०६ मनुष्यवर्गः

गृहनिरुद्धपक्षिमृगप्रसङ्गात् तद्वर्तिमनुष्याणां नामानि विवक्षुः इदानीं साङ्गोपाङ्गं मनुष्यवर्गमाह मनुष्या इत्यादिना—

मूलम् - ०२.०६.००१

(०२.०६.००१अब्) मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ।
(०२.०६.००१च्द्) स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ॥ १ ॥

लिङ्ग-सूरी - AK.02.06.001

मनुष्या इति—मनोरपत्यानि मनुष्याः, मानुषाश्च । म्रियन्त इति मर्त्याः । ‘मृङ् प्राणत्यागेऽ । मर्तो भूलोकः । तत्र भवा वा । मनोर्जाता मनुजाः । ‘जनी प्रादुर्भावेऽ । मनोरिमे मानवाः । नृणन्ति नयन्ति सर्वं स्ववशमिति नराः । ‘नॄ नयेऽ । स्वकर्म नयन्ति प्राप्नुवन्तीति वा नराः । नरश्च । ‘णीञ् प्रापणेऽ । पूर्वः अकारान्तः । अपरः ऋकारान्तः । एतानि मनुष्यनामानि ॥ पान्ति स्त्र्यादिकमिति पुमांसः । ‘पा रक्षणेऽ । पञ्चभिः पृथिव्यादिभूतैर्जन्यन्त इति पञ्चजनाः । ‘जनी प्रादुर्भावेऽ । पुरि देहे शेत इति पुरुषः । अथवा पुरन्ति प्राणिनामग्रे गच्छन्तीति पुरुषाः । ‘पुर अग्रगमनेऽ । पूरुषाश्च । एतानि पुरुषनामानि ॥ १ ॥

मल्लि-नाथः - AK.02.06.001

मनुष्याः—नराः । मनुष्यनामानि । जातिशब्दत्वात् स्त्रीलिङ्गा अपि भवन्ति । मनुषी । ‘योपधप्रतिषेधे गवयहयमुकयमनुष्यमत्स्यानामप्रतिषेधःऽ (वा। ४। १। ६३) इति ङीष् । मानुषी । मर्त्या । मनुजा । मानवी ॥ स्युः—नरः । ऋदन्तोऽयम् । पुंसो नामानि । ‘व्रुवते स्म दूत्य उपसृत्य नरान् नरवत् प्रगल्भमतिगर्भगिरःऽ (शिशु। ९। ६२) इत्यादिप्रयोगान्नरशब्दः पुंसोऽपि नाम । ‘पुंसः पुमानी मलिन ॥ । बुद्ध्या प्रमाणमपि चेच्छिरसा करोति ।ऽ इत्यादितः पुमादिशब्दा मनुष्याणामपि नामानि भवन्ति । ‘पुरुषावात्ममानवौऽ (३। ३। २१८) इति मूलकारः स्वयमेव वक्ष्यति ॥ १ ॥

[[०२.३६२]]

मूलम् - ०२.०६.००२

(०२.०६.००२अब्) स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः ।
(०२.०६.००२च्द्) प्रतीपदर्शिनी वामा वनिता महिला तथा ॥ २ ॥

लिङ्ग-सूरी - AK.02.06.002

स्त्रीति—स्त्यायति सङ्घातो भवति गर्भोऽस्यामिति स्त्री । ‘स्त्यै शब्दसङ्घातयोःऽ । यौति पुंसेति योषित् । योषा च । ‘यु मिश्रणेऽ । योषितेति वा पाठः । पुंस इव बलमस्या न विद्यत इत्यबला । अल्पं बलमस्या इति वा । अल्पार्थे नञ् । नृणाति नयति स्ववशं पुरुषमिति नारी । ‘नॄ नयेऽ । सीमन्तः केशवीथी अस्त्यस्याः सीमन्तिनी । उह्यते भर्त्रेति वधूः । ‘वह प्रापणेऽ । प्रतीपं वक्रं द्रष्टुं शीलमस्या इति प्रतीपदर्शिनी । ‘दृशिर् प्रेक्षणेऽ । वामत्वेन वक्रस्वभावत्वेन रम्यत्वेन वा वामा । वनति प्राप्नोति पुरुषमिति वनिता । ‘वन सम्भक्तौ शब्दे चऽ । अपत्यादिना मह्यत इति महिला । ‘मह पूजायाम्ऽ । एतानि स्त्रीनामानि ॥ २ ॥

मल्लि-नाथः - AK.02.06.002

स्त्री योषित् । योषिताशब्दोऽप्यस्ति । ‘स्त्री वधूर्योषिता रामाऽ इति त्रिकाण्डशेषः (पृ। १३, श्लो। ३००) । अबला योषा । जोषाशब्दोऽपि । जोषयति प्रीणयतीति जोषा । नारी—महिला तथा । महेलापि ।

‘अविरलरववारिवाहिनीयं प्रसभमिवाह्वयदाकुलं महेला ।ऽ

इति कर्पिणाभ्युदये (१०। ११) । नारीनामानि ॥ २ ॥

[[०२.३६३]]

मूलम् - ०२.०६.००३

(०२.०६.००३अब्) विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना ।
(०२.०६.००३च्द्) प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३ ॥
(०२.०६.००४अब्) सुन्दरी रमणी रामा कोपना सैव भामिनी ।

लिङ्ग-सूरी - AK.02.06.003-4

विशेषा इति—तद्विशेषान् प्रत्येकमाह—प्रशस्तानि अङ्गान्यस्या इत्यङ्गना ॥ भयं शीलमस्या इति भीरुः ॥ कामयते पुमांसमत्यर्थमिति कामिनी । अतिशयेन कामोऽस्या इति वा । ‘कमु कान्तौऽ ॥ वामे वल्गुनी लोचने यस्याः सा वामलोचना । रमणीयलोचनस्त्रीनाम ॥ प्रकृष्टो मदः कामावेगोऽस्या अस्तीति प्रमदा ॥ मानः प्रणयकोपोऽस्या अस्तीति मानिनी ॥ भाविनीति पाठे भावः शृङ्गारचेष्टा, सोऽस्या अस्तीति भाविनी ॥ तापसादिनापि काम्यत इति कान्ता ॥ ललति विलसतीति ललना । ‘लल विलासेऽ ॥ पृथुर्नितम्बः कटिपश्चाद्भागोऽस्त्यस्या इति नितम्बिनी ॥ सुष्ठु आद्रियते पुंसेति सुन्दरी । ‘दृङ् आदरेऽ ॥ रमयति नायकमिति रमणी । ‘रमु क्रीडायाम्ऽ । पुमान् यस्यां रमते विशेषतः सा रमणीति वा ॥ रमते कामशास्त्रानुसारेण कलाभिरिति रामा । ‘रमु क्रीडायाम्ऽ ॥ एतानि स्त्रीविशेषनामानि ॥ सा कोपना चेत् कोपशीला यदि भवेद् भामिनीत्युच्यते । रमयन्ती भामयत्यवश्यं कुप्यतीति भामिनी । ‘भाम क्रोधेऽ । कोपनस्त्रिया नामनी ॥ ३ ॥

मल्लि-नाथः - AK.02.06.003-4

विशेषास्तु—रामा । वक्ष्यन्त इति शेषः । ते च शब्दाः सामान्येऽपि । तथा च हलायुधः (२। ३२६-७)—

‘रामा वामा वामनेत्रा पुरन्ध्री नारी भीरुर्भामिनी कामिनी च ।

योषा योषिद् वासिता वर्णिनी स्त्री स्यात् सीमन्तिन्यङ्गना सुन्दरी च ॥

अबला महिला ललना प्रमदा रमणी नितम्बिनी वनिता ।

दयिता प्रतीपदर्शिन्युक्ता च वधूर्वशा युवतिः ॥ऽ

इति । अङ्गना कल्याणाङ्ग्याः स्त्रिया नाम । भीरुर्भयशीलायाः । सञ्ज्ञापूर्वकविधेरनित्यत्वेन सम्बुद्धौ गुणस्यानित्यता । तेन ‘कुतस्त्यं भीरु यत्तेभ्यो द्रुह्यद्भ्योऽपि क्षमामहेऽ इति भट्टिः (४। ३९) । ‘कम्पोत्तरं भीरु तवोपगूढम्ऽ इति कालिदासश्च (रघु। १३। २४) । कामिनी प्रियसङ्गमलालसायाः । वामलोचना रमणीयनयनायाः । प्रमदा यौवनादिमदवत्याः । मानिनी प्रणयकोपवत्याः । कान्ता स्पृहणीयायाः । ललना विलसनशीलायाः । नितम्बिनी घननितम्बायाः नामानि ॥ सुन्दरी मनोहरा । रमणी रामा क्रीडाशीला । कोपना—भामिनी । सैव कोपवती चेद् भामिनी स्यात् । क्रीडासमये कोपशीलाया नाम ॥ ३ ॥

[[०२.३६४]]

(०२.०६.००४च्द्) वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी ॥ ४ ॥

मूलम् - ०२.०६.००५

(०२.०६.००५अब्) कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः ।

लिङ्ग-सूरी - AK.02.06.004-5

वरारोहेति—पुंसा आरुह्यत इति आरोहः नितम्बः, वरः श्रेष्ठः आरोहोऽस्या इति वरारोहा । मधुपानं विनापि मत्तेव काशत इति मत्तकाशिनी । ‘काशृ दीप्तौऽ । मत्तकासिनीति पाठे श्रोणीगौरवात् मत्तगजवत् मन्दं कसतीति मत्तकासिनी । ‘कस गतौऽ । रूपशीलादिभिरुत्कृष्टत्वाद् उत्तमा । वरः श्रेष्ठो वर्णो रूपमस्या इति वरवर्णिनी । उत्तमस्त्रीनामानि ॥ मह्यते पूज्यत इति महिषी । ‘मह पूजायाम्ऽ । नृपेण सहाभिषिक्तस्त्रीनाम ॥ भोगः सम्भोगो यास्विति भोगिन्यः । नृपस्य आभ्यो भोगोऽस्तीति वा । नृपभोगस्त्रीनाम ॥ ४ ॥

मल्लि-नाथः - AK.02.06.004-5

वरारोहा । घनश्रोणीनाम । मत्तकाशिनी । मत्तेन मदेन प्रकाशमानाया नाम । उत्तमा । असाधारणगुणाया नाम । वरवर्णिनी । प्रशस्तरूपवत्या नाम ॥ कृताभिषेका महिषी । राज्ञा सहाभिषिक्ताया नाम ॥ भोगिन्यो—नृपस्त्रियः । तदन्या राज्ञ्यो भोगिन्यः स्युः । अनुक्तम्—‘पालाकली युद्धजिताऽ । युद्धे निर्जित्याहृता राज्ञी पालाकली स्यात् ॥ ४ ॥

[[०२.३६५]]

(०२.०६.००५च्द्) पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥

मूलम् - ०२.०६.००६

(०२.०६.००६अब्) भार्या जायाथ पुम्भूम्नि दाराः स्यात्तु कुटुम्बिनी ।
(०२.०६.००६च्द्) पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥

लिङ्ग-सूरी - AK.02.06.005-6

पत्नीति—पत्युरनया सह यज्ञसंयोगः सम्पद्यत इति पत्नी । पाणिर्गृहीतोऽस्या इति पाणिगृहीती । द्वितीयो धर्मभागोऽस्या अस्तीति द्वितीया । पत्या सह धर्मो दानयज्ञादिरस्या अस्तीति सहधर्मिणी । ब्राह्मादिमुख्यविवाहतो यस्या यज्ञाधिकारोऽस्ति तस्या नामानि ॥ भ्रियत इति भार्या । ‘भृञ् भरणेऽ । जायतेऽपत्यमस्यामिति जाया । जायतेऽस्यां पतिः पुत्ररूपेणेति वा । ‘जनी प्रादुर्भावेऽ । दारयन्ति उद्वेजयन्ति पतीनिति दाराः । ‘दृ भयेऽ । अयं शब्दः पुंस्येव भूम्नि च । अत्र अथशब्दस्य अथ भार्येत्यादौ अन्वयः । परिणीतस्त्रीनामानि ॥ कुटुम्बमस्या अस्तीति कुटुम्बिनी । पुरं पोष्यवर्गं धरतीति पुरन्ध्री । ‘धृञ् धारणेऽ । कुटुम्बपोषकस्त्रीनामनी ॥ शोभनं चरित्रं यस्याः सा सुचरित्रा । दर्शनादेव पापं स्यति नाशयतीति सती । ‘षोऽन्तकर्मणिऽ । साधुगुणयोगात् साध्वी । पतिसेवैव व्रतमस्याः पतिव्रता । सुनियतस्त्रीनामानि ॥ ५-६ ॥

मल्लि-नाथः - AK.02.06.005-6

पत्नी पाणिगृहीती च । चशब्दो भङ्ग्यन्तराभिधानार्थः । तेन पाण्यत्ती करात्तीत्यपि । द्वितीया—दाराः । दाराः पुंस्येव भूम्न्येव । अग्निसाक्षिकतया परिणीतस्त्रीनामानि ॥ ‘शूद्री शूद्रस्य भार्या स्यात्ऽ (२। ६। १३) इत्यौपचारिकः प्रयोगः । स्यात्तु—पुरन्ध्री । कुटुम्बपोषिकानामनी ॥ सुचरित्रा—पतिव्रता । नियतस्त्रीनामानि । पतिवत्न्येकपत्न्यपि । एते च ॥ ५-६ ॥

[[०२.३६६]]

मूलम् - ०२.०६.००७

(०२.०६.००७अब्) कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा ।
(०२.०६.००७च्द्) पतिंवरा च वर्या च कुलस्त्री कुलपालिका ॥ ७ ॥
(०२.०६.००८अब्) कन्या कुमारी गौरी तु नग्निकानागतार्तवा ।

लिङ्ग-सूरी - AK.02.06.007-8

कृतेति—सपत्न्याः भावः सापत्न्यं सापत्नं च । कृतं सापत्नं यस्याः सा कृतसापत्निका । अधि स्वोपरि उह्यते अस्या इति अध्यूढा । ‘वह प्रापणेऽ । अधि उपरि विन्ना लब्धा यस्याः अधिविन्ना । ‘विद्लृ लाभेऽ । पूर्वोढानामानि ॥ स्वयं वृणुते पतिमिति स्वयंवरा । ‘वृञ् वरणेऽ । पतिं वृणुत इति पतिंवरा । वरणं वरः, तत्र निपुणा वर्या । या स्वरुच्यैव पतिं वृणुते तस्या नामानि ॥ कुलेनाव्यभिचारेण रक्षिता स्त्री कुलस्त्री । कुलं पालयतीति कुलपालिका । ‘पाल रक्षणेऽ । सन्तानसम्पादयितृस्त्रीनामनी ॥ कन्यते काम्यत इति कन्या । ‘कनी दीप्तिकान्तिगतिषुऽ । कनति द्युतिमती भवतीति वा । कुत्सितो मारो मदनोऽस्या अस्तीति कुमारी । कुमारयति क्रीडयतीति वा । ‘कुमार क्रीडायाम्ऽ । अनूढनववर्षाधिकानामनी ॥ मनसा विवाहं प्रति गुरते प्रत्युद्यच्छतीति गौरी । ‘गुरी उद्यमनेऽ । नजते व्रीडतीति नग्निका । ‘ओणजी व्रीडनेऽ । अत्र नग्निकाशब्दो विरुद्धलक्षणया गौर्यां वर्तते । अनागतम् आर्तवं पुष्पमस्या इति अनागतार्तवा । अनूढसप्तवर्षाधिकानामानि ॥ ७ ॥

मल्लि-नाथः - AK.02.06.007-8

कृतसापत्निका—अधिविन्ना । या व्यूढा सती कृतसापत्नका साधिविन्ना स्यात् । सापत्न्यदुःखिताया नाम ॥ त्रीण्यपि सपत्नीनामानीति केचित् । कृतसापत्न्यिकेति पाठे स्त्रीप्रत्ययानन्तरं कप् । कृतसापत्न्यकेति पाठे तु कबनन्तरमपि स्त्रीप्रत्ययः ॥ अथ स्वयंवरा—वर्या च । या कन्या स्वातन्त्र्येण पतिं वृणीते तस्या नामानि ॥ कुलस्त्री कुलपालिका । मातापितृप्रतिपादितकन्यकानामनी ॥ कन्या—गौरी च । कन्यकानामानि ॥ ‘कुमारी कन्यका गौरीऽ इति वैजयन्ती (पृ। १७३, श्लो। ६) । नग्निकानागतार्तवा । अनागतप्रथमरजाः कन्या नग्निका स्यात् ॥ ७ ॥

[[०२.३६७]]

(०२.०६.००८च्द्) स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ॥ ८ ॥

मूलम् - ०२.०६.००९

(०२.०६.००९अब्) समाः स्नुषाजनीवध्वश्चिरण्टी तु सुवासिनी ।

लिङ्ग-सूरी - AK.02.06.008-9

स्यादिति—कन्यायुवत्योर्मध्यमे वयसि तिष्ठतीति मध्यमा । दृष्टं रजोऽस्या इति दृष्टरजाः । दृष्टरजःस्त्रीनामनी ॥ कन्यावस्थां तरतीति तरुणी । ‘तॄ प्लवनतरणयोःऽ । पुंसा वाह्वङ्गादिना यौतीति युवतिः । ‘यु मिश्रणेऽ । युवती वा । षोडशवर्षाधिकस्त्रीनामनी ॥ श्वशुरादिपादप्रक्षालनाय जलं स्नौतीति स्नुषा । ‘ष्णु प्रस्रवणेऽ । जायते पुत्रोऽस्यामिति जनी । ‘जनी प्रादुर्भावेऽ । पुत्रेण उह्यते वधूः । ‘वह प्रापणेऽ । पुत्रभार्यानामानि ॥ चिरेणाटति पितृगेहाद् भर्तृगेहमिति चिरण्टी । चिरिणोति हिनस्त्यमङ्गलानीति वा । ‘चिरि हिंसायाम्ऽ । चरतीति चरण्टीत्येके । सुष्ठु वसतीति सुवासिनी । ‘वस निवासेऽ । स्वेपु वस्तुं शीलमस्या इति स्वासिनीति वा पाठः । सभर्तृकाया नामनी ॥ ८ ॥

मल्लि-नाथः - AK.02.06.008-9

स्यात्—दृष्टरजाः । दृष्टप्रथमपुष्पा मध्यमा स्यात् । अनुक्तम्—‘प्राप्तर्तुर्दिक्करी राकाऽ । प्राप्तर्तोर्नामनी । ‘श्यामा स्त्रीव्यञ्जनैर्युताऽ । उत्पन्नकुचकलशादिः श्यामा स्यात् । तरुणी युवती समे । यौवनवत्या नामनी । पाक्षिकलादेशात् तलुनी ॥ ‘वधूटी वेकटी तल्लीऽ (?) । एतानि च । समा—वध्वः । पुत्रपत्नीनामानि ॥ चिरण्टी—सुवासिनी । स्त्रीनामनी ॥ ८ ॥

[[०२.३६७]]

(०२.०६.००९च्द्) इच्छावती कामुका स्याद् वृषस्यन्ती तु कामुकी ॥ ९ ॥

मूलम् - ०२.०६.०१०

(०२.०६.०१०अब्) कान्तार्थिनी तु या याति सङ्केतं साभिसारिका ।

लिङ्ग-सूरी - AK.02.06.009-10

इच्छावतीति—पुष्पादिषु इच्छा अस्त्यस्या इति इच्छावती । सुरतव्यतिरिक्तवस्तुनि कामोऽभिलाषोऽस्या अस्तीति कामुका । ‘कमु कान्तौऽ । सुरतादन्यत्र विषये इच्छावतीनामनी ॥ वृषं रेतोऽधिकपुरुषम् आत्मन इच्छतीति वृषस्यन्ती । सुरतं कामयत इति कामुकी । यूना सह सुरताभिलाषिणीनामनी ॥ अभिसारयते कान्तम् अभिसारिका । ‘सृ गतौऽ । कान्तमुद्दिश्य सङ्केतस्थानगामिनीनाम ॥ ९ ॥

मल्लि-नाथः - AK.02.06.009-10

इच्छावती कामुका स्यात् । सम्भोगान्यविषयकेच्छावत्या नाम ॥ वृषस्यन्ती—कामुकी । सम्भोगेच्छावत्या नामनी ॥ कान्तार्थिनी—साभिसारिका । कान्तसङ्केतगामिन्यभिसारिका स्यात् ॥ ९ ॥

[[०२.३६८]]

(०२.०६.०१०च्द्) पुंश्चली चर्षणी बन्धक्यसती कुलटेत्वरी ॥ १० ॥

मूलम् - ०२.०६.०११

(०२.०६.०११अब्) स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना ।

लिङ्ग-सूरी - AK.02.06.010-11

पुंश्चलीति—पुमांसं प्रलोभ्य चलतीति पुंश्चली । ‘चल गतौऽ । कामोद्दीपनात् पुमांसं व्याकर्षतीति चर्षणी । ‘कृष विलेखनेऽ । ककारस्य चकारादेशः । धर्षणीति वा पाठः । बध्नाति उदासीनमपि पुरुषं स्ववशं करोतीति बन्धकी । ‘बन्ध बन्धनेऽ । न सती असती । विटकुलमटतीति कुलटा । ‘अट गतौऽ । एत्यसाधुजनस्थानं ताच्छील्येनेति इत्वरी । ‘इण् गतौऽ । स्वैरं स्वेच्छागमनमस्या अरतीति स्वैरिणी । पांसवो मलिना दोषा अस्याः सन्तीति पांसुला । व्यभिचारिणीनामानि ॥ शिशवो न सन्त्यस्या इत्यशिश्वी । शिशुरहितस्त्रीनाम ॥ १० ॥

मल्लि-नाथः - AK.02.06.010-11

पुंश्चली—पांसुला च स्यात् । व्यभिचारिण्या नामानि ॥ अनुक्तम्—‘ऊर्मिला त्यक्तभर्तृकाऽ । भर्तारं त्यक्तवत्या नाम ॥ अशिश्वी—विना । अनपत्या अशिश्वी स्यात् । ‘नश्यत्प्रसूतिर्भिदुः स्यात्ऽ इति हलायुधः (अ। मा। २। ३३३) ॥ १० ॥

[[०२.३६९]]

(०२.०६.०११च्द्) अवीरा निष्पतिसुता विश्वस्ताविधवे समे ॥ ११ ॥

मूलम् - ०२.०६.०१२

(०२.०६.०१२अब्) आलिः सखी वयस्या च पतिवत्नी सभर्तृका ।

लिङ्ग-सूरी - AK.02.06.011-12

अवीरेति—न विद्यते वीरोऽस्या अवीरा । पतिपुत्ररहितस्त्रीनाम ॥ विश्वसिति विगतश्वसनेव तिष्ठति मृतप्रायत्वादिति विश्वस्ता । ‘श्वस प्राणनेऽ । विगतो धवः पतिर्यस्याः सा विधवा । मृतभर्तृकानामनी ॥ अलति मिथो भूषयत्यनुरूपसम्बन्धेनेति आलिः । ‘अल भूषणपर्याप्तिवारणेषुऽ । गुणादिना समाना ख्यातिरस्या इति सखी । वयसा तुल्या वयस्या । सहक्रीडन्त्या नामानि ॥ पतिरस्या अस्तीति पतिवत्नी । विवाहाप्तभर्तृमतीनाम ॥ ११ ॥

मल्लि-नाथः - AK.02.06.011-12

अवीरा—सुता । पतिसुतरहिता अवीरा स्यात् । ‘पतिपुत्रवती वीराऽ इति नाममाला ॥ विश्वस्ता—समे । मृतभर्तृकानामनी । अनुक्तम्—‘रण्डा च त्वरिकेत्यपिऽ । बालविधवानामनी ॥ आलिः—वयस्या च । सखीनामानि । ‘सध्रीची सहचर्यपिऽ । एते च ॥ पतिवत्नी सभर्तृका । आयुष्मद्भर्तृकानामनी ॥ अनुक्तम्—‘जीवतोका जीवसूः स्यात्ऽ । जीवदपत्यानामनी ॥ ‘किमिला बहुपुत्रिकाऽ । बहुपुत्रवत्या नाम ॥ ११ ॥

[[०२.३६९]]

(०२.०६.०१२च्द्) वृद्धा पलिक्नी प्रज्ञा तु प्राज्ञी प्राज्ञा तु धीमती ॥ १२ ॥

मूलम् - ०२.०६.०१३

(०२.०६.०१३अब्) शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च ।

लिङ्ग-सूरी - AK.02.06.012-13

वृद्धेति—गतवयस्का वृद्धा । पलितरोमयोगात् पलिक्नी । वृद्धस्त्रीनाम ॥ प्रकर्षेण जानातीति प्राज्ञी । प्रज्ञा च । ‘ज्ञा अवबोधनेऽ । प्रकर्षेण लौकिकव्यवहाराद्यभिज्ञाया नामानि ॥ प्रज्ञा अस्या अस्तीति प्राज्ञा । धीरस्या अस्तीति धीमती । प्रकृष्टधीमतीनामनी ॥ शूद्रस्य भार्या शूद्री । शूद्रभार्यानाम ॥ शूद्रजातौ भवा स्त्री शूद्रा । शूद्रस्त्रीनाम ॥ १२ ॥

मल्लि-नाथः - AK.02.06.012-13

वृद्धा पलिक्नी । वृद्धस्त्रीनामनी ॥ प्राज्ञी—धीमती । प्रज्ञावत्या नामानि ॥ शूद्री—भार्या स्यात् । शूद्रस्य भार्या शूद्री स्यात् ॥ शूद्रा तज्जातिरङ्गना । शूद्रजातिः स्त्री शूद्रा स्यात् ॥ १२ ॥

[[०२। ३७०]]

(०२.०६.०१३च्द्) आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ १३ ॥

मूलम् - ०२.०६.०१४

(०२.०६.०१४अब्) अर्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि ।

लिङ्ग-सूरी - AK.02.06.013-14

आभीरीति—आभीरस्य गोपस्य भार्या तज्जातीया वा आभीरी । महाशूद्रस्य भार्या तज्जातीया वा महाशूद्री । गोपालस्य भार्यायाः तज्जातिस्त्रिया वा नामनी ॥ अर्यर्कुले जाता अर्याणी । अर्या च । अर्यकुलप्रसूतानामनी ॥ क्षत्रकुले जाता क्षत्रिया । क्षत्रियाणी च । क्षत्रकुलप्रसूतानामनी ॥ १३ ॥

आभीरी—समा । महाशूद्रशब्द आभीरपर्यायः तत्र जातिपुंयोगयोरेकरूपता ॥ अर्याणी—अर्या स्यात् । अर्याया नाम ॥ क्षत्रिया क्षत्रियाण्यपि । क्षत्रियाया नामनी ॥ १३ ॥

[[०२। ३७०]]

(०२.०६.०१४च्द्) उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ १४ ॥

मूलम् - ०२.०६.०१५

(०२.०६.०१५अब्) आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा ।

लिङ्ग-सूरी - AK.02.06.014-15

उपाध्यायेति—उपेत्य अधीतेऽस्याः सकाशात् सूदशास्त्रं गीतादिकं वेति उपाध्याया । उपाध्यायी च । ‘इङ् अध्ययनेऽ । सूदशास्त्रं गीतादिकं वा उपदेशिन्या नामनी ॥ शिल्पोपदेशं स्वत एवाचरति आचार्या । ‘चर गतिभक्षणयोःऽ । स्वतः शिल्पोपदेशिनीनाम ॥ आचार्यस्य पत्नी आचार्यानी । आचार्यपत्नीनाम ॥ अर्यस्य सभ्यस्य पत्नी अर्यी । सभ्यस्य पत्नीनाम ॥ क्षत्रीयस्य पत्नी क्षत्रियी । क्षत्रियपत्नीनाम ॥ १४ ॥

मल्लि-नाथः - AK.02.06.014-15

उपाध्यायाप्युपाध्यायी । उपाध्यायाया नामनी ॥ स्यात्—स्वतः । आचार्याया नाम ॥ आचार्यानी—क्षत्रियी तथा । आचार्यादिशब्दानां पूर्वं जातिलक्षणाभिधानम् । इदानीं पुंयोगलक्षणाभिधानम् । स्वयमयोग्या चेदाचार्यस्य पत्नीं आचार्यानी । ‘आचार्यादणत्वं चऽ (वा। ४। १। ४९) इति णत्वं न । क्षुद्रा चेदर्यस्य पत्नी अर्यी । अर्यो वैश्यजातिः पुरुषः । शूद्रकुलजा चेत् क्षत्रियस्य पत्नी क्षत्रियी ॥ १४ ॥

[[०२.३७१]]

(०२.०६.०१५च्द्) उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥

मूलम् - ०२.०६.०१६

(०२.०६.०१६अब्) वीरपत्नी वीरभार्या वीरमाता तु वीरसूः ।

लिङ्ग-सूरी - AK.02.06.015-16

उपाध्यायानीति—उपाध्यायस्य पत्नी उपाध्यायानी । उपाध्यायी च । उपाध्यायपत्नीनामनी ॥ स्त्रीपुंसलक्षणैः पुटति संश्लिष्यतीति पोटा । ‘पुट संश्लेषणेऽ । स्त्रीपुंसलक्षणवतीनाम ॥ वीरः पतिर्यस्याः सा वीरपत्नी । वीरस्य भार्या वीरभार्या । वीरभार्यानामनी ॥ वीरस्य माता वीरमाता । वीरं सूयते वीरसूः । ‘षूञ् प्राणिप्रसवेऽ । वीरमातृनामनी ॥ १५ ॥

मल्लि-नाथः - AK.02.06.015-16

उपाध्यायान्युपाध्यायी । मूर्खा चेदुपाध्यायस्य पत्नी उपाध्यायानी । उपाध्यायीत्यपि ॥ पोटा—लक्षणा । स्तनश्मश्रुमती स्त्री पोटा स्यात् । दास्यपि पोटा । ‘पोटा वोटा तथा चेटी दासी स्यात् कुटहारिकाऽ इति हलायुधः (अ। मा। २। ३३७) ॥ वीरपत्नी वीरभार्या । वीरस्य पत्नी, वीरः पतिः यस्या इति वा वीरपत्नी । वीरभार्यानाम ॥ वीरमाता—वीरसूः । वीरजननीनामनी ॥ १५ ॥

[[०२.३७१]]

(०२.०६.०१६च्द्) जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥

मूलम् - ०२.०६.०१७

(०२.०६.०१७अब्) स्त्री नग्निका कोटवी स्याद् दूतीसञ्चारिके समे ।

लिङ्ग-सूरी - AK.02.06.016-17

जातापत्येति—जातमपत्यमस्या जातापत्या । प्रकर्षेण जायन्तेऽपत्यान्यस्याः प्रजाता । प्रसूयते पुत्रान् प्रसूता । प्रसूतिका च । ‘षूङ् प्राणिप्रसवेऽ । जायमानापत्यानामानि ॥ नजते नग्निका । ‘ओणजी व्रीडनेऽ । कुटेन कौटिल्येन वेति यातीति कोटवी । ‘वी गतिप्रजनकान्त्यसनखादनेषुऽ । बलादपेतवस्त्रानामनी ॥ दूयतेऽनया पुमान् स्त्रीपक्षपातेनेति दूती । ‘दूङ् परितापेऽ । सञ्चारयति पुमांसं स्त्रियं प्रापयतीति सञ्चारिका । ‘चर गतौऽ । दौत्यकस्त्रीनामनी ॥ १६ ॥

मल्लि-नाथः - AK.02.06.016-17

जातापत्या—प्रसूतिका । प्रसूतिकानामानि ॥ स्त्री—कोट्टवी स्यात् । कोट्टं विदिशम् । कोटं कौटिल्यं वातीति कोटवीत्यपि । संयुक्तोऽसंयुक्तो वा टकारः । विवसनस्त्रीनामानि ॥ दूती—समे । दूतिरित्यप्यस्ति । ‘त्वां कामिनो मदनदूतिमुदाहरन्तिऽ इति प्रयोगात् (विक्रमो। ४। २५) । दूतिकानामनी ॥ १६ ॥

[[०२.३७२]]

(०२.०६.०१७च्द्) कात्यायन्यर्धवृद्धा या काषायवसनाधवा ॥ १७ ॥

मूलम् - ०२.०६.०१८

(०२.०६.०१८अब्) सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका ।

लिङ्ग-सूरी - AK.02.06.017-18

कात्यायनीति—कत्यस्य ऋषेरपत्यमिव वर्तते कात्यायनी । अर्धवृद्धायाः काषायवसनायाः पतिरहितायाः परस्त्रियमुद्दिश्य प्रापणार्हाया वा नाम ॥ स्वकार्येण सह पर्यायप्रेरणं धारयतीति सैरन्ध्री । ‘धृञ् धारणेऽ । दासीवन्मण्डनादिशिल्पकर्म कुर्वत्या असम्बन्धिवेश्मस्थायाः स्ववशाया नाम ॥ १७ ॥

मल्लि-नाथः - AK.02.06.017-18

कात्यायनी—वसनाधवा । अर्धवृद्धा काषायवस्त्रा विधवा चेत्युपाधित्रयविशिष्टा कात्यायनी स्यात् । सैरन्ध्री—शिल्पकारिका । परगृहस्थिता स्वाधीना शिल्पकारिणी चेत्युपाधित्रयविशिष्टा सैरन्ध्री स्यात् ॥ १७ ॥

[[०२.३७२]]

(०२.०६.०१८च्द्) असिक्नी स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी ॥ १८ ॥

मूलम् - ०२.०६.०१९

(०२.०६.०१९अब्) वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः ।
(०२.०६.०१९च्द्) सत्कृता वारमुख्या स्यात् कुट्टनीशम्भली समे ॥ १९ ॥

