मूलम् - ०२.०८.००१
(०२.०८.००१अब्) मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ।
(०२.०८.००१च्द्) राज्ञि राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ॥ १ ॥
लिङ्ग-सूरी - AK.02.08.001
मूर्धेति—मूर्ध्नि प्रायेणाभिषिच्यते मूर्धाभिषिक्तः । राज्ञः क्षत्रियस्यापत्यं पुमान् राजन्यः । ब्राह्मणो बाह्वोर्जातः बाहुजः । क्षतात् त्रायते क्षत्रः, तस्यापत्यं क्षत्रियः । विराजते विराट् । ‘राजृ दीप्तौऽ । क्षत्रियनामानि ॥ प्रजा रञ्जयतीति राजा । ‘रञ्ज रागेऽ । राजतीति वा । ‘राजृ दीप्तौऽ । राजते राट् । पृथिव्या ईश्वरः पार्थिवः । क्ष्मां विभर्तीति क्ष्माभृत् । ‘भृञ् भरणेऽ । नॄन् पातीति नृपः । भुवं पातीति भूपः । ‘पा रक्षणेऽ । महीं क्षियति अधिवसति महीक्षित् । ‘क्षि निवासगत्योःऽ । राजनामानि ॥ १ ॥
मल्लि-नाथः - AK.02.08.001
मूर्धाभिषिक्तो—क्षत्रियो विराट् । राजन्यशब्दप्रकृतिभूतराजशब्दोऽपि पर्यायपाती । ‘राजा मृगाङ्के क्षत्रिये नृपेऽ (३। ३। १११) इति वक्ष्यति । तथैव क्षत्रियशब्दप्रकृतिभूतक्षत्रशब्दः । ‘क्षत्रियस्तु विराट् क्षत्रराजन्यद्विजलिङ्गिनःऽ इति रभसकोशः । क्षत्रियजातिनामानि ॥ राज्ञि राट्—भूपमहीक्षितः । राज्ञो नामानि । ‘भूशक्रो नरदेवश्चऽ । एते द्वे च ॥ १ ॥
[[०२.४८५]]
मूलम् - ०२.०८.००२
(०२.०८.००२अब्) राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः ।
(०२.०८.००२च्द्) चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥
लिङ्ग-सूरी - AK.02.08.002
राजेति—संसक्तः समन्तात् संलग्नोऽन्तो यस्याः सा समन्ता स्वविषयादनन्तरा भूमिः । समन्ताया इमे सामन्ताः । प्रणतां अशेषाः सामन्ता यस्य । अधि सामन्तानामुपरि ईष्टे अधीश्वरः । ‘ईश ऐश्वर्येऽ । प्रणताशेषसामन्तराजनाम ॥ चक्रं राष्ट्रं स्वामित्वेन वर्तयतीति चक्रवर्ती । ‘वृतु वर्तनेऽ । सर्वस्या भूमेरीश्वरः सार्वभौमः चक्रवर्तिनामनी ॥ अन्यो नृपो मण्डलेश्वर इत्युच्यते । मण्डलस्य ईश्वरः मण्डलेश्वरः । एकदेशाधिपतिनाम ॥ २ ॥
मल्लि-नाथः - AK.02.08.002
राजा तु—स्यादधीश्वरः । ‘सामन्ता राज्यसन्धिस्थाःऽ इति वैजयन्ती (पृ। १०५, श्लो। ९८) । प्रणमदखिलसामन्तराजोऽधीश्वरः स्यात् । दुर्योधनादिः ॥ चक्रवर्ती सार्वभौमः । सकलभूमीश्वरनामनी । कार्तवीर्यादिः ॥ नृपो—मण्डलेश्वरः । अधीश्वरसार्वभौमाभ्यामन्यो राजा मण्डलेश्वरः स्यात् । द्रुपदादिः ॥ २ ॥
[[०२.४८५]]
मूलम् - ०२.०८.००३
(०२.०८.००३अब्) येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।
अक्।०२.०८.००३च्द् शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ३ ॥
अक्।०२.०८.००४अब् राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ।
लिङ्ग-सूरी - AK.02.08.003-4
येनेति—राजसु मध्ये सम्यक् राजत इति सम्राट् । राजसूययागकृतः स्वाज्ञयाशेषनृपशासितुर्मण्डलेश्वरस्य नाम ॥ राज्ञां गणो राजकम् । नृपतिसमूहनाम ॥ क्षत्रियाणां समूहो राजन्यकम् । क्षत्रियसमूहनाम ॥ ३ ॥
मल्लि-नाथः - AK.02.08.003-4
येनेष्टं—स सम्राट् । येन राजसूययागः कृतः, यो मण्डलस्याधिपः, यश्च स्वाज्ञया राज्ञः शास्ति स सम्राट् स्यात् । युधिष्ठिरादिः ॥ अथ राजकं—गणे क्रमात् । राज्ञां कदम्बकं राजकं स्यात् । क्षत्रियाणां समूहः राजन्यकं स्यात् ॥ ३ ॥
[[०२.४८६]]
अक्।०२.०८.००४च्द् मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः ॥ ४ ॥
मूलम् - ०२.०८.००५
अक्।०२.०८.००५अब् महामात्राः प्रधानानि पुरोधास्तु पुरोहितः ।
लिङ्ग-सूरी - AK.02.08.004-5
मन्त्रीति—मन्त्रो गुप्तवादः कर्तव्यावधारणं वा अस्यास्तीति मन्त्री । धियं सचति समवैति धीसचिवः । ‘षच समवायेऽ । अमा राज्ञः समीपे वर्तत इति अमात्यः । बुद्धिप्रदातृनामानि ॥ कर्म सचन्ति कर्मसचिवाः । बुद्धिप्रदातुरितरस्य मन्त्रिणो नाम ॥ महती मात्रा सेना परिच्छदः येषां ते महामात्राः । प्रदधति प्रकर्षेण राज्यं धारयन्ति प्रधानानि । मुख्यामात्यनामानि ॥ शान्तिकपौष्टिकादिकर्मसु पुरो धीयत इति पुरोधाः । सान्तोऽयम् । पुरोहितश्च । ‘डुधाञ् धारणपोषणयोःऽ । पुरोहितनामनी ॥ ४ ॥
मल्लि-नाथः - AK.02.08.004-5
मन्त्री—अमात्यः । ‘मन्त्री सहायः सचिवौऽ इति वक्ष्यति (३। ३। २०६) । बुद्धिसहायवान् मन्त्री, अमात्यश्च स्यात् । अन्ये कर्मसचिवास्ततः—प्रधानानि । ‘महामात्रः प्रधानः स्यात्ऽ इति पुंस्काण्डे गोपालितः । अन्यकर्मसहाया महामात्राः प्रधानानि चेत्युच्यन्ते ॥ पुरोधास्तु पुरोहितः । राजाचार्यनामनी । ‘सौवस्तिक इति प्रोक्तो राजाचार्यः पुरोहितःऽ इति हलायुधः (अ। मा। २। २७१) ॥ ४ ॥
[[०२.४८६]]
अक्।०२.०८.००५च्द् द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ॥ ५ ॥
मूलम् - ०२.०८.००६
अक्।०२.०८.००६अब् प्रतीहारो द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः ।
लिङ्ग-सूरी - AK.02.08.005-6
द्रष्टरीति—अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट् । विशिष्टं वचनमस्येति विवाकः । प्राट् चासौ विवाकश्च प्राड्विवाकः । अक्षं व्यवहारं पश्यतीति अक्षदर्शकः । व्यवहारद्रष्टृब्राह्मणनामनी ॥ प्रतिह्रियते निवार्यते नूतनो जनोऽनेन प्रतीहारः । द्वारं पालयतीति द्वारपालः । ‘पाल रक्षणेऽ । द्वारि तिष्ठतीति द्वाःस्थः । द्वारि स्थितं कार्यार्थिनं राज्ञे दर्शयति द्वाःस्थितदर्शकः । ‘दृशिर् प्रेक्षणेऽ । द्वारपालकनामानि ॥ ५ ॥
मल्लि-नाथः - AK.02.08.005-6
द्रष्टरि व्यवहाराणां—अक्षदर्शकौ । ‘न्यायोऽक्षो व्यवहारश्च इति वैजयन्ती (पृ। १२४, श्लो। १५) । राजद्वारायतन्यायद्रष्टरि प्राड्विवाकाक्षदर्शकशब्दौ स्याताम् ॥ प्रतीहारे—द्वाःस्थितदर्शकाः । दौवारिकनामानि । ‘दौवारिको वेत्रधरःऽ एते द्वे च ॥ ५ ॥
[[०२.४८६]]
अक्।०२.०८.००६च्द् रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ ॥ ६ ॥
मूलम् - ०२.०८.००७
अक्।०२.०८.००७अब् स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु ।
लिङ्ग-सूरी - AK.02.08.006-7
रक्षिवर्ग इति—रक्षिणां वर्गः रक्षिवर्गः । अनीकेन तिष्ठतीति अनीकस्थः । अङ्गरक्षकव्रातस्य नामनी ॥ अधि उपरि अक्ष्णोतीति अध्यक्षः । ‘अक्षू व्याप्तौऽ । अधिक्रियते उपरि नियुज्यते स्म अधिकृतः । ‘डुकृञ् करणेऽ । अधिकारिनामनी ॥ ग्रामे स्थातुं शीलमस्येति स्थायुकः । एकग्रामाधिकारिणो नाम ॥ गोपायति स्वाधिष्ठितान् ग्रामानिति गोपः । ‘गुपू रक्षणेऽ । बहुग्रामाधिकारिणो नाम ॥ ६ ॥
मल्लि-नाथः - AK.02.08.006-7
रक्षिवर्गस्त्वनीकस्थः । अङ्गरक्षिणां वर्गोऽनीकस्थः स्यात् । ‘रक्षिवर्गस्तु यो राज्ञां सोऽनीकस्थोऽभिधीयतेऽ इत्यमरमाला । अनुक्तम्—‘आरक्षाः पुररक्षिणःऽ । पुररक्षका आरक्षाः स्युः ॥ अथाध्यक्षाधिकृतौ समौ । अधिकारसामान्यनामनी । अधिकारविशेषोऽपि वक्ष्यते । स्थायुको—ग्रामे । एकग्रामाधिकारी स्थायुकः स्यात् । गोपो—भूरिषु । अनेकग्रामाधिकारी गोपः स्यात् ॥ ६ ॥
[[०२.४८८]]
अक्।०२.०८.००७च्द् भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ॥ ७ ॥
मूलम् - ०२.०८.००८
अक्।०२.०८.००८अब् अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः ।
लिङ्ग-सूरी - AK.02.08.007-8
भौरिक इति—भूरिद्रव्ये कनके नियुक्तो भौरिकः । कनकस्याध्यक्षः । सुवर्णाधिकृतस्य नामनी ॥ प्रशस्तं रूपमत्रेति रूप्यम् । रूप्येऽध्यक्षो रूप्याध्यक्षः । निष्काणामधिकृतो नैष्किकः । निष्के हेम्नि नियुक्तो वा । राजमुद्राङ्करूप्याध्यक्षनामनी ॥ अन्तः अभ्यन्तरो वंशो गृहम् । तस्मिन् नियुक्तः अन्तर्वंशिकः । वंशस्य कुलस्य अन्तः अन्तर्वंशं स्त्रियः, ताः सन्त्यस्येति वा । अधिकरोतीति अधिकृतः । अन्तःपुराधिकृतनाम ॥ ७ ॥
मल्लि-नाथः - AK.02.08.007-8
भौरिकः कनकाध्यक्षः । हेमभाण्डाराधिकारी भौरिकः स्यात् । रूप्याध्यक्षः—नैष्किकः । टङ्काधिकारी नैष्किकः स्यात् । ‘स्याद्धट्टे विकर्मिकःऽ । आपणाधिकारी विकर्मिकः स्यात् । ‘पुर्यामध्यक्षो दण्डपाशिकःऽ । पट्टणाधिकारी दण्डपाशिकः स्यात् ॥ अन्तःपुरे—अन्तर्वंशिको जनः । शुद्धान्ताधिकार्यन्तर्वंशिकः स्यात् ॥ ७ ॥
[[०२.४८८]]
अक्।०२.०८.००८च्द् सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥ ८ ॥
मूलम् - ०२.०८.००९
अक्।०२.०८.००९अब् षण्डो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः ।
लिङ्ग-सूरी - AK.02.08.008-9
सौविदल्ला इति—सुष्ठु वेत्तीति सुवित् । सकलसारज्ञः । तं नरं लान्ति वल्लभत्वे स्वीकुर्वन्ति सुविदल्लाः स्त्रियः, तासां रक्षकत्वेन वर्तमानाः सौविदल्लाः । कञ्चुकाः सन्ति येषामिति कञ्चुकिनः । राजस्त्रीणां सतीत्वं स्थापयन्ति स्थापत्याः । शोभनं विदन्तीति सुविदः स्त्रियः, तासु पालकत्वेन वर्तन्त इति सौविदाः । राजस्त्रीरक्षणाधिकृतानां नामानि ॥ सनोतीति षण्डः । ‘षणु दानेऽ वर्षं रेतःसेकं वृणोतीति वर्षवरः । ‘वृञ् वरणेऽ । नपुंसकसौविदल्लनामनी ॥ सेवां कुर्वन्तीति सेवकाः । ‘षेवृ सेवनेऽ । अर्थः सेवाप्रयोजनं येषां ते अर्थिनः । प्रभुमनुजीवन्तीति अनुजीविनः । मन्त्रिप्रभृति राजोपचारिणां नामानि ॥ ८ ॥
मल्लि-नाथः - AK.02.08.008-9
सौविदल्लाः कञ्चुकिनः—ते । महिषीसंरक्षकनामानि । ‘सावासुलुऽ शण्ढो वर्षवरस्तुल्यौ । पुंस्त्वरहितसौविदनामनी । ‘बाट्टायीऽ । ‘होढः पञ्चजनीनश्चऽ । एते द्वे च । ‘चबुनिनव्वलऽ ॥ सेवकार्थ्यनुजीविनः । सेवकनामानि । दुर्योधनस्य कर्णादय इव । अनुक्तम्—‘सपक्षाः सामवायिकाःऽ । सामवायिकनाम । पाण्डवानां विराटादय इव ॥ ८ ॥
[[०२.४८९]]
अक्।०२.०८.००९च्द् विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥ ९ ॥
मूलम् - ०२.०८.०१०
अक्।०२.०८.०१०अब् उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ।
लिङ्ग-सूरी - AK.02.08.009-10
विषयेति—शातयति नाशनं कृत्वा तदाधिपत्यं करोतीति शत्रुः । ‘शद्लृ शातनेऽ । स्वदेशसमीपराजनाम ॥ मेद्यति स्निह्यतीति मित्रम् । ‘ञिमिदा स्नेहनेऽ । शत्रुदेशानन्तरराजनाम ॥ ऊर्ध्वमासीन इव वर्तते उदासीनः । मित्रदेशस्य समीपदेशस्थराजनाम ॥ पार्ष्णिं पृष्ठभागं गृह्णातीति पार्ष्णिग्राहः । विजिगीषुर्भूत्वा प्राच्यशत्रून् यदा प्रतियाति तदा प्रतीच्यशत्रुनाम ॥ ९ ॥
मल्लि-नाथः - AK.02.08.009-10
विषयानन्तरो—शत्रुः । विजिगीषोर्भूम्यनन्तरो राजशत्रुः । मित्रमतःपरम् । अतोऽप्युपरिस्थितो राजमित्रम् । उदासीनः परतरः । ततोऽप्युपरिस्थितो राजा उदासीनः । पार्ष्णिग्राहः—पृष्ठतः । पृष्ठभागस्थो राजा पार्ष्णिग्राहः । इत्ययं तत्तन्मण्डलविभागः ॥ ९ ॥
[[०२.४९०]]
अक्।०२.०८.०१०च्द् रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥
मूलम् - ०२.०८.०११
अक्।०२.०८.०११अब् द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।
अक्।०२.०८.०११च्द् अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
लिङ्ग-सूरी - AK.02.08.010-11
रिपाविति—रपति प्रकाशयत्यपकीर्तिं रिपुः । रेपयति वेष्टयतीति वा । ‘रप व्यक्तायां वाचिऽ ‘रेपृ गतौऽ । वीरस्य कर्म वैरम् । तदस्यास्तीति वैरी । समानपतित्वमस्यास्तीति सपत्नः । इयर्तीति अरिः । ‘ऋ गतौऽ । द्वेष्टीति द्विषन् । ‘द्विष अप्रीतौऽ । द्विट्, द्वेषणश्च । दुष्टं हृदयं यस्य दुर्हृत् । विरुद्धः पक्षोऽस्य विपक्षः । हितादन्यः अहितः । न मित्रं अमित्रः । दस्यति उपक्षयं करोतीति दस्युः । ‘दसु उपक्षयेऽ । शातयतीति शत्रुः । ‘शद्लृ शातनेऽ । शत्रुरेव शात्रवः । अभिमुखं हन्तीति अभीघाती । ‘हन हिंसागत्योःऽ । अभियातिरिति पाठे अभि अभिमुखं यातीति । अभिमानीति पाठे अभिमन्यते शत्रुरित्येवेति । प्रियते उद्युङ्क्ते हन्तुमिति परः । ‘पॄङ् व्यायामेऽ । इयर्तीति अरातिः । ‘ऋ गतौऽ । प्रतिकतूलमर्थयते प्रत्यर्थी । ‘अर्थ उपयाच्ञायाम्ऽ । परिपन्थयति विरोधं करोति परिपन्थी । ‘पथि गतौऽ । शत्रुनामानि ॥ १०-११ ॥
मल्लि-नाथः - AK.02.08.010-11
रिपौ वैरि—परिपन्थिनः । शत्रुनामानि ।
‘असुहृत्प्रत्यवस्थातृप्रत्यनीकजिघांसवः ।
प्रतिपक्षोऽप्यसहनः ॥ऽ
एतानि षट् च ॥ १०-११ ॥
[[०२.४९०]]
मूलम् - ०२.०८.०१२
अक्।०२.०८.०१२अब् स्निग्धो वयस्यः सवया अथ मित्रं सखा सुहृत् ।
अक्।०२.०८.०१२च्द् सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥ १२ ॥
लिङ्ग-सूरी - AK.02.08.012
स्निग्ध इति—स्निह्यति स्निग्धः । ‘ष्णिह प्रीतौऽ वयसा तुल्यो वयस्यः । समानं वयो यस्य सवयाः । स्वयङ्कृताभिनवमित्रनामानि । मेद्यतीति मित्रम् । ‘ञिमिदा स्नेहनेऽ । शोभनं हृदयमस्य सुहृत् । समानं प्रभुत्वं ख्याति प्रकथयतीति सखा । ‘ख्या प्रकथनेऽ । मित्रमात्रनामानि ॥ सख्युर्भावः सख्यम् । सप्तभिः पदैः प्राप्यते साप्तपदीनम् । सख्यनामनी ॥ अनुरुध्यते अनुरोधः । ‘रुधिर् आवरणेऽ अनुवर्तननाम ॥ १२ ॥
मल्लि-नाथः - AK.02.08.012
स्निग्धो वयस्यः सवयाः । तुल्यवयोमित्रनामानि । अथ मित्रं—सुहृत् । मित्रनामानि ॥ सखिशब्दादन्यः सखशब्दोऽप्यस्ति । ‘सखा सहायः सचिवः । सखःऽ ॥ इति सज्जनः । मित्रशब्दादन्यो मित्रयुशब्दोऽप्यस्ति । ‘मित्रं सगन्धो मित्रयुः सुहृत्ऽ इति धनञ्जयः । सख्यं साप्तपदीनं स्यात् । सख्यं नाम सखित्वम् । ‘साप्तपदीनं सख्यम्ऽ इति पाणिनीयम् (५। २। २२) । लक्षणया तद्युक्तोऽपि साप्तपदीनः स्यात् । ‘सखा साप्तपदीनः स्यात्ऽ इति वैजयन्ती । (पृ। ९८, श्लो। १८७) ॥ अनुरोधोऽनुवर्तनम् । सख्यकरणनामनी ॥ १२ ॥
[[०२.४९१]]
मूलम् - ०२.०८.०१३
अक्।०२.०८.०१३अब् यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः
अक्।०२.०८.०१३च्द् चारश्च गूढपुरुषश्चाप्तः प्रत्ययितस्त्रिषु ॥ १३ ॥
लिङ्ग-सूरी - AK.02.08.013
यथेति—यथार्हं यथायोग्यो वर्णः प्रकारोऽस्यास्तीति यथार्हवर्णः । परेषु स्वामिना प्रकर्षेण निधीयते प्रणिधिः । ‘डुधाञ् धारणपोषणयोःऽ । अपच्छन्नः सन् सर्पति चरतीति अपसर्पः । ‘सृप्लृ गतौऽ । चरतीति चरः । ‘चर गतौऽ । स्पशति बाधते परानिति स्पशः । तालव्यान्तो रेफशून्यश्चायं शब्दः । ‘स्पश बाधनस्पर्शनयोःऽ । चरति जानाति परबलमिति चारः । ‘चर गतौऽ । गूढश्चासौ पुरुषश्च गूढपुरुषः । चारनामानि ॥ आप्नोति रहस्यमित्याप्तः । ‘आप्लृ प्राप्तौऽ । प्रत्ययो विश्वासोऽस्य सञ्जातः प्रत्ययितः । अयं शब्दः त्रिषु लिङ्गेषु वर्तते । आप्तनामनी ॥ १३ ॥
मल्लि-नाथः - AK.02.08.013
यथार्थवर्णः । ‘नृपतेर्नेतुरिवायथार्थवर्णाःऽ इति माघप्रयोगात् (शिशु। २०। २३) अयथार्थवर्णोऽपि स्यात् । प्रणिधिः—गूढपुरुषश्च । गूढचारिनामानि । आप्तप्रत्ययितौ समौ । आप्तनामनी ॥ १३ ॥
[[०२.४९२]]
मूलम् - ०२.०८.०१४
अक्।०२.०८.०१४अब् सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि ।
अक्।०२.०८.०१४च्द् स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥
अक्।०२.०८.०१५अब् तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ ।
लिङ्ग-सूरी - AK.02.08.014-15
सांवत्सर इति—संवत्सरं कालमधीते वेत्ति वा सांवत्सरः । ज्योतींषि ग्रहनक्षत्राणि वेत्तीति ज्यौतिषिकः । दैवं शुभाशुभं जानाति दैवज्ञः । ‘ज्ञा अवबोधनेऽ । दिनानि गणयतीति गणकः । ‘गण सङ्ख्यानेऽ । मुहूर्तं कालं वेत्तीति मौहूर्तिको मौहूर्तश्च । कालज्ञानमस्यास्तीति ज्ञानी । कृतान्तो दैवम् । तद्वेत्तीति कार्तान्तिकः । ज्यौतिषिकनामानि ॥ तन्यतेऽनेन मतधर्म इति तन्त्रम् । तद्वेत्तीति तान्त्रिकः । ज्ञातः सिद्धान्तोऽनेनेति ज्ञातसिद्धान्तः । ज्ञातशैवादिसिद्धान्तस्य नामनी ॥ सीदन्त्यत्रेति सत्रम् गृहम् । तदस्यास्तीति सत्री । गृहपतिव्याजेनावस्थितचारनामनी ॥ १४ ॥
मल्लि-नाथः - AK.02.08.014-15
सांवत्सरो ज्यौतिषिको—कार्तान्तिका अपि । ज्यौतिषिकनामानि ॥ तान्त्रिको ज्ञातसिद्धान्तः । सिद्धान्तवेत्ता ज्यौतिषिकस्तान्त्रिकः स्यात् ॥ सत्री गृहपतिः समौ । भिन्नपुंव्यञ्जनवेत्र[ ष ]धरनामनी । ‘हग्गडिऽ ॥ १४ ॥
[[०२.४९२]]
अक्।०२.०८.०१५च्द् लिपिकारोऽक्षरचणोऽक्षरचुञ्चुश्च लेखके ॥ १५ ॥
मूलम् - ०२.०८.०१६
अक्।०२.०८.०१६अब् लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ ।
लिङ्ग-सूरी - AK.02.08.015-16
लिपिकार इति—लिपिं करोतीति लिपिकारः । लिपिङ्करो लिपिकरो वा । अक्षरैर्वित्तः अक्षरचणः । अक्षरचुञ्चुश्च । लिखतीति लेखकः । ‘लिख अक्षरविन्यासेऽ । लेखकनामानि ॥ लिप्यतेऽनया पत्रं लिपिः । लिबिश्च । ‘लिप उपदेहेऽ । लिखिताक्षरविन्यासनामनी ॥ १५ ॥
मल्लि-नाथः - AK.02.08.015-16
लिपिकारोऽक्षरचणो—लेखके । लेखकनामानि । ‘कायस्थः करणश्च स्यात्ऽ । एते द्वे च ॥ लिखिताक्षरविन्यासे—उभे स्त्रियौ । लिखितवर्णानां विन्यासे लिपिलिबिशब्दौ स्याताम् ॥ अनुक्तम्—‘लेखस्थानं ग्रन्थकुटीऽ । करणशालानामनी ॥ ‘लेखिनी कलमः पुमान्ऽ । लेखिनीनाम । ‘बलपमुऽ । ‘मेलामन्दो मषिघटीऽ । कज्जलपात्रनाम । ‘मेला मषिरुभे स्त्रियाम्ऽ । मषीनाम । ‘मस्निऽ ॥ १५ ॥
[[०२.४९३]]
अक्।०२.०८.०१६च्द् स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणी ॥ १६ ॥
मूलम् - ०२.०८.०१७
अक्।०२.०८.०१७अब् अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।
लिङ्ग-सूरी - AK.02.08.016-17
स्यादिति—सन्देशम् आज्ञां हरतीति सन्देशहरः । ‘हृञ् हरणेऽ । दूयतेऽनेन पर इति दूतः । ‘दूङ् परितापेऽ । दूतनामनी ॥ दूतस्य भावः कर्म वा दूत्यम् । दौत्यं वा । दूतत्वस्य दूतकर्मणश्च नाम ॥ अध्वानं गच्छतीति अध्वनीनः । अध्वगः । अध्वन्यः । पन्थानं गच्छतीति पान्थः । पथिकः । अत्र पान्थशब्दः सतताध्वगनामधेयमिति वदन्ति । पथिकनामानि ॥ १६ ॥
मल्लि-नाथः - AK.02.08.016-17
स्यात् सन्देशहरो दूतः । आज्ञाहरनामनी । ‘मणिहरुण्डुऽ । ‘वार्तिकः शासनहरःऽ । एते द्वे च ॥ दूत्यं तद्भावकर्मणी । दूतस्य भावः कर्म चेति द्वे दूत्यं स्यात् । ब्राह्मणादिपाठाद् दौत्यमपि ॥ अध्वनीनोऽध्वगो—पथिक इत्यपि । मार्गिकनामानि ‘तेरुवरुलुऽ ॥ १६ ॥
[[०२.४९३]]
अक्।०२.०८.०१७च्द् स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ १
मूलम् - ०२.०८.०१८
अक्।०२.०८.०१८अब् राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ।
लिङ्ग-सूरी - AK.02.08.017-18
स्वामीति—महत् स्वं विद्यतेऽस्येति स्वामी । अमात्यः । सुहृत् । एतौ शब्दौ पूर्वं व्युत्पन्नौ (२। ८। ४। १२ ) । कूयते उत्कृष्ट इति कोशः । ‘कु शब्देऽ । भाण्डागारम् । राजते राष्ट्रम् । दुःखेन गम्यत इति दुर्गम् । बलति प्राणितीति बलम् । ‘बल प्राणनेऽ । सुहृदत्र त्रिविधः । सहजः सुहृत्, कृत्रिमसुहृत्, प्राकृतसुहृच्च । एते सप्त राज्याङ्गानीत्युच्यन्ते । प्रकृतयश्च राज्याङ्गानि । पौराणां श्रेणयश्च राज्याङ्गानि । प्रक्रियते राज्यमाभिरिति प्रकृतयः । रजकस्वर्णकारादिजातयः परस्परं श्रयन्ते श्रेणयः । ‘श्रिञ् सेवायाम्ऽ ॥ १७ ॥
मल्लि-नाथः - AK.02.08.017-18
स्वाम्यमात्य—राज्याङ्गानि । स्वाम्यादीन्यप्यष्टौ राज्याङ्गानि । समष्ट्या तु राज्यमेव ।
‘स्वाम्यमात्यश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत् ।
परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते ॥ऽ
इति (काम। नीति। ४। १।) ॥ प्रकृतयः—श्रेणयोऽपि च । पौरश्रेणयः प्रकृतयः स्युः । अपिशब्दात् स्वाम्यादयोऽपि प्रकृतयः ।
