०४ वनौषधिवर्गः

मूलम् - ०२.०४.००१

(०२.०४.००१अब्) अटव्यरण्यं विपिनं गहनं काननं वनम् ।
(०२.०४.००१च्द्) महारण्यमरण्यानी गृहारामास्तु निष्कुटाः ॥ १ ॥

लिङ्ग-सूरी - AK.02.04.001

अटवीति—अटन्त्यस्यां वनेचरा इत्यटवी । ʻअट गतौ’ । इयर्ति भ्राम्यति दुर्गमार्गत्वादत्रेत्यरण्यम् । ʻऋ गतौ’ । वेपन्तेऽत्र भयादिति विपिनम् । ʻटुवेपृ कम्पने । गाह्यतेऽवगाह्यतेऽत्रेति गहनम् । ʻगाहू विलोडने । अरण्यनामानि ॥ कन्यते गम्यते वानरादिभिरिति काननम् । ʻकनी दीप्तिकान्तिगतिषु’ । कं जलमननं प्राणनमस्वेति वा । ʻअन प्राणने । फलवत्वाद् वन्यते सेव्यत इति वनम् । ʻवन षण सम्भक्तौ’ । बहुवृक्षलतादिप्रदेशमात्रनामनी ॥ एतानि षड् अरण्यस्यैव नामानीति केचित् । महदरण्यं महारण्यम् । अरण्यानी च । गृहे आरामा गृहारामाः । कुटाद् गृहान्निष्क्रान्तो निष्कुटः । गृहवननामनी ॥ १ ॥

मल्लि-नाथः - AK.02.04.001

चूलीस्थलीमिलद्वालकलानिधिकलाङ्कुरैः ।

विकासयञ्छिवः पायात् कविताकुमुदाटवीम् ॥

अटवी—वनम् । अयवीनामानि । ʻवाटिका मलयं कक्ष्यम् । एतानि च ॥ महारण्यमरण्यानी । महारण्यनामनी ॥ अनुक्तम्—ʻशुष्काटवी तु कक्षः स्यात् । शुष्ककाष्ठाटवीनाम ॥ ʻप्रस्तरस्तु तृणाटवी । तृणारण्यनामनी ॥ गृहारामस्तु। निष्कुटः । गृहकानननामनी ॥ १ ॥

मूलम् - ०२.०४.००२

(०२.०४.००२अब्) आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ।
(०२.०४.००२च्द्) अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ २ ॥

लिङ्ग-सूरी - AK.02.04.002

आराम इति—आ समन्ताद् रमन्तेऽत्रेत्यारामः । ʻरमु क्रीडायाम्ö । पुरस्य उप समीपे वनम् उपवनम् । पुरस्य बाह्योद्याननामनी ॥ वृक्षा वटन्ते वेष्टन्तेऽत्रेति वृक्षवाटिका । ʻवट वेष्टने परिभाषणे च्ö । पुष्पवाटिकेति वा पाठः । धनिनां वेश्यानां च गृरोपवननाम ॥ २ ॥

मल्लि-नाथः - AK.02.04.002

आरामः—वनमेव यत् । यत् कृत्रिमं वनं तदेवापवनमारामश्च स्यात् । स्यादपवनम् इति पाठान्तरम् । ʻकृत्रिमं वनमारामोऽपवनोपवने अपि इति वैजयन्ती (पृ। ४५, श्लो। २) । वनमित्यपि भवति । ʻनन्दनं वनमारामः’ इति धनञ्जयः । अमात्य—वृक्षवाटिका । अमात्यगणिकाग्रहणं वैभवोपलक्षणार्थम् । ʻकिराटगृहवृक्षवाटिकासु’ इति वासवदत्ता । पुष्पवाटिकेति पाठान्तरम् । ʻपुष्पवाटी त्वमात्यादेः’ इति वैजयन्ती (पृ। ४५, श्लो। ४) । पुर्पवाटिकेत्यत्र सस्य पाक्षिको रेफादेशः ॥ २ ॥

[[०२.२१६]]

मूलम् - ०२.०४.००३

(०२.०४.००३अब्) पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् ।
(०२.०४.००३च्द्) स्यादेतदेव प्रमदवनमन्तःपुरोचितम् ॥ ३ ॥

लिङ्ग-सूरी - AK.02.04.003

पुमानिति—आक्रीडन्ते जना अत्रेत्याक्रीडः । ʻक्रीडृ विहारे । उद्यान्ति उद्योगं कुर्वतेऽत्रेति उद्यानम् । ʻया प्रापणे । सर्वसाधारणराजवननामनी ॥ प्रमदानां वनं प्रमदवनम् । प्रमदावनमिति वा । राजस्त्रीविनोदवननाम ॥ ३ ॥

मल्लि-नाथः - AK.02.04.003

पुमानाक्रीडः—वनम् । राजसाधारणोपवननामनी । स्यादेतदेव—पुरोचितम् । अन्तःपुरोचितमेतदेव वनं प्रमदवनं स्यात् । ह्रस्वतृतीयः । ʻप्रमदावनोपकण्ठनलिनीषु लताभवनेषु भूभुजः’ इति दीर्घतृतीयश्च भवति । ʻचारकर्मणि निष्णातः प्रविष्टः प्रमदावनम् इति ॥ ३ ॥

मूलम् - ०२.०४.००४

(०२.०४.००४अब्) वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः ।
(०२.०४.००२च्द्) वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि ॥ ४ ॥

लिङ्ग-सूरी - AK.02.04.004

वीथीति—वियन्ति गच्छन्त्यनयेति वीथी । ʻवी गतिप्राप्तिप्रजनकान्त्यसनखादनेषु’ । विथ्यतेऽत्रेति वा । ʻविथृ याचने । अलति भूषयति वनादिकमिति आलिः । ʻअल भूषणपर्याप्तिवारणेषु’ । आवलते संवृणोतीति आवलिः । ʻवल संवरणे सञ्चरणे च्ö । पञ्च्यते वृक्षगणेनेति पङ्क्तिः । ʻपचि व्यक्तीकरणे । श्रीयते स्वशोभयेति श्रेणिः । ʻश्रिञ् सेवायाम् । वृक्षादिवीथिनामानि ॥ अक्षररेखावल्लिख्यन्त इति लेखाः । ʻलिख अक्षरविन्यासे । राजन्त इति राजयः । ʻराजृ दीप्तौ’ । अतिसन्निकृष्टवीथिनामनी ॥ वनानां समूहो वन्या । वनसमूहनाम ॥ अङ्क्यते वीजं भित्त्वा दृश्यत इत्यङ्कुरः । ʻअकि लक्षणे । उद्भिद्यते वीजमनेनेति उद्भित् । ʻभिदेर् विदारणे । प्रत्यग्रप्ररोहनाम ॥ ४ ॥

मल्लि-नाथः - AK.02.04.004

वीथी—श्रेणिः । पङ्क्तिनामानि । ʻधोरणिः पद्धतिः पालिः’ । एतानि च । सान्तरालवृक्षादीनां पङ्क्तेर्नामानि ॥ लेखास्तु राजयः । निरन्तरालतृणादीनां श्रेणीनामनी ॥ वन्या—स्यात् । वनसमूहनाम ॥ अङ्कुरोऽभिनवोद्भिदि । नवोद्भिद्यङ्कुरः स्यात् । ʻअङ्किलः प्ररोहोऽप्यत्रेति सुभूतिटीकावचनात्

प्राकृतरूपस्यापि ग्रहणम् । ʻअङ्कुरोऽङ्कूरमस्त्रियाम् इति वैजयन्तीपाठात्तु (पृ। ४५, श्लो। १०) अङ्कूरोऽपि स्यात् । ʻमोलक्ö ॥ ४ ॥

[[०२.२१७]]

मूलम् - ०२.०४.००५

(०२.०४.००५अब्) वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।
(०२.०४.००५च्द्) अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥

लिङ्ग-सूरी - AK.02.04.005

वृक्ष इति—वृश्च्यते छिद्यते कुठारादिनेति वृक्षः । ʻओव्रश्चू छेदने । वृक्षत इति वा । ʻवृक्ष वरणे । वृणोतीति वा वृक्षः ʻवृञ् वरणे । मह्यां रोहतीति महारुहः । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । शाखा अस्य सन्तीति शाखी । विटपा अस्य सन्तीति विटपी । पादैर्मूलैरुदकं पिबतीति पादपः । ʻपा पाने । तरन्त्यातपमनेनेति तरुः । ʻतॄ प्लवनतरणयोः’ । अनसः शकटस्य अकं गतिं हन्तीति अनोकहः । ʻहन हिंसागत्योः’ । कुटति शाखादिना वक्रीभवतीति कुटः । ʻकुट कौटिल्ये । शाल्यते पुष्पफलादिनेति शालः । ʻशालृ श्लाघायाम् । साल इति पाठे सीयते भिद्यते सालः । ʻषोऽन्तकर्मणि । पलाशानि पर्णानि सन्त्यस्येति पलाशी । दीर्यत इति द्रुः । द्रुमश्च । ʻदॄ विदारणे । न गच्छतीत्यगमः । ʻगम्लृ गतौ’ । वृक्षसामान्यनामानि ॥ ५ ॥

मल्लि-नाथः - AK.02.04.005

वृक्षो—अगमाः । तरुनामानि । ʻकुजो रूक्षोऽगच्छश्च्ö । एतान्यपि च ॥ ५ ॥

[[०२.२१८]]

मूलम् - ०२.०४.००६

(०२.०४.००६अब्) वानस्पत्यः फलैः पुष्पात् तैरपुष्पाद् वनस्पतिः ।
(०२.०४.००६च्द्) ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः ॥ ६ ॥

लिङ्ग-सूरी - AK.02.04.006

वानस्पत्य इति—वनस्य पतिः वनस्पतिः । पुष्पैर्विना फलवद्वृक्षनाम ॥ वनस्पतौ भवः वानस्पत्यः । पुष्पवत्फलजनकवृक्षनाम ॥ वनस्पतिरुदुम्बरादिः वानस्पत्यः चूतादिः ॥ ओषं दाहं धयन्तीत्योषध्यः । ʻधेट् पाने । ओषो दाहो धीयतेऽत्रेति वा । ʻडुधाञ् धारणपोषणयोः’ । फलपाक एवान्तो यासां ताः फलपाकान्ताः । फलमुत्पाद्य पाकानन्तरं विनश्वरप्ररोहनाम ॥ व्रीह्यादिरोषधिः । न वन्ध्योऽवन्ध्यः । फलानि गृह्णातीति फलेग्रहिः । ʻग्रह उपादाने । अनिष्फलवृक्षादिनाम ॥ ६ ॥

मल्लि-नाथः - AK.02.04.006

वानस्पत्यः—पुष्पात् । पुष्पफलितमाकन्दादिर्वानस्पत्यः स्यात् । तैः—वनस्पतिः । अपुष्पफलितपनसादिर्वनस्पतिः स्यात् । वृक्षमात्रमपि वनस्पतिर्भवति । ʻसालो वनस्पतिरगो विटपी कुटश्च्ö इति हलायुधः (अ। मा। २। २२) । ओषध्यः—पाकान्ताः । फलपाकनाशिन्यः कदल्यादय ओषध्यः स्युः । अत्र बहुवचनमतन्त्रम् । ʻओषधिः फलपाकान्ता’ इति वैजयन्ती (पृ। ४५, श्लो। ६) । स्यात्—फलेग्रहिः । अवन्ध्यतरुनामनी ॥ स्युरवन्ध्यादयस्त्रिषु (श्लो। ८) इत्यनेन त्रिलिङ्गाः । अवन्ध्यो वृक्षः । अवन्ध्या लता ॥ ६ ॥

[[०२.२१९]]

मूलम् - ०२.०४.००७

(०२.०४.००७अब्) वन्ध्योऽफलोऽवकेशी च फलवान् फलिनः फली ।
(०२.०४.००७च्द्) प्रफुल्लोत्फुल्लसम्फुल्लव्याकोशविकचस्फुटाः ॥ ७ ॥
(०२.०४.००८अब्) फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु ।

