मूलम् - ०२.०७.००१
(०२.०७.००१अब्) सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।
(०२.०७.००१च्द्) वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥
लिङ्ग-सूरी - AK.02.07.001
इदानीं सर्ववर्णानां सङ्कीर्णजातीनां सामान्यसन्ततेर्नामानि प्रथममाह—सन्ततिरिति । सन्तन्यतेऽनया सन्ततिः । ‘तनु विस्तारेऽ । गूयते शब्द्यते गार्ग्यो वसिष्ठ इति गोत्रम् । ‘गुङ् अव्यक्ते शब्देऽ । जन्यते उत्तरोत्तरमनेनेति जननम् । ‘जनी प्रादुर्भावेऽ । कुल्यतेऽनेन बन्धुवर्ग इति कुलम् । ‘कुल संस्त्याने बन्धुषु चऽ । अभिजन्यतेऽनेनेति अभिजनः । अन्वीयते सम्बध्यतेऽनेनेति अन्वयः । ‘इण् गतौऽ । वन्यते याच्यते वंशः । ‘वनु याचनेऽ । अन्वीयते पूर्वः परश्चेति अन्ववायः । ‘इण् गतौऽ । सन्तन्यते सन्तानः । ‘तनु विस्तारेऽ । वंशनामानि ॥ वर्ण्यन्ते कपिलारुणपीतकृष्णवर्णैर्निरूप्यन्त इति वर्णाः । ‘वर्ण स्तुतौऽ । ब्राह्मणक्षत्रियवैश्यशूद्राणां सामान्यनाम ॥ १ ॥
मल्लि-नाथः - AK.02.07.001
कलकण्ठकण्ठनिनदप्रमदाभि-
र्मुदितान्तरङ्गमुरगेन्द्रविभूषम् ।
भवभीतिभञ्जनमुमारुचिराङ्गं
कलधौतशैलनिलयं कलयामि ॥
सन्ततिः—सन्तानः । सन्ततिनामानि ॥ वर्णाः—ब्राह्मणादयः । ब्राह्मणक्षत्रियवैश्यशूद्राश्चेत्येते चत्वारो वर्णशब्दवाच्याः ॥ १ ॥
[[०२.४५१]]
मूलम् - ०२.०७.००२
(०२.०७.००२अब्) विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ।
(०२.०७.००२च्द्) राजबीजी राजवंश्यो बीज्यस्तु कुलसम्भवः ॥ २ ॥
लिङ्ग-सूरी - AK.02.07.002
विप्रेति—चत्वारो वर्णा एव चातुर्वर्ण्यम् । विप्रक्षत्रियविट्शूद्राणां चतुर्विधानां नाम ॥ राज्ञो बीजमस्येति राजबीजी । राजवंशे भवो राजवंश्यः । राजभूतमातापितृजन्यनामनी ॥ बीजे कुले भवो बीज्यः । कुले सम्भवोऽस्य कुलसम्भवः । सत्कुलसम्भवनाम ॥ २ ॥
मल्लि-नाथः - AK.02.07.002
विप्रक्षत्रिय—स्मृतम् । त एव चत्वारो वर्णाश्चातुर्वर्ण्यमित्युच्यते ।
‘ब्रह्मक्षत्रियविट्शूद्रा इति वर्णाश्चतुष्टये ।
उपवर्णास्तु सङ्कीर्णा विवर्णास्त्वन्त्यजातयः ॥ऽ
इति वैजयन्ती (पृ। ७२, श्लो। २) ॥ राजबीजी राजवंश्यः । राज्ञां कुले जातो राजबीजी स्यात् ॥ बीज्यस्तु कुलसम्भवः । कुले उत्पन्नो बीज्यः स्यात् । सूर्यबीज्यो रामः । सोमबीज्यो युधिष्ठिरः ॥ २ ॥
[[०२.४५२]]
मूलम् - ०२.०७.००३
(०२.०७.००३अब्) माहाकुलकुलीनार्यसभ्यसज्जनसाधवः ।
(०२.०७.००३च्द्) ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥
(०२.०७.००४अब्) आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेवबाडवाः ।
(०२.०७.००४च्द्) विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्युतः ॥ ४ ॥
लिङ्ग-सूरी - AK.02.07.003-4
माहाकुलेति—महाकुलस्य सूर्यवंशादेरपत्यं माहाकुलः । कुलस्यापत्यं कुलीनः । निषिद्धकर्मकर्तृभ्य आराद् दूरात् यातीति आर्यः । सभायां साधुः सभ्यः । संश्चासौ जनश्चेति सज्जनः । साध्नोति धर्ममिति साधुः । ‘साध संसिद्धौऽ । सद्वंशजनामानि ॥ ब्रह्म वेदः, तदध्ययननियमं चरतीति ब्रह्मचारी । गृहमस्यास्तीति गृही । प्रतिष्ठतेऽस्मिन्निति प्रस्थः । वने प्रस्थो वनप्रस्थः । तत्र भवः वानप्रस्थः । भिक्षते याचते भिक्षुः । ‘भिक्ष भिक्षायाम्ऽ । अत्र चतुष्टये चतुर्णां समूहे प्रत्येकमाश्रमशब्दो वर्तते ॥ आश्राम्यन्त्यस्मिन्निति आश्रमः । ‘श्रभु तपसि खेदे चऽ । द्वे जाती जन्मनी यस्य मातृगायत्रीरूपेणेति द्विजातिः । अग्रे क्षत्रियादिभ्यो जन्म यस्य अग्रजन्मा । भुवि दीव्यते ब्रह्मवर्चसा भूदेवः । ‘दिवु क्रीडादौऽ । बाडव और्वोऽग्निरिव प्रायेणातृप्त इति बाडवः । विशेषेण पापेभ्य आत्मानं परं च पातीति विप्रः । ‘पा रक्षणेऽ । ब्रह्मणोऽपत्यं ब्राह्मणः । ब्रह्मणि परब्रह्मणि निष्ठावत्त्वाद्वा । ब्राह्मणनामानि ॥ असौ ब्राह्मणः यागादिभिर्युतश्चेत् षट्कर्मेत्युच्यते । यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहलक्षणानि षट्कर्माणि । तानि अस्य सन्तीति षट्कर्मा । यागादिषट्कर्मयुतब्राह्मणनाम ॥ ३-४ ॥
मल्लि-नाथः - AK.02.07.003-4
महाकुल—साधवः । एतानि सत्कुलप्रसूतनामानि । अनुक्तम्—‘दौष्कुलेयो दुष्कुलीनःऽ । असत्कुलप्रसूतनामनी ॥ ब्रह्मचारी—आश्रमोऽस्त्री । मुञ्जमेखलादियुतो वेदाध्यायी ब्रह्मचर्यव्रतस्थितः ब्रह्मचारी । धर्मार्थकामस्थितः पञ्चमहायज्ञकारी गृहस्थः स्यात् । भूमिशय्याजिनधारणवनवासवन्याहारादिलक्षणो वानप्रस्थः स्यात् । गृहीतकाषायवस्त्रदण्डो भिक्षाशी सर्वभूतसमो ध्यानपरो भिक्षुः स्यात् । एते चत्वार आश्रमशब्दवाच्याः ॥ द्विजात्यग्रजन्म—ब्राह्मणः । ब्राह्मणनामानि । ‘एतशा मुखजो मैत्रः सूत्रकण्ठश्च माहनः ऽ । इत्येतानि पञ्च च ॥ असौ षट्कर्मा—युतः । यजनादिषट्कर्मयुक्तो ब्राह्मणः षट्कर्मा स्यात् ।
‘यजनं याजनं दानं विशिष्टश्च प्रतिग्रहः ।
अध्यापनं चाध्ययनं विप्रकर्म प्रकीर्तितम् ॥
स्नानं सन्ध्याजपो होमो देवतानां च पूजनम् ।
आतिथ्यं वैश्वदेवं च षट् कर्माणि दिने दिने ।
जातिमात्रोपजीवी तु विप्रः स्याद् ब्राह्मणब्रुवः स्यात् ॥ ३-४ ॥
[[०२.४५३]]
मूलम् - ०२.०७.००४
(०२.०७.००४अब्) विद्वान् विपश्चिद् दोषज्ञः सन् सुधीः कोविदो बुधः ।
(०२.०७.००४च्द्) धीरो मनीषी ज्ञः प्राज्ञः सङ्ख्यावान् पण्डितः कविः ॥ ५ ॥
(०२.०७.००५अब्) धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।
(०२.०७.००५च्द्) दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥
लिङ्ग-सूरी - AK.02.07.005-6
विद्वानिति—वेत्ति सर्वमिति विद्वान् । ‘विद ज्ञानेऽ । सान्तः । विशेषेण पश्यन् चेततीति विपश्चित् । ‘चिती सञ्ज्ञानेऽ । दोषं पापादि जानातीति दोषज्ञः । ‘ज्ञा अवबोधनेऽ । पापं स्यतीति सन् । ‘षोऽन्तकर्मणिऽ । शोभना धीर्यस्य सुधीः । प्रशस्तम् ओकं स्थानं वेत्तीति केविदः । ‘विद ज्ञानेऽ । अत्र प्रथमाक्षरलोपः । सर्वं बुध्यतीति बुधः । ‘बुध अवगमनेऽ । प्रशस्तां धियं रातीति धीरः । ‘रा दाने आदाने चऽ । विशिष्टा मनीषा धीरस्त्यस्य मनीषी । जानातीति ज्ञः । प्रकर्षेण जानातीति प्रज्ञः, प्रज्ञ एव प्राज्ञः । ‘ज्ञा अवबोधनेऽ । सङ्ख्या विचारणास्यास्तीति सङ्ख्यावान् । पण्डते शीघ्रं जानातीति पण्डितः । ‘पडि गतौऽ । सर्वे गत्यर्था ज्ञानार्थाः । कवते चातुर्येण वर्णयतीति कविः । ‘कुङ् शब्देऽ । प्रशस्ता धीरस्यास्तीति धीमान् । सुवति सदुपदेशेन प्रयोजयतीति सूरिः । ‘षू प्रेरणेऽ । कृतं संस्कृतं सूक्त्यादिकमस्यास्तीति कृती । कर्षति निष्कर्षतीति कृष्टिः । ‘कृष विलेखनेऽ । लब्धो वर्णः प्रसिद्धिरनेनेति लब्धवर्णः । विचष्टे विशेषेणाचष्टे विचक्षणः । ‘चक्षिङ् व्यक्तायां वाचिऽ । दूरादप्रत्यक्षमपि ऊहेन पश्यतीति दूरदर्शी । ‘दृशिर् प्रेक्षणेऽ । दीर्घदर्शी च । विदुषो नामानि ॥ श्रुताध्ययनसम्पन्नः श्रोत्रियः । छन्दो वेदम् अधीते वेत्ति वा छान्दसः । वेदाध्येतृनामनी ॥ ५-६ ॥
मल्लि-नाथः - AK.02.07.005-6
विद्वान् । विदुषी सभा । उणादिप्रत्ययान्तविदुषशब्दात् टापि विदुषा सभा । विपश्चिद्दोषज्ञः—धीमान् सूरिः । सूरिः सूरी विचक्षण इत्यभिधानात् इदन्तः इन्नन्तश्च स्यात् । कृती—दीर्घदर्शी । विद्वन्नामानि ॥ श्रोत्रियच्छान्दसौ समौ । श्रोत्रियनामनी ॥ अनुक्तम्—‘मीमांसको जैमिनीयेऽ । जैमिनीयनाम । ‘वेदान्ती ब्रह्मवादिनिऽ । ब्रह्मवादिनाम ॥ ‘नैयायिकस्त्वाक्षपादःऽ । अक्षपादशास्त्रज्ञनामनी ॥ ‘चार्वाकलौकायतिकौऽ । बौद्धविशेषस्य नामनी ॥ ‘स्तकार्ये साङ्ख्यकापिलौऽ । सत्कार्यवादिनो नामनी ॥ ‘वैशेषिकस्तार्किकः स्यात्ऽ । वैशेषिकस्य नामनी ॥ ‘सौगतः शून्यवादिनिऽ । शून्यवादिनो नाम ॥ ५-६ ॥
[[०२.४५४]]
मूलम् - ०२.०७.००७
(०२.०७.००७अब्) उपाध्यायोऽध्यापकोऽथ स निषेकादिकृद् गुरुः ।
(०२.०७.००७च्द्) मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥ ७ ॥
