस संश्लेषणेऽ । वह्निरिव पिङ्गला शिखास्येति वह्निशिखम् । महच्च तद्रजनं च महारजनम् । ‘रञ्ज रागेऽ । तैलहेतुबीजस्य कुसुम्भाख्यौषधिविशेषपुष्पस्य नामानि ॥ १०५-१०६ ॥
मल्लि-नाथः - AK.02.09.105-106
डिण्डीरोऽब्धिकफः फेनः । समुद्रश्लेष्मनामानि । ‘नुरुगुऽ । सिन्दूरं नागसम्भवम् । सिन्दूरनामनी ॥ नागसीसक—वप्राणि । सीसकनामानि । यवनेष्टं चीनपिष्टम् । एति द्वे च ॥ त्रपु पिच्चटं रङ्गवङ्गे च । त्रपुनामानि । ‘तगरमुऽ । स्यात् कस्तीरं तमरकम् । एते द्वे च ॥ अथ पिचुस्तूलः । कार्पासस्य नामनी । ‘दूदिऽ । शाल्मलीतूलनामन्यपि स्याताम् ॥ अथ कमलोत्तरं—महारजनमित्यपि । चन्द्रिकापुष्पनामानि । ‘कुङ्कुमपुव्वुऽ ॥ १०५-१०६ ॥
[[०२.६१७]]
मूलम् - ०२.०९.१०७
(०२.०९.१०७अब्) मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि ।
(०२.०९.१०७च्द्) मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥
लिङ्ग-सूरी - AK.02.09.107
मेषेति—मेषलोमकृतः कम्बलः मेषकम्बलः । ऊर्णा मेषलोम, तदस्यास्तीति ऊर्णायुः । मेषलोमकृतकम्बलनाम ॥ शशस्योर्णं शशोर्णम् । शशलोमनाम ॥ मन्यतेऽभिलष्यत इति मधु । ‘मन ज्ञानेऽ । क्षुद्राभिर्मक्षिकाभिः कृतं क्षौद्रम् । मक्षिकाभिः कृतं माक्षिकम् । माक्षिकपौत्तिकभ्रामरिकक्षौद्रचतुर्विधमधुनो नाम ॥ मधुना उच्छिष्यते त्यज्यत इति मधूच्छिष्टम् । सिञ्चति अग्निसंयोगादिति सिक्थकम् । ‘षिच क्षरणेऽ । मधूच्छिष्टनामनी ॥ १०७ ॥
मल्लि-नाथः - AK.02.09.107
मेषकम्बल ऊर्णायुः । एडकरोमजः कम्बलः ऊर्णायुः स्यात् । ‘जानमुऽ ॥ शशोर्णं शशलोमनि । शशलोमजं शशोर्णं स्यात् ॥ मधु क्षौद्रं माक्षिकादि । आदिशब्दो भ्रामरसारघादिसङ्ग्रहार्थः । मधुमक्षिकासारनामानि । ‘तेनेऽ । अनुक्तम्—बौद्धानलमशालाकम्(?) । ‘कोलजुऽ । छात्रं सर्वौघमित्युभे । ‘पेड्डजुन्नुऽ ॥ मधूच्छिष्टं तु सिक्थकम् । मधूच्छिष्टनामनी । ‘मैनमुऽ ॥ १०७ ॥
[[०२.६१७]]
मूलम् - ०२.०९.१०८
(०२.०९.१०८अब्) मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।
(०२.०९.१०८च्द्) नैपाली कुनटी गोला यवक्षारो यवाग्रजः ॥ १०८ ॥
(०२.०९.१०९अब्) पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः ।
(०२.०९.१०९च्द्) सौवर्चलं स्याद् रुचकं त्वक्क्षीरी वंशरोचना ॥ १०९ ॥
लिङ्ग-सूरी - AK.02.09.108-109
मनःशिलेति—मनःशब्दवाच्या शिला मनःशिला । मनःशब्देन गोप्यत इति मनोगुप्ता । मनःशब्देन हूयत इति मनोह्वा । ‘ह्वेञ् स्पर्धायां शब्दे चऽ । नागजिह्वाप्रतिकृतित्वात् नागजिह्विका । मनःशिलानामानि ॥ नेपालदेशे भवा नैपाली । कौ नेपालभूमौ नटतीति कुनटी । ‘नट नृत्तौऽ । गां नेपालभूमिं स्वजन्मभूमित्वेन लातीति गोला । ‘ला आदानेऽ । नेपालदेशमनःशिलानामानि ॥ यवस्य क्षारो यवक्षारः । यवाग्रैर्जन्यत इति यवाग्रजः । ‘जनी प्रादुर्भावेऽ । पाकेन सिद्धः पाक्यः । यवक्षारनामानि ॥ सर्जिकादिकृतः क्षारः सर्जिकाक्षारः । कपोतवर्णत्वात् कापोतः । सुखेन दीपनाग्निं वर्चयतीति सुखवर्चकः । ‘वर्च दीप्तौऽ । क्षारनामानि ॥ सौवर्चलरुचकशब्दौ पूर्वमेव व्युत्पन्नौ (२। ९। ४३) । सुवर्चलाख्याकरोद्भवक्षारनामनी ॥ त्वचो वेणोः सकाशात् स्रवत्क्षीरमस्या इति त्वक्क्षीरा । त्वक्क्षीरीति वा पाठः । वंशोत्था रोचना वंशरोचना । त्वक्क्षीरीनामनी ॥ १०८-१०९ ॥
मल्लि-नाथः - AK.02.09.108-109