लिङ्ग-सूरी - AK.02.06.018-19

असिक्नीति—असितकेशयोगाद् असिक्नी । अवृद्धायाः स्त्र्यगारचारिण्या दास्या नाम ॥ वारस्य समूहस्य स्त्री वारस्त्री । वारं वारं राजसेवार्थमागता स्त्री वा । विटगणोऽस्या अस्तीति गणिका । गणयति धनिकानिति वा । वेशे भवा वेश्या । रूपमेवाजीवो जीविका अस्या इति रूपाजीवा । वेश्यानामानि ॥ वारे राजादिसेवावसरे मुख्यत्वाद् वारमुख्या । जनैरादृतगणिकानाम ॥ विटस्य कुटुम्बमर्थहरणेन कुट्टयति नाशयतीति कुट्टनी । ‘कुट्ट छेदनभर्त्सनयोःऽ । शं श्रेयः भालयति हिनस्तीति शम्भली । ‘भल भल्ल परिभाषणहिंसादानेषुऽ । विटवेश्ययोः सन्धानकारिणीनामनी ॥ १८-१९ ॥

मल्लि-नाथः - AK.02.06.018-19

असिक्नी—चारिणी । अवृद्धा शरीरायासेन जीवितं कुर्वती स्त्र्यगारवासिनी चेत्युपाधित्रयविशिष्टा असिक्नी स्यात् ॥ वारस्त्री—रूपाजीवा । वेश्यानामानि ॥ ‘पश्यन्ती लञ्जिका पण्यशब्दाद्भार्याह्वया अपि ऽ । एतानि च । अथ—वारमुख्या स्यात् । जनैरादृता वेश्या वारमुख्या स्यात् ॥ कुट्टनी समे । लञ्जिकाविटयोः सङ्घटनकारिणीनामनी । ‘चुन्दी सङ्घटिका तथाऽ । एते च ॥ १८-१९ ॥

[[०२.३७३]]

मूलम् - ०२.०६.०२०

(०२.०६.०२०अब्) विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला ।
(०२.०६.०२०च्द्) स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥
(०२.०६.०२१अब्) ऋतुमत्यप्युदक्यापि स्याद् रजः पुष्पमार्तवम् ।

लिङ्ग-सूरी - AK.02.06.020-21

विप्रश्निकेति—शुभाशुभविषये विशेषतः प्रश्नोऽस्या इति विप्रश्निका । ईक्षणं शुभाशुभदर्शनमस्या अस्तीति ईक्षणिका । ‘ईक्ष दर्शनेऽ । दैवं शुभाशुभं जानाति दैवज्ञा । ‘ज्ञा अवबोधनेऽ । जन्मान्तरशुभाशुभज्ञाया नामानि ॥ आन्ध्रभाषायां ‘वेल्पुसानि पेल्लुऽ ॥ रजोऽस्त्यस्या इति रजस्वला । रजोरूपः स्त्रीधर्मोऽस्या अस्तीति स्त्रीधर्मिणी । अव्यतेऽस्मिन् काले रक्षोभयादिति अविः । अवी वा । ‘अव रक्षणेऽ । अत्रेरपत्यमिव आत्रेयी । मलिनमार्तवमस्या इति मलिनी । पुष्पमार्तवमस्याः पुष्पवती । ऋतुरस्या अस्तीति ऋतुमती । चतुर्थेऽहनि उदकमर्हतीति उदक्या । रजस्वलास्त्रीनामानि ॥ रज्यते रजः । ‘रञ्ज रागेऽ । पुत्राख्यफलहेतुभूतत्वात् पुष्पम् । ऋतौ भवम् आर्तवम् । स्त्रीणां वयोधर्मेण प्रतिमासं प्रवृत्तरक्तनामानि ॥ २० ॥

मल्लि-नाथः - AK.02.06.020-21

विप्रश्निका—दैवज्ञा । जन्मान्तरशुभाशुभज्ञानामानि ॥ स्त्रीधर्मिण्यविः । ‘अवीरुदक्या च रजस्वला स्यात्ऽ इति हलायुधः (अ। मा। २। ३३३) । आत्रेयी—उदक्यापि । रजस्वलानामानि ॥ स्याद् रजः—आर्तवम् । वयःस्त्रीणां प्रतिमासं प्रवृत्तरक्तनामानि ॥ २० ॥

[[०२.३७४]]

(०२.०६.०२१च्द्) श्रद्धालुर्दोहदवती निष्कला विगतार्तवा ॥ २१ ॥

मूलम् - ०२.०६.०२२

(०२.०६.०२२अब्) आपन्नसत्त्वा स्याद् गुर्विण्यन्तर्वत्नी च गर्भिणी ।

लिङ्ग-सूरी - AK.02.06.021-22

श्रद्धालुरिति—पायसापूपादिषु श्रद्धा इच्छा अस्या अस्तीति श्रद्धालुः । दोहदोऽस्या अस्तीति दोहदवती । गर्भिणीस्वभावाद् विविधविषयदोहदवतीनामनी ॥ कलाभ्यो रजोभ्यो निष्क्रान्ता निष्कला । विगतमार्तवमस्या इति विगतार्तवा । निवृत्तरजःस्त्रीनामनी ॥ आपन्नं गृहीतं सत्त्वं गर्भोऽनयेति आपन्नसत्त्वा । गुरु गर्भशरीरमस्त्यस्या इति गुर्विणी । उदरान्तर्गर्भोऽस्या अस्तीति अन्तर्वत्नी । गर्भोऽस्त्यस्या गर्भिणी । गर्भिणीनामानि ॥ २१ ॥

मल्लि-नाथः - AK.02.06.021-22

श्रद्धालुर्दौहृदवती । दौहृदवत्या नामनी । निष्कला विगतार्तवा । नष्टार्तवानामनी । गौरादित्वान्निष्कली विकली चेति धातुप्रदीपवचनाद् ईकारान्तोऽपि ॥ आपन्नसत्त्वा—गर्भिणी । गर्भिण्या नामानि ॥ २१ ॥

[[०२.३७४]]

(०२.०६.०२२च्द्) गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥

मूलम् - ०२.०६.०२३

(०२.०६.०२३अब्) पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः ।

लिङ्ग-सूरी - AK.02.06.022-23

गणिकादेरिति—गणिकादेर्गणे गाणिक्यादीनि वर्तन्ते । कथम् । गणिकानां समूहो गाणिक्यम् । वेश्यासमूहनाम ॥ गर्भिणीनां समूहो गार्भिणम् । गर्भिणीसमूहनाम ॥ युवतीनां समूहो यौवतम् । युवतिसमूहनाम ॥ प्रथममेकस्य जाया भूत्वा पुनरन्यस्य जाया भवतीति पुनर्भूः । पुनरन्येन धृता पुनरन्येन धीयत इति वा दिधिषूः । ‘धृञ् धारणेऽ । ‘डुधाञ् धारणपोषणयोःऽ । द्विवारं विवाहसंस्कृताया नामनी ॥ दिधिषूमात्मन इच्छतीति दिधिषुः । दिधिपूर्वा । तस्या द्वितीयपतिनाम ॥ २२ ॥

अमरपदपरिजत><AK.02.06.022-23>

गणिकादेस्तु—यौवतं गणे । गणिकानां समूहो गाणिक्यम् । गर्भिणीनां समूहो गार्भिणम् । युवतीनां समूहो यौवतम् । भिक्षादिगणे पाठसामर्थ्यात् पुंवद्भावो न भवति । भाष्ये भिक्षादित्वप्रत्याख्यानाद् यौवनमिति व्यवस्थापितम् । भागवृत्त्यामुदाहृतं च ।

‘स्वरूपमिव नेपथ्यकलाकुशलयौवनम् ।

यस्य पुण्यवतः प्रेष्यं सफलं तस्य यौवनम् ॥ऽ

पुनर्भूः—ऊढा द्विः । द्विवारं विवाहसंस्कृताया नामनी ॥ तस्याः—पतिः । पुनर्भूभर्तृनाम ॥ २२ ॥

[[०२.३७५]]

(०२.०६.०२३च्द्) स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ॥ २३ ॥

मूलम् - ०२.०६.०२४

(०२.०६.०२४अब्) कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः ।
(०२.०६.०२४च्द्) सौभागिनेयः स्यात् पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥

लिङ्ग-सूरी - AK.02.06.023-24

स त्विति—सा पुनर्भूरेव यस्य कुटुम्बिनी पुत्रपौत्रप्रतिष्ठिता, स द्विजः अग्रेदिधिषूरित्युच्यते । अग्रे पूर्वकाले प्रधानत्वेन दिधिषूः भार्यात्वेनास्येति अग्रेदिधिषूः । उकारान्तोऽप्यस्ति । यस्य सैव दिधिषूः कुटुम्बिनी तस्य द्विजस्य नाम ॥ कन्यायाः पुत्रः कानीनः । कन्यासुतनाम ॥ सुभगायाः पुत्रः सौभागिनेयः । भाग्यवतीपुत्रनाम ॥ परस्त्रियाः पुत्रः पारस्त्रैणेयः । परस्त्रीपुत्रनाम ॥ २३-४ ॥

मल्लि-नाथः - AK.02.06.023-24

स तु—कुटुम्बिनी । ‘कुटुम्बं तु सुतादिकम्ऽ इति वैजयन्ती (पृ। १७७, श्लो। ५१) । यस्य द्विजस्य सैव दीधिषूरेव कुटुम्बिनी पत्नी स्यात् स द्विजोऽग्रेदिधिषूः स्यात् । विधिनिषेधयोर्द्विजविषयत्वाद् द्विजग्रहणम् । कानीनः—सुतः । कन्याया उत्पन्नः कानीनः स्यात् । अथ सुभगासुतः—स्यात् । सुभगायाः पुत्रः सौभागिनेयः स्यात् । एवं दुर्भगाया दौर्भागिनेयः । पालस्त्रैणेयः—परस्त्रियाः । परस्त्रियाः पुत्रः पारस्त्रैणेयः स्यात् ॥ २३-४ ॥

[[०२.३७६]]

मूलम् - ०२.०६.०२५

(०२.०६.०२५अब्) पैतृष्वसेयः स्यात् पैतृष्वस्रीयश्च पितृष्वसुः ।
(०२.०६.०२५च्द्) सुतो मातृष्वसुश्चैवं द्वैमात्रेयो द्विमातृजः ॥ २५ ॥

लिङ्ग-सूरी - AK.02.06.025

पैतृष्वसेय इति—पितृष्वसुः पुत्रः पैतृष्वसेयः पैतृष्वस्रीयश्च । पितृसोदरीपुत्रनामनी ॥ एवं मातृष्वसेयः, मातृस्वस्रीयश्च । मातृसोदरीपुत्रनामनी ॥ द्वे मातरौ यस्य द्वैमात्रेयः । वैमात्रेयो विमातृजः इति वा पाठः । विगता विभिन्ना वा माता विमाता, तस्या अपत्यं वैमात्रेयः । समपत्नीपुत्रनाम ॥ २५ ॥

मल्लि-नाथः - AK.02.06.025

पैतृष्वसेयः—सुतः । पितृष्वसुः सुतः पैतृष्वसेयः पैतृष्वस्रीयश्च स्यात् । मातृष्वसुः—एवम् । मातृष्वसुरेवं सुतो मातृष्वसेयो मातृष्वस्रीयश्च स्यात् ॥ वैमात्रेयो विमातृजः । सपत्नीपुत्रनामनी ॥ २५ ॥

[[०२.३७६]]

मूलम् - ०२.०६.०२६

(०२.०६.०२६अब्) अथ बान्धकिनेयः स्याद् बन्धुलश्चासतीसुतः ।
(०२.०६.०२६च्द्) कौलटेयः कौलटेरो भिक्षुकी तु सती यदि ॥ २६ ॥
(०२.०६.०२७अब्) तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः ।

लिङ्ग-सूरी - AK.02.06.026-27

अथेति—बन्धक्या अपत्यं पुमान् बान्धकिनेयः । स्वकुलपरिणाहाय बन्धून् लाति स्वकीयान् करोतीति बन्धुलः । ‘ला आदानेऽ । असत्याः सुतः असतीसुतः । कुलटायाः पुत्रः कौलटेयः । कौलटेरश्च । व्यभिचारिणीपुत्रनामानि ॥ भिक्षार्थं कुलान्यटतीति कुलटा । तस्याः पुत्रः कौलटिनेयः । कौलटेयश्च । या भिक्षुकी सती तस्याः पुत्रस्य नामनी ॥ २६ ॥

मल्लि-नाथः - AK.02.06.026-27

अथ बान्धकिनेयः—कौलटेरः । व्यभिचारिणीपुत्रनामानि ॥ भिक्षुकी—चात्मजः । कुलान्यटति भिक्षार्थमिति सती भिक्षुक्यपि कुलटा । तस्याः सुतः कौलटिनेयः कौलटेयश्च स्यात् । न कौलटेरः ॥ २६ ॥

[[०२.३७७]]

(०२.०६.०२७च्द्) आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥

मूलम् - ०२.०६.०२८

(०२.०६.०२८अब्) आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ।

लिङ्ग-सूरी - AK.02.06.027-28

आत्मज इति—आत्मनो जायते आत्मजः । ‘जनी प्रादुर्भावेऽ । कुलं तनोतीति तनयः । ‘तनु विस्तारेऽ । माता एनं सूयत इति सूनुः । ‘षूङ् प्राणिप्रसवेऽ । सौत्येनं माता सुतः । ‘षु प्रसवैश्वर्ययोःऽ । पुन्नाम्नो नरकात् त्रायत इति पुत्रः । ‘त्रैङ् पालनेऽ । पुत्रनामानि ॥ अमी आत्मजादयः स्त्रीप्रत्ययान्ता दुहितरमाहुः । आत्मजा, तनया, सूनुः, सुता, पुत्री इत्येषां व्युत्पत्तिः पूर्ववत् । दोग्धि धनहरणेन रिक्तीकरोति पितराविति दुहिता । ‘दुह प्रपूरणेऽ । दुहितृनामानि ॥ न पतत्यनेन पिता नरकमिति अपत्यम् । ‘पत्लृ गतौऽ । तौति कुलमनेनेति तोकम् । तु इति सौत्रो धातुः गतिवृद्धिहिंसासु । स्तूयते बन्धुजनैरिति वा । ‘ष्टुञ् स्तुतौऽ । अपत्यनामनी ॥ तयोः पुत्रे दुहितरि च समे समानलिङ्गे ॥ २७ ॥

मल्लि-नाथः - AK.02.06.027-28

आत्मजः—पुत्रः । पुत्रनामानि । ‘उद्वहो नन्दनो वत्सः क ॥ । ऽ । एतानि च । स्त्रियां—सर्वे । अमी आत्मजादयः स्त्रियः स्त्रीलिङ्गाः सन्तः दुहितरमाहुः । आत्मजा तनया । सूनोर्लक्षणाभावान्न स्त्रीत्वे विधिरिति सूनुशब्दः पुत्रवचन एव । सुता पुत्री । अनुक्तसङ्ग्रहार्थं सर्वे इति । तेनोद्वहा नन्दना वत्सेत्यादि ॥ अपत्यं—तयोः समे । अपत्यतोकपदे तयोः पुत्रे दुहितरि च समे, नियतनपुंसके इति यावत् । ‘तोकापत्ये नपुं स्त्री तु प्रसूतिः सन्ततिः प्रजाऽ इति वैजयन्ती (पृ। १७६, श्लो। ४१) ॥ २७ ॥

[[०२.३७७]]

(०२.०६.०२८च्द्) स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ॥ २८ ॥

मूलम् - ०२.०६.०२९

(०२.०६.०२९अब्) जनयित्री प्रसूर्माता जननी भगिनी स्वसा ।

लिङ्ग-सूरी - AK.02.06.028-29

स्वजात इति—उरसा निर्मितः औरसः उरस्यश्च । स्वस्मात् जाते स्वजाते । स्वोत्पादितपुत्रनामानि ॥ द्विजातीनां क्षेत्रजादिसम्भवात् ॥ तनोति कुलमिति तातः । ‘तनु विस्तारेऽ । जनयति पुत्रमिति जनकः । ‘जनी प्रादुर्भावेऽ । पातीति पिता । ‘पा रक्षणेऽ । पितृनामानि ॥ जनयत्यपत्यानीति जनयित्री । जननी च । ‘जनी प्रादुर्भावेऽ । प्रसूते प्रजाः प्रसूः । ‘षूङ् गर्भविमोचनेऽ । माति वर्तते गर्भोऽस्यामिति माता । ‘मा माने वर्तने चऽ । मातृनामानि ॥ भगः कल्याणं भ्रातृवात्सल्यमस्या अस्तीति भगिनी । सोदरायासं सुष्ठु अस्यति हिंसतीति स्वसा । ‘असु क्षेपणेऽ । सोदरीनामनी ॥ २८ ॥

मल्लि-नाथः - AK.02.06.028-29

स्वजाते—औरसोरस्यौ । स्वजातसुतनामनी । आत्मजादयः शब्दाः कुण्डगोलकादिषु न वर्तन्त एव । तातस्तु—पिता । पितुर्नामानि । जनयित्री—जननी । मातुर्नामानि । भगिनी स्वसा । सोदर्या नामनी । ‘तस्यामवन्ती ज्येष्ठायां कनिष्ठायां तु कन्यकाऽ ॥ २८ ॥

[[०२.३७८]]

(०२.०६.०२९च्द्) ननन्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा ॥ २९ ॥

मूलम् - ०२.०६.०३०

(०२.०६.०३०अब्) भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।

लिङ्ग-सूरी - AK.02.06.029-30

ननन्देति—न नन्दयति भ्रातृजायामिति ननन्दा । ननान्दा वा । ऋकारान्तस्त्रीलिङ्गोऽयम् । ‘टुनदि समृद्धौऽ । पतिसोदरीनाम ॥ न पतति कुलमनयेति नप्त्री । ‘पत्लृ गतौऽ । पुत्रस्य पुत्र्या वा पुत्री पौत्री । पुत्रस्य दुहितृनामनी ॥ यतन्ते गृहकृत्येषु स्पर्धया प्रयत्नं कारयन्तीति यातरः । ‘यती प्रयत्नेऽ सोदरवर्गभार्याः परस्परं प्रति यातृनाम्नोच्यन्ते ॥ २९ ॥

मल्लि-नाथः - AK.02.06.029-30

ननान्दा—पत्युः । पत्युः स्वसा ननान्दा स्यात् । ननन्दाशब्दोऽपि । ‘ननान्दा तु स्वसा पत्युर्ननन्देति प्रकीर्तिताऽ इति रत्नकोशः । नप्त्री—सुतात्मजा । सुतस्य सुतायाश्चात्मजा नप्त्री पौत्री च स्यात् । स्वस्रादित्वान्नप्ता चेति भागवृत्तिः । ‘नप्ता नप्त्री च पौत्रिकाऽ इति रभसकोशः । पुमांश्चेन्नप्तैव । ‘नप्तारौ पौत्रदौहित्रौऽ इति वैजयन्ती (पृ। १७६, श्लो। ४५) ॥ भार्यास्तु—परस्परम् । सोदरवर्गस्य पत्न्यः परस्परं प्रति यातर इत्युच्यन्ते ॥ २९ ॥

[[०२.३७९]]

(०२.०६.०३०च्द्) प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ३० ॥

मूलम् - ०२.०६.०३१

(०२.०६.०३१अब्) पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः ।

लिङ्ग-सूरी - AK.02.06.030-31

प्रजावतीति—देवरादयः प्रजाः सन्त्यस्या इति प्रजावती । भ्रातुर्जाया भ्रातृजाया । सोदरभार्यानामनी ॥ मातुलस्य पत्नी मातुलानी । मातुली च । मातृभ्रातृपत्नीनामनी ॥ पत्युः भर्तुः पत्न्याः भार्यायाश्च प्रसूर्माता श्वश्रूरित्युच्यते । शं सुखम् अश्नुते स्वगृह इति श्वश्रूः । ʻअशू व्याप्तौ’ । पत्युः पत्न्याश्च परस्परमातृनाम ॥ शं सुखम् अश्नुते जामातरं स्नुषां च लब्ध्वा श्वशुरः । पतिपत्न्योः परस्परस्य पितृनाम ॥ ३० ॥

मल्लि-नाथः - AK.02.06.030-31

प्रजावती भ्रातृजाया । सोदरपत्नी प्रजावती स्यात् । मातुलानी—मातुली । मातृसोदरपत्नीनामनी । पतिपत्न्योः—श्वश्रूः । पत्युः भार्यामाता भार्यायाः पतिमाता च श्वश्रूः स्यात् ॥ श्वशुरस्तु—तयोः । पत्युर्भार्यापिता भार्यायाः पतिपिता च श्वशुरः स्यात् ॥ ३० ॥

[[०२.३७९]]

(०२.०६.०३१च्द्) पितृभ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ॥ ३१ ॥

मूलम् - ०२.०६.०३२

(०२.०६.०३२अब्) स्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ ।

लिङ्ग-सूरी - AK.02.06.031-32

पितृभ्रातेति—पितुः भ्राता पितृव्यः । पितृसोदरनाम ॥ मातुर्भ्राता मातुलः । मातृसोदरनाम ॥ स्यामयन्ते भगिनीपतिं परिहासवचनं तद्वाक्यखण्डनमार्गेण भञ्जयन्तीति स्यालाः । ‘स्यमु वितर्केऽ । पत्नीसोदरनाम ॥ अपहासेन दीव्यति क्रीडतीति देवा । ऋकारान्तोऽयम् । देवरश्च । ‘दिवु क्रीडादौऽ । स्वामी पत्तिः, तस्य सोदरनामनी ॥ ३१ ॥

मल्लि-नाथः - AK.02.06.031-32

पितृभ्राता पितृव्यः स्यात् । पितुः सोदरः पितृव्यः स्यात् । मातृभ्राता—मातुलः । मातुः सोदरो मातुलः स्यात् । स्यालाः—पत्न्याः । पत्नीसोदराः स्यालाः स्युः । स्त्रियश्चेत् स्यालिकाः । ‘स्यालसालसलसूरसूरयःऽ इत्यूष्मभेदपाठाद् दन्त्यादिः । स्वामिनो देवृदेवरौ । स्वामी पतिः । तस्य सहोदरः देवा देवरश्च स्यात् । अनुक्तम्—‘भावुको भगिनीपतिःऽ । भगिनीपतिर्भावुकः स्यात् ॥ ३१ ॥

[[०२.३८०]]

(०२.०६.०३२च्द्) स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः ॥ ३२ ॥

मूलम् - ०२.०६.०३३

(०२.०६.०३३अब्) पितामहः पितृपिता तत्पिता प्रपितामहः ।

लिङ्ग-सूरी - AK.02.06.032-33

स्वस्रीय इति—स्वसुरपत्यं स्वस्रीयः । भगिन्या अपत्यं पुमान् भागिनेयः । सोदरीपुत्रनामनी ॥ जायां मिमीते जामाता । ‘माङ् मानेऽ । दुहितृपतिनाम ॥ पितुः पिता पितामहः । पितुः पितृनाम ॥ पितामहात् प्रगतः प्रपितामहः । पितामहपितृनाम ॥ ३२ ॥

मल्लि-नाथः - AK.02.06.032-33

स्वस्रीयो—स्यात् । स्वसुः सुतनामनी । जामाता—पतिः । सुतापतिनाम । पितामहः पितृपिता । पितुः पिता पितामहः स्यात् । तत्पिता प्रपितामहः । पितामहपिता प्रपितामहः स्यात् ॥ ३२ ॥

[[०२.३८०]]

(०२.०६.०३३च्द्) मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः ॥ ३३ ॥

मूलम् - ०२.०६.०३४

(०२.०६.०३४अब्) समानोदर्यसोदर्यसगर्भ्यसहजाः समाः ।

लिङ्ग-सूरी - AK.02.06.033-34

मातुरिति—मातामहप्रमातामहशब्दावप्येवम् । समान एकः पिण्डः पिण्डप्रदानं येषां ते सपिण्डाः । समानो नाभिर्मूलं कूटस्थपुरुषो येषामिति सनाभयः । ये पितृकर्मणि पिण्डभागित्वेन लेपभागित्वेन वा परस्परं मनः सम्प्रविष्टास्तेषां नामनी ॥ तथा चोक्तम्—

‘लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।

पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥ऽ

इति ॥ समाने उदरे शयितः समानोदर्यः । सोदर्यश्च । समाने गर्भे भवः सगर्भ्यः । सह जायत इति सहजः । ‘जनी प्रादुर्भावेऽ । एकोदरोत्पन्नानां नामानि ॥ ३३ ॥

मल्लि-नाथः - AK.02.06.033-34

मातुर्मातामहाद्येवम् । एवम्प्रकारेण मातुःपिता मातामहः । मातामहपिता प्रमातामहश्च स्यात् । अनुक्तम्—‘पुत्रस्य सूनुः पौत्रोऽस्य प्रपौत्रोऽस्य परम्परःऽ । पुन्त्रस्य पुत्रः पौत्रः । पौत्रस्य पुत्रः प्रपौत्रः । प्रपौत्रस्य पुत्रः परम्परः स्यात् । सपिण्डाः—सनाभयः । नाभिसम्बन्धिनां नामनी । समानोदर्य—समाः एकोदरनामानि ॥ ३३ ॥

[[०२.३८१]]

(०२.०६.०३४च्द्) सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ३४ ॥

मूलम् - ०२.०६.०३५

(०२.०६.०३५अब्) ज्ञातेयं बन्धुता तेषां क्रमाद् भावसमूहयोः ।

लिङ्ग-सूरी - AK.02.06.034-35

सगोत्र इति—समानं गोत्रं यस्य सगोत्रः । बन्धुरेव बान्धवः । अन्तरङ्गतया ज्ञायत इति ज्ञातिः । ‘ज्ञा अवबोधनेऽ । बध्नाति प्रीतिमिति बन्धुः । ‘बन्ध बन्धनेऽ । स्वकीयत्वात् स्वः । स्वश्चासौ जनश्च स्वजनः । बन्धुजननामानि ॥ ज्ञातेर्भावो ज्ञातेयम् । बन्धुत्वनाम ॥ बन्धूनां समूहो बन्धुता । बन्धुसमूहनाम ॥ ३४ ॥

मल्लि-नाथः - AK.02.06.034-35

सगोत्र—स्वजनाः समाः । बन्धुनामानि । ज्ञातेयं—समूहयोः । तेषां ज्ञातीनां भावो ज्ञातेयम् । तेषां बन्धूनां समूहो बन्धुता । अनुक्तम्—‘पितरस्तु पितुर्वंश्या मातुर्मातामहाः कुलेऽ । पितृवंशे भवाः सर्वे पितरः, मातृवंशे भवाः सर्वे मातामहाः स्युः ॥ ३४ ॥

[[०२.३८२]]

(०२.०६.०३५च्द्) धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ ॥ ३५ ॥

मूलम् - ०२.०६.०३६

(०२.०६.०३६अब्) अमृते जारजः कुण्डो मृते भर्तरि गोलकः ।

लिङ्ग-सूरी - AK.02.06.035-36

धव इति—धुनोति स्वतेजसा भार्यामिति धवः । ‘धूञ् कम्पनेऽ । तामेव प्रीणयतीति प्रियः । ‘प्रीञ् तर्पणे कान्तौ चऽ । पाति जायामिति पतिः । ‘पा रक्षणेऽ । तामेव बिभर्तीति भर्ता । ‘डुभृञ् धारणपोषणयोःऽ । पतिनामानि ॥ जरयति परस्त्रियं वयोहानिं धर्षणैः करोतीति जारः । ‘जॄष् वयोहानौऽ । उपजातः पतिः उपपतिः । परस्त्रीगन्तृनामनी ॥ कुण्ड्यते क्षेत्रिणः कुलमनेन कुण्डः । ‘कुडि दाहेऽ । जाराज्जातः जारजः । भर्तर्यमृते जारजस्य नाम ॥ गुल्यते मात्रा गोप्यत इति गोलकः । ‘गुड रक्षणेऽ । भर्तरि मृते सति जारजस्य नाम ॥ ३५ ॥

मल्लि-नाथः - AK.02.06.035-36

धवः—भर्ता । पतिनामानि । पताविति केचिदिति शाकटायनः । पत्युः समास इति काक्वा निर्देशः । तेनानियमो गम्यते ।

‘मृते प्रव्रजिते नष्टे क्लीबे च पतिते पतौ ।

पतिना नीयमानायाः प्रतिशुक्रो न दुष्यति ॥ऽ

इति सुभूतिटीकायामुक्तम् । जारः—समौ । परस्त्रीगन्तुर्नामनी । अमृते—कुण्डः । भर्तरि जीवति जाराज्जातः कुण्डः । मृते—गोलकः । भर्तरि मृते जाराज्जातः गोलकः ॥ ३५ ॥

[[०२.३८२]]

(०२.०६.०३६च्द्) भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥

मूलम् - ०२.०६.०३७

(०२.०६.०३७अब्) मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ ।
(०२.०६.०३७च्द्) श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥
(०२.०६.०३८अब्) दम्पती जम्पती जायापती भार्यापती च तौ ।

लिङ्ग-सूरी - AK.02.06.036-38

भ्रात्रीय इति—भ्रातुः पुत्रो भ्रात्रीयः । भ्रातृपुत्रनाम ॥ भ्राता च स्वसा च भ्रातरौ । भ्रातृभगिन्योर्नाम ॥ माता च पिता च पितरौ । मातापितरौ । मातरपितरौ च । प्रसूश्च जनयिता च प्रसूजनयितारौ । प्रसूजनकयोर्नामानि ॥ श्वश्रूश्चश्वशुरश्च श्वशुरौ । श्वश्रूश्वशुरयोर्नाम । पुत्रश्च दुहिता च पुत्रौ । पुत्रदुहित्रोर्नाम ॥ जाया च पतिश्च दम्पती । जम्पती । जायापती । भार्या च पतिश्च भार्यापती । भार्यापत्योर्नामानि ॥ ३६-७ ॥

मल्लि-नाथः - AK.02.06.036-38

भ्रातृव्यो भ्रातृजः । भ्रातृसुतनामनी । भ्रातृभगिन्यौ—उभौ । भ्राता भगिनी चेत्युभौ सहवचने भ्रातरौ । मातापितरौ—जनयितारौ । जननीजनकौ सहवचने मातापितरौ पितरौ मातरपितरौ च स्याताम् । ‘मातरपितराभ्यामित्यन्यःऽ इति भाषावृत्तिकारवचनान्मातरपितरशब्दोऽकारान्तोऽप्यस्ति । तेन मातरपितरयोरित्याद्यपि ॥ श्वश्रू—श्वशुरौ । श्वश्रूश्च श्वशुरश्चेत्युभौ सहवचने श्वशुरौ श्वश्रूश्वशुरौ च स्याताम् । पुत्रौ—दुहिता च । पुत्रश्च दुहिता चेत्युभौ सहवचने पुत्रौ स्याताम् । ‘भ्रातृपुत्रस्वसृदुहितृभिःऽ इति शाकटायनमते (२। १। ८४) बहुवचनग्रहणात् सुतश्च दुहिता च सुतावित्यादि सिद्धम् । दम्पती—च तौ । भार्या पतिश् चेत्य् उभौ सहवचने दम्पत्यादिशब्दवाच्यौ भवतः । जाया च पतिश्चेति द्वन्द्वे जाशब्दस्य पक्षे जमादेशदमादेशौ । ‘जं दं शब्दौ दारवाच्यावव्ययौ परिकीर्तितौऽ इत्यभिधानात् प्रकृत्यन्तरे च । राजदन्तादित्वात् सर्वत्र परनिपातः ॥ ३६-७ ॥

[[०२.३८३]]

(०२.०६.०३८च्द्) गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम् ॥ ३८ ॥

मूलम् - ०२.०६.०३९

(०२.०६.०३९अब्) सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ ।

लिङ्ग-सूरी - AK.02.06.038-39

गर्भाशय इति—गर्भ आशेतेऽत्र गर्भाशयः । गर्भनिष्क्रमणानन्तरं जरां जीर्णतामेतीति जरायुः । ‘इण् गतौऽ । उलति गर्भमावृणोतीति उल्बम् । ‘उल संवरणेऽ । गर्भोपरिचर्मनाम ॥ शुक्लशोणिते कलति मिथः सङ्गच्छत इति कललः । कलतिः कामधेनुः । शुक्लशोणितसंयोगनाम ॥ सूतेः प्रसवस्य मासः सूतिमासः । विजननं गर्भमोचनं, तदस्मिन्नस्तीति वैजननः । सूतिकालमासनामनी ॥ मातृभुक्तान्नरसं गिरतीति गर्भः । ‘गॄ निगरणेऽ । भ्रियते कुक्षौ मात्रेति भ्रूणः । ‘भृञ् भरणेऽ । गर्भनामनी ॥ ३८ ॥

मल्लि-नाथः - AK.02.06.038-39

गर्भाशयो—कललोऽस्त्रियाम् । गर्भपरिवेष्टिकचर्मनामानि । ‘माविऽ । ‘कललो जरायुरुल्बःऽ इति रत्नकोशः । ‘लोक एष तिमिरोल्बवेष्टितो गर्भवास इव वर्तते निशि ।ऽ इति कुमारसम्भवः (८। ५६) उल्बकललशब्दौ गर्भगोलनामनी इति केचित् ॥ ‘सुमेरोरुल्बभूतस्य जरायुश्च महीधराःऽ इति ॥ सूतिमासो वैजननः । प्रसवमासनामनी ॥ गर्भो—समौ । गर्भनामनी ॥ ३८ ॥

[[०२.३८४]]