(०२.०७.००८अब्) यष्टा च यजमानश्च स सोमवति दीक्षितः ।
लिङ्ग-सूरी - AK.02.07.007-8
उपाध्याय इति—उपेत्याधीयतेऽस्मादित्युपाध्यायः । ‘इङ् अध्ययनेऽ । अध्यापयतीत्यध्यापकः । उपाध्यायनामनी ॥ गृणाति गायत्र्यादिकं मन्त्रमुपदिशति गुरुः । ‘गृ शब्देऽ । निषेकादिकर्मकारिणो नाम ॥ आचिनोति शिष्यबुद्धिवृद्धिं करोतीत्याचार्यः । ‘चिञ् चयनेऽ । मन्त्रब्राह्मणात्मकवेदं कल्पसूत्रीद्युपेतमध्याप्य तदर्थं व्याख्यातुर्द्विजस्य नाम ॥ तथा च मनुः (२। १४०)—
‘उपनीय तु यः पूर्वं वेदमध्यापयेद् द्विजः ।
साङ्गं च सरहस्यं च तमाचार्यं विदुर्बुधाः ॥ऽ
आदिशतीत्यादेष्टा । ‘दिश अतिसर्जनेऽ । ब्रह्मचारिणो व्रतमस्यास्तीति व्रती । यजते यष्टा, यजमानश्च । ‘यज देवपूजासङ्गतिकरणयजनदानेषुऽ । अध्वरे यजमानत्वेन स्वामित्वेन ऋत्विगाद्यादेष्टृनाम ॥ दीक्षालक्षणसंस्कारोऽस्य सञ्जातो दीक्षितः । सोमरसवत्यध्वरे तस्यैव यष्टुर्नाम ॥ ७ ॥
मल्लि-नाथः - AK.02.07.007-8
उपाध्यायोऽध्यापकः स्यात् । उपाध्यायनाम । स निषेकादिकृद् गुरुः । गर्भाधानादिकर्मकर्ता गुरुः स्यात् ॥ मन्त्रव्याख्याकृदाचार्यः । वेदव्याख्यानकर्ता आचार्यः स्यात् ॥ आदेष्टा—यजमानश्च । अध्वरे व्रती आदेष्टा यष्टा यजनानश्च स्यात् ॥ स सोमवति दीक्षितः । सोमवत्यध्वरे स व्रती दीक्षितः स्यात् ॥ ७ ॥
[[०२.४५५]]
(०२.०७.००८च्द्) इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् ॥ ८ ॥
मूलम् - ०२.०७.००९
(०२.०७.००९अब्) स गीर्पतीष्ट्या स्थपतिः सोमपीथी तु सोमपाः ।
(०२.०७.००९च्द्) सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥
लिङ्ग-सूरी - AK.02.07.008-9
इज्याशीला इति—यजनमिज्या, तदेव शीलं यस्य इज्याशीलः । पौनःपुन्येन यजते यायजूकः । ‘यज देवपूजादौऽ । इज्याशीलवतो नाम ॥ यजते यज्वा । तस्यैव यजमानस्य नाम ॥ विधिनेति अर्थवादप्राप्त्यर्थम् ॥ वाजपेययागं बृहस्पतिसवनसमापनाङ्गेन स्थापयतीति स्थपतिः । ‘ष्ठा गतिनिवृत्तौऽ । बृहस्पतिसवनकर्तृयज्वनो नाम ॥ सोमपीथः सोमपानमस्यास्तीति सोमपीथी । सोमं पिबतीति सोमपाः । ‘पा पानेऽ । सोमप इति अकारान्तः पुंलिङ्गः । सोमपाशब्दस्तु छन्दोविषयः, न तु शब्दशास्त्रविषय इति मन्तव्यम् । इष्टावशिष्टसोमपानकृतो नामनी ॥ सर्वस्वदक्षिणः सर्वद्रव्यदक्षिणो यागः येन यजमानेनेष्टः स सर्ववेदा इत्युच्यते । ऋत्विगादिः अस्मात् सर्वस्वं विन्दति लभते सर्ववेदाः । सान्तोऽयम् । ‘विद्लृ लाभेऽ । विश्वजिदादियागकर्तृनाम ॥ ८-९ ॥
मल्लि-नाथः - AK.02.07.008-9
इज्याशीलो यायजूकः । यजनशीलो यायजूकः स्यात् । यज्वा—इष्टवान् । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादि विध्यर्थाभिप्रेता सन् यजनशीलो यज्वा स्यात् । स गीष्पतीष्ट्या स्थपतिः । बृहस्पतिसवेनेष्टवान् यज्वा स्थपतिः स्यात् ॥ सोमपीती—सोमपाः । कृतसोमपानो यज्वा सोमपाः स्यात् ॥ सर्ववेदाः स—सर्वस्वदक्षिणः । सर्वस्वं दक्षिणा यस्य स तथोक्तो विश्वजित्प्रभृतियागो येनेष्टः स यज्वा सर्ववेदाः स्यात् । सान्तोऽसौ ॥ ८-९ ॥
[[०२.४५६]]
मूलम् - ०२.०७.०१०
(०२.०७.०१०अब्) अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः ।
(०२.०७.०१०च्द्) लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ॥ १० ॥
लिङ्ग-सूरी - AK.02.07.010
अनूचान इति—साङ्गवेदमधीत्य अनु पश्चात् तमेवोक्तवानिति अनूचानः । साङ्गे प्रवचने साङ्गवेदेऽधीती यस्तस्य नाम ॥ गुरुकुलात् गृहं प्रति समावर्तते स्म समावृत्तः । ‘वृतु वर्तनेऽ । उद्वाहे सति गुरोर्लब्धानुज्ञस्य नाम ॥ सुनोति सोममिति सुत्वा । ‘षुञ् अभिषवेऽ । नान्तोऽयम् । अभिषवकर्तुर्यजमानस्य नाम ॥ १० ॥
मल्लि-नाथः - AK.02.07.010
अनूचानः—साङ्गेऽधीती । साङ्गवेदाध्येता अनूचानः स्यात् । ‘गणिश्च सःऽ । इति कोशान्तरपाठाद् गणिरपि स्यात् । गुरोस्तु—समावृत्तः । वेदाध्ययनानन्तरं गृही भवेति गुर्वनुज्ञातः समावृत्तः स्यात् । सुत्वा तु—कृते । अभिषवकरणानन्तरं सुत्वा स्यात् । नान्तः । ‘सुत्वा त्वभिषवादूर्ध्वम्ऽ इति वैजयन्ती (पृ। ८९, श्लो। ७५) ॥ १० ॥
[[०२.४५७]]
मूलम् - ०२.०७.०११
(०२.०७.०११अब्) छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ।
(०२.०७.०११च्द्) एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥
(०२.०७.०१२अब्) सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित् ।
लिङ्ग-सूरी - AK.02.07.011-12
छात्र इति—गुरोरसच्चरित्रं छादयतीति छात्रः । ‘छद अपवारणेऽ । गुरोरन्ते निकटे निवसतीति अन्तेवासी । गुरोः छिद्रं तनूकरोतीति शिष्यः । ‘शिञ् निशानेऽ । शिष्यनामानि ॥ शिक्षायां वर्तमानाः शैक्षाः । प्रथमे वयसि शिक्षायै कल्प्यन्ते प्राथमकल्पिकाः । प्रथमाभ्यासार्थमुपपन्नशिष्यनामनी ॥ समानं ब्रह्मव्रतं चरन्तीति सब्रह्मचारिणः । ‘चर गतिभक्षणयोःऽ । गुरोरेककालमेकवेदाध्ययनं ये कुर्वन्ति तेषामन्योन्यस्य नाम ॥ विद्यापारं तरन्त्यनेन तीर्थं गुरुः । समाने तीर्थे गुरुकुले भवा वर्तमानाः सतीर्थ्याः । एको गुरुः येषां ते एकगुरवः । एकगुरूणां शिष्याणामन्योन्यस्य नामनी ॥ अग्निं चितवान् अग्निचित् । ‘चिञ् चयनेऽ । स्थण्डिलप्रतिष्ठापनेनाग्निसंस्कर्तुर्नाम ॥ ११ ॥
मल्लि-नाथः - AK.02.07.011-12
छात्रान्तेवासिनौ शिष्ये । शिष्यनामानि । ‘मोकः प्राडुपनेदिवान्ऽ । एतानि त्रीणि च । शैक्षाः प्राथमकल्पिकाः । शिक्षापाठकनामनी । शिक्षेति प्रथमपाठ्यो ग्रन्थः । ‘शिक्षा प्रथमकल्पिकाऽ इति हलायुधः (अ। मा। २। २४५) । एकब्रह्म—सब्रह्मचारिणः । वेदाध्ययनार्थमेकं व्रतमाचरन्तोऽन्योन्यं सब्रह्मचारिणः स्युः । सतीर्थ्याश्चैकगुरवः । एकगुरुकाः सतीर्थ्याः स्युः । चशब्दात् सब्रह्मचारिणोऽपि स्युः ॥ चितवान्—अग्निचित् । गृहीतश्रौताग्निकोऽग्निचित् स्यात् ॥ ११ ॥
[[०२.४५८]]
(०२.०७.०१२च्द्) पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥
मूलम् - ०२.०७.०१३
(०२.०७.०१३अब्) उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः ।
(०२.०७.०१३च्द्) यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ १३ ॥
लिङ्ग-सूरी - AK.02.07.012-13
पारम्पर्येति—इत्येवं किमु पारम्पर्यमस्तीति इतिहा । इतिहैव ऐतिह्यम् । इतिहा अव्ययमित्यत्रापि सम्बध्यते । पारम्पर्योपदेशस्य नामनी ॥ उपज्ञायत इत्युपज्ञा । ‘ज्ञा अवबोधनेऽ । उद्योगाद्यज्ञाननाम ॥ उपक्रमणम् उपक्रमः । ममेदं कार्यमिति ज्ञात्वा प्रारम्भनाम ॥ यजनं यज्ञः । सूयतेऽभिषूयते सोमोऽत्रेति सवः । ‘षुञ्ञ् अभिषवेऽ । अध्वानं वैदिकमार्गं रातीति अध्वरः । ‘रा दानेऽ । यजनं यागः । सप्तभिर्गायत्र्यादिभिः छन्दोभिस्तन्यत इति सप्ततन्तुः । ‘तनु विस्तारेऽ । मह्यन्तेऽत्र देवा मखः । ‘मह पूजायाम्ऽ । मखन्ते वा । ‘मख गतौऽ । क्रियते त्रैवर्णिकैरिति क्रतुः । ‘डुकृञ् करणेऽ । यज्ञनामानि ॥ १२-१३ ॥
मल्लि-नाथः - AK.02.07.012-13
पारम्पर्योपदेशः—इतिहाव्ययम् । पारम्पर्योपदेशनामनी । पारम्पर्यं गुरुक्रमः । ‘आम्नायः सम्प्रदायः स्यात् पारम्पर्यं गुरुक्रमःऽ इति हलायुधः (अ। मा। २। २४७) ॥ उपज्ञा—आद्यं स्यात् । प्रथमं जातं ज्ञानमुपज्ञा स्यात् । विनोपदेशं स्वयमेव प्रथमं ज्ञानमुपज्ञा यथा वाल्मीकेः श्लोकनिर्माणज्ञानमिति सुभूतिटीका । ज्ञात्वा—उपक्रमः । ज्ञानसमनन्तरारम्भ उपक्रमः स्यात् ॥ यज्ञः—मखः क्रतुः । यज्ञनामानि ॥ १२-१३ ॥
[[०२.४५८]]
०२.०७.०१४अब् पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः ।
०२.०७.०१४च्द् एते पञ्च महायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥
लिङ्ग-सूरी - AK.02.07.014
पाठ इति—पाठो वेदपाठः । होमो वैश्वदेवादिः । अतिथीनां पूजा सपर्या । तर्पणं पितृतर्पणं । बलिर्बलिहरणम् । एते महाफलयज्ञत्वात् महायज्ञाः । क्रमेण ब्रह्मयज्ञदेवयज्ञमनुष्ययज्ञपितृयज्ञभूतयज्ञाः भवन्ति ॥ १४ ॥