मनःशिला—कुनटी गोला । मनःशिलानामानि । ‘मणिशिलऽ । अनुक्तम्—‘पाकशुक्ला तु कठिनी कक्खटी च समं त्रयम्ऽ । फलकलेखनीशिलानामानि । ‘पलपुगनिऽ ॥ यवक्षारः यवाग्रजः पाक्यः । यवक्षारनामानि । अथ सर्जिकाक्षारः—सुखवर्चकः । सर्जिकाक्षारनामानि ॥ सौवर्चलं स्याद्रुचकम् । सौवर्चलक्षारनामनी । ‘वोणारखारम्ऽ ॥ अनुक्तम्—‘टङ्कणो रसयोनिः स्यात्ऽ । ‘वेलिगारमुऽ ॥ त्वक्क्षीरी वंशलोचना । तुगाक्षीरीनामानि । ‘तदक्षिरमुऽ । तुकाक्षीरी तुगाक्षीरी च स्यात् । ‘तुगाक्षीरी तुकाक्षीरी त्वक्क्षीरी पार्थिवी तुकाऽ इति माधवः ॥ १०८-१०९ ॥
[[०२.६१८]]
मूलम् - ०२.०९.११०
(०२.०९.११०अब्) शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम् ।
(०२.०९.११०च्द्) ग्रन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि ॥ ११० ॥
लिङ्ग-सूरी - AK.02.09.110
शिग्रुजमिति—शिनोति तनूकरोति रोगमिति शिग्रुः । तस्माज्जातं शिग्रुजम् । ‘शिञ् निशातनेऽ । श्वेतं च तत् मरिचं च श्वेतमरिचम् । सौभाञ्जनबीजनामनी ॥ मुरति भुवं वेष्टयतीति मोरटम् । ‘मुर वेष्टनेऽ । इक्षोरिदम् ऐक्षवम् । इक्षुमूलनाम ॥ ग्रन्थिप्रतिकृतित्वात् ग्रन्थिकम् । पिप्पल्या मूलं पिप्पलीमूलम् । चटकाशिरोरूपत्वात् चटकाशिरः । पिप्पलीमूलनामानि ॥ ११० ॥
मल्लि-नाथः - AK.02.09.110
शिग्रुजं श्वेतमरिचम् । शिग्रुजनामनी । ‘मुनुगवित्तुलुऽ । मोरटं मूलमैक्षवम् । इक्षूणां मूलं मोरटं स्यात् । ग्रन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि । पिप्पलीमूलनामानि ॥ ११० ॥
[[०२.६१९]]
मूलम् - ०२.०९.१११
(०२.०९.१११अब्) गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् ।
(०२.०९.१११च्द्) त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ॥ १११ ॥
इति वैश्यवर्गः
लिङ्ग-सूरी - AK.02.09.111
गोलोमीति—गोरिव लोमान्यस्या गोलोमी । भूतस्य केशा इव केशा यस्य भूतकेशः । औषधविशेषनामनी ॥ पत्राण्यङ्गान्यस्य पत्राङ्गम् । रक्तचन्दननाम ॥ त्रीणि कटूनि सन्त्यत्रेति त्रिकटु । त्रीण्यूषणान्यत्र सन्तीति त्र्यूषणम् । विशेषेण जिह्वामूषतीति व्यूषम् । ‘ऊष रुजायाम्ऽ । ‘ऊष दाहे वाऽ । समाहृतस्य शुण्ठीमरीचपिप्पल्याख्यद्रव्यत्रयस्य नामानि ॥ त्रयाणां फलानां समाहारः त्रिफला । हरीतकीविभीतक्यामलकीत्रयस्य नाम ॥ १११ ॥
इति श्रीवङ्गलकामयभट्टोपाध्यायसूनुलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ वैश्यवर्गः
मल्लि-नाथः - AK.02.09.111
गोलोमी भूतकेशो ना । कापिशेयजतुनामनी । ‘मरुलुजडऽ ॥ पत्राङ्गं रक्तचन्दनम् । रक्तचन्दननामनी । ‘पतङ्गमुऽ ॥ त्रिकटु त्र्यूषणं व्योषम् । त्रिकटुनामानि । ‘अयस्तिलत्र्यूषणकोलभोगैःऽ इति योगशतकपाठाद् दीर्घादिः । ‘त्र्युषणं त्रिकटु दोषं रुचकं सौवर्चलः पुंसिऽ इति रत्नकोशपाठाद् ह्रस्वादिरपि ॥ त्रिफला तु फलत्रिका । स्त्रीलिङ्गावेतौ । ‘त्रिफला तृफलापि चऽ इति त्रिकाण्डशेषः (२। ९। ४७५) ‘भूतसारी फलत्रिकाऽ इति वैजयन्ती (पृ। १२९, श्लो। ८२) । फलत्रयनाम ॥
‘हरीतकी चामलकी विभीतकमिति त्रयम् ।
त्रिफला प्रथमा सैव फलत्रयमिति स्मृतम् ॥
द्राक्षा काश्मर्यखर्जूरे फलानि तु फलत्रयम् ।
सैव ज्ञेया द्वितीया तु त्रिफला शास्त्रकोविदैः ॥
जातीफलं पूगफलं लवङ्गफलमेव च ।
तृतीया त्रिफला प्रोक्ता सैव प्रोक्तं फलत्रयम् ॥ १११ ॥ऽ
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचितेऽमरपदपारिजाते वैश्यवर्गः
[[०२.६२०]]