मूलम् - ०२.०५.००१
(०२.०५.००१अब्) सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।
(कण्ठीरवो मृगरिपुर्मृगदृष्टिर्मृगाशनः ।
पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः ॥)
(०२.०५.००१च्द्) शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः ॥ १ ॥
लिङ्ग-सूरी - AK.02.05.001
अथ सिंहादिवर्ग आरभ्यते—सिंह इति । हस्त्यादिकं हिनस्तीति सिंहः । ʻहिसि हिंसायाम् । मृगाणामिन्द्रः श्रेष्ठः मृगेन्द्रः । पञ्चत इति पञ्चम् । ʻपचि विस्तारे । पञ्चं विस्तृतमास्यमस्येति पञ्चास्यः । हरिणी कपिलवर्णेऽक्षिणी अस्येति हर्यक्षः । के शिरसि सरन्तीति केसराः सटाः, तेऽस्य सन्तीति केसरी । हरति गजादिकं हरिः । ʻहृञ् हरणे । सिंहनामानि । ʻसिंहमुपेल्लु’ ॥ शृणाति बलीवर्दादिकमिति शार्दूलः । ʻशृ हिंसायाम् । द्वीपमाश्रयो यस्य स द्वीपी । व्याजिघ्रतीति व्याघ्रः । ʻघ्रा गन्धोपादाने । व्याघ्रनामानि । ʻपेद्दपुलिपेल्लु’ ॥ तरं प्लवमत्यर्थं क्षिणोतीति तरक्षुः । ʻक्षिणु हिंसायाम् । मृगानत्तीति मृगादनः । ʻअद भक्षणे । तरक्षुनामनी । ʻसिवङ्गिपेल्लु’ ॥ १ ॥
मल्लि-नाथः - AK.02.05.001
सिंहो—हरिः । ʻहलीक्ष्णस्तृणसिंहः स्यात् कुटरुर्मृगसिंहकः’ इति वैजयन्ती (पृ। ६५, श्लो। २) । अभेदादत्रोक्तम् । शेषे—
ʻकण्ठीरवो मृगरिपुः पारीन्द्रः श्वेतपिङ्गलः ।
महानादश्च शार्दूलो हरितोऽतुल्यविक्रमः ।
सुगन्धिः सिन्धुरद्वेषी व्यादीर्णवदनो हरित् ॥
यादवप्रकाशेऽपि—
ʻकण्ठीरवो मृगरिपुः सुगन्धिर्हरितो हरित् ।
व्यादीर्णास्यो महानादः शार्दूलोऽतुल्यविक्रमः ।
हरिर्मृगेन्द्रो हर्यक्षः पारीन्द्रः श्वेतपिङ्गलः ॥
सिंहनामानि । ʻसिंहमु’ । हलीव हलवानिव कुटिलनखतया ईक्ष्यत इति हलीक्ष्णः । तृणमपि हिनस्तीति तृणसिंहः । मृगान् हिनस्ति मृगसिंहकः । शार्दूलद्वीपिनौ व्याघ्रे । शेषे—
ʻतत्र व्यालो गुहाशयः ।
पुण्डरीकस्तीक्ष्णदंष्ट्रस्तरस्वी घोरदर्शनः ।
मृगात्पञ्चनखो हुण्डो हिंसारुश्चण्डकश्च सः ॥
व्याघ्रनामानि । ʻपुलि । शेषे—
ʻखर्वेऽस्मिन् मेहनो मेही भेलश्चुलुकचित्रकौ ।
द्वीपी पित्वश्चित्रकायः ॥
यादवप्रकाशेऽपि—
ʻस्वल्पकस्त्वयम् ।
मेलो मेही च चुलुको द्वीपी पित्वश्च चित्रकः ।
चित्रकायश्च ॥
इति । ʻचिरुतपुलि । तरक्षुः—मृगादनः । शेषे—
ʻतरक्षश्च मृगजीवस्तिलित्सश्च मृगार्दनः ।
मृगाददेहिभेदे च तिलित्सः स्यात् ॥
इति गोपालः । कुर्कुरप्रायस्याल्पव्याघ्रस्य नामानि । ʻशिवङ्गि ॥ १ ॥
[[०२.३२६]]
मूलम् - ०२.०५.००२
(०२.०५.००२अब्) वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ।
(०२.०५.००२च्द्) दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥
लिङ्ग-सूरी - AK.02.05.002
वराह इति—वरं श्रेष्ठं सस्यं पोत्रेणाहन्तीति वराहः । ʻहन हिंसागत्योः’ । बहून्यपत्यानि सूति सूकरः । ʻषूञ् प्राणिप्रसवे । उन्नतप्रदेशान् कूलादीन् घर्षतीति घृष्टिः । ʻघृष सङ्कर्षणे । कोलति संहताङ्गो भवतीति कोलः । ʻकुल संस्त्याने । दीर्घं पोत्रं मुखाग्रमस्यास्तीति पोत्री । पोत्रेण क्षितिं किरतीति किरिः । किर इति वा । ʻकॄ विक्षेपे । केटति स्वयमेकाकी गच्छतीति किटिः । ʻकिट गतौ’ । दंष्ट्रास्यास्तीति दंष्ट्री । स्थूला घोषणास्यास्तीति घोणी । स्तब्धानि रोमाण्यस्य सन्तीति स्तब्धरोमा । क्रुडति क्रमेण घनत्वं प्राप्नोतीति क्रोडः । ʻक्रुड घनत्वे । भुवं दारयतीति भूदारः । ʻदॄ विदारणे । वराहनामानि ॥ ʻअडवि पन्दिपेल्लु’ ॥ २ ॥
अमरपदपरिजत><AK.02.05.002>
वराहः—भूदार इत्यपि । किर इत्यकारान्तोऽपि । ʻवराहश्च किरः किरिः’ इति यादवः । शेषे—
ʻजलप्रियो वक्रदंष्ट्रः पीनस्कन्धस्तलेक्षणः ।
काकरूपी स्थूलनासः कुमुखश्च बहुप्रजः ॥
दंष्ट्रायुधश्चाफसिकः(?) पङ्कक्रीडश्च रोमशः ॥
इति । वराहनामानि । ʻदंष्ट्रायुधः कामरूपी कुन्दारो मुखलाङ्गलः’ । एतानि च ॥ २ ॥
मूलम् - ०२.०५.००३
(०२.०५.००३अब्) कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः ।
(०२.०५.००३च्द्) मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥
(०२.०५.००४अब्) ऋक्षाच्छभल्लभालूका गण्डके खड्गखड्गिनौ ।
(०२.०५.००४च्द्) लुलायो महिषो वाहद्विषत्कासरसैरिभाः ॥ ४ ॥
लिङ्ग-सूरी - AK.02.05.003-4
कपिरिति—प्रायेण कम्पते चलतीति कपिः । ʻकपि चलने । प्लवैरुल्लङ्घनैर्गच्छतीति प्लवङ्गः । प्लवगश्च । ʻगम्लृ गतौ’ । शाखासु सञ्चारी मृगः शाखामृगः । श्लथं चर्म वली, सा मुखेऽस्य वलीमुखः । मिथः संश्लिष्टशाखासङ्कटे म्रियत इति मर्कटः । ʻमृङ् प्राणत्यागे । मर्कति गच्छतीति वा । ʻमर्क ग्रहणे । नर इव वानरः । की इत्यनुकरणशब्दं कर्तुमीष्टे कीशः । ʻईश ऐश्वर्ये । वने ओकः स्थानमस्य वनौकाः । सान्तः । वानरनामानि । ʻकोन्तिपेल्लु’ ॥ भल्लते हिनस्ति क्रिमीनिति भल्लुकः । भल्लूकश्च । ʻभल्ल भल परिभाषणहिंसादानेषु’ । ऋक्ष्णोति हिनस्ति क्रिमीनिति ऋक्षः । ʻऋक्ष हिंसायाम् । ऋष्यते गहनमनेनेति वा । ʻऋषी गतौ’ । अच्छेनाभिमुख्येन भल्लते हिनस्तीति अच्छभल्लः । भलत इति भालूकः । ʻभल परिभाषणहिंसादानेषु’ । भल्लूकनामानि । ʻएलुङ्गुपेल्लु’ ॥ प्रशस्तो गण्डोऽस्यास्तीति गण्डकः । गण्डति वर्धयत्यास्यमिति वा । ʻगडि वदनैकदेशे । खडयति जिघांसन्तं भिनत्तीति खड्गः । ʻखडि भेदने । खड्गो हिंस्रं शृङ्गमस्यास्तीति खड्गी । खड्गमृगनामानि । ʻगण्डमृगमुपेल्लु’ ॥ पङ्के लुलति लोडतीति लुलायः । ʻलुड विलोडने । डलयोरभेदत्वात् । ʻलुल संश्लेषणे इति वा धातुः । सत्त्ववत्वात् मह्यत इति महिषः । ʻमह पूजायाम् । मह्यां शेत इति वा । ʻशीङ् स्वप्ने । वाहानामश्वानां समूहो वाहं, तद् द्वेष्टीति वाहद्विषत् । ʻद्विष अप्रीतौ’ । महाकायत्वात् ताड्यमानोऽपि का ईषत् सरतीति कासरः । ʻसृ गतौ’ । सीरा एषां सन्तीति सीरिणः बलीवर्दाः । सीरिभिः सह भातीति सैरिभः । ʻभा दीप्तौ’ । महिषनामानि ॥ ʻकारेनुपोतुपेल्लु’ ॥ ३-४ ॥
मल्लि-नाथः - AK.02.05.003-4
कपिः—वनौकाः । शेषे—
ʻच प्लवङ्गमः ।
महावेगो दधिमुखः कुरङ्गो भल्लुकः पृथुः ।
सालावृको हरिश्चापि ॥
ʻभल्लूकौ कपिभल्लूकौ’ इति चिन्तामणिः । ʻमहावेगो दधिमुखः कुरङ्गो भल्लुकः पृथुः’ इति वैजयन्ती (पृ। ६८, श्लो। ४०) । कपिनामानि ॥ अथ गोलाङ्गूलोऽसिताननः । नीलशीर्षोऽपि । नीलशीर्षीति नकारान्तोऽपि । स्त्रियां नीलशीर्षीत्यपि । ʻकोण्डमुच्चु’ शेषे—अथ क्ष्विङ्को रक्तास्यः । स्त्रियाम्—क्ष्विङ्का । तथा च पुरुषमृग इत्यनुवाके । क्षुरे । ʻसा ज्ञेया वानरी क्ष्विङ्का यस्या रक्तमुखं भवेत् इति । ʻचिङ्कलिक्क्ö । शेषे—नीलजः कपिः नीलकः । नीलेन वर्णेन नीलात्पर्वताद्वा जातो नीलजः । स नीलकः इत्युच्यते । ʻकोण्डेङ्ग्ö । शेषे—कर्म भावश्च कापेयम् । कर्मभावयोः कापेयशब्दः स्यात् । अथ भल्लुके—भल्लूकाः । बालूक इत्यपि क्वचित् । शेषे—ʻभल्लाटो मृगधूर्तकः’ । ʻभल्लाच्छौ दीर्घरोमाक्षे । ʻभल्लौ भल्लूकबाणौ स्तः’ इति धरणिः । ʻअच्छौ निर्मलभल्लूकौ’ इत्यजयः । ऋक्षशब्द ऋकारादिः । ʻभल्लूको दीर्घरोमर्क्षो भल्लाटो वृकधूर्तकः’ इति वैजयन्ती (पृ। ६५, श्लो। ७) । केषाञ्चिद् रिशब्दादिरपि ʻरिक्षहर्यक्षकक्षरी (द्विसं। १८। ५८) इति राघवपाण्डवीयम् । अच्छभल्ल इत्येकं नाम । ʻविकरालोऽच्छभल्लश्च्ö इति वैजयन्ती (पृ। ६५, श्लो। ७) । केषाञ्चिन्नामद्वयम्, ʻअच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् (पृ। ३१ श्लो। १) । ʻभल्लो भल्ली च बाणे स्याद् भल्लो भल्लूक इष्यते (पृ। १५१, श्लो। ३०) इत्युभयत्र विश्वप्रकाशिका । भल्लूकनामानि ॥ गण्डके खड्गखड्गिनौ । शेषे—ʻवार्धीणसो वनोत्साहस्तत्र वार्धोणसोऽपि च्ö । खड्गमृगनामानि ॥ लुलायो—सैरिभाः । शेषे—
ʻलोहिताक्षः कृष्णशृङ्गो वीरस्कन्धो रजस्वलः ।
जरन्तः कलुषः पोत्री जलात्मा गद्गदस्वरः ।
स्कन्धशृङ्गो यमरथः कटादो दंशलालिकौ ।
हंसकालीसुतः शृङ्गी हेरम्बः कृष्ण इत्यपि ॥
महिषनामानि । शेषे—ʻसृजयो गवलः कृष्णः’ । कृष्णमहिषनामानि । ʻस परस्वानरण्यजः’ । स महिषोऽरण्यजश्चेत् परस्वानित्युच्यते । ʻकामाय परस्वान् (तै। सं। ५। ५। ११। १) इत्यत्र परस्वानरण्यमहिष इति क्षुरे । परःशब्दोऽसुन्नन्ते मांसपर्यायः । अरण्यमहिषनाम ॥ ३-४ ॥
[[०२.३२८]]
मूलम् - ०२.०५.००५
(०२.०५.००५अब्) स्त्रियां शिवा भूरिमायुगोमायुमृगधूर्तकाः ।
(०२.०५.००५च्द्) सृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥
(०२.०५.००६अब्) ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् ।
[[०२.३२८]]
(०२.०५.००५अब्) स्त्रियां शिवा भूरिमायुगोमायुमृगधूर्तकाः ।
(०२.०५.००५च्द्) सृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥
(०२.०५.००६अब्) ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् ।
लिङ्ग-सूरी - AK.02.05.005-6