(०२.०६.०३९च्द्) तृतीयप्रकृतिः षण्डः क्लीबः पण्डो नपुंसकम् ॥ ३९ ॥

मूलम् - ०२.०६.०४०

(०२.०६.०४०अब्) शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे ।

लिङ्ग-सूरी - AK.02.06.039-40

तृतीयेति—स्त्रीपुंसापेक्षया तृतीया प्रकृतिः तृतीयः प्रकारः तृतीयप्रकृतिः । तृतीया प्रकृतिरिति वा पाठः । स्वस्यापख्यातिनिवारणार्थं किमपि हिरण्यादिकं सनोति ददातीति षण्डः । ‘षणु दानेऽ । सण्डश्च । शण्ड इति वा पाठः । तदा शाम्यति प्रजाविच्छेदेनेति शण्डः । ‘शमु उपशमेऽ । क्लीबतेऽधीरो भवतीति क्लीबः । ‘क्लीबृ अधाष्ट्र्येऽ । क्लाम्यति अप्रजत्वेनेति वा । ‘क्लमु ग्लानौऽ । पण्डते लज्जया प्रदेशान्तरं गच्छतीति पण्डः । ‘पडि गतौऽ । न स्त्रीपुंसौ नपुंसकम् । नपुंसको वा । शिशोर्भावः शिशुत्वम् । शैशवं च । बालस्य भावः बाल्यम् । अष्टवर्षात् पूर्ववयसः, अष्टवर्षादूर्ध्वं षोडशवयसश्च नामानि ॥ तरुणस्य भावः तारुण्यम् । यूनो भावो यौवनम् । षोडशवर्षाधिकवयोनामनी ॥ ३९ ॥

मल्लि-नाथः - AK.02.06.039-40

तृतीया—नपुंसके । नपुंसकनामानि । विशेषणसमासश्चेत् तृतीयप्रकृतिशब्दः स्त्रीलिङ्गः । षण्डपण्डशब्दौ रूपभेदात् पुंलिङ्गौ । तत्र ‘शमेर्ढःऽ इति सिद्धः शण्ढशब्दस्तालव्यादिष्टवर्गचतुर्थान्तश्च भवति । सङ्करपाठात् क्लीबनपुंसकशब्दौ पुंलिङ्गावपि । ‘अस्त्री नपुंसकं क्लीबं वाच्यलिङ्गमविक्रमेऽ इति रुद्रः । ‘स नपुंसको भवेत्ऽ इत्यमरभाष्यकारः ॥ शिशुत्वं—बाल्यम् । बालत्वनामानि । ‘अपि कैशोरकौमारेऽ । एते च ॥ तारुण्यं—समे । षोडशवर्षाधिकवयोनामनी । दृढादिपाठात् तरुणिमापि । प्रयोगश्च—‘कथञ्चिन्नोत्पत्तिं तरुणिमनि मन्ये मृगदृशःऽ इति । मनोज्ञादिपाठाद् यौवनिकापि । ‘न गता यौवनिका निवर्ततऽ इति ॥ ३९ ॥

[[०२.३८५ ]]

(०२.०६.०४०च्द्) स्यात् स्थाविरं तु वृद्धत्वं वृद्धसङ्घेऽपि वार्धकम् ॥ ४० ॥

मूलम् - ०२.०६.०४१

(०२.०६.०४१अब्) पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा ।

लिङ्ग-सूरी - AK.02.06.040-41

स्यादिति—स्थविरस्य भावः स्थाविरम् । वृद्धस्य भावः वृद्धत्वम् । पञ्चाशद्वर्षाधिकवयोनामनी ॥ वृद्धस्य भावः समूहो वा वार्धकम् । वृद्धभावस्य वृद्धसमूहस्य च नाम ॥ पलति शौक्ल्येन शोभते शरीरसौन्दर्यमिति पलितम् । ‘पल गतौऽ । धातूनामनेकार्थत्वाद् अत्र शोभार्थः । जरसा केशादिशौक्ल्यनाम ॥ विस्रंसते अधः पतति शरीरमनयेति विस्रसा । ‘स्रंसु अवस्रंसनेऽ । जरयति दन्तादिकमिति जरा । ‘जॄष् वयोहानौऽ । जीर्यन्तेऽनयाङ्गादीनीति वा । वयोहानिनामनी ॥ ४० ॥

मल्लि-नाथः - AK.02.06.040-41

स्यात् स्थाविरं—वार्धकम् । वृद्धत्वनामानि । वार्धकशब्दो वृद्धसङ्घेऽपि स्यात् । वार्धक्यशब्दो वृद्धभाव एव । ‘वार्धक्ये तु समागते परिभवो जातो महान् विभ्रमःऽ इति । पलितं—केशादौ । जरसा कृतं केशादीनां शौक्ल्यं पलितं स्यात् । ‘पलितं पाण्डुराः केशाःऽ इति शुक्लकेशेषु हलायुधः (अ। मा। २। ३७७) ॥ विस्रसा जरा । चरमवयःकृतशरीरपरिपाकनामनी । ‘स्थाविरं तु पात् स्त्री विसंसया जराऽ इति चरमवयसि वैजयन्ती (पृ। १७७, श्लो। ५४) ॥ ४० ॥

[[०२.३८५]]

(०२.०६.०४१च्द्) स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धयी ॥ ४१ ॥

मूलम् - ०२.०६.०४२

(०२.०६.०४२अब्) बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा ।

लिङ्ग-सूरी - AK.02.06.041-42

स्यादिति—उत्ताना शेत इति उत्तानशया । ‘शीङ् स्वप्नेऽ । डयते गमनायेति डिम्भा । ‘डीङ् विहायसा गतौऽ । स्तनं पिबतीति स्तनपा । ‘पा पानेऽ । स्तनं धयतीति स्तनन्धयी । ‘धेट् पानेऽ । मानुषशिशुनामानि ॥ स्त्रीलिङ्गे निर्देशस्तु स्त्रीप्रत्ययप्रदर्शनार्थः ॥ बलति स्वल्पायासेनापि श्वसितीति बालः । ‘बल प्राणनेऽ । मनोः कुत्सितं स्वल्पमपत्यं माणवकः । अप्रतिपूर्णषोडशवर्षवतो नामनी ॥ ‘आ षोडशाद् भवेद् बालस्ततस्तरुण उच्यतेऽ इति मनुः । षोडशवर्षाधिके वयसि तिष्ठतीति वयस्थः । तरति दुस्तरमपीति तरुणः । ‘तॄ प्लवनतरणयोःऽ यौति स्त्रीबाह्याङ्गाद्यवयवैः मिश्रीभवतीति युवा । ‘यु मिश्रणेऽ । परिपूर्णषोडशवर्षस्य अवृद्धस्य नामानि ॥ ४१ ॥

मल्लि-नाथः - AK.02.06.041-42

स्यादुत्तानशयो डिम्भः । चरमवपुरधःकृत्य यः शेते तन्नाम । स्तनपश्च स्तनन्धयः । स्तन्यपायिनो नामनी । ‘त्रिषु जरावराःऽ इति वक्ष्यते । तेन त्रिलिङ्गाः । धेर्धातोरनुबन्धप्रयोजनं स्तनन्धयीति ङीप् । बालः—माणवकः । ‘बालो वटुर्माणवकःऽ इति तन्त्रान्तरम् । बालनामनी ॥ वयस्थः—युवा । ‘युवानः संस्कृतेऽपिऽ इति त्रिविक्रमवचनाद् अकारान्तो युवानशब्दोऽप्यस्ति । प्रयोगश्च—‘स्फुटकुसुममरन्दानश्नुवानैर्युवानैःऽ इति । पूर्णवयसो नामानि ॥ ४१ ॥

[[०२.३८६]]

(०२.०६.०४२च्द्) प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥

मूलम् - ०२.०६.०४३

(०२.०६.०४३अब्) वर्षीयान् दशमी ज्यायान् पूर्वजस्त्वग्रियोऽग्रजः ।

लिङ्ग-सूरी - AK.02.06.042-43

प्रवया इति—प्रगतं यौवनाख्यं वयो यस्य प्रवयाः । बहुकालं तिष्ठतीति स्थविरः । ‘ष्ठा गतिनिवृत्तौऽ । वयसा वर्धते वृद्धः । ‘वृधु वृद्धौऽ । जिनाति वयसो हीयत इति जीनः । ‘ज्या वयोहानौऽ । जीर्यत इति जीर्णः । जरंश्च । ‘जॄष् वयोहानौऽ । अतीतयौवनस्य वृद्धस्य नामानि ॥ अतिशयेन वृद्धो वर्षीयान् । नवतेरूर्ध्वं दशमोऽवस्थाविशेषोऽस्यास्तीति दशमी । अतिशयेन वृद्धो ज्यायान् । वृद्धतमनामानि ॥ पूर्वस्मिन् काले जातः पूर्वजः । अग्रे भवः अग्रियः । अग्रे जातः अग्रजः । जन्मतो ज्येष्ठभ्रातृनामानि ॥ ४२ ॥

मल्लि-नाथः - AK.02.06.042-43

प्रवयाः—जरन्नपि । प्रगतवयसो नामानि । जिन इति ह्रस्वादिरपि । ‘जिनः स्यादतिवृद्धे च बुद्धे चार्हति जित्वरेऽ इति केचित् । वर्षीयान्—ज्यायान् । अतिवृद्धनामानि । पूर्वजः—अग्रजः । ज्येष्ठनामानि ॥ ४२ ॥

[[०२.३८७]]

(०२.०६.०४३च्द्) जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः ॥ ४३ ॥

मूलम् - ०२.०६.०४४

(०२.०६.०४४अब्) अमांसो दुर्बलश्छातो बलवान् मांसलोऽंसलः ।

लिङ्ग-सूरी - AK.02.06.043-44

जघन्यज इति—जघन्ये पश्चात्काले जातः जघन्यजः । अतिशयेनाल्पः कनिष्ठः । अतिशयेन युवा यवीयान् । अवरस्मिन् काले जातोऽवरजः । अनु पश्चाज्जातः अनुजः । जन्मतः कनिष्ठभ्रातृनामानि ॥ न विद्यतेऽल्पत्वात् मांसमस्य अमांसः । दुष्टं बलमस्य दुर्बलः । वातादिदोषेण छिन्नमांसत्वात् छातः । ‘छो छेदनेऽ । कृशदेहनामानि ॥ बलमस्यास्तीति बलवान् । बहुमांसोऽस्यास्तीति मांसलः । पीनावंसौ स्तः अस्येति अंसलः । पीनदेहस्य नामानि ॥ ४३ ॥

मल्लि-नाथः - AK.02.06.043-44

जघन्यजे—अनुजाः । कनिष्ठनामानि ॥ अमांसो—शातः । कृशशरीरनामानि ॥ बलवान्—अंसलः । स्थूलकायनामानि ॥ ४३ ॥

[[०२.३८७]]

(०२.०६.०४४च्द्) तुन्दिलस्तुन्दिकस्तुन्दी बृहत्कुक्षिः पिचिण्डिलः ॥ ४४ ॥

मूलम् - ०२.०६.०४५

(०२.०६.०४५अब्) अवटीटोऽवनाटश्चावभ्रटो नतनासिके ।

लिङ्ग-सूरी - AK.02.06.044-45

तुन्दिल इति—पीनं तुन्दमस्यास्तीति तुन्दिलः । तुन्दिकः । तुन्दी च । बृहत् कुक्षिरस्येति बृहत्कुक्षिः । पीनः पिचिण्डः कुक्षिरस्यास्तीति पिचिण्डिलः । पीवर जठरस्य नामानि ॥ अवनता नासिकास्येति अवटीटः । अवनाटः । अवभ्रटश्च । नता नासिकास्येति नतनासिकः । अस्थिभङ्गवशादीषन्निम्ननासिकस्य नामानि ॥ ४४ ॥

मल्लि-नाथः - AK.02.06.044-45

तुन्दिलः—पिचण्डिलः । बृहज्जठरनामानि ॥ अवटीटो—नतनासिके । नम्रनासिकनामानि ॥ अवटीटादयो नतायां नासिकायामपि । तत्र स्त्रीलिङ्गा एव । नासिकानमनेऽपि । तत्र नपुंसकलिङ्गा एव ॥ ४४ ॥

[[०२.३८८]]

(०२.०६.०४५च्द्) केशवः केशिकः केशी वलिनो वलिभः समौ ॥ ४५ ॥

मूलम् - ०२.०६.०४६

(०२.०६.०४६अब्) विकलाङ्गस्तु पोगण्डः खर्वो ह्रस्वश्च वामनः ।

लिङ्ग-सूरी - AK.02.06.045-46

केशव इति—प्रशस्ताः केशाः सन्त्यस्य केशवः । केशिकः । केशी च । प्रशस्तकेशस्य नामानि ॥ वलयोऽस्य सन्तीति वलिनः । वलिभश्च । त्वक्सङ्कोचात् कुक्ष्यादौ रेखावतो नामानि ॥ विकलान्यङ्गान्यस्य विकलाङ्गः । अपकृष्टो गण्यत इति पोगण्डः । ‘गण सङ्ख्यानेऽ । विकलाङ्गस्य नामनी ॥ खर्वति विकलाङ्गस्यापेक्षया श्रेष्ठत्वेन दृश्यत इति खर्वः । ‘खर्व दर्पेऽ । ह्रसतीति ह्रस्वः । ‘ह्रस शब्देऽल्पत्वे चऽ । वामत्वमस्यास्तीति वामनः । नीचकायस्य नामानि ॥ ४५ ॥

मल्लि-नाथः - AK.02.06.045-46

केशवः—केशी । दीर्घकेशस्य नामानि । अनुक्तम्—‘रोमशो लोमशः समौऽ । भल्लुकवत्प्रवृद्धरोम्णो नामनी ॥ वलिनो—समौ । वलिभिः संवृतदेहस्य नामनी ॥ विकलाङ्गः—पोगण्डः हीनाङ्गनाम ॥ खर्वो—वामनः । स्वल्पवर्ष्मणो नामानि ॥ ४५ ॥

[[०२.३८८]]

(०२.०६.०४६च्द्) खरणाः स्यात् खरणसो विग्रस्तु गतनासिके ॥ ४६ ॥

मूलम् - ०२.०६.०४७

(०२.०६.०४७अब्) खुरणाः स्यात् खुरणसः प्रज्ञुः प्रगतजानुकः ।

लिङ्ग-सूरी - AK.02.06.046-47

खरणा इति—खरस्य गर्दभस्येव नासिकास्येति खरणाः । सकारन्तोऽयम् । खरस्येव तीक्ष्णनासिकास्येति खरणसः । अकारान्तोऽयम् । तीक्ष्णाग्रनासिकस्य नामनी ॥ विगता छेदनादिना नासिका यस्य विग्रः । विख्य इति वा पाठः, विखुरिति वा । छिन्ननासिकस्य नाम ॥ खुराकारा नासिकास्येति खुरणाः । सकारान्तोऽयम् । खुरणसश्च । अकारान्तः । गोखुरवत् विकटनासिकस्य नामनी ॥ प्रगते विरले जानुनी यस्य प्रज्ञः । प्रगतजानुकश्च । वातादिदोषेण विरलजानुकस्य नामनी ॥ ४६ ॥

मल्लि-नाथः - AK.02.06.046-47

खरणाः—खरणसः तीक्ष्णाग्रनासिकस्य नामनी ॥ विग्रो विगतनासिकः । भिन्ननासिकस्य नामनी ।

‘विशब्दादपि खुख्रग्राः स्युर्मतान्तरचोदिताः ।

विखुर्विख्रस्तथा विग्रो नासाया विगमात् पुनः ॥ऽ

इति दुर्गसिंहः । तेन विखुः, विख्रोऽपि ॥ खुरणाः—खुरणसः । गोखुरसमनसो नामनी ॥ प्रज्ञुः—प्रगतजानुकः । प्रगतजानुकस्य नाम । प्रज्ञोऽपि स्यात् ।

‘प्रसम्भ्यां जानुनो ज्ञुज्ञौ स्यातामूर्ध्वाद्विभाषया ।

प्रगते जानुनी यस्य स प्रज्ञुः प्रज्ञ इत्यपि ॥ऽ

इति दुर्गसिंहः ॥ ४६ ॥

[[०२.३८९]]

(०२.०६.०४७च्द्) ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात् सञ्ज्ञुः संहतजानुकः ॥ ४७ ॥

मूलम् - ०२.०६.०४८

(०२.०६.०४८अब्) स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः ।

लिङ्ग-सूरी - AK.02.06.047-48

ऊर्ध्वज्ञुरिति—ऊर्ध्वं गते जानुनी यस्य ऊर्ध्वज्ञुः । उपवेशनादिवशात् शिरःपर्यन्तमुन्नतजानुकस्य नाम ॥ संहते जानुनी यस्य सञ्ज्ञुः । गमनवशात् परस्परं ताड्यमानजानुकस्य नामनी ॥ श्रुतिहीनतया भारतादिश्रवणहीनतया मेषसदृशत्वाद् एड इव एडः । बध्यते वातादिना श्रवणमस्येति बधिरः । ‘बन्ध बन्धनेऽ । अशृण्वतो नामनी ॥ कुत्सितम् उब्जतीति कुब्जः । ‘उब्ज आर्जवेऽ । कुत्सितो जनः कुब्जो वा । उरसि पृष्ठभागे वा गडुः मांसग्रन्थिरस्येति गडुलः । वातादिना उरसि पृष्ठभागे वा स्थौल्यान्वितस्य नामनी ॥ कुत्सितः करोऽस्य कुकरः । कुण्यते कुत्सित इति कुणिः । ‘कुण शब्दोपकरणयोःऽ । जन्मतः प्रभृति कुत्सितकरस्य नामनी ॥ ४७ ॥

मल्लि-नाथः - AK.02.06.047-48

ऊर्ध्वज्ञुः—स्यात् । उन्नतजानोर्नाम । उद्धितस्यापि । सञ्ज्ञुः—जानुकः । परस्परसन्दष्टजानोर्नाम ॥ स्यादेडे बधिरः । श्रुतिपाटवशून्यनामनी ॥ कुब्जे गडुलः । कुब्जनामनी ॥ कुकरे कुणिः । कुत्सितकरनामनी ॥ ‘करपाददेहविकला निसर्गतः कूणिपङ्गुपोगण्डाःऽ । इति नाममालापाठात् कूणिरपि ॥ ४७ ॥

[[०२.३९०]]

०२.०६.०४८च्द् पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते ॥ ४८ ॥

०२.०६.०४९अब् वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः ।

लिङ्ग-सूरी - AK.02.06.048-49

पृश्निरिति —शिरसि प्रांशुभिः स्पृश्यत इति पृश्निः । ‘स्पृश संस्पर्शनेऽ । अल्पा तनुर्यस्य अल्पतनुः । अत्यल्पशरीरस्य नामनी ॥ श्रोणति संहतो भवतीति श्रोणः । ‘श्रोणृ सङ्घातेऽ । मन्दं पनति गच्छतीति पङ्गुः । ‘पन गतौऽ । कुटिलजङ्घाद्यवयववशात् जङ्घाभावमापन्नस्य नामनी ॥ मुण्ड्यते क्षुरेण शिरोऽस्येति मुण्डः । मुण्डितश्च । ‘मुडि खण्डनेऽ । क्षुरेण वापितकेशस्य नामनी ॥ वलते विषयग्रहणवेलायाम् अपाङ्गदेशं प्रतीति वलिर्गोलकम् । तद्योगाद् वलिरं नेत्रम् । तद्योगात् पुरुषोऽपि वलिरः । ‘वल संवरणे सञ्चरणे चऽ । के शिरःसमीपेऽक्षिसञ्चारं करोतीति केकरः । दृष्टिं तिर्यगाकृष्य पश्यतो नामनी ॥ खोडति हतगतिर्भवतीति खोडः । ‘खोडृ गतिप्रतिघातेऽ । खञ्जति गतिवैकल्यं प्राप्नोतीति खञ्जः । ‘खजि गतिवैकल्येऽ । भग्नचरणस्य नामनी ॥ त्रिषु । जराशब्दः पूर्वोक्तोऽवधिर्येषां ते जरावराः । उत्तानशयादयः खञ्जशब्दान्ताः सर्वे शब्दा अभिधेयानुसारेण त्रिषु लिङ्गेषु वर्तन्त इत्यर्थः ॥ ४८ ॥

पृश्निरल्पतनौ । पृष्ठिरल्पतनाविति व्याख्यानान्तरपाठः । स्वल्पशरीरनाम ॥ श्रोणः पङ्गौ । पङ्गोर्नाम । ‘पिच्चुकुण्टिवाण्डुऽ ॥ मुण्डस्तु मुण्डिते । छिन्नकरचरणादेर्नाम । क्षुरेण वापितकेशस्यापि नाम ॥ वलिरः केकरे । ‘टेरे वलिरकेकरौऽ इति रभसकोशपाठात् ह्रस्वेकारः । तिर्यगाकृष्य पश्यतो नामनी । ‘मेल्लकण्टुवाण्डुऽ खोडे खञ्जः । भग्नचरणस्य नाम । ‘कुण्टिवाण्डुऽ ॥ त्रिषु जरावराः । जराशब्दादवराः खञ्जशब्दान्ताः शब्दाः सर्वे सङ्कीर्णलिङ्गा भवन्ति ॥ अनुक्तम्—सिरालः॥ ॥ ॥ ४८ ॥

[[०२। ३९१]]

(०२.०६.०४९च्द्) जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः ॥ ४९ ॥

मूलम् - ०२.०६.०५०

(०२.०६.०५०अब्) अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया ।

लिङ्ग-सूरी - AK.02.06.049-50

जडुल इति—जडन्ति जडीभवन्ति रोमाण्यत्रेति जडुलः । ‘जड शून्येऽ । कालयति कृष्णयति स्वप्रदेशमिति कालकः । निजवर्णेन परिप्लवते व्याप्नोतीति पिप्लुः । ‘प्लुङ् गतौऽ । तिल इव तिष्ठतीति तिलकः । तिल इव कालवर्णत्वात् तिलकालकः । देहोपरि कृष्णवर्णबिन्दुसदृशत्वक्प्रदेशनामानि ॥ आमयस्य व्याधेरभावोऽनामयम् । अरोगस्य भावः आरोग्यम् । रोगाभावनामनी ॥ चिकित्सन्त्यनया चिकित्सा । ‘कित निवासे रोगापनयने चऽ । रुजः प्रतिक्रिया रुक्प्रतिक्रिया । व्याधिप्रतिक्रियानामनी ॥ ४९ ॥

मल्लि-नाथः - AK.02.06.049-50

जडुलः—तिलकालकः । तिलाकारसूक्ष्मत्वग्बिन्दुनामानि ॥ अनामयं—आरोग्यम् । रोगाभावनाम ॥ स्वास्थ्यं पाटवम् इत्य् अपि । एते द्वे च ॥ चिकित्सा—प्रतिक्रिया । रोगस्य प्रतिकारश्चिकित्सा स्यात् ॥ ४९ ॥

[[०२.३९१]]

(०२.०६.०५०च्द्) भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥

मूलम् - ०२.०६.०५१

(०२.०६.०५१अब्) स्त्री रुग् रुजा चोपतापरोगव्याधिगदामयाः ।

लिङ्ग-सूरी - AK.02.06.050-51

भेषजमिति—भिषज्यन्ते चिकित्सन्त्यनेनेति भेषजम् । ‘भिषज् चिकित्सायाम्ऽ । ओषं दाहं धयति नाशयतीति औषधम् । ‘धेट् पानेऽ । भेषजमेव भैषज्यम् । अविद्यमानो गदोऽनेनेति अगदः । जयति रोगान् जायुः । ‘जि जयेऽ । रोगहरद्रव्यनामानि ॥ रुज्यते भज्यते प्राण्यनयेति रुक् । रुजा । रोगश्च । ‘रुजो भङ्गेऽ । उपतप्यते प्राण्यनेनेति उपतापः । ‘तप सन्तापेऽ । विविधा आधयो मनःपीडा यस्मिन् सः व्याधिः । गदन्त्यनेनेति गदः । ‘गद व्यक्तायां वाचिऽ । आमीनाति आ मोक्षात् पीडयतीति आमयः । ‘मीञ् हिंसायाम्ऽ । व्याधिमात्रनामानि ॥ ५० ॥

मल्लि-नाथः - AK.02.06.050-51

भेषजौषध—जायुरित्यपि । औषधनामानि ॥ स्त्री रुक्—गदामयाः । व्याधेर्नामानि ॥ ५० ॥

[[०२.३९२]]

(०२.०६.०५१च्द्) पुमान् यक्ष्मा क्षयः शोषः प्रतिश्यायस्तु पीनसः ॥ ५१ ॥

मूलम् - ०२.०६.०५२

(०२.०६.०५२अब्) स्त्री क्षुत् क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् ।

लिङ्ग-सूरी - AK.02.06.051-52

पुमानिति—यक्ष्यते रोगराजव्यपदेशात् यक्ष्मा । नान्तः पुमान् । ‘यक्ष पूजायाम्ऽ । क्षीयतेऽत्यर्थमनेन क्षयः । ‘क्षि क्षयेऽ । शुष्यत्यनेन प्राणीति शोषः । ‘शुष शोषणेऽ । रोगराजनामानि ॥ प्रतिक्षणं श्यापयति श्लेष्मजलं स्रावयतीति प्रतिश्यायः । ‘श्यैङ् गतौऽ । पीनं प्रवृद्धमप्यङ्गं स्यति व्यथयतीति पीनसः । ‘षोऽन्तकर्मणिऽ । श्लेष्मध्वनिकारिरोगनामनी ॥ पुनः पुनः क्षौतीति क्षुत् । क्षुतं क्षवश्च । ‘टुक्षु शब्देऽ । पीनसेन नासायां पुनःपुनरागच्छतो ध्वनेर्नामानि ॥ कासते भिन्नकांस्यवत् कुत्सितं ध्वनतीति कासः । ‘कासृ शब्दकुत्सायाम् ।ऽ क्षौति भिन्नकांस्यवत् क्षवथुः पुमान् । कासरोगनामनी ॥ ५१ ॥

मल्लि-नाथः - AK.02.06.051-52

क्षयः शोषश्च यक्ष्मा च । यक्ष्माशब्दः अदन्तश्च भवति । ‘यक्ष्मा यक्ष्मः क्षयः शोषःऽ इति वैजयन्ती (पृ। १८३, श्लो। १२४) । राजशब्दपूर्वकोऽपि भवति । ‘राजयक्ष्मेव रोगाणां समूहः स महीभृताम्ऽ इति माघः (शिशु। २। ९६) । क्षयरोगनामानि ॥ प्रतिश्यायस्तु पीनसः । पिहिता नासानेनेति व्युतपत्त्या दन्त्यान्तः । पीनं श्यतीति व्युत्पत्त्या तालव्यान्तश्च । नासारोगनामनी । ‘पडिशमुऽ ॥ स्त्री क्षुत्—पुंसि । क्षुतनामानि । ‘तुम्मुऽ ॥ कासस्तु—पुमान् । कासरोगनामनी । ‘दग्गुऽ ॥ ५१ ॥

[[०२.३९३]]

(०२.०६.०५२च्द्) शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका ॥ ५२ ॥

मूलम् - ०२.०६.०५३

(०२.०६.०५३अब्) किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका ।

लिङ्ग-सूरी - AK.02.06.052-53

शोफ इति—शवति अभिवृद्ध्या आसन्नप्रदेशमभिसर्पतीति शोफः । ‘शव गतौऽ । श्वयति वर्धते श्वयथुः । ‘टुओश्वि गतिवृद्ध्योःऽ । शोथश्च । शोष इति पाठे शुष्यत्यनेन म्रियते शोषः । शोफरोगनामानि ॥ पादाः स्फुटन्त्यनेन पादस्फोटः । ‘स्फुट विकसनेऽ । विपद्यन्ते म्रियन्तेऽनयेति विपादिका । ‘पद्लृ गतौऽ । पादशब्दः पाणिशब्दस्याप्युपलक्षणम् । के शिरसि कं वा लसति श्लिष्यति किलासम् । ‘लस श्लेषणक्रीडनयोःऽ । केलयति सुसाध्यत्वात् भिषजं प्रेरयति वा । ‘किल क्षेपेऽ । सिध्यति भेषजेनाशु गच्छतीति सिध्मम् । ‘षिधु गत्याम्ऽ । कण्ठादौ चित्रत्वग्गतरोगनामनी ॥ स्वस्थानात् त्वचं कषतीति कच्छूः । ‘कष हिंसायाम्ऽ । शरीराङ्गसौष्ठवं पिबति नाशयतीति पाम । पामा च । पामाशब्दः नकारान्तपुंलिङ्गः आकारान्तस्त्रीलिङ्गो वा । त्वचं विचर्चयति स्रावेण लिम्पतीति विचर्चिका । ‘चर्च अध्ययनेऽ । धातूनामनेकार्थत्वाद् अत्र चर्चधातोः लेपनार्थो ग्राह्यः । श्रोण्यादौ सूक्ष्मसान्द्रपिटकावृतरोगनामानि ॥ ५२ ॥

मल्लि-नाथः - AK.02.06.052-53

शोफस्तु—शोथः । शोफनामानि । पाद—विपादिका । पादस्फुटितनामनी । ‘पिटिकेऽ ॥ किलाससिध्मे । नान्तोऽपि भवति । ‘सिहुल्लिका तु त्वक्पुष्पं किलासं सिध्मसिध्मनीऽ । इति रभसः । चर्मपुष्पनामनी । ‘शिब्बमुऽ ॥ कच्छ्वां—विचर्चिका । प्रथमो नान्तः स्त्रीलिङ्गः । द्वितीयः (पामा) आकारान्तः स्त्रीलिङ्गः । कच्छूनामानि । ‘मूङ्गतिण्टिऽ ॥ ५२ ॥

[[०२.३९४]]

(०२.०६.०५३च्द्) कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकस्त्रिषु ॥ ५३ ॥

मूलम् - ०२.०६.०५४

(०२.०६.०५४अब्) व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान् ।

लिङ्ग-सूरी - AK.02.06.053-54

कण्डूरिति—कण्ड्यते नखैरिति कण्डूः । कण्डूया च । ‘कडि भेदनेऽ । खर्जति व्यथयतीति खर्जूः । ‘खर्ज व्यथनेऽ । कण्डूतिनामानि ॥ परिपक्वदशायां विस्फोटतीति विस्फोटः । ‘स्फुटिर् विशरणेऽ । पिटति संश्लिष्यतीति पिटकः । ‘पिट संश्लेषणेऽ । पेटक इति वा पाठः । देहे तत्र तत्र जायमानसूक्ष्मव्रणनामानि ॥ व्रणयतीति व्रणः । ‘व्रण गात्रसञ्चूर्णनेऽ । ईर्तेऽभिवृद्ध्या समीपमङ्गमभिसर्पतीति ईर्मम् । ‘ईर गतौ कम्पने चऽ । इयर्ति वृद्धिम् अरुः । ‘ऋ गतौऽ । अरुःशब्दः वपुःशब्दवत् सान्तो नपुंसकलिङ्गश्च । व्रणनामानि ॥ नाडीयुक्तो व्रणः नाडीव्रणः । पुमान् स्रवत्पूयनाडिव्रणनाम ॥ ५३ ॥

मल्लि-नाथः - AK.02.06.053-54

कण्डूः—कण्डूया । कण्डूतिनामानि । ‘दूलऽ । धातुत्वविज्ञानात् कण्डू कण्डवः । प्रातिपदिकत्वविज्ञानात् कण्ड्वौ कण्ड्वः ॥ विस्फोटः—त्रिषु । औष्णजायमानस्फोटनामनी । ‘बोब्बलुऽ ॥ व्रणो—अरुः क्लीबे । व्रणनामानि ॥ नाडीव्रणः पुमान् । सिराव्रणनाम ॥ ५३ ॥

[[०२.३९४]]

(०२.०६.०५४च्द्) कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी ॥ ५४ ॥

मूलम् - ०२.०६.०५५

(०२.०६.०५५अब्) आनाहस्तु निबन्धः स्याद् ग्रहणीरुक् प्रवाहिका ।

लिङ्ग-सूरी - AK.02.06.054-55

कोठ इति—कुण्ठितः व्याधितोऽनेन कारितः कोठः । ‘कुठ प्रतिघातेऽ । मण्डलाकृतित्वात् मण्डलकम् । मण्डलाकृतिकुष्ठभेदनामनी ॥ कुत्सितं तिष्ठत्यङ्ग कुष्ठम् । ‘ष्ठा गतिनिवृत्तौऽ । श्वेतते त्वगनेनेति श्वित्रम् । ‘श्विता वर्णेऽ । श्वेतकुष्ठनामानि ॥ पापरोगत्वेन प्रसिद्धतया दुष्टं नामास्येति दुर्नामकम् । अरिवत् प्राणिनं श्यति तनूकरोतीति अर्शः । ‘शो तनूकरणेऽ । इयर्त्युद्गच्छतीत्यर्शो वा । ‘ऋ गतौऽ । गुदादौ प्ररूढमांसाङ्कुरनामनी ॥ आनह्यते विण्मूत्रमनेन आनाहः । ‘णह बन्धनेऽ । विण्मूत्रं निबध्नातीति निबन्धः । ‘बन्ध बन्धनेऽ । विण्मूत्रविष्टम्भनामनी ॥ भुक्तमन्नादिकं गृह्णातीति ग्रहणी । ‘ग्रह उपादानेऽ । ग्रहणी चासौ रुक् च ग्रहणीरुक् । द्रवमलं प्रवहति प्रवाहिका । ‘वह प्रापणेऽ । ग्रहणीरोगनामनी ॥ ५४ ॥

मल्लि-नाथः - AK.02.06.054-55

कोठो मण्डलकम् । मण्डलाकारकुष्ठभेदनामनी । ‘कुप्पतोन्नुऽ । ‘कोठः कुष्ठं च मण्डलम्ऽ इति वैजयन्ती (पृ। १८३, श्लो। १२४) ॥ कुष्ठश्वित्रे । श्वेतकुष्ठनामनी ॥ दुर्नामकार्शसी । मूलरोगनामनी ॥ आनाहस्तु—स्यात् । मलबन्धनाम ॥ ग्रहणी—प्रवाहिका । अतिसारनामनी । ‘नातिभेदस्त्वतीसारो ग्रहणी स्त्री प्रवाहिकाऽ । इति वैजयन्ती (पृ। १८३, श्लो। १२९) ॥ ५४ ॥

[[०२.३९५]]