लिङ्ग-सूरी - AK.02.04.007

वन्ध्य इति—स्वगतवैगुण्येन फलानि बध्नातीति वन्ध्यः । ʻबन्ध बन्धने । न सन्ति फलान्यस्य अफलः । अवकं शून्यमीष्टे पालयतीत्यवकेशी । ʻईश ऐश्वर्ये । निष्फलवृक्षनामानि ॥ फलानि सन्तीति फलवान् । फलिनश्च । फली च । फलाढ्यवृक्षादिनामानि ॥ प्रफुल्लति उत्फुल्लति सम्फुल्लतीति प्रफुल्लः उत्फुल्लः सम्फुल्लश्च । ʻफुल्ल विकसने । प्रफलतीति वा प्रफुल्लः । ʻञिफला विशरणे । विगत आकोचः सङ्कोचो यस्य सः व्याकोचः । ʻकुच सङ्कोचने । व्याकोश इति पाठे व्यावृत्तः कोशः सङ्कोचोऽस्मादिति व्याकोशः । विगतः कचो मुकुलावस्था अस्य विकचः । ʻकचि दीप्तिबन्धनयोः’ । स्फुटति विकसतीति स्फुटः । ʻस्फुट विकसने । विकसितवृक्षादिनामानि ॥ अवन्ध्यादयः फुल्लान्ताः शब्दास्त्रिषु लिङ्गेषु वर्तन्ते ॥ ७ ॥

मल्लि-नाथः - AK.02.04.007

वन्ध्यो—अवकेशी च । वन्ध्यतरुनामानि ॥ फलवान्—फली । फलिततरुनामानि ॥ प्रफुल्लो—विकसिते । पुष्पितपादपादिनामानि ॥ ʻदलितोन्मिषितोन्निद्राः प्रफुल्लश्च विजृम्भितः’ । एतानि च ॥ स्युः—त्रिषु । एते त्रिसिङ्गाः ॥ ७ ॥

(०२.०४.००८च्द्) स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः ॥ ८ ॥

मूलम् - ०२.०४.००९

(०२.०४.००९अब्) अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता ।
(०२.०४.००९च्द्) लता प्रतानिनी वीरुद् गुल्मिन्युलप इत्यपि ॥ ९ ॥

लिङ्ग-सूरी - AK.02.02.008-9

स्थाणुरिति—वायुना विहतोऽपि तिष्ठतीति स्थाणुः । ʻष्ठा गतिनिवृत्तौ’ । चलनाभावाद् ध्रुवतीति ध्रुवः । ʻध्रुव गतिस्थैर्ययोः’ । शङ्कतेऽस्मात् तस्करादिकमिति शङ्कुः । ʻशकि शङ्कायाम् । सर्वशाखाव्यपेतवृक्षमूलनामानि ॥ ह्रस्वाः शाखाः शिफाः यस्य सः क्षुप इत्युच्यते । दवाग्निना दह्यमानः क्षौतीति क्षुपः । ʻटुक्षु शब्दे । अल्पशाखावृक्षनाम ॥ न प्रकाण्डोऽस्य अप्रकाण्डः । स्कन्धेन विनापि तिष्ठतीति स्तम्बः । ʻष्ठा गतिनिवृत्तौ’ । गुडति चोरादिभीतान् गुल्मः । ʻगुड रक्षायाम् । स्कन्धरहितवृक्षनामनी ॥ वलते वेष्टते यष्ट्यादिकमिति वल्ली । ʻवल संवरणे । प्रकृष्टाततिर्विस्तारोऽत्र व्रततिः । ʻतनु विस्तारे । प्रतनोतीति वा । पकारस्य वकारप्राप्तिः । लाति वेष्टनाय यष्ट्यादिकमिति लता । ʻला आदाने । लतानामानि ॥ प्रतानोऽस्त्यस्याः प्रतानिनी लता वीरुत् । विरोहतीति वीरुत् । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । विरुणद्धीति वा । ʻरुधिर् आवरणे । गुल्मो लतासमूहोऽस्या अस्तीति गुल्मिनी । उलत्यावृणोतीत्युलपः । ʻउल आवरणे । उभ्यते गुल्मादिना मिश्रीभवतीति वा उलपः ।ʻउभ पूरणे । मिथोऽत्यन्तसंश्लेषलतासमूहनामानि ॥ ८-९ ॥

मल्लि-नाथः - AK.02.04.008-9

स्थाणुरस्त्री—शङ्कुः । भग्नसर्वशाखवृक्षनामानि । ʻमोटचट्टु’ । ह्रस्व—क्षुपः । वामनशाखाजटस्तरुः क्षुपः स्यात् । इतः परं प्रसिद्धेनाप्रसिद्धं विबोधनीयमिति न्यायमनुसृत्य प्राय आन्ध्रभाषया नामानि व्याहरामः । ʻकुरुचकोम्मलु उडलुगलचेट्टु क्षुपमु’ । छुप इत्यप्यस्ति । ʻछुपः क्षुपः स्पर्शनयोः’ इति विश्वप्रकाशिका (पृ। १०३, श्लो। ३) । अप्रकाण्डे—गुल्मौ । प्रकाण्डविरहितवृक्षादेर्नामनी । ʻगोरिण्ट्टमोदयनवी । वल्ली—लता । लतानामानि ॥ लता—इत्यपि । परस्परसंश्लिष्टद्राक्षादेर्नामानि । लताग्रहणात् परस्परसंश्लिष्टकेतक्यादेर्नामानि न भवन्ति ॥ ८-९ ॥

[[०२.२२०]]

मूलम् - ०२.०४.०१०

(०२.०४.०१०अब्) नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः ।
(०२.०४.०१०च्द्) अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः ॥ १० ॥

लिङ्ग-सूरी - AK.02.04.010

नगाद्यारोह इति—उत् श्रयणमुच्छ्रायः । उच्छ्रयश्च । ʻश्रिञ् सेवायाम् । उत्सेधयतीति उत्सेधः । ʻषिध गत्याम् । वृक्षाद्युन्नतत्वनामानि ॥ प्रकाम्यते फलरक्षणादिभिरिति प्रकाण्डः । ʻकमु कान्तौ’ । स्कन्द्यतेऽधिरुह्यत इति स्कन्धः । ʻस्कन्दिर् गतिशोषणयोः’ । मूलादारभ्य शाखान्तस्य तरोर्मध्यदेशनामनी ॥ १० ॥

मल्लि-नाथः - AK.02.04.010

नगाद्यारोहः—उच्छ्रयश्च सः । वृक्षादीनामूर्ध्वमाननामानि । अस्त्री प्रकाण्डः—तरोः । मूलप्रभृति शाखावधेर्वृक्षभागनामनी । तत्र मूलभागः प्रकाण्डः । शाखाभागः स्कन्धः । ʻस्कन्धादधः प्रकाण्डः स्यात् प्रघाणः स्कन्ध उच्यते इति हलायुधः (अ। मा। २। २७) ॥ १० ॥

[[०२.२२१]]

मूलम् - ०२.०४.०११

(०२.०४.०११अब्) समे शाखालते स्कन्धशाखाशाले शिफाजटे ।
(०२.०४.०११च्द्) शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता ॥ ११ ॥

लिङ्ग-सूरी - AK.02.04.011

समे इति—शाखति दिशो व्याप्नोतीति शाखा । ʻशाखृ व्याप्तौ’ । लतति दिशो व्याप्नोतीति लता । ʻलति व्याप्तौ’ । वृक्षशाखानामनी ॥ स्कन्धस्य शाखा स्कन्धशाखा । स्कन्धात् निर्गता शाखेति वा । शालते शाला । ʻशाडृ श्लाघायाम् । स्कन्धशाखानामनी ॥ शिनोति तनूकरोति वृक्षमूलमिति शिफा । ʻशिञ् निशातने । जटति सङ्घीभवतीति जटा । ʻजट सङ्घाते । वृक्षमूलनामनी ॥ अवरोहति लम्बत इत्यवरोहः । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । वृक्षशाखाग्रलम्बिजटाया वृक्षमूलादूर्ध्वसङ्गतायाश्च शाखाया नाम ॥ ११ ॥

मल्लि-नाथः - AK.02.04.011

समे—लते । शाखामात्रनामनी ॥ स्कन्ध—शाले । प्रधानशाखानामनी । ʻपेनुगोन्न्ö ॥ शिफाजटे । पतन्त्याः शाखाया नामनी । ʻपडुगोम्म्ö । शाखा—स्यात् । शाखातोऽधःप्रसृताया जटाया नाम ॥ मूलात्—लता । मूलादारभ्याग्रं गता वल्लयप्यवरोहः स्यात् ॥ ११ ॥

मूलम् - ०२.०४.०१२

(०२.०४.०१२अब्) शिरोऽग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः ।
(०२.०४.०१२च्द्) सारो मज्जा नरि त्वक् स्त्री वल्कं वल्कलमस्त्रियाम् ॥ १२ ॥

लिङ्ग-सूरी - AK.02.04.012

शिरोऽग्रमिति—श्रीयते ,स्वाङ्गं शिरः । ʻश्रिञ् सेवायाम् । अगतीत्यग्रम् । ʻअग कुटिलायां गतौ’ । शिखा अग्रशाखा अस्यास्तीति शिखरम् । वृक्षशिरोनामानि ॥ मूल्यतेऽनेनेति मूलम् । ʻमूल प्रतिष्ठायाम् । बध्यन्ते स्थिरीक्रियन्ते उद्भिदादयोऽनेनेति बुध्नः । ʻबन्ध बन्धने । अङ्घ्रेर्नाम पादपर्यायो यस्य अङ्घ्रिनामकः । वृक्षदेरङ्घ्रिसञ्ज्ञिकभागनामानि ॥ कालान्तरेऽपि सरतीति सारः । ʻसृ गतौ’ । मज्जति दारुणोऽन्तरिति मज्जा । ʻटुमस्जो शुद्धौ’ । नकारान्तः । वृक्षान्तःसारनामनी । त्वच्यन्ते आव्रियन्तेऽनयेति त्वक् । ʻत्वच संवरणे । वलते संवृणोतीति वल्कम् । वल्कलं च । ʻवल संवरणे । वृक्षत्वचो नामानि ॥ १२ ॥

मल्लि-नाथः - AK.02.04.012

शिरोऽग्रं—वा ना । अग्रनामनी । ʻकोन्ö । मूलं—नामकः । मूलनामानि । ʻवेरु’ । नामशब्दः पादादिपर्यायग्रहणार्थः ॥ सारो—नरि । स्थिरांशनामनी । ʻचाव्ö । मज्जा नान्तः ॥ त्वक्—अस्त्रियाम् । तर्वादित्वङ्नामनी ॥ अस्त्रीशब्दो वल्कलमात्रविशेषणम् । ʻवल्कलश्चोलकोऽस्त्रियाम् इति वैजयन्ती (पृ। ४६, श्लो। १३) ॥ १२ ॥

[[०२.२२२]]

मूलम् - ०२.०४.०१३

(०२.०४.०१३अब्) काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् स्त्रियाम् ।
(०२.०४.०१३च्द्) निष्कुहः कोटरं वा ना वल्लरी मञ्जरी स्त्रियौ ॥ १३ ॥