स्त्रियामिति—शकुनेन मोदहेतुत्वात् शिवा । भूरयो माया यस्य भूरिमायुः । भूरिमाय इति वा पाठः । गा मिनोति क्षिपतीति गोमायुः । ‘डुमिञ् प्रक्षेपणेऽ । मृगेषु धूर्तो मृगधूर्तकः । वने तत्र तत्र सरति, सृजति मायामिति वा सृगालः । ‘सृ गतौऽ ‘सृज विसर्गेऽ । असृगालातीति वा । ‘ला आदानेऽ । वञ्चयतीति वञ्चकः । ‘वञ्चु प्रलम्भनेऽ । क्रोशतीति क्रोष्टुः, क्रोष्टा वा । ‘क्रुश आह्वाने रोदने चऽ । फे इति रौतीति फेरुः । फेरवश्च । ‘रु शब्देऽ । मांसं जमत्यत्तीति जम्बुकः । ‘जमु अदनेऽ । शृगालनामानि । ‘नक्कपेल्लुऽ ॥ अवति मूषकबाधाया ओतुः । ‘अव रक्षणेऽ । बिडति मूषिकान् बिडालः । ‘बिड भेदनेऽ । बिडवद् अस्पृश्यं मूलं पुच्छमस्येति वा । आखुभक्षणेन गृहं मार्ष्टि मार्जारः । ‘मृजूष् शुद्धौऽ । वृषान् मूषकान् दशतीति वृषदंशकः । ‘दंश अदनेऽ । आखुं भुङ्क्ते आखुभुक् । ‘भुज पालनाभ्यवहारयोःऽ । मार्जारनामानि ॥ ‘पिल्लिपेल्लुऽ ॥ ५ ॥
[[०२.३२९]]
मल्लि-नाथः - AK.02.05.005-6
स्त्रियां शिवा—जम्बुकाः । पुमभिधानोऽपि स्त्रीलिङ्ग एवेति स्त्रियां शिवेति । भूरिमायोऽदन्तः इति टीकासर्वस्वकारः । शेषे—
‘भरुजश्चापि फेरुण्डः श्वभीरुर्मृगमर्तकः ।
शयालुः सूचको घोरःऽ ॥
जम्बुकनामानि । तथा च यादवः—(वैजयन्ती पृ। ६८, श्लो। ३७-८)
‘सृगालो भरुजः क्रोष्टा श्वभीरुर्मृगमर्तकः ।
शयालुः सूचको घोरः फेरुफेरुण्डफेरवाः ॥ऽ
इति । स्वल्पे तत्र किखिः स्त्रियाम् । पुमभिधानेऽपि स्त्रीलिङ्गः । ‘किखिः स्त्री क्रोष्टुभेदेऽल्पेऽ इति वैजयन्ती (पृ। ६८, श्लो। ३९) । अल्पजम्बुकनाम ॥ पृथौ गृण्डिवलोपाशौ । ‘पृथौ लोपाशगृण्डिवौऽ इति वैजयन्ती (पृ। ६८, श्लो। ३९) । पृथुजम्बुकनामनी ॥ ‘नाक्रो नक्रमुखे स्मृतःऽ । नक्रमुखजम्बुकनाम ॥ ओतुः—आखुभुक् । शेषे—‘जहको गात्रसङ्कोची मण्डली नखरायुधःऽ । मार्जालनामानि । शेषे—‘लोमशोऽन्यो बिडालः स्यात् पूतिकः शालिजातिकःऽ । पूतिमार्जारनामानि । कशशब्दोऽप्यत्र । ‘कशो लोमशऽ इति क्षुरे । ‘मार्जारिका वेधमुख्याऽ । ‘पुनुगुपिल्लिऽ । ‘मदनी गन्धचेलिकाऽ । ‘जवादिपिल्लिऽ । शेषे—‘गोधा पञ्चनखी गोवी निहाका दीर्घपुच्छिका । मुसलीऽ ॥ बिलगोधा जलगोधा तरुगोधा गृहगोधा शिलागोधेति गोधा बहुविधाः । गोधासामान्यनामानि । ‘उडुमुऽ । वृक्षजाता सा शयण्डक उदाहृतः । तरुगोधानाम ॥ ५ ॥
[[०२.३३०]]
(०२.०५.००६च्द्) त्रयो गौधारगौधेरगौधेया गोधिकात्मजे ॥ ६ ॥
मूलम् - ०२.०५.००७
(०२.०५.००७अब्) श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् ।
लिङ्ग-सूरी - AK.02.05.006-7
त्रय इति—गोधाया अपत्यं गौधारः, गौधेरः, घौधेयश्च । गोधिकात्मजनामानि । ‘उडुमुपिल्लपेल्लुऽ ॥ श्वानं विध्यतीति श्वावित् । ‘व्यध ताडनेऽ । शलतीति शल्यः । ‘शल चलनेऽ । ‘एदुपन्दिपेल्लुऽ ॥ शलतीति शलली, शललं, शलं च । ‘शल गतौऽ । ‘एदुपन्दिमुण्ड्लपेल्लुऽ ॥ ६ ॥
मल्लि-नाथः - AK.02.05.006-7
त्रयो—गोधिकात्मजे । गोधिकासुतनामानि । ‘उनुमुपिल्लऽ । जात्यन्तरमिति स्वामी ॥ श्वावित्—शल्यः । शेषे—‘शलली स्याद्वज्रशललः शलः । शल्यरोमा चऽ । शल्यमृगनामानि । ‘येडुपन्द्दिऽ । तल्लोम्नि—शलम् । श्वावितो लोमनामानि । ‘तल्लोम्न्यना शलली शलम्ऽ इति यादवः (वैज। पृ। ६८, श्लो। ३७) । स्त्रीलिङ्गे गौरादिङीषि शलली ॥ ६ ॥
[[०२.३३०]]
(०२.०५.००७च्द्) वातप्रमीर्वातमृगः कोक ईहामृगो वृकः ॥ ७ ॥
मूलम् - ०२.०५.००८
(०२.०५.००८अब्) मृगे कुरङ्गवातायुहरिणाजिनयोनयः ।
लिङ्ग-सूरी - AK.02.05.007-8
वातप्रमीरिति—वातं प्रत्याभिमुख्येन प्रमिमीते वातप्रमीः । ग्रामणीशब्दवदीकारान्तः पुंलिङ्गः । ‘माङ् माने शब्दे चऽ । वातं मृगयते वातमृगः । ‘मृग अन्वेषणेऽ मृगभेदनामनी । ‘गालि केदुरुगानडचुमृगमुपेल्लुऽ ॥ कौतीति कोकः । ‘कुञ् शब्देऽ । कोकते मांसादिकं वा । ‘कुक आदानेऽ । मृगानीहत इति ईहामृगः । ‘ईह चेष्टायाम्ऽ । ईहां धावनादिचेष्टां मृगयते वा । ‘मृग अन्वेषणेऽ । इरां भूमिं वर्कते प्रचारार्थमिति वृकः । ‘वृक आदानेऽ । वृकनामानि । ‘तोडेलुपेल्लुऽ ॥ मृग्यते व्याधैर्मांसार्थमिति मृगः । ‘मृग अन्वेषणेऽ । कौ रङ्गतीति कुरङ्गः । ‘रगि नृत्तेऽ । ‘रगि गतौऽ इति वा धातुः । वातं प्रत्ययते यातीति वातायुः । ‘अय गतौऽ । वानायुरिति वा पाठे वानं शुष्कं वृथेतस्ततोऽयते धावतीति वानायुः । ‘अय पय गतौऽ । व्याधेनान्यत्र ह्रियते हरिणः । ‘हृञ् हरणेऽ । अजिनस्य योनिः कारणमित्यजिनयोनिः । हरिणनामानि ॥ ‘इर्रि पेल्लुऽ ॥७ ॥
मल्लि-नाथः - AK.02.05.007-8
वातप्रमीर्वातमृगः । शेषे—‘निःशृङ्गो हरिणाकृतिः । शिववातायुजविनःऽ । वातमृगनामानि । कोकः—वृकः । शेषे—‘तस्मिन्नडावृकोऽरण्यशुनकस्तस्करोऽपि चऽ । वृकनामानि । ‘तोण्डेलुऽ । मृगे—अजिनयोनयः । शेषे—‘भीरुचेता लिगुः प्लावी वननो मरुकस्तथाऽ । कुरङ्गजातिमात्रनामानि । ‘इर्रिऽ ॥ ७ ॥
%% प्। ०२.३३१
लिङ्ग-सूरी - AK.02.05.008-9
(०२.०५.००८च्द्) ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ ८ ॥
मूलम् - ०२.०५.००९
(०२.०५.००९अब्) कदली कन्दली चीनश्चमूरुप्रियकावपि ।
(०२.०५.००९च्द्) समूरुश्चेति हरिणा अमी अजिनयोनयः ॥ ९ ॥
लिङ्ग-सूरी - AK.02.05.008-9
ऐणेयमिति—एण्या इदम् ऐणेयम् । एणस्येदं चर्माद्यम् ऐणम् । ‘इर्रितोलु मांसमुमोदलयनवानिपेल्लुऽ ॥ ऐणेयमैणं च गिणिलिङ्गे । केन वायुना दल्यते कदली । ‘दल विशरणेऽ । ‘बोल्लिचायमेडचास्लु गलिगि, बलमु तोनुण्डु मृगमुऽ ॥ कन्दानि कन्दतीति कन्दली । ‘कदि आह्वाने रोदने चऽ । तुन्दिलनीलवर्णमृगनाम । चीयते व्याधैः सम्पाद्यत इति चीनः । ‘चिञ् चयनेऽ । श्वेतस्कन्धमृगनाम ॥ चम्यते व्याधैरिति चमूरुः । ‘चमु भक्षणेऽ । पुच्छहीननानावर्णमृगनाम ॥ प्रीयते वातं प्रति प्रियकः । ‘प्रीङ् प्रीतौऽ ‘प्रीञ् तर्पणे कान्तौ चऽ । फाले श्वेतरोमाङ्कमृगनाम ॥ सङ्गतौ उरू अस्येति समूरुः । महाग्रीवकेसरयुतसितमृगनाम ॥ अमी हरिणा अपि अजिनयोनयः चर्मकारणानीत्युच्यन्ते ॥ ८-९ ॥
मल्लि-नाथः - AK.02.05.008-9
ऐणेयं—त्रिषु । एणशब्दो हरिणपर्यायः । ‘एणः कुरङ्गमो रिश्यो वातायुर्हरिणो मृगःऽ इति त्रिकाण्डशेषः (पृ। १२, श्लो। २६७) । एण्याश्चर्मादिकमैणेयम् । एणस्य तु ऐणं स्यात् । द्वे त्रिलिङ्गे । कदली—अजिनयोनयः । कदल्यादयः षडप्यमी हरिणविशेषाः । प्रावरणाद्युपयुक्तचर्मकारणानि । कदलीकन्दलीशब्दौ स्त्रीलिङ्गौ । अथ कदल्यां कन्दल्यां क्रमतो विदुः । कदलीनं कन्दलीनमिति । कदली कन्दलीत्येतौ नान्तौ पुंलिङ्गाविति केचित् । शेषे—
‘कदली तु बिले शेते मृदुरूक्षैश्च कर्बुरैः ।
नीलाग्रैर्लोमभिर्युक्ता सा विंशत्यङ्गुलायता ॥
कदली तु श्यामवर्णा हस्तायामा महोदरी ।
चीनस्तु चीनसी स्त्रीत्वे कपोता त्रिंशदङ्गुला ॥
चनका तु चमूरुर्ना सहोऽपि त्रिविधः स्मृतः ।
सितः कृष्णश्चित्ररोमेत्यस्य पुच्छोऽस्ति वा न वा ॥
प्रियको रोमभिर्युक्तो मृदुरक्तासितैर्घनैः ।
समूना स्त्री समूरुर्ना महाग्रीवसमूरुकौ ॥
सितके सरवान् वेगी स्निग्धश्च मृदुरोमवान् ।
गोधूमाभः स्निग्धवर्ण इति स द्विविधो मतःऽ ॥ ८-९ ॥
%% प्। ०२.३३२
मूलम् - ०२.०५.०१०
(०२.०५.०१०अब्) कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।
(०२.०५.०१०च्द्) गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥
लिङ्ग-सूरी - AK.02.05.010
कृष्णसार इति—कृष्णेन सारः शबलः कृष्णसारः । कृष्णशुक्लरोमवत्प्रदेशयुगयुक्तमृगनाम । ‘नल्ल कप्पुन विचित्रमैन यर्रिऽ ॥ रौति प्रायेणेति रुरुः । ‘रु शब्देऽ । ‘नल्लचारलदुप्पिऽ ॥ न्यञ्चत्यधोमुखतया न्यङ्कुः । ‘अञ्चु गतिपूजनयोःऽ । ‘जिङ्कपोतुऽ ॥ रमते सजातीयमृगेषु रङ्कुः । ‘रमु क्रीडायाम्ऽ । अत्यन्तश्वेतमृगनाम ॥ शयनादिना शं सुखं वृणोतीति शम्बरः । ‘वृञ् वरणेऽ । रक्तवर्णह्रस्वन्यङ्कुनाम ॥ रोहिषाख्यतृणे भवः रौहिषः । ‘कोण्डगोर्रेऽ ॥ गोकर्णसदृशकर्णत्वाद् गोकर्णः । ‘कणिति युनुमृगमुऽ ॥ पृषता बिन्दवोऽस्य सन्तीति पृषतः । ‘दुप्पिऽ ॥ सरलमतित्वाद् व्याधमेतीत्येणः । ‘इण् गतौऽ । सर्वतोनीलमृगनाम ॥ इयर्ति वनम् ऋश्यः । ‘ऋ गतौऽ । ‘मनुं बोतुऽ ॥ रक्तवर्णत्वेन रोहितः । ‘केसरि यनु मृगमुऽ ॥ चमति तृणं चमरः । ‘चमु अदनेऽ । ‘चमरीमृगमुऽ ॥ एतानि प्रत्येकं मृगविशेषनामानि ॥ १० ॥
मल्लि-नाथः - AK.02.05.010
कृष्णसारः—मृगाः । इह मृगशब्देन इतरे च वनगोचराश्चतुष्पादो विवक्षिताः । न तु हरिणजातीया एव । कृष्णसारादयश्चमरान्ता मृगभेदा भवन्ति । रौहिष इति केचित् । शेषे—
‘कृष्णसारः कृष्णशारः कृष्णश्चैव निरञ्जनः ।
यज्ञार्हो बिन्दुयुक्तस्तु महाकृष्णमृगो रुरुः ॥
न्यङ्कुस्तु हरिणाकारः त्रिकोणविपुलोन्नतः ।
रङ्कुः स यद्रोमकृतं राङ्कवं वस्त्रमुच्यते ॥
शम्बरः स्वल्पहरिणो रोहिषो गर्दभाकृतिः ।
गोकर्णः स भवेद्यस्य गोकर्णप्रतिमे श्रुती ॥
स्थविष्ठैर्बिन्दुभिः शुक्लरोमजैश्चित्रितः शतैः ।
हरिणः पृषतः प्रोक्त एणः स्यात् कृष्णवर्णकः ॥
ऋश्यः स्त्री यस्य रोहित् स्यादरुणो वर्णतश्च यः ।
कृष्णो धवात्री(?) शृङ्गश्च तुरङ्गमसमाकृतिः ॥
रोहितो रक्तवर्णः स्यात् पृष्ठतः श्वेतराजिमान् ।
चमरो धवलः कृष्णश्चित्रो वा महिषाकृतिः ।
हरिणश्च कुरङ्गश्च राजीवो मृगमातृका ॥ऽ
हरिणकुरङ्गशब्दौ मृगसामान्यत्वेनोक्तावप्यत्र विशेषवचनत्वेन कथितौ ॥ १० ॥
[[०२.३३४]]
मूलम् - ०२.०५.०११
(०२.०५.०११अब्) गन्धर्वः शरभो रामः सृमरो गवयः शशः ।
(०२.०५.०११च्द्) इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