मल्लि-नाथः - AK.02.07.014
पाठो होमः—ब्रह्मयज्ञादिनामकाः । पाठादयः समुदायेन पञ्चमहायज्ञनामानि । प्रत्येकं ब्रह्मयज्ञादिनामानि ।
‘स्वाध्यायः स्याद्ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ऽ
इति ॥ १४ ॥
[[०२.४५९]]
मूलम् - ०२.०७.०१५
(०२.०७.०१५अब्) समज्या परिषद् गोष्ठी सभासमितिसंसदः ।
(०२.०७.०१५च्द्) आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥
लिङ्ग-सूरी - AK.02.07.015
समज्येति—समजन्ति अत्र समज्या । ‘अज गतौऽ । परिषीदन्त्यत्र परिषत् । ‘षद्लृ विशरणगत्यवसादनेषुऽ गावो नानाविधा वाचोऽत्र तिष्ठन्तीति गोष्ठी । ‘ष्ठा गतिनिवृत्तौऽ । सह भान्त्यत्र सभा । ‘भा दीप्तौऽ । संयन्ति सङ्गच्छन्तेऽत्र समितिः । ‘इण् गतौऽ । संसीदन्त्यस्यामिति संसत् । ‘षद्लृ गतौऽ । आस्थातुं योग्या आस्थानी । आ समन्तात् तिष्ठन्त्यत्र आस्थानम् । क्लीबे वर्तते । सीदन्त्यत्र सदः । सान्तः । क्लीबे । स्त्रीत्वे सदाः इति रूपभेदः । सभानामानि ॥ १५ ॥
मल्लि-नाथः - AK.02.07.015
समज्या परिषद्—स्त्रीनपुंसकयोः सदः । सभानामानि । आस्थानादीनि पदानि राजसभानामानीति केचित् । रभसकोशे तथैव भेदः प्रदर्शितः । ‘आस्थानं सद आस्थानी पर्षत्परिषदौ समेऽ इति ॥ १५ ॥
[[०२.४५९]]
मूलम् - ०२.०७.०१६
(०२.०७.०१६अब्) प्राग्वंशः प्राग्घविर्गेहात् सदस्या विधिदर्शिनः ।
(०२.०७.०१६च्द्) सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ १६ ॥
लिङ्ग-सूरी - AK.02.07.016
प्राग्वंश इति—यत्र गृहे हव्यादिकं स्थाप्यते ततः पूर्वं यजमानसदस्यादीनां वासाय कल्पितं गृहं प्राग्वंश इत्युच्यते । वन्यते सेव्यत इति वंशः । ‘वन षण सम्भक्तौऽ । प्राग् अग्रे वंशः प्राग्वंशः । हविर्गृहात् पूर्वं त्रेताग्नेः पत्न्याश्च निर्मितगृहनाम ॥ पत्नीशालैवेति केचित् ॥ सदसि साधवः सदस्याः । विधिं विधिविहितं पश्यन्तीति विधिदर्शिनः । ‘दृशिर् प्रेक्षणेऽ । यजमानादिभिः क्रियमाणक्रियाकलापदर्शिनां नामनी ॥ सभायां सीदन्ति तिष्ठन्तीति सभासदः । सभां सभास्थलं स्तृणन्ति आच्छादयन्ति सभास्ताराः । ‘स्तॄञ् आच्छादनेऽ । सभायां साधवः सभ्याः । समाजं समूहं समवयन्ति क्षीरनीरवदेकीभवन्तीति सामाजिकाः । व्यवहारद्रष्टॄणां नामानि ॥ १६ ॥
मल्लि-नाथः - AK.02.07.016
प्राग्वंशः प्राग्घविर्गेहात् । हविर्गृहात् पूर्वस्थितसभागृहं प्राग्वंशः स्यात् । सदस्या विधिदर्शिनः । यागविधिपरीक्षाधिकारिणः सदस्याः स्युः ॥ सभासदः—सामाजिकाश्च ते । सभायां तिष्ठतां नामानि ॥ १६ ॥
[[०२.४६०]]
मूलम् - ०२.०७.०१७
(०२.०७.०१७अब्) अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् ।
(०२.०७.०१७च्द्) आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥
लिङ्ग-सूरी - AK.02.07.017
अध्वर्युरिति—अध्वरं अध्वरदेशं यातीत्यध्वर्युः । ‘या प्रापणेऽ । यजुर्वेदविदो नाम ॥ उद्गायति देवतां स्तौतीति उद्गाता । ‘गै गानेऽ । ऋकारान्तः । सामवेदविदो नाम ॥ होमं करोतीति होता । जुहोतीति वा । ‘हु दानादानयोःऽ । ऋग्वेदविदो नाम ॥ यज्ञस्वामिना धनैर्वार्याः आग्नीध्रादयः षोडश याजकऋत्विक्शब्दवाच्याः । ते च ब्रह्मा, उद्गाता, होता, अध्वर्युः, ब्राह्मणाच्छंसी, प्रस्तोता, मैत्रावरुणः, प्रतिप्रस्थाता, पोता, प्रतिहर्ता, अच्छावाकः, नेष्टा, आग्नीध्रः, सुब्रह्मण्यः, ग्रावस्तुत्, उन्नेता चेति । अग्निम् इन्धे अग्नीत् । ‘ञिइन्धी दीप्तौऽ । अग्नीधः शरणं अग्नीध्रम् । तत्र वर्तमानः आग्नीध्रः । धनैर्हेतुभिर्व्रियन्ते धनैर्वार्याः । ऋतौ वसन्तादौ याजयति यजमानं ऋत्विक् । यजन्तीति याजकाः । ‘यज देवपूजादौऽ । दक्षिणाभिर्वृतऋत्विङ्नामानि ॥ १७ ॥
मल्लि-नाथः - AK.02.07.017
अध्वर्युः—क्रमात् । यजुःसामर्चा वेत्तारः क्रमेणाध्वर्यूद्गातृहोतारः स्युः । ‘अध्वर्यूद्गातृहोतारः ब्रह्मा चेति महर्त्विजःऽ इति वैजयन्ती (पृ। ८९, श्लो। ७९) ॥ आग्नीध्राद्याः—याजकाश्च ते । दक्षिणादानेन वरीतुं योग्या आग्नीध्रादय ऋत्विग्याजकवाच्याः ॥ १७ ॥
[[०२.४६१]]
मूलम् - ०२.०७.०१८
(०२.०७.०१८अब्) वेदिः परिष्कृता भूमिः समे स्थण्डिलचत्वरे ।
(०२.०७.०१८च्द्) चषालो यूपकटकः कुम्बा सुगहना वृतिः ॥ १८ ॥
लिङ्ग-सूरी - AK.02.07.018
वेदिरिति—विन्दन्त्यस्यां देवाः पूजादिकमिति वेदिः । ‘विद्लृ लाभेऽ । परिष्कृतभूमेर्नाम ॥ तिष्ठन्त्यस्मिन् अग्नय इति स्थण्डिलम् । ‘ष्ठा गतिनिवृत्तौऽ । चतन्ते यागदफलमत्रेति चत्वरम् । ‘चते याचनेऽ । यागार्थं संस्कारितस्थाननामनी ॥ चष्यते यूपाग्रे प्रक्षिप्यते चषालः । ‘चष भक्षणेऽ । धातूनामनेकार्थत्वात् क्षेपणार्थः । यूपस्याग्रे कृतः कटकः कटकाकारः यूपकटकः । यूपकटकनाम ॥ कुम्बयति आच्छादयति यज्ञवाटं कुम्बा । ‘कुबि आच्छादनेऽ । यज्ञवाटं परितः क्षिप्तसुगहनवृतिनाम ॥ १८ ॥
मल्लि-नाथः - AK.02.07.018
वेदिः—भूमिः । यागार्थं संस्कृता भूमिः वेदिः स्यात् । समे—चत्वरे । शय्यार्थं संस्कृतभूनामनी ॥ चषालो यूपकटकः । यूपमूलस्थितलोहकटकश्चषालः स्यात् ।
‘यूपमङ्गुलिमिवोदनीनमद् भूचषालतुलिताङ्गुलीयकम् ।ऽ
इति । कुम्बा—वृतिः । अतिगहनयूपवृतिः कुम्बा स्यात् ॥ १८ ॥
[[०२.४६१]]
मूलम् - ०२.०७.०१९
(०२.०७.०१९अब्) यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः ।
(०२.०७.०१९च्द्) दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः ॥ १९ ॥
लिङ्ग-सूरी - AK.02.07.019
यूपाग्रमिति—तरति चषालमिति तर्म । ‘तॄ प्लवनतरणयोःऽ । तीक्ष्णयूपाग्रनाम ॥ इयर्ति अग्निरस्मादिति अरणिः । अग्निनिर्मन्थनदारुनाम ॥ वेद्या दक्षिणतो वर्तते दक्षिणाग्निः । गृहपतिना इतराग्निभ्यां पूर्वं संस्कृतोऽग्निः गार्हपत्यः । आ कर्मसमाप्तेः आहुतयो हूयन्तेऽत्र आहवनीयः । ‘हु दानादानयोःऽ । त्रयाणामग्नीनां पृथङ्नामानि ॥ १९ ॥
मल्लि-नाथः - AK.02.07.019
यूपाग्रं तर्म । यूपस्याग्रं तर्म स्यात् । अनुक्तम्—‘यूपमध्यं समाधानम्ऽ । यूपस्य मध्यभागः समाधानं स्यात् । निर्मन्थ्यदारुणि—द्वयोः । अग्न्यर्थमानीतनूतनकाष्ठमरणिः स्यात् ॥ दक्षिणाग्नि—त्रयोऽग्नयः । दक्षिणाग्निगार्हपत्याहवनीयाः त्रयो यागाग्नयः । तत्र दक्षिणकुण्डाग्निर्दक्षिणाग्निः । उत्तरकुण्डादग्निर्गार्हपत्यः । पूर्वकुण्डाग्निराहवनीयः ।
‘पूर्वेणाहवनीयः स्याद् दक्षिणाग्निस्तु दक्षिणः ।
उत्तरो गार्हपत्यस्तु ॥ऽ
इति निगमाभिधानम् ॥ १९ ॥
[[०२.४६२]]
मूलम् - ०२.०७.०२०
(०२.०७.०२०अब्) अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः ।
(०२.०७.०२०च्द्) समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ॥ २० ॥
लिङ्ग-सूरी - AK.02.07.020
अग्नित्रयमिति—इदं श्रौताग्नित्रयमेकोक्त्या त्रेतेत्युच्यते । एक एवौपासनाग्निः अग्नित्रयरूपं प्राप्त इति त्रेता । अग्नित्रयसमुदायनाम ॥ प्रणीयते संस्क्रियते प्रणीतः । संस्कृताग्निनाम ॥ समूह्यतेऽग्निरनेन समूह्यः । परिचीयते परिचाय्यः । उपचीयते उपचाय्यः । ‘चिञ् चयनेऽ । अग्निचिद्विशेष्यनामानि ॥ २० ॥
मल्लि-नाथः - AK.02.07.020
अग्नित्रयं—त्रेता । उक्ताग्नित्रयमेकोक्त्या त्रेता स्यात् । ‘त्रेता स्त्री सर्वपातताऽ इति निगमाभिधानम् । प्रणीतः—अनलः । संस्कारवानग्निः प्रणीतः स्यात् ॥ समूह्यः—प्रयोगिणः । समूह्यपरिचाय्योपचाय्यशब्दा अग्नौ प्रयुज्यन्ते । समूह्योऽग्निः, समूहोऽन्यः । परिचाय्योऽग्निः, परिचेयोऽन्यः । उपचाय्योऽग्निः, उपचेयोऽन्यः ॥ २० ॥
[[०२.४६२]]
मूलम् - ०२.०७.०२१
(०२.०७.०२१अब्) यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते ।
(०२.०७.०२१च्द्) तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया ॥ २१ ॥
लिङ्ग-सूरी - AK.02.07.021