लिङ्ग-सूरी - AK.02.04.013

काष्ठमिति—काशते दैर्ध्येणेति काष्ठम् । ʻकाशृ दीप्तौ’ । दीर्यते कुठारादिनेति दारु । ʻदॄ विदारणे । भिन्नशाखानामनी ॥ इध्यतेऽग्निरनेनेति इन्धनम् । इध्मं च । ʻञिइन्धी दीप्तौ’ । एधतेऽग्निरनेनेति एधः । सान्तः । अजन्तश्च, पुमानयम् । ʻएध वृद्धौ’ । समिध्यतेऽग्निरनयेति समित् । स्त्रियाम् । ʻञिइन्धी दीप्तौ’ । अग्निसमिन्धनार्थकाष्ठनामानि ॥ निष्कुहयते विस्मापयत्यत्यन्तविस्तृतत्वादिति निष्कुहः । ʻकुह विस्मापने । कुटिलसुषिरत्वात् कुटतीति कोटरम् । ʻकुट कौटिल्ये । निष्कुटमिति वा पाठः । वृक्षगतविवरनामनी ॥ वल्लते संवृणोति शाखामिति वल्लरी वल्लरिर्वा । मन्यते कोकिलादिभिर्बहुमन्यत इति मञ्जरी । मञ्जरिर्वा । ʻमनु अवबोधने । सकुड्मलनवाविर्भूतवृक्षशाखानामनी ॥ १३ ॥

मल्लि-नाथः - AK.02.04.013

काष्ठं दारु । शुष्कवृक्षनामनी । ʻपुन्नपुंसकयोर्दारुजीवातुस्थाणुशीधवः’ इति त्रिकाण्डशेषः (पृ। ३७, श्लो। १०३६) ॥ इन्धनं—स्त्रियाम् । एध इति सान्तप्रथमा । द्वितीय एधोऽदन्तः । समिदिति धान्तः स्त्रियाम् । उदाहरणानि—ʻअनलायागरुचन्दनैधसे(रघु० ८। ७१) । ʻएधान् हुताशनवतः स मुनिर्ययाचे (रघु० ९। ८१) । द्वे समिधावाधायेति । ʻवण्टचरुकु’ । ʻआलाज्यं सर्पणं शुष्कम् । एतानि च । गरहादयो विशेषवचनाः । ʻकाष्ठेन्धनं तु गरहं गोकरीषेन्धनं बुसा’ इति वैजयन्ती (पृ। ९१, श्लो। ९७) । निष्कुहः—वा ना । तरुसुषिरनामनी । ʻतोर्र्ö । निष्कुट इति क्वचित् पाठः । निष्कुष इति क्वचित् । निष्कूट इत्यपि । ʻतरुनिष्कूटगतश्चकार चिन्ताम् इति बालभारते । वल्लरी—स्त्रियौ । सकिसलयनवतरुशाखानामनी । ʻचुगुरुकोम्म्ö ॥ मञ्जाशब्दोऽपि । ʻवल्लरिर्मञ्जरिर्मञ्जा’ इति वैजयन्ती (पृ। ४६, श्लो। २०) ॥ १३ ॥

[[०२.२२३]]

मूलम् - ०२.०४.०१४

(०२.०४.०१४अब्) पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् ।
(०२.०४.०१४च्द्) पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥

लिङ्ग-सूरी - AK.02.04.014

पत्रमिति—पतति वृक्षसकांशादिति पत्रम् । ʻपत्लृ गतौ’ । पल्यते भिद्यत इति पलाशम् । ʻपल छेदने । पलाश्यते ग्रस्यत इति वा । परपूर्वः ʻअश भोजन्ö इति धातुः । रलयोरभेदः । छाद्यते वृक्षोऽनेनेति छदनम् । छदश्च । ʻछद अपवारणे । दलति शीर्यत इति दलम् । ʻदल विशरणे । पिपर्ति वृक्षं पूरयतीति पर्णम् । ʻपॄ पालनपूरणयोः’ । वृक्षपर्णनामानि ॥ पलति वायुवशाच्चलतीति पल्लवः । ʻपल गतौ’ । अयमस्त्रियाम् । किञ्चित् सलतीति किसलयम् । ʻषल गतौ’ । नवत्वेनारुणत्वमापन्नदलनामनी ॥ विस्तीर्यते तरुरनेनेति विस्तारः । ʻस्तृञ् आच्छादने । विटान् गृहच्युतान् पातीति विटपः । ʻपा रक्षणे । विटति आक्रोशयति वा । ʻविट आक्रोशे । वृक्षविस्तारनामनी ॥ १४ ॥

मल्लि-नाथः - AK.02.04.014

पत्रं—छदः पुमान् । पत्रनामानि । ʻआकुलु’ । पल्लवो—किसलयम् । पल्लवनामनी । ʻचिगुरु’ ॥ किसलशब्दोऽपि । ʻकिसलं स्यात् किसलयं पुंसि क्लीबे च पल्लवम् इति व्याडिः । विस्तारो—अस्त्रियाम् । पल्लवितशाखानामनी ॥ १४ ॥

[[०२.२२४]]

मूलम् - ०२.०४.०१५

(०२.०४.०१५अब्) वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम् ।
(०२.०४.०१५च्द्) आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु ॥ १५ ॥

लिङ्ग-सूरी - AK.02.04.015

वृक्षादीनामिति—फलतीति फलम् । ʻफल निष्पत्तौ’ । सस्ति वृक्षमधिशेते सस्यम् । ʻषस स्वप्ने । वृक्षलतादिफलनामनी ॥ वृणोति स्वीकरोति पुष्पमिति वृन्तम् । ʻवृञ् वरणे । प्रसूयत इति प्रसवः । ʻषु प्रसवैश्वर्ययोः’ । बध्यतेऽनेनेति बन्धनम् । ʻबन्ध बन्धने । प्रसवाः पुष्पफलपत्राणि तेषां बन्धनम् । पुष्पादीनां लतादिसम्बन्धघटकनालादियुक्तस्य नाम ॥ शलति पुष्टिमापद्यत इति शलाटुः । ʻशल गतौ’ । अपक्वफलनाम ॥ वायति शुष्यतीति वानम् । ʻपै ओवै शोषणे । शुष्कफलनाम ॥ उभे त्रिषु । उभे शलाटुवाननामनी त्रिषु लिङ्गेषु वर्तेते ॥ १५ ॥

मल्लि-नाथः - AK.02.04.015

वृक्षादीनां—सस्यम् । वृक्षादिफलनाम । ʻग्राम्यकविकथाबन्ध इव नीरसस्य-मनोहरो देशः’ इति नलदमयन्तीश्लेषाद् द्विदन्त्यः । वृन्तं—बन्धनम् । पुष्पफलबन्धनं वृन्तं स्यात् । ʻताडिमे । प्रसवबन्धनमिति करिकलभवत्प्रयोगः । ʻप्रसवः पिप्पलं सस्यं फलं वृन्तं तु बन्धनम् इति वैजयन्ती (पृ। ४६, श्लो। २०) । आमे—स्यात् । अपक्वफलनाम । ʻकाय्ö ।

ʻशार्दूलशम्बलपलाशशलाटुशाटी-

शुण्ठीशटीशरदशोकशुभप्रकाशाः ।

इत्यूष्मभेदपाठात् तालव्यादिः । शुष्के वानम् । शुष्कफलनाम । उभे त्रिषु । शलाटुवानशब्दौ द्वौ त्रिलिङ्गौ । शलाटवो माषाः, वानाश्चणकाः ॥ १५ ॥

मूलम् - ०२.०४.०१६

(०२.०४.०१६अब्) क्षारको जालकं क्लीबे कलिका कोरकः पुमान् ।
(०२.०४.०१६च्द्) स्याद् गुच्छकस्तु स्तबकः कुड्मलो मुकुलोऽस्त्रियाम् ॥ १६ ॥

लिङ्ग-सूरी - AK.02.04.016

क्षारक इति—क्षरति प्रसूत इति क्षारकः । ʻक्षर सञ्चलने । समूहावस्थावत्त्वात् जलतीति जालकम् । ʻजल घातने । नवकलिकावृन्दस्य नामनी ॥ कल्यते प्रसूनमिति शब्द्यते कलिका । ʻकल शब्दसङ्ख्यानयोः’ । कुर्यते शब्द्यते कोरकः । ʻकुर शब्दे । अत्यन्ताविकसितपुष्पनामनी ॥ अत्र कोरकशब्दोऽस्त्री । गूयते साधुरिति गुच्छकः । ʻगुङ् शब्दे । स्तूयत इति स्तबकः । ʻष्टुञ् स्तुतौ’ । विकसितपुष्पसङ्घातस्य नामनी ॥ कुटति कुटिलभावमीषद्व्रजति कुट्मलः । ʻकुट कौटिल्ये । मुञ्चति कलिकावस्थामिति मुकुलः । ʻमुच्लृ मोक्षणे । अयमस्त्रियाम् । ईषद्विकसितकलिकानामनी ॥ १६ ॥

मल्लि-नाथः - AK.02.04.016

क्षारको—पुमान् । अत्यन्ताविकसितकुसुमनामानि । ʻमुग्ग्ö । रूपभेदसिद्धलिङ्गे विशेषविधिरनित्यज्ञापकः । तेन—

ʻमरुदवनिरुहां रजो वधूभ्यः

समुपहरन् विचकार कोरकाणि । (शिशु। ७। २६)

स्यात्—स्तबकः । पुष्पगुच्छनामनी । ʻपुव्वलगुत्ति । गुच्छक इति चकार-छकारसंयोगी । ʻगुच्छो गुलुच्छः स्तबकः’ इति वैजयन्ती (पृ। ४६, श्लो। २०) । ʻस्तबको गुच्छको गुच्छः’ इति हलायुधः (अ। मा। २। ३३) । सुभूतिटीकायां ʻगुपस्सकि (?) गुत्स्ö इति तकारसकारसंयोग्युक्तः । ʻगुत्सो गुञ्चो गुलुच्छकः । कुलुञ्छश्चार्धवासिते इति शेषे । अर्धवासित इत्युत्तरान्वयि ॥ कुड्मलो—आस्त्रियाम् । अर्धविकसितकोरकनामनी । ʻअरविरिमोग्ग्ö । केषाञ्चित् कुड्मलकोरकावेकार्थौ । ʻकोरकजालककलिकाकुड्मलमुकुलानि तुल्यानि इति हलायुधः (अ। मा। २। ३१) ॥ १६ ॥

[[०२.२२५]]

मूलम् - ०२.०४.०१७

(०२.०४.०१७अब्) स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् ।
(०२.०४.०१७च्द्) मकरन्दः पुष्परसः परागः सुमनोरजः ॥ १७ ॥

लिङ्ग-सूरी - AK.02.04.017

स्त्रिय इति—सुष्ठु मन्यते जनैरिति सुमनाः । सान्तः स्त्रियाम् । ʻमनु अवबोधने । पुष्प्यतीति पुष्पम् । ʻपुष्प विकसने । प्रसूयत इति प्रसूनम् । ʻषूङ् प्राणिप्रसवे । कुस्यति भ्रमरादिना संश्लिष्यतीति कुसुमम् । ʻकुस संश्लेषणे । सुनोतीति सुमम् । ʻषु प्रसवैश्वर्ययोः’ । सममिति वा पाठः । पुष्पनामानि ॥ मङ्क्यते मण्ड्यते पुष्पमनेनेति मकरन्दः । ʻमकि मण्डने । पुष्पाणां रसः पुष्परसः । पुष्परसनामनी ॥ परागच्छति वायुनेति परागः । सुमनसां रजः सुमनोरजः । पुष्परजो नामनी ॥ १७ ॥

मल्लि-नाथः - AK.02.04.017

स्त्रियः—सुमम् । पुष्पनामानि । सुमनःशब्द एकवचनान्तोऽपि । ʻपुष्पं सुमनाः कुसुमम् इति नाममाला । पुष्पशब्दः पुंलिङ्गोऽपि । ʻपुष्पोऽस्त्री कुसुमं सुमम् इति वैजयन्ती (पृ। ४६, श्लो। १८) । प्रयोगश्च—

ʻआरामसीमनि यथा वियति प्रसन्ने

तारास्तथैव विलसन्ति कदम्बपुष्पाः ।

इति । ʻप्रसूतमुद्गमं फुल्लं लतान्तं तरुजं तथा’ । एतानि च ॥ मकरन्दः पुष्परसः । पुष्परसनाम । ʻमरन्दो मकरन्दोऽस्य रसः’ इति वैजयन्ती (पृ। ४६, श्लो। १९) । आसवमधूलिकादिपदान्यपि प्रपञ्चयन्ति—