(०२.०६.०५५च्द्) प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥

मूलम् - ०२.०६.०५६

(०२.०६.०५६अब्) व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः ।

लिङ्ग-सूरी - AK.02.06.055-56

प्रच्छर्दिकेति—प्रच्छर्दत्यनया प्रच्छर्दिका । ‘छर्द वमनेऽ । भुक्तमन्नं वमत्यनयेति वमिः । वमथुश्च । ‘टुवमु उद्गिरणेऽ । छर्दिरोगनामानि ॥ विद्राति कुत्सितं गच्छत्याहारादिकमनयेति विद्रधिः । ‘द्रा कुत्सायां गतौऽ । विविधो द्रवो धीयतेऽस्मिन्निति वा । ‘डुधाञ् धारणपोषणयोःऽ । तदुक्तम् —

‘दोषा अस्थिगता धातून् दूषयित्वा त्वगादिकान् ।

जनयन्ति दृढं शोषं वृत्तं वाप्यथवायतम् ।

सा विद्रधिरिति ख्याता दुश्चिकित्सा महारुजा ॥ऽ

इति । ज्वरयतीति ज्वरः । ‘ज्वर रोगेऽ मेहति भृशं मूत्रयत्यनेन मेहः । ‘मिह सेचनेऽ । भगं गुदसमीपदेशं दारयतीति भगन्दरः । ‘ढॄ विदारणेऽ । एतानि प्रत्येकं व्याधिभेदनामानि ॥ ५५ ॥

मल्लि-नाथः - AK.02.06.055-56

प्रच्छर्दिका—वमथुः समाः । वमननामानि ॥ अनुक्तम्—‘गलगण्डो गण्डमालाऽ । गण्डमालरोगनामनी । गण्डमाला ग्रन्थिनामेति प्राञ्चः ॥ रोहिणी ना गलाङ्कुरः । गलाङ्कुराख्यरोगनाम । उपजिह्विकेति केचित् । ‘गलचुलिकऽ ॥ कुरण्डो वृद्धिरण्डस्य । वृषणाभिवृद्धिः कुरण्डः स्यात् । ‘बुड्ढगोन्द्दुऽ । केशघ्नं त्विन्द्रलुप्तकम् । यूकदंशरोगनामनी । ‘पेनु गोरिगिनव्याधिऽ ॥ ‘उच्छ्वासरोगो यौकः स्यात्ऽ । उच्छ्वासनिरोधनाम । ‘ऊपिलिचिक्किनव्याधिऽ । ‘अथ मारिर्मसूरिकाऽ । मसूरिकारोगनामनी । ‘गोलेम्मऽ । व्याधिभेदाः । वक्ष्यन्त इति शेषः । विद्रधिः । विद्रधिरित्यन्तर्व्रणः । वर्गचतुर्थान्तः । ज्वरमेहभगन्दराः । ज्वरस्तापः । मेहः शुक्लोत्सर्गः । भगन्दरो राजव्रणः । व्याधिभेदनामानि ॥ ५५ ॥

[[०२.३९६]]

(०२.०६.०५६च्द्) अश्मरी मूत्रकृच्छ्रं स्यात् पूर्वे शुक्रावधेस्त्रिषु ॥ ५६ ॥

मूलम् - ०२.०६.०५७

(०२.०६.०५७अब्) रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके ।

लिङ्ग-सूरी - AK.02.06.056-57

अश्मरीति—शुक्लमूत्रादिकमेव घनीभूतत्वेन अश्मवदवस्थानात् अश्मरीत्युच्यते । मूत्रद्वारे शुक्लात्मानमश्मानं राति ददातीति अश्मरी । मूत्रविसर्गकाले कृच्छ्रं कष्टमस्येति मूत्रकृच्छम् । अश्मर्याख्यरोगनामनी ॥ इतः परं शुक्लं तेज इति (श्लो। ६२) वक्ष्यमाणशुक्लशब्दावधेः पूर्वे रोगहार्यादिशब्दा अभिधेयानुसारेण त्रिषु लिङ्गेषु वर्तन्त इत्यर्थः ॥ रोगं हरतीति रोगहारी । अगदमरोगं करोति प्राणिनमिति अगदङ्कारः । एतौ शब्दौ वैद्यचिकित्सायाम् औषधे च वर्तेते । भिषज्यति चिकित्सां करोतीति भिषक् । ‘भिषज् चिकित्सायाम्ऽ । विद्यामायुर्वेदम् अधीते वेत्ति वा वैद्यः । ‘विद ज्ञानेऽ । चिकित्सते चिकित्सकः । वैद्यनामानि ॥ ५६ ॥

मल्लि-नाथः - AK.02.06.056-57

अश्मरी मूत्रकृच्छ्रं च । अश्मरी मेढ्रान्तः शिलाबन्धः । मूत्रकृच्छ्रं मुहुर्मुहुः मूत्रस्रवणम् । एते व्याधिभेदाः । चशब्दः साकल्यतः समुच्चयार्थः । पूर्वे—त्रिषु । शुक्रशब्दात् पूर्वे रोगहार्यादयः शब्दाः त्रिलिङ्गा भवन्ति ।

‘पतिवैद्यः सुतो वैद्यो वैद्याहं किं बहूदितैः ।

गृहस्थूणं च नो वैद्यं रोगश्च न जहाति नः ॥ऽ

इति । रोगहारी—चिकित्सके । वैद्यनामानि ॥ ५६ ॥

[[०२.३९७]]

(०२.०६.०५७च्द्) वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७ ॥

मूलम् - ०२.०६.०५८

(०२.०६.०५८अब्) ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः ।
(०२.०६.०५८च्द्) आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥

लिङ्ग-सूरी - AK.02.06.057-58

वार्त इति—वृतिः पुनर्जीवनमस्यास्तीति वार्तः । निर्गत आमयादिति निरामयः । पुनः कलासु विद्यासु साधुर्भवतीति कल्यः । अनेन रोग उल्लङ्घ्यते स्म उल्लाघः । ‘लघि गतौऽ । उल्लाघते समर्थो भवतीति वा । ‘लाघृ सामर्थ्येऽ । रोगाद्विमुक्तस्य नामानि ॥ ग्लायति स्म ग्लानः । ग्लास्नुश्च । ‘ग्लै हर्षक्षयेऽ । रोगेण क्षीणस्य नामनी ॥ आमयोऽस्यास्तीति आमयावी । कार्श्यादिना पूर्वावस्थापेक्षया विरुद्धः विकृतः । व्याधिः सञ्जातोऽस्य व्याधितः । पाटवाभावाद् अपटुः । आतुरः सम्भ्रमोऽस्यास्तीति आतुरः । ‘तुर त्वरणेऽ । अभितः सर्वतो रोगेणाम्यते अभ्यमितः । अभ्यान्तश्च । ‘अम रोगेऽ । रोगग्रस्तनामानि ॥ पामाख्यरोगोऽस्यास्तीति पामनः । कच्छूरस्यास्तीति कच्छुरः । विचर्चिकारोगवतो नामनी ॥ ५७-८ ॥

मल्लि-नाथः - AK.02.06.057-58

वार्तो—निर्गतो गदात् । रोगान्निर्मुक्तनामानि ॥ ग्लानग्लास्नू—अभ्यान्तः । रोगिनामानि ॥ समौ पामनकच्छुरौ । कच्छुररोगिनामनी ॥ ५७-८ ॥

[[०२.३९८]]

मूलम् - ०२.०६.०५९

(०२.०६.०५९अब्) दर्द्रुणो दर्द्रुरोगी स्यादर्शोरोगयुतोऽर्शसः ।
(०२.०६.०५९च्द्) वातकी वातरोगी स्यात् सातिसारोऽतिसारकी ॥ ५९ ॥
(०२.०६.०६०अब्) स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी ।

लिङ्ग-सूरी - AK.02.06.059-60

दर्द्रुण इति—दीर्यन्तेऽनया चर्म दर्द्रुः । सा अस्यास्तीति दर्द्रुणः । दर्द्रुरोगिणो नाम ॥ अर्शांसि सन्त्यस्य अर्शसः । अर्शोरोगयुतस्य नाम ॥ वातरोगोऽस्यास्तीति वातकी । वातरोगिणो नाम ॥ अतिसार्यतेऽनेनेत्यतिसारः । तेन सह वर्तत इति सातिसारः । अतिसाररोगोऽस्यास्तीति अतिसारकी । अतिसाररोगिणो नामनी ॥ क्लिन्नमक्षि यस्य सः क्लिन्नाक्षः । चुल्लः चिल्लः पिल्लश्च क्लिन्नाक्षस्य नामानि । क्लिन्नं दूषिकास्रावि यदक्षि तस्मिन्नक्ष्णि मुख्यवृत्त्या अमी पिल्लादयः शब्दा वर्तन्ते ॥ क्लिन्नाक्षिनामानि ॥ ५९ ॥

मल्लि-नाथः - AK.02.06.059-60

दर्द्रुणो दर्द्रुरोगी स्यात् । दर्द्रुरोगिनाम । तद्व्युत्पत्तिद्वारा दर्द्रूः । ‘दद्दुऽ ॥ अर्शोरोगयुतोऽर्शसः । मूलरोगिणो नाम ॥ वातकी वातरोगी स्यात् । वातव्याधिमतो नाम ॥ सातिसारोऽतिसारकी । ग्रहणिरोगिणो नाम ॥ स्युः क्लिन्नाक्षे—चिल्लाः । क्लिद्यन्नेत्रवतो नामानि । ‘मुरुगिनकन्नुलवाण्डुऽ । क्लिन्नेऽक्ष्णि चाप्यमी । स्रवज्जलस्य चक्षुषो नामान्यपि पिल्लादयो भवन्ति । चुल्लमक्षि देवदत्तस्य । चुल्ला दृग् देवदत्तस्य । त्रिष्वित्यधिकारात् त्रिलिङ्गता ॥ ५९ ॥

[[०२.३९८]]

(०२.०६.०६०च्द्) उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ॥ ६० ॥

मूलम् - ०२.०६.०६१

(०२.०६.०६१अब्) न्युब्जो भुग्ने रुजा वृद्धनाभौ तुण्डिभतुण्डिलौ ।

लिङ्ग-सूरी - AK.02.06.060-61

उन्मत्त इति—उन्माद्यतीति उन्मत्तः । उन्मादोऽस्यास्तीति वा । ‘मदी हर्षेऽ । उन्मादरोगवतो नाम ॥ श्लेष्मास्यास्तीति श्लेष्मलः श्लेष्मणश्च । कफोऽस्यास्तीति कफी । क्षुभितश्लेष्मवतो नामानि ॥ न्युब्जति वक्रीभवतीति न्युब्जः । ‘उब्ज आर्जवेऽ । वातादिरोगेण रुजा भुग्नदेहस्य नाम ॥ वृद्धो नाभिरस्येति वृद्धनाभिः । तुण्डिरुन्नतनाभिः तद्योगात् तुण्डिलः । तुण्डिभश्च । दीर्घनाभेर्नामनी ॥ ६० ॥

मल्लि-नाथः - AK.02.06.060-61

उन्मत्त उन्मादवति । उन्मादिनो नाम ॥ ग्रहिकस्तु पिशाचकी । पिशाचाविष्टनामनी ॥ श्लेष्मलः—कफी । श्लेष्मरोगिणो नामानि ॥ न्युब्जो—रुजा । रुजा रोगेण भुग्ने न्युब्जशब्दः स्यात् । ‘गूनिवाण्डुऽ ॥ वृद्धनाभौ दुन्दिलतुन्दिभौ । रोगेण प्रवृद्धनाभेर्नामनी । ‘वेक्किनबोड्डुवाण्डुऽ । तद्व्युत्पत्तिद्वारा तुन्दिः रोगाभिवृद्ध नाभिः ॥ ६० ॥

७१

[[०२.३९९]]

(०२.०६.०६१च्द्) किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ ॥ ६१ ॥

मूलम् - ०२.०६.०६२

(०२.०६.०६२अब्) शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च ।

लिङ्ग-सूरी - AK.02.06.061-62

किलासीति—किलासाख्यरोगोऽस्यास्तीति किलासी । सिध्ममस्यास्तीति सिध्मलः । पूर्वोक्तसिध्मरोगवतो नामनी ॥ अन्धयति दृष्टिमुपसंहरतीति अन्धः । ‘अन्ध दृष्ट्युपघातेऽ । न विद्यते दृक् दृष्टिरस्य अदृक् । अन्धस्य नामनी ॥ मूर्च्छास्यास्तीति मूर्च्छालः । मूर्च्छति स्म मूर्तः । मूर्च्छास्य सञ्जाता मूर्च्छितः । मूर्च्छारोगवतो नामानि ॥ स्त्रीसन्दर्शनादिना शोकति स्रवतीति शुक्रम् । ‘शुक गतौऽ । तेजयति स्रवणानन्तरं देहं तनूकरोति तेजः । ‘तिज निशातनेऽ । रीयते भगादाविति रेतः । ‘रीङ् स्रवणेऽ । वीयते क्षिप्यते योन्यादाविति बीजम् । ‘वी गत्यादौऽ । अत्र असनं क्षेपणम् । बीजति रोहति पुरुषोऽनेनेति वा । ‘बीज रोहणेऽ । वीरेऽक्लीबे साधु वीर्यम् । इन्द्रस्य पुरुषस्येदम् इन्द्रियम् । रेतसो नामानि ॥ ६१ ॥

मल्लि-नाथः - AK.02.06.061-62

किलासी सिध्मलः । सिहुल्लिकारोगिणो नामनी । ‘शिब्बं बद्दिवाण्डुऽ । अर्शआदित्वात् (५। २। ११७) किलाससिध्मशब्दौ धर्मिण्यपि स्याताम् ।

‘सुखं दुःखं मलं छिद्रं किलासं सिध्ममर्मरौ ।

रभसः पलितं श्वित्रमेतेऽपि त्रिषु धर्मिणि ॥ऽ

इति वैजयन्ती (पृ। २१३, श्लो। १४४) । अन्धोऽदृक् । दृष्टिरहितस्य नामनी । अनुक्तम्—जनुषान्धः स्वजात्यान्धः । जात्या अन्धः जनुषान्धः स्यात् । ‘काणः स्यादेकलोचनःऽ । एकदृक् काणः स्यात् । मूर्च्छाले—मूर्च्छितौ । मूर्च्छावतो नामानि ॥ शुक्लं—इन्द्रियाणि च । अन्त्यथधातनामानि ॥ ६१ ॥

[[०२.४००]]

(०२.०६.०६२च्द्) मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ॥ ६२ ॥

मूलम् - ०२.०६.०६३

(०२.०६.०६३अब्) पिशितं तरसं मांसं पललं क्रव्यमामिषम् ।

लिङ्ग-सूरी - AK.02.06.062-63

मायुरिति—मिनोति शिरोभ्रमणेन भुवि क्षेपयतीति मायुः । ‘डुमिञ् प्रक्षेपणेऽ । पुमानयम् । पतति स्रंसते द्रवत्वात् पित्तम् । ‘पत्लृ गतौऽ । पित्तनामनी ॥ के शिरसि फलति निक्षिप्यते कफः । ‘फल निष्पत्तौऽ । श्लिष्यते हृदयादौ श्लेष्म । ‘श्लिष आलिङ्गनेऽ । श्लेष्मणो नामानि ॥ त्वचति मांसं वेष्टयतीति त्वक् । ‘त्वच संवरणेऽ । असृजं रक्तं धारयतीति असृग्धरा । ‘धृञ् धारणेऽ । त्वचो नामनी ॥ पिंशति शरीरावयवो भवतीति पिशितम् । ‘पिश अवयवेऽ । तरन्ति कार्श्यमनेनेति तरसम् । मन्यते पुष्टिकृदिदमिति मांसम् । ‘मन ज्ञानेऽ । पाल्यते देहमनेनेति पललम् । ‘पाल रक्षणेऽ । क्लव्यतेऽस्मादिति क्रव्यम् । ‘क्लव भयेऽ । क्रूयते ताडनादिना निर्गच्छतीति वा क्रव्यम् । ‘क्रुङ् गतौऽ । आमिष्यते ताडनादिना ईषद् आमिषम् । ‘मिष स्पर्धायाम्ऽ । मांसनामानि ॥ ६२ ॥

मल्लि-नाथः - AK.02.06.062-63

मायुः पित्तम् । पित्तनाम ॥ कफः श्लेष्मा । श्लेषमणो नाम ॥ स्त्रियां—असृग्धरा । त्वचो नामनी । स्त्रियामिति विशेष।विधिर्माय्वादिषु स्त्रीत्वबाधनार्थः । तथा चोक्तम्—‘स्त्रियां मायुर्नरि श्लेष्मा बलासः खेटकः कफःऽ इति । अथवा त्वक्छब्दस्य प्रकृत्यन्तरबोधनार्थः । ‘त्वदवेष्टितमस्थिपञ्जरं यदि कायं समुपैषि योषिताम्ऽ । इति त्वद् दान्तः । पिशितं—आमिषम् । मांसनामानि ॥ ६२ ॥

[[०२.४०१]]

(०२.०६.०६३च्द्) उत्तप्तं शुष्कमांसं स्यात् तद्वल्लूरं त्रिलिङ्गकम् ॥ ६३ ॥

मूलम् - ०२.०६.०६४

(०२.०६.०६४अब्) रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् ।

लिङ्ग-सूरी - AK.02.06.063-64

उत्तप्तमिति—उत्तप्यते शोष्यत आतपेनेति उत्तप्तम् । ‘तप सन्तापेऽ । शुष्यते शुष्कम् । शुष्कं च तद् मांसं च शुष्कतमांसम् । ‘शुष शोषणेऽ । वल्यते शोषणार्थमिति वल्लूरम् । ‘वल संवरणेऽ । बलं लुनातीति वा । ‘लूञ् छेदनेऽ । वबयोरभेदः । लवणादिना पुनः पुनः लिप्तशुष्कमांसनामानि । स्रोतांसि रुणद्धीति रुधिरम् । ‘रुधिर् आवरणेऽ । अस्यते त्वग्भेदेनेति असृक् । ‘असु क्षेपणेऽ । न सृजति वा । ‘सृज विसर्गेऽ । लोहितवर्णत्वात् लोहितम् । असति त्वग्भेदे निर्गच्छति अस्रम् । ‘अस गतिदीप्त्यादानेषुऽ । रज्यत इति रक्तम् । ‘रञ्ज रागेऽ । क्षतात् घातात् जायते क्षतजम् । शोणतीति शोणितम् । ‘शोणृ वर्णगत्योः । रक्तनामानिऽ ॥ ६३ ॥

मल्लि-नाथः - AK.02.06.063-64

उत्तप्तं—मांसं स्यात् । शुष्कक्रव्यमुत्तप्तं स्यात् तन्नपुंसकमेव । वल्लूरं त्रिलिङ्गकम् । ‘वस्सूकामगकजहो भिल्ले धावति शशो क्षायः (?)ऽ इति मल्लूरेति वा ॥ रुधिरे—शोणितम् । रक्तनामानि ॥ अस्र आस्र इत्युभयरूपं तन्त्रोपात्तम् । सकृदुच्चारितं बहूपकारकं तन्त्रम् । ‘अस्र आस्रश्च पुंलिङ्गौ क्लेशे क्ली रुधिरेऽश्रुणिऽ । इति वैजयन्ती (पृ। २३०, श्लो। ७) ॥ ६३ ॥

[[०२.४०२]]

(०२.०६.०६४च्द्) वुक्काग्रमांसं हृदयं हृद् मेदस्तु वपा वसा ॥ ६४ ॥

मूलम् - ०२.०६.०६५

(०२.०६.०६५अब्) पश्चाद्ग्रीवासिरा मन्या नाडी तु धमनिः सिरा ।

लिङ्ग-सूरी - AK.02.06.064-65

बुक्केति—बुक्क्यते स्वादुरस इति बुक्का । ‘बुक्क भषणेऽ । वृक्केति पाठे वृक्यते स्वादुतरमिति शब्द्यते वृक्का । ‘वृक आदानेऽ । नकारान्तः । आकारान्त इति केचित् । अग्रं च तन्मांसं च अग्रमांसम् । श्रेष्ठमांसनामनी ॥ ह्रियते हृदयम् । हृच्च । ‘हृञ् हरणेऽ । पद्माकारजीवाधारनामनी ॥ मेद्यतीति मेदः । ‘ञिमिदा स्नेहनेऽ । सान्तोऽयम् । पूर्वोक्तहृदयाच्छादकस्य नाम ॥ उप्यत इति वपा । ‘डुवप् बीजतन्तुसन्तानेऽ । नाभिसमीपदेशस्थितमांसस्नेहनाम ॥ वासयति मांसं स्नेहयति वसा । ‘वस निवासेऽ । ‘वस स्नेहमोहच्छेदापहरणेषुऽ इति वा धातुः । सर्वदेहस्थितमांसस्नेहनाम ॥ मन्यत इति मन्या । ‘मन ज्ञानेऽ । अक्षरसाम्यात् निर्वचनम् । ग्रीवायाः पश्चिमभागस्थितसिराया नाम ॥ अन्तःसुषिरत्वात् नडाख्यतृणवत् तिष्ठतीति नाडी । अग्निबोधनधमनीसाम्यात् धमनिः । धमनी वा । सिनोति कायं वध्नातीति सिरा । ‘पिञ् बन्धनेऽ । सरन्ध्रसिरानामानि ॥ ६४ ॥

मल्लि-नाथः - AK.02.06.064-65

वृक्काग्रमांसं—हृत् । जुक्काग्रमांसमिति पाठान्तरम् । वृक्का नान्तः । श्रेष्ठमांसनामनी । ‘अग्रमांसमु वृक्युलुऽ । मेदस्तु—वसा । वसानामानि । अनुक्तम्—द्वावस्थिस्नेहमज्जानौ । मज्जनामनी ॥ पश्चाद्ग्रीवासिरा मन्या । ग्रीवायाः पश्चाद्भागे वर्तमाना सिरा मन्या स्यात् । ‘पेडतलनरमुऽ ॥ नाडी—शिरा । वंशधमन्याकारसिरानामानि । ‘बोलुनरालुऽ । सिरेत्यपि स्यात् । ‘शिञो बहुलमन्यत्रापीति शिरा । “षिञ् बन्धने” इत्यतः सिरा वाऽ इति सुभूतिटीका ॥ ६४ ॥

[[०२.४०२]]

(०२.०६.०६५च्द्) र्तिलकं क्लोम मस्तिष्कं गोर्दं किट्ट मलोऽस्त्रियाम् ॥ ६५ ॥

मूलम् - ०२.०६.०६६

(०२.०६.०६६अब्) अन्त्रं पूरीतद् गुल्मस्तु प्लीहा पुंस्यथ वस्नसा ।
(०२.०६.०६६च्द्) स्नायुः स्त्रियां कालस्वण्डयकृती तु समे इमे ॥ ६६ ॥

लिङ्ग-सूरी - AK.02.06.065-66

तिलकमिति—तिलतीति तिलकम् । ‘तिल स्नेहनेऽ । क्लाम्यति म्लायतीति क्लोम । ‘क्लमु ग्लानेऽ । नान्तोऽयम् । उदरे दक्षिणभागास्थितलोहितमांसखण्डनामनी ॥ मस्तमिष्यतीति मस्तिष्कम् । ‘इष गतौऽ । शिरःकपालेन गुर्द्यते गोर्दम् । ‘गुर्द परिवेष्टनेऽ । मस्तकस्थमज्जानामनी ॥ केटति निर्गच्छतीति किट्टम् । ‘किट गतौऽ । मलते धारयति देहं मलः । ‘मल मल्ल धारणेऽ । तदुक्तम्—

‘वसा शुक्रमसृङ्मज्जा मूत्रविट् घ्राणकर्णविट् ।

श्लेष्माश्रुदूषिकास्वेदा द्वादशैते मला नृणाम् ॥ऽ

इति । एते वसादिसर्वमलानां सामान्यनामनी ॥ अम्यते सम्भज्यते भुक्तान्नादिकमनेनेति अन्त्रम् । ‘अम गत्यादिषुऽ । आन्त्रमिति वा पाठः । पुरीं देहं तनोतीति पुरीतत् । ‘तनु विस्तारेऽ । आन्त्रनामनी ॥ गुड्यते प्रकोपनाद् रक्ष्यत इति गुल्मः । ‘गुड रक्षायाम्ऽ । प्लेहते कदाचिद् उद्रिक्तः प्रदेशान्तरं गच्छतीति प्लीहा । नान्तोऽयम् । ‘प्लिह गतौऽ । हृदि वामभागस्थितपीतवर्णमांसदलनामनी ॥ वस्ते छादयति देहं वस्नसा । ‘वस आच्छादनेऽ । हस्ताद्यङ्गं स्नायति वेष्टयतीति स्नायुः । ‘ष्णै वेष्टनेऽ । त्वगन्तरस्थतन्त्वाभानां नामनी ॥ कालवर्णं च तन्मांसखण्डं च कालखण्डम् । क्लोम्ना द्वितीयमात्मानं करोतीति यकृत् । क्लोम्ना सह यौतीति वा । ‘यु मिश्रणेऽ । पूर्वोक्तक्लोमाधःस्थितमांसदलनामनी ॥ ६५-६ ॥

मल्लि-नाथः - AK.02.06.065-66

तिलकं क्लोम । नान्तोऽयम् । क्लोमनामनी । ‘वलमैपार्श्वमन्दुण्डे॥ । गुऽ ॥ मस्तिष्कं गोर्दम् । मस्तकस्थमज्जनाम । ‘तलमेदडुऽ ॥ किट्टं मलोऽस्त्रियाम् । मलसामान्यनाम । तथा च—(म। स्मृ। ५। १३५)

‘वसा शुक्लमसृङ्मज्जा मूत्रविट् घ्राणकर्णविट् ।

श्लेष्माश्रुदूषिकाः स्वेदो द्वादशैते मला नृणाम् ॥ऽ

इति केचित् ॥ अन्त्रं पुरीतत् । अन्त्रनामनी । ‘पेगुलुऽ ॥ गुल्मस्तु प्लीहा । नान्तोऽसौ पुंसि । वामभागस्थमांसगोलनामनी ॥ पुंसीति केषाञ्चित् पुरीतदादिविशेषणम् । तेन पुरीततः, गुल्माः, प्लीहानः इत्यादि ॥ अथ वस्नसा—स्त्रियाम् । ‘नखारुस्तु स्नसा स्नावः स्नाय्वना सन्धिबन्धनम्ऽ इति स्नायुशब्दः स्त्रीनपुंसक इति केचित् । त्वगन्तरस्थिततन्तुनिभसिरानामनी । ‘नरमुलऽ । कालखण्ड—समे इमे । क्लोमा धःस्थितमांसखण्डविशेषनामनी । ‘काऴेजमुऽ । ‘कालेजं कालखण्डकम्ऽ इति रभसकोशः ॥ ६५-६ ॥

[[०२.४०४]]

मूलम् - ०२.०६.०६७

(०२.०६.०६७अब्) सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम् ।
(०२.०६.०६७च्द्) मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥
(०२.०६.०६८अब्) गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ ।

लिङ्ग-सूरी - AK.02.06.067-68

सृणिकेति—सरति स्रवतीति सृणिका । ‘सृ गतौऽ । स्यन्दत इति स्यन्दिनी । ‘स्यन्दू प्रस्रवणेऽ । विरुद्धलक्षणया ललति लाला । ‘लल विलासेऽ । सृक्विण्योः स्रवज्जलनामानि ॥ नेत्रे दूषयतीति दूषिका । नेत्रमलनाम ॥ मूत्रयतीति मूत्रम् । ‘मूत्र प्रस्रवणेऽ । प्रस्रवतीति प्रस्रावः । ‘स्रु स्रवणेऽ । मूत्रनामनी ॥ उच्चार्यते गुदात् त्यज्यत इति उच्चारः । ‘चर गतौऽ । अव अधः क्रियत इति अवस्करः । ‘डुकृञ् करणेऽ । शाम्यति किञ्चिद्गते सति स्वयमेव शमलम् । ‘शमु उपरमेऽ । विरेचितुमनेन शक्यत इति शकृत् । ‘शक्लृ शक्तौऽ । पिपर्त्यान्त्रं पूरयति पुरीषम् । ‘पॄ पालनपूरणयोःऽ । अनुदिनं गूयत उत्सृज्यत इति गूथम् । ‘गु पुरीषोत्सर्गेऽ । वर्च एव वर्चस्कम् । वितिष्ठते नाभेरध इति विष्ठा । ‘ष्ठा गतिनिवृत्तौऽ । नाभेरधोभागं विशतीति विट् । ‘विश प्रवेशनेऽ । विष्ठानामानि ॥ ६७ ॥

मल्लि-नाथः - AK.02.06.067-68

सृणिका—लाला । दन्तान्तर्गतोदकनामानि । ‘चोल्लुऽ । शृणिका स्यन्दिनीति पाठान्तरम् ।

‘नानाजनशृणिकार्द्रे वेश्यामुखपतद्ग्रहे ।

अधरगर्हसम्प्रीतिः सुधियः कस्य जायते ॥ऽ

इति प्रयोगात् ॥ दूषिका—मलम् । चक्षुषोर्मलं दूषिका स्यात् ।

‘दूषीकापटलनिरुद्धलोचनान्ता

दुर्गन्धा बहलमलोपलिप्तगात्राः ।ऽ

इति सोमजातप्रयोगात् दीर्घेकारः ।

‘कः कीदृगत्रिमुनिलोचनदूषिकायां

पीयूषदीधितिरिति प्रथितोऽनुरागः ॥ऽ

इति अनर्घराघवप्रयोगात् (२। ८३) ह्रस्वेकारश्च । ‘नासामलं तु सिंहाणम्ऽ । नासिकाया मलं सिंहाणं स्यात् । ‘चिविडिऽ । ‘पिञ्जूषः कर्णयोर्मलम्ऽ । श्रोत्रमलं पिञ्जूषः स्यात् । ‘चेविगुलिविऽ । मूत्रं प्रस्रावः । आत्मजलनामनी । ‘एकाङ्गुलं कायजलम्ऽ । एते द्वे च ॥ उच्चारावस्करौ—विष्ठाविशौ स्त्रियौ । विष्ठानामानि ॥ शकृत् तवर्गप्रथमान्तः । गूथं तवर्गद्वितीयान्तम् । पुरीषं मूर्धन्यान्तम् । विट्शब्दो मूर्धन्यान्तश्च भवति । ‘वेवेष्टीति विट् विशतीति वाऽ इति सुभूतिटीका । अनुक्तम्—‘चिरिका तूषिता विष्ठाऽ । चिरन्तनविट् चिरिका स्यात् ॥ ६७ ॥

[[०२.४०५]]

(०२.०६.०६८च्द्) स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६८ ॥

मूलम् - ०२.०६.०६९

(०२.०६.०६९अब्) स्याच्छरीरास्थ्नि कङ्कालः पृष्ठास्थ्नि तु कशेरुका ।

लिङ्ग-सूरी - AK.02.06.068-69

स्यादिति—भारधारणाय कल्पते समर्थो भवतीति कर्परः । ‘कृपू सामर्थ्येऽ । कं शिरः पालयतीति कपालम् । ‘पाल रक्षणेऽ । शिरोगतास्थिशकलनामनी ॥ की इति ध्वनिं जनयन् कसति चलतीति कीकसम् । ‘कस गतौऽ । कोलति संस्त्यायतीति कुल्यम् । ‘कुल संस्त्यानेऽ । कुले शरीरे साधु वा । मांसभक्षणसमये अस्यतेऽपास्यत इत्यस्थि । ‘असु क्षेपणेऽ । अस्थिमात्रनामानि ॥ कं कुत्सितं कालयतीति कङ्कालः । ‘कल किल क्षेपेऽ । शरीरास्थिनिकुरुम्बनाम ॥ कश्यते भारस्थापनेन क्लिश्यते कशेरुका । ‘कश गतिशासनयोःऽ । पृष्ठास्थिनाम ॥ ६८ ॥

मल्लि-नाथः - AK.02.06.068-69

स्यात् कर्परः—अस्त्री । कपालास्थिनामनी । ‘चिप्पयमुकऽ । ‘कर्परः स्यात् कपाले च शस्त्रभेदकटाहयोःऽ (श्लो। १३७), ‘खर्परस्तस्करे धूर्ते भिक्षापात्रकपालयोःऽ (श्लो। १३८) इति विश्वप्रकाशिकापाठात् (पृ। १३६) कर्परखर्परशब्दौ स्याताम् । कीकसं—अस्थि च । शल्यनामनी ॥ शरीरास्थि तु कङ्कालः । कायस्यास्थि कङ्कालः स्यात् । शरीरास्थि त्विति प्रथमान्तनिर्देशः साहचर्यार्थः तेन—‘कङ्कालोऽस्त्री तनोरस्थि करङ्कोऽप्यस्थिपञ्जरम्ऽ इति वैजयन्ती (पृ। १८२, श्लो। ११४) ॥ पृष्ठास्थि—कशेरुका । तनोश्चरमभागे स्थितमस्थि कशेरुका स्यात् । ‘वेन्नेमुकऽ । अस्याप्युन्नेयः पूर्वन्यायः । ‘पृष्ठस्यास्थि कशेर्वनाऽ इति वैजयन्ती (पृ। १८२, श्लो। ११५) ॥ ६८ ॥

[[०२.४०६]]

(०२.०६.०६९च्द्) शिरोऽस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ॥ ६९ ॥

मूलम् - ०२.०६.०७०

(०२.०६.०७०अब्) अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेबरम् ।
(०२.०६.०७०च्द्) गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥
(०२.०६.०७१अब्) कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।