य इति—आनीयते संस्क्रियते आनाय्यः । ‘णीञ् प्रापणेऽ । गार्हपत्यादानीय दक्षिणाग्नौ संस्कृताग्निनाम ॥ अग्नेः स्त्री अग्नायी । अग्निना सुष्ठु आहूयते स्वाहा । ‘हु दानादानयोःऽ । हुतभुजः प्रिया हुतभुक्प्रिया । अग्निपत्नीनामानि ॥ २१ ॥
मल्लि-नाथः - AK.02.07.021
यो गार्हपत्यादानीय—आनाय्यः । गार्हपत्यादाहृत्य यो दक्षीणाग्निरारोप्यते स आनाय्यः स्यात् । गार्हपत्यग्रहणमितरयोनिव्युदासार्थम् । ‘वैश्यकुलाद्वित्तवतो भ्राष्टाद् गार्हपत्याद्वाऽ इति तद्योनिविकल्पात् । अथाग्नेयी—हुतभुक्प्रिया । अग्निभार्यानामानि ॥ २१ ॥
[[०२.४६३]]
मूलम् - ०२.०७.०२२
(०२.०७.०२२अब्) ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने ।
(०२.०७.०२२च्द्) गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् ॥ २२ ॥
लिङ्ग-सूरी - AK.02.07.022
ऋगिति—अग्निसमिन्धने अग्निप्रज्वलने या ऋक् तस्यां सामिधेनीद्वयं वर्तते । समिधामियम् आधानी सामिधेनी । धीयते समिदनयेति धाय्या । ‘डुधाञ् धारणपोषणयोःऽ । अग्निप्रकाशने विहितऋङ्नामनी ॥ गायन्तं त्रायत इति गायत्री । ‘त्रेङ् पालनेऽ । गायत्रीप्रमुखं गायत्र्याद्यं छन्द इत्युच्यते । चन्दयत्याह्लादयति गद्यपद्यग्रन्थादत्यर्थमिति छन्दः । ‘चदि आह्लादनेऽ । गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्क्तिः, त्रिष्टुप्, जगती, अतिजगती, शक्करीत्यादयः छन्दांसि । गायत्र्यादिछन्दोनाम ॥ हव्यस्य पाकः हव्यपाकः । चर्यते भक्ष्यते चरुः । ‘चर गतिभक्षणयोःऽ । हव्यपाकनाम ॥ २२ ॥
मल्लि-नाथः - AK.02.07.022
ऋक्सामिधेनी—अग्निसमिन्धने । अग्निप्रज्वालने या ऋक् पठिता सा सामिधेनी धाय्या च स्यात् । गायत्रीप्रमुखं छन्दः । पिङ्गलाद्युपदिष्टा गायत्रीप्रभृतयः छन्दःशब्दवाच्याः । गायत्री । उष्णिक् हान्तः । अजादिपाठादाकारान्तोऽपि स्यात् । उष्णिहा । अनुष्ठुप्, भकारान्तः । बृहती । पङ्क्तिः । जगती ॥ हव्यपाके चरुः पुमान् । हव्यपाक इति स्थाल्यादिः । तस्मिन् चरुशब्दः स्यात् । ‘चरुं पक्त्वाग्निं प्रज्वाल्य परिस्तीर्य तेषु चरुं निधायाभिघार्याऽ इत्यादिवचनैर्हव्येऽपि स्यात् ॥ २२ ॥
[[०२.४६४]]
मूलम् - ०२.०७.०२३
(०२.०७.०२३अब्) आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः ।
(०२.०७.०२३च्द्) धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ॥ २३ ॥
लिङ्ग-सूरी - AK.02.07.023
आमिक्षेति—आमीयते क्षिप्यते दध्यत्रेति आमिक्षा । ‘डुमिञ् प्रक्षेपणेऽ । पक्वोष्णक्षीरे दधियोगतः काप्यवस्था भवति तस्या नाम ॥ धूयते कम्प्यतेऽग्निरनेनेति धवित्रम् । मृगचर्मरचितव्यजननाम ॥ २३ ॥
मल्लि-नाथः - AK.02.07.023
आमिक्षा—दधियोगतः । क्वथितोष्णक्षीरे दध्नो योगाद्यदुद्भूतं तदामिक्षा स्यात् ॥ धवित्रं—मृगचर्मणा । द्रव्योष्णप्रशमनार्थं कृष्णाजिनकृतं व्यजनं धवित्रं स्यात् ॥ २३ ॥
[[०२.५६४]]
मूलम् - ०२.०७.०२४
(०२.०७.०२४अब्) पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् ।
(०२.०७.०२४च्द्) हव्यकव्ये दैवपैत्रे अन्ने पात्रं स्रुवादिकम् ॥ २४ ॥
लिङ्ग-सूरी - AK.02.07.024
पृषदाज्यमिति—पृषद्भिर्दधिबिन्दुभिः अन्वितमाज्यं पृषदाज्यम् । दधियुक्ताज्यनाम ॥ परमम् अन्नं परमान्नम् । पयसि क्षीरे पक्वं पायसम् । पायसनामनी ॥ हूयते हव्यम् । देवतार्हान्ननाम ॥ कूयते स्तूयते पितृभिरिति कव्यम् । ‘कु शब्देऽ । पितृयोग्यान्ननाम ॥ पिबन्त्यस्मादिति पात्रम् । ‘पा पानेऽ । पातीति वा । ‘पा रक्षणेऽ । स्रुवादिपात्रनाम ॥ २४ ॥
मल्लि-नाथः - AK.02.07.024
पृषदाज्यं सदध्याज्ये । दधिमिश्रिताज्यं पृषदाज्यं स्यात् । परमान्नं तु पायसम् । क्षीरपक्वान्ननामनी । लवणव्यञ्जनान्यनुलेपनमिति ते द्वे नपुंसके । ‘क्षैरेयी पायसं स्मृतम्ऽ इति शब्दस्वभावात् स्त्रीलिङ्गता ॥ हव्यकव्ये—अन्ने । देवपित्रर्थेऽन्ने क्रमेण हव्यकव्ये स्याताम् । पात्रं स्रुवादिकम् । स्रुवप्रमुखं पात्रमित्युच्यते । ‘पात्रं स्रुवादौ कुण्डादौ योग्येऽतीव द्वयान्तरेऽ इति जयकोशः ॥ २४ ॥
[[०२.४६५]]
मूलम् - ०२.०७.०२५
(०२.०७.०२५अब्) ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः ।
(०२.०७.०२५च्द्) उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ॥ २५ ॥
लिङ्ग-सूरी - AK.02.07.025
ध्रुवेति—ध्रुवादयः स्रुचो भेदाः, ते च स्त्रियः स्त्रीलिङ्गाः । स्रुवस्तु ना पुंलिङ्गः । ध्रुवतीति ध्रुवा । ‘ध्रुव स्थैर्येऽ । उपभ्रियते होमार्थमिति उपभृत् । ‘भृञ् भरणेऽ । हूयतेऽनया जुहूः । ‘हु दानादानयोःऽ । स्रवत्यस्माद् आज्यादिकमिति स्रुवः । ‘स्रु स्रवणेऽ । स्रुवभेदनामानि ॥ स्रवतीति स्रुक् । स्रुवादीनां साधारणनाम ॥ उपाकरणेन उपस्पर्शनेन संस्कृतः उपाकृतः । यद्वा उपामन्त्र्य क्रियते हन्यते उपाकृतः । ‘कृञ् हिंसायाम्ऽ । हननार्थं यूपे बद्धपशुनाम ॥ २५ ॥
मल्लि-नाथः - AK.02.07.025
ध्रुवोपभृत्—स्रुचः स्त्रियः । पात्रविशेषनामानि । अत्र ना त्विति विशेषविधिः परापरसाहचर्यज्ञापनार्थम् ॥ उपाकृतः—क्रतौ हतः । यागेऽभिमन्त्र्य निहतः पशुरुपाकृतः स्यात् ॥ २५ ॥
[[०२.४६५]]
मूलम् - ०२.०७.०२६
(०२.०७.०२६अब्) परम्पराकं शसनं प्रोक्षणं च वधार्थकम् ।
(०२.०७.०२६च्द्) वाच्यलिङ्गाःप्रमीतोपसम्पन्नप्रोक्षिता हते ॥ २६ ॥
लिङ्ग-सूरी - AK.02.07.026
परम्पराकमिति—परम्परां प्राणिनां सञ्ज्ञपनम् अकति परम्पराकम् । ‘अक अग कुटिलायां गतौऽ । शसतीति शसनम् । ‘शसु हिंसायाम्ऽ । प्रकर्षेण उक्षति प्रोक्षणम् । ‘उक्ष सेचनेऽ । क्रतौ पशुवधनामानि ॥ प्रकर्षेण मीयते प्रमीतः । ‘मीञ् हिंसायाम्ऽ । उपसम्पद्यते हननार्थम् उपसम्पन्नः । ‘पद गतौऽ । प्रोक्षणम् इतः प्रोक्षितः । एते शब्दाः वाच्यलिङ्गा विशेष्यनिघ्नाः । क्रतौ हतपशुनामानि ॥ २६ ॥
मल्लि-नाथः - AK.02.07.026
परम्पराकं—वधार्थकम् । परम्पराकादीनि पशुवन्धार्थकानि । अनुक्तम्—‘व्यञ्जनं पशुसंस्कारःऽ । पशोः पर्यग्निकरणादिसंस्कारो व्यञ्जनं स्यात् ॥ ‘सामिकं त्वभिमन्त्रणम्ऽ । पश्वभिमन्त्रणं सामिकं स्यात् । वाच्यलिङ्गाः—हते । प्रमीतादयो विशेष्यनिघ्नाः । यागे हतपशुनामानि ॥ २६ ॥
[[०२.४६६]]
मूलम् - ०२.०७.०२७
(०२.०७.०२७अब्) सान्नाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम् ।
(०२.०७.०२७च्द्) दीक्षान्तोऽवभृथो यज्ञस्तत्कर्मार्हं तु यज्ञियम् ॥ २७ ॥
(०२.०७.०२८अब्) त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादिकर्मणि ।
लिङ्ग-सूरी - AK.02.07.027-28
सान्नाय्यमिति—सन्नीयते सान्नाय्यम् । ‘णीञ् प्रापणेऽ । अग्नौ हूयते हविः । ‘हु दानादानयोःऽ । हविषो नामनी ॥ वषट् क्रियत इति वषट्कृतम् । अग्नौ हुतहविर्नाम ॥ दीक्षाख्यस्य कर्मणोऽन्तः दीक्षान्तः । अवभ्रियते परिपूर्यतेऽनेन दीक्षाव्रतमिति अवभृथः । ‘भृञ् भरणेऽ । यागसमाप्तौ जलविहितवारुणेष्टिनाम ॥ यज्ञार्हं यज्ञियम् । यज्ञयोग्यद्रव्यनाम ॥ अयं शब्दः त्रिषु लिङ्गेषु वर्तते ॥ इज्यते इष्टम् । ‘यज देवपूजादौऽ । तथा च स्मृतिः —
‘एकाग्निकर्म हवनं त्रेतायां यच्च हूयते ।
अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते ॥ऽ
क्रतुकर्मनाम । पिपर्ति पालयति पूर्तम् । ‘पॄ पालनपूरणयोःऽ ।
‘वापीकूपतटाकादि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमार्याः प्रचक्षते ॥ऽ
खातादिकर्मनाम ॥ २७ ॥
मल्लि-नाथः - AK.02.07.027-28
सान्नाय्यं हविः । होतव्यद्रव्यनामनी ॥ अग्नौ तु—वषट्कृतम् । अग्नौ हुतद्रव्यनाम ॥ दीक्षान्तो—यज्ञे । यागदीक्षाया अन्तोऽवभृथः स्यात् । तत्कर्मार्हं—यज्ञियम् त्रिषु । यज्ञकर्मार्हं यज्ञियं स्यात् । तत् त्रिलिङ्गम् । यज्ञियो देशः । अथ क्रतुकर्मेष्टम् । क्रतोः कर्म इष्टं स्यात् ॥ पूर्तं—कर्मणि । खातादिकर्म पूर्तं स्यात् ।
‘वापीकूपतटाकानि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥ऽ
इति ॥ २७ ॥
[[०२.४६७]]