ʻभ्रान्तः पलाशकुसुमासवसौरभज्ञः

प्राप्तोऽद्य मामिति वृथा न विधेहि गर्वम् ।

जातेर्वियोगविधरस्फुटदावबुद्ध्या

भृङ्गस्त्वदीयकुसुमानि परं विवेश ॥

ʻअहो मे सौभाग्यं मम च भवभूतेश्च फणितं

तुलायामारोप्य प्रतिफलति तस्यां लघिमनि ।

गिरां देवी सद्यः श्रुतिकलितकल्हारकलिका-

मधूलीमाधुर्यं क्षिपति परिपूर्त्यै स्मितमुखी ॥

इत्यादि ॥ परागः सुमनोरजः । पुष्पधूलिनामनी । अनुक्तम्—ʻनिर्यासः स्यात् द्रुमरसः खपुरो वेष्टको लशः’ । तरुरसनामानि । ʻबङ्क्ö ॥ १७ ॥

[[०२.२२७]]

मूलम् - ०२.०४.०१८

(०२.०४.०१८अब्) द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् ।
(०२.०४.०१८च्द्) आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले ॥ १८ ॥
(०२.०४.०१९अब्) बार्हतं च फले जम्व्वा जम्बूः स्त्री जम्बु जाम्बवम् ।

लिङ्ग-सूरी - AK.02.04.018

द्विहीनमिति—सर्वं वक्ष्यमाणं प्रसवे मूलपुष्पफलादौ वर्तमानं वृक्षलतौषधिजातं द्विहीनं स्त्रीपुंलिङ्गहीनं भवति । नपुंसकमेवेत्यर्थः । लुप्ततद्धितान्तं च भवति । चम्पकस्य पुष्पं चम्पकम् । आम्रस्य फलम् आम्रम् । द्विहीनस्यापवादमाह—हरीतक्यादयः स्त्रियामिति । हरीतकीकोशातकीकेतकीधात्र्यादयः फले प्रसवे वर्तमानाः प्रकृतिः हरीतकीशब्दवत् स्त्रियां वर्तन्ते । कथम् ? हरीतक्याः फलं हरीतकी । एवं कोशातकीत्यादि । लुप्ततद्धितान्तस्यापवादमाह—आश्वत्थेत्यादि । एते शब्दाः फले प्रसवे वर्तमाना अलुप्ततद्धितान्तस्यापवादमाह—आश्वत्थेत्यादि । एते शब्दाः फले प्रसवे वर्तमाना अलुप्ततद्धितान्ता भवन्ति । न तु चूतादिशब्दवत् । अश्वत्थस्य फलम् आश्वत्थम् । वेणोरिदं वैणवम् । प्लक्षस्य फलं प्लाक्षम् । न्यग्रोधस्य फलं नैयग्रोधम् । इङ्गुद्याः फलम् ऐङ्गुदम् । बृहत्याः फलं बार्हतम् । जम्बूशब्दः फले वर्तमानः स्त्रीरूपत्वं भजते । कथम् ? जम्ब्वाः फलं जम्बूः । पक्षे जम्बु जाम्बवं च ॥ १८ ॥

मल्लि-नाथः - AK.02.04.018

द्विहीनं—सर्वम् । वक्ष्यमाणशब्दजातं सर्वं पुष्पफलमूलादौ वर्तमानं सत् नपुंसकलिङ्गं भवति । चम्पकस्य पुष्पं चम्पकम् । कदम्बम् । करवीरम् । ʻपुष्पमूलेषु बहुलम् (वा। ४। ३। १६६) इति बहुलवचनादुत्पन्नप्रत्ययस्य लुक् च । आम्रस्य फलमाम्रम् । दाडिमम् । तिन्दुकम् । ʻफले लुक् (४। ३। १६३) इति लुक् । हरीतक्यादयः स्त्रियाम् । हरीतक्यादयः फले वर्तमानाः स्त्रिलिङ्गाः । हरीतक्याः फलं हरीतकी । कोशातकी, द्राक्षा । ʻहरीतक्यादिभ्यश्च्ö (४। ३। १६७) इति लुप् । ʻलुपि युक्तवद्व्यक्तिवचने (१। २। ५१) इति प्रकृतिलिङ्गता । आश्वत्थ—बार्हतं च । अश्वत्थादयः फले नपुंसकलिङ्गाः । अश्वत्थस्य फलमाश्वत्थमित्यादि । ʻप्लक्षादिभ्योऽण् (४। ३। १६४) इत्यञपवादकाण्विधानसामर्थ्यान्न लुक् । एवं वैणवादीनामपि । चकाराद् गणपठितशिग्र्वादेरपि । शैग्रवमित्यादि ॥ फले—जाम्बवम् । जम्बूफले जम्बू स्त्रीलिङ्गः । ʻलुप् च्ö (४। ३। १६६) इति लुप् । जम्बुजाम्बवशब्दौ नपुंसकौ । ʻजम्ब्वा वा’ (४। ३। १६०) इति विभाषाण् । पक्षे ʻओरञ् (४। २। ७१) । तस्य लुक् जम्बु । अणि जाम्बवम् ॥ १८ ॥ </Amarapadaparija

%%p. 02.228

AK.02.04.019cd puṣpe jātīprabhṛtayaḥ svaliṅgā vrīhayaḥ phale .. 19 ..

AK.02.04.020ab vidāryādyāstu mūle’pi puṣpe klībe’pi pāṭalā .

लिङ्ग-सूरी - AK.02.04.019

पुष्प इति—जातीमालती यूथिकादयः पुष्पे प्रसवे वर्तमानाः स्वलिङ्गा भवन्ति । कथम् ? जात्याः पुष्पं जाती । एवं मालत्यादयः । व्रीहयः फले । व्रीहिशब्दवहुवचनेन गोधूमादयो गृह्यन्ते । व्रीहियवगोधूमादयः फले प्रसवे वर्तमानाः स्वलिङ्गाः प्रकृतिलिङ्गा भवन्ति । कथम् ? व्रीहीणां फलानि व्रीहयः । एवं गोधूमादयः । विदारीगान्धार्यंशुमत्यादयो मूले वर्तमानाः स्वलिङ्गाः प्रकृतिलिङ्गा भवन्ति । अपिशब्दात् परेऽपि । कथम् ? विदार्याः फलं मूलं वा विदारी । एवं गान्धार्यादि । पाटलशब्दः पुष्पप्रसवे वर्तमानः क्लीबेऽपि । अपिशब्दात् स्वलिङ्गश्च भवति । कथम् ? पाटलायाः पुष्पं पाटलं पाटला वा ॥ १९ ॥

मल्लि-नाथः - AK.02.04.019

पुष्पे—स्वलिङ्गाः । पुष्पे वर्तमाना जातिप्रभृतयः प्रकृतिलिङ्गाः । जातिर्मल्लिका यूथिका नवमालिका । ʻपुष्पमूलेषु वहुलम् (वा। ४। ३। १६६) इति लुप् । व्रीहयः फले । व्रीहयः फले प्रकृतिलिङ्गाः । माषा यवास्तिला मुद्गाः । लुक्प्रकरणे ʻफलपाकशुषाम् (वा। ४। ३। १६६) इति लुबुपसङ्ख्यानात् ॥ विदार्या—मूलेऽपि । विदार्याद्या मूले प्रकृतिलिङ्गाः । विदारी, अंशुमती, शतावरी, बृहती, अपिशब्दात् पुष्पे यथादर्शनं प्रकृतिलिङ्गता । बृहत्याः पुष्पमपि बृहतीति ॥ पुष्पे—पाटला । पाटलाशब्दः पुष्पे वर्तमानो नपुंसकलिङ्गः प्रकृतिलिङ्गश्च भवति । पाटलं, पाटला ॥ १९ ॥

(०२.०४.०२०च्द्) बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः ॥ २० ॥

मूलम् - ०२.०४.०२१

(०२.०४.०२१अब्) अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः ।
(०२.०४.०२१च्द्) तस्मिन् दधिफलः पुष्पफलदन्तशठावपि ॥ २१ ॥

लिङ्ग-सूरी - AK.02.04.020-21

बोधिद्रुम इति—इह वृक्षलतौषधीनां नामान्यान्ध्रभाषयैव वक्ष्यामः । बोधिसञ्ज्ञको द्रुमः बोधिद्रुमः । स्वल्पेऽपि वाते चलानि दलानि यस्य चलदलः । सेवितारं पातीति पिप्पलः । ʻपा रक्षणे । कुञ्जरैरश्यत इत कुञ्जराशनः । ʻअश भोजने । कुञ्जराणामशनमिति वा । अश्वरूपेणाग्निरस्मिन् तिष्ठतीति अश्वत्थः । अश्वत्थनामानि । ʻराविचेट्टु’ ॥ कपीनां प्रियत्वेन तिष्ठतीति कपित्थः । ʻष्ठा गतिनिवृत्तौ’ । दधिवत् फलन् तिष्ठतीति दधित्थः । ग्राहिफलत्वात् ग्राही । ʻग्रह उपादाने । नान्तः । फलैः कपिमनो मथ्नातीति मन्मथः । ʻमन्थ विलोडने । दधिवदम्लं ग्राहिफलमस्य दधिफलः । पुष्पात् फलमस्येति पुष्पफलः । पुष्प्यति फलति चेति वा । ʻपुष्प विकसने । ʻफल निष्पत्तौ’ । आम्लत्वात् दन्तान् शठतीति दन्तशठः । ʻशठ कैतवे च्ö । चशब्दात् हिंसासङ्क्लेशनयोः । कपित्थनामानि । ʻवेलङ्गचेट्टु’ ॥ २०-२१ ॥

मल्लि-नाथः - AK.02.04.020-21

बोधिद्रुमः—अश्वत्थे । अश्वत्थनामानि । ʻराविचेट्टु’ । द्रुमशब्दो द्रुमाभिधानख्यापनाय । ʻश्रीवृक्षः पिप्पलोऽश्वत्थो बुधैर्बोधिश्च कथ्यते इति हलायुधः (अ। मा। २। ४१) ॥ अथ कपित्थे—दन्तशठावपि । कपित्थनामानि । ʻवेलग्ö ॥ २०-१ ॥

[[०२.२२९]]

मूलम् - ०२.०४.०२२

(०२.०४.०२२अब्) उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ।
(०२.०४.०२२च्द्) कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥

लिङ्ग-सूरी - AK.02.04.022

उदुम्बर इति—उन्नतत्वाद् उल्लङ्घितमम्बरं येनेत्युदुम्बरः । उन्दनाद्वा । ʻउन्दी क्लेदने । जन्तवः क्रिमयः फले यस्य जन्तुफलः । यूपादियज्ञाङ्गत्वात् यज्ञाङ्गः । हेमवर्णं दुग्धं क्षीरमस्य हेमदुग्धकः । उदुम्बरनामानि । ʻअत्तिचेट्टु’ ॥ कुं भुवं विदारयतीति कोविदारः । ʻदॄ विदारणे । चमरसदृशमञ्जरित्वात् चमरिकः । कुं भुवं मूलैर्दालयतीति कुद्दालः । ʻदल विशरणे । युगानि पत्राणि यस्य युगपत्रकः । कोविदारनामानि । ʻकाञ्चनपुचेट्टु ॥ २२ ॥

मल्लि-नाथः - AK.02.04.022

उदुम्बरो—हेमदुग्धकः। उदुम्बरनामानि । ʻमेडि । कोविदारे—युगपत्रकः । कोविदारनामानि । ʻकाञ्चनमु’ । ʻकञ्जदारः काञ्चनारः’ । एते च ॥ २२ ॥

[[०२.२३०]]