लिङ्ग-सूरी - AK.02.06.69-71

शिरोऽस्थनीति—प्रवेशसमये के शिरसि नासादारुणा रुट्यते करोटिः । ‘रुट प्रतिघातेऽ । कं वायुं रोटते वा । ‘रुट दीप्तौ प्रतिघाते चऽ । शिरोऽस्थिनाम ॥ स्पृश्यते शयनादिनेति पर्शुका । ‘स्पृश संस्पर्शनेऽ । पार्श्वास्थिनाम ॥ अङ्गति चलति अङ्गम् । ‘अगि गतौऽ । प्रत्येत्यन्योन्यं प्रतीकः । ‘इण् गतौऽ । अवयौति मिथो मिश्रीभवति अवयवः । ‘यु मिश्रणेऽ । अपहन्यतेऽन्योन्यमिति अपघनः । ‘हन हिंसागत्योःऽ । हस्ताद्यवयवनामानि ॥ आदानाद्युपयोगितया कले करे बरं वरं कलेबरम् । रलयोर्वबयोश्चाभेदः । कल्यते आद्रियत इति वा । ‘कल सङ्ख्यानेऽ । गाते गच्छतीति गात्रम् । ‘गाङ् गतौऽ । उप्यते प्राक्कर्मभिरिति वपुः । ‘डुवप् बीजसन्तानेऽ । उप्यते जनकेनेति वा । सान्तोऽयम् । संहन्यते हस्तादिना सङ्घट्यते संहननम् । ‘हन हिंसागत्योःऽ । शीर्यते कालक्रमेणेति शरीरम् । ‘शृँ हिंसायाम्ऽ । मलानि वर्षतीति वर्ष्म । ‘वृषु सेचनेऽ । नान्तोऽयम् । विशेषेणात्मना गृह्यत इति विग्रहः । ‘ग्रह उपादानेऽ । चीयतेऽवयवैरिति कायः । ‘चिञ् चयनेऽ । दिह्यतेऽन्नरसेनेति देहः । ‘दिह उपचयेऽ । मूर्च्छति समुच्छ्रितो भवतीति मूर्तिः । ‘मूर्च्छा मोहसमुच्छ्राययोःऽ । तन्यते आहारेणेति तनुः । तनूश्च । ‘तनु विस्तारेऽ । शरीरनामानि ॥ ६९-७० ॥

मल्लि-नाथः - AK.02.06.069-71

शिरोऽस्थनि—स्त्री । शिरसः शल्यं करोटिः स्यात् ॥ पार्श्वास्थनि—पर्शुका । पक्षस्थितमस्थि पर्शुका स्यात् । ‘बरियमुकऽ ॥ अङ्गं—अपघनः । शरीराद्यवयवानां नामानि । अङ्गापघनशब्दौ अवयविन्यपि स्याताम् । ‘अङ्गं वपुर्वर्ष्म पुरं च पिण्डं क्षेत्रं च गात्रं च घनश्च मूर्तिःऽ इति हलायुधः (अ। मा। २। ३५५) ॥ अथ कलेबरं—तनूः । शरीरनामानि । गात्रशब्दोऽङ्गेऽपि स्यात् । ‘गात्राण्यङ्गानि चास्यांशाः प्रतीकापघनावपिऽ इति वैजयन्ती (पृ। १७७, श्लो। ५५) ॥ ६९-७० ॥

[[०२.४०७]]

(०२.०६.०७१च्द्) पादाग्रे प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् ॥ ७१ ॥

मूलम् - ०२.०६.०७२

(०२.०६.०७२अब्) तद्ग्रन्थी घुटिके गुल्फौ पुमान् पार्ष्णिस्तयोरधः ।

लिङ्ग-सूरी - AK.02.06.071-72

पादाग्र इति—पादस्याग्रं पादाग्रम् । पदस्य प्रारम्म्भः प्रपदम् । पादाग्रभागनामनी ॥ पद्यते गच्छत्यनेनेति पादः । पच्च । ‘पद गतौऽ । अङ्घति गच्छत्यनेन अङ्घ्रिः । ‘अघि गतौऽ । चरत्यनेन चरणः । ‘चर गतिभक्षणयोःऽ । पादनामानि ॥ घोटते परिवर्तते घुटिका । ‘घुट परिवर्तनेऽ । अभिघाताद् गुल्यते रक्ष्यत इति गुल्फः । ‘गुड रक्षायाम्ऽ । पादोपरिस्थितग्रन्थिनामनी ॥ पृष्यते स्नेह्यते नवनीतादिना पार्ष्णिः । ‘पृषु स्नेहनेऽ । गुल्फयोरधोभागनाम ॥ ७१ ॥

मल्लि-नाथः - AK.02.06.071-72

पादाग्रं प्रपदम् । अग्रपादनाम ॥ पादः—चरणोऽस्त्रियाम् । पादनामानि ॥ तद्ग्रन्थी—गुल्फौ । ‘पदग्रन्थौ द्वयोर्गुल्फःऽ इति द्विलिङ्गतायां रभसकोशः । पार्ष्ण्युपरिस्थितवृत्तपदग्रन्थिनामनी ॥ पुमान्—तयोरधः । पदग्रन्थ्योरधोभागः पार्ष्णिः स्यात् । स पुंलिङ्गः । ‘मडुमऽ । ‘पार्ष्ण्येव प्रोषितासुं दनुसुतमवतात् कुर्वती पार्वतीवऽ इति प्रयोगात् स्त्रीलिङ्गोऽप्यस्ति ॥ ७१ ॥

[[०२.४०७]]

(०२.०६.०७२च्द्) जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् ॥ ७२ ॥

मूलम् - ०२.०६.०७३

(०२.०६.०७३अब्) सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः ।

लिङ्ग-सूरी - AK.02.06.072-73

जङ्घेति—जङ्घन्यते कशादिना हन्यत इति जङ्घा । ‘हन हिंसागत्योःऽ । प्रसरतीति प्रसृता । ‘सृ गतौऽ । गुल्फोपरि जानुपर्यन्तमास्थितस्य नामनी ॥ जङ्घोरुसन्धिभागे जायत इति जानु । ‘जनी प्रादुर्भावेऽ । ऊर्वोः पर्व ऊरुपर्व । नान्तोऽयम् । स्थूलमस्थि विद्यतेऽत्रेति अष्ठीवत् । जङ्घोरुसन्धिभागनामानि ॥ सजते सङ्गच्छत इति सक्थि । ‘पञ्ज सङ्गेऽ । अयं क्लीबे वर्तते । ऊर्णूयते वस्त्रेणेति ऊरुः । ‘ऊर्णुञ् आच्छादनेऽ । अयं पुमान् । ऊरुनामनी ॥ वङ्कते उपवेशसमये किञ्चित्कुटिलमापद्यत इति वङ्क्षणः । ‘वकि कौटिल्येऽ । ऊरुसन्धिभागनाम ॥ ७२ ॥

मल्लि-नाथः - AK.02.06.072-73

जङ्घा—प्रसृता । जङ्घानामनी । ‘वट्टुकालुऽ । प्रसृतास्थाने जङ्घिनीशब्दं पठन्ति केचित् । जानूरु—अस्त्रियाम् । जङ्घोरुमध्यग्रन्थिनामानि । ‘मोकालुऽ । अत्रास्त्रियामिति विशेषविधिं केचिज्जानुशब्देन योजयन्ति । सक्थि—पुमानूरुः । ऊरुनामनी ॥ तत्सन्धिः—वङ्क्षणः । ऊरुसन्धिः वङ्क्षणः स्यात् । ‘गज्जुऽ ॥ ७२ ॥

[[०२.४०८]]

(०२.०६.०७३च्द्) गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः ॥ ७३ ॥

मूलम् - ०२.०६.०७४

(०२.०६.०७४अब्) कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ।

लिङ्ग-सूरी - AK.02.06.073-74

गुदमिति—गूयते पुरीषमुत्सृज्यतेऽनेनेति गुदम् । ‘गु पुरीषोत्सर्गेऽ । अपानित्यधोवायुम् उत्सृजति अपानम् । ‘अन प्राणनेऽ । पाति मलोत्सर्जनेनेति पायुः । ‘पा रक्षणेऽ । पुरीषोत्सर्गस्थाननामानि ॥ वसति मूत्रादिकमस्मिन्निति वस्तिः । ‘वस निवासेऽ । नाभेरधोभागनाम ॥ कट्यते आव्रियते वस्त्रादिनेति कटः । ‘कटे वर्षावरणयोःऽ । फलकाकृतिः श्रोणिः श्रोणिफलकम् । श्रोणिफलकस्य नाम ॥ कट्यते कटिः । कटी वा । श्रोणति सङ्गच्छते मेखलादिनेति श्रोणिः । ‘श्रोणृ सङ्घातेऽ । श्रोणी वा । ककुदिव श्रोणिपार्श्वस्थस्थूलांशोऽस्या अस्तीति ककुद्मती । काञ्चीबन्धनस्थाननामानि ॥ ७३ ॥

मल्लि-नाथः - AK.02.06.073-74

गुदं—पायुर्ना । मलद्वारनामानि ॥ वस्तिः—द्वयोः । नाभेरधोभागो वस्तिः स्यात् । मूत्राशयः । कटो ना—ककुद्मती । कटिनामानि । कटिश्रोणिफलकानि केषाञ्चिद् भिन्नपर्यायाणि । गजगण्डकटी कटाविति स्वयमेव वक्ष्यति (३। ३। ३४) ॥ ७३ ॥

[[०२.४०९]]

(०२.०६.०७४च्द्) पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ॥ ७४ ॥

मूलम् - ०२.०६.०७५

(०२.०६.०७५अब्) कूपकौ तु नितम्बस्थौ द्वयहीने कुकुन्दरे ।

लिङ्ग-सूरी - AK.02.06.074-75

पश्चादिति—सुरतकाले नितरां ताम्यतीति नितम्बः । ‘तमु ग्लानौऽ । स्त्रीकट्याः बाह्यभागनाम ॥ हन्यते ताड्यते पुरुषेण सुरतसमय इति जघनम् । ‘हन हिंसागत्योःऽ । स्त्रीकट्याः पुरोभागनाम, न तु पुरुषस्य ॥ कु ईषत् कुं नितम्बभूमिं दृणीत इति कुकुन्दरे । ‘द्दृ विदारणेऽ । द्विवचनमेतत् । ईषत्कूपसदृशनितम्बस्थलनिम्ननाम ॥ ७४ ॥

मल्लि-नाथः - AK.02.06.074-75

पश्चात्—स्त्रीकट्याः । स्त्रीकटीचरमभागः नितम्बःस्यात् । स्त्रीकटिग्रहणं रूढिप्रदर्शनार्थम् । तेन ‘त्यागेन सह प्रथिमानमाजगाम नितम्बभागःऽ इति चन्द्रापीडवर्णने (काद। पृ। १५२) बाणप्रयोगः । क्लीबे—पुरः । स्त्रीकट्याः पुरोभागो जघनं स्यात् । कटिमात्रेऽपि स्यात् । ‘काञ्चीपदं कलत्रं जघनं श्रोणी ककुद्मती ज्ञेयाऽ इति हलायुधः (अ। मा। २। ३५७) ॥ कूपकौ—कुकुन्दरे । नितम्बाश्रयौ कूपकौ कुकुन्दरे स्याताम् । ‘पिरुन्दुलमीदिवुन्नगुण्टलुऽ । स नपुंसकः ॥ ७४ ॥

[[०२.४०९]]

(०२.०६.०७५च्द्) स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ॥ ७५ ॥

मूलम् - ०२.०६.०७६

(०२.०६.०७६अब्) भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी ।

लिङ्ग-सूरी - AK.02.06.075-76

स्त्रियामिति—स्फायेते वर्धेते स्फिचौ । ‘स्फायी वृद्धौऽ । कट्याः प्रोथौ मांसपिण्डौ कटिप्रोथौ । कटिस्थस्थूलांशनाम ॥ उप समीपे शिश्नस्य कदाचित्तिष्ठतीति उपस्थः । ‘ष्ठा गतिनिवृत्तौऽ । वक्ष्यमाणयोः योनिमेहनशब्दयोः सामान्यनाम ॥ भज्यते पुरुषैरिति भगः । ‘भज सेवायाम्ऽ यौति शिश्नेति योनिः । ‘यु मिश्रणेऽ । स्त्रीगुह्यस्थाननामनी ॥ शिनोति वृश्चति रेतसा भगमिति शिश्नः । ‘शिञ् निशानेऽ । निशानं सङ्घर्षणम् । रेतसा मेहति भगं मेढ्रः । मेहनं च । ‘मिह सेचनेऽ । कदाचित् भगे शेते शेफः । ‘शीङ् स्वप्नेऽ । सकारान्तनपुंसकलिङ्गोऽयम् । शेप इति वा पाठः । शिश्ननामानि ॥ ७५ ॥

मल्लि-नाथः - AK.02.06.075-76

स्त्रियां—कटिप्रोथौ । कटिस्थलस्थूलांशनामनी । ‘मुड्ढिऽ । स्फिजौ स्फिचौ सन्दिग्धचजकारान्तौ । उपस्थो वक्ष्यमाणयोः । वक्ष्यमाणयोः (श्लो। ७६) स्त्रीपुरुषव्यञ्जनयोरुपस्थशब्दः । भगं—द्वयोः । स्त्रीव्यञ्जननामनी ॥ शिश्नो—शेफसी । पुरुषव्यञ्जननामानि ॥ ७५ ॥

[[०२.४१०]]

(०२.०६.०७६च्द्) मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् ॥ ७६ ॥

मूलम् - ०२.०६.०७७

(०२.०६.०७७अब्) पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ ।

लिङ्ग-सूरी - AK.02.06.076-77

मुष्क इति—मुष्णाति गोपायति शुक्रमिति मुष्कः । ‘मुष स्तेयेऽ । अण्डयोः कोशोऽण्डकोशः । अण्डकोशाविति वा पाठः । तदा अण्ड इति कोश इति द्वे नामनी । वर्षति रेत इति वृषणः । ‘वृषु सेचनेऽ । वृषणनामानि ॥ त्रयाणाम् ऊरुद्वयपृष्ठास्थ्नां समाहारः त्रिकम् । पृष्ठवंशाधोभागस्य साण्डद्वयशिश्नस्य वा नाम ॥ पचत्यन्नं स्वगताग्निनेति पिचण्डः । ‘डुपचष् पाकेऽ । कुष्यते बहिष्क्रियते मलमस्मादिति कुक्षिः । ‘कुष निष्कर्षेऽ । जन्यते गर्भोऽस्मिन्निति जठरम् । ‘जनी प्रादुर्भावेऽ । उदियर्ति गर्भोऽस्मादिति उदरम् । ‘ऋ गतौऽ । तुद्यतेऽजीर्णादिनेति तुन्दम् । ‘तुद व्यथनेऽ । उदरनामानि ॥ स्तनति बाल आभ्यामिति स्तनौ । ‘स्तन शब्देऽ । कुच्यते नखैः पुरुषेण लिख्यत इति कुचः । ‘कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषुऽ । स्तननामनी ॥ ७६ ॥

मल्लि-नाथः - AK.02.06.076-77

मुष्को—वृषणः । मुष्कनामानि । ‘अण्डयोः कोशोऽण्डकोशःऽ इति सुभूतिटीकाव्युत्पत्त्या एकनाम । ‘अस्त्रियां मुष्ककोशाण्डाःऽ इति पाठान्नामद्वयम् । अनुक्तम्—भगमध्यगुडो मणिः । स्त्रीव्यञ्जनमध्यगोलो मणिः स्यात् । पृष्ठवंशाधरे त्रिकम् । कशेरुकायाश्चाधोभागः त्रिकं स्यात् । ‘वेन्नेमुककिदुं गुद्दऽ ॥ पिचण्डकुक्षी—तुन्दम् । कुक्षिनामानि ॥ स्तनौ कुचौ । उरोजनामनी । ‘उरोरुहौ वक्षसिजौऽ इत्येते द्वे च ॥ ७६ ॥

[[०२.४११]]

(०२.०६.०७७च्द्) चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥ ७७ ॥

मूलम् - ०२.०६.०७८

(०२.०६.०७८अब्) उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः ।

लिङ्ग-सूरी - AK.02.06.077-78

चूचुकमिति—चूचु इति कायति स्तनपाने चूचुकम् । ‘कै शब्देऽ । कुचयोरग्रं कुचाग्रम् । कुचाग्रनाम ॥ क्रोडति घनीभवतीति क्रोडम् । स्त्रीनपुंसके । ‘क्रोड घनत्वेऽ । भुजयोरन्तरं भुजान्तरम् । भुजमध्यनाम ॥ ऊर्णूयते वस्त्रेणेति उरः । सान्तोऽयम् । ‘ऊर्णुञ् आच्छादनेऽ । वस्यते वस्त्रेण छाद्यते वत्सम् । ‘वस आच्छादनेऽ । सुरतकाले वक्ष्यते प्रतिहन्यते वक्षः । ‘वक्ष रोषे सङ्घाते चऽ । सान्तोऽयम् । उरोनामानि ॥ पृष्यते केशोदकैरिति पृष्ठम् । ‘पृषु सेचनेऽ । तनोः पश्चाद्भागनाम ॥ ७७ ॥

मल्लि-नाथः - AK.02.06.077-78

चूचुकं तु—स्यात् । स्तनमुखनाम । ‘चूचुको ना कुचाननम्ऽ इति रत्नकोशः । ‘चनुमुक्कुऽ । न ना—वक्षश्च । बाह्वोरन्तरनामानि । ‘लोम्मुऽ ॥ पृष्ठं तु—तनोः । देहस्य पश्चाद्भागः पृष्ठं स्यात् । ‘लिम्पुऽ ॥ ७७ ॥

[[०२.४११]]

(०२.०६.०७८च्द्) स्कन्धो भुजशिरोऽंसोऽस्त्री सन्धी तस्यैव जत्रुणी ॥ ७८ ॥

मूलम् - ०२.०६.०७९

(०२.०६.०७९अब्) बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः ।

लिङ्ग-सूरी - AK.02.06.078-79

स्कन्ध इति—स्कन्द्यते भारेण शुष्यते स्कन्धः । ‘स्कन्दिर् गतिशोषणयोःऽ । भुजस्य शिरोऽग्रं भुजशिरः । अम्यते भारेण रुज्यते अंसः । ‘अम रोगेऽ । बाहुशिरोनामानि ॥ जायते बाहुरस्मादिति जत्रु । ‘जनी प्रादुर्भावेऽ । स्कन्धांसयोर्मध्यभागनाम ॥ बाह्वोर्मूले बाहुमूले । कष्येते स्वेदेन कक्षौ । ‘कष हिंसायाम्ऽ । बाहुमूलनाम ॥ पर्शूनां समूहः पार्श्वम् । कक्षयोरधोभागनाम ॥ ७८ ॥

मल्लि-नाथः - AK.02.06.078-79

स्कन्धो—अंसोऽस्त्री । भुजमस्तकनामानि । ‘मूपुलुऽ ॥ सन्धी—जत्रुणी । अंसस्य सन्धी जत्रुणी स्याताम् । ‘मेढकिन्दि अड्ढयेमुकलुऽ ॥ बाहुमूले—कक्षौ । बाह्वोर्मूले द्वे कक्षौ स्याताम् । स्त्रीलिङ्गकक्षाशब्दोऽप्यस्ति । ‘स्कन्धस्याधः कक्षा लतिका श्रवणस्य पालिराख्याताऽ इति स्त्रीकाण्डे गोपालितः ॥ पार्श्वमस्त्री तयोरधः । कक्षयोरधोभागः पार्श्वं स्यात् । ‘बरिऽ ॥ ७८ ॥

[[०२.४१२]]

(०२.०६.०७९च्द्) मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः ॥ ७९ ॥

मूलम् - ०२.०६.०८०

(०२.०६.०८०अब्) भुजबाहू प्रवेष्टो दोः स्यात् कपोणिस्तु कूर्परः ।

लिङ्ग-सूरी - AK.02.06.079-80

मध्यममिति—मध्ये भवं मध्यं मध्यम च । अवलगति सन्नमति कृशत्वाद् अवलग्नम् । ‘लगे सङ्गेऽ । शरीरमध्यप्रदेशनामानि ॥ परौ द्वौ भुजबाहुशब्दौ द्वयोः स्त्रीपुंलिङ्गयोर्वर्तेते । भुज्यतेऽन्नादिकमनेन भुजः । ‘भुज पालनाभ्यवहारयोःऽ । बाहते वस्तूपादानाय प्रयत्नं करोतीति बाहुः । ‘बाहृ प्रयत्नेऽ । प्रवेष्टयति वस्त्रादिकं मध्ये प्रवेष्टः । ‘वेष्ट वेष्टनेऽ । दाम्यत्यनेनेति दोः । ‘दमु उपशमेऽ । दोःशब्दः सकारान्तः पुंलिङ्गः । नपुंसकेऽप्यस्ति । कथं ? ‘दक्षिणं दोर्निशाचरःऽ इति कालिदासप्रयोगात् (रघु। १५। २३) । बाहुनामानि ॥ कं कर्म बाहुप्रसरणादिकं पुणति करोतीति कपोणिः । ‘पुण कर्मणि शुभेऽ । कफोणिरिति वा पाठः । कुरति हठादाकर्षणेन ध्वनति कूर्परः । ‘कुर शब्देऽ । बाहुमध्यग्रन्थिनामनी ॥ ७९ ॥

मल्लि-नाथः - AK.02.06.079-80

मध्यमं—मध्योऽस्त्री । मध्यनामानि ॥ चकारौ अस्त्रीशब्दाकर्षणार्थौ । मध्यमं, मध्यमः । अवलग्नं, अवलग्नः । अतिकृशत्वादवलगतीत्यवलग्नम् । पृषोदरादित्वात् वलग्नं विलग्नमिति त्रैरूप्यं वदन्ति ॥ द्वौ परौ—प्रवेष्टौ दोः । भुजनामानि ॥ द्वौ पराविति प्रत्यासन्नयोर्भुजबाह्वोरेव ग्रहणम् । भुजेन भुजया, बाहुना बाह्वा । बाहशब्दोऽप्यस्ति । ‘कल्लोललीलामुरवैरिबाहाःऽ इति साहित्यकल्पवल्लीप्रयोगात् । दोःशब्दस्यान्त्यपाठौ ऽसङ्करार्थः । ‘दोर्न स्त्री करपोणिर्ना हरणः करणः प्लवःऽ इति वैजयन्ती (पृ। १७८, श्लो। ७१) । दोषौ दोषः । दोःषी दोंषि । ‘दोष्णो बलान्मन्त्रबलं गरीयःऽ इति । ‘पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्ऽ इत्यादिना (६। १। ६३) दोषन्नादेशः । पृथगेको दोषाशब्दोऽप्यस्ति । ‘दोर्दोषा च भुजो बाहुःऽ इति धनञ्जयः ॥ स्यात् कफोणिः—कूर्परः । कूर्परनामनी । ‘मोचेय्यऽ । ‘कफोणिकूर्परौ तुल्यौ कफणिश्चापि दृश्यतेऽ इति रभसकोशद्वन्द्वनिर्देशात् पुंलिङ्गः । ‘कफोणिः कूर्परः पुमान्ऽ इति गोपालितनिघण्टोस्त्रिकाण्डनिर्देशात् स्त्रीलिङ्गः ॥ ७९ ॥

[[०२.४१३]]

(०२.०६.०८०च्द्) अस्योपरि प्रगण्डः स्यात् प्रकोष्ठस्तस्य चाप्यधः ॥ ८० ॥

मूलम् - ०२.०६.०८१

(०२.०६.०८१अब्) मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।

लिङ्ग-सूरी - AK.02.06.080-81

अस्येति—प्रगण्यते सुवृत्ततया श्लाघ्यते प्रगण्डः । ‘गण सङ्ख्यानेऽ । कपोणेरुपरिभागनाम ॥ प्रकुष्यते प्रावरणाद् बहिः निःसार्यते प्रकोष्ठः । ‘कुष निष्कर्षेऽ । प्रगण्डाधोभागनाम ॥ करे मुष्टिकृते भातीति करभः । ‘भा दीप्तौऽ । मणिबन्धो हस्तग्रन्थिः । तस्मादारभ्य आकनिष्ठं स्थितस्य करबहिःप्रदेशस्य नाम ॥ ८० ॥

मल्लि-नाथः - AK.02.06.080-81

अस्योपरि—स्यात् । कफणेरुपरिभागः प्रगण्डः स्यात् ॥ प्रकोष्ठः—चाप्यधः । कफोणेरधोभागः प्रकोष्ठः स्यात् ॥ मणिबन्धात्—करभो बहिः । मणिबन्ध इति कङ्कणबन्धस्थानम् । तस्मादारभ्य कनिष्ठाङ्गुलीपर्यन्तं करस्य बहिर्भागः करभः स्यात् ।

‘क्व प्रस्थितासि करभोरु घने निशीथे

प्राणेश्वरो वसति यत्र मनःप्रियो मे ।ऽ

इत्यमरुकः ॥ (अ। श। श्लो। ७१) ॥ ८० ॥

[[०२.४१४]]

(०२.०६.०८१च्द्) पञ्चशाखः शयः पाणिस्तर्जनी स्यात् प्रदेशिनी ॥ ८१ ॥

मूलम् - ०२.०६.०८२

(०२.०६.०८२अब्) अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी ।
(०२.०६.०८२च्द्) मध्यमानामिकि चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥

लिङ्ग-सूरी - AK.02.06.081-82

पञ्चशाख इति—पञ्च शाखा इवाङ्गुल्योऽस्य सन्तीति पञ्चशाखः । स्वकीयं धनं शेते तिष्ठत्यत्रेति शयः । ‘शीङ् स्वप्नेऽ । पणति व्यवहरत्यनेनेति पाणिः । ‘पण व्यवहारे स्तुतौ चऽ । मणिबन्धादारभ्य सर्वाङ्गुलिसहितस्य बाह्याग्रभागस्य नामानि ॥ तर्जयत्यनया पुत्रादिकमिति तर्जनी । ‘तर्ज भर्त्सनेऽ । पदिशति चोरादिकं निर्दिशत्यनया प्रदेशिनी । ‘दिश अतिसर्जनेऽ । अङ्गुष्ठसमीपाङ्गुलेर्नाम ॥ स्वयमङ्गितया अन्यमङ्गं लाति स्वीकरोतीति अङ्गुलिः । अङ्गुलीत्यप्यस्ति । ‘ला आदानेऽ । करस्य शाखा इव तिष्ठन्तीति करशाखाः । अङ्गुलिनामनी ॥ अङ्गौ अङ्गे तिष्ठतीत्यङुगुष्ठः । प्रदिशति चोरादिकं प्रदेशिनी । मध्ये भवा मध्यमा । नास्ति प्रसिद्धनामास्या अनामिका । अतिशयेन अल्पा कनिष्ठा । एतानि स्थूलाङ्गुलिमारभ्य यथाक्रममङ्गुलीनां प्रत्येकनामानि ॥ ८१-२ ॥

मल्लि-नाथः - AK.02.06.081-82

पञ्चशाखः—पाणिः । पाणिनामानि ॥ तर्जनी—प्रदेशिनी । तर्जनीनामनी । ‘जुट्टुलप्रेलुऽ ॥ अनुक्तम्—समानावङ्गुलाङ्गुष्ठौ । अङ्गुष्ठनामनी । ‘बोट्टनप्रेलुऽ । अङ्गुल्यः करशाखाः स्युः । अङ्गुलिनामनी ॥ पुंस्यभङ्गुष्ठः—ताः क्रमात् । ता अङ्गुल्यःक्रमादङ्गुष्ठादिसञ्ज्ञाः स्युः ॥ ८१-२ ॥

[[०२.४१५]]

मूलम् - ०२.०६.०८३

(०२.०६.०८३अब्) पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ।
(०२.०६.०८३च्द्) प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥
(०२.०६.०८४अब्) अङ्गुष्ठे सकनिष्ठे स्याद् वितस्तिर्द्वादशाङ्गुलः ।

लिङ्ग-सूरी - AK.02.06.083-84

पुनर्भव इति—पुनःपुनर्भवतीति पुनर्भवः । ‘भू सत्तायाम्ऽ । करे रोहतीति करेरुहः । ‘रुह बीजजन्मनि प्रादुर्भावे चऽ । न विद्यते खमाकाशोऽस्य नखः । खमाकाशं न राति न ददातीति नखरः । ‘रा दानेऽ । नखनामानि ॥ प्रदिश्यते परिमीयते प्रादेशः । ‘दिश अतिसर्जनेऽ । तलति प्रतिष्ठते परिमेयमस्मिन्निति तालः । ‘तल प्रतिष्ठायाम्ऽ । गोकर्णाकृतिरत्रास्तीति गोकर्णः । एतानि क्रमेण तर्जन्यादियुतेऽङ्गुष्ठे वितते सति यावदन्तरं भवति तस्य नामानि ॥ वितस्यते हस्तापेक्षया उपक्षीयत इति वितस्तिः । ‘तसु उपक्षयेऽ । कनिष्ठेऽङ्गुष्ठे तते सति यावदन्तरं भवति तस्य नाम ॥ द्वादशाङ्गुलयः प्रमाणमस्य द्वादशाङ्गुलः । द्वादशाङ्गुलो वा वितस्तिः । द्वादशाङ्गुलिप्रमाणस्य नामनी ॥ ८३ ॥

मल्लि-नाथः - AK.02.06.083-84

पुनर्भवः—नखरोऽस्त्रियाम् । नखनामानि । स नखः प्रवृद्धश्चेत् स्मराङ्कुशः ।

‘पुनर्भवः पाणिरुहो महाराजः पुनर्नवः ।

खरूरः करजश्चाथ स प्रवृद्धः स्मराङ्कुशः ॥ऽ

इति वैजयन्ती (पृ। १७९, श्लो। ७६) ॥ प्रादेश—तते । अङ्गुष्ठे तर्जन्या सह वितते प्रादेशः स्यात् । मध्यमया सह विस्तृतेऽङ्गुष्ठे तालः स्यात् । अनामिकया सह विततेऽङ्गुष्ठे गोकर्णः स्यात् ॥ अङ्गुष्ठे—द्वादशाङ्गुलः । कनिष्ठिकया सह विततेऽङ्गुष्ठे वितस्तिः स्यात् । क्तिन्नन्तत्वात् (३। ३। ९४) स्त्रीलिङ्गः । ‘स्त्रियां वितस्तिः कनीयस्याऽ । इति रत्नकोशः । स एव द्वादशाङ्गुलः । ‘जानऽ ॥ ८३ ॥

[[०२.४१६]]

(०२.०६.०८४च्द्) पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ॥ ८४ ॥

मूलम् - ०२.०६.०८५

(०२.०६.०८५अब्) द्वौ संहतौ संहतलप्रतलौ वामदक्षिणौ ।

लिङ्ग-सूरी - AK.02.06.084-85

पाणाविति—विस्तृताङ्गुलौ पाणौ चपेटादित्रयं वर्तते । चप्यते पुत्रादिः सान्त्व्यतेऽनेनेति चपेटः । ‘चप सान्त्वनेऽ । प्रसृतं तलमत्रास्तीति प्रतलः । प्रसृतो हस्तः प्रहस्तः । विस्तृताङ्गुलिपाणिनामानि ॥ संहतं सङ्घट्टं लातीति संहतलः । ‘ला आदानेऽ । सिंहतल इति वा पाठः । तदा सिंहस्य पादद्वयतलवत् तिष्ठतीति सिंहतलः । प्रतते तलेऽत्रेति प्रतलः । वामदक्षिणयोः पाण्योर्मिलितयोः विस्तृताङ्गुल्योर्नामनी ॥ ८४ ॥

मल्लि-नाथः - AK.02.06.084-85

पाणौ—विस्तृताङ्गुलौ । वितताङ्गुलौ पाणौ चपेटः स्यात् । ‘चपेटश्चर्पटस्तालःऽ इति वैजयन्ती (पृ १७९, श्लो। ७७) । प्रतलश्च प्रहस्तश्च स्यात् । ‘प्रहस्तः प्रतलस्तलःऽ इति वैजयन्ती (पृ। १७९, श्लो। ७७) ॥ द्वौ संहतौ—वामदक्षिणौ । वामदक्षिणौ प्रतलौ द्वौ संहतौ चेत् संहतलः स्यात् ॥ ८४ ॥

[[०२.४१६]]

(०२.०६.०८५च्द्) पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान् ॥ ८५ ॥

मूलम् - ०२.०६.०८६

(०२.०६.०८६अब्) प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया ।
(०२.०६.०८६च्द्) स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६ ॥

लिङ्ग-सूरी - AK.02.06.085-86

पाणिरिति—कुञ्चितः पाणिः प्रसृतिरित्युच्यते । प्रसार्यते विरुद्धलक्षणया सङ्कुच्यत इति प्रसृतिः । नितरां कुब्जा प्रकृतिरस्य निकुब्जः । अञ्ज्यते परप्रणामो व्यक्तीक्रियतेऽनेनेति अञ्जलिः । ‘अञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ । संयुक्तप्रसृतिद्वयनाम ॥ कपोणेरधः प्रकोष्ठः तत्र विस्तृतकरे सति हस्त इत्युच्यते । हन्यतेऽशुकादिरनेन हस्तः । ‘हन हिंसागत्योःऽ । विस्तृतकरप्रकोष्ठनाम ॥ बद्धया मुष्ट्या उपलक्षितः स हस्तः रत्निरित्युच्यते । रमन्ते व्यवहारिणोऽनेनेति रत्निः । ‘रमु क्रीडायाम्ऽ । निष्कनिष्ठेन निर्गतकनिष्ठाङ्गुलिना मुष्ठिना उपलक्षितो हस्तोऽरत्निरित्युच्यते । ऋच्छति मानसञ्ज्ञामित्यरत्निः । ‘ऋ गतौऽ । निष्कनिष्ठमुष्टिहस्तनाम ॥ ८५-६ ॥

मल्लि-नाथः - AK.02.06.085-86

पाणिः—प्रसृतः । प्रसृतिरिति क्वचित् पाठः । ईषदावर्जितः पाणिः प्रसृतः स्यात् । ‘चेरऽ । ‘प्रसृते तु द्रवाधारे गण्डूषश्चुलुकस्तथाऽ । इति प्रसृतविशेष एव ॥ तौ युतौ—पुमान् । प्रसृतौ द्वौ सङ्गतौ चेत् अञ्जलिः स्यात् । स सन्निवेशविशेषाद् बहुविधः ।