अमात्यराष्ट्रदुर्गाणि बलं कोशश्च पञ्चमः ।
एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥
तासां षष्ठं भवेन्मित्रं सप्तमः पृथिवीपतिः ।
सप्तप्रकृतिकं राज्यमित्युवाच प्रजापतिः ॥
इति बृहस्पतिः ॥ १७ ॥
[[०२.४९४]]
अक्।०२.०८.०१८च्द् सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ १८ ॥
मूलम् - ०२.०८.०१९
अक्।०२.०८.०१९अब् षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः ।
लिङ्ग-सूरी - AK.02.08.018-19
सन्धिरिति—सन्धीयते एकीक्रियतेऽनेनेति सन्धिः । अन्योन्यं विगृह्यते विरुध्यते विग्रहः । ‘ग्रह उपादानेऽ । हीनं प्रति यातीति यानम् । कालप्रतीक्षां कुर्वन् आस्यत इति आसनम् । ‘आस उपवेशनेऽ । स्वकीयेषु द्विधा भावो द्वैधम् । बलिनमाश्रयत इति आश्रयः । एते षड्गुणा इत्युच्यन्ते । शक्यन्ते जेतुं शत्रवोऽमूभिरिति शक्तयः । ‘शक्लृ शक्तौऽ । प्रभवति अनेन प्रभावः । उदधिकं विक्रमेण सहते उत्साहः । ‘षह मर्षणेऽ । बुद्ध्या मन्यते मन्त्रः । एतेभ्यो जाताः तिस्रः शक्तयः इत्युच्यन्ते ॥ १८ ॥
मल्लि-नाथः - AK.02.08.018-19
सन्धिर्ना विग्रहो—षड्गुणाः । सन्ध्यादयः षट् षड्गुणाः स्युः । ‘दिक्सङ्ख्ये सञ्ज्ञायाम्ऽ (२। १। ५०) इति समासः । षाड्गुण्यमपि स्यात् । स्वार्थे ष्यञ् । तत्र सन्धिर्नाम पणबन्धः । स च कोशदण्डभूमिप्रधानकारणत्वेन त्रिविधः । विग्रहो नामापकारकरणतश्च प्रकाशयुद्धं कूटयुद्धं तूष्णींयुद्धमिति त्रिविधम् । तत्स्वरूपं त्वन्यत्र द्रष्टव्यम् ॥ यानं स्वोपचयेन परव्यसनेन च स्यात् । अनुरक्तप्रकृतिकस्य यात्रा । तच्च विगृह्ययानं सन्धाययानं प्रसङ्गयानं निग्रहयानं सम्भूययानमिति पञ्चविधम् ॥ आसनं नाम देशकालबलाद्यपेक्षया दुर्गादिस्थितिः । तदपि सन्धायासनप्रसङ्गासनादिभेदेन पञ्चवीधम् । द्वैधं नाम बलवदुभयमध्यस्थितस्य व्यापारः । स चोभयप्रवचनेन नात्मार्पणमन्यतरेण सन्धिरन्यतरेण विग्रह इति त्रिविधः । आश्रयो नाम हीनेन धर्मविजयिनः समाश्रयणम् । शक्तयः तिस्रः—मन्त्रजाः । प्रभावजोत्साहजमन्त्रजाश्चेति शक्तयस्तिस्रः । ‘स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्ऽ ॥ एतदुक्तशक्तित्रये प्रभावशक्तिं वक्ष्यति । शेषशक्ती स्पष्टे । ‘भाण्डारः कोश इत्युक्तो बलं दण्ड इतीरितम्ऽ । कोशदण्डाभ्यां यज्जातं तत्तेजः प्रभावः स्यात् । स एव प्रतापः ॥ १८ ॥
[[०२.४९५]]
अक्।०२.०८.०१९च्द् क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥
मूलम् - ०२.०८.०२०
अक्।०२.०८.०२०अब् स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ।
लिङ्ग-सूरी - AK.02.08.019-20
क्षय इति—क्षीयते पर इति क्षयः । ‘क्षि क्षयेऽ । समत्वेनात्र तिष्ठतीति स्थानम् । वर्धते स्वयमिति वृद्धिः । ‘वृधु वृद्धौऽ । नीतिवेदिनां एते त्रयः त्रिवर्ग इत्युच्यते । त्रयाणां क्षयस्थानवृद्धीनां वर्गस्त्रिवर्गः । प्रतपति शत्रुरनेनेति प्रतापः । ‘तप सन्तापेऽ । प्रभवत्यनेन शासितुं जगदिति प्रभावः । कोशदण्डाभ्यामुत्पन्नस्य तेजसो नाम ॥ अत्र कोशो हिरण्यवृद्धिः । दण्डः शक्तिबाहुल्यात् शरीरदण्डः ॥ १९ ॥
मल्लि-नाथः - AK.02.08.019-20
क्षयः स्थानं—नीतिवेदिनाम । परापेक्षया स्वशक्तीनां क्षीणता क्षयः । समता स्थानम् । अधिकता वृद्धिः । एते त्रयस्त्रिवर्गः स्यात् । स प्रतापः—कोशदण्डजम् । कोशदण्डाभ्यां जातस्य तेजसो नाम ॥ १९ ॥
[[०२.४९६]]
अक्।०२.०८.०२०च्द् सामदाने भेददण्डावित्युपायचतुष्टयम् ॥ २० ॥
मूलम् - ०२.०८.०२१
अक्।०२.०८.०२१अब् साहसं तु दमो दण्डः साम सान्त्वम् अथो समौ ।
अक्।०२.०८.०२१च्द् भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम् ॥ २१ ॥
लिङ्ग-सूरी - AK.02.08.020-21
सामदान इति—साम, दानं, भेदः, दण्डः एते चत्वार उपायभेदा इत्युच्यन्ते । उपैति वाञ्छितमनेन प्राप्नोतीति उपायः । ‘इण् गतौऽ । सहो बलं, तत्र भवं साहसम् । दाम्यति दौष्ट्यमनेनेति दमः । दण्डश्च । ‘दमु उपशमनेऽ । दण्डोपायनामनी ॥ वैरं स्यतीति साम । ‘षोऽन्तकर्मणिऽ । सान्त्वयत्यनेनेति सान्त्वम् । ‘सान्त्व सामप्रयोगेऽ । सामोपायनामनी ॥ भिद्यते सहसानेनेति भेदः । ‘भिदिर् विदारणेऽ । उपांशु जपनम् उपजापः । ‘जप व्यक्तायां वाचिऽ । भेदोपायनामनी ॥ उपधीयते चित्तविकारोऽनयेति उपधा । धर्मकामभयार्थाद्यैः पुरोहितादीनामभिप्रायपरीक्षप्रकारनाम ॥ २०-२१ ॥
मल्लि-नाथः - AK.02.08.020-21
सामदाने—उपायचतुष्टयम् । सामदानभेददण्डाश्चत्वार उपायाः स्युः । मायोपेक्षेन्द्रजालानीत्येतैस्त्रिभिर्युक्ताश्चेत् सप्तोपायाः । साम नान्तः । दानं च भेदश्च दण्डश्चेति चतुष्टयम् । ‘मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः ।ऽ इति नीतिगजाङ्कुशः ॥ साहसं तु—दण्डः । दण्डनामानि ॥ साम सान्त्वम् । सामोपायनाम ॥ अथो समौ—उपजापौ । भेदनामनी ॥ उपधा—परीक्षणम् । धर्मार्थकामभयैर्या परीक्षा सा उपधा स्यात् । ‘धर्मार्थकामभयेषु व्याजेन परिचित्तपरीक्षणं उपधाऽ इति सोमदेवनीतिः । अनुक्तम्—‘तन्त्रं स्वराष्ट्रचिन्ता स्यात्ऽ । स्वराष्ट्रचिन्तनं तन्त्रं स्यात् । ‘आवापः परचिन्तनम्ऽ । परराष्ट्रचिन्तनम् आवापः स्यात् ॥ २०-२१ ॥
[[०२.४९६]]
मूलम् - ०२.०८.०२२
अक्।०२.०८.०२२अब् पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः ।
अक्।०२.०८.०२२च्द् विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥
अक्।०२.०८.०२३अब् रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु ।
लिङ्ग-सूरी - AK.02.08.022-23
पञ्चेति—वक्ष्यमाणा अषडक्षीणविविक्तविजनच्छन्ननिःशलाकशब्दाः पञ्च त्रिषु लिङ्गेषु अभिधेयानुसारेण वर्तन्ते । अविद्यमानानि षट् अक्षीणि श्रोत्राण्यत्र अषडक्षीणः । तृतीयपुरुषाद्यगोचरमन्त्रनाम ॥ विविच्यते कार्याकार्यमत्रेति विविक्तः । ‘विचिर् पृथग्भावेऽ । विगता अनुपयोगिनो जना अत्र विजनः । छाद्यते गोप्यते छन्नः । ‘छद अपवारणेऽ । निर्गताः शलाका मन्त्रभेदका अस्मादिति निःशलाकः । रह्यन्तेऽनुपयोगिनो जना अत्रेति रहः । सान्तोऽयम् नपुंसकलिङ्गः । ‘रह त्यागेऽ । रहश्च । उपांशु वाक्यं जातमस्मिन्निति उपांशु । एते द्वे पदे अलिङ्गे । अव्यय इत्यर्थः । मन्त्रालोचनस्थाननामानि ॥ रहसि भवं रहस्यम् । रहसि सञ्जातमन्त्रनाम ॥ २२ ॥
मल्लि-नाथः - AK.02.08.022-23
पञ्च त्रिषु—तृतीयाद्यगोचरः । यस्तृतीयादिजनागोचरः सोऽषडक्षीणः स्यात् । स पञ्च त्रिष्वित्यधिकारात् त्रिलिङ्गः । अषडक्षीणो मन्त्रः । अषडक्षीणा क्रीडा इत्यादि ॥ विविक्तविजन—उपांशु चालिङ्गे । एकान्तनामानि ॥ पञ्च त्रिष्वित्यनेन विविक्तादयः पञ्च सत्वार्थे त्रिलिङ्गा भवन्ति । असत्वे नपुंसकलिङ्गा एव । विविक्तं वदति, विजनं रमते, छन्नं तिष्ठतीत्यादि । उपांशुरहसोरलिङ्गत्वमव्ययत्वं चापि ॥ रहस्यं तद्भवे त्रिषु । रहसि भवं रहस्यं स्यात् । भवार्थे यत्प्रत्ययः । रहस्यं रहोऽपि स्यात् । ‘उपांश्वव्ययमेकान्तं रहस्यं विजनं रहःऽ इति वैजयन्ती (पृ। २८६, श्लो। ३२) । ‘रहोऽनुरंहसोपांशु रहस्यं च भिनत्ति कःऽ इति धनञ्जयः ॥ २२ ॥
[[०२.४९७]]
अक्।०२.०८.०२३च्द् समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात् ॥ २३ ॥
मूलम् - ०२.०८.०२४
अक्।०२.०८.०२४अब् अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् ।
लिङ्ग-सूरी - AK.02.08.023-24
समाविति—विस्रम्भणं विस्रम्भः । ‘स्रम्भु विश्वासेऽ । विश्वसित्यनेनेति विश्वासः । ‘श्वस प्राणनेऽ । विश्वासनामनी ॥ भ्रेषते धर्माच्चलतीति भ्रेषः । ‘भ्रेषृ चलनेऽ । यथोचितधर्मभ्रंशनाम ॥ न भ्रेषोऽभ्रेषः । नियतमीयते न्यायः । ‘इण् गतौऽ । यथोचितसङ्कल्पनं कल्पः । ‘कृपू सामर्थ्ये ।ऽ दिश्यमानस्योचितस्यरूपं देशरूपम् । सम्मतमञ्जसा सत्यमत्रेति समञ्जसम् । यथोचितधर्मादभ्रंशस्य नामानि ॥ २३ ॥
मल्लि-नाथः - AK.02.08.023-24
समौ विस्रम्भविश्वासौ । प्रत्ययनामनी । ‘नम्मिकेऽ । भ्रेषो भ्रंशो यथोचितात् । यथोचितभ्रंशो भ्रेषः स्यात् । अभ्रेषन्याय—समञ्जसम् । न्यायनामानि ॥ २३ ॥
[[०२.४९८]]
अक्।०२.०८.०२४च्द् युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥
मूलम् - ०२.०८.०२५
अक्।०२.०८.०२५अब् न्याय्यं च त्रिषु षट् सम्प्रधारणा तु समर्थनम् ।
लिङ्ग-सूरी - AK.02.08.024-25
युक्तमिति—अभ्रेषेण युज्यत इति युक्तम् । ‘युजिर् योगेऽ । उपायजम् औपयिकम् । उपाय एव औपयिकं वा । लब्धुमर्हं लभ्यम् । न्यायं भजते भजमानम् । ‘भज सेवायाम्ऽ । अभिनीयते स्म अभिनीतम् । वतिरत्र पादपूरणार्थः । न्यायादनपेतं न्याय्यम् । अभ्रष्टस्य नामानि ॥ त्रिषु षट् । पूर्वोक्ताः युक्तादिन्याय्यान्ताः शब्दाः त्रिषु लिङ्गेषु वर्तन्ते ॥ सम्प्रधार्यते इदमेव श्रेय इति निश्चीयतेऽनयेति सम्प्रधारणा । इदमेव श्रय इति समर्थनानाम ॥ २४ ॥
मल्लि-नाथः - AK.02.08.024-25
युक्तमौपयिकं—न्याय्यं च त्रिषु षट् । न्यायादनपेतार्थनामानि । अर्शआदिभ्योऽजन्तश्चेत् समञ्जसशब्दोऽपि न्यायवचनः । ‘समञ्जसं समाख्यातं विश्वस्तोचितयोरपिऽ इति विजयकोशः ॥ सम्प्रधारणा तु समर्थनम् । समर्थननाम ॥ २४ ॥
[[०२.४९८]]
अक्।०२.०८.०२५च्द् अववादस्तु निर्देशो निदेशः शासनं च सः ॥ २५ ॥
मूलम् - ०२.०८.०२६
अक्।०२.०८.०२६अब् शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः ।
लिङ्ग-सूरी - AK.02.08.025-26
अववाद इति—अवनतान् भटादीन् प्रति वदनम् अववादः । ‘वद व्यक्तायां वाचिऽ । अपवाद इति वा पाठः । निःशेषेण कार्यस्य देशनं उपदेशनं निर्देशः । नियतं देशनं निदेशः । ‘दिश अतिसर्जनेऽ । शास्त्यनेनेति शासनम् । शिष्टिश्च । ‘शासु अनुशिष्टौऽ । आज्ञापनम् आज्ञा । ‘ज्ञा अवबोधनेऽ । आज्ञानामानि ॥ सन्तिष्ठतेऽनया संस्था । मर्येति सीमार्थेऽव्ययम् । तत्र दीयत इति मर्यादा । ‘दा दानेऽ । धार्यतेऽनया धारणा । तिष्ठन्त्यस्यामिति स्थितिः । मर्यादानामानि ॥ २५ ॥
मल्लि-नाथः - AK.02.08.025-26
अववादस्तु निर्देशो—आज्ञा च । आज्ञानामानि । संस्था तु मर्यादा—स्थितिः । मर्यादानामानि ॥ २५ ॥
[[०२.४९९]]
अक्।०२.०८.०२६च्द् आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने ॥ २६ ॥
मूलम् - ०२.०८.०२७
अक्।०२.०८.०२७अब् द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः ।
लिङ्ग-सूरी - AK.02.08.026-27
आग इति—आ अगति कुटिलं गच्छतीत्यागः । ‘अग कुटिलायां गतौऽ । सान्तनपुंसकलिङ्गम । अपराध्यतेऽनेनेति अपराधः । ‘राध संसिद्धौऽ । मन्यते कष्टमिति मन्तुः । ‘मन ज्ञानेऽ । अपराधनामानि ॥ उद्दीयते बध्यतेऽस्मिन्निति उद्दानम् । ‘दोऽवखण्डनेऽ । ‘देङ् रक्षणेऽ वा । बध्यतेऽस्मिन्निति बन्धनम् । ‘बन्ध बन्धनेऽ । बन्धननामनी ॥ द्वौ पादौ प्रमाणमस्य द्विपाद्यः । द्विगुणदण्डनाम ॥ भाग एव भागधेयः । कीर्यते विभज्य क्षिप्यते श्रेणिभिरिति करः । ‘कॄ विक्षेपेऽ । बलति राजादिरनेनेति बलिः । ‘बल प्राणनेऽ । राज्ञो देयस्य क्षेत्रादिफलभागस्य नामानि ॥ २६ ॥
मल्लि-नाथः - AK.02.08.026-27
आगोऽपराधो मन्तुश्च । अपराधनामानि । ‘शतमागांसि सोढाहेऽ इति माघप्रयोगात् (शिशु। २। १०८) आगः सान्तः । समे तूद्दानबन्धने । बन्धननामनी ॥ द्विपाद्यं द्विगुणो दण्डः । उचितदण्डाद् द्विगुणदण्डो द्विपाद्यं स्यात् । अनेन प्रकारेण त्रिगुणो दण्डस्त्रिपाद्यं, चतुर्गुणदण्डश्चतुष्पाद्यमित्यादि ॥ भागधेयः—बलिः । राजभागनामानि । ‘कारराजस्वषड्भागाःऽ । एतानि त्रीणि च ॥ २६ ॥
[[०२.५००]]
अक्।०२.०८.०२७च्द् घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् ॥ २७ ॥
मूलम् - ०२.०८.०२८
अक्।०२.०८.०२८अब् उपायनमुपग्राह्यमुपहारस्तथोपदा ।
लिङ्ग-सूरी - AK.02.08.027-28
घट्टेति—शलन्ति सुखेन गच्छन्त्यत्रेति शुल्कम् । ‘शल आशुगमनेऽ । शुल्क्यत इति वा । ‘शुल्क अतिसर्जनेऽ । अरण्यानीनदीतरणादौ देयद्रव्यनाम ॥ प्रकर्षेण भ्रियते प्राभृतम् । ‘भृञ् भरणेऽ । प्रदिश्यते समर्प्यते राज्ञे प्रदेशनम् । ‘दिश अतिसर्जनेऽ । राज्ञः समीपमयतेऽनेनेति उपायनम् । ‘अय गतौऽ । उपगृह्यते नृपादिना उपग्राह्यम् । उपह्रियते समीपमिति उपहारः । उपदीयते राज्ञे इत्युपदा । ‘डुदाञ् दानेऽ । एतानि नृपादीन् द्रष्टुकामेन दीयमानपुष्पस्तवकादिप्रियद्रव्यनामानि ॥ २७ ॥
मल्लि-नाथः - AK.02.08.027-28
घट्टादिदेयं शुल्कोऽस्त्री । घट्टादिदेश दीयमानं धनं शुल्कं स्यात् । ‘पथि देये शुल्कमस्त्री जामात्रा यच्च दीयतेऽ इति तालव्यादिषु वैजयन्ती (पृ। २३७, श्लो। ८९) ॥ प्राभृतं तु—उपहारस्तथोपदा । राजानुसरणार्थमानीतार्थनामानि । ‘कानिकेलुऽ । करदः । एतच्च ॥ २७ ॥
[[०२.५००]]
अक्।०२.०८.०२८च्द् यौतकादि तु यद्देयं सुदायो हरणं च तत् ॥ २८ ॥
मूलम् - ०२.०८.०२९
अक्।०२.०८.०२९अब् तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः ।
लिङ्ग-सूरी - AK.02.08.028-29
यौतकादीति—युतयोः सङ्गतयोः स्त्रीपुंसयोर्विवाहे दत्तं यौतकम् । सुष्ठु दीयत इति सुदायः । ‘डुदाञ् दानेऽ । स्त्रिया स्वातन्त्र्येण ह्रियत इति हरणम् । स्त्रीधननामानि ॥ तदा तस्मिन् काले भवतीति तदात्वम् । प्रकृतकालनाम ॥ एष्यतीति आयतिः । उत्तरकालनाम ॥ २८ ॥
मल्लि-नाथः - AK.02.08.028-29
यौतकादि—हरणं च तत् । ‘कन्यादाने तु यद्दत्तं यौतकं यौतुकं च तत्ऽ इति वैजयन्ती (पृ। ८७, श्लो। ५५) । यौतकादिदेयवस्तु सुदायो हरणं च स्यात् । अनुक्तम्—‘लञ्चा उत्कोच आमिषम्ऽ । लञ्चानामानि । ‘लञ्चमुऽ । तत्कालस्तु तदात्वं स्यात् । तत्कालनाम ॥ उत्तरः—आयतिः । उत्तरकाल आयतिः स्यात् ॥ २८ ॥
[[०२.५०१]]
अक्।०२.०८.०२९च्द् सान्दृष्टिकं फलं सद्य उदर्कः फलमुत्तरम् ॥ २९ ॥
मूलम् - ०२.०८.०३०
अक्।०२.०८.०३०अब् अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् ।
लिङ्ग-सूरी - AK.02.08.029-30
सान्दृष्टिकमिति—सन्दृष्टं नृपादिदर्शनं प्रयोजनमस्य सान्दृष्टिकम् । सद्यःफलनाम ॥ अभिलाषाधिक्यात् उदर्च्यते स्तूयत इति उदर्कः । ‘अर्च पूजायाम्ऽ । उत्तरफलनाम ॥ न दृष्टम् अदृष्टम् । महीभुजामग्नितोयादिजातभयनाम ॥सर्वैर्दृश्यत इति दृष्टम् । ‘दृशिर् प्रेक्षणेऽ । आत्मनः शत्रोश्च सैन्यजातभयनाम ॥ २९ ॥
मल्लि-नाथः - AK.02.08.029-30
सान्दृष्टिकं—सद्यः । सद्यःफलं सान्दृष्टिकं स्यात् । उदर्कः—उत्तरम् । उत्तरकालफलमुदर्कः स्यात् । उत्तरकालोऽप्युदर्कः स्यात् । ‘उदर्क उत्तरे काले यच्च स्यात् फलमुत्तरम्ऽ इति वैजयन्ती (पृ। २४०, श्लो। १२) अदृष्टं वह्नितोयादि । अनलजलादि दैवकृतमदृष्टं स्यात् ॥ दृष्टं स्वपरचक्रजम् । स्वचक्रपरचक्रभूतमनुष्यकृतं दृष्टं स्यात् ॥ २९ ॥
[[०२.५०१ ]]
अक्।०२.०८.०३०च्द् महीभुजामहिभयं स्वपक्षप्रभवं भयम् ॥ ३० ॥
मूलम् - ०२.०८.०३१
अक्।०२.०८.०३१अब् प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् ।
लिङ्ग-सूरी - AK.02.08.030-31
महीभुजामिति—अहेरिव भयम् अहिभयम् । राज्ञां स्वपक्षप्रभवभयनाम । प्रकर्षेण क्रियत इति प्रक्रिया । कर्मविशेषमधिकृत्य कर्तृभिः क्रियत इत्यधिकारः । अधिकारनामनी ॥ चमरमृगसम्बन्धि चामरम् । प्रकीर्यते राजसमीपे इतस्ततो विक्षिप्यते प्रकीर्णकम् । ‘कॄ विक्षेपेऽ । चामरनामनी ॥ ३० ॥
मल्लि-नाथः - AK.02.08.030-31
महीभुजामहिभयं—भयम् । पुत्रदायादप्रभृतिस्वपक्षैः कृतं भयम् अहिभयं स्यात् ॥ प्रक्रिया—अधिकारः स्यात् । अधिकारनाम । ‘पणिहमुऽ ॥ चामरं—प्रकीर्णकम् । चामरनामनी । ‘चमरं चामरे प्राहुःऽ इति विश्वप्रकाशिका (पृ। १३५, श्लो। १२०) । ‘चामरा चामरं रोमगुच्छकं चावचूलकम्ऽ इति त्रिकाण्डशेषः (पृ। १७, श्लो। ४०६) ॥ ३० ॥
[[०२.५०२]]
अक्।०२.०८.०३१च्द् नृपासनं तु यद्भद्रासनं सिंहासनं तु तत् ॥ ३१ ॥
मूलम् - ०२.०८.०३२
अक्।०२.०८.०३२अब् हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् ।
लिङ्ग-सूरी - AK.02.08.031-32
नृपासनमिति—भद्रं च तदासनं च भद्रासनम् । नृपासननाम ॥ सिंहप्रतिकृतियुक्तमासनं सिंहासनम् । राज्ञः सुवर्णमयभद्रासननाम ॥ छाद्यते पुरुषोऽनेनेति छत्रम् । ‘छद अपवारणेऽ । आतपात् त्रायते पुरुषमिति आतपत्रम् । ‘त्रैङ् पालनेऽ । छत्रमात्रनामनी ॥ नृपाणां लक्ष्म नृपलक्ष्म । राजयोग्यच्छत्रनाम ॥ ३१ ॥
मल्लि-नाथः - AK.02.08.031-32
नृपासनं यत्तद् भद्रासनम् । नृपस्यासनं भद्रासनं स्यात् । सिंहासनं—हैमम् । तदेव हेममयं चेत् सिंहासनं स्यात् । छत्रं त्वातपत्रम् । छत्रनामनी । आतपवारणोष्णवारणादयः शब्दा अपि स्युः ।
‘कमलातपवारणं तथा शशिशुभ्रं बिभराम्बभूव तत् ।ऽ
इति राघवपाण्डवीयम् (द्विसं। ४। २८) । ‘हंसमण्डलद्युन्तिजिष्णु जिष्णुरभृतोष्णवारणम्ऽ इति माघः(शिशु। १३। २१) ॥ राज्ञस्तु नृपलक्ष्म तत् । राज्ञस्तु तच्छत्रं नृपलक्षणं स्यात् ॥ ३१ ॥
[[०२.५०३]]
अक्।०२.०८.०३२च्द् भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ॥ ३२ ॥
मूलम् - ०२.०८.०३३
अक्।०२.०८.०३३अब् निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम् ।
लिङ्ग-सूरी - AK.02.08.032-33
भद्रकुम्भ इति—भद्रश्चासौ कुम्भश्च भद्रकुम्भः । पूर्णश्चासौ कुम्भश्च पूर्णकुम्भः । राजद्वारनिक्षिप्तपूर्णकलशनामनी ॥ भ्रियते पूर्यते जलमत्रेति भृङ्गारः । कनकमयी चासौ आलुश्च कनकालुका । हेमगलन्तिकानामनी ॥ निविशते सन्निवेशाविशेषेण स्थाप्यत इति निवेशः । ‘विश प्रवेशनेऽ । शेरतेऽत्र शिबिरम् । ‘शीङ् स्वप्नेऽ । स्कन्धावारनामनी ॥ सत् स्वास्थ्यं जन्यतेऽनेनेति सज्जनम् । ‘जनी प्रादुर्भावेऽ । अनेन किञ्चिद्रक्षणं भवतीति उपरक्षणम् । शिबिररक्षणार्थं परितः कृतस्य वृतिप्रभृतिकस्य नामनी ॥ ३२ ॥
मल्लि-नाथः - AK.02.08.032-33
भद्रकुम्भः पूर्णकुम्भः । पूर्णकुम्भनामनी ॥ भृङ्गारः कनकालुका । कनककरीरनामनी । ‘पशिण्डिगरिगेऽ ॥ निवेशः शिबिरं षण्डे । सेनानिवेशनामनी । ‘पाशेमुऽ ॥ सज्जनं तूपरक्षणम् । वेत्रधरैः कृतजनसम्बाधराहित्यनामनी । ‘भराभरिऽ ॥ ३२ ॥
[[०२.५०३]]
अक्।०२.०८.०३३च्द् हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३३ ॥
अक्।०२.०८.०३४अब् दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ।
अक्।०२.०८.०३४च्द् मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥
अक्।०२.०८.०३५अब् इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः ।
hastīti—senāyā aṅgaṃ senāṅgam . hastyaśvarathapadāticatuṣṭayasya nāma .. sthūlau dantau staḥ asyeti dantī . dantāvalaśca . hastaḥ śuṇḍāsyāstīti hastī . dvau radāvasya sta iti dviradaḥ . anekena tuṇḍena vaktreṇa ca pibatīti anekapaḥ . dvābhyāṃ pibatīti dvipaḥ . mataṅgākhyarājarṣerjāto madaṅgajaḥ . ‘janī prādurbhāve’ . gajati mādyatīti gajaḥ . ‘gaja śabde made ca’ . nage girau bhavaḥ nāgaḥ . kuñjau kumbhādhogartāvasyāstīti kuñjaraḥ . kuñje ramata iti vā . arīn vārayatīti vāraṇaḥ . ‘vṛñ varaṇe’ . karo’syāstīti karī . eti madamiti ibhaḥ . ‘aṇ gatau’ . stambe nadīkuñje ramata iti stamberamaḥ . ‘ramu krīḍāyām’ . padmaṃ bindujālaṃ, tadasyāstīti padmī . gajanāmāni .. yūthaṃ gajasamūhaṃ pātīti yūthapaḥ . gajayūthamukhyanāma .. 33-34 ..