लिङ्ग-सूरी - AK.02.05.011
गन्धर्व इति—गन्धयत्यर्दयतीति गन्धर्वः । ‘गन्ध अर्दनेऽ । तुन्दिलमृगनाम ॥ हिंस्रत्वात् शरवद् भातीति शरभः । ‘भा दीप्तौऽ । शृणाति सिंहादिकमिति वा । ‘शॄ हिंसायाम्ऽ । अष्टापदमृगनाम ॥ व्याधा अस्मिन् दृष्टे रमन्ते रामः । ‘रमु क्रीडायाम्ऽ । ‘पेद्द दुप्पिऽ ॥ वने सर्वत्र सरतीति सृमरः । ‘सृ गतौऽ । ‘पेद्द सवरवुमृगमुऽ गवते गवयः । ‘गुङ् अव्यक्ते शब्देऽ । गामयते सदृशत्वादिति वा । ‘अय गतौऽ । ‘गुरुपोतुऽ ॥ शशति प्लुतेन गच्छतीति शशः । ‘शश प्लुतगतौऽ । ‘कुन्देलुऽ ॥ इत्यादयो गन्धर्वादयः । मृगेन्द्राद्याः सिंहादिचमरान्ता गवाद्या वक्ष्यमाणमूषकप्रभृति गोपर्यन्ताश्चतुष्पदाः सर्वे च पशुजातयः पशुसञ्ज्ञिकता भवन्ति । पाश्यन्ते दामभिः पशवः । ‘पश बन्धनेऽ ॥ ११ ॥
मल्लि-नाथः - AK.02.05.011
गन्धर्वः—शशः । मृगा इत्यनुवर्तते । हरिणादिशशान्ताश्च मृगविशेषा भवन्ति । ‘गन्धर्वपृषतश्चेति ज्ञेयाः सारङ्गजातयःऽ इति भागुरिः । गवयो रामः सृमरो जाहाकलम्पाकमुकयगन्धर्वा इति मतान्तरबोधनार्थं पृथक्पाठः । शेषे—
‘हरिणस्ताम्र उद्दिष्टः कुरङ्गो हरिणो महान् ।
राजीवस्तु मृगो ज्ञेयो राजभिः परितो वृतः ॥
पृष्ठतश्चन्द्रबिम्बाभो हरिणात् किञ्चिदल्पकः ।
स्वल्पावृत्तोदरारक्ता शशाभा मृगमातृका ॥
गन्धर्वः स्याद्गोलपुच्छः शरभस्तूर्ध्वलोचनः ।
गजादिरष्टपादित्वाद्रामस्तु वृकधोरणः ।
सृमरः स्याद्ब्यालमृगः परुर्ना चमरी न षण् ॥ऽ
षण्डनामैकदेशः षण् । ‘अरण्याय सृमरःऽ (तै। सं। ५। ५। १६। १) इत्यत्र क्षुरे सृमरश्चमर इत्युक्तया महतश्चमरस्य नामानि ।
‘गवयः स्याद्वनगवः शशस्तु मृदुरोमवान् ।
शूलिको लम्बकर्णोऽग्रपल्लवाद्रोमकर्णिकः ॥ऽ
हरिणादीनां यथासम्भवं लक्षणानि नामानि च ॥ इत्यादयो—पशुजातयः । इत्यादयो हरिणगन्धर्वादयः आस्येनानुक्तकुमारीमूकादयः प्रागुक्तसिंहाद्या वक्ष्यमाणगवाद्याश्च पशुत्वव्यञ्जकपुच्छपादचतुष्टयादिमत्त्वेन पशुजातयो भवन्ति । अनुक्तम्—‘नकुलः पिङ्गलःऽ । ‘मुङ्गिऽ । ‘अथ स्याच्चिक्रोडः कालिका स्त्रियाम्ऽ । ‘उडतऽ ॥ ११ ॥
[[०२.३३५]]
मूलम् - ०२.०५.०१२
(०२.०५.०१२अब्) (अधोगन्ता तु खनको वृकः पुन्ध्वज उन्दुरः)
उन्दुरुर्मूषिकोऽप्यारखुर्गिरिका बालमूषिका ।
(०२.०५.०१२च्द्) (चुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका)
सरटः कृकलासः स्यान्मुसली गृहगोधिका ॥ १२ ॥
(०२.०५.०१३अब्) लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः ।
लिङ्ग-सूरी - AK.02.05.012-13
उन्दुरिति—उनत्ति मुखस्पृष्टं मुखस्रावेण सेचयतीति उन्दुरुः । ‘उन्दी क्लेदनेऽ । अन्नादिकं मुष्णातीति मूषिकः । ‘मुष स्तेयेऽ । मूषक इति वा पाठः । स्वाश्रयमाखनतीति आखुः । ‘खनु अवदारणेऽ । मूषिकनामानि ॥ ‘एलुक पेल्लुऽ ॥ गिरति धान्यादिकमिति गिरिका । गीर्यते मार्जारेणेति वा । ‘गॄ निगरणेऽ । बाला चासौ मूषिका च बालमूषिका । ‘चिट्टेलुकपेल्लुऽ ॥ (छ्यतीति चुचुन्दरी । ‘छो छेदनेऽ । गन्धवती मूषी गन्धमूषी । ‘चुञ्चु पेल्लुऽ ॥ दीर्घो देहोऽस्या इति दीर्घदेही । मुष्णाति धान्यादिकं मूषिका । ‘पन्दिकोक्क पेल्लुऽ) सरति प्रायेणेति सरटः । ‘सृ गतौऽ । कृकेन शिरोऽग्रेण लसतीति कृकलासः । ‘लस श्लेषणक्रीडनयोःऽ । ‘तोण्डपेल्लुऽ ॥ मुस्यति खण्डयति क्रिमीनिति मुसली । ‘मुस खण्डनेऽ । गृहे गोधिकेव तिष्ठतीति गृहगोधिका ॥ ‘बल्लिपेल्लुऽ ॥ लूयते छिद्यतेऽस्यास्तन्तुरिति लूता । ‘लूञ् छेदनेऽ । तन्तून वयतीति तन्तुवायः । ‘वेञ तन्तुसन्तानेऽ । ऊर्णं नाभौ यस्य ऊर्णनाभः । तन्तुमवलम्ब्य मर्कटवदारोहणात् मर्कटः । ऊर्णनाभनामानि ॥ ‘साले पुरुगु पेल्लुऽ ॥ १२ ॥
मल्लि-नाथः - AK.02.05.012-13
उन्दुरुः—आखुः । उन्दुर इत्यकारान्तश्चास्ति । मूषक इत्यकारमध्यस्त्वसाधुः । शेषे—‘गर्ताटः खानकः खनःऽ । खनकशब्दोऽप्यस्ति । तथा च माधवः—‘उन्दुरुर्मूषिकः काण्ड आखुश्च खनकः खनःऽ इति । मूषिकनामानि । ‘येलुकऽ । ‘पन्दिकोक्कुन्रुऽ ॥ ‘चुचुन्दरी तु गन्धाखुःऽ । (वैज। पृ। १५०, श्लो। ३२) । ‘चुन्दरी राजपुत्रीतिऽ कोशान्तरम् । ‘चुञ्चुऽ । गीरिका बालमूषिका । ‘चिट्टेलुकऽ ॥ सरटः—स्यात् । शेषे—‘शयानश्च शयण्डकः । शयश्च जाहको गात्रसङ्कोची प्रतिसूर्यकःऽ । सरटनामानि । ‘कृकलासः प्रतिरविः शयानः सरटः शयःऽ इति वैजयन्ती (पृ। १५०, श्लो। २८) । ‘तोण्डऽ ॥ ‘कामरूपिणि तत्र स्याच्चित्रबिम्बश्च बिम्बकःऽ । ‘उसरवेल्लिऽ । ‘कृकवाकुर्दुष्प्रभे स्यात्ऽ । ‘मैलचायतोण्डऽ ॥ मुसली—गोधिका । शेषे—‘ज्येष्ठा पल्ली कुड्यमत्स्या दैवज्ञा नदनी तथा । माणिक्याऽ । पल्लीनामानि ॥ ‘बल्लिऽ ॥ सा तु शुक्ला कुण्डृणाची सुराजिका । कुण्डृणं कुड्यम् । तत्राञ्चतीति कुण्डृणाची । शुक्लपल्लीनामनी । ‘तेल्लबल्लिऽ ॥ हालाहलस्तु सृजया ब्राह्मणी रक्तपुच्छिका । वैजयन्त्यां च (पृ। १५०, श्लो। २९) ‘हालाहलस्त्वञ्जनिका ब्राह्मर्णा रक्तपुच्छिकाऽ इति । हालाहलनामानि । ‘भिण्डऽ ॥ लूता—समाः । ऊर्णनाभिरपि । ‘तन्तुवायोर्णनाभोर्णनाभयः शलकोऽपि चऽ । इति रभसकोशात् । शेषे—
‘मूषिका लूतिका तन्तुनाभोर्णाबहिजालिकाः ।
जालकृत्क्रिमिदिग्बन्धाः ॥ऽ
लूतानामानि । ‘सालेपुरुगुऽ । ‘लूतापट्टोऽस्य जालकम्ऽ । आशाबन्धोऽस्येति पाठान्तरम् । ‘सालेपट्टऽ ॥ १२ ॥
[[२.३३६]]
(०२.०५.०१३च्द्) नीलङ्गुस्तु क्रिमिः कर्णजलौका शतपद्युभे ॥ १३ ॥
मूलम् - ०२.०५.०१४
(०२.०५.०१४अब्) वृश्चिकः शूककीटः स्यादलिद्रोणौ तु वृश्चिके ।
लिङ्ग-सूरी - AK.02.05.013-14
नीलङ्गुरिति—नीलति मन्दं नीलङ्गुः । ‘नील वर्णगत्योःऽ । अयं शब्दो देशीयः । मन्दं क्रामतीति क्रिमिः । ‘क्रमु पादविक्षेपेऽ । क्रिमिनामनी । ‘सामान्यमुगा पुरुगु पेल्लुऽ ॥ कर्णे जलौका इव कर्णजलौका । शतम् अपरिमितानि पदानि सन्त्यस्याः शतपदी । ‘जेर्रिपेल्लुऽ ॥ वृश्चति शूकाग्रेण वृश्चिकः । ‘ओव्रश्चू छेदनेऽ । शूकयुक्तः कीटः शूककीटः । ‘नल्ल तेऴुऽ ॥ अलमनर्थोऽस्मादित्यली । नकारान्तः । अलिरिति वा पाठः । द्रुणति हिनस्तीति द्रोणः । ‘द्रुण हिंसागतिकौटिल्येषुऽ । वृश्चतीति वृश्चिकः । ‘एर्र तेऴुपेल्लुऽ ॥ १३ ॥ कीटकप्रकरणं समाप्तम् ॥
मल्लि-नाथः - AK.02.05.013-14
नीलङ्गुः—कृमिः । शेषे—‘नीले द्रुकीटे पुकस्तथाऽ । नीलवर्णे द्रुकीटे नीलङ्गुकृमिपुलकशब्दा वर्तन्ते । नीलङ्गुर्वृक्षजः कीटो नीलवर्ण इति वेदभाष्ये । नीलङ्गुकृमिशब्दौ कीटमात्रनामनी इति केचित् । ‘द्रुमामये भवेत् पुंसि कीटे च क्रिमिवत्कृमिःऽ इति रभसकोशः । ‘दुर्दशो मत्कुणेऽ । ‘नल्लिऽ । ‘काष्ठभवे ज्ञेयः क्रिमौ घुणःऽ । काष्ठभक्षकक्रिमिनाम । ‘पिपीलिका द्वयोर्लूताऽ । पिपीलिकनामनी । ‘चीमऽ ॥ ‘महान् ब्राह्मी स पिङ्गलःऽ । स पिपीलिकः महान् पिङ्गलश्च यदि ब्राह्मीत्युच्यते । ‘गोप्पयर्रचीमऽ ॥ ‘महान् कृष्ण उलङ्गवःऽ । महान् कृष्णश्च स यदि उलङ्गव इत्युच्यते । ‘कण्ड्रचिमऽ ॥ ‘या तु स्वल्पा कृष्णवर्णा सा मर्कटपिपीलिकाऽ । ‘चिन्ननल्लचीमऽ ॥ ‘कृष्णा सूक्ष्मा च चेत् सान्या जातिः कन्यापिपीलिकाऽ । ‘मिञ्चसन्नपुनल्लचीमऽ ॥ ‘वम्रो वम्र्युपदीकोपजिह्विकास्त्र्युदेहिकाऽ । रूपभेदेन वम्रः पुंलिङ्गः । वम्र्यादयः पञ्च स्त्रीलिङ्गाः । स्त्यायति सङ्घातयति मृदं स्त्री । वम्रिकनामानि । ‘चदलुपुरुगुऽ ।
‘अनेकसुषिरोपेतं कान्तं स्त्रीमुखपङ्कजम् ।
सुसिद्धं त्र्यक्षरोपेतं चक्षुःश्रोत्रमनोहरम्ऽ ॥
इति प्रयोगः । ‘तत्प्राया शिथिली पिङ्गवर्णाऽ । उपदेहिकासदृशी पिङ्गवर्णा शिथिलीत्युच्यते । ‘चेकोणुजुऽ । ‘अथ क्रिमयोऽणवः । भवेयुः कीकसाःऽ । पुलकाः इति केचित् । ‘अतिसूक्ष्ममुलैन पुरुगुलुऽ ॥ कर्णजलूका—उभे । जलौका इति सान्त इति केचित् । ‘आढा शतपदी कर्णजलूका ढारिकापि चऽ इति वैजयन्ती (पृ। १५०, श्लो। ३३) । शतपदीनामानि । ‘जेर्रिन्निचेविचोरुपामुन्नुऽ ॥ वृश्चिकः—कीटः स्यात् । कम्बलकीटनामनी । ‘गोङ्गलपुरुगुऽ । भ्रमरभेद इति केचित् । अलिद्रूणौ—वृश्चिके । ‘भृङ्गवृश्चिकयोरलिःऽ इति रभसकोशादलिरिकारान्तः । अलमस्यास्तीति अली । ‘अलं वृश्चिकलाङ्गूलम्ऽ इति हलायुधः (अ। मा। ३। २३) । अलनमालः, तद्वानालीति केचित् । ‘वृश्चिके त्वाल्यलिद्रूणा मलं तत्पुच्छकण्टकःऽ इति वैजयन्ती (पृ। १५०, श्लो। ३२) । ‘द्रुणो वृश्चिकभृङ्गयोःऽ इति विश्वप्रकाशिकापाठात् (पृ। ४७, श्लो। ६) ह्रस्वादिरपि । वृश्चिकनामानि । ‘तेलुऽ ॥ १३ ॥
[[०२.३३८]]
(०२.०५.०१४च्द्) पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥
मूलम् - ०२.०५.०१५
(०२.०५.०१५अब्) पत्री श्येन उलूके तु वायसारातिपेचकौ ।
(दिवान्धः कौशिको घूको दिवाभीतो निशाटनः)
लिङ्ग-सूरी - AK.02.05.014-15
अथ पक्षिप्रकरणमारभ्यते । पारावत इति—पारेण बलेनावतीति पारावतः । ‘अव रक्षणादौऽ । परमवतीति परावतः । ‘अव गतौऽ । शीघ्रगामी खगादिः तस्यायमिति पारावतो वा । कलो रवोऽस्येति कलरवः । शीघ्रगामित्वेन कस्य वायोः पोत इव कपोतः । ‘पावुरमुपेल्लु, गुव्वपेल्लुऽ ॥ शशानत्तीति शशादनः । ‘अद भक्षणेऽ । प्रशस्तं पत्रं पक्षोऽस्यास्तीति पत्री । श्यायते आशु गच्छतीति श्येनः । ‘श्यैङ् गतौऽ । श्येननामानि । ‘डेगपेल्लुऽ ॥ उलति नेत्रज्योतिषा दहति काकानिति उलूकः । ‘उल आवरणेऽ । धातूनामनेकार्थत्वाद् अत्र दरनार्थो ग्राह्यः । वायसानामरातिः वायसारातिः । स्वनेत्रज्योतिषा वायसान् पचति हन्तीति पेचकः । ‘डुपचष् पाकेऽ । उलूकनामानिः ‘गूबपेल्लुऽ ॥ १४ ॥