(०२.०७.०२८च्द्) अमृतं विघसो यज्ञशेषभोजनशेषयोः ॥ २८ ॥
मूलम् - ०२.०७.०२९
(०२.०७.०२९अब्) त्यागो विहायितं दानमुत्सर्जनविसर्जने ।
(०२.०७.०२९च्द्) विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥
(०२.०७.०३०अब्) प्रादेशनं निर्वपणमपवर्जनमंहतिः ।
लिङ्ग-सूरी - AK.02.07.028-30
अमृतमिति—न म्रियन्तेऽनेनेत्यमृतम् । ‘मुङ् प्राणत्यागेऽ । यज्ञशेषनाम ॥ विशेषेणाद्यते विघसः । ‘अद भक्षणेऽ । भोजनशेषनाम ॥ त्यज्यते त्यागः । ‘त्यज हानौऽ । विहीयते विहायितम् । विहापितमिति वा पाठः । ‘ओहाक् त्यागेऽ । दीयते दानम । ‘डुदाञ् दानेऽ । उत्सृज्यते उत्सर्जनम् । ‘सृज विसर्गेऽ । विसृज्यते विसर्जनम् । विश्राण्यते विश्राणनम् । ‘श्रण दानेऽ । वितार्यते वितरणम् । ‘तॄ प्लवनतरणयोःऽ । स्पृश्यते स्पर्शनम् । ‘स्पृश स्पर्शनेऽ । प्रतिपाद्यते प्रतिपादनम् । ‘पद गतौऽ । ‘प्रादिश्यते प्रादेशनम्ऽ । ‘दिश अतिसर्जनेऽ । निर्वाप्यते निर्वपणम् । ‘डुवप् बीजतन्तुसन्तानेऽ । अपवृज्यतेऽपवर्जनम् । ‘वृजी वर्जनेऽ । अपसर्जनमिति वा पाठः । हन्ति पापमनया अंहतिः । ‘हन हिंसागत्योःऽ । अंहत इति वा । ‘अहि गतौऽ । दाननामानि ॥ २८-९ ॥
मल्लि-नाथः - AK.02.07.028-30
अमृतं विघसो—भोजनशेषयोः । यज्ञद्रव्यशेषोऽमृतं स्यात् । भोजनद्रव्यशेषो विघसः स्यात् ॥ त्यागो विहायितं—अपवर्जनमंहतिः । एतानि दाननामानि ॥ २८-९ ॥
[[०२.५६८]]
(०२.०७.०३०च्द्) मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ ३० ॥
मूलम् - ०२.०७.०३१
(०२.०७.०३१अब्) पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः ।
(०२.०७.०३१च्द्) अन्वाहार्यं मासिकोऽंशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥ ३१ ॥
लिङ्ग-सूरी - AK.02.07.030-31
मृतार्थमिति—देहादूर्ध्वम् ऊर्ध्वदेहः, ऊर्ध्वदेहे भवम् और्ध्वदेहिकम् । और्ध्वदैहिकमिति वा पाठः । मृतमुद्दिश्य मृताहे पिण्डादिदाननाम ॥ निवाप्यते निवापः । ‘डुवप् बीजसन्तानेऽ । उपसर्गवशात् पितृदानार्थं पितृत्वमापन्नमुद्दिश्य यद्दीयते तस्य नाम ॥ श्रद्धया भक्त्या दीयते श्राद्धम् । मन्वादिस्मृत्युक्तनियमोपेतपितृकर्मनाम ॥ पिण्डपितृयज्ञमनु पश्चात् आहार्यते ऽन्वाहार्यम् । मासि मासि क्रियत इति मासिकम् । अमावास्याश्राद्धनाम ॥ सूर्योऽस्मिन् काले कुं भुवं रश्मिभिस्तपतीति कुतपः । ‘तप सन्तापेऽ । तथा च पुराणे—
‘कुं यत्र गोपतिर्गोभिः कार्त्स्न्येन तपति क्षणे ।
स कालः कुतपो नाम श्राद्धं तत्र विधीयते ॥ऽ
इति । अहोऽष्टमांशनाम ॥ ३०-३१ ॥
मल्लि-नाथः - AK.02.07.030-31
मृतार्थं तदहर्दानं—और्ध्वदैहिकम् । मृतेभ्यः क्रियमाणपिण्डजलादिदानमहर्दानं स्यात्, और्ध्वदैहिकं च स्यात् । त्रिषु स्यादित्यनेन द्वितीयं त्रिलिङ्गम् । और्ध्वदेहिकमिति वा पाठः । और्ध्वदेहिकं देहि ॥ पितृदानं निवापः स्यात् । पितॄनुद्दिश्य क्रियमाणहिरण्यादिदानं निवापः स्यात् ॥ श्राद्धं—शास्त्रतः । पात्रकालनियमैः शास्त्रचोदितपितृभोजनकर्म श्राद्धं स्यात् ॥ अन्वाहार्यं मासिके । मासश्राद्धनाम ॥
‘दशाहे श्राद्धमाग्नेयं साज्यमेकादशेऽहनि ।
सम्प्रेषणं द्वादशेऽह्नि मासि प्राप्ते तु मासिकम् ॥ऽ
इति ॥ अंशोऽष्टमो—कुतपोऽस्त्रियाम् । अह्नः पञ्चदशांशस्याष्टमांशः कुतपः स्यात् । श्राद्धकालः ।
‘दिवसस्याष्टमे भागे यदा मन्दायते रविः ।
स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ॥ऽ
इति निगमाभिधानम् ॥ ३०-३१ ॥
[[०२.४६९]]
मूलम् - ०२.०७.०३२
(०२.०७.०३२अब्) पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा ।
(०२.०७.०३२च्द्) सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना ॥ ३२ ॥
लिङ्ग-सूरी - AK.02.07.032
पर्येषणेति—पर्येष्यतेऽनया पर्येषणा । ‘इष गतौऽ । परीष्टिश्च । अन्विष्यतेऽनया अन्वेषणा । गवेष्यते गवेषणा । ‘गवेष मार्गणेऽ । श्राद्धब्राह्मणान्वेषणनामानि ॥ सन्यतेऽस्मिन्निति सनिः । ‘षणु दानेऽ । अध्येष्यतेऽध्येषणा । ‘इष गतौऽ । श्राद्धे प्रार्थनानामनी ॥ याचनं याच्ञा, याचना च । ‘टुयाचृ याच्ञायाम्ऽ । अभिशस्यते प्रार्थ्यतेऽभिशस्तिः । ‘शंसु स्तुतौऽ । अर्थ्यतेऽर्थना । ‘अर्थ उपयाच्ञायाम्ऽ । प्रार्थनायाः साधारणनामानि ॥ ३२ ॥
मल्लि-नाथः - AK.02.07.032
पर्येषणा—गवेषणा । आमन्त्रणार्थमन्वेषणनामानि । सनिस्त्वध्येषणा । श्राद्धे प्रार्थनानामनी ॥ याच्ञा—याचनार्थना । याच्ञानामानि ॥ ३२ ॥
[[०२.४६९]]
मूलम् - ०२.०७.०३३
(०२.०७.०३३अब्) षट् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि ।
(०२.०७.०३३च्द्) क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥
लिङ्ग-सूरी - AK.02.07.033
षडिति—षट् त्रिषु, अर्घ्यपाद्यातिथ्यातिथेयावेशिकागन्तुशब्दाः षट् त्रिषु लिङ्गेषु वर्तन्ते । अर्घार्थं वारि अर्घ्यम् । अर्घार्थवारिनाम ॥ पादाय पादयोग्यं वारि पाद्यम् । पादार्हवारिनाम ॥ अतिथिभ्यः परिकल्पितः आतिथ्यः । अतिथ्यर्थस्यासनादेर्नाम ॥ अतिथिषु साधुः आतिथेयः । अतिथौ साध्वन्नपानादेर्नाम ॥ ३३ ॥
मल्लि-नाथः - AK.02.07.033
षट् तु त्रिषु । ऊर्ध्वं वक्ष्यमाणाः शब्दाः षट् त्रिलिङ्गाः ॥ अर्घ्यमर्घार्थे । अक्षतदूर्वादिकमर्घ्यं स्यात् ॥ पाद्यं—वारिणि । पादार्थमुदकं पाद्यं स्यात् ॥ क्रमादातिथ्य—साधुनि । अतिथ्यर्थातिथियोग्यावातिथ्यातिथेयशब्दौ क्रमेणापि स्याताम् । अतिथिसत्कारे तु तौ द्वौ स्याताम् । ‘आतिथेयं तथातिथ्यमातिथेयी च कथ्यतेऽ इति हलायुधः (अ। मा। २। २०४) ॥ ३३ ॥
[[०२.४७०]]
मूलम् - ०२.०७.०३४
(०२.०७.०३४अब्) स्युरावेशिक आगन्तुरतिथिर्ना गृहागते ।
(०२.०७.०३४च्द्) पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः ॥ ३४ ॥
लिङ्ग-सूरी - AK.02.07.034
स्युरिति—अवेशेऽध्वक्रमे वर्तमानः आवेशिकः । आगच्छति दूरादध्वगमनेन आगन्तुः । नास्ति तिथिरस्य अतिथिः । अतिथिनामानि ॥ पूजनं पूजा । ‘पूज पूजायाम्ऽ । नमनं नमस्या । ‘णम प्रह्वत्वे शब्दे चऽ । अपचायनम् अपचितिः । ‘चायृ पूजानिशामनयोःऽ । परेणोत्तमेन सह वर्तते सपरः, सपरे साध्वी सपर्या । अर्च्यते अर्चा । ‘अर्च पूजायाम्ऽ । अर्हतीति अर्हणा । ‘अर्ह पूजायाम्ऽ । पूजानामानि ॥ ३४ ॥
मल्लि-नाथः - AK.02.07.034
स्युरावेशिक—गृहागते । अतिथिनामानि ॥ ‘आगन्तुरतिथिर्द्वयोःऽ इति केषाञ्चित् स्त्रीलिङ्गोऽपि । ‘अत्रभवतास्मद्गृहेष्वतिथ्या भूयताम्ऽ इत्याश्चर्यपदमञ्जरी ॥ पूजा नमस्या—अर्हणाः समाः । पूजानामानि ॥ ३४ ॥
[[०२.४७०]]
मूलम् - ०२.०७.०३५
(०२.०७.०३५अब्) वरिवस्या तु शुश्रूषा परिचर्याप्युपासना ।
(०२.०७.०३५च्द्) व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथस्थितिः ॥ ३५ ॥
लिङ्ग-सूरी - AK.02.07.035
वरिवस्येति—वरिवसनं वरिवस्या । श्रोतुमिच्छा शुश्रूषा । ‘श्रु श्रवणेऽ । परिचरणं परिचर्या । ‘चर गतिभक्षणयोःऽ । उप समीपे आसनम् उपासना । ‘आस उपवेशनेऽ । गुरोः शिष्यकृतानुकूलव्यापारनाम ॥ व्रजनं व्रज्या । ‘व्रज गतौऽ । पुनः पुनः अटनम् अटाट्या । ‘अट गतौऽ । परितोऽटनं पर्यटनम् । पर्यटननामानि ॥ चरणं चर्या । ‘चर गतिभक्षणयोःऽ । ईरणम् ईर्या । ‘ईर गतौऽ । ईर्यायाः पन्था ईर्यापथः ध्यानाद्युपायः, तस्मिन् स्थितिः ईर्यापथस्थितिः सन्मार्गस्थितिनामनी ॥ ३५ ॥
मल्लि-नाथः - AK.02.07.035
वरिवस्या तु—उपासनम् । अपिशब्दादुपासनापि स्यात् । ‘वरिवस्या तु शुश्रूषा सेवा भक्तिरुपासनाऽ इति वैजयन्ती (पृ। ८६, श्लो। ३८) । सेवानामानि ॥ व्रज्या—पर्यटनम् । भिक्षार्थभ्रमणनामानि ॥ चर्या—ईर्यापथस्थितिः । गतिस्थितिनिषद्याशयनेषु समाहितत्वनामानि ॥ ३५ ॥
[[०२.४७१]]
मूलम् - ०२.०७.०३६
(०२.०७.०३६अब्) उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् ।
(०२.०७.०३६च्द्) आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः ॥ ३६ ॥