मल्लि-नाथः - AK.02.08.033-35
हस्त्यश्वरथपादातं—चतुष्टयम् । हस्त्यश्वरथपदातिचतुष्टयं सेनाङ्गं स्यात् । ‘तुरङ्गरथपत्तीभं सेनाङ्गमभिधीयतेऽ इति ध्वनिमञ्जरी ॥ दन्ती दन्तावलो हस्ती—स्तम्बेरमः पद्मी । गजनामानि ॥
‘वेतण्डो मदवृन्दः स्यात् कुक्षीवान् षष्टिहायनः ।
सिन्धुरः सामजः कुम्भी शुण्डालश्च मतङ्गजः ॥ऽ
एतानि च ॥ यूथनाथस्तु यूथपः । नायकगजनामनी ॥ ३३-३४ ॥
[[०२.५०४]]
अक्।०२.०८.०३५च्द् मदोत्कटो मदकलः कलभः करिशाबकः ॥ ३५ ॥
मूलम् - ०२.०८.०३६
अक्।०२.०८.०३६अब् प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ ।
लिङ्ग-सूरी - AK.02.08.035-36
मदोत्कट इति—मदेन उत्कटस्तीव्रो मदोत्कटः । मदेन कलो मनोज्ञो मदकलः । अतिमदगजनामनी ॥ कलो भाति, कमुदकमन्यतो लभते वा कलभः । ‘डुलभष् प्राप्तौऽ । करिशिशुनाम ॥ प्रकर्षेण भिन्न इव प्रभिन्नः । गर्जो गर्जनमस्य सञ्जात इति गर्जितः । ‘गर्ज शब्देऽ । माद्यतीति मत्तः । ‘मदि हर्षग्लेपनयोःऽ । मत्तगजनामानि ॥ मदमुद्वमतीति उद्वान्तः । ‘टुवमु उद्गिरणेऽ । निर्गतो मदोऽस्मादिति निर्मदः । गतमदगजनामनी ॥ ३५ ॥
मल्लि-नाथः - AK.02.08.035-36
मदोत्कटो मदकलः । यस्मिन् वयस्युद्भिन्नकटस्तस्मिन् वयसि वर्तमानो गजो मदकलः स्यात् । ‘लग्नो मदकलो मत्तः प्रभिन्नोऽपिऽ इति वैजयन्त्यां (पृ। १०९, श्लो। ६८) मत्तपर्यायेषु पठितः ॥ कलभः करिशाबकः । करिशिशुः कलभः स्यात् । ‘पिल्लयेनुगुऽ । वयोलक्षणङीपि प्राप्ते शाबोऽपि कलभी ॥ प्रभिन्नो—मत्तः । मत्तगजनामानि ॥ समावुद्वान्तनिर्मदौ । निर्गतमदस्य गजस्य नामनी । ‘मदमुलिडिचिन येनगुऽ ॥ अनुक्तम्—‘राजवाह्यस्त्वौपवाह्यःऽ । राजवाहनगज औपवाह्यः स्यात् । ‘सन्नाह्यः समरोचितःऽ । युद्धोचितगजः सन्नाह्यः स्यात् ॥ ३५ ॥
[[०२.५०५]]
अक्।०२.०८.०३६च्द् हास्तिकं गजता वृन्दे करिणी धेनुका वशा ॥ ३६ ॥
मूलम् - ०२.०८.०३७
अक्।०२.०८.०३७अब् गण्डः कटो मदो दानं वमथुः करशीकरः ।
लिङ्ग-सूरी - AK.02.08.036-37
हास्तिकमिति—हस्तिनां समूहो हास्तिकम् । गजानां समूहो गजता । गजवृन्दनामनी ॥ धयत्येनां करिपोतक इति धेनुका । ‘धेट् पानेऽ । वष्टि कामयते गजमिति वशा । ‘वश कान्तौऽ । करिणीनामानि ॥ गण्ड्यते हन्यत इति गण्डः । ‘गडि वदनैकदेशेऽ । कटति मदं वर्षतीति कटः । ‘कटे वर्षावरणयोःऽ । गजगण्डस्थलनामनी ॥ माद्यतेऽनेनेति मदः । ‘मदि हर्षग्लपनयोःऽ । द्यति हस्तिनमस्योद्गमेन पीडयतीति दानम् । ‘दोऽवखण्डनेऽ । वम्यत उद्गीर्यत इति वमथुः । ‘टुवमु उद्गिरणेऽ । करिकरशीकरनाम ॥ ३६ ॥
मल्लि-नाथः - AK.02.08.036-37
हास्तिकं गजता वृन्दे । गजसमूहनामनी । करिणी धेनुका वशा । स्त्रीगजनामानि ॥ गण्डः कटः । गजगल्लनामनी ॥ मदो दानम् । मदजलनाम ॥ वमथुः करशीकरः । करिहस्ताग्रबिन्दुर्वमथुः स्यात् । अनुक्तम्—‘शुण्डा स्त्रियां करो हस्तःऽ । करिकरनामनी ॥ ३६ ॥
[[०२.५०६]]
अक्।०२.०८.०३७च्द् कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान् ॥ ३७ ॥
मूलम् - ०२.०८.०३८
अक्।०२.०८.०३८अब् अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् ।
लिङ्ग-सूरी - AK.02.08.037-38
कुम्भाविति—कुम्भाकृतियोगात् कुम्भौ । गजशिरोऽवयवभूतमांसपिण्डनाम ॥ वेत्त्यस्मादङ्कुशमिति विदुः । ‘विज ज्ञानेऽ । कुम्भमध्यनाम । अङ्कुशेनावगृह्यत इति अवग्रहः । गजललाटदेशनाम ॥ ईषावल्लाङ्गलदण्डवद् दैर्घ्यात् ईषिका । गजाक्ष्णोरुपरिकूपरूपनतस्थाननाम ॥ ३७ ॥
मल्लि-नाथः - AK.02.08.037-38
कुम्भौ तु—शिरसः । शिरसः पिण्डौ कुम्भौ स्याताम् । तयोर्मध्ये विदुः पुमान् । कुम्भमध्यभागो विदुः स्यात् । तवर्गतृतीयान्तः । टवर्गतृतीयान्तोऽपि स्यात् । ‘तयोर्मध्यं विदुर्विडुःऽ इति वर्णनिर्देशना । अनुक्तम्—‘आरक्षः कुम्भयोरधःऽ । कुम्भयोरधोभाग आरक्षः स्यात् । अवग्रहो ललाटं स्यात् । करटिनिटिलमवग्रहः स्यात् ॥ इषीका त्वक्षिकूटकम् । गजभ्रूभङ्ग इषीका स्यात् । ह्रस्वप्रथमो दीर्घद्वितीयश्च ॥ ३७ ॥
[[०२.५०६]]
अक्।०२.०८.०३८च्द् अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ ३८ ॥
मूलम् - ०२.०८.०३९
अक्।०२.०८.०३९अब् अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् ।
लिङ्ग-सूरी - AK.02.08.038-39
अपाङ्गेति—निर्याति नेत्रजलमस्मादिति निर्याणम् । ‘या प्रापणेऽ । गजस्य अपाङ्गदेशनाम ॥ चुल्यतेऽङ्कुशेन प्रेर्यते चूलिका । ‘चुल प्रेरणेऽ । मदवाहिनि स्थाने तिष्ठतीति वाहित्थम् । कुम्भस्याधोभागनाम ॥ प्रतिमीयतेऽनेन प्रतिमानम् । ‘डुमिञ् प्रक्षेपणेऽ । दन्तकुम्भमध्यनाम ॥ ३८ ॥
मल्लि-नाथः - AK.02.08.038-39
अपाङ्गदेशो निर्याणम् । गजापाङ्गप्रदेशो निर्याणं स्यात् । कर्णमूलं तु चूलिका । गजश्रुतिमूलं चूलिका स्यात् । चूलिकास्थाने पिप्पलीशब्दं केचित् पठन्ति ॥ अधः कुम्भस्य वाहित्थम् । कुम्भशब्देनात्र वातकुम्भाभिधानरूढस्वल्पललाटकुटिर्विवक्षिता । ‘पिन्ननुदिटिबुडुनुऽ । तस्याधोभागो वाहित्थं स्यात् । ‘वाहित्थं वातकुम्भाधःऽ इति भागुरिः ॥ प्रतिमानमधोऽस्य च । तस्याप्यधोभूतं दन्तान्तरालं प्रतिमानं स्यात् । ‘प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोःऽ इति रुद्रः ॥ ३८ ॥
[[०२.५०७]]
अक्।०२.०८.०३९च्द् आसनं स्कन्धदेशः स्यात् पद्मकं बिन्दुजालकम् ॥ ३९ ॥
मूलम् - ०२.०८.०४०
अक्।०२.०८.०४०अब् पक्षभागः पार्श्वभागो दन्तभागस्तु योऽग्रतः ।
लिङ्ग-सूरी - AK.02.08.039-40
आसनमिति—आस्यते हस्तिपकादिनात्रेत्यासनम् । ‘आस उपवेशनेऽ । हस्तिनः स्कन्धदेशनाम ॥ पद्मवर्णसाम्यात् पद्मकम् । गजसिध्मनाम ॥ पक्षयोर्भागः पक्षभागः । पक्षश्चासौ भागश्चेति वा । गजपार्श्वभागनाम ॥ दन्तवान् भागो दन्तभागः । गजपुरोभागनाम ॥ ३९ ॥
मल्लि-नाथः - AK.02.08.039-40
आसनं स्कन्धदेशः स्यात् । गजस्कन्धप्रदेश आसनं स्यात् ॥ पद्मकं बिन्दुजालकम् । गजमुखबिन्दुजालकं पद्मकं स्यात् ॥ पक्षभागः पार्श्वभागः । गजानां पार्श्वभागः पक्षभागः स्यात् ॥ दन्तभागस्तु योऽग्रतः । गजानामग्रभागो दन्तभागः स्यात् ॥ ३९ ॥
[[०२.५०७]]
अक्।०२.०८.०४०च्द् द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् ॥ ४० ॥
मूलम् - ०२.०८.०४१
अक्।०२.०८.०४१अब् तोत्रं वैणुकमालानं बन्धस्तम्भेऽथ शृङ्खला ।
अक्।०२.०८.०४१च्द् अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥
लिङ्ग-सूरी - AK.02.08.040-41
द्वाविति—गात्रस्य प्रधानाङ्गत्वाद् गात्रम् । गात्रस्याप्रधानाङ्गत्वाद् अवरम् । एतौ क्रमात् पूर्वपश्चाज्जङ्घादिदेशयोर्नामनी ॥ तुद्यते गजोऽनेनेति तोत्रम् । ‘तुद व्यथनेऽ । वेणुना निर्वृत्तं वैणुकम् । गजप्रतोदनामनी ॥ आलायते बध्यते गजोऽस्मिन्निति आलानम् । ‘ला आदानेऽ । गजबन्धनस्तम्भनाम ॥ शृणाति बन्धनेन पीडयति गजमिति शृङ्खला । ‘शॄ हिंसायाम्ऽ । अन्दति बध्नातीति अन्दुकः । ‘अदि बन्धनेऽ । निगलति पीडयतीति निगडः । डलयोरभेदात् । ‘गल आदानेऽ । शृङ्खलनामानि ॥ अङ्क्यते गम्यतेऽनेन अङ्कुशः । ‘अकि लक्षणेऽ । सरत्यनयेति सृणिः । ‘सृ गतौऽ । अङ्कुशनामनी ॥ ४०-४१ ॥
मल्लि-नाथः - AK.02.08.040-41
द्वौ पूर्वपश्चात्—क्रमात् । गजानां पूर्वजङ्घादिप्रदेशो गात्रं स्यात् । तेषां पश्चाज्जङ्घादिप्रदेशोऽवरा स्यात् । गात्रावरे इति रूपसामान्येन स्त्रीनपुंसकलिङ्गे । ‘द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे न नाऽ इति रभसकोशः । तोत्रं वैणुकम् । गजभीषणार्थं कृतार्धचन्द्राकारायोमुखवेणुदण्डनामनी । ‘आरागोलाऽ । आलानं बन्धस्तम्भे । गजबन्धनार्थं स्तम्भ आलानं स्यात् ॥ अथ शृङ्खले—निगलोऽस्त्री स्यात् । शृङ्खलानामानि । ‘सङ्कलऽ । ‘निगडः पादबन्धश्च हिञ्जीरः शृङ्खलोऽन्दुकःऽ इति हलायुधपाठात् (अ। मा। २। ६८) शृङ्खलः पुंलिङ्गः । ‘अन्दुको निगलो न स्त्री भिदुरं शृङ्खला त्रयीऽ इति वैजयन्त्यां (पृ। ११०, श्लो। ८३) त्रिलिङ्गतोक्ता ॥ अनुक्तम्—‘कलापकः कण्ठबन्धःऽ । ग्रीवानिगलः कलापकः स्यात् । ‘त्रिपदी पादबन्धनम्ऽ । पादशृङ्खला त्रिपदी स्यात् ॥ अङ्कुशो—सृणिर्द्वयोः । अङ्कुशनामनी । सृणिर्दन्त्यादिः ॥ ४०-४१ ॥
[[०२.५०८]]
मूलम् - ०२.०८.०४२
अक्।०२.०८.०४२अब् दूष्या कक्ष्या वरत्रा च कल्पना सज्जना समे ।
अक्।०२.०८.०४२च्द् प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ॥ ४२ ॥
अक्।०२.०८.०४३अब् वीतं त्वसारं हस्त्यश्वं वारी लतु गजबन्धनी ।
लिङ्ग-सूरी - AK.02.08.042-43
दूष्येति—दूष्यते गजस्यौद्धत्यभङ्गः क्रियतेऽनयेति दूष्या । ‘दुष वैकृत्येऽ । कक्षायां गजपार्श्वभागे वर्तमाना कक्ष्या । व्रियते गजमध्यमनयेति वरत्रा । ‘वृञ् वरणेऽ । गजमध्यबन्धनाय निर्मितचर्मरज्जुनामानि ॥ कल्प्यते कल्पना । ‘कृपू सामर्थ्येऽ । सज्यते विरच्यते सज्जना । गजशृङ्गारनामनी । [ शृङ्गार अलङ्करणम् ] । सज्जीकरणस्येति केचित् ॥ प्रकर्षेण चित्रवर्णत्वेन वयन्त्येनामिति प्रवेणी । ‘वेञ् तन्तुसन्तानेऽ । आस्तीर्यते गजपृष्ठमनेन आस्तरणम् । ‘स्तॄञ् आच्छादनेऽ । वर्ण्यते चित्रवर्णत्वेन वर्णः । ‘वर्ण स्तुतौऽ । परिस्तोम्यते गजपृष्ठे परिकीर्यते परिस्तोमः । ‘स्तोम श्लाघायाम्ऽ । कुथ्यते गजोपरि संश्लिष्यते कुथः । ‘कुथ संश्लेषणेऽ । गजोपरिस्थचित्रकम्बलनामानि ॥ वेति स्म विगतं बलमस्येति वीतम् । निःसत्त्वहस्त्यश्वनाम ॥ गजपलायनं वार्यतेऽनयेति वारी । ‘वृञ् वरणेऽ । गजग्रहणाय कृतस्य गर्तादेर्नाम ॥ ४२ ॥
मल्लि-नाथः - AK.02.08.042-43
चूषा कक्ष्या वरत्रा स्यात् । गजमध्यबद्धस्थूलचर्मरज्जुनामानि । ‘येनुगनडिमिदोड्ढम्रोकुऽ ॥ कल्पना सज्जना समे । गजसज्जीकरणाय बद्धदीर्घचर्मरज्जुनामनी । ‘प्रनम्रेकुऽ । क्रियाशब्दत्वात् कल्पितः सज्जितो गजः ॥ अनुक्तम्—‘तिर्यग्दन्तप्रहारो यः परिणामः स दन्तिनाम्ऽ । गजानां तिर्यक्प्रसारितदन्तप्रहारः परिणामः स्यात् । क्रियाशब्दत्वात् परिणतो गजः ॥ प्रवेण्यास्तरणं—कुथो द्वयोः । रत्नकम्बलनामानि ॥ अनुक्तम्—‘पिधानं हस्तिकम्बलःऽ । गजकम्बलः पिधानं स्यात् ॥ ‘निर्वाणं हस्तिमज्जनम्ऽ । गजमज्जनं निर्वाणं स्यात् ॥ ‘शारिर्ना हस्तिपर्याणम्ऽ । गजपल्याणं शारिः स्यात् ॥ ‘शृङ्गारो हस्तिमण्डनम्ऽ । गजालङ्कारः शृङ्गारः स्यात् ॥ वीतं त्वसारहस्त्यश्वम् । असारं करितुरगं वीतं स्यात् । दकर्माङ्कुशवारणे मिलित्वा वीतं स्यात् ।
‘पादकर्म यतं तेषां यातमङ्कुशवारणम् ।
वीतं तदुभयं यच्च निःसारं हयकुञ्जरम् ॥ऽ
इति वैजयन्ती (पृ। १११, श्लो। ८९) ॥ वारी तु गजबन्धनी । करिग्रहणभूमिनाम ॥ ‘गजग्रहणभूमौ स्त्री वारिः स्यात् सलिले नपुम्ऽ इति वैजयन्ती (पृ। २३६, श्लो। ८२) ॥ अनुक्तम्—‘अवपातस्तु पाताय गर्तश्छन्नतृणादिनाऽ । गजानां ग्रहणाय कृतो गर्तोऽवपातः स्यात् । ‘ओन्दामुऽ ॥ ४२ ॥
[[०२.५१०]]
अक्।०२.०८.०४३च्द् घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः ॥ ४३ ॥
मूलम् - ०२.०८.०४४
अक्।०२.०८.०४४अब् वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः ।
लिङ्ग-सूरी - AK.02.08.043-44
घोटक इति—भूमौ घोटते परिवर्तते घोटकः । ‘घुट परिवर्तनेऽ । वेति शीघ्रं गच्छतीति वीतिः । ‘वी गत्यादौऽ । पीतिरिति वा पाठः । तुरं त्वरितं गच्छतीति तुरगः । तुरङ्गः । तुरङ्गमश्च ॥ अश्नुते गमनेनेत्यश्वः । ‘अशू व्याप्तौऽ । वजतीति वाजी । ‘वज गतौऽ । वहति नरमिति वाहः । ‘वह प्रापणेऽ । अर्वति क्षिप्रं गच्छतीत्यर्वा । ‘अर्व गतौऽ । नकारान्तोऽयम् । गन्ध्यते कशादिना ताड्यते गन्धर्वः । ‘गन्ध अर्दनेऽ । हयतीति हयः । ‘हय गतिकान्त्योःऽ । सिन्धुदेशे भवः सैन्धवः । सपति जवादिधर्मेण समवैतीति सप्तिः । ‘षप समवायेऽ । अश्वनामानि ॥ ४३ ॥
मल्लि-नाथः - AK.02.08.043-44
घोटके पीतितुरग—सैन्धवसप्तयः । पीतिशब्द इकारान्तः । ‘पाने स्त्री पीतिरश्वे नाऽ इति रुद्रः । अर्वेति शब्दो नकारन्तः । ‘अर्वा च कुत्सिते वाहे वृषा कर्णमहेन्द्रयोःऽ इति विश्वप्रकाशिका (पृ। ९४, श्लो। ११७)॥ अश्वनामानि ॥
‘कुदरः स्वाम्युपकारकः स्थौरी पाकलो जुहूराणश्च ।
धाराटः खुड्गाहः प्रकीर्णकः शालिहोत्री च ॥ऽ
एतानि च ॥ ४३ ॥
[[०२.५१०]]
अक्।०२.०८.०४४च्द् आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥ ४४ ॥
मूलम् - ०२.०८.०४५
अक्।०२.०८.०४५अब् वनायुजाः पारसीकाः काम्बोजा बाह्लिका हयाः ।
लिङ्ग-सूरी - AK.02.08.044-45
आजानेया इति—अजेन गतिक्षेपेण आनेया आजानेयाः । कुलीनाश्वनाम ॥ विनीयन्त इति विनीताः । ‘णीञ् प्रापणेऽ । सुशीलाश्वनाम ॥ वनायुदेशे भवा वनायुजाः । पारसीकदेशे भवाः पारसीकाः । कम्बोजेषु भवाः काम्बोजाः । बह्लिकदेशे भवाः बाह्लिकाः । एतानि तत्तद्देशजाश्वनामानि ॥ ४४ ॥
मल्लि-नाथः - AK.02.08.044-45
आजानेयाः कुलीनाः स्युः । जात्याश्वाः कुलीनाः स्युः । विनीताः साधुवाहिनः । सम्यग्वाहनशीला विनीताः स्युः । तदन्ये शूलकाः स्युः । ‘शूलको दुर्विनीतोऽश्वःऽ इति हलायुधः (अ। मा। २। २८५) ॥ वानायुजाः पारशीकाः । भिन्नदेशत्वाद् भिन्नार्थकाः । वानायुजशब्दो ह्रस्वादिश्च स्यात् । ‘वानायुजः पारशीको वनायुजःऽ इति रत्नकोशः । काम्बोजा बाह्लिका हयाः । बाह्लिकशब्दो दीर्घमध्यश्च स्यात् । ‘बाह्लीकं बाह्लिकं धीरहिङ्गुनोर्नाश्वदेशयोःऽ इति त्रिकाण्डशेषः ॥ ४४ ॥
[[०२.५११]]
अक्।०२.०८.०४५च्द् ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः ॥ ४५ ॥
मूलम् - ०२.०८.०४६
अक्।०२.०८.०४६अब् पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः ।
लिङ्ग-सूरी - AK.02.08.045-46