‘पिबत्यञ्जलिना तोयं देवाय रचितोऽञ्जलिः ।

पिदधात्यात्मनो वक्त्रं केलिष्वञ्जलिना वधूः ॥ऽ

इत्यादि ॥ प्रकोष्ठे—हस्तः । विस्तृतकरे प्रकोष्ठे हस्तः स्यात् । ‘मूरऽ । हस्तः करमात्रेऽपि स्यात् । ‘पाणिः करः शयो हस्तःऽ । इति नाममाला । मुष्ठ्या—रत्निः स्यात् । मुष्टिरङ्गुलिकुञ्चनम् । हस्तो बद्धया मुष्ट्योपलक्षितश्चेत् स रत्निः स्यात् । अरत्निस्तु—मुष्टिना । स एव निष्क्रान्तकनिष्ठेन मुष्टिनोपलक्षितश्चेद् अरत्निः स्यात् । तौ द्वौ च स्त्रीपुंसलिङ्गौ ॥ ८५-६ ॥

[[०२.४१७]]

मूलम् - ०२.०६.०८७

(०२.०६.०८७अब्) व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् ।
(०२.०६.०८७च्द्) ऊर्ध्वविस्तृतदोःपाणिनृमाने पौरुषं त्रिषु ॥ ८७ ॥
(०२.०६.०८८अब्) कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि ।

लिङ्ग-सूरी - AK.02.06.087-88

व्याम इति—सकरयोः पाणिसहितयोः तिर्यक् ततयोःतिर्यक् प्रसारितयोर्बाह्वोरन्तरं व्याम इत्युच्यते । व्यामीयते रज्ज्वादिकमनेनेति व्यामः । ‘माङ् मानेऽ । तिर्यक्प्रसारितबाह्वन्तरपरिमाणनाम ॥ ऊर्ध्वं विस्तृतः प्रसारितः ऊर्ध्वविस्तृतः, दोःसहितः पाणिः दोःपाणिः यस्य, स चासौ ना च, तस्य पुरुषस्य माने पौरुषमिति शब्दो वर्तते । पुरुषस्येदं मानं पौरुषम् । त्रिषु, त्रिषु लिङ्गेषु वर्तते ॥ कणति ध्वनति कण्ठः । ‘कण शब्देऽ । गलति ग्रासमनेन गलः । ‘गल अदनेऽ । ग्रीवाभागनामनी ॥ ग्रासं गिरतीति ग्रीवा । ‘गॄ निगरणेऽ । शिरो धीयतेऽस्यामिति शिरोधिः । ‘डुधाञ् धारणपोषणयोःऽ । कं शिरो धारयतीति कन्धरा । ‘धृञ् धारणेऽ । ग्रीवानामानि ॥ ८७ ॥

मल्लि-नाथः - AK.02.06.087-88

व्यामो—तिर्यगन्तरम् । साचीकृतयोर्भुजयोर्मध्यं व्यामः स्यात् । ‘बारऽ । व्यायामोऽपि स्यात् । ‘न्यग्रोधो वायायामो व्यामश्च भुजौ प्रसारितौ तिर्यक्ऽ । इति वैजयन्ती (पृ। १७९, श्लो। ८२) ॥ ऊर्ध्वविस्तृत—पौरुषं त्रिषु । ऊर्ध्वमुद्धृतभुजकरस्य पुरुषस्य प्रमाणं पौरुषं स्यात् । तच्च त्रिलिङ्गम् । पौरुषी गङ्गा । ‘पुरुषहस्तिभ्यामण् चऽ (५। २। ३८) इति चकाराद् द्वयसजादयोऽपि स्युः । पुरुषद्वयसी, पुरुषदघ्नी, पुरुषमात्री गङ्गा । ‘द्विगोर्नित्यम्ऽ (वा। ५। २। ३७) इति सङ्ख्यापूर्वश्चेल्लुक् । द्विपुरुषी गङ्गा । कण्ठो गलो—कन्धरेत्यपि । ग्रीवानामानि । अथशब्दो लिङ्गान्तरज्ञापनार्थः । ‘बिभ्राणमायतिमतीमवृथा शिरोधिम्ऽ इति माघः (शिशु। ५। ६५) ॥ ८७ ॥

[[०२.४१८]]

(०२.०६.०८८च्द्) कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका ॥ ८८ ॥

मूलम् - ०२.०६.०८९

(०२.०६.०८९अब्) वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् ।

लिङ्ग-सूरी - AK.02.06.088-89

कम्बुग्रीवेति—कम्बुवत् शङ्खवत् त्रिरेखासहितत्वात् कम्बुग्रीवा । रेखात्रयसहितग्रीवानाम ॥ न वटति न वेष्टते अवटुः । ‘वट वेष्टनेऽ । शरीरमस्तकयोः सन्धिं घटयति घाटा । ‘घट चेष्टायाम्ऽ । कृकं शिरोग्रीवम् अटति व्याप्नोतीति कृकाटिका । ‘अट गतौऽ । ग्रीवायाः पश्चाद्भागनामानि ॥ उच्यतेऽनेनेति वक्त्रम् । ‘वच परिभाषणेऽ । अस्यते क्षिप्यते नवनीतादिरस्मिन्निति आस्यम् । ‘असु क्षेपणेऽ । वदन्त्यनेन वदनम् । ‘वद व्यक्तायां वाचिऽ । तुड्यते हिंस्यते खाद्यमनेनेति तुण्डम् । ‘तुडि तोडनेऽ । अनिति श्वसित्यनेनेति आननम् । ‘अन प्राणनेऽ । लपत्यनेन लपनम् । ‘लप व्यक्तायां वाचिऽ । खन्यते भक्ष्यतेऽनेनेति मुखम् । ‘खनु अवदारणेऽ । मुदितानि खानीन्द्रियाण्यस्मिन्निति वा । एतानि मुखस्य वा दन्तात्मकस्य मुखान्तरालस्य वा नामानि ॥ ८८ ॥

मल्लि-नाथः - AK.02.06.088-89

कम्बुग्रीवा त्रिरेखा सा । रेखात्रयाङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते । अवटुः—कृकाटिका । शिरःपश्चाद्गर्तनामानि । ‘पेडतलऽ । सावटुरित्यकारपूर्वपदव्यवहितः । ‘घाटाप्यवटुरक्लीबेऽ इति वैजयन्ती (पृ। १८०, श्लो। ८५) ॥ वक्त्रास्ये—लपनं मुखम् । मुखनामानि ।

‘को विष्वणन् मुह्यति नक्तमास्येऽ । तदुपलक्षितसमुदायेऽपि प्रपञ्चितम् । ‘अम्भोजमिव वक्त्रं ते तव वक्त्रमिवाम्बुजम्ऽ । इति ॥ ८८ ॥

[[०२.४१९]]

(०२.०६.०८९च्द्) क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका ॥ ८९ ॥

मूलम् - ०२.०६.०९०

(०२.०६.०९०अब्) ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ।

लिङ्ग-सूरी - AK.02.06.089-90

क्लीब इति—जिघ्रति अनेनेति घ्राणम् । ‘घ्रा गन्धोपादानेऽ । गन्धं वहतीति गन्धवहा । ‘वह प्रापणेऽ । घुणति भ्रमति गन्धग्रहणाय घोणा । ‘घुण भ्रमणेऽ । नासते शब्दायते नासा । नासिका च । ‘णासृ शब्देऽ । नासिकानामानि ॥ उष्यते उष्णाहारेण दह्यते ओष्ठः । ‘उष दाहेऽ । अधोभवत्वात् अधरः । रदनाः छाद्यन्तेऽनेन रदनच्छदः । ‘छद अपवारणेऽ । दशनाच्छादकत्वेन वासःसाम्याद् दशनवासः । दशनं वस्यते वा । ‘वस आच्छादनेऽ । ओष्ठद्वयनामानि ॥ ८९ ॥

मल्लि-नाथः - AK.02.06.089-90

क्लीबे घ्राणं—च नासिका । नासिकानामानि । नासानासिकाशब्दयोः प्रत्ययभेदाद् भेदपाठः । वैजयन्त्यामपि तथैव पठितम् (पृ। १८०, श्लो। ९१)

‘क्लीबे नकुटकं घ्राणं घोणा नासा विघूणिका

शिङ्घाणी नासिका चाथ धमनौ नासिकापुटौ ॥ऽ

ओष्ठाधरे—दशनवाससी । ओष्ठ इति उपरितनदन्तवासः, अधर इत्यधस्तनदन्तवासः । तौ द्वावपि रदनच्छदौ दन्तवाससी च स्याताम् । ओष्ठाधरौ तु रदनच्छदौ दशनवाससी इति केचित् पठन्ति । तत्पाठे सर्वाणि पर्यायपदानि । ‘अधरो दन्तच्छद ओष्ठ उच्यते दन्तवासश्चऽ इति हलायुधः (अ। मा। २। ३६९) ॥ ८९ ॥

[[०२.४२०]]

(०२.०६.०९०च्द्) अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परो हनुः ॥ ९० ॥

मूलम् - ०२.०६.०९१

(०२.०६.०९१अब्) रदना दशना दन्ता रदास्तालु तु काकुदम् ।

लिङ्ग-सूरी - AK.02.06.090-91

अधस्तादिति—चीयते त्वङ्मांसास्थ्यादिभिरिति चिबुकम् । ‘चिञ्चयनेऽ । चीव्यते वा । ‘चीवृ आदानसंवरणयोःऽ । अधरोष्ठादधःस्तिताङ्गस्य नाम ॥ गण्डति वदनस्य एकदेशो भवति गण्डः । ‘गडि वदनैकदेशेऽ । कम्पते भक्षणसमये चलतीति कपोलः । ‘कपि चलनेऽ । चिबुकस्य वामदक्षिणभागयोरूर्ध्वभागनामनी ॥ हन्ति चणकादिकमिति हनुः । ‘हन हिंसागत्योःऽ । पूर्वोक्तयोः कपोलयोः पश्चाद्भागनाम ॥ रद्यन्ते भक्ष्याणि एभिरिति रदनाः । रदाश्च । ‘रद विलेखनेऽ । दशन्ति स्त्र्यधरमेभिरिति दशनाः । ‘दंश दशनेऽ । दम्यते भक्ष्यमेभिरिति दन्ताः । ‘दमु उपशमेऽ । दन्तनामानि ॥ तलति प्रतितिष्ठति दग्धशेषमत्रेति तालु । ‘तल प्रतिष्ठायाम्ऽ । काकुं ध्वनिविशेषं ददातीति काकुदम् । ‘दाण् दानेऽ । तालुनामनी ॥ ९० ॥

मल्लि-नाथः - AK.02.06.090-91

अधस्ताच्चिबुकम् । सन्निधिसामर्थ्याद् ओष्ठस्याधोभागश्चिबुकं स्यात् । ‘ओष्ठस्याधस्तु चिबुकं चीबुकं चुबुकं च तत्ऽ इति वैजयन्ती (पृ। १८०, श्लो। ८७) ॥ गण्डौ कपोलौ । गण्डस्थलनामनी । चिबुकसव्यापसव्यभागनामनी । तत्परो हनुः । तयोरुपरिभागो हनुः स्यात् । केषाञ्चिद् गण्ड एव हनुः । ‘गण्डो गल्लः कपोलश्च हनुस्तुल्यार्थवाचकाःऽ इति हलायुधः (अ। मा। २। ३६७) ॥ रदनाः—रदाः । दन्तनामानि ॥ अनुक्तम्—‘राजदन्ता मध्यदन्ताःऽ । मध्यमदन्ता राजदन्ताः स्युः । ‘दंष्ट्रा दाढाश्च पार्श्वयोःऽ । तेषां पार्श्वस्थदन्ता दंष्ट्रा दाढाश्चेत्युच्यन्ते । तालु—काकुदम् । तालुनो नाम । ‘दवडलुऽ ॥ ९० ॥

[[०२.४२१]]

(०२.०६.०९१च्द्) रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी ॥ ९१ ॥

मूलम् - ०२.०६.०९२

(०२.०६.०९२अब्) ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ ।

लिङ्ग-सूरी - AK.02.06.091-92

रसज्ञेति—रसं जानातीति रसज्ञा । ‘ज्ञा अवबोधनेऽ । रस्यतेऽनया रसो रसना । ‘रस आस्वादनेऽ । ह्वयति रसवद्वस्तु जिह्वा । ‘ह्वेञ् स्पर्धायां शब्दे चऽ । जिह्वानामानि ॥ लालां सृजतीति सृक्किणी । सृक्कं, सृक्कि, सृक्कणी सृक्किणीति बहवः पाठाः । ‘सृज विसर्गेऽ । ओष्ठप्रान्तनाम ॥ ललन्तश्चलन्तोऽटन्त्यलका अत्रेति ललाटम् । ‘अट गतौऽ । अल्यते तिलकेनेति अलिकम् । ‘अल भूषणादौऽ । गुध्यते उष्णीपेणेति गोधिः । ‘गुध परिवेष्टनेऽ । ललाटनामानि ॥ ऊर्ध्वमधश्च भ्रमतीति भ्रूः । ‘भ्रमु चलनेऽ । दृग्भ्यामूर्ध्वभागनाम ॥ ९१ ॥

मल्लि-नाथः - AK.02.06.091-92

रसज्ञा—जिह्वा । जिह्वानामानि । प्रान्तावोष्ठस्य सृक्किणी । ओष्ठस्य प्रान्तौ सृक्किणी स्याताम् । ‘शेलिवेलुऽ । ललाटं—गोधिः । ‘भालो निटालं निटलम्ऽ । एतानि च ॥ ऊर्ध्वे दृग्भ्यां—स्त्रियाम् । दृग्भ्यामुपरिगतरोमलेखे भ्रुवौ स्याताम् । हे भ्रूः । ‘नेयङुवङ्स्थानावस्त्रीऽ (१। ४। ४) इति नदीसञ्ज्ञा न भवति ।

‘अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहेऽ ।

(कु। सं। ५। ४३) इत्यत्र बहुव्रीहिवशाद् भवति । सम्बुद्धौ तु नदीभावं ब्रुवते सौगतोत्तमाः । ‘श्लेष्मातकभ्रुवस्तद्वदरुणं सुतनोरपिऽ इति ॥ ९१ ॥

[[०२.४२१]]

(०२.०६.०९२च्द्) कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ ९२ ॥

मूलम् - ०२.०६.०९३

(०२.०६.०९३अब्) लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।
(०२.०६.०९३च्द्) दृग्दृष्टी चाश्रु नेत्राम्बु रोदनं चास्रमस्रु च ॥ ९३ ॥

लिङ्ग-सूरी - AK.02.06.092-93

कूर्चमिति—कोचति भ्रूरोमाणि प्रतिष्टन्नाति कूर्चम् । ‘कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषुऽ । भ्रूमध्यनाम ॥ तारयति तम इति तारका । ‘तॄ प्लवनतरणयोःऽ । कनति प्रकाशयति सर्वं कनीनिका । ‘कनी दीप्तिकान्तिगतिषुऽ । अक्ष्णोर्मध्यगतनीलतारकानामनी ॥ लोच्यतेऽनेनेति लोचनम् । ‘लोचृ दर्शनेऽ । नीयते आलोकमनेनेति नयनम् । नेत्रं च । ‘णीञ् प्रापणेऽ । ईक्ष्यतेऽनेनेति ईक्षणम् । ‘ईक्ष दर्शनेऽ । चष्टे आचष्टे वस्तुस्वरूपं चक्षुः । सान्तः । ‘चक्षिङ् व्यक्तायां वाचिऽ । अक्ष्णोति याति दूरमिति अक्षि । ‘अक्षू व्याप्तौऽ । इकारान्तनपुंसकलिङ्गमिदम् । पश्यन्त्यनया दृक् । दृष्टिश्च । ‘दृशिर् प्रेक्षणेऽ । नेत्रनामानि ॥ अश्नुते कपोलमिति अश्रु । ‘अशू व्याप्तौऽ । रुद्यतेऽनेन रोदनम् । ‘रुदिर् अश्रुविमोचनेऽ । अस्यते क्षिप्यतेऽस्रम् । अस्रु च । ‘असु क्षेपणेऽ । नेत्राम्बुनामानि ॥ ९२-३ ॥

मल्लि-नाथः - AK.02.06.092-93

कूर्चमस्त्री—मध्यम् । भ्रूमध्यं कूर्चं स्यात् । तारका—कनीनिका । अक्षिमध्यनामनी । ‘नक्षत्रे चाक्षिमध्ये च तारकं तारकापि चऽ इति शाश्वतः (अने। स। पृ। ३७, श्लो। ४२०) ॥ लोचनं—दृग्दृष्टी च । नेत्रनामानि ॥ अश्रु—चास्रमस्रु च । नेत्रजलनामानि ॥ अनुक्तम्—‘वल्लु लोचनलोम्नि स्यात्ऽ । नेत्रलोम्नि वल्लुशब्दः स्यात् । ‘वर्तनी लोचनच्छदेऽ । नेत्रपत्रे वर्तनी स्यात् । ‘कनुरेप्पऽ ॥ ९२-३ ॥

९४

[[०२.४२२]]

मूलम् - ०२.०६.०९४

(०२.०६.०९४अब्) अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने ।
(०२.०६.०९४च्द्) कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥
(०२.०६.०९५अब्) उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् ।

लिङ्ग-सूरी - AK.02.06.094-95

अपाङ्गाविति—अङ्गात् नासिकाख्याद् अपकृष्टौ अपाङ्गौ । नेत्राञ्चलनाम ॥ कटे नेत्रबाह्याङ्गेऽक्षिदर्शनमस्य कटाक्षः । अपाङ्गदर्शननाम ॥ कीर्यतेऽत्र शब्द इति कर्णः । ‘कॄ विक्षेपेऽ । शब्दस्य ग्रहोऽनेनेति शब्दग्रहः । श्रूयतेऽनेन शब्द इति श्रोत्रम् । श्रुतिः । श्रवणम् । श्रवश्च । सान्तोऽयम् । ‘श्रु श्रवणेऽ । कर्णनामानि ॥ उत्तमं च तदङ्गं च उत्तमाङ्गम् । शीर्यते जरापरिपाकादिनेति शिरः । सान्तः । शीर्षं च । ‘शॄ हिंसायाम्ऽ । मूर्च्छति गर्वादुन्नतो भवतीति मूर्धा । ‘मूर्च्छा मोहसमुच्छ्राययोःऽ । मस्यति कठिनत्वेन परिणमतीति मस्तकः । ‘मसी परिणामेऽ । शिरोनामानि ॥ ९४ ॥

मल्लि-नाथः - AK.02.06.094-95

अपाङ्गो नेत्रयोरन्तौ । नेत्रान्तौ अपाङ्गौ भवतः । ‘कडकन्नुऽ । कटाक्षोऽपाङ्गदर्शने । नेत्रान्तवीक्षणं कटाक्षः स्यात् । ‘कटाक्षः केकरापाङ्गौऽ इति केषाञ्चिदपाङ्गमात्रार्थः । अपाङ्गवीक्षितं काक्षः । कटाक्षोऽक्षिविकूणनमिति केषाञ्चिदपाङ्गदर्शनार्थः । कर्णशब्दग्रहौ—श्रवः । श्रवः सान्तः । कर्णनामानि । श्रुतिशब्दव्यवधानं श्रवणशब्दस्य लिङ्गव्यभिचारसूचनार्थम् । ‘आस्येषु जिह्वा हृदयेषु हस्तानंसेषु शूराः श्रवणान् पृषत्कैःऽ । इति राघवपाण्डवीयम् (द्विसं। १६। २६) ॥ उत्तमाङ्गं—मस्तकोऽस्त्रियाम् । शिरोनामानि ॥ ९४ ॥

[[०२.४२३]]

(०२.०६.०९५च्द्) चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः ॥ ९५ ॥

मूलम् - ०२.०६.०९६

(०२.०६.०९६अब्) तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः ।

लिङ्ग-सूरी - AK.02.06.095-96

चिकुर इति—चीयत एकत्र चिकुरः । ‘चिञ् चयनेऽ । दैर्ध्यात् कुन्ताकारं लातीति कुन्तलः । ‘ला आदानेऽ । वल्यते पुष्पादिना वालः । ‘वल संवरणेऽ । कच्यते बध्यते कचः । ‘कच बन्धनेऽ । के शिरसि शेते वर्तते केशः । शिरसि रोहतीति शिरोरुहः । ‘रुह बीजजन्मनि प्रादुर्भावे चऽ । शिरोरुहनामानि ॥ केशानां समूहः कैशिकम् । कैश्यं च । केशवृन्दनामनी ॥ अल्यन्त इत्यलकाः । ‘अल भूषणादौऽ । चूर्णाः कुटिलाः कुन्तलाः चूर्णकुन्तलाः । चूर्णयोग्यकुन्तलनाम ॥ ९५ ॥

मल्लि-नाथः - AK.02.06.095-96

चिकुरः—शिरोरुहः । शिरःकेशनामानि । चिकुरशब्दः ककारमध्यो हकारमध्यश्च स्यात् । ‘कुन्तला मूर्धजाः प्रस्थाश्चिकुराश्चिहुराः कचाःऽ इति श्रीभोजः ॥ तद्वृन्दे—कैश्यम् । केशसमूहनामनी ॥ अलकाश्चूर्णकुन्तलाः । कुटिलकेशनामनी । ‘स्वभाववक्राण्यलकानि तासाम्ऽ इति भारविः ॥ ९५ ॥

[[०२.४२४]]

(०२.०६.०९६च्द्) ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः ॥ ९६ ॥

मूलम् - ०२.०६.०९७

(०२.०६.०९७अब्) कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः ।

लिङ्ग-सूरी - AK.02.06.096-97

त इति—भ्रमरप्रतिकृतिर्येषामस्तीति भ्रमरकाः । ललाटस्थालकनाम ॥ कार्ष्ण्यचाञ्चल्याभ्यां काकपक्षसाम्यात् काकपक्षः । शिरसि खण्डतया वर्तत इति शिखण्डकः । बालशिखानामनी ॥ कं शिरो वृणोतीति कबरी । ‘वृञ् वरणेऽ । केशानां सन्निवेशः केशवेशः । ‘विश प्रवेशनेऽ । केशरचनाविशेषनामनी ॥ संयताः बद्धाः केशाः धम्मिल्ल इत्युच्यते । धमित्यव्ययम्, मूर्धाधः ऊर्ध्वं वा मिल्यते धम्मिल्लः । ‘मिल श्लेषणेऽ । दृढसंयतकचनाम ॥ ९६ ॥

मल्लि-नाथः - AK.02.06.096-97

ते ललाटे भ्रमरकाः । ललाटश्रितकुटिलकेशाः भ्रमरकाः स्युः । भ्रमरालकाश्च स्युः । ‘ते ललाटे भ्रमरकाः कुरुलाः भ्रमरालकाःऽ इति वैजयन्ती (पृ। १८१, श्लो। ९९) ॥ काकपक्षः शिखण्डकः । बालकचूलिकानामनी । ‘चिप्पकुम्पट्लुऽ ॥ कबरी केशवेशः । सङ्कुचितबद्धकेशविन्यासः कबरी स्यात् । ‘कोप्पुऽ । अथ धम्मिल्लः—कचाः । संयताः केशा धम्मिल्लः स्यात् । अनुक्तम्—‘तुरुम्बो माल्यादिगर्भःऽ । स्रगादिगर्भकेशविन्यासस्तुरुम्बः स्यात् ॥ ९६ ॥

[[०२.४२४]]

(०२.०६.०९७च्द्) शिखा चूडा केशपाशी व्रतिनस्तु जटा सटा ॥ ९७ ॥

मूलम् - ०२.०६.०९८

(०२.०६.०९८अब्) वेणिप्रवेणी शीर्षण्यशिरस्यौ विशदे कचे ।

लिङ्ग-सूरी - AK.02.06.097-98

शिखेति—शाखते व्याप्नोतीति शिखा । ‘शाखृ व्याप्तौऽ । शेते शिरसि वा । ‘शीङ् स्वप्नेऽ । चुल्यते चाल्यते वायुनेति चूडा । ‘चुड संवरणे समुच्छ्राये चऽ । केशपाशोऽत्रास्तीति केशपाशी । शिखानामानि ॥ जटति सङ्घीभवतीति जटा । ‘जट सङ्घातेऽ । सटतीति सटा । ‘षट अवयवेऽ । व्रतिशिखानामनी ॥ वेति निर्मलत्वेन शोभत इति वेणिः । वेणी वा । प्रवेणिश्च । प्रवेणी वा । ‘वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषुऽ । वेणतीति वा । ‘वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषुऽ । शिरसि भवः शीर्षण्यः । शिरस्यश्च । निर्मलकचनामानि ॥ ९७ ॥

मल्लि-नाथः - AK.02.06.097-98

शिखा—केशपाशी । शिखानामानि ॥ व्रतिनस्तु—सटा । जटानामनी ॥ तुशब्दस्थाने साशब्दं केचिदभिषेचयन्ति ॥ वेणिः प्रवेणिः । सर्पाकारतया सम्बद्धस्त्रीजटानामानि ॥ स्त्रीत्वाभिव्यक्त्यर्थं वेणिप्रवेणीति केचित् पठन्ति ॥ शीर्षण्यशिरस्यौ—कचे । स्नानादिसंस्कारवत्केशनामनी ॥ ९७ ॥

[[०२.४२५]]

(०२.०६.०९८च्द्) पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ ९८ ॥

मूलम् - ०२.०६.०९९

(०२.०६.०९९अब्) तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे ।

लिङ्ग-सूरी - AK.02.06.098-99

पाश इति—पाशः पक्षः हस्तः—एते शब्दाः कचपर्यायात् परे वर्तमाना बाहुल्यार्था भवन्ति । यथा—केशपाशः, केशपक्षः, केशहस्तः, चिकुरपाशः, चिकुरपक्षः, चिकुरहस्तः इत्यादि । पाश्यत इति पाशः । ‘पश बन्धेऽ । पक्ष्यते परिगृह्यते पक्षः । ‘पक्ष परिग्रहेऽ । हस्यते हस्तः । तन्वां रोहतीति तनूरुहम् । तनुरुहं वा । रोहतीति रोम । लोम च । नान्तावेतौ । तनूरुहकेशनामानि ॥ पुम्मुखं श्रयते श्मश्रु । ‘श्रिञ् सेवायाम्ऽ । पुम्मुखे वृद्धिङ्गतरोमनाम ॥ ९८ ॥

मल्लि-नाथः - AK.02.06.098-99

पाशः—कचात्परे । कचपर्यायात्परे पाशपक्षहस्तशब्दाः विकीर्णकैश्यार्थाः । ‘चतुरमवकिरन्त्याः केशपाशं कराग्रैःऽ इति । तनूरुहं—लोम । वपुर्लोमनामानि ॥ तद्वृद्धं—पुम्मुखे । पुरुषस्य मुखे प्रवृद्धं रोम श्मश्रु स्यात् । ‘गड्डं मीसालुऽ । ‘श्मश्रुश्वशुरश्वश्रूशिंशपाऽ इति वर्णनिर्देशनायां द्वितालव्येषु पठितम् ॥ ९८ ॥

[[०२.४२६]]

(०२.०६.०९९च्द्) आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥

मूलम् - ०२.०६.१००

(०२.०६.१००अब्) दशैते त्रिष्वलङ्कर्तालङ्करिष्णुश्च मण्डितः ।
(०२.०६.१००च्द्) प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः ॥ १०० ॥

लिङ्ग-सूरी - AK.02.06.099-100

आकल्प इति—आकल्प्यते शरीरशोभा अनेनेत्याकल्पः । ‘कृपू सामर्थ्येऽ । वेवेष्टि शोभामिति वेषः । ‘विष्लृ व्याप्तौऽ । वेश इति वा पाठः । नेत्रयोः पथ्यं नेपथ्यम् । वस्त्रालङ्कारमाल्यादिकृतशोभातिशयनामानि ॥ प्रत्यङ्गं क्रियते प्रतिकर्म । प्रतिगतम् अङ्गप्राप्तं कर्म वा । प्रसाध्यतेऽङ्गमनेन प्रसाधनम् । ‘साध संसिद्धौऽ । एते तिलकपत्ररचनादेर्नामनी ॥ आकल्पादिप्रसाधनान्तानि नैसर्गिकाङ्गशोभातिरिक्तकृत्रिमाङ्गशोभाया नामानीति केचित् ॥ दशैते त्रिषु । अलङ्कर्ता अलङ्करिष्णुरित्यादयः रोचिष्ण्वन्ता दशपर्यायाः त्रिषु लिङ्गेषु वर्तन्ते । अलङ्करोतीति अलङ्कर्ता । अलङ्कर्तुं शीलमस्यास्तीति अलङ्करिष्णुः । अलङ्कारकर्तुर्नामनी । मण्ड्यते भूष्यते स्म मण्डितः । ‘मडि भूषायाम्ऽ । प्रसाध्यते स्म प्रसाधितः । ‘साध संसिद्धौऽ । अलङ्क्रियते स्म अलङ्कृतः । भूष्यते स्म भूषितः । परिष्क्रियतेऽलङ्क्रियते स्म परिष्कृतः । अलङ्कारकृतशोभावतो नामानि ॥ ९९-१०० ॥

मल्लि-नाथः - AK.02.06.099-100

आकल्पवेषो—प्रसाधनम् । अलङ्करणनामानि ॥ मज्जनानुलेपनमाल्यवस्त्राभरणैस्तत् पञ्चविधम् । ‘द्वेषरहितमपि सद्वेषऽमिति कुमारचरिते वेषः । ‘गृहमात्रे च नेपथ्ये वेशो वेश्यागृहेऽपि चऽ । इति रभसकोशपाठात् वेशः ॥ दशैते त्रिषु । अलङ्कर्तेत्यादिरोचिष्ण्वन्ताः दश पर्यायाः त्रिषु लिङ्गेषु भवन्ति ॥ ९९-१०० ॥

[[०२.४२६]]

मूलम् - ०२.०६.१०१

(०२.०६.१०१अब्) विभ्राड् भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्क्रिया ।
(०२.०६.१०१च्द्) अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥
(०२.०६.१०२अब्) मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम् ।

लिङ्ग-सूरी - AK.02.06.101-2

विभ्राडिति—विशेषेण भ्राजते विभ्राट् । भ्राजितुं शीलमस्यास्तीति भ्राजिष्णुः । ‘भ्राजृ दीप्तौऽ । विशेषेण रोचते रोचिष्णुः । ‘रुच दीप्तौऽ । भूषितत्वेन शोभमानस्य नामानि ॥ भूषा भूषणम् । अलङ्करणम् अलङ्क्रिया । अलङ्करणव्यापारनामनी ॥ अलङ्क्रियतेऽनेन अलङ्कारः । आ समन्तात् भ्रियते आभरणम् । ‘भृञ् भरणेऽ । परिष्क्रियतेऽनेन परिष्कारः । विशेषेण भूष्यतेऽनेन विभूषणम् । ‘भूष अलङ्कारेऽ । मण्ड्यतेऽनेनेति मण्डनम् । ‘मडि भूषायाम्ऽ । मकुटादिभूषणमात्रस्य नामानि ॥ मुखे ललाटोपरि कुट्यते बध्यते मुकुटम् । ‘कुट कौटिल्येऽ । मकुटमिति वा पाठः । कीर्यते ललाटोपरि क्षिप्यते किरीटम् । ‘कॄ विक्षेपेऽ । किरीटनामनी ॥ १०१ ॥

मल्लि-नाथः - AK.02.06.101-2

विभ्राट्—रोचिष्णुः । अलङ्कृतत्वेन शोभमानस्य नामानि ॥ भूषणं—अलङ्क्रिया । भूषणव्यापारनामनी ॥ अलङ्कारः—मण्डनं च । हाराद्यलङ्कारनामानि ॥ अथ मकुटं पुन्नपुंसकम् । मुकुटं किरीटं पुन्नपुंसकमिति क्वचित् पाठः । मकुटनामानि ॥ पुन्नपुंसकशब्द उभयविशेषणम् । ‘मौलिः कोटीर उष्णीषं किरीटं मकुटोऽस्त्रियाम्ऽ इति वैजयन्ती (पृ। १६९, श्लो। १३५) ॥ १०१ ॥

[[०२.४२७]]

(०२.०६.१०२च्द्) चूडामणिः शिरोरत्नं तरलो हारमध्यगः ॥ १०२ ॥

मूलम् - ०२.०६.१०३

(०२.०६.१०३अब्) वालपाश्या पारितथ्या पत्रपाश्या ललाटिका ।

लिङ्ग-सूरी - AK.02.06.102-3

चूडामणिरिति—चूडायां मणिः चूडामणिः । शिरसि रत्नं शिरोरत्नम् । शिरोमणिनामनी ॥ प्रभया तमस्तरति लङ्घयतीति तरलः । ‘तॄ प्लवनतरणयोःऽ ॥ हारमध्यगतरत्ननाम ॥ वालपाशे केशपाशे साध्वी वालपाश्या । केशपाशस्य परितः सर्वतः तथा भवति शोभते पारितथ्या । केशपाशशोभार्थं स्थूलमुक्तामयवलयनामनी ॥ पत्राकारे ललाटे पश्यत इति पत्रपाश्या । ‘पश बन्धनेऽ । ललाटे भवा भूषा ललाटिका । फाललम्बिप्रालम्बमुक्तापीडनामनी ॥ १०२ ॥

मल्लि-नाथः - AK.02.06.102-3

चूडामणिः शिरोरत्नम् । चूडामणिनामनी ॥ तरलो—मध्यगः । हारमध्यमणिः तरलः स्यात् । ‘हारमध्यस्थितं रत्नं तरलं नायकं विदुःऽ इति हलायुधः (अ। मा। २। ४०९) ॥ वालपाश्या—पारितथ्या । केशालङ्कारनामनी ॥ पत्रपाश्या ललाटिका । ललाटालङ्कारनामनी ॥ १०२ ॥

[[०२.४२८]]

(०२.०६.१०३च्द्) कर्णिका तालपत्रं स्यात् कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥

मूलम् - ०२.०६.१०४

(०२.०६.१०४अब्) ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका ।

लिङ्ग-सूरी - AK.02.06.103-4

कर्णिकेति—कर्णस्यालङ्कारः कर्णिका । तालस्य पत्रं तालपत्रम् । कर्णपत्रनामनी ॥ कुण्डवद् वृत्तत्वात् कुण्डलम् । कुण्डव्युत्पत्तिर्यथा—कुण्ड्यते नैरन्तर्येण दह्यते कुण्डम् । ‘कुडि दाहेऽ । कर्णभूषणनाम ॥ कर्णौ वेष्टते कर्णवेष्टनम् । ‘वेष्ट वेष्टनेऽ । स्त्रीपुरुषयोः कर्णभूषणनामनी ॥ ग्रीवायां भवोऽलङ्कारो ग्रैवेयकम् । कण्ठस्य भूषा कण्ठभूषा । कण्ठभूषणनामनी ॥ लम्बते लम्बनम् । लम्बमानं वा । ‘लवि अवस्रंसनेऽ । ललति विलसति ललन्तिका । ‘लल विलासेऽ । हैमपट्टादिग्रैवेय काण्डलम्बिमणिविद्रुमादिकृतत्रिसरादिमण्डननामनी ॥ १०३ ॥

मल्लि-नाथः - AK.02.06.103-4

कर्णिका—स्यात् । कर्णपत्रनामनी । ‘चौलाकुऽ ॥ कर्णपूरताटङ्कादयस्तद्विशेषाः । ‘कर्णपूरस्तु पुष्पाद्यैस्ताडङ्गो दन्तकादिभिःऽ इति वैजयन्ती (पृ। १६९, श्लो। १३४) ॥ कुण्डलं कर्णवेष्टनम् । कुण्डलनाम ॥ ग्रैवेयकं कण्ठभूषा । कण्ठाभरणं सर्वं ग्रैवेयकं स्यात् । ‘ग्रीवालङ्करणं सर्वं ग्रैवेयकमितीष्यतेऽ इति हलायुधः (अ। मा। २। ४०३) । ‘कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषुऽ (४। २। ९६) इत्यलङ्कारार्थे ढकञ् । ‘ग्रीवाभ्योऽण् चऽ इति ढञ् (४। ३। ५७) अर्थान्तरे । ‘ग्रीवाबन्धनरज्जौ तु ग्रैवं ग्रैवेयमित्यपिऽ इति वैजयन्ती ॥ लम्बनं—ललन्तिका । लम्बननामनी ॥ १०३ ॥

[[०२.४२९]]

(०२.०६.१०४च्द्) स्वर्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता ॥ १०४ ॥

मूलम् - ०२.०६.१०५

(०२.०६.१०५अब्) हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिकः ।

लिङ्ग-सूरी - AK.02.06.104-5

स्वर्णैरिति—स्वर्णैः कृता ललन्तिका प्रालम्बिकेत्युच्यते । प्रकर्षेण आलम्बते प्रालम्बिका । ‘लवि शब्देऽवस्रंसने चऽ । दोराद्याकृत्या स्वर्णकृतग्रीवावलम्बिललन्तिकानाम ॥ सीव्यतेऽनेन मुक्तादिकमिति सूत्रिका । ‘षिवु तन्तुसन्तानेऽ । उरसि सूत्रिका उरःसूत्रिका । पूर्वोक्तस्यैव मुक्तामयस्य नाम ॥ ह्रियते चित्तमनेन हारः । ‘हृञ् हरणेऽ । मुक्तानाम् आवली मुक्तावली । मुक्ताहारनाम ॥ देवानामपि चित्तं चन्दयति आह्लादयतीति देवच्छन्दः । ‘चदि आह्लादनेऽ । शतसरहारनाम ॥ १०४ ॥

मल्लि-नाथः - AK.02.06.104-5

स्वर्णैः प्रालम्बिका । हेमलम्बनं प्रालम्बिका स्यात् । अथोरःसूत्रिका—कृता । मुक्तामणिभिः कृता उरःसूत्रिका स्यात् । हारो मुक्तावली । हारनामनी ॥ ‘हारा मुक्तावली हारःऽ इति स्त्रीलिङ्गपुंल्लिङ्गयो रभसः । देवच्छन्दो—शतयष्टिकः । शतयष्टिहारः देवच्छन्दः स्यात् ॥ १०४ ॥

[[०२.४२९]]

(०२.०६.१०४च्द्) स्वर्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता ॥ १०४ ॥

मूलम् - ०२.०६.१०५

(०२.०६.१०५अब्) हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिकः ।

लिङ्ग-सूरी - AK.02.06.104-5

स्वर्णैरिति—स्वर्णैः कृता ललन्तिका प्रालम्बिकेत्युच्यते । प्रकर्षेण आलम्बते प्रालम्बिका । ‘लवि शब्देऽवस्रंसने चऽ । दोराद्याकृत्या स्वर्णकृतग्रीवावलम्बिललन्तिकानाम ॥ सीव्यतेऽनेन मुक्तादिकमिति सूत्रिका । ‘षिवु तन्तुसन्तानेऽ । उरसि सूत्रिका उरःसूत्रिका । पूर्वोक्तस्यैव मुक्तामयस्य नाम ॥ ह्रियते चित्तमनेन हारः । ‘हृञ् हरणेऽ । मुक्तानाम् आवली मुक्तावली । मुक्ताहारनाम ॥ देवानामपि चित्तं चन्दयति आह्लादयतीति देवच्छन्दः । ‘चदि आह्लादनेऽ । शतसरहारनाम ॥ १०४ ॥

मल्लि-नाथः - AK.02.06.104-5

स्वर्णैः प्रालम्बिका । हेमलम्बनं प्रालम्बिका स्यात् । अथोरःसूत्रिका—कृता । मुक्तामणिभिः कृता उरःसूत्रिका स्यात् । हारो मुक्तावली । हारनामनी ॥ ‘हारा मुक्तावली हारःऽ इति स्त्रीलिङ्गपुंल्लिङ्गयो रभसः । देवच्छन्दो—शतयष्टिकः । शतयष्टिहारः देवच्छन्दः स्यात् ॥ १०४ ॥

[[०२.४२९]]

(०२.०६.१०५च्द्) हारभेदा यष्टिभेदाद् गुच्छगुच्छार्धगोस्तनाः ॥ १०५ ॥

मूलम् - ०२.०६.१०६

(०२.०६.१०६अब्) अर्धहारो माणवक एकावल्येकयष्टिका ।
(०२.०६.१०६च्द्) सैव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः ॥ १०६ ॥

लिङ्ग-सूरी - AK.02.06.105-6

हारभेदा इति—यष्टिसङ्ख्याभेदात् गुच्छादयो हारभेदा भवन्ति । दैर्घ्यात् गुह्यस्थानं छादयतीति गुच्छः । गूहति सारैः संवृणोतीति वा । द्वात्रिंशत्सरहारनाम ॥ गुच्छस्य अर्धः गुच्छार्धः । षोडशसरहारनाम ॥ गोस्तन इव नाभेरधोवर्तमानत्वाद् गोस्तनः । चत्वारिंशत्सरहारनाम ॥ देवच्छन्दस्यार्धत्वाद् अर्धहारः । सरैरितरेभ्योऽल्पत्वात् माणवकः । विंशतिसरहारनाम ॥ नक्षत्रपङ्क्तिरिव सङ्ख्यया राजत इति नक्षत्रमाला । सप्तविंशतिस्थूलमौक्तिककृतहारनाम ॥ १०५-६ ॥

१०१
मल्लि-नाथः - AK.02.06.105-6

हारभेदाः—माणवकः । गुच्छादयः शतादूनयष्टिकहारभेदाः । तथा चोक्तम्—

‘देवच्छन्दः शतं साष्टमिन्द्रच्छन्दः सहस्रकम् ।

तस्यार्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ॥

अर्धं रश्मिकलापोऽस्य द्वादशस्त्वर्धमाणवः ।

द्विर्द्वादशोऽर्धे गुच्छोऽथ पञ्च हारः फलं लता ॥

अर्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दराः ।

अपि गोस्तनगोपुच्छावर्धमर्धं यथोत्तरम् ॥ऽ

इति । एकावल्येकयष्टिका । एकयष्टिर्हार एकावली स्यात् । सैव नक्षत्रमाला—मौक्तिका । सप्तविंशतिसङ्ख्याकैर्मौक्तिकैः कृता एकावली नक्षत्रमाला स्यात् । अनुक्तम्—‘मणिभिर्मणिसोपानश्चाटुकारश्च कानकैःऽ । हैमैर्मणिभिः कृता एकावली मणिसोपानश्चाटुकारश्च स्यात् ॥ १०५-६ ॥

[[०२.४३०]]

मूलम् - ०२.०६.१०७

(०२.०६.१०७अब्) आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ।
(०२.०६.१०७च्द्) केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका ॥ १०७ ॥
(०२.०६.१०८अब्) साक्षराङ्गुलिमुद्रा सा कङ्कणं करभूषणम् ।

लिङ्ग-सूरी - AK.02.06.107-8

आवापक इति—आ उप्यते क्षिप्यते मणिबन्धोपरीति आवापकः । ‘डुवप् बीजतन्तुसन्तानेऽ । परितो हरन्त्यनेनेति परिहारो हस्तः, तत्र वर्तत इति पारिहार्यः । कटत्यावृणोति हस्तमिति कटकम् । ‘कट वर्षावरणयोःऽ । वलते हस्तमिति वलयः । ‘वल संवरणे सञ्चरणे चऽ । मणिबन्धोपरिविहितालङ्करणनामानि । के भुजशिरःसमीपे यौति तिष्ठतीति केयूरम् । ‘यु मिश्रणेऽ । अङ्गं भुजप्रदेशं घाताद् दयतेऽङ्गदम् । ‘देङ् रक्षणेऽ । बाहुमूलादधोधार्यालङ्कारनामनी ॥ अङ्गुलीषु भवम् अङ्गुलीयकम् । अङ्गुलेरुपरि ऊर्मिवद् वर्तते ऊर्मिका । अङ्गुलीभूषणस्य नामनी ॥ मुद्रा विश्वासस्थानं, तद्योग्यान्यक्षराणि सन्त्यत्रेति अङ्गुलिमुद्रा । अक्षरचिह्नितोर्मिकानाम ॥ कङ्कते मणिबन्धोपरि सरतीति कङ्कणम् । ‘ककि गतौऽ । करभूषणनाम ॥ १०७ ॥

मल्लि-नाथः - AK.02.06.107-8

आवापकं पारिहार्यं कटकं वलयोऽस्त्रियाम् । कटकनामानि । ‘कडियमुऽ केयूरमङ्गदं तुल्ये । वामाङ्गदनामनी । ‘बाहुपुलिऽ । अङ्गुलीयकमूर्मिका । अङ्गुल्याभरणनामनी । साक्षराङ्गुलिमुद्रा सा । अक्षराङ्कितमङ्गुल्याभरणमङ्गुलिमुद्रा स्यात् । कङ्कणं करभूषणम् । मुक्ताप्रवालादिभिः प्रोतं प्रकोष्ठाभरणं कङ्कणं स्यात् । ‘चेकट्टम्ऽ । ‘कङ्कणं हस्तसूत्रं च विदुः प्रतिसरं बुधाःऽ इति हलायुधः (अ। मा। २। ४०३) ॥ १०७ ॥

[[०२.४३२]]

(०२.०६.१०८च्द्) स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा ॥ १०८ ॥

मूलम् - ०२.०६.१०९

(०२.०६.१०९अब्) क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु ।

लिङ्ग-सूरी - AK.02.06.108-9

स्त्रीकट्यामिति—मीयते प्रक्षिप्यते कट्यामिति मेखला । ‘डुमिञ् प्रक्षेपणेऽ । कच्यते कट्यां बध्यते काञ्ची । ‘कचि दीप्तिबन्धनयोःऽ । कट्यां सपति समवैति सप्तकी । षप समवायेऽ । रशन्ति कामयन्ते एनामिति रशना । ‘रश कान्तौऽ । सारं सनोतीति सारसनम् । ‘पणु दानेऽ । सारशनमिति वा पाठः । स्त्रीकटिभूषणनामानि ॥ शृङ्गैः श्रेष्ठमणिभिः खलतीति शृङ्खलम् । ‘खल सञ्चयेऽ । पुरुषकटिभूषणनाम ॥ १०८ ॥

मल्लि-नाथः - AK.02.06.108-9

स्त्रीकट्यां—सारसनं च । सारशनं चेति पाठः । मेखलानामानि । पुंस्कट्यां शृङ्खलं त्रिषु । पुंस्कटीभूषणनाम । सा स्त्रीकट्यां काञ्च्यादिशब्दवाच्या, पुंस्कट्यां शृङ्खलशब्दवाच्या ॥ १०८ ॥

[[०२.४३२]]

(०२.०६.१०९च्द्) पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् ॥ १०९ ॥

मूलम् - ०२.०६.११०

(०२.०६.११०अब्) हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका ।

लिङ्ग-सूरी - AK.02.06.109-10

पादाङ्गदमिति—पादेऽङ्गदमिव पादाङ्गदम् । तुलति आकुटति चेति तुलाकोटिः । ‘तुल उन्मानेऽ इति प्रथमो धातुः । ‘कुट बन्धनेऽ, ‘कुट कौटिल्येऽ इति वा द्वितीयो धातुः । मञ्जु मनोहरम् ईरयति ध्वनतीति मञ्जीरः । ‘ईर क्षेपेऽ । नूयत इति नूपुरम् । ‘णु स्तुतौऽ । हंसवत् कायतीति हंसकः । ‘कै शब्देऽ । पादस्य कटकः पादकटकः । पादाङ्गदनामानि ॥ किञ्चित् क्वणतीति किङ्किणी । ‘क्वण शब्देऽ । क्षुद्रा अल्पा घण्टा अस्या इति श्रुद्रघण्टिका । बालकपादभूषणनामनी ॥ १०९ ॥

मल्लि-नाथः - AK.02.06.109-10

पादाङ्गदं—नूपुरोऽस्त्रियाम् । चरणाभरणनामानि । ‘कालि अण्डेऽ ॥ मञ्जीरशब्दसाहचर्यात् तुलाकोटिशब्दः पुंलिङ्गः । ‘शिञ्जिनी ना तुलाकोटिःऽ इति वैजयन्ती (पृ। १७०, श्लो। १४५) ॥ हंसकः पादकटकः । पादवलयनामनी । ‘कालिकडियमुऽ ॥ किङ्किणी क्षुद्रघण्टिका । स्वल्पघण्टिकानाम । ‘गज्जेलुऽ ॥ किङ्कणं क्षुद्रघण्टिका इति क्वचित् पाठः ॥ १०९ ॥

[[०२.४३२]]

(०२.०६.११०च्द्) त्वक्फलक्रिमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ११० ॥

मूलम् - ०२.०६.१११

(०२.०६.१११अब्) वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् ।

लिङ्ग-सूरी - AK.02.06.110-11

त्वगिति त्वक् फलं कृमिः रोम च त्वक्फलकृमिरोमाणि । एतानि वस्त्रयोनयः । वस्त्रोत्पादनस्थाननामानि ॥ दश त्रिषु । वस्त्रयोनिवाल्ककार्पासफालबादरकौशेयराङ्कवानाहतनिष्प्रवाणितन्त्रकमित्येते शब्दाः त्रिषु लिङ्गेषु वर्तन्त इत्यर्थः । वल्ककृततन्तुनिर्मितं वाल्कम् । क्षुमायाः अतस्या विकारः क्षौमम् । फलस्य विकारः फालम् । कार्पासीफलतन्तुनिर्मितं कार्पासम् । बदराफलनिर्मितं बादरम् । फलनिर्मितवस्त्रनामनी ॥ ११० ॥

मल्लि-नाथः - AK.02.06.110-11

त्वक्फल—वस्त्रयोनिः । त्वगिति वल्कम् । फलं कार्पासम् । क्रिमिरिति कीटः । रोमेति मेषादेर्लोम । एतानि चत्वार्यपि वस्त्रयोनयः ॥ दश त्रिषु । इतःपरं वक्ष्यमाणकार्पासबादरकौशेयराङ्कवानाहतनिष्प्रवाणितन्त्रकोद्नमनीयपत्रोर्णमहाधनानीत्येतानि दश शब्दाः त्रिलिङ्गाः । ‘धौतयुग्मं तूद्गमनीयकम्ऽ इति वैजयन्ती (पृ। १६८, श्लो। १२०) । वाच्यलिङ्गमध्यपाठेनोद्गमनीयं प्रधौतवस्त्रयुगमिति गोपालितक्लीबकाण्डमध्यपाठः प्रक्षिप्तः । वाल्कं क्षौमादि । वक्ष्यमाणवस्त्रजातौ वल्काज्जायमानं वासः क्षौमनेत्रादि । फालं तु—बादरं च तत् । फलाज्जायमानं कार्पासम् । तद् बादरं च स्यात् ॥ ११० ॥

[[०२.४३३]]

(०२.०६.१११च्द्) कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् ॥ १११ ॥

मूलम् - ०२.०६.११२

(०२.०६.११२अब्) अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरें ।

लिङ्ग-सूरी - AK.02.06.111-12

कौशेयमिति—कृमिकोशस्येदं कौशेयम् । कृमिकोशगतमृदुतन्तुनिर्मितवस्त्रनाम ॥ रङ्क्वाख्यमृगरोमविकारः राङ्कवम् । मृगरोमभिर्जातं मृगरोमजम् । मृगरोमकृतवस्त्रनाम ॥ आहताः क्षालनभोगच्छेदाः । तद्रहितत्वाद् अनाहतम् । न हन्यत इत्यनाहतम् । निर्गता प्रवाणी तन्तुवायशलाकास्मात् निष्प्रवाणि । तन्त्रात् तन्तुवायशलाकादेरचिरादपहृतं तन्त्रकम् । नवं च तदम्बरं च नवाम्बरम् । नूतनवस्त्रनामानि ॥ १११ ॥

मल्लि-नाथः - AK.02.06.111-12

कौशेयं कृमिकोशोत्थम् । कीटकुलायजातं कौशेयं स्यात् । ‘दसलिऽ । राङ्कवं मृगरोमजम् । मेषादिलोम्नः उत्पद्यमानं राङ्कवं स्यात् । ‘मृगमेषाद्याः पशवः, रूढ्या तल्लोमजमपि कम्बलादिकं राङ्कवम्ऽ इति गोवर्धनः । अनाहतं—नवाम्बरे । नूतनवस्त्रनामानि । ‘अहतं तु नवाम्बरम्ऽ इति हलायुधः (अ। मा। २। ३९५) । ‘अहतं निष्प्रवाणिः स्यात्ऽ इति वैजयन्ती (पृ। १६८, श्लो। १२०) ॥ १११ ॥

[[०२.४३४]]

(०२.०६.११२च्द्) तत् स्यादुद्गमनीयं यद् धौतयोर्वस्त्रयोर्युगम् ॥ ११२ ॥

मूलम् - ०२.०६.११३

(०२.०६.११३अब्) पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम् ।

लिङ्ग-सूरी - AK.02.06.112-13

तत्स्यादिति—उद्गम्यते परिधानार्थमिति उद्गमनीयम् । धौतवस्त्रयुगलनाम ॥ वटादिपत्रेषु क्रिमिलालोर्णाभवं पत्रोर्णम् । क्षालितकौशेयनाम ॥ बहु मूल्यमस्यास्तीति बहुमूल्यम् । महद् धनं मूल्यमस्य महाधनम् । बहुमूल्यवस्तुनो नामनी ॥ ११२ ॥

मल्लि-नाथः - AK.02.06.112-13

तत्स्यादुद्गमनीयं—युगम् । मङ्गलवस्त्रमुद्गमनीयं स्यात् । अत्र युगग्रहणं प्रायिकाभिप्रायमिति क्षीरस्वामी (पृ। १५७, श्लो। ११२) । धौतशब्देनात्र मङ्गलत्वं लक्ष्यते । ‘गृहीतपत्युद्गमनीयवस्त्राऽ इति कुमारसम्भवे (७। ११) ॥ पत्रोर्णं धौतकौशेयम् । प्रक्षालितक्रिमिकोशजं पत्रोर्णं स्यात् ॥ बहुमूल्यं महाधनम् । अधिकमूल्यार्हं वस्त्रं महाधनं स्यात् ॥ ११२ ॥

[[०२.४३४]]

(०२.०६.११३च्द्) क्षौमं दुकूलं स्याद् द्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥

मूलम् - ०२.०६.११४

(०२.०६.११४अब्) स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्त्रयोर्द्वयोः ।
(०२.०६.११४च्द्) दैर्घ्यमायाम आनाहः परिणाहो विशालता ॥ ११४ ॥
(०२.०६.११५अब्) पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ ।

लिङ्ग-सूरी - AK.02.06.113-15

क्षौममिति—क्षुमया अतसीविशेषेण निर्मितं क्षौमम् । दुकूलं रूढम् । प्रावारोत्तरासङ्गरूपेण द्विधा कूल्यत इति दुकूलम् । ‘कूल आवरणेऽ । दुकूलनामनी ॥ निवीयते स्म निवीतम् । ‘वेञ् संवरणेऽ । प्राव्रियते स्म प्रावृतम् । ‘वृञ् आवरणेऽ । प्रच्छादितपटनामनी ॥ दश्यन्ते कण्टकादिभिः त्रुट्यन्ते दशाः । ‘दंश दशनेऽ । वस्यन्ते शिष्टैरिति वस्तयः । ‘वस आच्छादनेऽ । वस्त्रप्रान्तनामनी ॥ आयम्यते आयामः । ‘यम उपरमेऽ । आनह्यते आनाहः । ‘णह बन्धनेऽ । पटादिदैर्घ्यनामनी ॥ परिणह्यते परिणाहः । विशालस्य भावः विशालता । विस्तारस्य नामनी ॥ पूर्वं पटभूतं पटच्चरम् । पटदिति चरति स्फुटतीति वा । जीर्णवस्त्रनाम ॥ नजते लज्जते नक्तकः । ‘णज व्रीडेऽ । लज्जायै कल्पते कर्पटः । ‘कृपू सामर्थ्येऽ । शिथिलतन्तुसंयोगवस्त्रनामनी ॥ ११३-१४ ॥

मल्लि-नाथः - AK.02.06.113-15

क्षौमं दुकूलं स्यात् । दुकूलनामनी । ‘पटावलिऽ । द्वे तु—त्रिषु । आवृतवस्त्रनामनी । ‘कप्पडमुऽ ॥ स्त्रियां बहुत्वे—वस्त्रयोर्द्वयोः । उपवीतोचितवस्त्रखण्डनामनी । ‘बद्धेऽ ॥ स्त्रियामिति रूढ्यपेक्षया स्त्रीलिङ्गनिर्देशः । वस्तय इति सामानाधिकरण्याद् बहुवचनम् । ‘वस्तिस्त्वक्ली भूम्नि दशा न षण्ऽ इति वैजयन्ती (पृ। १६९, श्लो। १३१) । अनुक्तम्—‘समौ त्वञ्चलपल्लवौऽ । चेलान्तनामनी । ‘चरङ्गुऽ ॥ दैर्घ्यम्—आनाहः । दीर्घतानामानि । ‘निडुपुऽ ॥ परिणाहो विशालता । वैपुल्यनामनी । ‘वेडलुपुऽ ॥ पटच्चरं जीर्णवस्त्रम् । जरद्वस्त्रनामनी ॥ समौ नक्तककर्पटौ । मलिनवस्त्रनामनी ॥ ११३-१४ ॥

[[०२.४३५]]

(०२.०६.११५च्द्) वस्त्रमाच्छादनं वासश्चेलं वसनमंशुकम् ॥ ११५ ॥

मूलम् - ०२.०६.११६

(०२.०६.११६अब्) सुचेलकः पटोऽस्त्रीं ना वराशिः स्थूलशाटकः ।

लिङ्ग-सूरी - AK.02.06.115-16

वस्त्रमिति—वस्यतेऽनेनाङ्गमिति वस्त्रम् । ‘वस आच्छादनेऽ । वासश्च । सान्तोऽयम् । वसनं च । आच्छाद्यते देहोऽनेनेति आच्छादनम् । ‘छद अपवारणेऽ । चिल्यतेऽनेनेति चेलम् । ‘चिल वसनेऽ । अंशुभिः छाद्यमानैस्तन्तुभिः कायतीति अंशुकम् । ‘कै शब्देऽ । वस्त्रनामानि ॥ शोभनश्चासौ चेलकश्च सुचेलकः । पटयति देहं वेष्टयति पटः । ‘पट ग्रन्थेऽ । सुवस्त्रनाम ॥ भृशमङ्गं वृणोतीति वराशिः । वरं श्रेष्ठं वरणं वा अश्नुत इति वा । स्थूलशाटीनाम ॥ ११५ ॥

मल्लि-नाथः - AK.02.06.115-16

वस्त्रम्—वासश्चेलम् । गौरादित्वात् (४। १। ४१) चेलीति सुभूतिटीका । वसनमंशुकम् । वस्त्रनामानि ॥ सुचेलकः—अस्त्री स्यात् । सूक्ष्मवस्त्रनाम ॥ ‘अंशुकं सूक्ष्मवस्त्रे स्याद् वस्त्रमात्रोत्तरीययोःऽ इति विश्वप्रकाशिकापाठाद् (पृ। १२, श्लो। १२३) अंशुकशब्दः सुचेलेऽपि स्यात् । ‘सिक् स्त्री पटोऽस्त्री सिचयो वासो वसनमंशुकम्ऽ इति वैजयन्तीपाठात् (पृ। १६८, श्लो। ११६) पटशब्दो वस्त्रसामान्येऽपि स्यात् ॥ वराशिः स्थूलशाटकः । स्थूलवस्त्रनाम । ‘दोड्डकोकऽ ॥ ‘शार्दूलशम्बर वराशिशलाटुशाटीऽ इत्याद्यूष्मभेदपाठात् तालव्यः ॥ ११५ ॥

[[०२.४३६]]

(०२.०६.११६च्द्) निचोलः प्रच्छदपटः समौ रल्लककम्बलौ ॥ ११६ ॥

मूलम् - ०२.०६.११७

(०२.०६.११७अब्) अन्तरीयोपसंव्यानपरिधानान्यधोऽंशुके ।

लिङ्ग-सूरी - AK.02.06.116-17

निचोल इति—निचोल्यते आच्छाद्यते निचोलः । ‘चुल आवरणेऽ । प्रच्छाद्यतेऽनेनेति प्रच्छदः । स चासौ पटश्च प्रच्छदपटः । शय्यादौ प्रच्छदपटनाम ॥ रमन्तेऽस्मिन्निति रल्लकः । ‘रमु क्रीडायाम्ऽ । काम्यते शीतालुभिरिति कम्बलः । ‘कमु कान्तौऽ । कम्बलनामनी ॥ जानुनाभ्योरन्तरे भवम् अन्तरीयम् । उपसंवीयतेऽनेनेति उपसंव्यानम् । ‘व्योञ् संवरणेऽ । परिधीयतेऽनेनेति परिधानम् । अधोऽंशुकनामानि ॥ ११६ ॥

अमरपदपरिजत><AK.02.06.116-17>

निचोलः प्रच्छदपटः । वस्त्वन्तराच्छादकवस्त्रनामनी । ‘गलिशेनऽ । ‘येन वस्त्वन्तराच्छाद्यते । स्यूतेन वास्यूतेन वाऽ इति सुभूतिटीका । समौ—कम्बलौ । रोमशाटिनामनी ॥ अनुक्तम्—‘झाटिः स्त्री कम्बलो महान्ऽ । दीर्घायतकम्बलनाम । ‘झाटिकम्बऴीऽ ॥ अन्तरीयो—अधोऽंशुके । अधःप्रावृतवस्त्रनामानि ॥ ११६ ॥

[[०२.४३७]]

(०२.०६.११७च्द्) द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥११७ ॥

मूलम् - ०२.०६.११८

(०२.०६.११८अब्) संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम् ।

लिङ्ग-सूरी - AK.02.06.117-18

द्वाविति—प्रव्रियतेऽनेनेति प्रावारः । ‘वृञ् वरणेऽ । उत्तरे ऊर्ध्वाङ्गे आसज्यत इति उत्तरासङ्गः । ‘षञ्ज सङ्गेऽ । बर्हति बृहतिका । ‘बृहवृद्धौऽ । संवीयतेऽनेनेति संव्यानम् । ‘व्येञ् संवरणेऽ । उत्तरे ऊर्ध्वाङ्गे भवम् उत्तरीयम् । उत्तरीयवस्त्रनामानि ॥ चोलयति आच्छादयतीति चोलः । ‘चुल आवरणेऽ । कूर्परे कफोणौ अस्यत इति कूर्पासकः । ‘असु क्षेपणेऽ । कूर्पासकनामनी ॥ ११७ ॥

मल्लि-नाथः - AK.02.06.117-18

द्वौ प्रावारो—उत्तरीयं च । उपरिप्रावरणनामानि ॥ अनुक्तम्—‘जोटिशाटी द्विखण्डकःऽ । द्विखण्डकवस्त्रनाम । ‘दुप्पटिऽ । ‘पटी स्यूतं पटयुगम्ऽ । स्यूतं पटयुगं पटी स्यात् । ‘पच्चडमुऽ ॥ चोलः—अस्त्रियाम् । कञ्चुकनामनी । ‘अरचट्टऽ ॥ ११७ ॥

[[०२.४३७]]

(०२.०६.११८च्द्) नीशारः स्यात् प्रावरणे हिमानिलनिवारणे ॥ ११८ ॥

मूलम् - ०२.०६.११९

(०२.०६.११९अब्) अर्धोरुकं वरस्त्रीणां स्याच्चण्डातकमंशुकम् ।

लिङ्ग-सूरी - AK.02.06.118-19

नीशार इति—हिमानिलनिवारणे शीतवायुनिवारके प्रावरणे नीशारशब्दो वर्तते । निशीर्यते निवार्यते शीताद्यनेन नीशारः । ‘शॄ हिंसायाम्ऽ । शीतानिलवारणवस्त्रनाम ॥ वरस्त्रीणामर्धोरुकम् ऊर्वोरर्धाच्छादकमंशुकं चण्डातकमित्युच्यते । चण्डं गुह्यस्थानम् अतति संवृणोतीति चण्डातकम् । ‘अत सातत्यगमनेऽ । वेश्यानामर्धोरुच्छादकांशुकनाम ॥ ११८ ॥

मल्लि-नाथः - AK.02.06.118-19

निशारः—निवारणे । शीतवातनिवारकमाच्छादनं निशारः स्यात् । ‘गौरिवाकृतनीशारः प्रायेण शिशिरीकृतःऽ इति प्रयोगात् नीशारो दीर्घादिश्च ॥ अर्धोरुकं—अंशुकम् । उत्तमस्त्रीणामर्धोरुकं वस्त्रं चण्डातकं स्यात् । ‘चल्लडमुऽ ॥

‘आधूयमानजघनस्थलपीड्यमान-

मर्धोरुकं त्रुटति पुत्र तवेक्षणेऽ

इति प्रयोगादर्धोरुकशब्दस्यापि तत्पर्यायत्वम् ११८ ॥

[[०२.४३८]]

(०२.०६.११९च्द्) स्यात् त्रिष्वाप्रपदीनं तत् प्राप्नोत्याप्रपदं हि यत् ॥ ११९ ॥

मूलम् - ०२.०६.१२०

(०२.०६.१२०अब्) अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि ।

लिङ्ग-सूरी - AK.02.06.119-20

स्यादिति—आप्रपदं पादाग्रपर्यन्तं प्राप्नोतीति आप्रपदीनम् । वरस्त्रीणां पादाग्रलम्बिवस्त्रनाम ॥ ऊर्ध्वदेशे वितन्यते वितानम् । ‘तनु विस्तारेऽ । उपरि लोच्यते उल्लोचः । ‘लोचृ दर्शनेऽ । गृहान्तरे उपरिबद्धचित्रांशुकनाम ॥ दूष्यते स्वतो बहिर्देशोऽनेनेति दूष्यम् । ‘दुष वैकृत्येऽ । आद्यशब्देन पटवासादयो गृह्यन्ते । वस्त्रवेश्मनाम ॥ ११९ ॥

मल्लि-नाथः - AK.02.06.119-20

स्यात् त्रिषु—आप्रपदं हि यत् । पादाग्रमभिव्याप्य वर्तमानं वस्त्रमाप्रपदीनं स्यात् । अविशेषाभिधानादितरविषयमपि स्यात् ।

‘मुक्तामयं सारसनावलम्बि

भाति स्म दामाप्रपदीनमस्य ।ऽ

इति माघः (शिशु। ३। १०) । अनुक्तम्—‘रेचको हस्तिकर्णः स्यात्ऽ । गजकर्णाकारपादकञ्चुकनामनी । ‘ताऴिगोणमुऽ । ‘कौपीनं मलमल्लकःऽ । कौपीननामनी ॥

‘शिलं किमनलं भवेदनलमौदरं बाधितुं

पयः प्रसृतिपूरकं किमु न धारकं सारसम् ।

अयत्नमलमल्लकः पथि पटच्चरं कच्चरं

भजन्ति हि मुधा बुधा अहह कुक्षितः कुक्षितःऽ ॥ (वै। प। श्लो। १)

अस्त्री—उल्लोचः । विताननामनी । ‘मेलुकट्टुऽ । ‘चन्द्रोदयश्चन्द्रातपश्चन्द्रा च कदरश्च सः ।ऽ एतानि च । दूष्याद्यं वस्त्रवेश्मनि । दूष्यस्थूलादीनि वस्त्रगृहनामानि । ‘दूष्यं स्थुलं पटकुटी गुणलयनी केणिका तुल्याःऽ इति वैजयन्त्याम् (पृ। १६९, श्लो। १२५) अभेदेनोक्तम् ॥ ११९ ॥

[[०२.४३९]]

(०२.०६.१२०च्द्) प्रतिसीरा जवनिका स्यात् तिरस्करिणी च सा ॥ १२० ॥

मूलम् - ०२.०६.१२१

(०२.०६.१२१अब्) परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा ।

लिङ्ग-सूरी - AK.02.06.120-21

प्रतिसीरेति—प्रतिसीयते प्रतिबध्यते प्रतिसीरा । ‘पिञ् बन्धनेऽ जवते प्रतिसरति जवनिका । ‘जुङ्गतौऽ । तिरस्क्रियतेऽनया तिरस्करिणी । इतरान् तिरस्करोतीति वा । जवनिकानामानि ॥ मलमार्जनक्रिया परिकर्म । मालिन्यपरिमार्जनार्थं कर्म परिकर्म । अङ्गानि संस्क्रियन्तेऽनेनेति अङ्गसंस्कारः । मलापकर्षणव्यापारनामनी ॥ मृज्यते मलमनया मार्ष्टिः । मृजा च । मार्जना च । ‘मृजप् शुद्धौऽ । शोभालङ्कारयोः स्नानादिकृतनिर्मलत्वनामानि ॥ १२० ॥