मूलम् - ०२.०४.०२३

(०२.०४.०२३अब्) सप्तपर्णो विशालत्वक् शारदो विषमच्छदः ।
(०२.०४.०२३च्द्) आरग्वधे राजवृक्षशम्याकचतुरङ्गुलाः ॥ २३ ॥
(०२.०४.०२४अब्) आरेवतव्याधिघातकृतमालसुवर्णकाः ।

लिङ्ग-सूरी - AK.02.04.023

सप्तपर्ण इति—सप्त पर्णानि यस्य सप्तपर्णः । विशाला त्वक् यस्य विशालत्वक् । शरदि पुष्पोद्गमात् शारदः । शारदीति वा स्त्रीलिङ्गः । विषमाः छदाः पत्राणि यस्य विषमच्छदः । सप्तपर्णनामानि । ʻएडाकुल यरटिचेट्टु’ ॥ आरञ्जयन्तीति आरजः फलाकारा मलास्तेषां वधः छेदनमस्यास्मिन्निति वा आरग्वधः । राजा चासौ वृक्षश्च राजवृक्षः । रोगराजं वृश्चति छिनत्तीति वा । ʻओव्रश्चू छेदने । शमीमकत्यनु गच्छतीति शम्याकः । ʻअक अग कुटिलायां गतौ’ । चतुरङ्गुलपर्णपर्वकत्वात् चतुरङ्गुलः । आरेवते उत्प्लुत्य गच्छति रोगोऽनेनेति आरेवतः । ʻरेवृ प्लव गतौ’ । आरेव खड्ग इव रोगदेवतां हन्तीति वा । व्याधिं हन्तीति व्याधिघातः । फलैः कृता माला यस्य कृतमालः । सुवर्णाकाराणि पुष्पाणि यस्य सुवर्णकः । सुवर्णकनामानि । ʻरेलचेट्टु’ ॥ २३ ॥

मल्लि-नाथः - AK.02.04.023

सप्तपर्णो—विषमच्छदः । सप्तपर्णनामानि । ʻयेडाकुलरटु’ । शारदीशब्दोऽपि । ʻशारदी तोयपिप्पल्यां सप्तपर्णे च शारदी इति रुद्रः । साङ्कर्यं पुंस्त्वज्ञापनार्थम् ॥ ʻशारदः सप्तपर्णःस्याद् बृहत्त्वक् ग्रहनाशनः’ इति रत्नकोशः । आरग्वधे—सुवर्णकाः । आरग्वधनामानि । ʻरेल चेट्टु’ ॥ अरग्वधशब्दोऽपि । ʻआरग्वधस्तु शम्याकः कृतकूलोऽप्यरग्वधः’ इति रत्नमाला । अर्ग्वधशब्दोऽपि । ʻअर्ग्वधे तु व्याघातः’ इति वैजयन्ती (पृ। ४९, श्लो। ४८) ॥ २३ ॥

[[०२.२३१]]

(०२.०४.०२४च्द्) स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥

मूलम् - ०२.०४.०२५

(०२.०४.०२५अब्) वरुणे वरणः सेतुस्तिक्तशाकः कुमारकः ।
(०२.०४.०२५च्द्) पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः ॥ २५ ॥

लिङ्ग-सूरी - AK.02.04.024-25

स्युरिति—जम्यते भक्ष्यत इति जम्बीरः । ʻजमु अदने । दन्तान् शठति हिंसयति आम्लत्वेनेति दन्तशठः । ʻशठ हिंसासङ्क्लेशनकैतवेषु’ । जम्भयति मोहयतीति जम्भः । जम्भीरः जम्भलश्च । ʻजभी गात्रविनामे । जम्भीरनामानि । ʻनिम्मिचेट्टु’ ॥ वृणोति आवृणोतीति वरुणः । ʻवृञ् वरणे । वरणश्च । आवरणकारित्वात् सेतुः । सिनोति व्याधिं हन्तीति वा । ʻपिञ् बन्धने । तिक्तश्चासौ शाकश्च तिक्तशाकः । सदा तरुणत्वात् कुमारकः । वरणनामानि । ʻउलिमिरि चेट्टु’ ॥ पूजितः पुमान् पुन्नागः । पुन्नाग इव पुन्नागः । पुरुषवदुन्नतत्वात् पुरुषः । तुङ्गश्च । तुज्यत इति तुङ्गः । ʻतुजि हिंसायाम् । प्रशस्ताः केसराः सन्त्यस्य केसरः । देवानां वल्लभः प्रियः देववल्लभः । पुन्नागनामानि । ʻसुरपोन्नचेट्टु’ ॥ २४-५ ॥

मल्लि-नाथः - AK.02.04.024-25

स्युर्जम्बीरे—जम्भलाः । जम्बीरनामानि । ʻनिम्म्ö ॥ वरणे—कुमारकः । वरणवृक्षनामानि । ʻउविमिरि चेट्टु’ । ʻमटमाविनपेरुन्नु’ ॥ पुन्नागे—देववल्लभः । पुनागनामानि । ʻपोन्नचेट्टु’ । सुरपुन्नाग इति तद्भेदः । ʻनमेरुः सुरपुन्नागः’ । इति निघण्टुसर्वङ्कषः । ʻसुरपोन्नचेट्टु’ ॥ २४-५ ॥

मूलम् - ०२.०४.०२६

(०२.०४.०२६अब्) पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ।
(०२.०४.०२६च्द्) तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः ॥ २६ ॥
(०२.०४.०२७अब्) वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ।
(०२.०४.०२७च्द्) आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥
(०२.०४.०२८अब्) वानप्रस्थमधुष्ठीवौ जलजेऽत्र मधूलकः ।

लिङ्ग-सूरी - AK.02.04.026-27

पारिभद्र इति—परितो भद्रमस्य पारिभद्रः । नयत्यारोग्यमिति निम्बः । ʻणीञ् प्रापणे । स चासो तरुश्च निम्बतरुः । मन्दाः सूक्ष्मा अराः कण्टका यस्य मन्दारः । मन्दारशब्दसाहचर्यात् पारिजातकः । पारिणः समुद्राज्जातः पारिजातकः । निम्बतरुनामानि । ʻपारिजातवृक्षमु’ ॥ चिरजीवित्वादतिक्रान्ता निशा येन तिनिशः । स्यन्दनोपयोगित्वात् स्यन्दनः । रथचक्रान्ते नमतीति नेमिः । ʻणम प्रह्णत्वे शब्दे च्ö । नेमी वा । रथाय द्रुर्वृक्षो रथद्रुः । अतिविस्तृतत्वाद् अतिमुक्तकः । वन्यतेऽर्थ्यत इति वञ्जुलः । ʻवनु याचने । लघुत्वेऽपि दार्ढ्यदैर्ध्याभ्यामाश्चर्यं करोतीति चित्रकृत् । ʻडुकृञ् करणे । अतिमुक्तकनामानि । ʻनेम्मिचेट्टु’ । पीतयति वस्त्रादिकं रसेन पीतीकरोतीति पीतनः । मिष्टैः फलैः कपीनां प्रीतिं तनोतीति कपीतनः । ʻतनु विस्तारे । आम्रमततीषदनुगच्छतीति आम्रातकः । ʻअत सातत्यगमने । आम्लवत् कपिभिरद्यत इति वा आम्लातकः । ʻअद भक्षणे । रलयोरभेदः । आम्रातकनामानि । ʻअम्बालपुचेट्टु’ ॥ मधुरसः उच्यते युज्यतेऽत्रेति मधूकः । ʻउच समवाये । गुडवन्मधुराणि पुष्पाणि यस्य गुडपुष्पः । मधुप्रधानो द्रुमो मधुद्रुमः । वनप्रस्थे वनस्थले भवो वानप्रस्थः । मधु ष्ठीवतीति मधुष्ठीवः । ʻष्ठिवु निरसने । मधुष्ठील इति पाठे मधु ष्ठीले गर्भेऽस्य मधुष्ठीलः । मधु उलत्यावृणोत्यत्रेति मधूलकः । ʻउल आवरणे । जलजमधूलकनाम । ʻनीरिप्पचेट्टु’ ॥ २६-७ ॥

मल्लि-नाथः - AK.02.04.026-27

पारिभद्रे—पारिजातकः । पारिभद्रनामानि । ʻपारिजमु’ ॥ तिनिशे—चित्रकृच्च । तिनिशनामानि । ʻतिनासमु’ । ʻमथुरादेशप्रसिद्धमु’ ॥ अथ द्वौ—आम्रातके । आम्रातकनामानि । ʻअम्बालमु’ । ʻअदे कोतिमामिडि । ʻकपिचूतोऽम्लबाटश्च्ö । एते द्वे च । कपिभूष इति वा पाठः ॥ मधूके तु—मधुष्ठीलौ । मधूकनामानि । ʻइप्प्ö ॥ जलजोऽत्र मधूलकः । जलजमधूकनाम । ʻनीरिप्प्ö । ʻमधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः’ इति वामनतन्त्रानुसारिपाठः । ʻगिरिजेऽत्र मधूलकः’ । गिरिजमधूकनाम । ʻगौरशालो मधूलोऽन्यो गिरिजस्वल्पपत्रकः’ इत्यरुणदत्ततन्त्रानुसारिपाठः ॥ १६-७ ॥

[[०२.२३२]]

(०२.०४.०२८च्द्) पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे ॥ २८ ॥

मूलम् - ०२.०४.०२९

(०२.०४.०२९अब्) अक्षोटकन्दरालौ द्वावङ्कोले तु निकोचकः ।

लिङ्ग-सूरी - AK.02.04.028

पीलाविति—पीयते माधुर्यात् पीलुः । ʻपा पाने । गुडवन्मधुराणि फलानि यस्य गुडफलः । स्रंसयति फलादिकमिति स्रंसी । ʻस्रंसु अवस्रंसने । ʻगोनुगुचेट्टु’ अक्ष्णोति मूलैर्भुवं व्याप्नोतीति अक्षोटः । ʻअक्षू व्याप्तौ’ । कन्दरस्थानम् अलति भूषयतीति कन्दरालः । कर्पराल इति पाठे कल्पते रोगं हन्तुमिति कर्परालः । ʻकूपू सामर्थ्ये । पर्वतपीलुनामनी । ʻकोण्डगोङ्गुचेट्टु’ ॥ अङ्क्यते कण्टकैरित्यङ्कोलः । ʻअकि लक्षणे । अङ्कोट इति वा पाठः । निकुच्यते कण्टकत्वेनास्मान्निकोचकः। ʻकुञ्च कौटिल्याल्पीभावयोः’ । अङ्कोलनामनी । ʻऊडुगचेट्टु’ ॥ २८ ॥

मल्लि-नाथः - AK.02.04.028

पीलौ—स्रंसी । पीलुवृक्षनामनी । ʻगोनुगुचेट्टु’ ॥ तस्मिंस्तु—आक्षोटकन्दरालौ द्वौ । अक्षोट इति वा । पर्वतोत्पन्नपीलुनामनी । ʻकोण्डगोनुगुचेट्टु’ । ʻअब्दोढ्ö इति वणिक्प्रसिद्धः ॥ अङ्कोले—निकोचकः । अङ्कोलनामनी । ʻउडुगु’ । अङ्कोडे त्विति पाठे—ʻअथाङ्कोले निचोलोऽङ्कोडशोधनौ’ इति वैजयन्ती (पृ। ४८, श्लो। ४१) ॥ २८ ॥

[[०२.२३३]]

(०२.०४.०२९च्द्) पलाशे किंशुकः पर्णो वातपोथोऽथ वेतसे ॥ २९ ॥

मूलम् - ०२.०४.०३०

(०२.०४.०३०अब्) रथाभ्रपुष्पविदुलशीतवानीरवञ्जुलाः ।
(०२.०४.०३०च्द्) द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥

लिङ्ग-सूरी - AK.02.04.029-30

पलाश इति—पुण्यानि पलाशानि पर्णानि यस्य सः पलाशः । स्वपुष्पैः पलं मांसमश्नातीव तिष्ठतीति वा । ʻअश भोजने । किञ्चिच्छुकवत् शुकतुण्डसदृशपुष्पत्वात् किंशुकः । पुण्यानि पर्णानि यस्य पर्णः । वातरोगं पोथयतीति वातपोथः । ʻपुथ हिंसायाम् । पलाशनामानि । ʻमोदुगचेट्टु’ ॥ ति वृद्धिं गच्छतीति वेतसः । ʻवी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु’ । वितस्यते कालेनोपक्षीयत इति वा । ʻतसु उपक्षये । रमन्तेऽस्मिन् पक्षिण इति रथः । ʻरमु क्रीडायाम् । अभ्रवर्णानि पुष्पाण्यस्य अभ्रपुष्पः । अभ्रसमये पुष्पमस्येति वा । शीतवीर्यत्वात् शीतः । दाहशमनत्वाद् वन्यत इति वानीरः । वञ्जुलश्च । ʻवन षण सम्भक्तौ’ । वेतसनामानि । ʻपुब्बचेट्टु’ ॥ परिविध्यतेऽम्भसेति परिव्याधः । विदोल्यतेऽम्भसीति विदुलः । नद्यां भवा नादेयी । जलजातवेतसनामानि । ʻनिरुपुव्वचेट्टु’ ॥ २९-३० ॥

मल्लि-नाथः - AK.02.04.029-30

पलाशे—वातपोथः । पलाशद्रुमनामानि । ʻमोदुग्ö । ʻब्रह्मवृक्षस्त्रिपत्रकः’ । एते च ॥ अथ वेतसे—वञ्जुलाः । वेतसनामानि । ʻप्रब्बचेट्टु’ ॥ द्वौ परिव्याध—चाम्बुवेतसे । जलवेतसनामानि । ʻनीरुप्रब्ब्ö ॥ २९-३० ॥

[[०२.२३४]]

मूलम् - ०२.०४.०३१

(०२.०४.०३१अब्) सौभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीबमोचकाः ।
(०२.०४.०३१च्द्) रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ ॥ ३१ ॥

लिङ्ग-सूरी - AK.02.04.031

सौभाञ्जन इति—कटुत्वेन सुष्ठु मुखं भनक्तीति सौभाञ्जनः । ʻभञ्जो आमर्दने । शोभामनक्तीति शोभाञ्जन इति वा पाठः । ʻअञ्जू व्यक्तिम्रक्षणकान्तिगतिषु’ । शिनोति शमयति कफादीनिति शिग्रुः । ʻशीञ् निशातने । तेजयति कफादीनिति तीक्ष्णः । ʻतिज निशातने । गन्धं करोतीति गन्धकः । तीक्ष्णो गन्धोऽस्यास्तीति तीक्ष्णगन्धक इति वा । मद्यादिवत् आक्षीबन्त्यनेनेति आक्षीबः । ʻक्षीबृ मदे । मुञ्चति तीक्ष्णगन्धमिति मोचकः । ʻमुच्लृ मोक्षणे । शिग्रुनामानि । ʻमुनगचेट्टु’ ॥ ३१ ॥

मल्लि-नाथः - AK.02.04.031

शोभाञ्जने—मोचकाः । शोभाञ्जननामानि । ʻमुनुग्ö । ʻशोभाञ्जने तीक्ष्णगन्धशिग्रुकाक्षीवमोचकाः’ इति पाठादक्षीवः । सौभाञ्जन इति पाठान्तरम् ॥ रक्तोऽसौ—स्यात् । रक्तशिग्रुनाम । ʻयेर्रमुनुग्ö ॥ अनुक्तम्—ʻअगस्त्ये शुकनासः स्यान्मार्जारो वङ्गसेनकः’ । अगस्त्यद्रुमनामानि । ʻअगिशचेट्टु’ ॥ अरिष्टः फेनिलः समौ । अरिष्टवृक्षनामनी । ʻकुङ्कुडुचेट्टु’ ॥ ३१ ॥

मूलम् - ०२.०४.०३२

(०२.०४.०३२अब्) बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि ।
(०२.०४.०३२च्द्) प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद् वटः ॥ ३२ ॥

लिङ्ग-सूरी - AK.02.04.032

बिल्व इति—बिलति कुष्ठरोगमिति, सेवकस्य पापं हिनस्तीति वा बिल्वः । ʻबिल भेदने । शण्डिल्यमुनिवत् विप्रमान्यत्वात् शाण्डिल्यः । शैलूषो नट इव रूपपरिवर्तनात् शैलूषः । मलते निष्कभ्नाति मलमिति मालूरः । ʻमल मल्ल धारणे । मल्यते धार्यते देवैरिति वा । मां लक्ष्मीं लातीति वा मालूरः । ʻला दाने । श्रीप्रदानि श्रीप्रियाणि वा फलानि यस्य सः श्रीफलः । बिल्वनामानि । ʻमारेडु चेट्टु’ ॥ प्लक्षति कफादिदोषमिति प्लक्षः । ʻप्लक्ष भक्षणे । प्लक्षतिल मूलैरधोगच्छतीति वा । जटाः सन्त्यस्येति जटी । ʻजट सङ्घाते । पृच्यते परस्परं संसृज्यत इति पर्कटी । ʻपृची सम्पर्के । नकारान्तोऽयम् । केचित् ईकारान्तस्त्रीलिङ्गमिच्छन्ति । प्लक्षनामानि । ʻजुव्वि चेट्टु’ ॥ न्यक् तिर्यक् रुणद्धीति न्यग्रोधः । ʻरुधिर् आवरणे । बहवः पादा मूलान्यस्य बहुपात् । वटति मूलैः स्वस्थानं वेष्टयतीति वटः । ʻवट परिवेष्टने । वटवृक्षनामानि । ʻमर्रिचेट्टु’ ॥ ३२ ॥

मल्लि-नाथः - AK.02.04.032

बिल्वे—श्रीफलावपि । बिल्वनामानि । ʻमारेडु’ । प्लक्षो—पर्कटी स्यात् । प्लक्षवृक्षनामानि । ʻगोनुचेट्टु’ । ʻप्लक्षे तु पर्कटिजटी पलाशी गिरिलक्षणः’ इति वैजयन्तीपाठात् (पृ। ४७, श्लो। २८) जटिपर्कटिशब्दौ पुंलिङ्गौ ॥ न्यग्रोधो—वटः । वटवृक्षनामानि । ʻमर्रिचेट्टु’ ॥ ३२ ॥

[[०२.२३५]]

मूलम् - ०२.०४.०३३

(०२.०४.०३३अब्) गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ ।
(०२.०४.०३३च्द्) आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः ॥ ३३ ॥

लिङ्ग-सूरी - AK.02.04.033

गालव इति—गालयति स्रावयत्यक्षिरोगमिति गालवः । ʻगल स्रवणे । गालवादृपेः प्रभूत इति वा । शबरसम्बन्धित्वात् शाबरः । साबर इति पाठान्तरम् । अतिसारं रुणद्धीति लोध्रः । रलयोरभेदः । ʻरुधिर् आवरणे । तिरयति पित्तादिरोगान् नाशयतीति तिरीटः । तीरयतीति वा । ʻपार तीर कर्मसमाप्तौ’ । तिलति स्निह्यत्यङ्गमनेनेति तिल्वः । ʻतिल स्नेहने । मार्जयति उद्वर्तयत्यङ्गमनेनेति मार्जनः । ʻमृजूष शुद्धौ अलङ्कारे च्ö । लोध्रनामानि । ʻतेल्ललोद्दुगु चेट्टु’ ॥ षडपि लोध्रसामान्यनामानीति केचित् । आद्यौ श्वेतलोध्रस्य, इतरे रक्तलोध्रस्येत्यपरे ॥ अम्यते भक्ष्यत इत्याम्रः । ʻअम गत्यादिष्ü । चोतति स्रवति रसमिति चूतः । ʻचुतिर् क्षरणे । रसम् अलति भूषयतीति रसालः । ʻअल भूषणपर्याप्तिवारणेष्ü । रसम् आलातीति वा । ʻला दाने । आम्रनामानि । ʻमामिडि चेट्ट्ü ॥ सह कारयति मेलयति स्त्रीपुंसाविति सहकारः । ʻडुकृञ् करणे । अतिसुगन्धाम्रनाम ॥ ʻतिय्यमामिडि चेट्ट्ü ॥ ३३ ॥

मल्लि-नाथः - AK.02.04.033

गालवः—मार्जनौ । लोध्रनामानि । ʻलोद्दुगचेट्ट्ü ॥ आम्रः—रसालः । चूतवृक्षनामानि । ʻमामिडिचेट्ट्ü । ʻवसन्तशाखी माकन्दः कामाङ्गो मदिरासखः’ । एतानि च ॥ असौ—सौरभः । अत्यन्तसुरभिचूतः सहकारः स्यात् ॥ ३३ ॥

[[०२.२३६]]

मूलम् - ०२.०४.०३४

(०२.०४.०३४अब्) कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः ।
(०२.०४.०३४च्द्) शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥

लिङ्ग-सूरी - AK.02.04.034

कुम्भोलूखलकमिति—कुम्भोलूखलाकारात्वृक्षकोशान्निर्यातीति कुम्भोलूखलकम् । कुम्भोलूखलके क्लीबे इति केचित् द्विवचनान्ततया नामद्वयं दर्शयितुं पठन्ति । वृक्षकोशे भवः कौशिकः । गुडति रक्षति वातरोगादिति गुग्गुलुः । ʻगुड रक्षणे । पुरत्यग्रे सरति धूपवृक्षेष्विति पुरः । ʻपुर अग्रगमने । गुग्गुलुवृक्षनामानि । ʻगुग्गिलपुचेट्ट्ü ॥ शिलति उच्छति केशकार्ष्ण्यं करतीति शेलुः । ʻशिल उञ्छे । शिनोति जिह्वामिति वा । ʻशिञ् निशातने । श्लेष्माणम् अतति कटुतयेति श्लेष्मातकः । ʻअत सातत्यगमने । विरुद्धलक्षणया उष्णवीर्यत्वात् शीतः । उष्णवीर्यत्वादङ्गमुद्दालयतीत्युद्दालः । ʻदल विशरणे । वहूनि स्रोतांसि कटुत्वेन वृणोतीति बहुवारकः । ʻवृञ् वरणे । उद्दालकनामानि । ʻविरिगिचेट्ट्ü ॥ ३४ ॥

मल्लि-नाथः - AK.02.04.034

कुम्भोलूखलकं क्लीबे । सुभूतिटीकायां त्रिधा विभक्तं कुम्भोलूखलकं कुम्भम् उलूखलकमिति ॥ कौशिको—पुरः । गुग्गुलुद्रुमनामानि । ʻगुग्गिलपुचेट्ट्ü । ʻजटायुः कालनिर्यासो महिषाक्षः पलङ्कषः’ । एतानि च ॥ शेलुः—बहुवारकः । श्लेष्मातकनामानि । ʻविरिगचेट्ट्ü ॥ ३४ ॥

[[०२.२३७]]

मूलम् - ०२.०४.०३५

(०२.०४.०३५अब्) राजादनं प्रियालः स्यात् सन्नकद्रुर्धनुष्पटः ।
(०२.०४.०३५च्द्) गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥
(०२.०४.०३६अब्) श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः ।
(०२.०४.०३६च्द्) कर्कन्धूर्बदरी घोण्टा कोली कुवलफेनिले ॥ ३६ ॥
(०२.०४.०३७अब्) सौवीरं बदरं कोलमथ स्यात् स्वादुकण्टकः ।
(०२.०४.०३७च्द्) विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥

लिङ्ग-सूरी - AK.02.04.035-37

राजादनमिति—राडभिरद्यते मृष्टत्वादिति राजादनम् । ʻअद भक्षणे । प्रीयते हृदयं गच्छति अतिरसत्वादिति प्रियालः । ʻप्रीङ् प्रीतü । पियाल इति पाठे पीयत इति । सन्नानि सूक्ष्माणि कद्रुवर्णानि बीजान्यस्येति सन्नकद्रुः । सन्नको द्रुः स्कन्धोऽम्येति वा । धनुष इव पटो विस्तारोऽस्यास्तीति धनुष्पटः । नामद्वयं वा । धनतीति धनुः । ʻधन धान्ये । उकारान्तः । पटवद्विस्तृतः पटः । प्रियालनामानि । ʻमोरटिचेट्ट्ü ॥ सारतया मूलादिगमने भारोऽस्या अस्तीति गम्भारी । सर्वतो भद्रमस्या अस्तीति सर्वतोभद्रा । कृश्यति तनूकरोति पित्तादिकमिति काश्मरी । ʻकृश तनूकरणे । मधूनि स्वादूनि पर्णान्यस्या इति मधुपर्णिका । श्रीः पर्णेष्वस्या इति श्रीपर्णी । भद्रप्रदानि पर्णान्यस्या भद्रपर्णी । कृश्यति तनूकरोति पित्तादिकमिति काश्मर्यः । ʻकृश तनूकरणे । कश्यते कर्म कुरुतेऽनेनेति वा काश्मर्यः । ʻकशि गतिशासनयोः’ । काश्मरीनामानि । ʻगुम्मुडुचेट्ट्ü ॥ कर्काणि लोहितानि पर्णानि धत्त इति कर्कन्धूः । ʻडुधाञ् धारणपोषणयोः’ । बदति स्थिरा भवतीति बदरी । ʻबद स्थैर्ये । कोलति निबिडावयवत्वात् कोली । ʻकुल संस्त्याने । घुणति वृत्ततया भ्रमतीति घोण्टा । ʻघुण घूण भ्रमणे । बदरीनामानि । ʻरेङ्गुचेट्ट्ü ॥ कौ भुवि वलते भ्रमतीति कुवलम् । ʻवल संवरणे सञ्चरणे च्ö । फेनोऽस्यास्तीति फेनिलम् । सुवीरदेशे प्रचुरत्वात् सौवीरम् । बदर्याः फलं बदरम् । कोल्याः फलं कोलम् । घोण्टाशब्दो वृक्षफलयोर्वाचकः । वदरीफलनामानि । ʻरेङ्गुपण्ड्ü ॥ स्वादुफलत्वात् कण्टकवत्त्वाच्च स्वादुकण्टकः । विकङ्कते प्रसरतीति विकङ्कतः । ʻककि गतü । स्रुवा स्रुक् तदर्थं वृक्षः स्रुवावृक्षः । स्रुचावृक्ष इति वा पाठः । ग्रन्थिलत्वात् ग्रन्थिलः । व्याघ्रस्य पादा इव पादा मूलान्यस्य व्याघ्रपात् । विकङ्कतनामानि । ʻपुल्लवेलङ्गचेट्ट्ü ॥ ३५-७ ॥

मल्लि-नाथः - AK.02.04.035-37

राजादनं—धनुः । उकारान्तः । पटः । प्रियालद्रुमनामानि । पियालोऽपि । ʻमोरटिचेट्ट्ü ॥ अनुक्तम्—ʻतद्बीजे चारबीजं स्यात् । प्रियालबीजनाम । ʻमोरटिवित्त्ü ॥ गम्भारी—काश्मर्यश्चापि । गम्भारीवृक्षनामानि । ʻपेग्गुम्मडुचेट्ट्ü ॥ अथ द्वयोः—कोली । स्थूलबदरीनामानि । ʻगङ्गरेङ्ग्ü ॥ घोण्टा । बदरीनाम । ʻरेङ्ग्ü ॥ कुवलफेनिले—कोलम् । तत्फलनामानि । हरीतक्यादित्वाद्[?]घोण्टीति । ʻरेङ्गुपण्ड्ü ॥ अथ स्यात् स्वादुकण्टकः—स्रुचां वृक्षः । स्रुवावृक्ष इति वा । ग्रन्थिलो व्याघ्रपादपि । विकङ्कतवृक्षनामानि । ʻमुलुवेलुम्ö ॥ ३५-७ ॥

[[०२.२३८]]

मूलम् - ०२.०४.०३८

(०२.०४.०३८अब्) ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका ।
(०२.०४.०३८च्द्) तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके ॥ ३८ ॥

लिङ्ग-सूरी - AK.02.04.038

ऐरावत इति—इरावती विद्युत् सेव रक्तत्वाद् ऐरावतः। नागस्य सिन्दूरस्येव रङ्गो रागोऽस्येति नागरङ्गः । नागरङ्गनामनी । ʻनारिञ्जचेट्ट्ü ॥ नद्यां नदीतीरे भवा नादेयी । भूमौ जम्यत इति भूमिजम्बुका । ʻजम अदने । भूमौ जन्यत इति वा । ʻजनी प्रादुर्भावे । नादेयीनामनी । ʻकाकिनेरण्ड्ü ॥ चत्वार्यपि नागरङ्गस्यैव नामानीति केचित् ॥ तिम्यति आर्द्रीभवतीति तिन्दुकः । ʻतिमि आर्द्रीभावे । तिन्दुकोऽस्त्री । स्फूर्जति दह्यमानः चिपिटशब्दं करोतीति स्फूर्जकः । ʻटुओस्फूर्जा वज्रनिर्घोषे । कालो नीलः स्कन्धोऽस्य कालस्कन्धः । शितिर्नीलः सारो मज्जास्येति शितिसारकः । तिन्दुकनामानि । ʻतुमिकिचेट्ट्ü ॥ ३८ ॥

मल्लि-नाथः - AK.02.04.038

ऐरावतो नागरङ्गः । नारङ्गनामनी । ʻनारदम्ü । ʻनागरङ्गे तु नारङ्गो नारुङ्गस्तक्रवासनः’ इति वैजयन्ती (पृ। ४८, श्लो। ३६) । नादेयी—जम्बुका । क कजम्बूनामनी । ʻकाकिनेरड्ü

ʻनादेयी नागरङ्गे स्याज्जयायां जलवेतसे ।

भूमिजम्ब्वां जवायां च ।

इति विश्वप्रकाशवचनात् (पृ। १२३, श्लो। १०५) नारङ्गजातीयनामन्यपि । ʻकित्तसिचेट्टुन्न्ü ॥ तिन्दुकः—शितिसारके । तिन्दुकवृक्षनामानि । ʻतुम्मिकचेट्ट्ü ॥ ३८ ॥

[[०२.२३९]]

मूलम् - ०२.०४.०३९

(०२.०४.०३९अब्) काकेन्दुः कुलकः काकपीलुकः काकतिन्दुके ।
(०२.०४.०३९च्द्) गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ॥ ३९ ॥

लिङ्ग-सूरी - AK.02.04.039

काकेन्दुरिति—काका इन्दन्त्यत्रेति काकेन्दुः । ʻइदि परमैश्वर्ये । कुत्सितैः काकादिभिर्लक्यत इति कुलकः । ʻलक आस्वादने । काकैः पीयत इति काकपीलुकः । ʻपा पाने । काकैस्तिम्यत इति काकतिन्दुकः । ʻतिमि आर्द्रीभावे । काकतिन्दुकनामानि । ʻनल्लतुमिकिचेट्ट्ü ॥ गोभीर्लिह्यत इति गोलीढः । ʻलिह आस्वादने । झाटं सङ्घातं लाति आदत्त इति झाटलः । ʻला दाने । पशुभक्षणार्थं हन्यत इति घण्टा । ʻहन हिंसागत्योः’ । पाटं विस्तारं लातीति पाटलिः । पाटला वा । ʻला दाने । मोक्षति सहते पश्वादिसम्मर्दमिति मोक्षः । ʻमोक्ष सहने । मुष्णाति विषमिति मुष्ककः । ʻमुष स्तेये । मुष्कर इति वा पाठः । गोलीढनामानि ॥ ʻमोक्कपुचेट्ट्ü ॥ ३९ ॥

मल्लि-नाथः - AK.02.04.039

काकेन्दुः—काकतिन्दुके । काकतिन्दुकनामानि । ʻकाकितुम्मिक्ö । गोलीढो—मुष्ककौ । मोक्षवृक्षनामानि । ʻमोक्कपुचेट्ट्ü ।

ʻमुष्कको मोक्षको घण्टामूर्खको मुञ्जुकस्तथा ।

क्षारश्रेष्ठो गोलिहश्च द्विविधः श्वेतकृष्णकः ॥

इति वैद्यकाद् गोलिहोऽपि ॥ ३९ ॥

मूलम् - ०२.०४.०४०

(०२.०४.०४०अब्) तिलकः क्षुरकः श्रीमान् समौ पिचुलझावुकौ ।
(०२.०४.०४०च्द्) श्रीपर्णिका कुमुदिका कुम्भी कैटुर्यकट्फलौ ॥ ४० ॥

लिङ्ग-सूरी - AK.02.04.040

तिलक इति—तिलाभानि पुष्पाण्यस्य तिलकः । क्षुरति परुषत्वात् क्षुरकः । ʻक्षुर विलेखने । श्रीः शोभास्यास्तीति श्रीमान् । तिलकनामानि । ʻतिलकपुचेट्ट्ü ॥ पिचुं तूलं लातीति पिचुलः । ʻला दाने । झम्यत इति झावुकः । ʻझमु अदने । झावुकनामनी । ʻसन्ननियाकुलुगलपक्कचेट्ट्ü ॥ श्रीः पर्णेष्वस्याः श्रीपर्णिका । कुमुदवर्णत्वात् कुमुदिका । कुम्भयति पर्णैराच्छादयतीति कुम्भी । ʻकुभि आच्छादने । कड्यते प्रकर्षेण लक्ष्यत इति कैडर्यः । ʻकड मदे । कटूनि फलानि यस्य कट्फलः । कुम्भीनामानि ʻटेकुम्रानिचेट्ट्ü ॥ ४०॥

मल्लि-नाथः - AK.02.04.040

तिलकः—श्रीमान् । तिलकवृक्षनामानि । ʻपरुषः छन्नपुष्पकः’ । एते च ।

ʻयस्य शाखा वह्नियोगाद् दीपवद् दीप्यते चिरम् ।

स वृक्षस्तिलको नाम यो वसन्ते हि पुष्प्यति ॥

इति । ʻबोट्टुग्ö । अनुक्तम्—ʻमदनः स्यात् कुरवको मधुर्दूतश्च नागरः’ । कुरवकनामानि । ʻकोरविचेट्ट्ü ॥ समौ—झावुकौ । झावकवृक्षनामनी । ʻसन्नपुटे कुलपक्के ॥ श्रीपर्णिका—कट्फलौ । कुम्भीवृक्षनामानि । ʻपिनगुम्मुड्ü ॥ ४० ॥

मूलम् - ०२.०४.०४१

(०२.०४.०४१अब्) क्रमुकः पट्टिकाख्यः स्यात् पट्टी लाक्षाप्रसादनः ।
(०२.०४.०४१च्द्) तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रद्मदारु च ॥ ४१ ॥
(०२.०४.०४२अब्) तूलं च नीपप्रियककदम्बास्तु हलिप्रिये ।

लिङ्ग-सूरी - AK.02.04.041

क्रमुक इति—क्रामतीति क्रमुकः । ʻक्रमु पादविक्षेपे । पट्टिकेत्याख्या यस्य सः पट्टिकाख्यः । पट्टी व्रणबन्धनसामर्थ्यमस्यास्तीति पट्टी । लाक्षां प्रसादयतीति लाक्षाप्रसादनः । ʻषद्लृ विशरणगत्यवसादनेष्ü । क्रमुकनामानि । ʻएट्टलोद्दुगुपेल्ल्ü ॥ तुद्यते यूपीकर्तुं तक्ष्यत इति तूदः । ʻतुद व्यथने । यूपार्हवृक्षत्वाद् यूपः । पूग इति पाठे पुनातीति पूगः । ʻपूञ् पवने । क्रामतीति क्रमुकः । ब्रह्मणि वैदिके कर्मणि साधुः ब्रह्मण्यः । ब्राह्मण्य इति वा पाठः । ब्रह्मणे वैदिककर्मणे योग्यं दारु ब्रह्मदारु । तूल्यतेऽस्मादग्निरिति तूलम् । ʻतूल निष्कर्षे । ब्रह्मदारुनामानि । ʻगङ्गराविचेट्ट्ü ॥ नयति प्राणिनां सुखमिति नीपः । ʻणीञ् प्रापणे । प्रीणातीति प्रियकः । ʻप्रीञ् तर्पणे । कं वातं दमयति शमयतीति कदम्बः । ʻदमु उपशमे । हलिनो बलभद्रस्य प्रियः सुरादिपानाद् हलिप्रियः । कदम्बनामानि । ʻकडपचेट्ट्ü ॥ ४१ ॥