ययुरिति—उत्सृष्टो दिशं यातीति ययुः । ‘या प्रापणेऽ । अश्वमेधाय हितोऽश्वमेधीयः । अश्वमेधीयाश्वनाम ॥ जवते शीघ्रं गच्छतीति जवनः । ‘जु गतौऽ । जवाधिकाश्वनाम ॥ पृष्ठेन वोढुं क्षमः पृष्ठ्यः । स्थूलस्य पृष्ठभागस्येदं स्थौरम् । रलयोरभेदः । स्थौरं बलमस्यास्तीति स्थौरी । अतिभरवहनसमर्थाश्वनामनी । सितस्य वर्णान्तरं क्रियत इति कर्कः । ‘डुकृञ् करणेऽ । सिताश्वनाम ॥ रथं वहतीति रथ्यः । रथवोढुरश्वस्य नाम ॥ ४५ ॥
मल्लि-नाथः - AK.02.08.045-46
ययुरश्वोऽश्वमेधीयः । अश्वमेधाश्वो ययुः स्यात् । अश्वमात्रेऽपि ययुः स्यात् । ‘ययुरश्वोऽश्वमेधाश्वेऽ इति वैजयन्ती (पृ। २१८, श्लो। ४८) ॥ जवनस्तु जवाधिकः । जवाधिकोऽश्वो जवनः स्यात् ॥ पृष्ठ्यः स्थौरी । पृष्ठवहनशीलाश्वनामनी । ‘स्थौरं पशूनां पृष्ठवाह्यां तद्योगादिनिःऽ इति सुभूतिटीकावचनात् स्थौरं पृष्ठवाह्यम् । ‘वन्नेमोपुऽ ॥ सितः कर्कः । श्वेतवर्णाश्वः कर्कः स्यात् । अनुक्तम्—‘कृष्णवर्णस्तु हेमः स्यात्ऽ । नीलवर्णाश्वो हेमः स्यात् । ‘शोणाङ्गः शोण एव हिऽ । शोणवर्णाश्वः शोणः स्यात् । ‘हरितः पीतवर्णाश्वःऽ । पीतवर्णस्तुरङ्गः हरितः स्यात् । ‘हलाहः चित्रवर्णकःऽ । चित्रवर्णाश्वो हलाहः स्यात् । ‘इन्द्रायुधस्तु नीलाक्षःऽ । नीलेक्षणोऽश्व इन्द्रायुधः स्यात् । ‘मल्लिकाक्षः सितेक्षणःऽ । शुभ्रनेत्रोऽश्वो मल्लिकाक्षः स्यात् । ‘श्रीवृक्षकी स तुरगः श्रीवृक्षो यस्य लाञ्छनम्ऽ । श्रीवृक्षलाञ्छनोऽश्वः श्रीवृक्षकी स्यात् । ‘श्रीवृक्षकी पुरुषकोन्नमिताग्रकायःऽ इति माघः (शिशु। ५। ५६) ॥ रथ्यो वोढा रथस्य यः । रथवहनशीलोऽश्वो रथ्यः स्यात् ॥ ४५ ॥
[[०२.५१२]]
अक्।०२.०८.०४६च्द् बालः किशोरो वाम्यश्वा बडवा बाडवं गणे ॥ ४६ ॥
मूलम् - ०२.०८.०४७
अक्।०२.०८.०४७अब् त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते ।
लिङ्ग-सूरी - AK.02.08.046-47
बाल इति—कश्यते कशया किशोरः । ‘कश गतिशासनयोः । बालाश्वनाम ॥ वमति गर्भमिति वामी । ‘टुवमु उद्गिरणेऽ । अश्वजातिस्त्री अश्वा । वलत इति बडवा । ‘वल संवरणे सञ्चरणे चऽ । अश्वस्त्रीनामानि ॥ बडवानां समूहो बाडवम् । अश्वासमूहनाम ॥ अश्वेनैकेन दिनेन गम्यत इति आश्वीनम् । यो मार्गोऽश्वेनैकदिनेनैव गम्यते तस्य नाम ॥ ४६ ॥
मल्लि-नाथः - AK.02.08.046-47
बालः किशोरः । बालोऽश्वः किशोरः स्यात् ॥ वाम्यश्वा बडवा । स्त्रीतुरगनामानि ॥ अश्वेत्यत्राजादित्वाद् ङीष् न भवति । अन्यत्र ङीष् । घोटी हयी तुरगी अर्वती । ‘अर्वणस्त्रसावनञःऽ (६। ४। १२७) इति तृ इत्यन्तादेशः ॥ बाडवं गणे । बडवानां समूहो बाडवं स्यात् ॥ त्रिष्वाश्वीनं—एकेन गम्यते । अश्वस्यैकदिनवर्त्म आश्वीनं स्यात् ॥ ४६ ॥
[[०२.५१३]]
अक्।०२.०८.०४७च्द् कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः ॥ ४७ ॥
मूलम् - ०२.०८.०४८
अक्।०२.०८.०४८अब् निगालस्तु गलोद्देशे वृन्दे त्वाश्वीयमाश्ववत् ।
लिङ्ग-सूरी - AK.02.08.047-48
कश्यमिति—कशामर्हतीति कश्यम् । अश्वमध्यनाम ॥ हेषणं हेषा ह्रेषा च । ‘हेषृ ह्रेषृ अव्यक्ते शब्देऽ । अश्वनिस्वननाम ॥ निगलत्यनेन कबलमिति निगालः । ‘गल अदनेऽ । अश्वगलदेशनाम ॥ अश्वानां वृन्दम् आश्वीयम् । आश्वं च । अश्वसमूहनामनी ॥ ४७ ॥
मल्लि-नाथः - AK.02.08.047-48
कश्यं तु मध्यमश्वानाम् । अश्वमध्यमं कश्यं स्यात् ॥ हेषा ह्रेषा च निस्वने । अश्वनिस्वननामनी ॥ निगालस्तु गलोद्देशे । अश्वगलप्रदेशो निगालः स्यात् ॥ वृन्दे त्वश्वीयमाश्ववत् । अश्वसमूहनामनी ॥४७ ॥
[[०२.५१३]]
अक्।०२.०८.०४८च्द् आस्कन्दितं धोरितकं रेचितं वल्गितं प्लुतम् ॥ ४८ ॥
मूलम् - ०२.०८.०४९
अक्।०२.०८.०४९अब् गतयोऽमूः पञ्च धारा घोणा प्रोथमस्त्रियाम् ।
लिङ्ग-सूरी - AK.02.08.048-49
आस्कन्दितमिति—आस्कन्दति चतुरं गच्छतीति आस्कन्दितम् । ‘स्कन्दिर् गतिशोषणयोःऽ । धोरणम् अतिवेगेन धावनं धोरितकम् । ‘धोरृगतिचातुर्येऽ । धुर्याणां वेगेन सह किञ्चिद्गर्वितसहितं गमनं रेचितमित्युच्यते । रेचनं रेचितम् । ‘रिचिर् विरेचनेऽ । वल्गतीति वल्गितम् । ‘वल्ग गतौऽ । वलितमिति पाठे वलते वलितम् । ‘वल संवरणे सञ्चलने चऽ । प्लवत इति प्लुतम् । ‘प्लुङ् गतौऽ । अश्वानाम अमूः पञ्च गतयो धारा भवन्ति । धार्यन्ते तुरगैरिति धाराः ॥ घोणते श्वासेन चलतीति घोणा । ‘घुण भ्रमणे ऽ । प्रोथतीति प्रोथः । ‘प्रोथृ पर्याप्तौऽ । अश्वनासा नामनी ॥ ४८ ॥
मल्लि-नाथः - AK.02.08.048
आस्कन्दितं धौरितकं—पञ्च धाराः । कोपात् सर्वपदैरुत्प्लुत्योत्प्लुत्य गमनमास्कन्दितम् । कङ्कशिखिक्रोडनकुल गतैः सदृशं धौरितकम् । पद्भिर्वल्गनं वल्गितम् । अवक्रद्रुता गतिस्तु रेचितम् । पक्षिमृगसाम्येन लङ्घनं प्लुतम् । स्कन्दितादीनि पञ्च धाराशब्दवाच्यानि ॥ घोणा तु—अस्त्रियाम् । अश्वानां नासिका प्रोथं स्यात् ॥ ४८ ॥
[[०२.५१४]]
अक्।०२.०८.०४९च्द् कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् ॥ ४९ ॥
मूलम् - ०२.०८.०५०
अक्।०२.०८.०५०अब् पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालाधिः ।
लिङ्ग-सूरी - AK.02.08.049-50
कविकेति—कवते भक्षणसमये शब्दायत इति कविका । ‘कुङ् शब्देऽ । खलति चलतीति खलीनः । ‘खल चलनेऽ । अश्वस्य मुखनियन्त्रिकानामनी ॥ शायते भुवा ताडनादिना शफम् । ‘शो तनूकरणेऽ । खुरति भुवमिति खुरः । ‘खुर विलेखनेऽ । पशुचरणाग्रनामनी ॥ पूयन्ते दंशादयोऽनेनेति पुच्छः । ‘पूयी विशरणेऽ । लूयन्ते रोमाण्यत्रेति लूम । नकारान्तः । ‘लूञ् छेदनेऽ । लङ्गति चलतीति लाङ्गूलम् । ‘लगि गतौऽ । वालसमूहयोगात् वालहस्तः । वाला धीयन्तेऽस्मिन्निति वालधिः । पशुपुच्छनामानि ॥ ४९ ॥
मल्लि-नाथः - AK.02.08.049-50
कविका—खलीनोऽस्त्री । अश्वमुखनिक्षिप्तायोयन्त्रनामनी ॥ अनुक्तम्—‘पल्याणं स्यात् पल्ययनम्ऽ । अश्वपल्याणनाम । ‘पल्लमुऽ । ‘वागा । वल्गावक्षेपणी कुशाऽ । वागानामानि । ‘वागेऽ ॥ ‘केशकारः केशरचकःऽ । अश्वक्षुरकनामनी ॥ ‘बोक्काणस्तु प्ररोहकःऽ । बोक्काणनामनी । ‘बोक्केनऽ ॥ शफं—पुमान् । केषाञ्चिन्मते शफशब्दोऽपि पुंलिङ्गः । ‘खुरः शफः शको विष्ठा यासस्तु यवसः शरिःऽ इति वैजयन्ती (पु। ७१, श्लो। ७४) । खुरनामानि ॥ पुच्छोऽस्त्री लूम । नान्तम् । लाङ्गूले—वालधिः । अश्वादिवालगुच्छनामानि ॥ अनुक्तम्—‘आवर्तो रोमजः पुंसिऽ । रोम्णामवस्थानविशेषनाम । ‘नुडिऽ ॥ ४९ ॥
[[०२.५१४]]
अक्।०२.०८.०५०च्द् त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥
मूलम् - ०२.०८.०५१
अक्।०२.०८.०५१अब् याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः ।
लिङ्ग-सूरी - AK.02.08.050-51
त्रिष्विति—उपावर्तते स्म भुवि जाड्यपरिहाराय उपावृत्तः । ‘वृतु वर्तनेऽ । लुठति भुवि परिवर्तते स्म लुठितः । ‘लुठ प्रतिघातेऽ । भुवि मुहुः परावृत्ताश्वनामानि ॥ अश्वप्रकरणं समाप्तम् ॥ शतम् अङ्गानि यस्य शताङ्गः । स्यन्दते यातीति स्यन्दनः । ‘स्यन्दू प्रस्रवणेऽ । रमन्तेऽत्र धन्विनः रथः । ‘रमु क्रीडायाम्ऽ । रथनामानि ॥ ५० ॥
मल्लि-नाथः - AK.02.08.050-51
त्रिषूपावृत्त—मुहुर्भुवि । मुहुर्भूतले परावृत्तेऽश्वे उपावृत्तलुठितशब्दौ स्याताम् । तौ च त्रिलिङ्गौ ॥ याने चक्रिणि—स्यन्दनो रथः । चक्रयानं रथः । युद्धार्थे तस्मिन् रथे शताङ्गस्यन्दनशब्दौ स्याताम् । ‘चङ्कुरो मूलविभुजःऽ । एते द्वे च ॥ ५० ॥
[[०२.५१५]]
अक्।०२.०८.०५१च्द् असौ पुष्यरथश्चक्रयानं न समराय यत् ॥ ५१ ॥
मूलम् - ०२.०८.०५२
अक्।०२.०८.०५२अब् कण्ठीरथः प्रवहणं डयनं च समं त्रयम् ।
लिङ्ग-सूरी - AK.02.08.051-52
असाविति—पुष्ये उत्सवादौ विहितशुभकाले उपयोगी रथः पुष्यरथः । यच्चक्रवद्यानं समराय न भवति यात्रादावेव तस्य रथस्य नाम ॥ कण्ठेषु मनुष्यस्कन्धेषु उह्यमानो रथः कण्ठीरथः । कर्णीरथ इति वा पाठः । प्रवहति नरश्रेष्ठमिति प्रवहणम् । ‘वह प्रापणेऽ । डयते विहायसि गच्छत्यत्रस्थ इति डयनम् । ‘डीङ् विहायसा गतौऽ । विमानाख्ययाननामानि ॥ ५१ ॥
मल्लि-नाथः - AK.02.08.051-52
असौ पुष्यरथः—समराय यत् । न समरायेति प्रतिषेधात् क्रीडार्थं चक्रयानं पुष्यरथः स्यात् ॥ कर्णीरथः प्रवहणं—समं त्रयम् । मनुष्यस्कन्धवाह्ययाननामानि ॥ ‘कर्णीरथस्थां रघुवीरपत्नीम्ऽ इति कालिदासः (रघु। १४। १३) ॥ ५१ ॥
[[०२.५१५]]
अक्।०२.०८.०५२च्द् क्लीबेऽनः शकटोऽस्त्री स्याद् गन्त्री कम्बलिवाह्यकम् ॥ ५२ ॥
मूलम् - ०२.०८.०५३
अक्।०२.०८.०५३अब् शिबिका याप्ययानं स्याद् डोला प्रेङ्खादिका स्त्रियाम् ।
लिङ्ग-सूरी - AK.02.08.052-53
क्लीब इति—अनिति अक्षेण चीत्करोतीति अनः । ‘अन प्राणनेऽ । सान्तोऽयं नपुंसकलिङ्गः । शक्नोति भारं वोढुं शकटः । ‘शक्लृ शक्तौऽ । शकटनामनी ॥ गच्छतीति गन्त्री । ‘गम्लृ सृप्लृ गतौऽ । कं सुखकरं बलं येषां ते कम्बलिनः बलीवर्दाः, तैर्वाह्यते कम्बलिवाह्यकम् । अल्पशकटनामनी ॥ शिवा मङ्गलदायिका । शिवैव शिबिका । याप्यो नेतव्यो राजादिः, तस्य यानं याप्ययानम् । आन्दोलिकानामनी ॥ डोल्यते इतस्तत उत्क्षिप्यते डोला । ‘डुल उत्क्षेपेऽ । दोलेति वा पाठः । प्रेङ्ख्यते इतस्ततः प्रेङ्खा । ‘इखि गतौऽ । डोलानामनी ॥ ५२ ॥
मल्लि-नाथः - AK.02.08.052-53
क्लीबेऽनः । सान्तोऽयम् । शकटोऽस्त्री स्यात् । शकटनामनी ॥ ‘लघ्वी वेसरयुक्तश्चऽ । एते द्वे च । ‘विलङ्घ्य लघ्वीं करभौ बभञ्जतुःऽ । (शिशु। १२। २४) । ‘प्रचोदितं वेसरयुक्तमध्वनिऽ । (शिशु। १२। १९) । इति प्रयोगात् सञ्ज्ञाशब्दत्वादलघुश्चेदपि लघ्वी, अवेसरयुक्तं चेदपि वेसरयुक्तम् ॥ गन्त्री कम्बलिवाह्यकम् । कम्बलिभिर्वृषैः । करीषशकटनामनी । गन्त्रीशब्दः स्त्रीलिङ्गः । ‘गन्त्री स्त्री कूबरं न स्त्री रथे कम्बलिवाह्यकेऽ इति वैजयन्ती (पृ। ११४, श्लो। १२७) । शिबिका याप्ययानं स्यात् । आन्दोलिकानामनी ॥ डोला प्रेङ्खादिका स्त्रियाम् । डोलानामनी । ‘डोला प्रेङ्खः पुमान् प्रेङ्खा निश्रेणिरधिरोहणीऽ इति रत्नकोशः ॥ ५२ ॥
[[०२.५१६]]
अक्।०२.०८.०५३च्द् उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ॥ ५३ ॥
मूलम् - ०२.०८.०५४
अक्।०२.०८.०५४अब् पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली ।
लिङ्ग-सूरी - AK.02.08.053-54
उभाविति—द्वीपिचर्मणा आवृतो रथः द्वैपः । व्याघ्रचर्मणा आवृतो वैयाघ्रः । शार्दूलचर्मावृतयाननामनी ॥ पाण्डुकम्बलसंवृतो रथः पाण्डुकम्बली । श्वेतकम्बलावृतरथनाम ॥ ५३ ॥
मल्लि-नाथः - AK.02.08.053-54
उभौ तु द्वैपवैयाघ्रौ—आवृते रथे । द्वैपवैयाघ्रशब्दौ द्वीपिचर्मार्थकौ । ‘द्वैपवैयाघ्रादञ्ऽ इति (४। २। १२) ताभ्यामावृते रथेऽपि द्वैपवैयाघ्रशब्दौ स्याताम् । पाण्डुकम्बल—पाण्डुकम्बली । श्वेतकम्बलेन संवीतो रथः पाण्डुकम्बली स्यात् ॥ ५३ ॥
[[०२.५१७]]
अक्।०२.०८.०५४च्द् रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते ॥ ५४ ॥
मूलम् - ०२.०८.०५५
अक्।०२.०८.०५५अब् त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे ।
लिङ्ग-सूरी - AK.02.08.054-55
रथ इति—कम्बलेनावृतः काम्बलः । वस्त्रेणावृतो वारत्रः । एवमादीनि कम्बलाद्यावृतरथनामानि ॥ पूर्वोक्ता द्वैपादयः पञ्च शब्दाः त्रिषु लिङ्गेषु वर्तन्ते ॥ रथानां समूहो रथ्या । रथकट्या च । रथव्रजनामनी ॥ ५४ ॥
अमरपदपरिजत>< AK.02.08.054-55>
रथे काम्बलवास्त्राद्याः—आवृते । कम्बलवस्त्रादिभिरावृते रथे काम्बलवास्त्राद्याः शब्दाः स्युः ॥ त्रिषु द्वैपादयः । द्वैपादयः । द्वैपादिशब्दास्त्रिलिङ्गाः द्वैपी रथ्या वैयाघ्री रथ्या । ‘परिवृतो रथःऽ (४। २। १०) इति नियमात् पेटीति न भवति ॥ रथ्या रथकट्या रथव्रजे । रथसमूहनामनी ॥ ५४ ॥
[[०२.५१७]]
अक्।०२.०८.०५५च्द् धूः स्त्री क्लीबे यानमुखं स्याद् रथाङ्गमपस्करः ॥ ५५ ॥
मूलम् - ०२.०८.०५६
अक्।०२.०८.०५६अब् चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात् प्रधिः पुमान् ।
लिङ्ग-सूरी - AK.02.08.055-56
धूरिति—धूर्वति हिनस्तीति धूः । ‘धुर्वी हिंसायाम्ऽ । यानमुखनाम ॥ अपकीर्यते तत्तदुचितस्थाने निक्षिप्यते अपस्करः । अवस्कर इति वा पाठः । रथावयवनाम ॥ करोति रथगमनमिति चक्रम् । ‘डुकृञ् करणेऽ । रथस्याङ्गं रथाङ्गम् । रथचक्रनाम ॥ गमनसमये नमतीति नेमिः । ‘णमु प्रह्वत्वे शब्दे चऽ । चक्रस्य प्रान्ते प्रधीयते क्षिप्यते प्रधिः । चक्रान्ते सर्वतोनिहितलोहवलयनामनी ॥ ५५ ॥
मल्लि-नाथः - AK.02.08.055-56
धूः स्त्री क्लीबे यानमुखम् । ‘धूः स्त्री धुर्वी यानमुखम्ऽ इति वैजयन्त्यनुसारिपाठः (पृ। ११४, श्लो। १३०) । रथनासिकानामानि ॥ स्याद्रथाङ्गमपस्करः । धूःप्रभृति रथावयवः सर्वोऽपि स्यात् ॥ चक्रं रथाङ्गम् । रथचरणनामनी । ‘बण्डिकल्लुऽ । अत्र रथाङ्गमिति सञ्ज्ञा । ‘अरि चक्रं रथपदं रथाङ्गं केशवायुधम् ऽ इति वैजयन्ती (पृ। ११५, श्लो। १३४) ॥ तस्यान्ते नेमिः—प्रधिः पुमान् । चक्रान्तनामनी । ‘बण्डिकम्मिऽ ॥ ५५ ॥
[[०२.५१८]]
अक्।०२.०८.०५६च्द् पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणि । ॥ ५६ ॥
मूलम् - ०२.०८.०५७
अक्।०२.०८.०५७अब् रथगुप्तिर्वरूथो ना कूबरस्तु युगन्धरः ।
लिङ्ग-सूरी - AK.02.08.056-57
पिण्डिकेति—पिण्ड्यन्ते नैरन्तर्येण निखन्यन्ते अरा अस्यामिति पिण्डिका । ‘पिडि सङ्घातेऽ । नभ्यते हिंस्यतेऽक्षेणेति नाभिः । ‘णभ हिंसायाम्ऽ । चक्रनाभिनाम ॥ अणति शब्दायत इत्यणिः । ‘अण शब्देऽ । अक्षस्य नाभिक्षेप्यस्य काष्ठस्यान्ते रन्ध्रक्षिप्तकीलकनाम ॥ रथोऽनेन गुप्यते रथगुप्तिः । ‘गुपू रक्षणेऽ । व्रियते रथोऽनेनेति वरूथः । ‘वृञ् वरणेऽ । रथस्य द्वीपिचर्मादिगुप्तेर्नामनी ॥ कुवते शब्दायते कूबरः । ‘कूङ् शब्देऽ । युगं धारयतीति युगन्धरः । युगमध्यप्रदेशधारकस्य रथावयवस्य नामनी ॥ ५६ ॥
मल्लि-नाथः - AK.02.08.056-57