मल्लि-नाथः - AK.02.05.014-15
पारावतः कलरवः । शेषे—‘पाटलाङ्घ्रिश्च रक्तदृक् । मदोत्कटो बालवत्सः कपोतःऽ । पारावतादिकपोतान्ताः शब्दाः पारावते वर्तन्त इति टीकासर्वस्वकारेण व्याख्यातम् (पृ। २२८-९) । तथा च माधवः—‘पारावतः कलरवः कपोतो रक्तलोचनःऽ इति । केचित्तु पारावतादिपञ्चकं पारावते बालवत्सादिद्वयं कपोते वर्तते इति व्याचक्षते । तथा च वैजयन्त्याम् (पृ। २७, श्लो। १४) ‘पारावतः कलरवो रक्तदृष्टिर्मदोत्कटःऽ इत्युक्त्वानन्तरं ‘काकस्तु द्विक एकाक्षःऽ इत्यादिना काकनामान्यनुशिष्य, ‘कपोतो बालवत्सः स्यात्ऽ इत्युक्तम् । अत एव—
‘प्रच्छाद्य पुष्पपटमेष महान्तमन्त-
रावर्तिभिर्गृहकपोतशिरोधराभैः ।ऽ
इति माघकाव्ये (४। ५२) गृहेण कपोतो विशेषितः । तस्मात् पारावतादिपञ्चकं गृहकपोतनामानि । ‘पाविरमुऽ । बालवत्सादिद्वयं वनकपोतनामनी । ‘गुव्वऽ ॥ अथ शशादनः—श्येनः । अत्र वर्तुलाक्षशब्दश्च । श्येननामानि । ‘डेग । सानुवमुन्नुऽ । उलूकास्तु—पेचकौ । शेषे—
‘घूकः कोण्टो दिवाभीतः कौशिको हरिलोचनः ।
नक्तञ्चरो घर्घरको निशादर्शी बहुस्वनः ।
महापक्षी च ॥ऽ
उलूकनामानि । ‘गूवऽ । ‘कृष्णोऽसौ नक्तकः कृतमालकःऽ । (वैज। पृ। २७, श्लो। २३) । कृष्णोलूकनामानि । ‘नल्लनिगूबऽ ॥ १४ ॥
[[०२.३३९]]
(०२.०५.०१५च्द्) व्याघ्राटः स्याद् भरद्वाजः खञ्जरीटस्तु खञ्जनः ॥ १५ ॥
मूलम् - ०२.०५.०१६
(०२.०५.०१६अब्) लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः ।
लिङ्ग-सूरी - AK.02.05.015-16
व्याघ्राट इति—व्याजिघ्रन्नटतीति व्याघ्राटः । ‘अट गतौऽ । भरद्वाजमुनिवत् कणवृत्तित्वात् भरद्वाजः । व्याघ्राटनामनी । ‘एट्रिन्तपेरुऽ ॥ खमाकाशम् अञ्जसा एटतीति खञ्जरीटः । ‘इट किट गतौऽ । खञ्जनश्च । खञ्जरीटनामनी । ‘रुप्पुपुलुगुऽ ॥ लोहवर्णः पृष्ठोऽस्य लोहपृष्ठः । कङ्कते गच्छतीतस्तत इति कङ्कः । ‘ककि गतौऽ । कङ्कनामनी । ‘मल्लेजेगुरुऽ ॥ चषत्येकाकी भक्षयतीति चाषः । ‘चष भक्षणेऽ । किकीति दीव्यति वाश्यत इति किकीदिविः । ‘दिवु क्रीडादौऽ । धातूनामनेकार्थत्वात् । किकी दिविरिति वा पदच्छेदः । तदा किकी नान्तः । दिविशब्दः कविशब्दवद् इकारान्तः । चाषनामनी । ‘पालपक्षिपेल्लुऽ ॥ १५ ॥
मल्लि-नाथः - AK.02.05.015-16
व्याघ्राटः—भरद्वाजः । शेषे—‘क्षिप्रश्येनः सुपर्णकः । पैङ्गराजश्चाटकैरःऽ । भरद्वाजपक्षिनामानि । ‘एद्रिन्तऽ ॥ खञ्जरीटः—खञ्जनः । रसरत्नाकरे—
‘खञ्जरीटं सजीवं तु गृहीत्वा फाल्गुने क्षिपेत् ।
पञ्जरे रक्षयेत्तावद्यावद्भाद्रपदो भवेत् ॥
तदा स पञ्चरोऽदृश्यो जायते नात्र संशयः ।
खञ्जरीटशिखा ग्राह्या हस्तस्था दृश्यकारिणी ॥ऽ
इत्यदृश्यकरणप्रकरणे । शेषे—मिथुनी चञ्चलश्च । चटकविशेषस्य नामानि । ‘मन्दपिचुकऽ । ‘अथ कृष्णोऽस्मिन् कृष्णवक्षसिऽ । कृष्णवक्षस्यस्मिन् कृष्णः स्यात् । ‘नल्लनिपोट्ट मलमन्दपिचुकऽ । ‘गोलत्तिका खञ्जरीटी शार्ङ्गकी सा च पिप्पकाऽ । तज्जातिस्त्रीनामानि । ‘अण्डमन्दपिचुकऽ । लोकपृष्ठः—स्यात् । शेषे—‘दीर्घपात् कमलच्छदः । पर्कटः कर्कटस्कन्धोऽपिऽ । कङ्कनामानि । ‘राम्बुलुगुऽ ॥ अथ चाषः किकीदिविः । ‘चाषो राजविहङ्गमःऽ इति वैजयन्ती (पृ। २८, श्लो। २९) । ‘इक्षुपक्षिभिदोश्चासःऽ । इति रभसकोशे दन्त्यान्तेषु पाठाच्चासोऽपि । किकी नान्तः, दिविरिदन्तः, नामद्वयमिति केचित् । ‘किकिदीविश्चाषः स्यात्ऽ इति रत्नकोशपाठात् तृतीयवर्णदीर्घोऽपि । शेषे—‘मणिकण्ठः स्वर्णचूडश्चित्रवालश्च राजविःऽ । चाषनामानि । ‘पालगुम्मऽ ॥ १५ ॥
[[०२.३४०]]
(०२.०५.०१६च्द्) कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः ॥ १६ ॥
मूलम् - ०२.०५.०१७
(०२.०५.०१७अब्) दार्वाघाटोऽथ सारङ्गः स्तोककश्चातकः समाः ।
लिङ्ग-सूरी - AK.02.05.016-17
कलिङ्ग इति—के शिरसि लिङ्गं शिखारूपमस्यास्तीति कलिङ्गः । भृङ्गवर्णसाम्याद् भृङ्गः । धूम्येवाटति लौहित्यमिश्रकार्ष्ण्ययोगादिति धूम्याटः । ‘अट पट गतौऽ । कलिङ्गपक्षिनामानि । ‘कूङ्कटिमूङ्गयनुपक्षिपेल्लुऽ ॥ बहुपक्षत्वात् शतपत्रकः । चञ्चुना दारु आहन्तीति दार्वाघाटः । ‘हन हिंसागत्योःऽ । दार्वाघाटनामनी । ‘बेग्गुरुपुलुगुऽ ॥ चातकान्तरैः सहारङ्गति सञ्चरत् इति सारङ्गः । ‘रगि गतौऽ । स्तोकं मन्दं कायतीति स्तोककः । ‘कै शब्देऽ । चतते चलवर्षबिन्दून् चातकः । ‘चते याचनेऽ । चातकपक्षिनामानि ॥ ‘वानकोयलपेल्लु (चातकमु)ऽ ॥ १६ ॥
मल्लि-नाथः - AK.02.05.016-17
कलिङ्ग—धूम्याटाः । शेषे—‘धूम्राटो धूम्र आटकः । मान्धीरो वागुदश्च स्यात्ऽ । कलिङ्गनामानि । ‘कूङ्कटामूगऽ । ‘स तु मान्धीलवो महान् । बुद्धिमान् राजभृङ्गश्चऽ । ‘पेद्दकूङ्कटमूगऽ ॥ अथ स्यात्—दार्वाघाटः । द्रुमकुट्टशब्दश्चात्र । दार्वाघाटनामानि । ‘षड्रङ्गिपिट्टऽ ॥ अथ सारङ्गः—समाः । शेषे—‘पौरेन्द्रश्चाम्बुजोऽनम्बुर्वर्षाम्भःपारणव्रतःऽ । चातकनामानि । ‘वानकोकिलऽ ॥ १६ ॥
[[०२.३४१]]
(०२.०५.०१७च्द्) कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥
(०२.०५.०-१८अब्) चटकः कलविङ्कः स्यात् तस्य स्त्री चटका तयोः ।
(०२.०५.०१८च्द्) पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव हि ॥ १८ ॥
लिङ्ग-सूरी - AK.02.05.017-18
कृकवाकुरिति—कृकेण शिरोऽग्रेण वक्ति कृकवाकुः । ‘वच परिभाषणेऽ । ताम्रवर्णा चूडास्यास्तीति ताम्रचूडः । कुकु इति शब्दमुच्चारयन् कुटति वक्रीभवतीति कुक्कुटः । ‘कुट कौटिल्येऽ । चरणमेवायुधं यस्य सः चरणायुधः । कुक्कुटनामानि । ‘कोडि पेल्लुऽ ॥ चटति तुण्डेन धान्यादिकमिति चटकः । ‘चट स्फुट भेदनेऽ । कं शिरः आनम्य तुण्डेन कुक्षिं लुनातीति कलविङ्कः । ‘लुञ् छेदनेऽ । चटकनामनी । ‘पिच्चुकपेल्लुऽ ॥ चटकशब्दव्युत्पत्तिवत् चटकाशब्दव्युत्पत्तिः । ‘आण्डुपिच्चुकपेल्लुऽ ॥ तयोश्चटकाचटकयोः पुमपत्यं पुरुषापत्यं चाटकैरः । ‘पिच्चुकलयोक्कमोगपिल्लपेरुऽ ॥ तयोश्चटकयोः स्त्र्यपत्यं चटका । ‘आण्डुपिच्चुकपिल्लपेरुऽ ॥ १७-१८ ॥
मल्लि-नाथः - AK.02.05.017-18
कृकवाकुः—चरणायुधः । शेषे—
‘शिखण्डिको विवृत्ताक्षो दीर्घवाग्दक्ष आरणिः
ज्ञानी कुमारोपवाहः कालज्ञः शिखिचूलिकौ ॥ऽ
कुक्कुटनामानि । ‘मयूरश्चटकः शौण्डः कीरीटी नखरायुधःऽ । एतानि च । ‘कोडिऽ ॥ चटकः—स्यात् । शेषे—
‘चटाको वर आटकः ।
बलिभुग् लङ्घनगतिः सेव्यस्तिलककण्टकः ॥ऽ
चटकमात्रनामानि ॥ शेषे—कलविङ्कस्त्वसौ पीतो मुण्डःऽ । असौ कलविङ्कः पीतश्चेन्मुण्ड इत्युच्यते । ‘पच्चनिपिचुकऽ ॥
‘श्यामा तु पोतकी ।
देवी वराही शकुनिः कुमारी चटकोत्तमा ॥
ब्रह्मपुत्री पाण्डविका कृष्णिका सितपक्षिणी ।
धनुर्धरी पान्थमाता ॥ऽ
असौ चटकजातिः श्यामवर्णा चेत् पोतक्यादिशब्दैरुच्यते । श्यामशब्दवाच्या च । तदुक्तं वसन्तराजीयाख्ये शकुनग्रन्थे—
‘श्यामा वराही शकुनेः कुमारी दुर्गाथ देवी चटका तथोत्तमा ।
त्वं पोतकी पाण्डविका त्वमेव त्वं कृष्णिका त्वं सितपक्षिणी च ।
त्वं ब्रह्मपुत्री शकुनैकदेवी धनुर्धरी पान्थसमूहमाता ॥ऽ
इति । तल्लक्षणं च तत्रैवोक्तम्—
‘ग्राम्येण तुल्यश्चटकेन नीलो योऽसौ पुमान् पाण्डुरधर्मयुग्मः ।
लघ्वी ततो धूमनिभा च नारी तत्पोतकी युग्ममुपाहरन्ती ॥ऽ
इति । एते शब्दाः पुमभिधानेऽपि स्त्रीलिङ्गा एव । ‘नल्लपिचुकऽ ॥ तस्य—चटका । अजादित्वाट्टापि इत्वाभावः । ‘अण्डपिचुकऽ ॥ तयोः—चाटकैरः । चटकायाश्चटकस्य वा पुंरूपेऽपत्ये चाटकैरशब्दो वर्तते । ‘मोगपिल्लऽ ॥ स्त्र्यपत्ये—हि । चटकायाश्चटकस्य वा स्त्रीरूपेऽपत्ये चटकाशब्द एव । ‘अण्डपिल्लऽ ॥ १७-१८ ॥
[[०२.३४२]]
मूलम् - ०२.०५.०१९
(०२.०५.०१९अब्) कर्करेटुः करेटुः स्यात् कृकणक्रकरौ समौ ।
(०२.०५.०१९च्द्) वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९ ॥
लिङ्ग-सूरी - AK.02.05.019
कर्करेटुरिति—कर्क इति रेटतीति कर्करेटुः । कुत्सितं रेटतीति करेटुः । ‘रेट्ट परिभाषणेऽ । कर्कः सिताश्व इव रेटतीती वा । ‘पेट्टकोक्केरपेल्लुऽ ॥ कृकं शिरोऽग्रं पार्श्वकण्डूयनाय पुनः पुनर्नयतीति कृकणः । ‘णीञ् प्रापणेऽ । क्रेति शब्दं रोति क्रकरः । ‘डुकृञ् करणेऽ । ‘कोक्केरपेल्लुऽ ॥ वनं प्रियमस्य वनप्रियः । परया जात्या भृतः पोषितः परभृतः । कोकते सुस्वरेण चित्तं गृह्णातीति कोकिलः । ‘कुक वृक आदानेऽ । अपि कायतीति पिकः । ‘कै गै शब्देऽ । पिधानशब्दवदकारलोपः । कोकिलनामानि ॥ ‘कोयलपेल्लुऽ ॥ १९ ॥
मल्लि-नाथः - AK.02.05.019
कर्करेटुः—स्यात् । ‘पेद्दकक्केरऽ । कृकण—समौ । ‘पिन्नकक्केरऽ ॥ वनप्रियः—पिक इत्यपि । शेषे ‘कलकण्ठः काकपुष्टः ताम्राक्षो मधुवागपिऽ । कोकिलस्य नामानि । ‘कोकिलऽ ॥ १९ ॥
[[०२.३४३]]
मूलम् - ०२.०५.०२०
(०२.०५.०२०अब्) काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ।
(०२.०५.०२०च्द्) ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ॥ २० ॥
(चिरजीवी चैकदृष्टिर्मौकलिः पिकवर्धनः)