(०२.०७.०३७अब्) पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः ।
लिङ्ग-सूरी - AK.02.07.036-37
उपस्पर्श इति—उपस्पृश्यतेऽङ्गान्यत्र उपस्पर्शः । ‘स्पृश स्पर्शनेऽ । आचम्यते उदकमत्र आचमनम् । ‘चमु अदनेऽ । आचमननामनी ॥ मुनेर्भावो मौनम् । न भाषणम् अभाषणम् । ‘भाष व्यक्तायां वाचिऽ । व्रतादावभाषणनाम ॥ पूर्वमनुक्रम्य तिष्ठत्यनुपूर्वम् । तस्य भावः आनुपूर्वी । आवर्तनम् आवृत् । परि पटतीति परिपाटिः । ‘पट गतौऽ । अनुक्रम्यतेऽनुक्रमः । ‘क्रमु पादविक्षेपेऽ । परितः एति पर्यायः । ‘इण् गतौऽ । क्रमनामानि ॥ अतिक्रम्य पततीति अतिपातः । प्राप्तं परित्यज्यायनं पर्ययः । ‘अय गतौऽ । उप समीपस्थमतिक्रम्यायनम् उपात्ययः । ‘इण् गतौऽ । क्रमोल्लङ्घननामानि ॥ ३६ ॥
मल्लि-नाथः - AK.02.07.036-37
उपस्पर्शः—आचमनम् । आचमननाम ॥ अथ मौनमभाषणम् । मौननाम ॥ आनुपूर्वी—पर्यायश्च । अनुक्रमनामानि । आनुपूर्वीसाहचर्याद् आवृत्परिपाटीशब्दौ स्त्रीलिङ्गौ । आनुपूर्वीशब्दोऽपि वावचनात् पक्षे नपुंसकः । ‘स्त्रीनपुंसकयोर्भावक्रिययोः ष्यञ् क्वचिच्च वुञ्ऽ इति लिङ्गसङ्ग्रहे वक्ष्यति (३। ५। ३९) । आनुपूर्वी, आनुपूर्व्यं वा ॥ अतिपातस्तु—उपात्ययः । अतिक्रमनामानि ॥ ३६ ॥
[[०२.४७२]]
(०२.०७.०३७च्द्) नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ ३७ ॥
मूलम् - ०२.०७.०३८
(०२.०७.०३८अब्) औपवस्तं तूपवासो विवेकः पृथगात्मता ।
लिङ्ग-सूरी - AK.02.07.037-38
नियम इति—नियम्यत इति नियमः । ‘यम उपरमेऽ । व्रत्यतेऽन्नादिकमत्रेति व्रतम् । ‘व्रती वर्जनेऽ । पुण्यहेतुत्वात् पुण्यकम् । उपवासादिव्रतनामनी ॥ उपवस्तेऽग्निसमीपे उपवस्तम् । तदस्य प्राप्तमिति औपवस्तम् । उप समीपे वसनं वर्तनम् उपवासः । यजमानस्य अग्निसमीपस्थितिरूपोपवासनामनी ॥ विविच्यते विवेकः । ‘विचिर् पृथग्भावेऽ ॥ पृथगात्मतानाम ॥ ३७ ॥
मल्लि-नाथः - AK.02.07.037-38
नियमो—अस्त्री । व्रतनामनी ॥ तच्च—पुण्यकम् । तद्व्रतमुपवासादि पुण्यकर्म पुण्यकम् । देहशोषणं तत् ॥ औपवस्तं तूपवासः । उपवासनामनी । ‘उपवासः पुमान् वा स्यादौपवस्तं च कीर्तितम्ऽ इत्यमरमाला ॥ विवेकः पृथगात्मता । देहात्मादिभेदज्ञाननाम ॥ ३७ ॥
[[०२.४७२]]
(०२.०७.०३८च्द्) स्याद् ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥ ३८ ॥
मूलम् - ०२.०७.०३९
(०२.०७.०३९अब्) पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः ।
(०२.०७.०३९च्द्) ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ ॥ ३९ ॥
लिङ्ग-सूरी - AK.02.07.038-39
स्यादिति—ब्रह्मणो वर्चः ब्रह्मवर्चसम् । वृत्तस्य अध्ययनस्य वा समृद्धिनाम ॥ ब्रह्मणे वेदायाञ्जलिः ब्रह्माञ्जलिः । वेदपाठसमये अध्ययनाङ्गभूताञ्जलिनाम ॥ ब्रह्मणि बिन्दवः ब्रह्मबिन्दवः । वेदपाठे सति गुर्वाद्यास्यनिर्गतजलकणनाम ॥ ब्रह्मणे आसनं ब्रह्मासनम् । ध्यानयोगोपकारकासननाम ॥ कल्प्यतेऽनेन कल्पः । विधीयतेऽनेन विधिः । ‘विध विधानेऽ । क्रम्यतेऽनेनेति क्रमः । व्रीहिभिर्यजेतेत्येवमादिविनियोगनामानि ॥ ३८-३९ ॥
मल्लि-नाथः - AK.02.07.038-39
स्याद् ब्रह्मवर्चसं—ऋद्धिः । वृत्ताध्ययनयोरभिवृद्धिर्ब्रह्मवर्चसं स्यात् ॥ अथाञ्जलिः—ब्रह्माञ्जलिः । वेदपाठे रचिताञ्जलिः ब्रह्माञ्जलिः स्यात् ॥ पाठे—ब्रह्मबिन्दवः । श्रुतिपठनसमये वक्त्त्रान्निर्यन्तो बिन्दवो ब्रह्मबिन्दवः स्युः ॥ ध्यानयोगासने ब्रह्मासनम् । ‘योगः सन्नहनोपायध्यानसङ्गतियुक्तिषुऽ इति वक्ष्यति (३। ३। २२) । ध्यानोपायभूतपद्मस्वस्तिकाद्यासनं ब्रह्मासनं स्यात् ॥ कल्पे विधिक्रमौ । कर्तव्यत्वेन शास्त्रचोदितार्थनामानि ॥ ३८-३९ ॥
[[०२.४७३]]
मूलम् - ०२.०७.०४०
(०२.०७.०४०अब्) मुख्यः स्यात् प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः ।
(०२.०७.०४०च्द्) संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ४० ॥
लिङ्ग-सूरी - AK.02.07.040
मुख्य इति—मुखमिव प्रधानत्वात् मुख्यः । प्रथम आद्यः कल्पः विधिः । मुख्यशास्त्रार्थनाम ॥ अनु पश्चात् कल्प्यतेऽनुकल्पः । गौणशास्त्रार्थनाम ॥ उपाक्रियते स्वीक्रियते श्रुतिरनेनेति उपाकरणम् । श्रुतेर्वेदस्य संस्कारपूर्वकग्रहणनाम ॥ ४० ॥
मल्लि-नाथः - AK.02.07.040
मुख्यः—कल्पः । मुख्यार्थः प्रथमः कल्पः स्यात् । अनुकल्पस्ततोऽधमः । तस्मादधमोऽनुकल्पः स्यात् । व्रीहिभिर्यजेत । तदलाभे नीवारैर्वा इत्युदाहरणम् । संस्कारपूर्वग्रहणं—श्रुतेः । श्रुतेः संस्कारपूर्वकं ग्रहणम् उपाकरणं स्यात् । उपाकर्म च प्रसिद्धम् ॥ ४० ॥
[[०२.४७३]]
मूलम् - ०२.०७.०४१
(०२.०७.०४१अब्) समे तु पादग्रहणमभिवादनमित्युभे ।
(०२.०७.०४१च्द्) भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी ॥ ४१ ॥
लिङ्ग-सूरी - AK.02.07.041
समे इति—पादयोः ग्रहणं पादग्रहणम् । ‘ग्रह उपादानेऽ । अभिवाद्यते आशीर्वादः क्रियतेऽनेन अभिवादनम् । ‘वदि अभिवादनस्तुत्योःऽ । नमस्कारनामनी ॥ अपराह्णे ग्रामं प्रविश्य भिक्षते भिक्षुः । ‘भिक्ष भिक्षायाम्ऽ । परित्यज्य सर्वं व्रजतीति परिव्राट् । ‘व्रज गतौऽ । जकारान्तोऽयम् । कर्मन्दऋषिप्रोक्तसूत्रमधीत इति कर्मन्दी । पाराशर्यप्रोक्तसूत्रमधीते पाराशरी । मस्करो वेणुदण्डः, सोऽस्यास्तीति मस्करी । माकरणशीलः काम्यकर्मप्रतिषेधपरो वा । सन्न्यासिनामानि ॥ ४१ ॥
मल्लि-नाथः - AK.02.07.041
समे तु—अभिवादनमित्युभे । पादौ संस्पृश्याभिवादननामनी ॥ भिक्षुः परिव्राट्—मस्करी । चतुर्थाश्रमिनामानि ॥ ४१ ॥
[[०२.४७४]]
मूलम् - ०२.०७.०४२
(०२.०७.०४२अब्) तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः ।
(०२.०७.०४२च्द्) तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः ॥ ४२ ॥
लिङ्ग-सूरी - AK.02.07.042
तपस्वीति—तपोऽस्यास्तीति तपस्वी । तापसश्च । परिकाङ्क्षते तपसः फलमिति पारिकाङ्क्षी । ‘काक्षि काङ्क्षायाम्ऽ । वाचं यच्छतीति वाचंयमः । ‘यम उपरमेऽ । मन्यते मुनिः । ‘मन ज्ञानेऽ । मुनिनामानि ॥ दाम्यति इन्द्रियेभ्य इति दान्तः । ‘दमु उपशमेऽ । तपःक्लेशसहस्य नाम ॥ वर्णाः स्तुतय एषां सन्तीति वर्णिनः । ब्रह्मचारिनाम ॥ ४२ ॥
मल्लि-नाथः - AK.02.07.042
तपस्वी—पारिकाङ्क्षी । तपस्विनामानि । ‘तपोधनः प्रव्रजितः सुखी च स्यादनाथकीऽ । एतानि चत्वारि च ॥ वाचंयमो मुनिः । मौनव्रतिनामनी ॥ तपःक्लेशसहो दान्तः । धूमपानादितपःक्लेशसहिष्णुर्दान्तः स्यात् ॥ वर्णिनो ब्रह्मचारिणः । ब्रह्मचर्यव्रतस्था ब्रह्मचारिणः स्युः ।
‘ब्रह्मचारी भवेद्वर्णी गृहस्थः स्नातकस्तथा ।
वैखानसो वनप्रस्थः कर्मसन्न्यासिको यतिः ॥ऽ
इति हलायुधः (अ। मा। २। २३९) ॥ ४२ ॥
[[०२.४७५]]
मूलम् - ०२.०७.०४३
(०२.०७.०४३अब्) ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती ।
(०२.०७.०४३च्द्) ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥ ४३ ॥
लिङ्ग-सूरी - AK.02.07.043
ऋषय इति—ऋषति तपस इति ऋषिः । ‘ऋषी गतौऽ । सत्यं वचो येषां ते सत्यवचसः । ऋषिनामनी ॥ व्रतरूपेण स्नातीति स्नातकः । ‘ष्णा शौचेऽ । आप्लवत इति आप्लुतः । ‘प्लुङ् गतौऽ । आप्लुतव्रतिनाम ॥ यतम् इन्द्रियसंयमो येषामस्तीति यतिनः । यच्छन्ति उपमन्ति विषयेभ्य इति यतयः । ‘यम उपरमेऽ । निर्जितेन्द्रियग्रामस्य गृहस्थादेर्नामनी ॥ ४३ ॥
मल्लि-नाथः - AK.02.07.043
ऋषयः सत्यवचसः । सत्यव्रतिनां नामनी ॥ स्नातकः—व्रती स्नानव्रतिनाम ॥ ये निर्जितेन्द्रियग्रामाः—यतयश्च ते । जितेन्द्रियनामनी ॥ ४३ ॥
[[०२.४७५]]
मूलम् - ०२.०७.०४४
(०२.०७.०४४अब्) यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ ।
(०२.०७.०४४च्द्) स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः ॥ ४४ ॥
लिङ्ग-सूरी - AK.02.07.044