पिण्डिका नाभिः । चक्रमध्यरन्ध्रनामनी ॥ अक्षाग्रकीलके—अणिः । अक्षो नाम कर्षचक्रं, तस्याग्रस्थः कीलोऽणिः स्यात् । आणिश्च स्यात् । ‘सीमाश्रयक्षाग्रकीलेषु स्यादाणिरणिवद् द्वयोःऽ इति रुद्रः ॥ रथगुप्तिर्वरूथो ना । चक्ररन्ध्रकीलितायःकुम्भनामनी । ‘नेम्मुलुऽ ॥ ‘रथो वरूथस्य हयस्य वाजी गजः करेणोः पथिकः पदातेःऽ इत्यत्र वरूथशब्दोऽर्शआद्यजन्तः (५। २। १२७) ॥ कूबरस्तु युगन्धरः । चक्ररन्ध्रप्रविष्टदीर्घदारुनामनी । ‘इरुनुऽ ॥ ५६ ॥
[[०२.५१८]]
अक्।०२.०८.०५७च्द् अनुकर्षो दार्वधःस्थं प्रासङ्गो ना युगान्तरम् ॥ ५७ ॥
मूलम् - ०२.०८.०५८
अक्।०२.०८.०५८अब् सर्वं स्याद् वाहनं यानं युग्यं पत्रं च धोरणम् ।
लिङ्ग-सूरी - AK.02.08.057-58
अनुकर्ष इति—अक्षम् अनुकृष्यत इति अनुकर्षः । ‘कृष विलेखनेऽ । अक्षाधःक्षिप्तदारुनाम ॥ प्रासज्यते बलीवर्दकण्ठेष्विति प्रासङ्गः । ‘षञ्ज सङ्गेऽ । द्वितीययुगनाम ॥ यान्त्यनेनेति यानम् । ‘या प्रापणेऽ । युगं वहतीति युग्यम् । पतन्त्यनेनेति पत्रम् । ‘पत्लृ गतौऽ । धोरति चातुर्येण गच्छत्यनेनेति धोरणम् । ‘धोरृ गतिचातुर्येऽ । सर्ववाहनमात्रनामानि ॥ [सर्वं हस्त्यश्वरथादि दोलान्तं वाहनमिति क्षीरस्वामी (पृ। १८७)] ॥ ५७ ॥
मल्लि-नाथः - AK.02.08.057-58
अनुकर्षो दार्वधःस्थम् । अधस्तनं धारणादारु अनुकर्षः स्यात् ॥ प्रासङ्गो ना युगाद्युगः । युगो नाम यानाद्यङ्गम् । युगात् परस्थितयुगः प्रासङ्गः स्यात् ॥ अनुक्तम्—‘शिबिका याप्ययानं स्यात्ऽ । याप्ययानं शिबिका स्यात् । ‘पल्लकीऽ । ‘दोलाप्यान्दोलिका स्त्रियाम्ऽ । डोला प्रेङ्खोलिका स्त्रियामिति पाठान्तरम् । आन्दोलनामनी । ‘अन्दलमुऽ । ‘आन्दोलनं स्यादान्दोलो दोला स्याद्दोलिकापि चऽ इति वैजयन्ती (पृ। ११५, श्लो। १३७) । दोलानामापि स्यात् । ‘दोला हेलार्थरूपणम्ऽ इति वैजयन्ती (पृ। ११५, श्लो। १३६) ॥ सर्वं स्यात्—धोरणम् । उक्ता एते हस्त्यादयः सर्वेऽपि वाहनादिशब्दवाच्याः स्युः ॥ ५७ ॥
[[०२.५१९]]
अक्।०२.०८.०५८च्द् परम्परावाहनं यत् तद् वैनीतकमस्त्रियाम् ॥ ५८ ॥
मूलम् - ०२.०८.०५९
अक्।०२.०८.०५९अब् आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।
लिङ्ग-सूरी - AK.02.08.058-59
परम्परेति—वोढृभिः परम्परया वाह्यत इति परम्परावाहनम् । विनीतानामश्वानामिदं वैनीतकम् । परम्परावाहननाम ॥ आधोर्यन्ते हस्तिनः एभिरिति आधोरणाः । ‘धोरृ गतिचातुर्येऽ । हस्तिनं पान्तीति हस्तिपकाः । ‘पा रक्षणेऽ । हस्तिन आरोहन्तीति हस्त्यारोहाः । हस्तिस्कन्धे निषीदन्तीति निषादिनः । ‘षद्लृ विशरणगत्यवसादनेषुऽ । गजशिक्षकनामानि ॥ ५८ ॥
मल्लि-नाथः - AK.02.08.058-59
परम्परावाहनं—वैनीतकमस्त्रियाम् । रथशिबिकादिपरम्परावाहनं वैनीतकं स्यात् । दीर्घद्वितीयः । आधोरणा—निषादिनः । गजसादिनामानि ॥ महामात्रास्तत्प्रधानाः स्युः । ‘तत्प्रधाना महामात्रा आरोहा गजजीवनाःऽ इति वैजयन्ती (पृ। १११, श्लो। ८८) ॥ ५८ ॥
[[०२.५२०]]
अक्।०२.०८.०५९च्द् नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः ॥ ५९ ॥
मूलम् - ०२.०८.०६०
अक्।०२.०८.०६०अब् सव्येष्ठदक्षिणस्थौ च सञ्ज्ञा रथकुटुम्बिनः ।
लिङ्ग-सूरी - AK.02.08.059-60
नियन्तेति—अश्वादीन् नियच्छतीति नियन्ता । यन्ता च । ‘यम उपरमेऽ । प्राजति प्रेरयत्यश्वानिति प्राजिता । ‘अज गतिक्षेपणयोःऽ । सुवत्यश्वानिति सूतः । ‘षू प्रेरणेऽ । क्षदति ताडयत्यश्वानिति क्षत्ता । ‘क्षद गतिहिंसनयोःऽ । सारयति प्रेरयति अश्वानिति सारथिः । ‘सृ गतौऽ । कदाचित् सव्यभागगतानश्वान् प्रेरयितुं सव्यभागे तिष्ठतीति सव्येष्ठः । दक्षिणभागगतानश्वान् प्रेरयितुं कदाचित् दक्षिणभागे तिष्ठतीति दक्षिणस्थः । ‘ष्ठा गतिनिवृत्तौऽ । रथकुटुम्बिनो नामानि ॥ ५९ ॥
मल्लि-नाथः - AK.02.08.059-60
नियन्ता प्राजिता यन्ता । एते ऋदन्ताः । सूतः क्षत्ता—रथकुटुम्बिनः । नियन्त्रादयोऽष्ट शब्दाः रथकुटुम्बिसञ्ज्ञाः स्युः । रथसारथिनामानि ॥ ५९ ॥
[[०२.५२०]]
अक्।०२.०८.०६०च्द् रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः ॥ ६० ॥
मूलम् - ०२.०८.०६१
अक्।०२.०८.०६१अब् भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः ।
लिङ्ग-सूरी - AK.02.08.060-61
रथिन इति—रथा एषां सन्तीति रथिनः । स्यन्दनमारोहन्तीति स्यन्दनारोहाः । ‘रुह बीजजन्मनि प्रादुर्भावे चऽ । ये रथमारुह्य युध्यन्ते तेषां नामनी । रथाधिष्ठितनामनी वा ॥ सीदन्त्यवश्यं परबलं नाशयन्तीति सादिनः । ‘षद्लृ विशरणादौऽ । अश्वारोहनाम ॥ भटन्ति परस्परं तिष्ठ तिष्ठेति भाषन्ते भटाः । ‘भट परिभाषणेऽ । युध्यन्त इति योधाः । योद्धारश्च । ‘युध सम्प्रहारेऽ । योद्धृपुरुषनामनी ॥ सेनां रक्षन्तीति सेनारक्षाः, सैनिकाश्च । सेनारक्षकनामनी ॥ ६० ॥
मल्लि-नाथः - AK.02.08.060-61
रथिनः स्यन्दनारोहाः । रथिकनामनी ॥ अश्वारोहास्तु सादिनः । अश्वारोहनामनी ॥ ‘तुरङ्गिणोऽश्ववाहाश्चऽ । एते द्वे च ॥ भटा योधाश्च योद्धारः । योधनामानि ॥ सेनारक्षास्तु सैनिकाः । सेनारक्षकनामनी ॥ ६० ॥
[[०२.५२१]]
अक्।०२.०८.०६१च्द् सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ॥ ६१ ॥
मूलम् - ०२.०८.०६२
अक्।०२.०८.०६२अब् बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः ।
लिङ्ग-सूरी - AK.02.08.061-62
सेनायामिति—सेनायां समवेता मिलिताः सैन्याः । सैनिकाश्च । सेनायां समूहत्वेन मिथो मिलितानां नामानि ॥ सहस्रेण सहस्रसङ्ख्यावच्छिन्नेन बलेन बलिनः साहस्राः । सहस्रिणश्च । ये सहस्रेण बलिनः तेषां नामनी ॥ ६१ ॥
मल्लि-नाथः - AK.02.08.061-62
सेनायां समवेता—सैनिकाश्च ते । कूटनायकनामनी ॥ बलिनो ये—सहस्रिणः । सहस्राश्वानामुपरिस्थितसहस्रसङ्ख्याकानां सादिनां नामनी ॥ ६१ ॥
[[०२.५२१]]
अक्।०२.०८.०६२च्द् परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः ॥ ६२ ॥
मूलम् - ०२.०८.०६३
अक्।०२.०८.०६३अब् कञ्चुको वारवाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः ।
अक्।०२.०८.०६३च्द् बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् ॥ ६३ ॥
अक्।०२.०८.०६४अब् शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् ।
अक्।०२.०८.०६४च्द् उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् ॥ ६४ ॥
लिङ्ग-सूरी - AK.02.08.062-64
परिधिस्थ इति—परिधौ सेनाप्रत्यन्ते तिष्ठतीति परिधिस्थः । ‘ष्ठा गतिनिवृत्तौऽ । परितश्चरतीति परिचरः । ‘चर गतिभक्षणयोःऽ । सेनाप्रत्यन्तरक्षिणो नामनी ॥ सेनां नयतीति सेनानीः । ‘णाञ् प्रापणेऽ । वाहिन्याः सेनायाः पतिः वाहिनीपतिः । सेनापतिनामनी ॥ कच्यते बध्यते कञ्चुकः । ‘कचि दीप्तिबन्धनयोःऽ । बाणान् वारयतीति वारवाणः । वबयोरैक्यात् । ‘वृञ् आवरणेऽ । देहरक्षणार्थं कृतस्य कूर्पासविशेषकस्य नामनी ॥ सारं स्थिरत्वं कञ्चुकस्य सनोति ददातीति सारसनम् । ‘पणु दानेऽ । अङ्गादधिकम् अधिकाङ्गः । कञ्चुकोपरिबन्धनाय पट्टसूत्रादिकृतरज्जुनामनी ॥ शीर्षमिव निर्मितं शीर्षकम् । शिरसे हितं शीर्षण्यम् । शिरो घातात् त्रायत इति शिरस्त्रम् । ‘त्र्यैङ् पालनेऽ । शिरस्त्रनामानि ॥ तनुं त्रायते तनुत्रम् । वृणोति शरीरं वर्म । ‘वृञ् वरणेऽ । दंश्यतेऽनेनेति दंशनम् । ‘दंश दंशनेऽ । उरः छाद्यतेऽनेनेति उरश्छदः । ‘छद अपवारणेऽ । कं वक्षः कटतीति कङ्कटकः । ‘कटे वर्षावरणयोःऽ । जागर्तीति जगरः । ‘जागृ निद्राक्षयेऽ । कान् बाणान् वञ्चयते कवचः । ‘वञ्चु प्रलम्भनेऽ । उरस्त्राणनामानि ॥ ६२-६४ ॥
मल्लि-नाथः - AK.02.08.062-64
परिधिस्थाः परिचराः । काटवद्वलयाकारेण स्थितानां भटानां नामनी ॥ सेनानीर्वाहिनीपतिः । सेनाधिपतिनामनी ॥ कञ्चुको वारवाणोऽस्त्री । कार्पासकूर्पासकनामनी । ‘झगऽ ॥ यत्तु मध्ये—अधिकाङ्गः । आमुक्तकञ्चुकैर्मध्यनिबद्धपट्टनामनी ॥ अथ शीर्षकं—शिरस्त्रे । शिरस्त्राणनामनी ॥ अथ तनुत्रं वर्म दंशनं—कवचोऽस्त्रियाम् । ‘अदंशयन्नरहितशौर्यदंशनाःऽ इति माघः (शिशु। १७। २१) । कवचनामानि । ‘जूडुऽ । ‘सूत्रकं स्यात् सूत्रमयं जालिका स्यादयोमयीऽ इति सूत्रकजालिके कवचविशेषे ॥ ६२-६४ ॥
[[०२.५२२]]
मूलम् - ०२.०८.०६५
अक्।०२.०८.०६५अब् आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ।
अक्।०२.०८.०६५च्द् सन्नद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः ॥ ६५ ॥
लिङ्ग-सूरी - AK.02.08.065
आमुक्त इति—आमुच्यते बध्यते आमुक्तः । प्रतिमुच्यते स्म प्रतिमुक्तः । ‘मुच्लृ मोक्षणेऽ । अपिनह्यत इति पिनद्धः । अपिनद्धश्च । ‘णह बन्धनेऽ । ‘युद्धार्थऽं वर्मादिनोपक्लृप्तशरीरस्य नामानि ॥ सन्नह्यते सन्नद्धः । वर्म सञ्जातमस्य वर्मितः । सज्जति सज्जः । ‘षस्ज गतौऽ । दंशोऽस्य सञ्जातो दंशितः । व्यूढः कङ्कटोऽनेन व्यूढकङ्कटः । उरस्त्राणयुक्तस्य नामानि ॥ ६५ ॥
मल्लि-नाथः - AK.02.08.065
आमुक्तः प्रतिमुक्तश्च—नद्धवत् । आमुक्तकवचनामानि । ‘तोडगबड्डजूडुऽ ॥ सन्नद्धो वर्मितः—व्यूढकङ्कटः । व्यूढः कङ्कटो येन, तस्य नामानि । ‘जूडतोडुगुकुन्नपुरुषुनिपेल्लुऽ ॥ ६५ ॥
[[०२.५२३]]
मूलम् - ०२.०८.०६६
अक्।०२.०८.०६६अब् त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे ।
अक्।०२.०८.०६६च्द् पदातिपत्तिपदगपादातिकपदाजयः ॥ ६६ ॥
अक्।०२.०८.०६७अब् पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः ।
लिङ्ग-सूरी - AK.02.08.066-67
त्रिष्विति—आमुक्तादयो व्यूढकङ्कटान्ताः त्रिषु लिङ्गेषु वर्तन्ते ॥ कवचिनां समूहः कावचिकम् । वर्मभृतां समूहनाम ॥ पादाभ्यामतति गच्छतीति पदातिः । ‘अत सातत्यगमनेऽ । पतत्यरीन् प्रति पत्तिः । ‘पत्लृ गतौऽ । पदाभ्यां गच्छतीति पदगः । ‘गम्लृ गतौऽ । पादाभ्यामततीति पादातिकः । पदाभ्यामजतीति पदाजिः । ‘अज गतिक्षेपणयोःऽ । पद्भ्यां गच्छतीति पद्गः । पादाभ्यां चरतीति पदिकः । पदातिनामानि ॥ पदातीनां समूहः पादातम् । पत्तीनां संहतिः पत्तिसंहतिः । पत्तिसमूहनाम ॥ ६६ ॥
मल्लि-नाथः - AK.02.08.066-67
त्रिष्वामुक्तादयः । आमुक्तादयस्त्रिलिङ्गाः । आमुक्तः कवचः । आमुक्तं कवचम् । सन्नद्धमनीकमित्यादि ॥ वर्मभृतां कावचिकं गणे । कवचधारिणां समूहः कावचिकं स्यात् ॥ पदातिपत्ति—पद्गश्च पदिकश्च । पादचारियोधनामानि । ‘कालुबलमुऽ ॥ अथ पादातं पत्तिसंहतिः । पद्भिरततां समूहः पादातं स्यात् ।
‘पादातिकः पदातिः पादातपदाजिपद्गपदिकाः स्युःऽ ।
इति रत्नकोशः ॥ ६६ ॥
[[०२.५२३]]
अक्।०२.०८.०६७च्द् शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ॥ ६७ ॥
मूलम् - ०२.०८.०६८
अक्।०२.०८.०६८अब् कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् ।
लिङ्ग-सूरी - AK.02.08.067-68
शस्त्राजीव इति—शस्त्रेणाजीवतीति शस्त्राजीवः । काण्डाः बाणाः पृष्ठे यस्य काण्डपृष्ठः । आयुधेन जीवतीति आयुधीयः । आयुधिकश्च । शास्त्राजीवकनामानि ॥ कृतौ शिक्षितौ हस्तौ यस्य कृतहस्तः । सुष्ठ्रु प्रयुज्यन्ते सुप्रयोगाः । तथाविधाः विशिखाः यस्य सुप्रयोगविशिखः । कृतः शिक्षितः पुङ्खः शराभ्यासो येन कृतपुङ्खः । लब्धलक्ष्यनामानि ॥ ६७ ॥
मल्लि-नाथः - AK.02.08.067-68
शस्त्राजीवे काण्डपृष्ठ—समाः । शस्त्राण्युपजीव्य जीवतो नामानि ॥ कृतहस्तः—कृतपुङ्खवत् । लक्ष्यभेदे करप्रयोगिणो नामानि ॥ ६७ ॥
[[०२.५२४]]
अक्।०२.०८.०६८च्द् अपराद्धपृषत्कोऽसौ लक्ष्याद् यश्च्युतसायकेः ॥ ६८ ॥
मूलम् - ०२.०८.०६९
अक्।०२.०८.०६९अब् धन्वी धनुष्मान् धानुष्को निषङ्ग्यस्त्री धनुर्धरः ।
लिङ्ग-सूरी - AK.02.08.068-69
अपराद्धेति—अपराद्धाः अलब्धलक्ष्याः पृषत्का बाणा यस्य अपराद्धपृषत्कः । लक्ष्यादन्यत्र च्युतसायकस्य नाम ॥ धन्वा अस्यास्तीति धन्वी । धनुरस्यास्तीति धनुष्मान् । धनुः प्रहरणमस्य धानुष्कः । निषङ्गस्तूणोऽस्यास्तीति निषङ्गी । अस्त्राण्यस्य सन्तीति अस्त्री । धनुर्धारयतीति धनुर्धरः । धनुर्धरनामानि ॥ ६८ ॥
मल्लि-नाथः - AK.02.08.068-69
अपराद्धपृषत्कोऽसौ—सायकः । तद्विपरीतस्य नाम । धन्वी धनुष्मान्—धनुर्धरः । अर्शआदिपाठादुरसोऽपि स्यात् । धृतधनुषां नामानि ॥ ६८ ॥
[[०२.५२४]]
अक्।०२.०८.०६९च्द् स्यात् काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः ॥ ६९ ॥
मूलम् - ०२.०८.०७०
अक्।०२.०८.०७०अब् याष्टीकपारश्वधिकौ यष्टिपर्श्वधहेतिकौ ।
लिङ्ग-सूरी - AK.02.08.069-70
स्यादिति—काण्डा बाणा अस्य सन्तीति काण्डवान् । काण्डीरश्च । बाणवतो नामनी ॥ शक्तिः प्रहरणमस्य शाक्तीकः । शक्तिः हेतिः आयुधं यस्य शक्तिहेतिकः । शक्त्याख्यायुधधरस्य नामनी ॥ यष्टिः प्रहरणमस्य याष्टीकः । लगुडायुधधरस्य नाम ॥ परश्वधः परशुः प्रहरणमस्य पारश्वधिकः । परश्वधाख्यायुधधरस्य नाम ॥ ६९ ॥
मल्लि-नाथः - AK.02.08.069-70
स्यात् काण्डवांस्तु काण्डीरः । दण्डधारिनामनी । अधिकशरधारिनामनी इति केचित् ॥ शाक्तीकः । दीर्घमध्यः । शक्तिहेतिकः । केवलशक्त्यायुधः पुरुषः शाक्तीकः स्यात् । ‘शक्तियष्ट्योरीकक्ऽ (४। ४। ५९) इतीकक्प्रत्ययः ॥ याष्टीकपारश्वधिकौ—हेतिकौ । यष्टिधारी याष्टीकः स्यात् । इष्टियोगादैष्टिकः स्यात् । परशुहेतिकः पारश्वाधिकः स्यात् । पारश्वधोऽपि भवति । ‘परश्वधाद्वाण्ऽ इति शाकटायनमतादण् (शा। व्या। ३। २। ५८) ॥ ६९ ॥
[[०२.५२५]]
अक्।०२.०८.०७०च्द् नैस्त्रिंशिकोऽसिहेतिः स्यात् समौ प्रासिककौन्तिकौ ॥ ७० ॥
अक्।०२.०८.०७१अब् चर्मी फलकपाणिः स्यात् पताकी वैजयन्तिकः ।
naistriṃśika iti—nistriṃśaḥ praharaṇamasya naistriṃśikaḥ . asiḥ hetiryasya asihetiḥ . khaḍgāyudhadharasya nāmanī .. prāsaḥ praharaṇamasya prāsikaḥ . kuntaḥ praharaṇamasya kauntikaḥ . kuntākhyāyudhadharasya nāmanī .. carma phalakamasyāstīti carmī . phalakaṃ pāṇau yasya phalakapāṇiḥ . phalakapāṇināma .. patākāsyāstīti patākī . vaijayantyā dhvajena caratīti vaijayantikaḥ . patākāṃ dhṛtvā senāmadhye carato nāmanī .. 70 ..