लिङ्ग-सूरी - AK.02.05.020
काक इति—का इति कायति काकः । ‘कै शब्देऽ । केति रटतीति करटः । ‘रट परिभाषणेऽ । न रिष्यते रोगैरित्यरिष्टः । ‘रिष हिंसायाम्ऽ । बलिना पुष्टो बलिपुष्टः । ‘पुष पृष्टौऽ । सकृदेव प्रजा सन्ततिरस्येति सकृत्प्रजः । ध्वाङ्क्षति मांसमभिकाङ्क्षतीति ध्वाङ्क्षः । ‘ध्वाक्षि काङ्क्षायाम्ऽ । आत्मानमेव घोषयति काकेति आत्मघोषः । ‘घुषिर् विशब्दनेऽ । परजातिं बिभर्तीति परभृत् । ‘डुभृञ् धारणपोषणयोःऽ । बलिं भुङ्क्ते बलिभुक् । ‘भुज पालनाभ्यवहारयोःऽ । वय एव वायसः । (चिरं जीवतीति चिरजीवी । एकैव दृष्टिरस्य एकदृष्टिः । मूकलस्य यमस्यायं मौकलिः । पिकं वर्धयति पिकवर्धनः ।) काकनामानि । ‘काकिपेल्लुऽ ॥ २० ॥
मल्लि-नाथः - AK.02.05.020
काके तु—वायसा अपि । शेषे—
‘दिवाटन उलूकारिर्नाडीजङ्घोऽप्रहृष्टकः ।
धूलीजङ्घोऽन्यवापश्च चिरञ्जीव्यन्यपुट् द्विकः ।
मौकलिश्च महानेमिरेकाक्षः कण्टकः कुणः ॥ऽ
काकनामानि । ‘काकिऽ ॥ २० ॥
[[०२.३४४]]
मूलम् - ०२.०५.०२१
(०२.०५.०२१अब्) द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः ।
(०२.०५.०२१च्द्) आतापिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥
(०२.०५.०२२अब्) क्रुङ् क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः ।
लिङ्ग-सूरी - AK.02.05.021-22
द्रोणकाक इति—द्रुणतीति द्रोणः । द्रोणश्चासौ काकश्च द्रोणकाकः । ‘द्रुण हिंसागतिकौटिल्येषुऽ । काकेषु कोलति स्थूलो भवतीति काकोलः । ‘कुल संस्त्यानेऽ । काकोलनामनी । ‘मालकाकिऽ ॥ द्वितीयं तृतीयं वा रूपं वहतीति दित्यवाट् । दित्यवाहः पक्ष्यादेरपत्यं दात्यूहः । दान्तिं प्लवनं ऊहत इति वा । ‘ऊह वितर्केऽ । कालवर्णः कण्ठेऽस्येति कालकण्ठकः । दात्यूहनामनी । ‘कुड्कुरुगुड्डङ्गिपिट्टपेल्लु भरतपक्षिऽ ॥ आतापयति परजातिमिति आतापी । नकारान्तः । ‘तप सन्तापेऽ । चिल्लति परजातिमिति चिल्लः । ‘चिल्ल शैथिल्ये भावकरणे चऽ । ‘पिन्न ग्रद्दपेल्लु जेमुडु काकिऽ ॥ दक्षते शीघ्रं गच्छतीति दक्षाय्यः । तस्यापत्यं दाक्षाय्यः । ‘दक्ष वृद्धौ शीघ्रार्थे चऽ । गृध्यति मांसं सर्वदा काङ्क्षतीति गृध्रः । ‘गृधु अभिकाङ्क्षायाम्ऽ । गृध्रनामनी । ‘ग्रद्दपेल्लुऽ ॥ कीति शब्दं रातीति कीरः । ‘रा आदानेऽ । शोभते लोहिततुण्डेन हरितवर्णदेहेनेति च शुकः । ‘शुभ दीप्तौऽ । शुकतीति वा । ‘शुक गतौऽ । शुकनामनी । ‘चिलुकपेल्लुऽ ॥ क्रुञ्चति क्रुङ्ङ् । ‘क्रुञ्च कौटिल्याल्पीभावयोःऽ । क्रौञ्चश्च । क्रौञ्चनामनी । ‘कोङ्गपेल्लुऽ ॥ वक्तीति बकः । ‘वच परिभाषणेऽ । वबयोरभेदः । वङ्कते कुटिलो भवतीति वा । ‘वकि कौटिल्ये गतौ चऽ । के जले ह्वयति मत्स्यानिति कह्वः । ‘ह्वेञ् स्पर्धायां शब्दे चऽ । ‘वक्कुपुलुगुपेल्लु, वक्कुकोङ्गऽ ॥ सरसि सरःसमीपे भवः सारसः । सारसनामकत्वात् पुष्कराह्वः, पुष्करस्याह्वा अस्येति । सारसनामनी ॥ ‘बेग्गुरुपेल्लुऽ ॥ २१ ॥
मल्लि-नाथः - AK.02.05.021-22
द्रोणकाकः—काकोलः । ‘कृष्णकाकस्तथासुरः । ऐन्द्रिश्च वृद्धकाकेऽ । वृद्धकाकनामानि । ‘मालकाकिऽ । अद्रिभवे वा द्रोणवायसः । तथा च ग्रन्थान्तरे—‘द्रोणकाकस्तु काकालोऽद्रिकाक इति चेष्यतेऽ इति । ‘कोण्डकाकिऽ । ‘धूङ्क्ष्णा तु श्वेतकाकः स्यात्ऽ । ‘तेल्लकाकमुऽ । ‘काकः सामुद्रकः पुनः । कुषीतकः सम्प्रदिष्टःऽ । समुद्रभवः काकः कुषीतक इति सम्प्रदिष्टः । समुद्रकाकनाम ॥ दात्यूहः कालकण्ठकः । शेषे—‘जलरञ्जः कालकण्ठःऽ । जलचरपक्षिणो नामनी । ‘कुङ्करगुडेङ्गऽ । ‘जलरङ्कुस्तु वञ्जुलःऽ । जलरञ्जभेद एवायम् । तथा च प्रतापः—‘दात्यूहस्तु वञ्जुलः । जलरङ्कुः कालकण्ठः कालकण्टक इत्यपिऽ इत्यभेदविवक्षयोक्तवान् । वैजयन्त्यां तु (पृ। २६, श्लो। ११) दात्यूहपर्यायानुक्त्वा ‘जलरङ्कुस्तु वञ्जुलःऽ इति विशिष्योक्तम् । ततस्तद्भेद एव । ‘हंससाचिः क्षुद्रहंसःऽ । क्षुद्रहंसनाम । ‘चिरिहंसऽ । ‘क्वयिस्तु कुवलायिकःऽ । क्वयिर्हंसजातिरिति वेदभाष्ये । हंसजातिविशेषनामानि ॥ आतापिचिल्लौ आतापी नान्तः । सदा सजातीयकलहकारिणः पक्षिविशेषस्य नामनी । ‘पेग्रद्द चमरुगाकिपेरुन्नुऽ । दाक्षाय्यगृध्रौ । शेषे—‘तत्र सुदर्शनः । दुरदृक् पुरुषव्याघ्रःऽ गृध्रनामानि । ‘ग्रद्दऽ ॥ अथ कीर—समौ । शेषे—‘दण्डस्त्रिकेतुर्मेधावी श्रीमान् वाग्मी फलाशनः । दरणःऽ । कीरनामानि । ‘चिलुकऽ । ‘पोषितशुकः पान्त्र इत्यभिधीयतेऽ । क्षुरे—पान्त्रो गृहशुक इति । ‘पेम्प्पुडु चिलुकऽ । क्रुङ् क्रौञ्चः । ‘क्रौञ्चपक्षिऽ । अथ बकः कह्वः । ‘कोङ्गऽ । ‘बकोटः शुक्लवायसःऽ । बकनामनी ॥ पुष्कराह्वस्तु सारसः । शेषे—‘गोनर्दो लक्ष्मणः कामी दीर्घजङ्घश्च मैथुनीऽ । तदाह प्रतापः—
‘अथ नीलाङ्गः समौ सारसलक्ष्मणौ ।
पुष्कराह्वो दीर्घजङ्घो रक्तनेत्रोऽन्यवल्लभः ॥
दीर्घग्रीवो रक्तगलस्तनतो रक्ततुण्डकः ।
रक्तपादः ॥ऽ
इति । सारसनामानि । ‘पेग्गुरऽ ॥ २१ ॥
[[०२.३४६]]
(०२.०५.०२२च्द्) कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥
मूलम् - ०२.०५.०२३
(०२.०५.०२३अब्) कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ ।
लिङ्ग-सूरी - AK.02.05.022-23
कोक इति—कवते प्रियाविरहाद् रात्रौ कोकः । ‘कुञ् शब्देऽ । चकते तर्पयति प्रियामिति चक्रः । ‘चक तृप्तौऽ । चक्रेण चक्रशब्देनोच्यत इति चक्रवाकः । चक्र इति वाको नाम यस्येति वा । रथाङ्गं चक्रम् । रथाङ्गशब्दोऽस्याह्वय इति रथाङ्गाह्वयः । रथाङ्गाह्वयशब्दो नामास्यास्तीति रथाङ्गाह्वयनामकः । चक्रवाकनामानि । ‘जक्कवपिट्टपेल्लुऽ ॥ कदम्बस्य सजातीयसमूहस्यायं कादम्बः । कलस्वरो हंसः कलहंसः । कलहंसनामनी । ‘लेस्सस्वरमुगलहंसपेरुऽ ॥ उच्चैः क्रोशति उत्क्रोशः । ‘क्रुश आह्वाने रोदने चऽ । कुरत्युच्चैरिति कुररः । ‘कुर शब्देऽ ॥ कुररनामनी । ‘पेन्नडपुलुगुपेल्लुऽ ॥ २२ ॥
मल्लि-नाथः - AK.02.05.022-23
कोकः—नामकः । रथाङ्गं चक्रम् । तद्वाचिनः प्रातिपदिकात् परौ आह्वयनामशब्दौ वाचकत्वेनास्येति रथाङ्गाह्वयनामकः । रथाङ्गाह्वयो रथाङ्गनामेति द्वे नामनी इत्यर्थः । आह्वयनामशब्दयोरेव नियमात् रथाङ्गसञ्ज्ञिक इत्यादि नास्तीत्यवगम्यत इति कामधेनुकारः । अन्ये तु—रथाङ्गस्याह्वयो हूतिस्तत्पर्यायो नामास्येति व्याचक्षते । तथा च माघे (शिशु। ९। १५) ‘हरिहेतिहूतिमिथुनं पततोःऽ इति । केचित् रथाङ्गशब्दाह्वयशब्दपर्याया एते नामान्यस्येति व्याचक्रुः । एतदुक्तं भवति । रथाङ्गाख्यः चक्राह्वः रथचरणनामा इत्यादि । अत्र चक्राङ्गचक्रिरथशब्दाश्च । तथा च प्रतापः—‘अथ चक्राङ्गो रथङ्गाह्वयचक्रिणौऽ इति । ‘चक्रवाको रथः कोकश्चक्रश्चक्राह्वयाह्वयःऽ इति वैजयन्ती (पृ। २६, श्लो। ९) । चक्रवाकनामानि । ‘जक्कुवपिब्बऽ ॥ कादम्बः—स्यात् । ‘कादम्बः कलहंसश्च हंस आधूसरच्छदःऽ इति वैजयन्ती (पृ। २६, श्लो। ८) ।
‘धूम्राभचञ्चुचरणः कलहंसश्च बन्धुरः ।
कादम्बो जालपादः स्यात्ऽ ।
इति प्रतापः । धूम्रवर्णचञ्चुचरणपक्षस्य हंसस्य नामानि ॥ उत्क्रोश—समौ । ‘मत्स्यनाशन उत्क्रोशःऽ इति वैजयन्ती (पृ। २८, श्लो। ३४) । योऽन्तरिक्षे चरन् जलान्तर्वर्तिनं मत्स्यादिकं निपत्यादत्ते तस्य पक्षिविशेषस्य नामनी । ‘लकुमुकिऽ । शारिकानामनी इति केचित् । ‘गोरिङ्कऽ ॥ २२ ॥
[[०२.३४७]]
(०२.०५.०२३च्द्) हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३ ॥
मूलम् - ०२.०५.०२४
(०२.०५.०२४अब्) राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः ।
लिङ्ग-सूरी - AK.02.05.023-24
हंसा इति—हन्ति मनोहरतया गच्छतीति हंसः । ‘हन हिंसागत्योःऽ । श्वेता गरुतः पक्षा अस्येति श्वेतगरुत् । चक्रवत् वृत्तमङ्गमस्येति चक्राङ्गः । मानससरः ओकः स्थानमस्य मानसौकाः । हंसनामानि । ‘सामान्यमुगा हंसलपेल्लुऽ ॥ हंसेषु श्रेष्ठत्वाद् राजहंसः । रक्तचञ्चुपादस्य श्वेतदेहस्य हंसस्य नाम । ‘हंसललो श्रेष्ठमैनदिऽ ॥ २३ ॥
मल्लि-नाथः - AK.02.05.023-24
हंसास्तु—मानसौकसः । शेषे—
‘मरालश्चक्रपक्षश्च नीलाक्षो जालपादकः ।
परिप्लाव्याचिशकवः शङ्कुः सङ्कुश्च धोरणः ॥ऽ
अत्र ज्येष्ठप्रस्थितक्षीराशसब्दाश्च । तथा च वैजयन्त्याम्—(पृ। २६, श्लो। ५-७) ।
‘हंसो मरालो नीलाक्षश्चक्रपक्षः सितच्छदः ।
मानसौकाः परिप्लावी चक्राङ्गो जालपादकः ॥
आचिः शङ्कुः शकुः सङ्कुर्ज्येष्ठः प्रस्थितधोरणौ ।
क्षीराशश्चाप्यसौ राजहंसो रक्तैः पदाननैः ॥ऽ
इति । हंसनामानि ॥ राजहंसाः—सिताः । रक्तचञ्चुचरणविशिष्टास्तदितराङ्गधवला राजहंसा इत्युच्यन्ते ॥ २३ ॥
[[०२.३४७]]
(०२.०५.०२४च्द्) मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः ॥ २४ ॥
मूलम् - ०२.०५.०२५
(०२.०५.०२५अब्) शरारिराटिरातिश्च बलाका बिसकण्ठिका ।
लिङ्ग-सूरी - AK.02.05.024-25