य इति—स्थण्डिले शेते स्थण्डिलशायी । स्थाण्डिलश्च । व्रतवशेन स्थण्डिलशयितृनामनी ॥ विगते रजस्तमसी येभ्य इति विरजस्तमसः । द्वयं रजस्तमोरूपगुणद्वयम् अतिगच्छन्ति अतिक्राम्यन्तीति द्वयातिगाः । विगतरजस्तमोगुणानां नामनी ॥ ४४ ॥
मल्लि-नाथः - AK.02.07.044
यः स्थण्डिले—स्थाण्डिलश्च । व्रतवशात् स्थण्डिले यः शेते तन्नामनी ॥ अथ विरजस्तमसः—द्वयातिगाः । रजोगुणधर्मो रागः । तमोगुणधर्मो द्वेषश्चेति द्वाभ्यां विमुक्ता द्वयातिगाः स्युः ॥ अनुक्तम्—‘मूलिको वृक्षमूलस्थःऽ । तरुमूलनिवासी मूलिकः स्यात् ॥ ‘क्षीराहारस्तु लोचकःऽ । क्षीराहारनियतो लोचकः स्यात् ॥ ‘और्वव्रती जलाहारःऽ । जलाहारनियत और्वव्रती स्यात् ॥ ‘खपुटः पाणिपात्रकःऽ । यः पाणिपात्रे भुङ्क्ते स खपुटः स्यात् ॥ ४४ ॥
[[०२.४७६]]
मूलम् - ०२.०७.०४५
(०२.०७.०४५अब्) पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः ।
(०२.०७.०४५च्द्) पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः ॥ ४५ ॥
लिङ्ग-सूरी - AK.02.07.045
पवित्र इति—परम् आत्मानं च पुनातीति पवित्रः । पूतश्च । ‘पूञ् पवनेऽ । प्रयच्छति विषयेभ्य उपरमतीति प्रयतः । ‘यम उपरमेऽ । परपावनहेतुभूतपुरुषनामानि ॥ पाशान् संसृतिबन्धहेतुभूतानि असच्छास्त्राणि अणन्ति वदन्तीति पाषण्डाः । ‘अण शब्देऽ । सर्वेषामाश्रमाणां लिङ्गानि भजन्त इति सर्वलिङ्गिनः । वेदमार्गबाह्यानुवर्तिनां नामनी ॥ पलाशस्य विकारः पालाशः । आषाढः प्रयोजनमस्य आषाढः । पलाशदण्डनाम ॥ रम्भस्य वेणोः सम्बन्धी राम्भः । वेणोः सम्बन्धी वैणवः । व्रते व्रतविषये वेणुदण्डनाम ॥ ४५ ॥
मल्लि-नाथः - AK.02.07.045
पवित्रं—पूतः । शुचेर्नामानि ॥ पाषण्डाः—सर्वलिङ्गिनः । षण्णवतिबाह्यलिङ्गिनः पाषण्डाः स्युः ॥ पालाशो दण्ड—राम्भस्तु वैणवः । व्रते राम्भ इत्यत्र ‘रो रिऽ (८। ३। १४) इति रेफलोपः । व्रतेः पालाशो दण्ड आषाढः स्यात् । व्रतेर्वेणुदण्डो राम्भः स्यात् ॥ ४५ ॥
[[०२.४७६]]
मूलम् - ०२.०७.०४६
(०२.०७.०४६अब्) अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं बृसी ।
(०२.०७.०४६च्द्) अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् ॥ ४६ ॥
लिङ्ग-सूरी - AK.02.07.046
अस्त्रीति—कमुदकम् अण्डे मध्ये लातीति कमण्डलुः । ‘ला आदानेऽ । कुण्डवद् वृत्तत्वात् कुण्डी । कमण्डलुनामनी ॥ व्रतिनः सीदन्त्यस्यामिति बृसी । दर्भादिकृतव्रत्यासननाम ॥ अज्यते मूत्रसमयेऽन्यत्र क्षिप्यते अजिनम् । ‘अज गतिक्षेपणयोःऽ । मेखलादिना सह चरति चर्म । ‘चर गतिभक्षणयोःऽ । कृत्यते कृत्तिः । ‘कृती छेदनेऽ । अजिननामानि ॥ भिक्षाणां समूहो भैक्षम् । भिक्षाकदम्बनाम ॥ ४६ ॥
मल्लि-नाथः - AK.02.07.046
अस्त्री कमण्डलुः कुण्डी । कुण्डिकानामनी ॥ व्रतिनामासनं बृसी । नियमिनामासनं बृसी स्यात् । ‘वसितसिबृसिमांसीतिऽ दन्त्यान्तेषु चन्द्रगोमिः । ‘कपिकच्छ्वां वृषा प्रोक्ता व्रतिनामासने बृषीऽ इति मूर्धन्यान्तेषु विश्वप्रकाशिका (पृ। १७१, श्लो। २) ॥ अजिनं चर्म—स्त्री । कृष्णाजिननामानि । अनुक्तम्—‘मौञ्जी तु मेखला क्षोणीऽ । मुञ्जमेखला क्षोणी स्यात् । ‘धटिनी सूत्रमेखलाऽ । तन्तुकृतमेखला धटि नी स्यात् । ‘योगपट्टस्तु पर्यङ्कस्तस्मिन् पर्यस्तिका स्त्रियाम्ऽ । योगपट्टनामानि ॥ भैक्षं भिक्षाकदम्बकम् । भिक्षाशब्दोऽत्र भिक्षितान्नवचनः । ‘भिक्षा तु भिक्षितान्ने च याच्ञायां भृतिसेवयोःऽ इति वैजयन्ती (पृ। २२२, श्लो। २६) । भिक्षासमूहो भैक्षं स्यात् ॥ ४६ ॥
[[०२.४७७]]
मूलम् - ०२.०७.०४७
(०२.०७.०४७अब्) स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा ।
(०२.०७.०४७च्द्) सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ ४७ ॥
लिङ्ग-सूरी - AK.02.07.047
स्वाध्याय इति—स्ववेदाध्ययनं स्वाध्यायः । जपनं जपः । ‘जप व्यक्तायां वाचिऽ । जाप इति वा पाठः । ब्रह्मयज्ञस्वाध्यायनाम ॥ सोमलतामस्यां सुन्वन्तीति सुत्या । अभिषुण्वन्ति अभिषवः । सवनं च । ‘षुञ् अभिषवेऽ । सोमाभिषवानुष्ठानविधिनामानि ॥ अघं मृष्यते नाश्यतेऽनेन अघमर्षणम् । ‘मृषु सहनेऽ । जले जप्यस्य ऋतं चेत्यादिसूक्तस्य नाम ॥ ४७ ॥
मल्लि-नाथः - AK.02.07.047
स्वाध्यायः स्याज्जपः । ‘बाहुलकाद् घञ् । जापःऽ इति रक्षितवचनाज्जापोऽपि स्यात् । स्वाध्यायनामनी ॥ सुत्याभिषवः—च सा । स्नाननामानि । सोमपाननामान्यपि स्युः । सर्वैनसामपध्वंसि—अघमर्षणम् । जप्यं गायत्र्यादि । सर्वपापापनोदकं जप्यमघमर्षणं स्यात् । तत् त्रिलिङ्गम् । अघमर्षणो मन्त्रः । अघमर्षणी ऋक् ॥ ४७ ॥
[[०२.४७८]]
मूलम् - ०२.०७.०४८
(०२.०७.०४८अब्) दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् ।
(०२.०७.०४८च्द्) शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ४८ ॥
(०२.०७.०४९अब्) नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ।
लिङ्ग-सूरी - AK.02.07.048-49
दर्श इति—दर्शेऽमावास्यायां हितो यागो दर्शः । कृष्णपक्षान्तदिनयागनाम ॥ पौर्णमास्यां विहितो यागः पौर्णमासः । शुक्लपक्षान्तदिनयागनाम ॥ यम्यते चित्तमनेन यमः । ‘यम उपरमेऽ । शरीरेन्द्रियमात्रसाधनापेक्षस्य अहिंसास्तेयादिनित्यानुष्ठेयकर्मणो नाम ॥ नियम्यते पुरुषोऽनेनेति नियमः । मृज्जलाद्यागन्तुसाधनस्य नित्यस्य तपःशौचसन्तोषादेर्नाम ॥ ४८ ॥
मल्लि-नाथः - AK.02.07.048-49
दर्शश्च पूर्णमासश्च—पक्षान्तयोः पृथक् । पक्षान्तयागौ दर्शपूर्णमासौ स्याताम् ॥ शरीरसाधनापेक्षं—तद्यमः । शरीरैकसाधनं नित्यकर्म यमः स्यात् । अहिंसादि ।
‘अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसङ्ग्रहः ।
यमः स्यात्ऽ ।
इति वैजयन्ती (पृ। १००, श्लो। २०९) ॥ नियमस्तु—आगन्तुसाधनम् । आगन्तुसाधनं नित्यकर्म नियमः स्यात् । ‘नियमाः शौचसन्तोषतपआदयःऽ इति वैजयन्ती (पृ। १००, श्लो। २०९) ॥ ४८ ॥
[[०२.४७८]]
(०२.०७.०४९च्द्) उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे ॥ ४९ ॥
मूलम् - ०२.०७.०५०
(०२.०७.०५०अब्) प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ।
(०२.०७.०५०च्द्) अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ॥ ५० ॥
लिङ्ग-सूरी - AK.02.07.049-50
उपवीतमिति—उपवीयते संव्रियते वामस्कन्धोऽनेनेति उपवीतम् । ‘वी गत्यादौ,ऽ ‘वृञ् संवरणेऽ । वामभुजोपरि दक्षिणभुजादधोवर्तमानस्य यज्ञसूत्रस्य नाम ॥ आवीयते आवीतम् । प्राचीनं च तदावीतं च प्राचीनावीतम् । दक्षिणभुजोपरि वामभुजादधोवर्तमानस्य यज्ञसूत्रस्य नाम ॥ नियतं वीयते निवीतम् । कण्ठलम्बितयज्ञसूत्रनाम ॥ तीर्यते पापमनेनेति तीर्थम् । देवानामिदं दैवम् । अङ्गुल्यग्ररूपदेवतीर्थनाम ॥ कः प्रजापतिः देवतास्य कायम् । वामदक्षिणकरसम्बन्धिकनिष्ठाङ्गुल्योर्मूलरूपप्रजापतितीर्थनाम ॥ ४९-५० ॥
मल्लि-नाथः - AK.02.07.049-50
उपवीतं यज्ञसूत्रं—दक्षिणे करे । यज्ञसूत्रं नाम ब्रह्मसूत्रम् । ‘यज्ञसूत्रं ब्रह्मसूत्रं त्रिसूत्रं सूत्रमित्यपिऽ इति वैजयन्ती । तदेव दक्षिणहस्तोद्धृतं चेद् उपवीतं स्यात् । प्राचीनावीतमन्यस्मिन् । वामहस्तोद्धृतं चेत् प्राचीनावीतं स्यात् ॥ निवीतं कण्ठलम्बितम् । कण्ठलम्बितं चेत् निवीतं स्यात् । अङ्गुल्यग्रे तीर्थं दैवम् । अङ्गुलीनामग्रे दैवं तीर्थं स्यात् । तद्दैवततर्पणस्थानं भवति ॥ स्वल्पाङ्गुल्योर्मूले कायम् । तथा कनिष्ठिकानामिकयोर्मूले प्राजापत्यतीर्थं स्यात् ॥ ४९-५० ॥
[[०२.४७९]]
मूलम् - ०२.०७.०५१
(०२.०७.०५१अब्) मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम् ।
(०२.०७.०५१च्द्) स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ ५१ ॥
लिङ्ग-सूरी - AK.02.07.051
मध्य इति—पितॄणामिदं पित्र्यम् । तर्जन्यङ्गुष्ठमध्यरूपपितृतीर्थनाम ॥ ब्रह्मण इदं ब्राह्मम् । अङ्गुष्ठमूलरूपब्रह्मतीर्थनाम ॥ ब्रह्मणो भावो ब्रह्मभूयम् । ब्रह्मत्वं च । ब्रह्मणः सायुज्यं ब्रह्मसायुज्यम् । हिरण्यगर्भब्रह्मपदप्राप्तिनाम ॥ ५१ ॥