मल्लि-नाथः - AK.02.08.070-71
नैस्त्रिंशिकोऽसिहेतिः स्यात् । केवलखड्गायुधो नैस्त्रिंशिकः स्यात् । आसिकदैष्टिकादिशब्दा एवंविधाः ॥ समौ प्रासिककौन्तिकौ । कुन्तधारिनामनी । ‘यीण्टेवाण्डुऽ ॥ चर्मी फलकपाणिः स्यात् । चर्मधरनामनी । ‘हरिगेवाण्डुऽ ॥ पताकी वैजयन्तिकः । ध्वजधरनामनी । ‘टेक्कं बट्टवाण्डुऽ । अनुक्तम्—छायाकरश्छत्रधरः । धृतातपत्रनामनी ॥ ७० ॥
[[०२.५२६]]
अक्।०२.०८.०७१च्द् अनुप्लवः सहायश्चानुचरोऽभिचरः समाः ॥ ७१ ॥
मूलम् - ०२.०८.०७२
अक्।०२.०८.०७२अब् पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः ।
अक्।०२.०८.०७२च्द् पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥
लिङ्ग-सूरी - AK.02.08.071-72
अनुप्लव इति—अनु पश्चात् प्लवते गच्छतीति अनुप्लवः । ‘प्लुङ् गतौऽ । मुख्येन सह अयते गच्छतीति सहायः । ‘अय गतौऽ । अनु पश्चात् मुख्यस्य चरतीति अनुचरः । ‘चर गतिभक्षणयोःऽ । मुख्यम् अभितश्चरतीति अभिचरः । अभिसर इति वा पाठः । मुख्यस्य पश्चाद्गामिनो नामानि ॥ पुरो गच्छतीति पुरोगः । ‘गम्लृ गतौऽ । अग्रे सरतीति अग्रेसरः । ‘सृ गतौऽ । प्रतिष्ठते पुरो गच्छतीति प्रष्ठः । ‘ष्ठा गतिनिवृत्तौऽ । अग्रतः सरति गच्छतीति अग्रतःसरः । पुरः सरतीति पुरःसरः । ‘सृ गतौऽ । पुरो गच्छतीति पुरोगमः । पुरोगामी च । नान्तः । यो मुख्यस्य पुरो गच्छति तस्य नामानि ॥ मन्दं गच्छतीति मन्दगामी । ‘गम्लृ गतौऽ । मन्थति गच्छन् सङ्क्लिश्यते मन्थरः । ‘मथि हिंसासङ्क्लेशनयोःऽ । मन्दगामिनामनी ॥ ७१-७२ ॥
मल्लि-नाथः - AK.02.08.071-72
अनुप्लवः सहायश्च—अभिचरः समाः । अनुसृत्य गच्छतां नामानि ॥ पुरोगाग्रेसर—पुरोगामी । पुरोभागे गच्छतां नामानि ॥ मन्दगामी—मन्थरः । शनैर्गच्छतां नामनी ॥ ७१-७२ ॥
[[०२.५२६]]
मूलम् - ०२.०८.०७३
अक्।०२.०८.०७३अब् जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ ।
अक्।०२.०८.०७३च्द् तरस्वी त्वरितो वेगी प्रजवी जवनो जवः ॥ ७३ ॥
लिङ्ग-सूरी - AK.02.08.073
जङ्घाल इति—दीर्घे जङ्घे अस्य स्त इति जङ्घालः । अतिशयितो जवो वेगो यस्य अतिजवः । अतिवेगेन गच्छतो नामनी ॥ जङ्घे एव कर्मकरौ यस्य जङ्घाकरिकः । जङ्घाभ्यां जीवतीति जाङ्घिकः दूरं गत्वा तत आगत्य तत्रस्थवार्तां निवेदयितुर्नामनी ॥ तरः वेगोऽस्यास्तीति तरस्वी । त्वरते स्म त्वरितः । ‘ञित्वरा सम्भ्रमेऽ । वेगोऽस्यास्तीति वेगी । प्रजवति प्रजवी । जवनः । जवश्च । ‘जुङ् गतौऽ । वेगवतो नामानि ॥ ७३ ॥
मल्लि-नाथः - AK.02.08.073
जङ्घालोऽतिजवस्तुल्यौ । अतिशीघ्रगामिनामनी ॥ जङ्घाकरिकजाङ्घिकौ । धावतो नामनी । ‘पारटिवाण्डुऽ ॥ तरस्वी त्वरितो—जवनो जवः । शीघ्रगामिनामानि ॥ ७३ ॥
[[०२.५२७]]
मूलम् - ०२.०८.०७४
अक्।०२.०८.०७४अब् जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके ।
अक्।०२.०८.०७४च्द् जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥
अक्।०२.०८.०७५अब् सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ।
लिङ्ग-सूरी - AK.02.08.074-75
जय्य इति—जेतुं शक्यते जय्यः । ‘जि जयेऽ । सामाद्युपायैर्जेतुं शक्यस्य शत्रोर्नाम ॥ जेतुं योग्यो जेयः । जेतव्यमात्रनाम ॥ जेतृसम्बन्धी भवति जैत्रः । जयतीति जेता । जेतृनामनी ॥ आभिमुख्येन अमित्रं सुष्ठु गच्छतीति अभ्यमित्र्यः । अभ्यमित्रीयः । अभ्यमित्रीणश्च ॥ यः शत्रून् प्रति अलं गच्छति तस्य नामानि ॥ ७४ ॥
मल्लि-नाथः - AK.02.08.074-75
जय्यो यः—जेतुम् । यो जेतुं शक्यः स जय्यः स्यात् ॥ जेयो जेतव्यमात्रके । जेतुं यो योग्यः स जेयः स्यात् ॥ जैत्रस्तु जेता । जेतुर्नामनी ॥ यो गच्छत्यलं—अभ्यमित्रीण इत्यपि । यः शत्रून् प्रति चाञ्चल्यरहितः सन् गच्छति तस्य नामानि ॥ ७४ ॥
[[०२.५२७]]
अक्।०२.०८.०७५च्द् ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः ॥ ७५ ॥
मूलम् - ०२.०८.०७६
अक्।०२.०८.०७६अब् स्यादुरस्वानुरसिलो रथिनो रथिको रथी ।
लिङ्ग-सूरी - AK.02.08.075-76
ऊर्जस्वल इति—ऊर्जो बलमस्यास्तीति ऊर्जस्वलः । ऊर्जस्वी च । अतिबलवतो नामनी ॥ प्रशस्तमुरोऽस्यास्तीति उरस्वान् । उरसिलश्च । उरोबलान्वितस्य नामनी ॥ रथोऽस्यास्तीति रथिकः । रथिनः । रथी च । रथिर इति वा पाठः । रथविद्याविशारदस्य नामानि ॥ ७५ ॥
मल्लि-नाथः - AK.02.08.075-76
उर्जस्वलः स्यात्—ऊर्जोऽतिशयान्वितः । ऊर्जो नामोत्साहः । ऊर्ज इति पराक्रमश्च । तयोर्द्वयोरतिशयवानूर्जस्वल ऊर्जस्वी च स्यात् ॥ स्यादुरस्वानुरसिलः । यः शत्रुभ्य उरो दत्त्वा स्वबलं रक्षति तस्य नामनी । अर्शआदिपाठादुरसश्च स्यात् । अकारान्तः । रथिनो रथिको रथी । रथबलवतो नामानि । भूमार्थे प्रत्ययः ॥ ७५ ॥
[[०२.५२८]]
अक्।०२.०८.०७६च्द् कामङ्गाम्यनुकामिनो ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ॥
मूलम् - ०२.०८.०७७
अक्।०२.०८.०७७अब् शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः ।
लिङ्ग-सूरी - AK.02.08.076-77
कामङ्गामीति—कामं यथेच्छं गच्छतीति कामङ्गामी । अनुकामं यथेष्टं गमिष्यतीति अनुकामीनः । युद्धादौ यथेष्टं गमिष्यतो नाम ॥ युद्धादावत्यर्थं गमिष्यतीति अत्यन्तीनः । युद्धे शत्रून् प्रत्यत्यर्थं चरतो नाम ॥ शूरयतीति शूरः । वीरयतीति वीरः । ‘शूर वीर विक्रान्तौऽ । विरुद्धान् राति हन्तीति वा वीरः । ‘रा दाने छेदने चऽ ।विक्रामतीति विक्रान्तः । ‘क्रमु पादविक्षेपेऽ । शूरनामानि । जयत्यरीनिति जेता । अरीन् जेतुं शीलमस्येति जिष्णुः । जित्वरश्च । ‘जि जयेऽ । ‘जि अभिभवेऽ वा धातुः । जयैकशीलस्य नामानि ॥ ७६ ॥
मल्लि-नाथः - AK.02.08.076-77
कामङ्गाम्यनुगामीनः । यथेष्टं गामी अनुगामीनः स्यात् । ह्यत्यन्तीनस्तथा भृशम् । भृशं गामी अत्यन्तीनः स्यात् । ‘वोत्तिनडचिवाण्डुऽ ॥ शूरो वीरश्च विक्रान्तः । शूरनामानि । ‘शूरो वीरश्च विक्रान्तो भटश्चारभटो भवेत्ऽ इति पर्यायशेषे हलायुधः (अ। मा। २। १९९) । अनुक्तम्—‘स्यादशूरस्तु हतकःऽ । शूरादन्यस्य नाम । जेता जिष्णुश्च जित्वरः । जयशीलनामानि । पूर्वं तद्धर्मे, इदानीं तच्छीले प्रत्ययः ॥ ७६ ॥
[[०२.५२८]]
अक्।०२.०८.०७७च्द् सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥ ७७ ॥
मूलम् - ०२.०८.०७८
अक्।०२.०८.०७८अब् ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः ।
अक्।०२.०८.०७८च्द् वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥
लिङ्ग-सूरी - AK.02.08.077-78
सांयुगीन इति—संयुगे रणे साधुः सांयुगीनः । युद्धप्रवीणनाम ॥ शस्त्राजीवादयः सांयुगीनान्ताः शब्दाः त्रिषु लिङ्गेषु वर्तन्ते ॥ ध्वजा अस्यां सन्तीति ध्वजिनी । वाहाः सन्त्यस्यामिति वाहिनी । इनेन प्रभुणा सह वर्तत इति सेना । प्रियते व्यायच्छति हन्तुमुद्युङ्क्ते परबलमिति पृतना । ‘पृङ् व्यायामेऽ । अनीकोऽश्वादिसङ्घोऽस्यामस्तीति अनीकिनी । चमति हिनस्त्यरीनिति चमूः । ‘चमु भक्षणेऽ । वरूथो रथगुप्तिरस्यामस्तीति वरूथिनी । बलति प्राणिति स्वपक्षोऽनेनेति बलम् । ‘बल प्राणनेऽ । सेनैव सैन्यम् । चकते हन्ति परबलमिति चक्रम् । ‘चक तृप्तौ प्रतिघाते चऽ । विभज्य न नीयत इत्यनीकम् । ‘णीञ् प्रापणेऽ । हस्त्यादिचतुरङ्गबलसमूहनामानि ॥ ७७-७८ ॥
मल्लि-नाथः - AK.02.08.077-78
सांयुगीनो रणे साधुः । रणकुशलः सांयुगीनः स्यात् । अनुक्तम्—‘जितकाशी जिताहवःऽ । विजितरणो जितकाशी स्यात् । शस्त्राजीवादयस्त्रिषु । पूर्वोक्ताः शस्त्राजीवादयः शब्दास्त्रिलिङ्गाः । शस्त्राजीवाः प्रजाः । शस्त्राजीवं कुलम् । इत्यादि । ध्वजिनी वाहिनी—अनीकमस्त्रियाम । सेनानामानि । ‘पताकिनी च दण्डश्चऽ । एते द्वे च ॥ ७७-७८ ॥
[[०२.५२९]]
मूलम् - ०२.०८.०७९
अक्।०२.०८.०७९अब् व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि ।
अक्।०२.०८.०७९च्द् प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥
अक्।०२.०८.०८०अब् एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।
लिङ्ग-सूरी - AK.02.08.079-80
व्यूह इति—व्यूह्यते समूहतया रच्यते व्यूहः । ‘ऊह वितर्केऽ । बलस्य सैन्यस्य विन्यासः रचना । बलविन्यासप्रकारनाम ॥ बलस्य तिर्यगवस्थानं दण्डः । आदिग्रहणान्मण्डलशकटक्रौञ्चादयो गृह्यन्ते । व्यूहभेदनामानि ॥ भग्नानात्मीयाननुग्राहकतया प्रतिसरतीति प्रत्यासारः । ‘सृ गतौऽ । व्यूहस्य पार्ष्णिः पृष्ठभागः । व्यूहजघनभागस्य नाम ॥ प्रतिगृह्यतेऽवष्टभ्यतेऽनेन प्रतिग्रहः । ‘ग्रह उपादानेऽ । सैन्यस्य चरमस्थाने स्थितस्य राजवतो व्यूहस्य नाम ॥ एकेभा एकरथा त्र्यश्वा पञ्चपदातिका सेना पत्तिरित्युच्यते । पद्यते पत्तिः । ‘पद गतौऽ ॥ ७९ ॥
मल्लि-नाथः - AK.02.08.079-80
व्यूहस्तु बलविन्यासः । बलविन्यासः व्यूहः स्यात् ॥ भेदा दण्डादयो युधि ।
‘तिर्यग्वृत्तिस्तु दण्डः स्याद् भोगोऽन्वावृत्तिरेव च ।
मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः ॥ऽ
इति (कामन्दकीयनीतिसारः २०। ३५। ४२) । दण्डादयश्चत्वारो व्यूहभेदाः । चक्रगोमूत्रिकादयस्तदवान्तरभेदाः ॥ प्रत्यासारो व्यूहपार्ष्णिः । व्यूहात् पश्चाद्भागनिविष्टं व्यूहान्तरं प्रत्यासारः स्यात् ॥ सैन्यपृष्ठे प्रतिग्रहः । बलस्य पृष्ठभागस्थराजबलं प्रतिग्रहः स्यात् । एकेभैकरथा—पञ्चपदातिका । एको गजः, एको रथः, त्रयस्तुरङ्गाः, पञ्चपदातयः, एते सर्वे मिलित्वा पत्तिनामा सेनाभेदः ॥ ७९ ॥
[[०२.५३०]]
अक्।०२.०८.०८०च्द् पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥
मूलम् - ०२.०८.०८१
अक्।०२.०८.०८१अब् सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।
अक्।०२.०८.०८१च्द् अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि ॥ ८१ ॥
अक्।०२.०८.०८२अब् सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्तौ विपदापदौ ।
लिङ्ग-सूरी - AK.02.08.080-82
पत्त्यङ्गैरिति—त्रिगुणैः सर्वैः पत्त्यङ्गैर्यथोत्तरं उत्तरोत्तरस्य आख्या नामानि क्रमाद् भवन्ति । सेनाया मुखं सेनामुखम् ।
इभानां च रथानां च त्रितयं नव वाजिनः ।
सेनामुखं स्मृतं यत्र भटानां दश पञ्च च ॥ इति ।
गुड्यते रक्ष्यतेऽस्मात् गुल्मः । ‘गुड रक्षायाम्ऽ ।
नवेभानां रथानां च हयानां सप्तविंशतिः ।
गुल्मः प्रोक्तो भटानां तु चत्वारिंशच्च पञ्च च ॥ इति ।
गण्यते सङ्ख्यायते गणः । ‘गण सङ्ख्यानेऽ ।
एकाशीतितुरङ्गाणां रथेभाः सप्तविंशतिः ।
गणः प्रोक्तो भटानां तु शतं त्रिंशच्च पञ्च च ॥ इति ।
वाहाः अश्वाः अस्यां सन्तीति वाहिनी ।
एकाशीतिरथेभस्य भटाः पञ्च चतुःशतम् ।
चत्वारिंशत् त्रयोऽश्वानां द्विशतं वाहिनी मता ॥ इति ।
पृतना पूर्वोक्ता (श्लो। ७८)—
चत्वारिंशत्त्रयो नागा द्विशतं च रथास्तथा ।
पृतना सा सप्तशती हयानां विंशतिर्नव ।
सहस्रं द्विशतं पञ्च दश पद्गा मनीषिभिः ॥
चमूरप्युक्ता (श्लो। ७८)—
द्विसहस्रं शतं सप्ताशीतिर्वाजिकुलस्य च ।
रथाश्चेभाः सप्तशती विंशतिर्नव यत्र सा ॥
त्रिसहस्रं षट्शतकं चत्वारिंशच्च पञ्च च ।
पदातीनां चमर्ज्ञेया सैन्यसङ्ख्याविचक्षणैः ॥
अनीकिनी पूर्वोक्ता (श्लो। ७८)—
षट्सहस्रं पञ्चशतं षष्टिरेकं तु वाजिनाम् ।
द्विसहस्रं शतं सप्ताशीतिर्गजरथस्य च ॥
यत्रायुतं नवशतं त्रिंशत्पञ्चपदातयः ।
अनीकिन्यभिधेया सा परिज्ञेया मनीषिभिः ॥
दश अनीकिन्यो यस्यां सा दशानीकिनी । सैव अक्षौहिणीत्युच्यते । अक्षाणां रथानां समूहः सङ्घोऽस्यामस्तीति अक्षौहिणी ।
प्रयुतं नवसाहस्रं पञ्चाशत् त्रिशतं भटाः ।
पञ्चाशत् षष्टिसाहस्रं षट्शतीर्दश वाजिनः ॥
एकविंशतिसाहस्रं शतानामष्टसप्ततिः ।
द्विरदाः स्यन्दना यत्र साक्षौहिण्युच्यते बुधैः ॥ इति ।
सम्पद्यते जनैरिति सम्पत् । सम्पत्तिश्च । श्रयत इति श्रीः । ‘श्रिञ् सेवायाम्ऽ । लक्ष्यत इति लक्ष्मीः । ‘लक्ष दर्शनाङ्कनयोःऽ । सम्पन्नामानि ॥ विपद्यत इति विपत् । विपत्तिश्च । आपद्यते आपत् । ‘पद गतौऽ ॥ ८०-८१ ॥
मल्लि-नाथः - AK.02.08.080-82
पत्त्यङ्गैस्त्रिगुणैः सर्वैः—चमूः अनीकिनी । पत्त्यङ्गानि त्रिगुणानि चेद् गुल्मः । गुल्माङ्गानि त्रिगुणानि चेद् गणः । गणाङ्गानि त्रिगुणानि चेद् वाहिनी । वाहिन्यङ्गानि त्रिगुणानि चेद् पृतना । पृतनाङ्गानि त्रिगुणानि चेच्चमूः । चम्वङ्गानि त्रिगुणानि चेदनीकिनी । गोबलीवर्दन्यायाद् वाहिनीशब्दस्य सामान्यविशेषवृत्तित्वम् ॥ दशानीकिन्यक्षौहिणी । तादृश्योऽनीकिन्यो दश चेदक्षौहिणी स्यात् । तादृगक्षौहिण्या गजाः २१८७०, रथाः २१८७०, अश्वाः ६५६१०, पदातयः १०९३५० ॥ अथ सम्पदि—लक्ष्मीश्च । सम्पदो नामानि । ऐश्वर्यपर्यायवाच्या अपि स्यात् । ‘विभूतिर्भूतिरैश्वर्यमणिमादिकसम्पदोःऽ इति वैजयन्ती (पृ। २८०, श्लो। ३४) ॥ विपत्त्यां विपदापदौ । विपत्तिनामानि ॥ ८०-८१ ॥
[[०२.५३२]]
अक्।०२.०८.०८२च्द् आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ ॥ ८२ ॥
मूलम् - ०२.०८.०८३
अक्।०२.०८.०८३अब् धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।
अक्।०२.०८.०८३च्द् इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥
लिङ्ग-सूरी - AK.02.08.082-83
आयुधमिति—आयुध्यन्तेऽनेनेति आयुधम् । ‘युध सम्प्रहारेऽ । प्रहरत्यनेनेति प्रहरणम् । ‘हृञ् हरणेऽ । शस्यते हिंस्यतेऽनेनेति शस्त्रम् । ‘शसु हिंसायाम्ऽ । अस्यते देहादाविति अस्त्रम् । ‘असु क्षेपणेऽ । आयुधमात्रनामानि ॥ धन्यते निषङ्गिभिरभ्यर्थ्यत इति धनुः । ‘धन धान्येऽ । सान्तोऽयम् । चपस्य वेणोरयं विकारः चापः । धनुश्चापावस्त्रियां वर्तेते । ‘अश्रौषं धनुषम्ऽ इति पुंलिङ्गप्रयोगोऽप्यस्ति । धन्यते धन्व । ‘धन धान्येऽ । शरा अस्यन्तेऽनेनेति शरासनम् । कूर्दते धन्वी अनेनेति कोदण्डम् । ‘कुर्द क्रीडायाम्ऽ । कर्मणि प्रभवतीति कार्मुकम् । इषवोऽस्यन्तेऽनेनेति इष्वासः । ‘असु क्षेपणेऽ । धनुषो नामानि ॥ कालवर्णः पृष्ठे यस्य कालपृष्ठम् । कर्णस्य धनुषो नाम ॥ ८२-८३ ॥
मल्लि-नाथः - AK.02.08.082-83
आयुधं तु । आयुच्छब्दोऽप्यस्ति । ‘न क्ली हेतिः शस्त्रमस्त्रमायुच्छत्रुघ्नमायुधम्ऽ इति वैजयन्ती (पृ। ११७, श्लो। १५७) । प्रहरणं शस्त्रमस्त्रम् । आयुधनामानि ॥ अथास्त्रियां—धनुश्चापौ धन्व । नान्तः । शरासन—कार्मुकमिष्वासोऽपि । चापनामानि । ‘शार्ङ्गं नखमुचो युध्मो धर्मो ना तृणता स्त्रियाम्ऽ इत्येतानि पञ्च च । सिंहावलोकन्यायादस्त्रस्य ग्रहणम् । अथ कर्णस्य—शरासनम् । कर्णो नाम राधेयः, तस्य चापं कालपृष्ठं स्यात् ॥ ८२-८३ ॥
[[०२.५३३]]
मूलम् - ०२.०८.०८४
अक्।०२.०८.०८४अब् कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ ।
अक्।०२.०८.०८४च्द् कोटिरस्याटनी गोधे तले ज्याघातवारणे ॥ ८४ ॥
अक्।०२.०८.०८५अब् लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः ।
लिङ्ग-सूरी - AK.02.08.084-85
कपिध्वजस्येति—गाण्डीकृतं अश्लक्ष्णीकृतं पर्वस्थानमस्येति गाण्डीवः । गाण्डिवश्च ॥ इमौ द्वौ शब्दौ पुन्नपुंसकयोर्वर्तेते । अर्जुनशरासननामनी ॥ अटति धनुषो नमनकालेऽधोगच्छतीति अटनी । अटनिरप्यस्ति । मौर्वीबन्धनस्थाननाम । गुध्यति प्रकोष्ठमिति गोधा । ‘गुध परिवेष्टनेऽ । तलति प्रतितिष्ठतीति तलम् । ‘तल प्रतिष्ठायाम्ऽ । ज्याघातवारणत्वग्विशेषनामनी ॥ लसति संश्लिष्यति करे लस्तकः । ‘लस संश्लेषणक्रीडनयोःऽ । धनुर्मध्यभागनाम ॥ मूर्वाख्यतृणविशेषजत्वात् मौर्वी । जिनाति कालेन शिथिलीभवतीति ज्या । ‘ज्या वयोहानौऽ । शिञ्जतेऽव्यक्तं स्वनतीति शिञ्जिनी । ‘शिजि अव्यक्ते शब्देऽ । गुण्यते आकृष्यमाणतया अभ्यस्यते गुणः । ‘गुण अभ्यासेऽ । मौर्वीनामानि ॥ ८४ ॥
मल्लि-नाथः - AK.02.08.084-85
कपिध्वजस्य—पुन्नपुंसकौ । कपिध्वजोऽर्जुनः । तस्य चापं गाण्डीवो गाण्डिवश्च स्यात् ॥ कोटिरस्याटनिः । चापस्य कोटिरटनिः स्यात् । ‘विटिकोप्पुऽ । प्रयोगरूढ्या अस्येति निर्देशः ।
‘घनकार्मुककोटिघट्यमानो हिमधामा विगलत्सुधो विरेजे ।ऽ
इति, ‘शिरसि ॥ अटन्या ताड्यमानस्य शम्भोःऽ इति च प्रयोगात् ॥ गोधे तले ज्याघातवारणे । मौर्व्याघातवारणार्थं मणिबन्धबद्धचर्मनामनी । गोधे तले इति रूपनामा स्यात् । स्त्रीनपुंसके स्याताम् । ‘गोधा तला च न नरौ हस्तघ्नज्यानिवारणेऽ इति वैजयन्ती (पृ। ११६, श्लो। १५५) । हस्तद्वयापेक्षया द्विवचनप्रयोगः ॥ लस्तकस्तु धनुर्मध्यम् । चापस्य मध्यं लस्तकः स्यात् ॥ मौर्वी ज्या—गुणः । धनुर्गुणनामानि । नाली जीवा द्रुणा चापि । एतानि त्रीणि च ॥ ८४ ॥
[[०२.५३४]]
अक्।०२.०८.०८५च्द् स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥
मूलम् - ०२.०८.०८६
अक्।०२.०८.०८६अब् लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् ।
लिङ्ग-सूरी - AK.02.08.085-86
स्यादिति—प्रत्यालिह्यतेऽनेनेति प्रत्यालीढम् । आलीढं च । ‘लिह आस्वादनेऽ । आदिग्रहणेन समपादं वैशाखं मण्डलमिति त्रीणि भवन्ति । धनुःशास्त्रविहितस्थानपञ्चकस्य प्रत्येकं नामानि ॥ लक्ष्यते दृश्यते वेध्यमिति लक्षं, लक्ष्यं च । ‘लक्ष दर्शनाङ्कनयोःऽ । शरैः वीयते संवीयते शरव्यम् । ‘वेञ् संवरणेऽ । लक्ष्यनामानि ॥ शरणाम् अभ्यासः शराभ्यासः । उपास्यन्ते पुनः पुनः शराः क्षिप्यन्तेऽत्रेति उपासनम् । शराभ्यासनाम ॥ ८५ ॥
मल्लि-नाथः - AK.02.08.085-86
स्यात् प्रत्यालीढं—स्थानपञ्चकम् । वामपादप्रसारे दक्षिणसङ्कोचे प्रत्यालीढम् । दक्षिणजङ्घाप्रसारे वामसङ्कोचे चालीढम् । तुल्यपादयुगं समपदम् । वितस्त्यन्तरेण स्थिते पादद्वये विशाखः, मण्डलाकृतिपादद्वयं मण्डलमिति धनुर्वेदोक्तानि पञ्च धनुर्धरस्थानानि स्युः । अनुक्तम्—‘पूर्णं ज्याकृष्टिराकर्णात्ऽ । श्रुतिपर्यन्तज्याकर्षणं पूर्णं स्यात् । ‘सन्धानं त्विषुयोजनम्ऽ । गुणस्य वक्त्रे बाणस्य संयोजनं सन्धानं स्यात् ॥ लक्षं लक्ष्यं शरव्यं च । शरवेध्यनामानि । ‘गुरिऽ । ‘निमित्तं लक्षणं वेध्यम्ऽ । एतानि त्रीणि च । शराभ्यास उपासनम् । बाणाभ्यास उपासनं स्यात् । ‘अभ्यासः कथ्यते योग्या श्रमस्थानं खलूरिकाऽ इति हलायुधः (अ। मा। २। ३१५) ॥ ८५ ॥
[[०२.५३५]]
अक्।०२.०८.०८६च्द् पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥
मूलम् - ०२.०८.०८७
अक्।०२.०८.०८७अब् कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।
लिङ्ग-सूरी - AK.02.08.086-87
पृषत्केति—रुधिरपृषद्भिः शत्रुं पर्षति वर्षतीति पृषत्कः । ‘पृषु सेचनहिंसाक्लेशनेषुऽ । बाणयति विरावयति शत्रुमिति बाणः । ‘वण क्वण शब्देऽ । विशीयते तीक्ष्णं कर्तुं तनूक्रियते विशिखः । ‘शिञ् निशातनेऽ । अजिह्मं ऋजु यथा भवति तथा गच्छतीति अजिह्मगः । खे आकाशे गच्छतीति खगः । ‘गम्लृ गतौऽ । आशु गच्छतीति आशुगः । रणमध्ये कल्यते क्षिप्यते कलम्बः । ‘कल किल क्षेपेऽ । वेध्यमेव मार्गयति अन्विष्यतीति मार्गणः । ‘मार्ग अन्वेषणेऽ । शृणातीति शरः । ‘शृ हिंसायाम्ऽ । पत्रं पक्षोऽस्यास्तीति पत्री । नान्तः । रोपयति मोहयति शत्रुमिति रोपः । ‘रुप विमोहनेऽ । इष्यति वध्यं प्रति गच्छतीति इषुः । ‘इष गतौऽ । इषुशब्दः स्त्रीपुंलिङ्गयोर्वर्तते । बाणनामानि ॥ ८६ ॥
मल्लि-नाथः - AK.02.08.086-87
पृषत्कबाणविशिखा—मार्गणशराः । तालव्यादिर्दन्त्यादिश्च भवति । ‘चित्रपुङ्खः शरः सरःऽ इति त्रिकाण्डशेषः (२। ८। ४२७) । पत्री रोप इषुर्द्वयोः । शरनामानि ।
‘कङ्कपत्रो वत्सदन्त एषणो रोपणः कणः ।
कादम्बश्च विपाठश्च ॥ऽ
एतानि सप्त च ॥ ८६ ॥
[[०२.५३५]]
अक्।०२.०८.०८७च्द् प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे ॥ ८७ ॥
मूलम् - ०२.०८.०८८
अक्।०२.०८.०८८अब् निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ ।
लिङ्ग-सूरी - AK.02.08.087-88
प्रक्ष्वेडना इति—प्रक्ष्वेडन्तेऽव्यक्तं ध्वनन्तीति प्रक्ष्वेडनाः । ‘ञिक्ष्विडा अव्यक्ते शब्देऽ । नारं नरसमूहं प्रति अञ्चन्ति गच्छन्तीति नाराचाः । ‘अञ्चु गतिपूजनयोःऽ । एकवचनद्विवचने अपि स्तः । नाराचनामनी ॥ पक्षति शरं गृह्णातीति पक्षः । ‘पक्ष परिग्रहेऽ । वजत्यनेन बाण इति वाजः । ‘वज गतौऽ । बाणपक्षनामनी ॥ उत्तरे वर्तमानाः चत्वारः शब्दास्त्रिषु लिङ्गेषु वर्तन्ते । निरस्यते प्रक्षिप्यतेऽस्मात् धनुष इति निरस्तः । उत्सृष्टबाणनाम ॥ विषेण दिह्यते उपलिप्यते दिग्धम् । ‘दिह उपचयेऽ । विषेण लिप्यते लिप्तकः । ‘लिप उपदेहेऽ । विषलिप्तबाणनामनी ॥ ८७ ॥
prakṣveḍanāstu nārācāḥ . āyasabāṇanāmanī .. pakṣo vājaḥ . sāyakapuṅkhāduparinibaddhagṛdhrādigarunnāmanī .. triṣūttare nirastaḥ—bāṇe . lakṣaṃ prati prayukto bāṇo nirastaḥ syāt .. viṣākte digdhaliptakau . viṣeṇa lipte bāṇe digdhaliptakaśabdau syātām . viśeṣaṇatve triliṅāgāḥ . iṣurnirastā, iṣurdigdhā, iṣurliptetyādi . viśeṣyatve puṃliṅagā eva . nirasto hantyeva . digdho hantyevetyādi .. 87 ..