मल्लि-नाथः - AK.02.06.120-21

प्रतिसीरा—तिरस्करिणी च सा । यवनिकानामानि । ‘तेरचीरऽ । ‘अपटी स्यात् काण्डपटःऽ । एते द्वे च । अनुक्तम्—‘पर्यस्तिः स्यात् परिकरः पर्यङ्कश्चावसक्थिकाऽ । परिकरनामानि । ‘नडिकेट्टुऽ ॥ ‘अञ्चलं त्वंशुकान्ते स्यात्ऽ । वस्त्रान्तनाम ॥ ‘नीवी सारसनश्च यःऽ । नीवीनामनी । परिकर्माङ्गसंस्कारः । अङ्गस्य स्नानोद्वर्तनादिसंस्कारः परिकर्म स्यात् ॥ स्यान्मार्ष्टिः—मृजा । तैलाद्युपलेपननामानि । ‘निमुरुटऽ ॥ १२० ॥

[[०२.४३९-४०]]

(०२.०६.१२१च्द्) उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः ॥ १२१ ॥

मूलम् - ०२.०६.१२२

(०२.०६.१२२अब्) स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् ।
(०२.०६.१२२च्द्) अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२ ॥

लिङ्ग-सूरी - AK.02.06.121-22

उद्वर्तनमिति—उद्वर्त्यतेऽनेनाङ्गमिति उद्वर्तनम् । ‘वृतु वर्तनेऽ । उत्साद्यते शरीरमलमनेन उत्सादनम् । मलापकर्षणद्रव्यनामनी ॥ आप्लवति शरीरमलमनेनेति आप्लावः । आप्लवश्च । ‘प्लुङ् गतौऽ । स्नात्यनेन स्नानम् । ‘ष्णा शौचेऽ । स्नाननामानि ॥ चर्च्यते भृत्याद्यङ्गमिति चर्चा । ‘चर्च अध्ययनेऽ । चर्चिकायां साधु चार्चिक्यम् । चिरं तिष्ठतीति स्थासकः । ‘ष्ठा गतिनिवृत्तौऽ । गजाद्यङ्गकृतपाणिप्रतिबिम्बनामानि ॥ प्रबोध्यते गन्धादिकमनेनेति प्रबोधनम । अनुबुध्यतेऽनेनेति अनुबोधः । ‘बुध अवगमनेऽ । कुङ्कुमादिगन्धाभिव्यञ्जकतैलादिकनामनी ॥ पत्राकारा लेखा पत्रलेखा । पत्राद्याकृतिलेखने अङ्गुल्याकृतिरपि कपोलादौ भवतीति पत्राङ्गुलिः । पत्ररेखानामनी ॥ १२१-२ ॥

मल्लि-नाथः - AK.02.06.121-22

उद्वर्तन—द्वे समे । क्लीबे । अङ्गलिप्ततैलाद्यपाकरणनामनी ॥ आप्लावः—स्नानम् । स्नाननामानि । ‘मज्जनं चाभिषेकश्चऽ । एते द्वे च ॥ चर्चा तु—स्थासकः । हस्तन्यस्तकुङ्कुमादिच्छटानामानि ॥ अनुक्तम्—‘अङ्गरागोऽनुलेपनम्ऽ । उपलेपननामनी । ‘मेयिपून्तऽ ॥ अथ प्रबोधनमनुबोधः । अव्यक्तापूर्वसौरभव्यक्तीकरणनामनी ॥

पत्रलेखा—इमे समे । स्तनकपोलादौ कस्तूरिकादिविरच्यमानभक्तिविशेषनामनी ॥ ‘पत्रवल्ली पत्रभङ्गःऽ । एते द्वे च ॥ १२१-२ ॥

[[०२.४४०]]

मूलम् - ०२.०६.१२३

(०२.०६.१२३अब्) तमालपत्रतिलकचित्रकाणि विशेषकम् ।
(०२.०६.१२३च्द्) द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम् ॥ १२३ ॥
(०२.०६.१२४अब्) काश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने ।
(०२.०६.१२४च्द्) रक्तसङ्कोचपिशुने धीरं लोहितचन्दनम् ॥ १२४ ॥

लिङ्ग-सूरी - AK.02.06.123-24

तमालपत्रमिति—तमालपत्राकृतित्वात् तमालपत्रम् । तिलति स्निह्यतीति तिलकम् । ‘तिल स्नेहनेऽ । चित्रयतीति चित्रकम् । ‘चित्र चित्रीकरणेऽ । विशिनष्टि शोभादिना विशेषकम् । ‘शिष्लृ विशेषणेऽ । तिलकनामानि ॥ अत्र द्वितीयं पदं तिलकं तुरीयं चतुर्थं पदं विशेषकं च न स्त्रियाम् । पुन्नपुंसकयोर्वर्तेते इत्यर्थः ॥ शुष्कदशायां कुम् इति कौति शब्दं करोतीति कुङ्कुमम् । ‘कु शब्देऽ । काश्मीरदेशे जन्मास्यास्तीति काश्मीरजन्म । अग्निवर्णा शिखा केसरा अस्येति अग्निशिखम् । व्रियते सेव्यते जनैरिति वरम् । ‘वृञ् सम्भक्तौऽ । वाह्लीकदेशे भवं वाह्लीकम । पीतयति वस्त्रमिति पीतनम् । रक्तवर्णं सङ्कोचमत्र रक्तसङ्कोचम् । गन्धेन सूचयतीति पिशुनम् । गन्धस्य सूचकत्वाद्वा । दधाति धीयते वा धीरम् । ‘डुधाञ् धारणपोषणयोःऽ । स्थिरमिति पाठे स्थिरगन्धत्वात् स्थिरम् । लोहितवर्णोऽत्रास्तीति लोहितम् । चन्दयतीति चन्दनम् । लोहितमिव चन्दनं लोहितचन्दनम् । कुङ्कुमाख्यगन्धद्रव्यनामानि ॥ १२३-४ ॥

मल्लि-नाथः - AK.02.06.123-24

तमालपत्र—विशेषकम् । तिलकनामानि । द्वितीयं—न स्त्रियाम् । अत्र द्वितीयतुरीयौ तिलकविशेषकशब्दौ पुन्नपुंसकलिङ्गौ ॥ अथ कुङ्कुमं—लोहितचन्दने । कुङ्कुमनामानि । ‘प्रियङ्गु घुसृणं वर्णम्ऽ । एतानि त्रीणि च ॥ १२३-४ ॥

[[०२.४४१]]

मूलम् - ०२.०६.१२५

(०२.०६.१२५अब्) राक्षा लाक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः ।
(०२.०६.१२५च्द्) लवङ्गं देवकुसुमं श्रीसञ्ज्ञमथ जायकम् ॥ १२५ ॥
(०२.०६.१२६अब्) कालीयकं च कालानुसार्यं चाथ समार्थकम् ।
(०२.०६.१२६च्द्) वंशकागुरुराजार्हलोहक्रिमिजजोङ्गकम् ॥ १२६ ॥

लिङ्ग-सूरी - AK.02.06.125-26

राक्षेति—व्रणिनं रक्षतीति राक्षा । ‘रक्ष पालनेऽ । कुङ्कुमवत् लक्ष्यते लाक्षा । जायते वृक्षेष्वेव जतु । ‘जनी प्रादुर्भावेऽ । क्लीबे वर्तते । यौति वस्त्रादिनेति यावः । ‘यु मिश्रणेऽ । अलति पादम् अलक्तः । ‘अल भूषणादौऽ । द्रुमस्य आमयो द्रुमामयः । लाक्षानामानि ॥ लूयते छिद्यते लवङ्गम् । ‘लूञ् छेदनेऽ । देवकुसुमद्युतियोगाद् देवकुसुमम् । श्रियो सञ्ज्ञास्य श्रीसञ्ज्ञम् । लवङ्गनामानि ॥ जयति गन्धान्तरमिति जायकम् । कालवर्णोऽस्यास्तीति कालेयकम् । कालीयकमिति वा पाठः । कालवर्णमनुसरतीति कालानुसार्यम् । कृष्णवर्णगन्धद्रव्यविशेषनामानि ॥ वंशवत् लघुत्वात् वंशकम् । न गुरु अगुरु । राज्ञामर्हं राजार्हम् । लोहवर्णोऽत्रास्तीति लोहम् । क्रिमिभिर्जन्यते कृमिजम् । ‘जनी प्रादुर्भावेऽ । जोङ्गपर्वते भवं जोङ्गकम् । अगुरुनामानि ॥ १२५-६ ॥

मल्लि-नाथः - AK.02.06.125-26

लाक्षा राक्षा—द्रुमामयः । जतुनो नामानि । ‘लक्कऽ ॥ लवङ्गं—श्रीसञ्ज्ञम् । लवङ्गनामानि ॥ अथ जायकं—कालानुसार्यं च । कालीयकाख्यगन्धद्रव्यनामानि । कालेयकमिति कालीयकमिति चोभयथा पाठः । ‘कालीयकं च कालेयं वर्णकं कान्तिदायकम्ऽ इति व्याडिः ॥ अथ समार्थकं—क्रिमिजजोङ्गकम् । अगरुनामानि ॥ ‘वनमायः काकतुण्डःऽ । एते द्वे च ॥ १२५-६ ॥

[[०२.४४२]]

मूलम् - ०२.०६.१२७

(०२.०६.१२७अब्) कालागुर्वगुरु स्यात् तन्मङ्गल्यं मल्लिगन्धि यत् ।
(०२.०६.१२७च्द्) यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥
(०२.०६.१२८अब्) बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपके ।

लिङ्ग-सूरी - AK.02.06.127-28

कालागुर्विति—कालवर्णं च तदगुरु च कालागुरु । कालागुर्वेव अगुरु । कालागरुनामनी ॥ यत् कालागुरु मल्लिकागन्धि तन्मङ्गल्यमित्युच्यते । मङ्गले साधु मङ्गल्यम् । मल्लिकापुष्पपरिमलोऽत्र मल्लिगन्धि । श्वेतागरुनामनी ॥ यक्षप्रियो धूपो यक्षधूपः । सर्जवृक्षस्य रसः सर्जरसः । राति प्रीतिं ददातीति रालः । ‘रा दानेऽ । सर्वो रसो गन्धोऽत्र सर्वरसः । बहुविधं रूपं स्वभावोऽस्य बहुरूपः । सर्जरसनामानि ॥ वृणोति विश्वमिति वृकः सूर्यः, तत्प्रियो धूपः वृकधूपः । कृत्रिमश्चासौ धूपश्च कृत्रिमधूपः । दशाङ्गधूपनामनी ॥ १२७ ॥

मल्लि-नाथः - AK.02.06.127-28

कालागर्वगरु स्यात् । कृष्णमगरु अगरु स्यात् । तद् मङ्गल्या मल्लिगन्धि यत् । मल्लिकाकुसुमवासनागरु मङ्गल्या स्यात् ॥ यक्षधूपः—बहुरूपोऽपि । सर्जरसनामानि ॥ अरालेत्यपि पदभङ्गः । ‘अरालः सर्जजे वक्रेऽ इति रभसकोशः ॥ अथ वृकधूप—धूपकौ । दशाङ्गादिधूपनामानि ॥ १२७ ॥

[[०२.४४३]]

(०२.०६.१२८च्द्) तुरुष्कः पिण्डकः सिल्हो यावनोऽप्यथ पायसः ॥ १२८ ॥

मूलम् - ०२.०६.१२९

(०२.०६.१२९अब्) श्रीवासो वृक्षधूपोऽपि श्रीवेष्टसरलद्रवौ ।

लिङ्ग-सूरी - AK.02.06.128-29

तुरुष्क इति—तुरुष्कदेशे भवः तुरुष्कः । पिण्डाकारत्वात् पिण्डकः । सिल्यते उच्छीयते सिल्हः । ‘पिल उञ्छेऽ । यवनदेशे तुरुष्कदेशे भवो यावनः । सल्लकीत्वगादिना सम्पादितस्य धूपस्य नामानि ॥ देवदारुपयसो विकारः पायसः । श्रियो वासः श्रीवासः । वृक्षाज्जातो धूपः वृक्षधूपः । श्रिया वेष्ट्यते श्रीवेष्टः । ‘वेष्ट वेष्टनेऽ । सरलस्य देवदारुणो द्रवः निर्यासः सरलद्रवः । देवदारुनिर्यासकृतधूपनामानि ॥ १२८ ॥

मल्लि-नाथः - AK.02.06.128-29

तुरुष्कः—यावनोऽपि । यवनदेश्यधूपद्रव्यनामानि । ‘चिल्लमड्डिऽ ॥ अथ पायसः—श्रीवेष्टसरलद्रवौ । सरलद्रवाख्यधूपद्रव्यनामानि । भाषायां ‘पालमड्डिऽ ॥ १२८ ॥

[[०२.४४३]]

(०२.०६.१२९च्द्) मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम् ॥ १२९ ॥

मूलम् - ०२.०६.१३०

(०२.०६.१३०अब्) कक्कोलकं कोशफलमथ कर्पूरमस्त्रियाम् ।
(०२.०६.१३०च्द्) घनसारश्चन्द्रसञ्ज्ञः सिताभ्रो हिमवालुका ॥ १३० ॥

लिङ्ग-सूरी - AK.02.06.129-30

मृगनाभिरिति—मृगनाभिभवत्वाद् मृगनाभिः । मृगस्य मदो मृगमदः । कस्तूरी मृगविशेषः, तत्सम्बन्धित्वात् कस्तूरी । कस्तूरिकानामानि ॥ कोलं बदरीफलं, तत्सदृशत्वात् कोलकम् । ककन्तेऽत्रेति कक्कोलकम् । ‘कक लौल्येऽ । तक्कोलकमिति वा पाठः । कोशे शिम्ब्यां फलानि बीजान्यस्य कोशफलम् । तक्कोलनामानि ॥ कल्पते सुखाय कर्पूरम् । ‘कृपू सामर्थ्येऽ । घनसारः वर्षोपलः तस्येव शैत्यमस्यास्तीति घनसारः । चन्द्रस्य सञ्ज्ञा नामान्यस्य सन्तीति चन्द्रसञ्ज्ञः । सिताभ्रवत् शौक्ल्ययोगात् सिताभ्रः । हिमा च सा वालुका च हिमवालुका । कर्पूरनामानि ॥ १२९-३० ॥

मल्लि-नाथः - AK.02.06.129-30

मृगनाभिः—कस्तूरी च । कस्तूरीनामानि ॥ कस्तूरीशब्दः तन्मृगेऽपि स्यात् । ‘शिवेव स्याद् गन्धमृगः मृगपालिकाऽ इति वैजयन्ती (पृ। ६७, श्लो। ३५) । तन्मृगाण्डेऽपि स्यात् । ‘अण्डौ तु तस्याः कस्तूरी राजार्हं शितिचन्दनम्ऽ । इति वैजयन्ती (पृ। ६८, श्लो। ३६) । अथ कोलकं—कोशफलम् । कर्कोलनामानि । कर्कोलस्थाने कक्कोलतक्कोलशब्दौ पठन्ति ॥ अथ कर्पूरं—हिमवालुका । कर्पूरनामानि ॥ ‘स्फटिका रेणुसारश्चऽ । एते द्वे च ॥ १२९-३० ॥

[[०२.४४४]]

मूलम् - ०२.०६.१३१

(०२.०६.१३१अब्) गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् ।
(०२.०६.१३१च्द्) तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ १३१ ॥

लिङ्ग-सूरी - AK.02.06.131

गन्धसार इति—गन्धेन सारो गन्धसारः । मलयशैले जातः मलयजः । ‘जनी प्रादुर्भावेऽ । भद्रा श्रीः शोभात्रास्तीति भद्रश्रीः । चन्दयतीति चन्दनः । ‘चदि आह्लादनेऽ । चन्दननामानि ॥ मलयैकदेशे तैलपर्णाख्यगिरौ भवं तैलपर्णिकम् । गोशीर्षाकारपर्वते भवं गोशीर्षम् । हरिवर्णं चन्दनं हरिचन्दनम् । पीतवर्णचन्दननामानि ॥ १३१ ॥

मल्लि-नाथः - AK.02.06.131

गन्धसारो—चन्दनोऽस्त्रियाम् । चन्दननामानि ॥ ‘श्रीखण्डश्च पटीरश्चऽ । एते द्वे च । तैलपर्णिक—हरिचन्दनमस्त्रियाम् । पीतवर्णचन्दननामानि ॥ १३१ ॥

११७

[[०२.४४५]]

मूलम् - ०२.०६.१३२

(०२.०६.१३२अब्) तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ।
(०२.०६.१३२च्द्) कुचन्दनं चाथ जातीकोशजातीफले समे ॥ १३२ ॥

लिङ्ग-सूरी - AK.02.06.132

तिलपर्णीति—तिलपर्णाख्यनद्यां भवा तिलपर्णी । पत्रम् अङ्गं प्रयोजनमस्येति पत्राङ्गम् । रञ्जयतीति रञ्जनम् । ‘रञ्ज रागेऽ । रक्तं च तत् चन्दनं च रक्तचन्दनम् । कौ भुवि जातं चन्दनं कुचन्दनम् । लोहितचन्दननामानि ॥ जात्याः लताविशेषस्य कोशं जातीकोशम् । जात्याः फलं जातीफलम् । जातीफलनामनी ॥ १३२ ॥

मल्लि-नाथः - AK.02.06.132

तिलपर्णी तु—कुचन्दनं च । रक्तचन्दननामानि ॥ अथ जातीकोश—समे । जातीफलनामनी । ‘जाजिकायऽ ॥ १३२ ॥

[[०२.४४५]]

मूलम् - ०२.०६.१३३

(०२.०६.१३३अब्) कर्पूरागरुकस्तूरीकक्कोलैर्यक्षकर्दमः ।
(०२.०६.१३३च्द्) गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ॥ १३३ ॥
(०२.०६.१३४अब्) चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु ।

लिङ्ग-सूरी - AK.02.06.133-34

कर्पूरेति—यक्षाणें कर्दमवत् सुलभत्वाद् यक्षकर्दमः । कर्पूरागरुकस्तूरीतक्कोलैः मिश्रीकृतसुगन्धद्रव्यनाम ॥ गात्रमनुलिप्यतेऽनया गात्रानुलेपनी । ‘लिप उपदेहेऽ । वर्तते गात्रमनया वर्तिः । सुगन्धिवर्तिनामनी ॥ वर्णयति देहं वर्णकम् । ‘वर्ण स्तुतौऽ । विलिप्यते गात्रमनेनेति विलेपनम् । ‘लिप उपदेहेऽ । चन्दनादिलेपनामनी ॥ चूर्ण्यन्त इति चूर्णानि । ‘चूर्ण पेषणेऽ । वासाय सुरभीकरणाय युज्यन्त इति वासयोगाः । ‘युजिर् योगेऽ । सर्ववासनायोगनाम ॥ भाव्यते कस्तूर्यादिनेति भावितम् । ‘भुवो अवकल्कनेऽ । वास्यते सुगन्धेन वासितम् । ‘वस स्नेहमोहच्छेदापहरणेषुऽ । सुगन्धवासितद्रव्यनामनी ॥ १३३ ॥

मल्लि-नाथः - AK.02.06.133-34

कर्पूरागरु—यक्षकर्दमः । कर्पूरादिचतुष्टयसिद्धः कर्दमो यक्षकर्दमः स्यात् ।

‘कर्पूरागरुकस्तूरीकर्कोलघुसृणानि च ।

एकीकृतमिदं सर्वं यक्षकर्दममिष्यते ॥ऽ

इति (व्याडिः)

‘कर्पूरागरुकस्तूरी कुङ्कुमं चन्दनं तथा ।

महासुगन्धमित्युक्तं नामतो यक्षकर्दमः ॥ऽ

इति (ध। नि। ७। २५) । अत्र कर्कोलस्थाने कुङ्कुमचन्दने भवतः । गात्रानुलेपनी वर्तिः । अनुलेपनतूलिकानाम ॥ वर्णकं स्याद् विलेपनम् । अनुलेपनद्रव्यनाम ॥ अनुक्तम्—‘उपला तु दृषत्पुत्रीऽ । कस्तूर्यादिघर्षणोपलनाम ॥ चूर्णानि वासयोगाः स्युः । गन्धयुक्ता वक्ष्यमाणवासनयोगाश्चूर्णशब्दवाच्याः । ‘अलकेषु चमरेणुश्चूर्णप्रतिनिधिः कृतःऽ इति (रघु। ४। ५४) । बहुवचनेन ते बहुविधाः ।

‘चन्दनं कुङ्कुमं तुल्यं वरार्धमभिधीयते ।

त्रिभागकुङ्कुमं यच्च तदुक्तं नाट्यपुष्पकम् ॥

त्रिसुगन्धमिति ख्यातं त्वगिलापत्रकैस्त्रिभिः ।

चातुर्जातं तदेव स्यान्नागकेसरसंयुतैः ॥

सर्वगन्धमिदं सिन्धुकर्कोलागरुसिह्लकम् ॥ऽ

इत्यादि ॥ भावितं वासितं त्रिषु । गन्धग्राहितस्य वस्तुनो नामनी ॥ १३३ ॥

[[०२.४४६]]

(०२.०६.१३४च्द्) संस्कारो गन्धमाल्याद्यैर्यः स्यात् तदधिवासनम् ॥ १३४ ॥

मूलम् - ०२.०६.१३५

(०२.०६.१३५अब्) माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः ।

लिङ्ग-सूरी - AK.02.06.134-35

संस्कार इति—गन्धमाल्यधूपाद्यैः वस्त्रताम्बूलादीनां यः संस्कारः तदधिवासनमित्युच्यते । अधि अधिकं वास्यतेऽधिवासनम् । गन्धपुष्पादिकृतसंस्कारनाम ॥ मल्यते धार्यत इति माल्यम । ‘मल मल्ल धारणेऽ । मालैव वा । मल्यते केशेषु माला । सृज्यते रच्यते क्रमबन्धेन स्रक् । ‘सृज विसर्गेऽ । तन्तुबद्धकुसुमकलापनामानि ॥ गर्भे अन्तः क्रियत इति गर्भकः । केशमध्यस्थमाल्यनाम ॥ १३४ ॥

मल्लि-नाथः - AK.02.06.134-35

संस्कारो—अधिवासनम् । गनधमाल्यादिभिः क्रियमाणो वस्त्रकेशादिसंस्कारो यस्तदधिवासनं स्यात् । तदिति विधेयप्राधान्येन नपुंसकलिङ्गनिर्देशः । अधिवासना च स्यात् । ‘संस्कारो गन्धमाल्याद्यैरपुमानधिवासनम्ऽ इति वैजयन्ती (पृ। १७१, श्लो। १५६) ॥ माल्यं—मूर्ध्नि । शिरसि निक्षिप्तमालानामानि । ‘स्रग्माला माल्यमाख्यातम्ऽ इति हलायुधः (अ। मा। २। ३९७ ) ॥ केशमध्ये—गर्भकः । शिरोरुहान्तरनिक्षिप्तः सरो गर्भकः स्यात् ॥ १३४ ॥

[[०२.४४७]]

(०२.०६.१३५च्द्) प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम् ॥ १३५ ॥

मूलम् - ०२.०६.१३६

(०२.०६.१३६अब्) प्रालम्बमृजुलम्बिल स्यात् कण्ठाद्वैकक्षकं तु तत् ।
(०२.०६.१३६च्द्) यत् तिर्यक् क्षिप्तमुरसि शिखास्वापीडशेखरौ ॥ १३६ ॥

लिङ्ग-सूरी - AK.02.06.135-36

प्रभ्रष्टकमिति—केशमध्यात् प्रभ्रष्टं प्रभ्रष्टकम् । शिखालम्बिमाल्यनाम ॥ ललाटे ललतीति ललामकम् । ‘लल विलासेऽ । मुक्ताजालवद्भासमानललाटपरिरचितमाल्यनाम ॥ प्रालम्बत इति प्रालम्बम् । ‘लवि लम्बनेऽ । कण्ठादार्जवेनोरसि लम्बमानमाल्यनाम ॥ कक्षाद् विगतं विकक्षं, उरःस्थलं पृष्टभागश्च । तत्र वर्तमानं वैकक्षकम् । यज्ञोपवीतवद् उरसि तिर्यक्क्षिप्तमाल्यनाम ॥ आपीड्यते दृढबन्धेन आपीडः । ‘पीड अवगाहनेऽ । शिखरं शिरोऽग्रं, तस्यायमिति शेखरः । शिङ्खति धारणस्थानाद् अपसर्पतीति वा शेखरः । ‘शिखि गतौऽ । विवाहादौ ललाटयोग्यकुसुमदामनामनी ॥ १३५-६ ॥

मल्लि-नाथः - AK.02.06.135-36

प्रभ्रष्टकं शिखालम्बि । शिखायां लम्बमानं माल्यं प्रभ्रष्टकं स्यात् । ‘जारुदण्डऽ ॥ पुरो—ललामकम् । पुरोभागे विन्यस्तत्रिमूलकुड्मलस्रग् ललामकं स्यात् । ‘सूसकमुऽ ॥ प्रालम्बं—कण्ठात् । गलादवक्रतया लम्बमानमाल्यं प्रालम्बं स्यात् । ‘नेवऴमुऽ ॥ वैकक्षकं—क्षिप्तमुरसि । उत्तरीयवद् वक्षसि निक्षिप्तस्रग् वैकक्षकं स्यात् ॥ शिखासु—शेखरौ । शिरःपुरःक्षिप्तशुभिकास्रजो नाम । ‘वाशिकदण्डऽ ॥ १३५-६ ॥

[[०२.४४८]]

मूलम् - ०२.०६.१३७

(०२.०६.१३७अब्) रचना स्यात् परिस्पन्द आभोगः परिपूर्णता ।
(०२.०६.१३७च्द्) उपधानं तूपबर्हः शय्यायां शयनीयवत् ॥ १३७ ॥
(०२.०६.१३८अब्) शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः ।

लिङ्ग-सूरी - AK.02.06.137-38

रचनेति—रच्यते रचना । ‘रच प्रतियत्नेऽ । परितः स्पन्दःशरीरव्यापारः परिस्पन्दः । ‘स्पदि किञ्चिच्चलनेऽ । माल्यादिविविधरचनानामनी ॥ आभुज्यतेऽनेन आभोगः । ‘भुज पालनाभ्यवहारयोःऽ । रचनापरिपूर्णतानाम ॥ उपधीयते शिरोऽत्र उपधानम् । ‘डुधाञ् धारणपोषणयोःऽ । उपबृह्यत उन्नम्यते शिरोऽत्रेति उपबर्हः । ‘बृहि वृद्धौऽ । तूलगर्भितवस्त्रादिरचितशिरोऽवस्थानस्थाप्यनामनी ॥ शेतेऽत्र शय्या । शयनीयं च । शयनं च । ‘शीङ् स्वप्नेऽ । शय्यानामानि ॥ मञ्च्यते धार्यते नरोऽनेन मञ्चः । ‘मचि धारणोच्छ्रायपूजनेषुऽ । परितोऽङ्क्यते उपभोगादिना लक्ष्यत इति पर्यङ्कः । ‘अकि लक्षणेऽ । पल्यङ्कश्च । रलयोरभेदात् । खट्यते काङ्क्ष्यते खट्वा । ‘खट काङ्क्षायाम्ऽ । खट्वानामानि ॥ १३७ ॥

मल्लि-नाथः - AK.02.06.137-38

रचना—परिस्पन्दः । माल्यादिनिर्माणनामनी ॥ ‘प्रतियत्नः परिस्पन्दः पुमांसौ रचना स्त्रियाम्ऽ इति केषाञ्चिद्रचना माल्यादिनिर्माणम् ।

‘श्रन्थनं ग्रन्थनं गुम्फः सन्दर्भो रचना न ना ।

परिवारः परिजनः परिस्पन्दः परिग्रहः ।

तथोपकरणं प्रोक्तं परिबर्हः परिच्छदः ॥ऽ

परिस्पन्दो दर्पणाद्युपकरणमिति केचित् ॥ आभोगः परिपूर्णता । पूर्णत्वनाम ॥ उपधानं तूपबर्हः । शिरःपरिबर्हनामनी । ‘तलगाडऽ । अनुक्तम्—‘गभोलिः स्त्री स्तवरकः प्रग्रीवो मत्तवारणःऽ । मत्तवारणनामानि । ‘वोरुगुऽ ॥ शय्यायां—शयनम् । शयनक्रियानामानि । शयनशब्द उत्तरपर्यायलिङ्गसापेक्षोऽपि स्यात् । ‘शय्यायां शयनं न स्त्री निद्रासुरतयोर्न पुम्ऽ इति वैजयन्ती (पृ। २६३, श्लो। ८५) ॥ मञ्चपर्यङ्क—समाः मञ्चनामानि ॥ १३७ ॥

[[०२.४४९]]

(०२.०६.१३८च्द्) गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् ॥ १३८ ॥

मूलम् - ०२.०६.१३९

(०२.०६.१३९अब्) समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः ।

लिङ्ग-सूरी - AK.02.06.138-39

गेन्दुक इति—गगने इन्दुरिव भातीति गेन्दुकः । कं शिरो दुनोतीति कन्दुकः । ‘टुदु उपतापेऽ । कन्दुकनामनी ॥ दीप्यत इति दीपः । प्रदीपश्च । ‘दीपी दीप्तौऽ । दीपनामनी ॥ पिठ्यते संश्लिष्यत इति पीठम् । ‘पिठ हिंसाक्लेशनयोःऽ । आस्तेऽत्रेत्यासनम् । ‘आस उपवेशनेऽ । पीठनामनी ॥ सम्यगुद्गच्छतीत समुद्गकः । ‘गम्लृ गतौऽ । सम्पुट्यते पिधानेन सम्पुटकः । ‘पुट संश्लेषणेऽ । कस्तूर्याद्यावपनार्थं निर्मितकरण्डादेर्नामनी ॥ प्रतिगृह्णातीति प्रतिग्राहः । पतत्ताम्बूलादिकं गृह्णातीति पदद्ग्रहः । ‘ग्रह उपादानेऽ । चर्वितताम्बूलनिक्षेपार्थं निर्मितपात्रनामनी ॥ १३८ ॥

मल्लि-नाथः - AK.02.06.138-39

गेन्दुकः कन्दुकः । कन्दुकनामनी । ‘चेण्डु बन्दुऽ । अनुक्तम्—‘क्रीडादुरो गिरियकःऽ । ‘अच्चनगायलुऽ । दीपः प्रदीपः । दीपनामनी ॥

‘दीपो गृहमणिर्वर्तिर्दीपवृक्षः शिखातरुः ।

वर्तिर्दशा दीपवल्ली दीपिकाञ्जनकज्जले ॥ऽ

इत्यन्यत्र साङ्गाभिधानम् ॥ पीठमासनम् । पीठनामनी ॥ समुद्गकः सम्पुटकः । आभरणादिपेटिकानामनी ॥ प्रतिग्राहः पतद्ग्रहः । कलाचिकानामनी । ‘पडिगेमुऽ ॥ १३८ ॥

[[०२.४४९]]

(०२.०६.१३९च्द्) प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ॥ १३९ ॥

मूलम् - ०२.०६.१४०

(०२.०६.१४०अब्) दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम् ।
इति मनुष्यवर्गः

लिङ्ग-सूरी - AK.02.06.139-40

प्रसाधनीति—प्रसाध्यन्ते केशा अनयेति प्रसाधनी । ‘साध संसिद्धौऽ । केशेषु कङ्कते कङ्कतिका । ‘ककि गतौऽ । केशविशोधकस्य दन्तमयस्य नामनी ॥ पिष्टभावम् अततीति पिष्टातः । ‘अत सातत्यगमनेऽ । पटं वासयतीति पटवासः । हरितालादिचूर्णनामनी ॥ चालनीनामनी इति केचित् ॥ दृप्यतेऽनेन सुवेषाभिमानादिति दर्पणः । ‘दृप दृप्तौऽ । मङ्क्यतेऽनेन मुकुरः । ‘मकि मण्डनेऽ । मकुर इति वा पाठः । आदृश्यते रूपमत्रेत्यादर्शः । ‘दृशिर् प्रेक्षणेऽ । दर्पणनामानि ॥ व्यज्यते श्रमोऽपनीयतेऽनेनेति व्यजनम् । ‘अज गतिक्षेपणयोःऽ । तालवृन्तवद् वृन्तमस्येति तालवृन्तकम् । व्यजननामनी ॥ १३९ ॥

इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ मनुष्यवर्गः

मल्लि-नाथः - AK.02.06.139-40

प्रसाधनी कङ्कतिका । केशसंस्कारकारिणीनामनी । ‘दूवेनऽ ॥ पिष्टातः पटवासकः । धूलिगुलुच्छनामनी । ‘बुक्कापिण्डिऽ ॥ ‘धूलिगुच्छः समाख्यातः पांशुचामरमित्यपिऽ । एते द्वे च ॥ दर्पणो—आदर्शौ । आदर्शनामानि । ‘सम्मुखीनात्मदर्शाब्दाःऽ एतानि त्रीणि च ॥ व्यजनं तालवृन्तकम् । व्यजननामनि ॥ वीजनं जलार्द्रा चेत्येते च । ‘आलावर्तं तु वस्त्रव्यजनम्ऽ । प्रान्तस्यूतवस्त्रव्यजननाम । ‘आलपट्टिऽ ॥ ‘आलावर्तं तु वस्त्रेणऽ इति वैजयन्ती (पृ। १७१, श्लो। १५९) ॥ १३९ ॥

इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचितेऽमरपदपारिजाते मनुष्यवर्गः

[[०२.४५०]]