मलिनैरिति—मलिनैः किञ्चिद्धूम्रैश्चञ्चुचरणैः उपलक्षिताः सिताश्च शरीरेण हंसा मल्लिकाक्षा इत्युच्यन्ते । मल्लिकाकुसुमपाण्डुराङ्गत्वात् मल्लिकाक्षाः । ईषन्नीलपादस्य श्वेतहंसस्य नाम । धृतराष्ट्रदेशे भवा धार्तराष्ट्राः । सितेतरैः कृष्णैश्चञ्चुचरणैरुपलक्षिता हंसा धार्तराष्ट्रा इत्युच्यन्ते । अतिनीलचञ्चुपादस्य सितहंसस्य नाम ॥ परजाति शृणातीति शरारिः । ‘शृ हिंसायाम्ऽ । शरं नीरं हिंसां वा ऋच्छतीति वा ।‘ऋ गतौऽ । अटतीतस्ततो गच्छतीत्याटिः । ‘अट पट गतौऽ । अतति सन्ततं गच्छतीत्यातिः । ‘अत सातत्यगमनेऽ । त्रयः पुंलिङ्गा भवन्ति । शरारिनामानि । ‘आण्डेलनुपक्षिपेल्लुऽ ॥ बलेन मेघपङ्क्तिमकति प्राप्नोतीति बलाका । ‘अक अग कुटिलायां गतौऽ । शौक्ल्यात् दैर्घ्याच्च बिसवत् कण्ठोऽस्या इति विसकण्ठिकता । बलाकानामनी । ‘तेल्लकोक्करपेल्लुऽ ॥ २४ ॥
मल्लि-नाथः - AK.02.05.024-25
मलिनैः—ते । मलिनैश्चञ्चुचरणैरुपलक्षिताः सिता हंसा मल्लिकाक्षा इत्युच्यन्ते । धार्तराष्ट्राः सितेतरैः । कृष्णवर्णैश्चञ्चुचरणैरुपलक्षिताः सिता हंसा धार्तराष्ट्रा इत्युच्यन्ते । शरारिः—आतिश्च । त्रयोऽपि शब्दाः स्त्रीलिङ्गाः । ‘आटिस्त्वातिः शरारिकाऽ इति वैजयन्ती (पृ। २६, श्लो। ११) । ‘आटिस्त्वातिः शरारिकाऽ इति वैजयन्ती (पृ। २६, श्लो। ११) । ‘आटिः शरारिर्वरटा गण्डोरी वानरी कपी । आतिश्चऽ इति रत्नकोशे स्त्रीकाण्डे पठिताः । आटिनामानि । ‘आडेलुऽ ॥ बलाका बिसकण्ठिका । बिसकाशिकेति केचित् । अत्र दर्वीतुण्डशब्दश्च । बकस्यैव जातिभेदोऽयम् । ‘तेल्लकोक्केरऽ ॥ २४ ॥
[[०२.३४८]]
(०२.०५.०२५च्द्) हंसस्य योषिद् वरटा सारसस्य तु लक्ष्मणा ॥ २५ ॥
मूलम् - ०२.०५.०२६
(०२.०५.०२६अब्) जतुकाजिनपत्रा स्यात् परोष्णी तैलपायिका ।
लिङ्ग-सूरी - AK.02.05.025-26
हंसस्येति—वृणीते हंसमिति वरटा । ‘वृञ् वरणेऽ । वरं श्रेष्ठमटनमस्या इति वा । हंसस्त्रीनाम । ‘आण्डुहंसपेरुऽ ॥ सारसस्य लक्ष्माणि चिह्नानि सन्त्यस्या इति लक्ष्मणा । लक्ष्मीरस्या अस्तीति वा । सारसस्त्रीनाम । ‘आण्डु बेग्गरुऽ ॥ जतुवत् कृष्णपिङ्गलत्वात् जतुका । अजिनवत् पत्राणि पक्षा अस्या इति अजिनपत्रा । जतूकानामनी । ‘चीकुरुवायपेल्लुऽ ॥ शीतासहत्वेन परमुष्णमस्या इति परोष्णी । नित्यं मुखविकासेन तैलं पिबतीव तिष्ठतीति तैलपायिका । ‘पा पानेऽ । देवालयस्थजतुकानामनी । ‘गब्बिलायपेल्लुऽ ॥ केचिदेतानि चत्वारि नामानि जतुकाया एवेति वदन्ति ॥ २५ ॥
मल्लि-नाथः - AK.02.05.025-26
हंसस्य—वरटा । हंसस्त्री वरटेत्युच्यते । ‘वरटा हंसकान्ता स्याद्वराला वरलापि चऽ इति वैजयन्ती (पृ। २६, श्लो। ८) । सारसस्य—लक्ष्मणा । स्त्रीविषयत्वाट्टाबेव । ‘आण्डवेग्गुरुऽ ॥ शेषे—
‘उलूकचेटी हिक्का स्यात् कनकाक्षी निशाचरी ।
पिङ्गला दैवपिशुनी ॥ऽ
शुभाशुभसूचकस्य रात्रिचारिणः पक्षिविशेषस्य नामानि । ‘पशिडिकण्टेऽ । ‘श्येन्यां तु प्राचिका स्मृताऽ । ‘अण्डडेगऽ ॥ जतुका—स्यात् । ‘जतुका चर्मचटकःऽ इति वैजयन्ती । निशाचटकनामनी । ‘चिकुरुवायऽ ।
‘निशा निश्यग्रेऽपि स्थितघनजतूकापटलकं
कदा शून्यागारं भवति तव जन्म क्षपयितुम् ।ऽ
इति प्रयोगाज्जतूकापि ॥ परोष्णी तैलपायिका । शेषे—‘निशाटा मुखविड्वल्लीऽ । वैजयन्त्यां तु—‘अथ निशाटनी । तमःप्रिया तरोष्णी च मुखविष्ठा च वल्लकीऽ इति । ‘मुखविष्ठा वल्लरिकाऽ इति तन्त्रान्तरे । चर्मचटकविशेषनामानि । ‘जिवुकपिट्ट । गब्बिलमुन्नुऽ । जतुकादीनि सप्तापि जतूकानामान्येवेति केचित् । ‘बम्बराली तु मक्षिकाऽ । मक्षिकासामान्यनामानि ॥ ‘ईङ्गऽ ॥ २५ ॥
[[०२.३४९]]
(०२.०५.०२६च्द्) चर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ २६ ॥
मूलम् - ०२.०५.०२७
(०२.०५.०२७अब्) पतङ्गिका पुत्तिका स्याद् दंशस्तु वनमक्षिका ।
लिङ्ग-सूरी - AK.02.05.026-27
चर्वणेति—पश्वादिकं चर्वतीति चर्वणा । ‘चर्व अदनेऽ । वर्वणेति वा पाठः । तदा सजातीयैः सह पश्वादिकं वृणोतीति वर्वणा । ‘वृञ् वरणेऽ । मक्ष्यन्ते पशव आभ्य इति मक्षिका । ‘मक्ष रोषेऽ । मक्षिकानामानि । ‘नल्लनियीङ्गपेल्लुऽ ॥ सरन्तीति सराः स्वविषयं प्राप्ताः मधुहर्तारः, तान् हन्तीति सरघा । ‘हन हिंसागत्योःऽ । मधुनि सक्ता मक्षिका मधुमक्षिका । ‘तेनेटीङ्गऽ ॥ पततीति पतङ्गिका । ‘पत्लृ गतौऽ । पुत् कुत्सितं मधु तनोतीति पुत्तिका । ‘तनु विस्तारेऽ । ‘गोप्प तेनेयीङ्गऽ ॥ दशतीति दंशः । ‘दंश दशनेऽ । वने मक्षिका वनमक्षिका । वनमक्षिकानामनी ॥ ‘अडवियीङ्गपेल्लुऽ ॥ २६ ॥
मल्लि-नाथः - AK.02.05.026-27
चर्वणा—नीली । नीलवर्णमक्षिका चर्वणा स्यात् । वर्वणेत्यन्तस्थादिं केचिदाहुः । ‘नल्लनीङ्गेऽ ॥ सरघा—मक्षिका । ‘तेनटीङ्गऽ ॥ पतङ्गिका—स्यात् । पुत् कुत्सितं तनोति पुत्तिका । पृषोदरादिः ।
‘माक्षिकं तैलवर्णं स्याद् घृतवर्णं तु पौत्तिकम् ।
भ्रामरं तु भवेच्छुक्लं क्षौद्रं तु कपिशं भवेत् ॥ऽ
इति वचनात्, मधुमक्षिकाविशेषस्यैव नामनी । ‘पेरयीङ्गऽ ॥ दंशस्तु वनमक्षिका । ‘अडवियीङ्गऽ ॥ २६ ॥
[[०२.३५०]]
(०२.०५.०२७च्द्) दंशी तज्जातिरल्पा स्याद् गन्धोली वरटा द्वयोः ॥ २७ ॥
मूलम् - ०२.०५.०२८
(०२.०५.०२८अब्) भङ्गारी चीरुका चीरी झिल्लिका च समा इमाः ।
लिङ्ग-सूरी - AK.02.05.027-28
दंशीति—अल्पा दंशजातिः दंशी । ‘अडविदोमपेरुऽ ॥ गन्धयति परजातिमर्दयतीति गन्धोली । ‘गन्ध अर्दनेऽ । गण्डोलीति पाठे गण्डं कपोलमुलत्यावृणोतीति गण्डोली । ‘उल संवरणेऽ । वृणोतीति वरटा । ‘वृञ् वरणेऽ । ‘एर्रतुम्मेदपेल्लुऽ । आकारेण भृङ्गमियर्तीति भृङ्गारी । ‘ऋ गतौऽ । ची इति रौतीति चीरुका । ‘रु शब्देऽ । ची इति शब्देन रिणाति पीडयतीति चीरी । ‘री गतिरेषणयोःऽ । झिल्लाख्यवाद्यवत् कायतीति झिल्लिका । ‘कै शब्देऽ । झिल्लिकानामानि । ‘चिमटपेल्लुऽ ॥ २७ ॥
मल्लि-नाथः - AK.02.05.027-28
दंशी—स्यात् । अल्पा दंशजातिर्दंशीत्युच्यते । ‘अडविदोमऽ । शेषे—‘जलजा तु कषायिकाऽ । जलजा मक्षिका कषायिकेत्युच्यते । ‘नीरुदोमऽ । ‘कुम्भीरमक्षिका घोणाऽ । कुम्भिनोऽपि ईरयति या मक्षिका सा घोणेत्युच्यते । ‘येनिकदोमऽ । ‘मशकस्तु मलिम्लुचः । नीलदंशस्तीक्ष्णतुण्डःऽ । नीलदंशनामानि । ‘नल्लदोमऽ । गण्डोली—द्वयोः । गन्धोलीति कतिचित् । ‘गन्धोलिरपि गण्डोलिर्वरटा वरटोऽपि चऽ इति गोपालः । अत्र—‘गृहिणी गृहकारिका । अन्यदाख्या कोष्टकारीऽ इति तन्त्रान्तरे । ‘कण्टका कण्टकानना । गृहिणीऽ इति वैजयन्त्यां (पृ। २९, श्लो। ४७) च नामान्तराणि । पक्षवतः कीटविशेषस्य नामानि । ‘येर्रतुम्मिद । कन्दिरीगानुऽ । भङ्गारी—समा इमाः । झिल्लीनामानि । ‘चिंविटऽ ॥ २७ ॥
[[०२.३५१]]
(०२.०५.०२८च्द्) समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥
मूलम् - ०२.०५.०२९
(०२.०५.०२९अब्) मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।
(०२.०५.०२९च्द्) द्विरेफपुष्पलिड्भृङ्गषट्रदभ्रमरालयः ॥ २९ ॥
(इन्दिन्दिरश्चञ्चरीको रोलम्बो बम्भरश्च सः )
लिङ्ग-सूरी - AK.02.05.028-29
समाविति—पतत्यग्नौ पतङ्गः । ‘पत्लृ गतौऽ । अग्नौ शं शमं लभत इति शलभः । ‘डुलङष् प्राप्तौऽ । शलत्याशु गच्छत्यग्निमिति वा । ‘शल आशुगमनेऽ । शलभनामनी । ‘मिडतपेल्लुऽ ॥ खं द्योतयतीति खद्योतः । ‘द्युत दीप्तौऽ । स्वज्योतिषा इङ्गति चलतीति ज्योतिरिङ्गणः । ‘इगि गतौऽ । खद्योतनामनी । ‘मिणिङ्गुरु पुरगुपेल्लुऽ ॥ मधु पुष्परसं व्रतयति भुङ्क्ते मधुव्रतः । मधु करोतीति मधुकरः । ‘डुकृञ् करणेऽ । मधु लेढीति मधुलिट् । ‘लिह आस्वादनेऽ । मधु पिबतीति मधुपः । ‘पा पानेऽ । अलति भूषयति पद्मादिकमिति अली । ‘अल भूषणादौऽ । नकारान्तः पुंलिङ्गः । अस्य भ्रमर इति नाम्नि द्वौ रेफौ स्त इति द्विरेफः । पुष्पं लेढ्यास्वादयतीति पुष्पलिट् । कार्ष्ण्यं भरतीति भृङ्गः । ‘भृञ् भरणेऽ । षट् पदानि यस्य सः षट्पदः । भ्रमतीति भ्रमरः । ‘भ्रमु अनवस्थानेऽ । अलति पुष्पाणि अलिः । ‘अल भूषणादौऽ । (इन्दति इन्दिरया इन्दिन्दिरः । ‘इदि परमैश्वर्येऽ । चरतीति चञ्चरीकः । ‘चर गतिभक्षणयोःऽ । रौतीति रोलम्बः । ‘रु शब्देऽ । बमिति शब्दं बिभर्तीति बम्भरः ।) भ्रमरनामानि ॥ ‘तुम्मेदपेल्लुऽ ॥ २८-९ ॥
मल्लि-नाथः - AK.02.05.028-29
समौ पतङ्गशलभौ । ‘मिडतऽ । खद्योतो ज्योतिरिङ्गणः । शेषे—‘तमोमणिः कीटमणिर्ज्योतिर्माली निशामणिःऽ । खद्योतनामानि । ‘मिणुगुरुपुरुगुऽ ॥ मधुव्रतो—भ्रमरालयः । शेषे—
‘इन्दिन्दिरश्चञ्चरीको रोलम्बः शितुपुटस्तथा ।
भृङ्गाणो भ्रमणश्चापि भसलः पुष्पलोलुपः ॥ऽ
इन्दिन्दिरचञ्चरीकरोलम्बभसलशब्दा देश्या इति स्वामी (पृ। १३०) । शितेः कार्ष्ण्यस्य पुटः शित्पुटः । पृषोदरादिः । ‘बृहस्पतये शित्पुटः पीतभ्रमरःऽ इति वेदभाष्यम् । पुष्पन्धयबम्भरशब्दावप्यत्र—
‘पुष्पन्धयो बम्भरश्च भसलः पुष्पलोलुपः ।
भृङ्गभ्रमणरोलम्बभयदभ्रमरालयः ॥ऽ
इति यादवः । मिलिन्दशब्दोऽपि । ‘पुष्पन्धयो मिलिन्दश्च भसलः शित्पुटश्च सःऽ इति कोशान्तरम् । भृङ्गनामानि । ‘तुम्मिदऽ ॥ २८-९ ॥
[[०२.३५२]]
मूलम् - ०२.०५.०३०
(०२.०५.०३०अब्) मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक् ।
(०२.०५.०३०च्द्) शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥
(०२.०५.०३१अब्) केका वाणी मयूरस्य समौ चन्द्रकमेचकौ ।
लिङ्ग-सूरी - AK.02.05.30-31