[[०२.५३६]]
अक्।०२.०८.०८८च्द् तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥
मूलम् - ०२.०८.०८९
अक्।०२.०८.०८९अब् तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ।
अक्।०२.०८.८९च्द् कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ॥ ८९ ॥
लिङ्ग-सूरी - AK.02.08.088-89
तूण इति—तूण्यते प्रपूर्यते शरैरिति तूणः । तूणीरश्च । ‘तूण पूरणेऽ । उपासज्यते तनोः पृष्ठभागे उपासङ्गः । निषङ्गश्च । ‘षञ्ज सङ्गेऽ । इषवो धीयन्तेऽत्रेति इषुधिः । ‘डुधाञ् धारणपोषणयोःऽ । तूणीरनामानि ॥ खण्डयति शिरःकपालादिकमिति खड्गः । ‘खडि भेदनेऽ । दैर्घ्यात् त्रिंशदङ्गुलिपरिमाणतो निष्क्रान्तो निस्त्रिंशः । चन्द्रवत् हासः प्रभा यस्य चन्द्रहासः । अस्यते शत्रुशीर्षादौ असिः । ‘असु क्षेपणेऽ । रिष्यति रिपुं हन्तीति रिष्टिः । ‘रिष हिंसायाम्ऽ । कुक्षौ चर्मनिर्मितकोशान्तरे भवो वर्तमानः कौक्षेयकः । मण्डलाकारोऽग्रभागोऽस्य मण्डलाग्रः । करे वलत इति करवालः । ‘वल सञ्चलनेऽ । करपाल इति वा पाठः । कल्पते हनने समर्थो भवतीति कृपाणः । ‘कृपू सामर्थ्येऽ । खड्गनामानि ॥ ८८-८९ ॥
मल्लि-नाथः - AK.02.08.088-89
तूणोपसङ्गतूणीर—तूण्याम् । व्यासाङ्गीकारात् तूणाशब्दः स्त्रीलिङ्गः । ‘आषाढा धिषणा तूणाऽ इति चन्द्रगोमिलिङ्गानुशासनम् । समासाङ्गीकारात् तूणशब्दः पुंलिङ्गः । ‘तूणो निषङ्गस्तूणीरःऽ इति अमरमालापुंस्काण्डः । इषुधिर्द्वयोः । धियतिधातुसिद्धः इषुधिशब्द उभयलिङ्गः । दधातिधातुसिद्धः पुंलिङ्ग एव ॥ तूण्याम् । तूणाशब्दस्य सप्तमी । शराधिनामानि । ‘बत्तलिकेऽ ॥ खड्गे तु—असिरिष्टयः । ‘तस्मान्निरपतद् भूरि शिलाशूलेष्टिमुद्गरम्ऽ इति भट्टिप्रयोगादजादिश्च स्यात् (भ। का। १७। ४५) । कौक्षेयको—करवालः कृपाणवत् । खड्गनामानि ।
‘असिताङ्गो विशसनस्तरवारिश्च हुङ्कृतः ।
धर्मपालः कठारश्च शास्ता भद्रसुतोऽपि च ॥ऽ
एतानि च ॥ ८८-८९ ॥
[[०२.५३७]]
मूलम् - ०२.०८.०९०
अक्।०२.०८.०९०अब् त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् ।
अक्।०२.०८.०९०च्द् फलकोऽस्त्री फलं चर्म सङ्ग्राहो मुष्टिरस्य यः ॥ ९० ॥
अक्।०२.०८.०९१अब् द्रुघणे मुद्गरघनौ स्यादीली करवालिका ।
लिङ्ग-सूरी - AK.02.08.090-91
त्सरुरिति—मुष्टिना त्सरतीति त्सरुः । ‘त्सर छद्मगतौऽ । खड्गादिमुष्टिनाम ॥ मीयते मुष्टेरुपरि क्षिप्यते मेखला । ‘डुमिञ् प्रक्षेपणेऽ । त्सरुबन्धननाम ॥ फलति परप्रहारैर्विशीर्यत इति फलकः । फलं च । ‘ञिफला विशरणेऽ । चर्मणा सम्बद्धत्वात् चर्म । परप्रहारपरिहारार्थं खड्गिभिर्धार्यमाणस्य चर्मनद्धफलकस्य नामानि ॥ सङ्गृह्यति पाणिनेति सङ्ग्राहः । फलकमुष्टिनाम ॥ द्रोः वृक्षस्य घनः सारांशः द्रुघणः । द्रुः वृक्षादिकं हन्यतेऽनेनेति वा । ‘हन हिंसागत्योःऽ । हन्यमानस्य मुदं हर्षं गिरति नाशयतीति मुद्गरः । ‘गॄ निगरणेऽ । हन्यतेऽनेनेति घनः । मुद्गराद्यायुधनामानि ॥ ईड्यत इति ईली । ‘ईड स्तुतौऽ । स्वल्पकरवालसाम्यात् करवालिका । एकधारकरवालनामनी ॥ ९० ॥
मल्लि-नाथः - AK.02.08.090-91
त्सरुः खड्गादिमुष्टौ स्यात् । खड्गादीनां मुष्टिः त्सरुः स्यात् । मेखला तन्निबन्धनम् । खड्गादीनां निबन्धनं मेखला स्यात् । ‘परजुऽ । अनुक्तम्—‘प्रत्याकारस्तत्पिधानम्ऽ । खड्गादीनामाच्छादकं प्रत्याकारः स्यात् । ‘वोरऽ । फलको—चर्म । चर्मनामानि । ‘हरिगेऽ । चर्मशब्दः केषाञ्चिन्मते सामान्यवचनः । ‘खेटकं फलकं चर्मऽ इति हलायुधः (अ। मा। २। ३०५) । केषाञ्चिन्मते विशेषवचनः । ‘फलं चर्ममयं चर्म फलकं खेटकं समम्ऽ इति वैजयन्ती (पृ। १२०, श्लो। १९७) । अड्डनकटिके विशेषवचने स्याताम् । ‘कटिका स्यात् सूत्रमयी वेत्रादिकृतमण्डनम् । अड्डनम् ।ऽ इति । ‘केडेमुऽ ॥ सङ्ग्रहो मुष्टिरस्य यः । फलकस्य मुष्टिः सङ्ग्रहः स्यात् । द्रुघणे मुद्गरघनौ । आयसगदानामानि । ‘इनुपदुड्ढुऽ ॥ दारवी गदा भुसुण्डी स्यात् । ‘भुसुण्डी स्याद् दारुमयी वृत्तायःकीलसञ्चिताऽ इति वैजयन्ती (पृ। ११८, श्लो। १७०) ॥ स्यादीली करवालिका । स्वल्पकरवालनामनी । ‘करासूरिकत्तिऽ ॥ ९० ॥
[[०२.५३८]]
अक्।०२.०८.०९१च्द् भिन्दिपालः सृगस्तुल्यौ परिघः परिघातनः ॥ ९१ ॥
मूलम् - ०२.०८.०९२
अक्।०२.०८.०९२अब् द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः ।
लिङ्ग-सूरी - AK.02.08.091-92
भिन्दिपाल इति—भिन्दतः पालयतीति भिन्दिपालः । ‘पाल रक्षणेऽ । भिण्डिपाल इति वा पाठः । भिन्दिवाल इति पाठे भिन्दन्तं वलते संवृणोतीति भिन्दिवालः । ‘वल संवरणेऽ । सृज्यते रिपुं प्रति सृगः । ‘सृज विसर्गेऽ । हस्तक्षिप्यलगुडविशेषनामनी ॥ परितो हन्यतेऽनेनेति परिघः । ‘हन हिंसागत्योःऽ । परितो घातयत्यनेनेति परिघातनः । परिघाख्यायुधनामनी ॥ कुठान् वृक्षान् हन्तृत्वेन इयर्तीति कुठारः । ‘ऋ गतौऽ । स्वयं धियति छेद्यमाकाशे धारयतीति स्वधितिः । ‘धि धारणेऽ । परान् शृणातीति परशुः । ‘श्रॄ हिंसायाम्ऽ । परान् श्यति नाशयतीति परश्वधः । ‘शो तनूकरणेऽ । परशुनामानि ॥ ९१ ॥
मल्लि-नाथः - AK.02.08.091-92
भिन्दिपालः सृगस्तुल्यौ । द्वित्रचक्रखड्गनामनी । परिघः परिघातनः । परिघाख्यायुधविशेषनामनी । ‘लौडिऽ । द्वयोः कुठारः—परश्वधः । परशुनामानि । कुठारः स्त्रीपुंसलिङ्गकः । स्वधित्यादयः पुंलिङ्गाः । ‘गण्ड गोड्ढलिऽ ॥ ९१ ॥
[[०२.५३९]]
अक्।०२.०८.०९२च्द् स्याच्छस्त्री चासिपुत्री च छुरिका चासिधेनुका ॥ ९२ ॥
मूलम् - ०२.०८.०९३
अक्।०२.०८.०९३अब् वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् ।
लिङ्ग-सूरी - AK.02.08.092-93
स्यादिति—शस्यतेऽनया शस्त्री । ‘शसु हिंसायाम्ऽ । सूक्ष्मत्वात् असेः खड्गस्य पुत्री असिपुत्री । छुरति छेदयतीति छुरिका । ‘छुर छेदनेऽ । असिः धेनुरिव असिधेनुका । नीचखड्गनामानि ॥ शलत्याशुगच्छत्यन्तरिति शल्यम् । ‘शल आशुगमनेऽ । शङ्कते शत्रुरस्मादिति शङ्कुः । ‘शकि शङ्कायाम्ऽ । दारुकृततीक्ष्णाग्रशूलनामनी ॥ सर्वं प्रतिपक्षं हन्तृत्वेन लाति स्वीकरोतीति सर्वला । ‘ला आदानेऽ । शर्वलेति वा पाठः । स्तोम्यते प्रश्लाघ्यत इति तोमरम् । ताम्यतेऽनेनेति वा । ‘तमु ग्लानौऽ । अयोऽग्रस्य वेणुदण्डस्य नामनी ॥ ९२ ॥
मल्लि-नाथः - AK.02.08.092-93
स्याच्छस्त्री—असिधेनुका । छुरिकानामानि । ‘चूरकत्तिऽ । दीर्घा चेत् पत्रलता स्यात् । ‘सातिदीर्घा पत्रलताऽ इति वैजयन्ती (पृ। ११७, श्लो। १६४) ॥ वा पुंसि शल्यं शङ्कुर्ना । शल्यनामनी । क्षुद्रकुन्तनामनी इति केचित् ॥ सर्वला तोमरोऽस्त्रियाम् । शक्तिनामनी ॥ ९२ ॥
[[०२.५३९]]
अक्।०२.०८.०९३च्द् प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः ॥ ९३ ॥
मूलम् - ०२.०८.०९४
अक्।०२.०८.०९४अब् सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः ।
लिङ्ग-सूरी - AK.02.08.093-94
प्रास इति—प्रास्यते क्षिप्यते शत्रुं प्रति प्रासः । ‘असु क्षेपणेऽ । कुणत्यनेनाहत इति कुन्तः । ‘कुण शब्दोपकरणयोःऽ । स्वल्पतोमरनामनी ॥ कुणत्युपकरोतीति कोणः । पालयति ग्राहकमिति पालिः । ‘पाल रक्षणेऽ । अश्नुतेऽग्रपर्यन्तम् अश्रिः । ‘अशू व्याप्तौऽ । कोटयते रिपुं प्रपातयतीति कोटिः । ‘कुट छेदनेऽ । शस्त्रधारानामानि ॥ सर्वेण सैन्येनाभिसरणं सर्वाभिसारः । ‘सृ गतौऽ । सर्वेषां सैनिकानाम् ओघः सर्वौघः । सर्वैः सन्नह्यतेऽत्र सर्वसन्नहनम् । ‘णह बन्धनेऽ । सन्नद्धसैन्यनामानि ॥ ९३ ॥
मल्लि-नाथः - AK.02.08.093-94
प्रासस्तु कुन्तः । कुन्तायुधनामनी । ‘कोन्तमुऽ ॥ कोणस्तु—पाल्यश्रिकोटयः । धाराया नामानि । चतुरश्रः पट्टः । चतुरश्रिर्मा भूदिति नित्यसमासान्तविधिप्रयोजनम् । नो चेदश्रशब्दात् तत्सिद्धिः । ‘अणिरश्रिस्तथा कोटिरश्रः कोणश्च कथ्यतेऽ इति हलायुधः (अ। मा। ४। ४२) ॥ सर्वाभिसारः—सन्नहनार्थकः । सर्वाभिसारसर्वौघशब्दौ सर्वसेनासन्नाहवाचकौ ॥ ९३ ॥
[[०२.५४०]]
अक्।०२.०८.०९४च्द् लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः ॥ ९४ ॥
मूलम् - ०२.०८.०९५
अक्।०२.०८.०९५अब् यत् सेनयाभिगमनमरौ तदभिषेणनम् ।
लिङ्ग-सूरी - AK.02.08.094-95
लोहेति—लोहं शस्त्रम् अभिसार्यतेऽस्मिन्निति लोहाभिसारः । शस्त्रभृतां राज्ञां युद्धनिर्गमनाय यस्मिन् दिने शस्त्राणि निःसार्यन्ते तस्य नाम ॥ लोहाभिहार इति पाठे शस्त्राणां तत्समये पूजाविधिनाम ॥ सेनया सह आभिमुख्येनारिं प्रति यानम् अभिषेणनम् । रिपुमनादृत्य आभिमुख्येन अभिगमननाम ॥ ९४ ॥
मल्लि-नाथः - AK.02.08.094-95
लोहाभिसारो—नीराजनाविधिः । धृतास्त्राणां राज्ञां मङ्गलनीराजनाविधिर्लोहाभिसारः स्यात् ॥ यत्सेनयाभिगमनं—अभिषेणनम् । सेनया सममरीन् प्रति गमनमभिषेणनं स्यात् ॥ ९४ ॥
[[०२.५४०]]
अक्।०२.०८.०९५च्द् यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गमः ॥ ९५ ॥
मूलम् - ०२.०८.०९६
अक्।०२.०८.०९६अब् स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् ।
लिङ्ग-सूरी - AK.02.08.095-96
यात्रेति—यान्त्यस्यामिति यात्रा । ‘या प्रापणेऽ । व्रजनं व्रज्या । ‘व्रज गतौऽ । अभिनिर्यान्ति अभिनिर्याणम् । प्रस्थीयते प्रस्थानम् । ‘ष्ठा गतिनिवृत्तौऽ । गम्यते गमनम् । गमश्च । गम्लृ गतौ । यात्रानामानि ॥ आसरन्त्यस्मिन्निति आसारः । प्रसरन्त्यत्रेति प्रसरणम् । ‘सृ गतौऽ । सैन्यस्य सर्वतो व्याप्तिनामनी ॥ प्रचलितं चक्रं सैन्यं प्रचक्रम् । प्रचलितसैन्यनाम ॥ ९५ ॥
मल्लि-नाथः - AK.02.08.095-96
यात्रा व्रज्या—गमनं गमः । प्रस्थाननामानि ॥ स्यादासारः प्रसरणम् । प्रसरणीशब्दोऽप्यस्ति । ‘आसारस्तु प्रसरणी प्रचक्रं चलितार्थकम्ऽ इति वैजयन्ती (पृ। १२०, श्लो। १०१) । विसरणनामनी ॥ प्रचक्रं चलितार्थकम् । चलितार्थे प्रचक्रशब्दः स्यात् ।
‘रभसप्रचक्रकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः ।ऽ
इति माघः (शिशु। १३। ३) ॥ ९५ ॥
[[०२.५४१]]
अक्।०२.०८.०९६च्द् अहितान् प्रत्यभीतस्य रणे यानमभिक्रमः ॥ ९६ ॥
मूलम् - ०२.०८.०९७
अक्।०२.०८.०९७अब् वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः ।
लिङ्ग-सूरी - AK.02.08.096-97
अहितानिति—आभिमुख्येन क्रमणम् अभिक्रमः । ‘क्रमु पादविक्षेपेऽ । रिपुं प्रत्यभीतस्य गमननाम ॥ विविधास्तालाः प्रयोजनमेषां ते वैतालिकाः । राज्ञां बोधं कुर्वन्तीति बोधकराः । नृपबोधनार्थपाठकनामनी ॥ चक्रेण समूहेन चरन्तीति चाक्रिकाः । घण्टानादेन जीवन्तीति घाण्टिकाः । धनार्थं ये घण्टानादं कुर्वन्ती तेषां नामनी ॥ ९६ ॥
मल्लि-नाथः - AK.02.08.096-97
अहितान् प्रति—यानमभिक्रमः । युद्धे शुत्रूनभिमुखीकृत्याभीतस्य यानमभिक्रमः स्यात् । अनुक्तम्—‘सौप्तिकश्च प्रपातश्चावस्कन्दश्च समं त्रयम्ऽ । सुप्ताद्युपरिपातनामानि । ‘गग्गोलुऽ ॥ वैतालिका बोधकराः । वैतालिकनामनी ॥ चाक्रिका घाण्टिकार्थकाः । घाण्टिकनामनी ॥ ९६ ॥
[[०२.५४१]]
अक्।०२.०८.०९७च्द् स्युर्मागधास्तु मगधा वन्दिनः स्तुतिपाठकाः ॥ ९७ ॥
मूलम् - ०२.०८.०९८
अक्।०२.०८.०९८अब् संशप्तकास्तु समयात् सङ्ग्रामादनिवर्तिनः ।
लिङ्ग-सूरी - AK.02.08.097-98
स्युरिति—मगध्यन्ति स्तुवन्ति मागधाः । मगधाश्च । ‘मगध स्तुतौऽ । वन्दन्ते नमस्कुर्वन्ति [स्तोत्रपूर्वकमिति] वन्दिनः । ‘वदि अभिवादनस्तुत्योःऽ । स्तुतिं स्तोत्रं पठन्तीति स्तुतिपाठकाः । ‘पठ व्यक्तायां वाचिऽ । स्तुतिपाठकनामानि ॥ संशप्तं सशपथं युध्यन्ते युद्धं कुर्वन्ति संशप्तकाः । समयं कृत्वा सङ्ग्रामाद् ये न निवर्तन्ते तेषां नाम ॥ ९७ ॥
मल्लि-नाथः - AK.02.08.097-98
स्युर्मागधास्तु मगधाः । वंशक्रमागतस्तावकनामनी । वन्दिनः स्तुतिपाठकाः । स्तुतिपाठकनामनी । चत्वार एकार्थ इति केचित् । संशप्तकास्तु—सङ्ग्रामादनिवर्तिनः । अनिवर्तिसमयाद् युध्यमानाः संशप्तकाः स्युः । केषाञ्चिन्मते ‘शप आक्रोशेऽ इति धातुसिद्धत्वात् तालव्यद्वितीयः । ‘षप समवायेऽ इति धातुसिद्धत्वात् केषाञ्चिन्मते दन्त्यद्वितीयः ॥ ९७ ॥
[[०२.५४२]]
अक्।०२.०८.०९८च्द् रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः ॥ ९८ ॥
मूलम् - ०२.०८.०९९
अक्।०२.०८.०९९अब् चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले ।
लिङ्ग-सूरी - AK.02.08.098-99
रेणुरिति—रियति वायुवशात् गच्छतीति रेणुः । ‘रि गतौऽ । रेणुशब्दः द्वयोः स्त्रीपुंलिङ्गयोर्वर्तते । धूयते कम्प्यते वायुनेति धूलिः । ‘धूञ् कम्पनेऽ । अयं स्त्रीलिङ्गः । पंसति दृष्टिमिति पांसुः । ‘पसि नाशनेऽ । अयं पुंलिङ्गः । पांशुरिति वा पाठः । रज्यते वस्त्रादिकमनेनेति रजः । ‘रञ्ज रागेऽ । दिशो रञ्जयतीति वा । सान्तं नपुंसकम् । धूलिनामानि ॥ चूर्ण्यत इति चूर्णः । ‘चूर्ण प्रेरणे सङ्कोचने चऽ । क्षुद्यते सम्पिष्यते क्षोदः । ‘क्षुदिर् सम्पेषणेऽ । शर्करादिसहितरजोनामनी ॥ समुत्पिञ्ज्यते भृशं समुत्पिञ्जः । पिञ्जलश्च । ‘पिजि हिंसायाम्ऽ । भृशमाकुलस्य सेनादेर्नामनी ॥ ९८ ॥
मल्लि-नाथः - AK.02.08.098-99
रेणुर्द्वयोः—पांशुर्ना न द्वयो रजः । अकारान्तरजशब्दोऽप्यस्ति । ‘शिरोवाचि शिरोऽदन्तो रजोवाचि रजस्तथाऽ इति विद्वत्कण्ठभूषणाभिधानम् । ‘अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम्ऽ इति पुरातनप्रयोगः । धूलिनामानि ॥ चूर्णः क्षोदः । क्षुण्णमृन्नामनी । ‘पोडिऽ ॥ समुत्पिञ्ज—भृशमाकुले । अत्यन्तव्याकुलनामनी । ‘मिगलासन्दडिऽ ॥ ९८ ॥
[[०२.५४३]]
अक्।०२.०८.०९९च्द् पताका वैजयन्ती स्यात् केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥
मूलम् - ०२.०८.१००
अक्।०२.०८.१००अब् सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा ।
लिङ्ग-सूरी - AK.02.08.099-100
पताकेति—पततीति पताका । ‘पत्लृ गतौऽ । विजयतां सम्बन्धिनी वैजयन्ती । ‘जी अभिभवेऽ । केत्यते ज्ञायतेऽनेनायमसाविति केतनम् । ‘कित ज्ञानेऽ । ध्वजतीति ध्वजः । ‘ध्वज गतौऽ । ध्वजनामानि ॥ वीरा भटा आशंस्यन्तेऽत्रेति वीराशंसनम् । ‘शसि इच्छायाम्ऽ, ‘शसु हिंसायाम्ऽ, इति वा धातुः । अतिभयप्रदयुद्धभूमिकानाम ॥ ९९ ॥
मल्लि-नाथः - AK.02.08.099-100
पताका वैजयन्ती—ध्वजमस्त्रियाम् । ध्वजनामानि । पटाका नाम देवालयः । ‘पटाकावास उच्छ्रितःऽ इति उणादिवृत्तिकारः । कदली गजवैजयन्ती स्यात् । ‘कदली गजवैजयन्त्यां चऽ इति हलायुधः (अ। मा। ५। १७) ॥ अनुक्तम्—‘अस्योच्चूडावचूडौ द्वावूर्ध्वाधोमुखकूर्चकौऽ । ध्वजस्योर्ध्वमुखकूर्चक उच्चूडः स्यात् अधोमुखकूर्चकोऽवचूडः स्यात् ॥ सा वीराशंसनं—अतिभयप्रदा । अतिभीतिप्रदा समितिर्वीराशंसनं स्यात् । युद्धभूमिमात्रं चेत् पञ्चकम् ।
‘रुधिरारुणं कुसुमबाणचितं मदनस्य पञ्चकमिव ज्वलति ।ऽ
इति राघवपाण्डवीयम् (द्विसं। १२। १७) ॥ ९९ ॥
[[०२.५४३]]
अक्।०२.०८.१००च्द् अहं पूर्वमहं पूर्वमित्यहम्पूर्विका स्त्रियाम् ॥ १०० ॥
मूलम् - ०२.०८.१०१
अक्।०२.०८.१०१अब् आहोपुरुषिका दर्पाद् या स्यात् सम्भावनात्मनि ।
अक्।०२.०८.१०१च्द् अहमहमिका तु सा स्यात् परस्परं यो भवत्यहङ्कारः ॥ १०१ ॥
लिङ्ग-सूरी - AK.02.08.100-101
अहमिति—अहं पूर्वमहं पूर्वमित्यनेकोक्तिरत्रास्तीति अहम्पूर्विका । अहमन्येभ्यः पूर्वमिमां क्रियां करोमीति या धावनक्रिया तस्या नाम ॥ अहोपुरुषस्य भावः आहोपुरुषिका । दर्पादात्मनि अहं पुरुष इति या सम्भावना तस्या नाम ॥ अहं समर्थोऽहं समर्थ इति वचनमत्रास्तीति अहमहमिका । परस्परं वीराणां योऽहङ्कारः तस्य नाम ॥ १००-१०१ ॥
मल्लि-नाथः - AK.02.08.100-101
अहं पूर्वमहं—स्त्रियाम् । अहं पूर्वमहं पूर्वमित्यन्योन्यातिक्रमणम् अहम्पूर्विका स्यात् ॥ अहोपुरुषिका—सम्भावनात्मनि । दर्पाद् यदात्मगौरवं तदहोपुरुषिका स्यात् । दीर्घादिश्च स्यात् । ‘पुरमथितुराहोपुरुषिकाऽ इति शङ्कराचार्यवचनम् (सौ। ल। ७) ‘आहोपुरुषिकां पश्य मम सद्रत्नकान्तिभिःऽ इति भट्टिश्च (भ। का। ५। २७) ॥ अहमहमिका—भवत्यहङ्कारः । अन्योन्याहङ्कारकरणम् अहमहमिका स्यात् ॥ १००-१०१ ॥
[[०२.५४४]]
मूलम् - ०२.०८.१०२
अक्।०२.०८.१०२अब् द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च ।
अक्।०२.०८.१०२च्द् शक्तिः पराक्रमप्राणौ विक्रमस्त्वतिशक्तिता ॥ १०२ ॥
अक्।०२.०८.१०३अब् वीरपाणं तु तत्पानं वृत्ते भाविनि वा रणे ।
लिङ्ग-सूरी - AK.02.08.102-103
द्रविणमिति—द्रवति शत्रुं प्रति अनेनेति द्रविणम् । ‘द्रु गतिहिंसाकौटिल्येषुऽ । तरत्यापदमनेनेति तरः । ‘तॄ प्लवनतरणयोःऽ । सहतेऽनेन शत्रुमिति सहः । ‘षह मर्षणेऽ । उभे अपि सान्ते । बलत्यनेनेति बलम् । ‘बल प्राणनेऽ । शूरस्य भावः शौर्यम् । तिष्ठति शत्रुमध्येऽनेनेति स्थाम । शुष्यति रिपुरनेनेति शुष्मम् । ‘शुष शोषणेऽ । उभे नान्ते । शक्नोति शत्रून् हन्तुमनयेति शक्तिः । ‘शक्लृ शक्तौऽ । परानाक्रमन्तेऽनेनेति पराक्रमः । ‘क्रमु पादविक्षेपेऽ । प्राणिति जीवत्यनेनेति प्राणः । ‘अन प्राणनेऽ । सामर्थ्यनामानि ॥ विशेषेण क्रमतेऽनेन विक्रमः । अतिशक्तिताया नाम ॥ वीराणां पानं वीरपाणम् । युद्धावसरे युद्धान्ते वा वीरैः कृतमद्यपाननाम ॥ १०२ ॥