मल्लि-नाथः - AK.02.07.051
मध्ये—पित्र्यम् । अङ्गुष्ठतर्जन्योर्मध्ये पित्र्यं तीर्थं स्यात् । मूले—ब्राह्मम् । अङ्गुष्ठमूले ब्रह्मतीर्थं स्यात् ॥ स्याद् ब्रह्मभूयं—ब्रह्मसायुज्यमित्यपि । ब्रह्मैकीभावनामानि ॥ ५१ ॥
[[०२.४८०]]
मूलम् - ०२.०७.०५२
(०२.०७.०५२अब्) देवभूयादिकं तद्वत् कृच्छ्रं सान्तपनादिकम् ।
(०२.०७.०५२च्द्) सन्न्यासवत्यनशने पुमान् प्रायोऽथ वीरहा ॥ ५२ ॥
(०२.०७.०५३अब्) नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना ।
लिङ्ग-सूरी - AK.02.07.052-53
देवेति—एवं देवभूयं देवत्वम् । देवसायुज्यम् । आदिग्रहणात् राजसूयं राजत्वम् राजसायुज्यम् । इन्द्रभूयम् इन्द्रत्वम् इन्द्रसायुज्यमित्यादि ॥ कृन्तति पापमिति कृच्छ्रम् । ‘कृती छेदनेऽ । सान्तपनप्राजापत्यादिकृच्छ्रनाम ॥ प्रकृष्टमेति पुण्यलोकमनेनेति प्रायः । ‘इण् गतौऽ । सर्वसङ्गपरित्यागवदनशनदीक्षानाम ॥ वीरहन्तुः समत्वात् वीरहा । नष्टत्रेताग्नेर्नाम ॥ कुहयते कुहना । ‘कुह विस्मापनेऽ । लोभान्मिथ्यापथकल्पनायाः चर्याया नाम ॥ ५२ ॥
मल्लि-नाथः - AK.02.07.052-53
देवभूयादिकं तद्वत् । तथा देवभूयदेवत्वदेवसायुज्यानि देवैकीभावनामानि ॥ कृच्छ्रं सान्तपनादिकम् । सान्तपनादिव्रतं कृच्छ्रं स्यात् ।
‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥ऽ
इति (मनु। ११। २१२) ॥ सन्न्यासवत्यनशने—प्रायः । सन्न्यासः स्यात् क्रियात्यागः । तत्पूर्वकमनशनव्रतं प्रायः स्यात् । अकारान्तः । ‘प्रायोपवेशनमतिर्नृपतिर्बभूवऽ इति (रघु। ८। ९४) ॥ अथ वीरहा नष्टाग्निः । नष्टाग्निर्वीरहा स्यात् । ‘वीरहा वा एष देवानां भवति योऽग्निमुद्वासयतेऽ इति श्रुतेः (तै। सं। १। ५। २) । वीरहणौ, वीरहणः । ‘सौ चऽ (६। ४। १३) इत्यादिनियमात् दीर्घो न भवति ॥ कुहना—ईर्यापथकल्पना । अर्थलिप्सयासद्भूतचर्यापथकल्पना कुहना स्यात् । ‘कुहनायतिनं कुरुप्रवीरं स्वसरि न्यस्तदृशं जगाद शौरिःऽ । इति प्रयोगः ॥ ५२ ॥
[[०२.४८१]]
(०२.०७.०५३च्द्) व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः ॥ ५३ ॥
मूलम् - ०२.०७.०५४
(०२.०७.०५४अब्) धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः ।
लिङ्ग-सूरी - AK.02.07.053-54
व्रात्य इति—व्रातं स्तोममर्हतीति व्रात्यः । काले उपनयनादिसंस्कारहीनस्य नाम ॥ न विद्यते स्वाध्यायो यस्य अस्वाध्यायः । निराक्रियत इति निराकृतिः । गृहीतस्वाध्यायत्यागिनो नाम ॥ धर्मस्येव ध्वजः चिह्नं यस्य धर्मध्वजी । लिङ्गधारणमेव वृत्तिर्जीवनं यस्य लिङ्गवृत्तिः । मिथ्यानुष्ठानलक्षणजीवतो नामनी ॥ अव व्रतान्तरे कीर्णं रेतोऽस्य अवकीर्णी । ‘कॄ विक्षेपेऽ । क्षतं खण्डितं व्रतमस्य क्षतव्रतः । नष्टब्रह्मचर्यव्रतस्य नामनी ॥ ५३ ॥
मल्लि-नाथः - AK.02.07.053-54
व्रात्यः—हीनः स्यात् । उपनयनं विना कृतविवाहो विप्रो व्रात्यः स्यात् ।
‘कुर्वन्त्यनुपनीता ये विवाहं ब्राह्मणादयः ।
व्रात्या व्राताश्च ते सर्वे ॥ऽ
इति वैजयन्ती (पृ। ७६, श्लो। ५९) ॥ अस्वाध्यायो निराकृतिः । वेदाभ्यासशून्यो निराकृतिः स्यात् । अनुक्तम्—‘अजपस्त्वसदध्येताऽ । असत्पाठकोऽजपः स्यात् ॥ ‘शाखारण्डोऽन्यशाखयाऽ । अन्यशाखापाठकः शाखारण्डः स्यात् ॥ धर्मध्वजी लिङ्गवृत्तिः । लिङ्गं जटाधारणादिकं यस्य वृत्तिः स धर्मध्वजी स्यात् । वर्णिलिङ्ग्यपि स्यात् । ‘वर्णिलिङ्गी लिङ्गवृत्तिःऽ इति वैजयन्ती (पृ। ८३, श्लो ९) ॥ अवकीर्णी क्षतव्रतः । क्षतब्रह्मचारिव्रतोऽवकीर्णी स्यात् । आरूढच्युतः । पतितः ॥ ५३ ॥
[[०२.४८१]]
(०२.०७.०५४च्द्) सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ ५४ ॥
मूलम् - ०२.०७.०५५
(०२.०७.०५५अब्) अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् ।
(०२.०७.०५५च्द्) परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ ५५ ॥
लिङ्ग-सूरी - AK.02.07.054-55
सुप्त इति—यं सुप्तमभि सूर्यो निर्मुञ्चति अस्तमेति सोऽभिनिर्मुक्तः । सूर्यास्तमयकाले सुप्तस्य नाम ॥ यं सुप्तमभि सूर्य उदेति उदयं गच्छति सोऽभ्युदितः । सूर्योदयकाले सुप्तस्य नाम ॥ ज्येष्ठं परिवर्ज्य वधूं विन्दति परिवेत्ता । ज्येष्ठेऽकृतविवाहे सति कृतदारसङ्ग्रहस्य नाम ॥ ५४-५५ ॥
मल्लि-नाथः - AK.02.07.054-55
सुप्ते यस्मिन्—यथाक्रमम् । यस्मिन् पुरुषे सुप्ते सति अंशुमानस्तमेति यस्मिन् पुंसि सुप्ते सति सूर्योऽभ्युदेति तौ नरौ यथाक्रमम् अभिनिर्मुक्ताभ्युदिताविति फलितार्थः । सूर्यास्तमयसूर्योदयसमयशायिनोर्नामनी ॥ परिवेत्ता—दारपरिग्रहात् । ज्येष्ठस्य विवाहेऽसति ऊढः कनिष्ठः परिवेत्ता स्यात् । ऋदन्तः ॥ ५४-५५ ॥
[[०२.४८२]]
मूलम् - ०२.०७.०५६
(०२.०७.०५६अब्) परिवित्तिस्तु तज्ज्यायान् विवाहोपयमौ समौ ।
(०२.०७.०५६च्द्) तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६ ॥
लिङ्ग-सूरी - AK.02.07.056
परिवित्तिरिति—श्राद्धादौ परिवर्ज्यं विन्दति परिवित्तिः । पूर्वोक्तस्यैव ज्येष्ठभ्रातृनाम ॥ विशेषेण वहति वधूमिति विवाहः । ‘वह प्रापणेऽ । उपयमनम् उपयमः । परिणीयते वधूरिति परिणयः । ‘णीञ् प्रापणेऽ । उद्वहनम् उद्वाहः । ‘वह प्रापणेऽ । उपयमनम् उपयामः । ‘यम उपरमेऽ । वधूपाणेः वरपाणिना पीडनं ग्रहणमत्रेति पाणिपीडनम् । विवाहनामानि ॥ ५६ ॥
मल्लि-नाथः - AK.02.07.056
परिवित्तिस्तु तज्ज्यायान् । कनिष्ठस्य विवाहे सति ज्यष्ठोऽनूढः परिवित्तिः स्यात् । परिवित्तोऽपि स्यात् । ‘परिवित्तिस्तु तज्ज्यायान् परिवित्तः कुरी च सःऽ इति वैजयन्ती (पृ। ८६, श्लो। ४३) ॥ विवाहोपयमौ समौ । विवाहनामनी ॥ तथा परिणयो—पाणिपीडनम् । इति पुस्तकान्तरपाठात् परिणयादयोऽपि स्युः ॥ ५६ ॥
[[०२.४८३]]
मूलम् - ०२.०७.०५७
(०२.०७.०५७अब्) व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् ।
(०२.०७.०५७च्द्) त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ॥ ५७ ॥
(०२.०७.०५८अब्) सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये ।
इति ब्रह्मवर्गः
लिङ्ग-सूरी - AK.02.07.057-58
व्यवाय इति—व्यवायनं व्यवायः । ‘इण् गतौऽ । ग्राम्यो धर्मः ग्राम्यधर्मः । मिथुनस्येदं मैथुनम् । निधूयन्ते कम्पन्तेऽङ्गान्यस्मिन्निति निधुवनम् । ‘धूञ् कम्पनेऽ । रमन्तेऽस्मिन्निति रतम् । ‘रमु क्रीडायाम्ऽ । मैथुननामानि ॥ त्रिभिर्धर्मार्थकामैरुपलक्षितो वर्गः त्रिवर्गः । धर्मार्थकामसमूहनाम ॥ चतुर्भिरुपलक्षितो वर्गः चतुर्वर्गः । मोक्षसहितस्य पूर्वोक्तस्य वर्गत्रयस्य नाम ॥ चतुर्णां भद्राणां समाहारः चतुर्भद्रम् । अतिनिर्बन्धेन वर्तमानानां धर्मार्थकाममोक्षाणां नाम ॥ जनिं वधूं वरं प्रापयन्तीति जन्याः । वरस्य सुहृदां नाम ॥ ५७ ॥
इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ ब्रह्मवर्गः
मल्लि-नाथः - AK.02.07.057-58
व्यवायो ग्राम्यधर्मः—निधुवनं रतम् । ‘स्त्रियां क्तिन्ऽ (३। ३। ९४) इति रतिरपि स्यात् । ‘ग्राम्यधर्मः कामकेली रतिर्निधुवनं रतम्ऽ इति वैजयन्ती (पृ। १७२, श्लो। १७०) । ‘सौ रमेः क्तःऽ इति सुरतमपि स्यात् । ‘सुरतं मोहनं प्रोक्तं मणितं रतकूजितम्ऽ इति हलायुधः (अ। मा। २। ४१४) । सङ्गमनामानि ॥ अनुक्तम्—‘चुम्बनं रदनोच्छिष्टम्ऽ । अधरग्रहणनाम ॥ ‘मणितं रतिकूजितम्ऽ । गलरवनामनी ॥ त्रिवर्गो धर्मकामार्थैः । धर्मकामार्थास्त्रयो मिलित्वा त्रिवर्गः स्यात् । चतुर्वर्गः समोक्षकैः । मोक्षसहितास्ते त्रयश्चतुर्वर्गः स्यात् । सबलैस्तैश्चतुर्भद्रम् । बलयुक्तास्ते चत्वारश्चतुर्भद्रं स्यात् ॥ जन्याः—वरस्य ये । वरस्य वयस्या जन्याः स्युः । नवोढायाश्च ज्ञातिभृत्या जन्याः स्युः । ‘ज्ञातिभृत्या नवोढाया जन्याः स्निग्धा वरस्य चऽ इति वैजयन्ती (पृ। २३२, श्लो। ३३) ॥ ५७ ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचितेऽमरपदपारिजाते ब्रह्मवर्गः
[[०२.४८४]]