मयूर इति—मीनाति हिनस्ति सर्वानिति मयूरः । ‘मीञ् हिंसायाम्ऽ । बर्हमस्यास्तीति बर्हिणः । बर्ही च । नीलः कण्ठोऽस्येति नीलकण्ठः । भुजङ्गान् भुङ्क्ते भुजङ्गभुक् । ‘भुजपालनाभ्यवहारयोःऽ । शिखा चूडास्यास्तीति शिखावलः । शिखी च । केकारवोऽस्यास्तीति केकी । मेघनादमनुलसतीति मेघनादानुलासी । ‘लस श्लेषणक्रीडनयोःऽ । मयूरनामानि ॥ ‘नेमिलि पेल्लुऽ ॥ के मूर्ध्नि कायतेऽभिव्याप्य व्यज्यत इति केका । ‘कै शब्देऽ । मयूरवाणीनाम । ‘नेमिलिकून्तपेरुऽ ॥ चन्द्रप्रतिकृतित्वात् चन्द्रकः । हरितमिश्रवर्णत्वात् मेचकः । चन्द्रकनामनी ॥ ‘नेमिलिपुरिकन्नुपेल्लुऽ ॥ ३० ॥
मल्लि-नाथः - AK.02.05.30-31
मयूरो—मेघनादानुलास्यपि । शेषे—
‘मार्जारकण्ठः केकालिश्चन्द्रकी चित्रापिङ्गलः ।
वर्षामदः शापटीको दार्वण्डश्चित्रपक्षकः ।
शुक्लापाङ्गो मयूकश्च विष्किरो नर्तकप्रियः ॥ऽ
मरूकश्च इति पाठान्तरम् । मयूरनामानि । ‘नेमलिऽ ॥ केका—मयूरस्य । मयूरवाणी केका स्यात् । ‘नेमलिपलुकुऽ ॥ समौ—मेचकौ । बर्हगतलोचननिभप्रदेशनामनी । ‘नेमलिपुरिमीदिकन्नुऽ ॥ ३० ॥
[[०२.३५३]]
(०२.०५.०३१च्द्) शिखा चूडा शिखण्डश्च पिच्छबर्हे नपुंसके ॥ ३१ ॥
मूलम् - ०२.०५.०३२
(०२.०५.०३२अब्) खगे विहङ्गविहगविहङ्गमविहायसः ।
(०२.०५.०३२च्द्) शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥
(०२.०५.०३३अब्) पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।
(०२.०५.०३३च्द्) नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥
(०२.०५.०३४अब्) नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
लिङ्ग-सूरी - AK.02.05.031-34
शिखेति—शिरसि खेलतीति शिखा । ‘खेलृ चलनेऽ । चुद्यते वायुनेति चूडा । ‘चुद प्रेरणेऽ । शिखाभिरग्रभागैर्डयते चलतीति शिखण्डः । ‘डीङ् विहायसा गतौऽ । पिच्छयतीति पिच्छम् । ‘पिच्छ कुट्टनेऽ । पिञ्छमिति पाठे पिञ्छयतीति पिञ्छम् । ‘पिञ्छ दीप्तौऽ । बर्हति नृत्तेन बर्हम् । ‘बृह वृद्धौऽ । बर्हनामानि । ‘नेमिलिपुरिपेल्लुऽ ॥ खे आकाशे गच्छतीति खगः । ‘गम्लृ गतौऽ । विहायसा गच्छतीति विहङ्गः । विहगः । विहङ्गमश्च । विजिहीते विशेषगतिभिरिति विहायाः । ‘ओहाङ् गतौऽ । आकाशे गन्तुं शक्नोतीति शकुन्तिः । शकुनिः । शकुन्तः । शकुनश्च । ‘शक्लृ शक्तौऽ । पक्षौ स्तोऽस्येति पक्षी । अण्डरूपेण पक्षिरूपेण च द्विर्जायत इति द्विजः । पतत्रे अस्य स्त इति पतत्री । पत्रे पक्षौ स्तोऽस्येति पत्री । पतन् गच्छतीति पतगः । पतङ्गश्च । पततीति पतन् । ‘पत्लृ गतौऽ । पत्रमेव रथो यस्य सः पत्ररथः । अण्डाज्जायतेऽण्डजः । ‘जनी प्रादुर्भावेऽ । नगे वृक्षे ओकः स्थानमस्य नगौकाः । वाजः पक्षोऽस्यास्तीति वाजी । विकिरति मांसं तुण्डेनेति विकिरः । विष्किरश्च । ‘कृ विक्षेपेऽ । वयति तृणादिना नीडमिति विः । ‘वेञ् तन्तुसन्तानेऽ । पततीति पतत्रिः । नीडाद् उद्भवतीति नीडोद्भवः । गरुतः पक्षा येषां सन्तीति गरुत्मन्तः । पतितुमिच्छन्तः पित्सन्तः । नभसि गच्छन्तीति नभसङ्गमाः । पक्षिनामानि । ‘सामान्यमु गावलपेल्लुऽ ॥ ३१-३ ॥
मल्लि-नाथः - AK.02.05.031-34
शिखा चूडा । मयूरस्य चूडा शिखा स्यात् । ‘नेमिलिजुट्टुऽ । शिखण्डस्तु—नपुंसके । शेषे—
‘बर्हश्च प्रचलाकश्च कलापश्च समार्थकाःऽ ।
‘बर्होऽस्त्री प्रचलाकश्च कलापश्च शिखण्डकःऽ ।
इत्यजयपालः । ‘सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इवऽ इति प्रयोगश्च । तस्मात् पुंलिङ्गोऽपि बर्हशब्दः । प्रचलः सन्नकति गच्छतीति प्रचलाकः । तद्योगात् प्रचलाकी मयूरः । तथा च—‘एतस्मिन् प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितैरुद्वेल्लन्ति पुराणरोहिणतरुस्तम्भेषु कुम्भीनसाः ।ऽ इत्युत्तररामचरिते (२। २९) भवभूतिप्रयोगः । बर्हनामानि । ‘नेमिलिपिञ्छमुऽ ॥ खगे—नभसङ्गमाः । नीडोद्भवादिषु बहुवचनं वृत्तानुरोधात् । शेषे—
‘प्लावी पिपतिषन्नीडी मलूकः शुकतुण्डिनौ ।
वशाकुर्मदनः पीतुर्मशाको विप्रुषो भसन् ॥ऽ
पक्षिसामान्यनामानि । ‘वातगामी शलक ऊकःऽ इति चैते वैजयन्त्याम् (पृ। २६, श्लो। ३-४) ॥ ३१-३ ॥
[[०२.३५४-५५]]
(०२.०५.०३४च्द्) तेषां विशेषा हारितो मद्गुः कारण्डवः प्लवः ॥ ३४ ॥
मूलम् - ०२.०५.०३५
(०२.०५.०३५अब्) तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्चकोरकः ।
(०२.०५.०३५च्द्) कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥
लिङ्ग-सूरी - AK.02.05.034-35
तेषामिति—हरितवर्णत्वाद् हारीतः । ‘पच्चनिपिट्टऽ । मज्जति जले मद्गुः । ‘टुमस्जो शुद्धौऽ । ‘नीरुकाकिऽ । करण्डे भवः कारण्डः । तं वाति गच्छतीति कारण्डवः । ‘वा गतिगन्धनयोःऽ । प्लवत इति प्लवः । ‘प्लुङ् गतौ जलोपरिसर्पणे चऽ । ‘नीरुकोडिऽ ॥ तित्तीति रौति शब्दायत इति तित्तिरिः । ‘रु शब्देऽ । ‘तीतिवुऽ ॥ कुगिति कुभति शब्दायत इति कुक्कुभः । कुभिः सौत्रो धातुः । ‘गम्पपुलुगुऽ ॥ लाति मांसमिति लावः । ‘ला आदानेऽ । लूयते मांसमनेनेति वा । ‘लूञ् छेदनेऽ । ‘लावुकऽ ॥ जीवेन सहचरेण क्रीडन् जीवतीति जीवञ्जीवः । ‘जीव प्राणधारणेऽ । ‘वन्नेपुलुगुऽ ॥ चकति तृप्यति ज्योत्स्नया चकोरः । ‘चक तृप्तौऽ । ‘चकोरपक्षिऽ ॥ ओकसा स्थानेन यजते सङ्गच्छते कोयष्टिकः । ‘यज देवपूजासङ्गतिकरणयजनदानेषुऽ । ‘चीकुकोक्केरऽ ॥ टिट्टीति निष्ठुरं भाषत इति टिट्टिभकः । ‘भाष व्यक्तायां वाचिऽ । टिट्टीति शब्देन भातीति वा । ‘भा दीप्तौऽ । ‘लकुमुकिपेरुऽ ॥ वर्तते स्वेच्छया वर्तकः । ‘वृतु वर्तनेऽ । ‘वेलिचेपिट्टऽ ॥ वर्तकशब्दवद् वर्तिकाशब्दव्युत्पत्तिः । ‘मूलवल्लङ्किपेरुऽ ॥ एते पक्षिविशेषाह्वयाः ॥ ३४-५ ॥
मल्लि-नाथः - AK.02.05.034-35
तेषां विशेषा—वर्तिकादयः । तेषां पक्षिणां विशेषा हारीतादय उक्ताः । शेषे—‘हारीतो हरितापीतेऽ । हरिते आपीते हारीतः स्यात् । ‘पच्चपिट्टऽ । ‘मद्गुस्तु जलवायसःऽ । ‘नीरुकाकिऽ । ‘कारण्डवो महापक्षःऽ । ‘कन्नेलेडिऽ । ‘प्लवः स्याद्वारिकुक्कुटःऽ । परिप्लवश्च शकटबिलश्चात्र समाहृतः । ‘प्लवः शकटबिलःऽ इति वेदभाष्ये । ‘नीरुकोडिऽ ॥ ‘तित्तिरस्तु खरक्वाणो वरिष्ठः शङ्करप्रियःऽ । ‘रुद्राणां तित्तिरिःऽ इति श्रुतिः (तै। सं। ५। ५। १६। १) । ‘तीतुवऽ । ‘भस्मवर्णोऽलजो भासः शकुन्तः कुक्कुभस्तथाऽ । ‘भस्मवर्णस्तु भासः स्यात्ऽ इति क्षुरे । ‘अलज आन्तरिक्षऽ इत्यत्र (वाज। सं। २४। ३४) अलजो भास इति ज्ञानपत्रे व्याख्यातम् । शकुन्तशब्दः पक्षिसामान्यवचनः, तद्विशेषवचनश्च । कुगिति कौति शब्दायते कुक्कुभः । भक्प्रत्ययः । ‘गपपुलुगुऽ ॥
‘लावकश्चित्रयोधी स्याच्चतुर्धा स प्रकीर्तितः ।
गौरिकः पांसुलः पौण्ड्रः कर्बुरश्च ॥ऽ
लावकश्चित्रयोधी । लावकनामनी । स च गौरिकादिभेदेन चतुर्विधः । ‘अथ जीवदृक् । जीवञ्जीवो भवेत्ऽ । जीवञ्जीवनामनी ॥ रक्तनयनस्तु चकोरकः । ‘चलच्चञ्चूत्पिबज्ज्योत्स्नाप्रियाश्च विषसूचकेऽ । विषसूचकपक्षिणो नामानि । जीवञ्जीवशब्दश्चात्र । ‘जीवञ्जीवश्चकोरे स्याद् द्रुमपक्षिविशेषयोःऽ इति विश्वः (पृ। १६७, श्लो। ६२) । ‘वेन्नेलपुलुगुऽ ॥ ‘कोयष्टिकः शिखरिणिऽ । शिखरिनाम्नि पक्षिणि कोयष्टिकशब्दः स्यात् । ‘कोयष्टिः शिखरी समौऽ इति यादवः (वैज। पृ। २७, श्लो। २०) । ‘चीकुगोक्केरऽ । ‘टिट्टिभस्तु कटुक्वणःऽ । तस्मिन्नुत्पादशयनोऽण्डुकश्च । टिट्टिभनामानि । ‘टिट्टिभमुऽ ॥ ‘अथ बलनक्रमे वर्तकःऽ । वलनक्रमे वर्तकशब्दः स्यात् । ‘वेलिशगुव्वऽ । ‘शकुनौ प्राचाम् । वर्तिका मानवल्लिकाऽ । प्राचां पक्षिणां मध्ये प्रशस्ते शकुनौ वर्तिका मीनवल्लिकेति शब्दद्वयं वर्तते । ‘मीनवल्लिकऽ । ‘कपिञ्जलश्चित्रपक्षःऽ । ‘कञ्जुऽ । इत्याद्याः पक्षिणः परे ग्रन्थगौरवभयान्नोक्ताः ।
‘हंसादयो जलचरा ग्राम्याः स्युः कुक्कुटादयः ।
वनजाः पीतमुण्डाद्या भृङ्गाद्याः क्षुद्रपक्षिणःऽ ॥ ३४-५ ॥
[[०२.३५६]]
मूलम् - ०२.०५.०३६
(०२.०५.०३६अब्) गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् ।
(०२.०५.०३६च्द्) स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ ॥ ३६ ॥
(०२.०५.०३७अब्) प्रडीनोड्डीनसण्डीनान्येताः खगगतिक्रियाः ।
लिङ्ग-सूरी - AK.02.05.036-37
गरुदिति—गिरति गगनमाक्राम्यतयनेनेति गरुत् । ‘गॄ निगरणेऽ । पक्षति परिगृह्णात्याकाशमनेनेति पक्षः । ‘पक्ष परिग्रहेऽ । छाद्यतेऽङ्गमनेनेति छदः । ‘छद अपवारणेऽ । पतत्यनेनेति पत्रम् । ‘पत्लृ गतौऽ । पतन्तं त्रायत इति पतत्रम् । ‘त्रेङ् रक्षणेऽ । तन्वां रोहतीति तनूरुहम् । ‘रुह बीजजन्मनि प्रादुर्भावे चऽ । पक्षनामानि । ‘रेक्कलपेल्लुऽ ॥ पक्षस्य मूलं पक्षतिः । पक्षमूलं च । ‘रेक्कतमोदलुऽ ॥ चञ्चति चलत्याहारग्रहणे चञ्चुः । ‘चञ्चु गतौऽ । त्रुट्यति मांसादिकमनेनेति त्रोटिः । ‘त्रुट छेदनेऽ । ‘पक्षुलमुक्कपेल्लुऽ ॥ प्रकृष्टं डयनं प्रडीनम् । उद् ऊर्ध्वं डयनम् उड्डीनम् । संहतं डयनं सण्डीनम् । ‘डीङ् विहायसा गतौऽ । पक्षिणां गतिविशेषनामानि ॥ ‘पक्षुसदचिविषे।नाममुलुऽ ॥ ३६ ॥
मल्लि-नाथः - AK.02.05.036-37
गरुत्—तनूरुहम् । पक्षनामानि । ‘रेक्कलुऽ । स्त्री—पक्षमूलम् । पक्षमूलनाम । ‘रेक्कलमोदलुऽ ॥ चञ्चुः—स्त्रियौ । शेषे—‘तस्यां सृपाटिका तुण्डम्ऽ । चञ्चुनामानि । ‘पक्षिमुक्कुऽ । ‘विडीनं डयनं गतिःऽ । पक्षिणो गतिनामानि । प्रडीनोड्डीनसण्डीनान्येताः खगगतिक्रियाः । एता इति विधेयानुरोधी लिङ्गनिर्देशः । पक्षिगतिविशेषनामानि ।
‘प्रडीनमाद्यं डयनमुड्डीनं तु वियद्गतिः ।