मल्लि-नाथः - AK.02.08.102-103
द्रविणं तरः—पराक्रमः प्राणः । शक्तिनामानि ॥ विक्रमस्त्वतिशक्तिता । अतिशक्तिनाम ॥ वीरपानं तु—वा रणे । युद्धान्ते युद्धादौ वा यद्गोष्ठीपानं तद्वीरपानं स्यात् । ‘वा भावकरणयोःऽ (८। ४। १०) इति पाक्षिकणत्वाद् वीरपाणमपि स्यात् । अनुक्तम्—‘वीराणां यद्रणे नृत्तं तस्मिन् वीरजयन्तिकाऽ । रणे वीराणां नृत्तं वीरजयन्तिका स्यात् ॥ १०२ ॥
[[०२.५४५]]
अक्।०२.०८.१०३च्द् युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥
मूलम् - ०२.०८.१०४
अक्।०२.०८.१०४अब् मृधमास्कन्दनं सङ्ख्यं समीकं साम्परायिकम् ।
अक्।०२.०८.१०४च्द् अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥
अक्।०२.०८.१०५अब् सम्प्रहाराभिसम्पातकलिसंस्फोटसंयुगाः ।
अक्।०२.०८.१०५च्द् अभ्यामर्दसमाघातसङ्ग्रामाभ्यागमाहवाः ॥ १०५ ॥
अक्।०२.०८.१०६अब् समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ।
लिङ्ग-सूरी - AK.02.08.103-6
युद्धमिति—युध्यत इति युद्धम् । ‘युध सम्प्रहारेऽ । आभिमुख्येन योधनं आयोधनम् । मत्सरादिना जन्यत इति जन्यम् । ‘जनी प्रादुर्भावेऽ । प्रधनन्ति घ्नन्त्यत्रेति प्रधनम् । ‘धन धान्येऽ । प्रकर्षेण विदारणमत्रास्तीति प्रविदारणम् । म्रियन्तेऽस्मिन्निति मृधम् । ‘मृङ् प्राणत्यागेऽ । आस्कन्द्यत इत्यास्कन्दनम् । ‘स्कन्दिर् गतिशोषणयोःऽ । सङ्ख्यायन्ते षण्डादयः सुभटैरिति सङ्ख्यम् । ‘चक्षिङ् व्यक्तायां वाचिऽ । उपसर्गवशात् अयं धातुः वर्जनार्थः । समीयते सङ्गच्छतेऽत्रेति समाकम् । ‘इण् गतौऽ । सम्परायः शत्रुमरणमत्र प्रयोजनं साम्परायिकम् । मरेण सह वर्तत इति समरः । समियर्ति शत्रुणा सङ्गच्छत इति वा । ‘ऋ गतौऽ । विभज्य न नीयन्तेऽत्रेति अनीकः । रणन्ति भेर्यादयोऽत्रेति रणः । ‘रण शब्देऽ । कलं विकलं हन्त्यत्रेति कलहः । ‘हन हिंसागत्योऽ । विगृह्णन्ति विग्रहः । सम्प्रहरन्त्यन्योन्यमत्र सम्प्रहारः । अभि सम्पतन्ति वीरा अत्रेति अभिसम्पातः । ‘पत्लृ गतौऽ । कल्यन्ते बाणा अत्रेति कलिः । ‘कल किल क्षेपेऽ । संस्फुटति मस्तकादिरत्रेति संस्फोटः । ‘स्फुटिर् विशरणेऽ । सङ्गता रथयुगा अत्रेति संयुगः । अभ्यामृद्गन्ति अन्योन्यमत्रेति अभ्यामर्दः । ‘मृद क्षोदेऽ । समाघ्नन्त्यत्रेति समाघातः । ‘हन हिंसागत्योःऽ । सङ्ग्रामयन्ति परस्परं प्रहरन्त्यत्रेति सङ्ग्रामः । ‘सङ्ग्राम युद्धेऽ । आहूयन्ते वीरा वीरैरत्रेति आहवः । ‘ह्वेञ् स्पर्धायां शब्दे चऽ । समुदायन्ते सङ्कुलयुद्धदशायां मिलन्त्यत्रेति समुदायः । ‘अय पय गतौऽ । संयतन्ते नितान्तं प्रयत्नं कुर्वन्तीति संयत् । ‘यती प्रयत्नेऽ । समीयन्ते सङ्गच्छन्तेऽत्रेति समितिः । ‘इण् गतौऽ । समिच्च । अजन्ति क्षिपन्ति शस्त्राण्यत्रेति आजिः । ‘अज गतिक्षेपणयोःऽ । युध्यन्ते परस्परमिति युत् । ‘युध सम्प्रहारेऽ । युद्धनामानि ॥ १०३-५ ॥
मल्लि-नाथः - AK.02.08.103-6
युद्धमायोधनं जन्यं—आजिसमिद्युधः । युद्धनामानि ॥ १०३-५ ॥
[[०२.५४६]]
अक्।०२.०८.१०६च्द् नियुद्धं बाहुयुद्धं स्यात् तुमुलं रणसङ्कुले ॥ १०६ ॥
मूलम् - ०२.०८.१०७
अक्।०२.०८.१०७अब् क्ष्वेडा तु सिंहनादः स्यात् करिणां घटना घटा ।
लिङ्ग-सूरी - AK.02.08.106-7
नियुद्धमिति—शस्त्रादिकमनादेयमिति नियतं युद्धं नियुद्धम् । बाहुयुद्धनाम ॥ ताम्यन्ति सैनिका अत्रेति तुमुलम् । ‘तमु ग्लानौऽ । रणसङ्कुलनाम ॥ क्ष्वेड्यत इति क्ष्वेडा । ‘क्ष्वेडृ अव्यक्ते शब्देऽ । सिंहानां नाद इव नादः सिंहनादः । योधानां सिंहनादनाम ॥ घाटयन्ति करिणोऽत्रेति घटा । ‘घट सङ्घातेऽ । गजसमूहनाम ॥ १०६ ॥
मल्लि-नाथः - AK.02.08.106-7
नियुद्धं बाहुयुद्धं स्यात् । बाहुयुद्धं नियुद्धं स्यात् । तुमुलं रणसङ्कुले । सङ्कीर्णयुद्धं तुमुलं स्यात् । ‘एडबोव्बऽ ॥ अनुक्तम्—‘वण्डालः शूरयोर्युद्धम्ऽ । शूरयोरुभयोर्युद्धं वण्डालः स्यात् । ‘वैरारोहो महारणःऽ । महायुद्धं वैरारोहः स्यात् । क्ष्वेडा तु सिंहनादः स्यात् । कुञ्जरादिभयार्थकवीरारावनाम ॥ करिणां घटना घटा । गजानां सङ्घटना घटा स्यात् ॥ १०६ ॥
[[०२.५४६]]
अक्।०२.०८.१०७च्द् क्रन्दनं योधसंरावो बृंहितं करिगर्जितम् ॥ १०७ ॥
मूलम् - ०२.०८.१०८
अक्।०२.०८.१०८अब् विस्फारो धनुषः स्वानः पटहाडम्बरौ समौ ।
लिङ्ग-सूरी - AK.02.08.107-8
क्रन्दनमिति—क्रन्दन्ति आक्रोशन्त्यत्रेति क्रन्दनम् । ‘क्रदि आह्वाने रोदने चऽ । योद्धृसंरावनाम ॥ बृंहन्ति गजा अत्रेति बृंहितम् । ‘बृहि शब्देऽ । करिगर्जितनाम ॥ विस्फरति शत्रुहृदयमनेनेति विस्फारः । ‘स्फर स्फुरणेऽ । धनुः स्वाननाम ॥ वाद्यमुखचर्मपटो हन्यतेऽत्रेति पटहः । ‘हन हिंसागत्योःऽ । आडम्बयति शत्रुहृदयमिति आडम्बरः । ‘डब डिबि क्षेपेऽ । युद्धपटहस्य नामनी ॥ १०७ ॥
मल्लि-नाथः - AK.02.08.107-8
क्रन्दनं योधसंरावः । भटानां संरावः क्रन्दनं स्यात् । बृंहितं करिगर्जितम् । गजानां गर्जितं बृंहितं स्यात् । विस्फारो धनुषः स्वानः । चापटङ्कारो विस्फारः स्यात् । ‘स्फुरतिस्फुलत्योर्निर्निविभ्यःऽ (८। ३। ७६) इति वा षत्वम् ॥ पटहाडम्बरौ समौ । युद्धवाद्यध्वनिनामनी । ‘पटहाडम्बरौ युद्धे मङ्गले प्रियवादिकाऽ इति वैजयन्ती (पृ। १४७, श्लो। १३८) युद्धारम्भवाद्यध्वनिरर्धतूरः स्यात् । ‘अर्धतूरो रणोद्यमेऽ इति वैजयन्ती (पृ। १४७, श्लो। १३९) ॥ १०७ ॥
[[०२.५४७]]
अक्।०२.०८.१०८च्द् प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् ॥ १०८ ॥
मूलम् - ०२.०८.१०९
अक्।०२.०८.१०९अब् अजन्यं क्लीब उत्पात उपसर्गः समं त्रयम् ।
लिङ्ग-सूरी - AK.02.08.108-9
प्रसभमिति—प्रगता सभा युक्तायुक्तचिन्ता अत्रेति प्रसभम् । बलात् करोतीति बलात्कारः । हठतीति हठः । ‘हठ प्लुतिशठत्वयोःऽ । बलात्कारनामानि ॥ स्खलनं स्खलितम् । ‘स्खल सञ्चलनेऽ । छ्यति छिनत्ति कार्यमिति छलम् । ‘छो छेदनेऽ । युद्धधर्मविच्छेदननामनी ॥ जन्यत इति जन्यम् । न जन्यम् अजन्यम् । न जने साधु इति वा । उत्पतति अकस्मादायातीति उत्पातः । उपसृज्यते दैवेनेति उपसर्गः । ‘सृज विसर्गेऽ । उत्पातनामानि ॥ १०८ ॥
मल्लि-नाथः - AK.02.08.108-9
प्रसभस्तु—हठः । अत्यन्तनिर्बन्धनामानि । ‘क्लीबे तु प्रसभं हठःऽ इति गो(बो)पालितः । ‘हृतोऽपि चित्ते प्रसभं सुभाषितैःऽ इत्यलिङ्गे राघवपाण्डवीयम् (द्विसं। १। ६) ॥ अथ स्खलितं छलम् । युद्धमर्यादाविच्छेदननामनी ॥ अजन्यं—समं त्रयम् । प्राणिनां शुभाशुभसूचकभूतविकारनामानि ॥ १०८ ॥
[[०२.५४८]]
अक्।०२.०८.१०९च्द् मूर्च्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम् ॥ १०९ ॥
मूलम् - ०२.०८.११०
अक्।०२.०८.११०अब् अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः ।
लिङ्ग-सूरी - AK.02.08.109-10
मूर्च्छेति—मूर्च्छत्यनया मूर्च्छा । ‘मुर्च्छा मोहसमुच्छ्राययोःऽ । कशति तनूकरोतीन्द्रियप्रचारमिति कश्मलम् । ‘कश गतिशातनयोःऽ । मुह्यत्यनेनेति मोहः । ‘मुह वैचित्येऽ । मूर्च्छानामानि ॥ अवमृद्यत इति अवमर्दः । ‘मृद क्षोदेऽ । पीड्यत इति पीडनम् । ‘पीड अवगाहनेऽ । परपीडानामानि ॥ अभ्यवस्कन्द्यतेऽनेनेति अभ्यवस्कन्दनम् । ‘स्कन्दिर् गतिशोषणयोःऽ । अभ्यासाद्यतेऽनेनेति अभ्यासादनम् । ‘षद्लृ विशरणगत्यवसादनेषुऽ । बलादाक्रमणनामनी ॥ विशेषेण जयः विजयः । जयतीति जयः । ‘जि जयेऽ । विजयनामनी ॥ १०९ ॥
मल्लि-नाथः - AK.02.08.109-10
मूर्च्छा तु कश्मलं मोहोऽपि । मूर्च्छानामानि ॥ अवमर्दस्तु पीडनम् । पीडननाम ॥ अभ्यवस्कन्दनं त्वभ्यासादनम् । शत्रुकृतपुरादिनिर्बन्धननामनी । ‘मुट्टिडेऽ ॥ विजयो जयः । जयनामनी ॥ १०९ ॥
[[०२.५४८]]
अक्।०२.०८.११०च्द् वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ॥
मूलम् - ०२.०८.१११
अक्।०२.०८.१११अब् प्रद्रावोद्द्रावसन्द्रावसन्दावा विद्रवो द्रवः ।
अक्।०२.०८.१११च्द् अपक्रमोऽपयानं च रणे भङ्गः पराजयः ॥ १११ ॥
लिङ्ग-सूरी - AK.02.08.110-11
वैरशुद्धिरिति—वैरस्य शुद्धिः वैरशुद्धिः । प्रतिकरणं प्रतीकारः । वैरं निर्यास्यतेऽनेनेति वैरनिर्यातनम् । ‘या प्रापणेऽ । प्रत्यपकारनामानि ॥ प्रद्रवणं प्रद्रावः । उद्द्रावः । सन्द्रावः । सन्दावः । विद्रवः । द्रवश्च । ‘द्रु गतौऽ, ‘दु गतौ चऽ । अपक्रमणम् अपगमनम् अपक्रमः । अपयात्यनेनेति अपयानम् । ‘क्रमु पादविक्षेपेऽ । ‘या प्रापणेऽ । रणे पलायननामानि ॥ पराजयतेऽनेनेति पराजयः । ‘जि अभिभवेऽ । रणे शत्रुकृतभङ्गनाम ॥ ११०-११ ॥
मल्लि-नाथः - AK.02.08.110-11
वैरशुद्धिः—वैरनिर्यातनं च सा । वैरनिर्यापणनामानि ॥ ‘पगसाधिञ्चुटऽ ॥ प्रद्रावोद्द्राव—अपक्रमोऽपयानं च । रणात्पलायननामानि । विप्रयाणं पलायनम् । इत्येते द्वे च ॥ रणे भङ्गः पराजयः । युद्धे यो भङ्गः स पराजयः स्यात् ॥ ११०-११ ॥
[[०२.५४९]]
मूलम् - ०२.०८.११२
अक्।०२.०८.११२अब् पराजितपराभूतौ त्रिषु नष्टतिरोहितौ ।
अक्।०२.०८.११२च्द् प्रमापणं निबर्हणं निकारणं निशारणम् ॥ ११२ ॥
अक्।०२.०८.११३अब् प्रवासनं परासनं निषूदनं निहिंसनम् ।
अक्।०२.०८.११३च्द् निर्वासनं सञ्ज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥
अक्।०२.०८.११४अब् निस्तर्हणं निहननं क्षणनं परिवर्जनम् ।
अक्।०२.०८.११४च्द् निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥
अक्।०२.०८.११५अब् उद्वासनप्रमथनक्रथनोज्जासनानि च ।
अक्।०२.०८.११५च्द् आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥
लिङ्ग-सूरी - AK.02.08.112-15
पराजित इति—पराजयं प्राप्तः पराजितः । पराभूयते शत्रुणा तिरस्क्रियते स्म पराभूतः । शत्रुणा रणे भग्नस्य नामनी ॥ नश्यते स्म, अदर्शनं प्राप्तो नष्टः । ‘णश अदर्शनेऽ । तिरोधीयतेऽन्तर्धीयते स्म तिरोहितः । ‘डुधाञ् धारणपोषणयोःऽ । तिरोऽदर्शनं हितः गतो वा । ‘हि गतौऽ । रणात् यत्र कुत्र वा पलायितस्य नामनी ॥ प्रमीयते प्रमापणम् । ‘मीञ् हिंसायाम्ऽ । नितरां बर्हणं निबर्हणम् । ‘बर्ह परिभाषणहिंसादानेषुऽ । नितरां क्रियत इति निकारणम् । ‘कृञ् हिंसायाम्ऽ । नितरां शीर्यत इति निशारणम् । ‘श हिंसायाम्ऽ । प्रवास्यते प्रवासनम् । उद्वास्यते उद्वासनम् । ‘वस स्नेहमोहच्छेदापहरणेषुऽ । परास्यते परासनम् । ‘असु क्षेपणेऽ । निषूद्यते निषूदनम् । ‘षूद क्षरणे हिंसायां चऽ । नितरां हिंस्यते निहिंसनम् । ‘हिसि हिंसायाम्ऽ । निर्वाप्यते निर्वापणम् । ‘ओवै शोषणेऽ । सञ्ज्ञायते सञ्ज्ञपनम् । ‘ज्ञा अवबोधनेऽ । निर्ग्रथ्यते निर्ग्रन्थनम् । ‘ग्रथि कौटिल्येऽ । अपास्यतेऽपासनम् । ‘असु क्षेपणेऽ । निस्तृह्यते निस्तर्हणम् । ‘तृहि हिंसायाम्ऽ । नितरां हन्यते निहननम् । ‘हन हिंसागत्योःऽ । क्षण्यते क्षणनम् । ‘क्षणु हिंसायाम्ऽ । परिवर्ज्यते परिवर्जनम् । ‘वृजी वर्जनेऽ । प्रवासनशब्दवत् निर्वासनशब्दः । विशस्यते विशसनम् । ‘शसु हिंसायाम्ऽ । मार्यते मारणम् । ‘मृङ् प्राणत्यागेऽ । प्रतिहन्यते प्रतिघातनम् । ‘हन हिंसागत्योःऽ । उद्वास्यते उद्वासनम् । ‘वस स्नेहमोहच्छेदापहरणेषुऽ । प्रमथ्यते प्रमथनम् । ‘मथे हिंसायाम्ऽ । क्रथ्यते क्रथनम् । ‘क्रथ हिंसायाम्ऽ । उज्जास्यते उज्जासनम् । ‘जसु हिंसायाम्ऽ । आलभ्यते आलम्भः । ‘डुलभष् प्राप्तौऽ । पिञ्जनं पिञ्जः । ‘पिजि हिंसायाम्ऽ । विशरणं विशरः । ‘शृ हिंसायाम्ऽ । हननं घातः । उन्मथनम् उन्माथः । ‘मथे हिंसायाम्ऽ । हन्यते वधः । ‘हन हिंसागत्योःऽ । अत्र केचन धातवः उपसर्गवशात् हिंसार्थाः । वधनामानि ॥ ११२-१५ ॥
मल्लि-नाथः - AK.02.08.112-15
पराजितपराभूतौ । पराजयवतो नामनी ॥ त्रिषु नष्टतिरोहितौ । विलीनपुरुषनामनी । प्रमापणं निबर्हणं—उन्माथवधा अपि । मारणनामानि ॥ ११२-१५ ॥
[[०२.५५०]]
मूलम् - ०२.०८.११६
अक्।०२.०८.११६अब् स्यात् पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ।
अक्।०२.०८.११६च्द् अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥
लिङ्ग-सूरी - AK.02.08.116
स्यादिति—पञ्चानां धातूनां भावः पञ्चता । कालस्य धर्मः कालधर्मः । दिष्टस्य प्रारब्धकर्मणोऽन्तो दिष्टान्तः । प्रलीयतेऽत्रेति प्रलयः । ‘ली श्लेषणेऽ । अत्येति गच्छतीति अत्ययः । ‘इण् गतौऽ । अन्त्यते बध्यते अन्तः । ‘अति बन्धनेऽ । नश्यति नाशः । ‘णश अदर्शनेऽ । मरणं मृत्युः । म्रियतेऽनेनेति मरणम् । ‘मृङ् प्राणत्यागेऽ । निवृत्तो धनसम्बन्धोऽत्र निधनम् । प्राणत्यागस्य नामानि ॥ ११६ ॥
मल्लि-नाथः - AK.02.08.116
स्यात् पञ्चता—निधनोऽस्त्रियाम् । मरणनामानि । ‘हिंसा संस्था दीर्घनिद्रा भूमिलाभो निमीलनम्ऽ । एतानि पञ्च च ॥ ११६ ॥
[[०२.५५०]]
मूलम् - ०२.०८.११७
अक्।०२.०८.११७अब् परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः ।
अक्।०२.०८.११७च्द् मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥
अक्।०२.०८.११८अब् कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेबरम् ।
लिङ्ग-सूरी - AK.02.08.117-18
परासुरिति—परागता असवः प्राणा यस्य परासुः । प्राप्तं पञ्चत्वं येन प्राप्तपञ्चत्वः । परां दशामितः परेतः । ‘इण् गतौऽ । प्रकृष्टां दशामितः प्रेतः । सन्तिष्ठते स्म संस्थितः । ‘ष्ठा गतिनिवृत्तौऽ । म्रियते स्म मृतः । ‘मृङ् प्राणत्यागेऽ । प्रमीयते स्म प्रमीतः । ‘मीङ् हिंसायाम्ऽ । मृतस्य नामानि ॥ एते पूर्वोक्ताः परास्वादयः प्रमीतान्ताः त्रिषु लिङ्गेषु वर्तन्ते ॥ चीयन्ते एकत्र काष्ठानि पुञ्जीक्रियन्ते चिता । चित्या । चितिश्च । ‘चिञ् चयनेऽ । प्रेतदहनार्थं बहिरुपकल्पितस्य काष्ठचयस्य नामानि ॥ कं शिरोऽस्य बध्यतेऽत्रेति कबन्धः । ‘बन्ध बन्धनेऽ । नृत्तक्रियावतः शिरोविहीनस्य शरीरस्य नाम ॥ ११७ ॥
मल्लि-नाथः - AK.02.08.117-18
परासुप्राप्तपञ्चत्व—मृतप्रमीतौ त्रिष्वेते । मृतनामानि । चिता चित्या चितिः स्त्रियाम् । चितानामानि । अनुक्तम्—‘कटः शवरथः खाटिःऽ । चित्युपरिकटाद्यास्तरणनामानि ॥ कबन्धोऽस्त्री—अपमूर्धकलेबरम् । प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्ध इति क्रियायुक्तमपगतशिरः शरीरं कबन्धः स्यात् । अपगतशिरः शरीरमात्रमपि कबन्धः स्यात् । ‘रुण्डोऽशिराः कबन्धोऽस्त्रीऽ इति वैजयन्ती (पृ। १२२, श्लो। २१६) ॥ ११७ ॥
[[०२.५५१]]
अक्।०२.०८.११८च्द् श्मशानं स्यात् पितृवनं कुणपः शवमस्त्रियाम् ॥ ११८ ॥
मूलम् - ०२.०८.११९
अक्।०२.०८.११९अब् प्रग्रहोपग्रहौ बन्द्यां कारा स्याद् बन्धनालये ।
लिङ्ग-सूरी - AK.02.08.118-19
श्मशानमिति—शवानां शयनं मशानम् । पृषोदरादिः । पितॄन् प्रेतान् वनति सम्भजतीति पितृवनम् । ‘वन षण सम्भक्तौऽ । प्रेतदाहप्रदेशनामनी ॥ कुणं शब्दम् आश्रयत्वेन पातीति कुणपः । ‘पा रक्षणेऽ । शवति यात्यस्मात् जीव इति शवम् । ‘शव गतौऽ । मृतशरीरनामनी ॥ प्रगृह्यते बलादिना गृध्यते प्रग्रहः । उपग्रहश्च । ‘ग्रह उपादानेऽ । बदति कारागृहे तिष्ठतीति बन्दी । ‘बद स्थैर्येऽ । कारागृहस्थनामानि ॥ कीर्यते क्षिप्यते राजपुत्रादिरत्रेति कारा । ‘कॄ विक्षेपेऽ । बन्धनालयनाम ॥ ११८ ॥
मल्लि-नाथः - AK.02.08.118-19
श्मशानं स्यात् पितृवनम् । प्रेतवासस्थलनामनी । शवानां शयनं श्मशानमिति व्युत्पत्त्या श्मशानशब्दो द्वितालव्यः । ‘वनं पुरगामिश्रका ॥ । ऽ (८। ४। ४) इत्यादिसूत्रनियमेन पितृवनशब्दस्तवर्गान्त्यः । कुणपः शवमस्त्रियाम् । मृतशरीरनामनी ॥ प्रग्रहोपग्रहौ बन्द्याम् । बन्दिनामानि । ‘चेरऽ । कारा स्याद्बन्धनालये । बन्दिगृहनाम । कारा सिंहावलोकनन्यायेन बन्धननामापि स्यात् ।
‘कारा बन्धनगेहे स्यात् कारा बन्धनमुच्यते ।ऽ
इति शाश्वतः (पृ। २४, श्लो। २७२) ॥ ११८ ॥
[[०२.५५२]]
अक्।०२.०८.११९च्द् पुंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम् ॥ ११९ ॥
मूलम् - ०२.०८.१२०
अक्।०२.०८.१२०अब् आयुर्जीवितकालो ना जीवातुर्जीवनौषधम् ।
इति क्षत्रियवर्गः
लिङ्ग-सूरी - AK.02.08.119
पुंसीति—अस्यन्ते शरीरादाविति असवः । ‘असु क्षेपणेऽ । प्राणिति लोकोऽमीभिरिति प्राणाः । ‘अन प्राणनेऽ । असुप्राणशब्दौ पुंसि भूम्नि च वर्तेते । प्राणनामनी ॥ जीवत्यनेनेति जीवः । ‘जीव प्राणधारणेऽ । असूनां धारणम् असुधारणम् । प्राणधारणनाम ॥ एतीत्यायुः । ‘इण् गतौऽ । सान्तोऽयं नपुंसकलिङ्गः । जीवितकालनाम ॥ जीवत्यनेनेति जीवातुः । जीवनस्य औषधम् । जीवनौषधनाम ॥ ११९ ॥
इति श्रीलिङ्गयसूरिविरचितायाम् अमरकोशपदविवृतौ क्षत्रियवर्गः
मल्लि-नाथः - AK.02.08.119
पुंसि भूम्नि—प्राणाश्चैवम् । प्राणनामनी । ‘धारणमुऽ । भूमवचनं कैश्चिदनङ्गीकृतम् । ‘जनादसोः समानतःऽ । इति नलोदयः (२। ३६) ‘निध्नुः (?) प्रियं प्राणमिवाभिमानम्ऽ इति चन्द्रकाव्यम् । ‘हृषीकमिन्द्रियं प्राणः प्राणा ना भूम्नि चासवःऽ । ‘प्राणस्तु प्रणवे जीवे जीविते परमात्मनिऽ इति वैजयन्ती (पृ। ९९, श्लो। २०३; पृ। २१७, श्लो। ३८) ॥ जीवोऽसुधारणं—जीवितकालः । प्राणधारणनामानि । ना जीवातुर्जीवनौषधम् । जीवनौषधं जीवातुः स्यात् ॥ ११९ ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचितेऽमरपदपारिजाते क्षत्रियवर्गः
[[०२.५५३]]