सण्डीनं तरुगुल्मादिप्राप्तये डयनं मतम्ऽ ॥ ३६ ॥
[[०२.३५७]]
(०२.०५.०३७च्द्) पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् ॥ ३७ ॥
मूलम् - ०२.०५.०३८
(०२.०५.०३८अब्) पोतः पाकोऽर्भको डिम्भः पृथुकः शाबकः शिशुः ।
लिङ्ग-सूरी - AK.02.05.037-38
पेशीति—पिंशतीति पेशी । अथवा पेशयति गर्भमिति पेशी । ‘पिश अवयवेऽ । गर्भस्य कोशत्वात् कोशः । पेशीकोश इति पाठे पेशीनां मांसखण्डानां कोशः पेशीकोशः । अमति निःसरत्यस्मात् शिशुरित्यण्डम् । ‘अम गत्यादिषुऽ । अण्डशब्दो द्विहीने, नपुंसके वर्तते । अण्डनामानि । ‘गड्डुपेल्लुऽ ॥ सायङ्काले पक्षिकुलमयत एनमिति कुलायः । ‘अय गतौऽ । पक्षिकुलमेतीति वा कुलायम् । ‘इण् गतौऽ । नीयते तृणादिकमत्रेति नीडम् । ‘णीञ् प्रापणेऽ । ‘गूडुपेल्लुऽ ॥ पुनाति कुलमिति पोतः । ‘पूञ् पवनेऽ । पायते रक्ष्यते पाकः । ‘पा रक्षणेऽ । पच्यते गर्भक्लेशेन वा पाकः । ‘डुपचष् पाकेऽ । जनन्या हस्तमवलम्ब्य ऋच्छतीत्यर्भकः । ‘ऋ गतौऽ । गमनाय डयते डिम्भः । ‘डीङ् विहायसा गतौऽ । क्षुत्पीडितः सन् पृथु अत्यर्थं कायतीति पृथुकः । ‘कै शब्देऽ । श्यति तनूकरोति पित्रोर्दुःखमिति शाबकः । क्षुत्पीडितजठरं श्यतीति वा । ‘शो तनूकरणेऽ । शेतेऽत्यर्थमिति शिशुः । ‘शीड् स्वप्नेऽ । शिशुनामानि ॥ ‘सर्वजन्तुसमामान्यशिशुमात्रमुनकुनु पेल्लुऽ ॥ ३७ ॥
मल्लि-नाथः - AK.02.05.037-38
पेशी—अण्डम् । पेशीकोश इत्यकेपदमिति केचित् । डिम्बशब्दश्चात्र । ‘पेशी कोशश्च डिम्बोऽण्डम्ऽ इति वैजयन्त्याम् (पृ। ३०, श्लो। ५०) । अण्डनामानि । ‘गड्डुऽ ॥ कुलायो—अस्त्रियाम् । पञ्जरशब्दश्चात्र । ‘कुलाये पञ्जरं क्लीवेऽ इति तन्त्रान्तरे । पक्षिनिलयनामानि । ‘गूडुऽ ॥ पोतः—शिशुः । शिशुसामान्यनामानि । शेषे—‘पक्षिपोतस्तु पिल्लाकश्चञ्चुसः पीलुकावटौऽ । चञ्चुस इत्यत्र चमस इत्येके । पक्षिशिशुनामानि ।
‘इह सह सङ्क्रीडन्ते बिडालपोती च कीरपाकौ च ।
अहमहमिकया पिबत्तो हरिणीस्तनमिह च हरिणहरिशाबौऽ ॥ ३७ ॥
[[०२.३५८]]
(०२.०५.०३८च्द्) स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगलं युगम् ॥ ३८ ॥
मूलम् - ०२.०५.०३९
(०२.०५.०३९अब्) समूहनिवहव्यूहसन्दोहविसरव्रजाः ।
(०२.०५.०३९च्द्) स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥
(०२.०५.०४०अब्) समुदायः समुदयः समवायश्चयो गणः ।
(०२.०५.०४०च्द्) स्त्रियां तु संहतिर्बृन्दं निकुरुम्बं कदम्बकम् ॥ ४० ॥
लिङ्ग-सूरी - AK.02.05.038-40
स्त्रीपुंसाविति—स्त्री च पुमांश्च स्त्रीपुंसौ । मेथति मिथः सङ्गच्छत इति मिथुनम् । ‘मिथृ मेथृ सङ्गमेऽ । द्वौ सह वर्तेते इति द्वन्द्वम् । ‘स्त्रीपुरुषलजण्टपेल्लुऽ ॥ परस्परं युज्यते युग्मम् । युगलं । युगं च । ‘युजिर् योगेऽ । युग्मनामानि ॥ ‘सामान्यमुगा रेण्डु जोडैयुडुटकु पेल्लुऽ ॥ सम्यगूह्यते एकत्रेति समूहः । ‘ऊह वितर्केऽ । नितरां वहति प्रापयति स्वसम्बन्धिनामेकत्वमिति निवहः । ‘वह प्रापणेऽ । विशेषेण ऊह्यत इति व्यूहः । सन्दुह्यते प्रपूर्यत इति सन्दोहः । ‘दुह प्रपूरणेऽ । निस्रियत इति विसरः । ‘सृ गतौऽ । व्रज्यते बहुभिरिति व्रजः । ‘व्रज गतौऽ । स्तूयते बहुत्वेनेति स्तोमः । ‘ष्टुञ् स्तुतौऽ । उच्यते सङ्घीभूयत इत्योघः । ‘उच समवायेऽ । निकीर्यत इति निकरः । ‘कॄ विक्षेपेऽ । व्रियत इति व्रातः । वारश्च । ‘वृञ् सम्भक्तौऽ । संहन्यत इति सङ्घातः । ‘हन हिंसागत्योःऽ । सञ्चीयते सञ्चयः । ‘चिञ् चयनेऽ । समुदयन्तेऽत्र समुदायः । समुदयश्च । ‘अय गतौऽ । समवैति समवायः । ‘इण् गतौऽ । चीयते चयः । ‘चिञ् चयनेऽ । गण्यते गणः । ‘गण सङ्ख्यानेऽ । संहन्यते संहतिः । ‘हन हिंसागत्योःऽ । व्रियते बृन्दम् । ‘वृञ् सम्भक्तौऽ । वबयोरभेदः । नितरां कुरति शब्दायते निकुरुम्बम् । ‘कुर शब्देऽ । निकुरयति शब्दमन्योन्यसङ्घट्टनेन कारयति वा । कोलाहलरूपेण कुत्सितमम्बते कदम्बकम् । ‘अबि शब्देऽ । समूहनामानि ॥ ‘गुम्पुपेल्लुऽ ॥ ३८-४० ॥
मल्लि-नाथः - AK.02.05.038-40
स्त्रीपुंसौ—द्वन्द्वम् । स्त्रीपुंसयुगनामनी । युग्मं—युगम् । द्वितयसामान्यनामानि । ‘द्वयं द्वैतं यमं द्वन्द्वं द्वितयं यमलं द्वयोःऽ इति तन्त्रान्तरे द्वितयसामान्यवाचकेषु द्वन्द्वपदमप्युक्तम् । तेन पदद्वन्द्वमित्यादिप्रयोगः ।
‘मिथुनं द्वितयं द्वैतं द्वयं द्वन्द्वं युगं यमम् ।
यमलं युगलं युग्मं युतकं च द्वयोर्गणः ॥ऽ
इति वैजयन्ती (पृ। १८७, श्लो। १५) । तेन मिथुनपदमपि द्वितयसामान्यार्थकमाहुः । समूह—कदम्बकम् । समूहनामानि ।
‘पूगो वितानः प्रकरो मण्डलं चक्रवालकम् ।
पटलं पेटिका स्त्री स्यात् चक्रं जातं च जालकम् ॥
स्कन्धः कलापः संस्त्यायो ग्रामः परिकरश्छटा ॥ऽ
एतानि च ॥ ३८-४० ॥
[[०२.३५९]]
मूलम् - ०२.०५.०४१
(०२.०५.०४१अब्) वृन्दभेदाः समैर्वर्गः सङ्घसार्थौ तु जन्तुभिः ।
(०२.०५.०४१च्द्) सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम् ॥ ४१ ॥
लिङ्ग-सूरी - AK.02.05.041
वृन्दभेदा इति—वृन्दभेदाः समूहभेदा वक्ष्यन्ते । वृज्यते विजातीयैरिति वर्गः । ‘वृजी वर्जनेऽ । उदाहरणे—प्राणिवर्गः, कवर्गः ॥ संहन्यते परस्परसजातीयविजातीयैरिति सङ्घः । ‘हन हिंसागत्योःऽ । सरतीति सार्थः । ‘सृ गतौऽ । उदा—पक्षिसङ्घः, वणिक्सार्थः । कोलति सङ्घीभवतीति कुलम् । ‘कुल संस्त्यानेऽ । यथा—ब्राह्मणकुलम् ॥ तिरश्चां तिर्यग्जातीनां समूहो यूथमित्युच्यते । यौति मिश्रीभवतीति यूथम् । ‘यु मिश्रणेऽ । यथा—गजयूथं, वराहयूथमित्यादि ॥ ४१ ॥
मल्लि-नाथः - AK.02.05.041
वृन्दभेदाः । वक्ष्यन्त इति शेषः । समैर्वर्गः । केनचिदुपाधिना सजातीयैर्निर्वृत्तः समूहो वर्ग इत्युच्यते । यथा शिष्यवर्गः कवर्ग इत्यादि । सङ्घः—जन्तुभिः । प्राणिभिर्निर्वृत्तः समूहः सङ्घः सार्थ इति चोच्यते । गोसङ्घो विप्रसङ्घ इत्यादि । मेघसङ्घ इत्यादि तूपचारात् । निरुपपदः सार्थशब्दो वणिक्समूहे । ‘सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रकेऽ इति विश्वः (पृ। ७६, श्लो। ९) ॥ सजीतीयैः कुलम् । सजातीयैर्जन्तुभिर्निर्वृत्तः समूहः कुलमित्युच्यते । गोकुलं विप्रकुलमित्यादि । यूथं—पुन्नपुंसकम् । सजातीयानां तिरश्चां समूहः यूथं यूथ इति चोच्यति । गजयूथं कथायूथं कथयिष्यामीति समूहमात्रेऽपि प्रयोगः । ‘यूथं तिर्यक्समूहेऽपि वृन्दमात्रेऽपि भाषितम्ऽ इति विश्वप्रकाशिका (पृ। ७६, श्लो। १२) ॥ ४१ ॥
[[०२.३६०]]
मूलम् - ०२.०५.०४२
(०२.०५.०४२अब्) पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् ।
(०२.०५.०४२च्द्) स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥
लिङ्ग-सूरी - AK.02.05.042
पशूनामिति—समजन्त्यत्र समजः । ‘अज गतिक्षेपणयोःऽ । पशुसमूहनाम ॥ समाजशब्दव्युत्पत्तिः समजशब्दवत् । पशुभिन्नसङ्घनाम ॥ निचीयते निकायः । ‘चिञ् चयनेऽ । सधर्मिवृन्दनाम ॥ पुञ्ज्यते समूह्यत इति पुञ्जः । ‘पुञ्ज समूहेऽ । अश्नुत इति राशिः । ‘अशू व्याप्तौऽ । उत्कीर्यत उन्नतत्वेनेति उत्करः । ‘कॄ विक्षेपेऽ । कूटवत् शिखरवत् स्थितं कूटम् । धान्यादिराशिनामानि ॥ ४२ ॥
मल्लि-नाथः - AK.02.05.042
पशूनां समजः । पशुसमूहः समजः स्यात् । गोसमजः । अश्वसमज इत्यादि ॥ अन्येषां समाजः । पशुव्यतिरिक्तसमूहः समाजः स्यात् । राजसमाज इत्यादि । अथ सधर्मिणां—निकायः । समानधर्मवतो समूहो निकायः स्यात् । ऋषिनिकायः । पुञ्जराशी—अस्त्रियाम् । धान्यादीनामुच्चितसमूहनामानि । चणकानां पुञ्जः । मौक्तिकानां राशिः । ‘रैपार्ष्णीषुधिराशयःऽ इति स्त्रीपुंसयोस्त्रिकाण्डशेषः (पृ। ३८, श्लो। १०४४) । पुञ्जराशीत्युत्तरनिपात एवात्र ज्ञापकः । वस्त्राणामुत्करः । ‘कॄ धान्येऽ (३। ३। ३०) इति घञ्विधानसामर्थ्यादुत्कारो धान्यमात्रसमूहः । ‘उत्कारस्तण्डुलीनां—तण्डुलानामिति वा, शिवपदपदवीपान्थपाथेयमस्तुऽ । शिलानां कूटम् ॥ ४२ ॥
[[०२.३६१]]
मूलम् - ०२.०५.०४३
(०२.०५.०४३अब्) कापोतशौकमायूरतैत्तिरादीनि तद्गणे ।
(०२.०५.०४३च्द्) गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥
इति सिंहादिवर्गः
लिङ्ग-सूरी - AK.02.05.043
कपोत इति—कपोतानां समूहः कापोतम् । कपोतसमूहनाम ॥ शुकानां समूहः शौकम् । शुकसमूहनाम ॥ मयूराणां समूहो मायूरम् । मयूरसमूहनाम ॥ तित्तिरीणां समूहः तैत्तिरम् । तित्तिरिसमूहनाम ॥ गृहासक्ता गृहनिरुद्धाः पक्षिमृगाः छेका गृह्यकाश्च इत्युच्यन्ते । छायन्ते छिद्यन्ते पक्षादिपु छेकाः । ‘छो छेदनेऽ । गृहे बद्धा गृह्यकाः । गृह्यन्त इति वा गृह्यकाः । ‘ग्रह उपादानेऽ । गृहबद्धपक्षिमृगनामनी ॥ ४३ ॥
इति श्रीवङ्गलकामभट्टोपाध्यायसूनुलिङ्गयसूरिविरचितायाममरकोश-
पदविवृतौ सिंहादिवर्गः
मल्लि-नाथः - AK.02.05.043
कापोत—तद्गणे । तेषां कपोतशुकमयूरतित्तिर्यादीनां गणे कापोतादयः स्युः । आदिना काकानां समूहः काकमित्यादि । गृहासक्ताः—गृह्यकाश्च ते । गृहोषितपक्षिमृगाश्छेका गृह्यकाश्चेत्युच्यन्ते । ‘गृह्याश्छेका गृहाण्डजाः । गृहका गृहजाश्चेतिऽ इति रत्नकोशः ॥ ४३ ॥
इति श्रीवत्स नृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते
सिंहादिवर्गः
[[०२.३६२]]