मल्लि-नाथः - AK.012.04.041

क्रमुकः—लाक्षाप्रसादनः । क्रमुकनामानि । ʻपट्टिकालोध्रम्ü ॥ तूदस्तु—तूलं च । अश्वत्थाकृतेर्वृक्षस्य नामानि । ʻगङ्गरावि ॥ नीप—हलिप्रिये । कदम्बनामानि । ʻकडिमि ॥ ʻपुलकः कर्णपूरश्च कादम्बर्यो हरीतकः’ । एतानि च ॥ अनुक्तम्—ʻअन्यो धूलीकदम्बः स्याद् वासन्तो वृत्तपुष्पकः’ । धूलीकदम्बनामानि । ʻबट्टकडिमि ॥ ४१ ॥

[[०२.२४१]]

(०२.०४.०४२च्द्) वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥ ४२ ॥

मूलम् - ०२.०४.०४३

(०२.०४.०४३अब्) गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः ।
(०२.०४.०४३च्द्) प्लक्षश्च तिन्त्रिणी चिञ्चाम्लिकाथो पीतसालके ॥ ४३ ॥
(०२.०४.०४४अब्) सर्जकासनबन्धूकपुष्पप्रियकजीवकाः ।

लिङ्ग-सूरी - AK.02.04.042-43

वीरवृक्ष इति—दुः स्पर्शत्वाद् वीरा एव इमं वृक्षं स्पृशन्तीति वीरवृक्षः । अरूंषि व्रणानि करोतीत्यरुष्करः । अग्निवन्मुखमस्यास्तीति अग्निमुखी । भल्लः शर इवाततीति भल्लातकी । ʻअत सातत्यगमने । त्रिषु । अग्निमुखीनामानि । ʻजिडिम्रानिचेट्ट्ü ॥ गर्दभ इवाण्डं मूलमस्य गर्दभाण्डः । कन्दरमलतीति कन्दरालः । ʻअल भूषणादü । कमुदकं पीतयति पीतवर्णं करोतीति कपीतनः । शोभनौ पार्श्वौ यस्य सः सुपार्श्वकः । प्लक्ष्यते भक्ष्यत इति प्लक्षः । ʻप्लक्ष भक्षणे । प्लक्षनामानि । ʻपच्चजुव्विचेट्ट्ü ॥ तिम्यते मुखमत्यर्थमनयेति तिन्त्रिणी । ʻतिम आर्द्रीभावे । तिन्तिडीति वा पाठः । चिञ्चिमायते मुखमाम्लत्वादनया चिञ्चा । अम्लफलत्वाद् आम्लिका । तिन्त्रिणीनामानि । ʻचिन्तचेट्ट्ü ॥ पीतवर्णः सालः पीतसालकः । पीतवर्णः सारोऽस्येति पीतसारक इति वा पाठः । सृजति निर्यासमिति सर्जकः । ʻसृज विसर्गे । अस्यति कुष्ठादीनीत्यसनः । ʻअसु क्षेपणे । बन्धूकस्येव रक्तानि पुष्पाणि यस्य बन्धूकपुष्पः । प्रीणातीति प्रियकः । ʻप्रीञ् तर्पणे कान्तौ च्ö । कुष्ठरोगिणं जीवयतीति जीवकः । ʻजीव प्राणधारणे । बीजक इति वा पाठः । बन्धूकपुष्पनामानि । ʻवेगिचेट्ट्ü ॥ ४२-३ ॥

मल्लि-नाथः - AK.02.04.042-43

वीरवृक्षो—भल्लातकी त्रिषु । भल्लातकीवृक्षनामानि । ʻजीडिचेट्ट्ü ॥ गर्दभाण्डे—प्लक्षश्च अश्वत्थानुकारिणः प्लक्षस्य नामानि । ʻकलजुव्वि ॥ तिन्त्रिणी—आम्लिका । तिन्त्रिणीवृक्षनामानि ॥ ʻतिन्तिडा तिन्तिडी इत्येते च । ʻचिन्तचेट्ट्ü ॥ अथो पीतसारके—जीवकाः । असनवृक्षनामानि । ʻवेङ्गिस्ö ।

ʻप्रियविमानितमानवतीरुषां

निरसनैरसनैरवृथार्थता । (शिशु। ६। ४७)

इति माघप्रयोगाद् ह्रस्वादिः । ʻपीठेभस्कन्धयोः क्लीबमासनं ना तु जीवके इति रभसकोशपाठाद् दीर्घादिः ॥ ४२-३ ॥

[[०२.२४२]]

(०२.०४.०४४च्द्) साले तु सर्जकार्श्याश्वकर्णकाः सस्यसंवरः ॥ ४४ ॥

मूलम् - ०२.०४.०४५

(०२.०४.०४५अब्) नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः ।

लिङ्ग-सूरी - AK.02.04.044

साल इति—स्यति कुष्ठरोगमिति सालः । ʻषोऽन्तकर्मणि । सृजति निर्यासमिति सर्जः । ʻसृज विसर्गे । कृशयति कुष्ठरोगमिति कार्श्यः । ʻकृश तनूकरणे । कार्ष्य इति वा पाठः । अश्वकर्णाभानि पत्राण्यस्य अश्वकर्णकः । सत्यं वृक्षादिफलं संवृणोतीति सस्यसंवरः । ʻवृञ् वरणे । सालनामानि । ʻमद्दिचेट्ट्ü ॥ नद्यां भवः सर्जो नदीसर्जः । वीरोऽर्जुनस्तन्नामकत्वाद् वीरतरुः । अत एव इन्द्रस्य प्रियो द्रुर्वृक्षः इन्द्रद्रुः । शाखाभिः ककुभो व्याप्नोतीति ककुभः । शौक्ल्यात् अर्जुनः । इन्द्रप्रियत्वाद्वा । अर्जुनवृक्षनामानि । ʻवेरुमद्दि ॥ ४४ ॥

मल्लि-नाथः - AK.02.04.044

साले तु—सस्यसंवरः । सालवृक्षनामानि । ʻनल्लमद्दि ॥ नदीसर्जो—अर्जुनः । नदीसर्जनामानि । ʻयेरुमद्दि ॥ ४४ ॥

(०२.०४.०४५च्द्) राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥४५ ॥

मूलम् - ०२.०४.०४६

(०२.०४.०४६अब्) इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ ।

लिङ्ग-सूरी - AK.02.04.045

राजादन इति—राजभिरद्यते राजादनः । ʻअद भक्षणे । अध्यक्षाणि श्रेष्ठानि फलान्यस्य फलाध्यक्षः । क्षीरवन्मधुराणि फलान्यस्याः क्षीरिका । क्षीरिकानामानि । ʻपालचेट्ट्ü ॥ इङ्गत्यूर्ध्वं गच्छतीति इङ्गुदी । इङ्गुदश्च । ʻइगि लिगि गत्यर्थाः’ । तापसानां तरुः तापसतरुः इङ्गुदीनामनी । ʻगारचेट्ट्ü ॥ भूरित्यव्ययम् । भूर्भूम्यां जायत इति भूर्जः । ʻजनी प्रादुर्भावे । चर्माभपत्रयोगात् चर्मी । मृद्वी त्वगस्य मृदुत्वक् भूर्जनामानि । ʻभुजपत्रवुचेट्ट्ü ॥ ४५ ॥

मल्लि-नाथः - AK.02.04.045

राजादनः—क्षीरिकायाम । क्षीरिकावृक्षनामानि । ʻपालचेट्ट्ü ॥ अथ द्वयोः—तापसतरुः । इङ्गुदतरुनामनी । ʻगारचेट्ट्ü ॥ भूर्जे—मृदुत्वचौ । भुजपत्रनामानि । ʻभुजपत्रवृक्षम्ü । ʻभूर्जपत्रे भुजो भूर्जो मृदुत्वक् चर्मिचर्मिकü इति वैजयन्ती (पृ। ४८, श्लो। ४५) ॥ ४५ ॥

(०२.०४.०४६च्द्) पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः ॥ ४६ ॥

मूलम् - ०२.०४.०१०४७

(०२.०४.०१०४७अब्) पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः ।
(०२.०४.०४७च्द्) चिरबिल्वो नक्तमालः करजश्च करञ्जके ॥ ४७ ॥

लिङ्ग-सूरी - AK.02.04.046-47

पिच्छिलेति—पिच्छा निर्यासोऽस्या अस्तीति पिच्छिला । पूरयति तूलेन फलानीति पूरणी । ʻपूरी आप्यायने । मुञ्चति रसमिति मोचा । ʻमुच्लृ मोक्षणे । स्थिरमायुर्यस्य कालसहत्वात् स्थिरायुः । चिरमायुर्यस्य चिरायुरिति वा पाठः । शालते विटपैरिति शाल्मलिः । शाल्मली वा । ʻशालृ श्लाघायाम् । शाल्मलीनामानि । ʻबूरुगुचेट्ट्ü ॥ पराङ्गुलिसङ्गत्वात् पिच्छा । शाल्मलीं वेष्टयतीति शाल्मलीवेष्टः । शाल्मलिनिर्यासनाम । ʻबूरुगुबङ्क्ö ॥ रोचते सूक्ष्मतयेति रोचनः । ʻरुच दीप्तü । कूटा कुत्सिता चासौ शाल्मलिश्च कूटशाल्मलिः । ʻकोण्ड बूरुग्ü ॥ चिरिणोति चिरी । ʻचिरि जूरि दाश हिंसायाम् । चिरिणं हिंस्ररोगं बिलति भिनत्तीति चिरिबिल्वः । ʻबिल भेदने । नक्तमलति मण्डयतीति नक्तमालः । ʻअल भूषणादü । नक्तं रात्रौ भूतानामालयत्वात् नक्तमालः । कं जलं रञ्जयतीति करजः । करञ्जकश्च । ʻरञ्ज रागे । करञ्जवृक्षनामानि । ʻकानुगुचेट्ट्ü ॥ ४६-७ ॥

मल्लि-नाथः - AK.02.04.046-47

पिच्छिला—शाल्मलिर्द्वयोः । ʻशालते शाल्मलिः शलति शल्मलिः’ इति सूभूतिटीकायां दीर्घादिर्ह्रस्वादिश्च व्युत्पादितः । शाल्मलिवृक्षनामानि । ʻभूरुग्ö ॥ पिच्छा—शाल्मलीवेष्टे । शाल्मलिनिर्यासनाम । ʻबूरुगबङ्क्ö ॥ रोचनः—शाल्मलिः । हंसशाल्मलिनामनी । ʻकोण्डबूरुङ्ग्ö ॥ चिरबिल्वो—करञ्जके । करञ्जनामानि । ʻकानुग्ö ॥ ४६-७ ॥

[[०२.२४४]]

मूलम् - ०२.०४.०४८

(०२.०४.०४८अब्) प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः ।
(०२.०४.०४८च्द्) करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी ॥ ४८ ॥

लिङ्ग-सूरी - AK.02.04.048

प्रकीर्य इति—प्रकीर्यते कलहस्थान इति प्रकीर्यः । ʻकॄ विक्षेपे । पूतिगन्धिः करजः पूतिकरजः । पूतिकश्च । कलेः कलहस्य मारकः नाशकः कलिमारकः । कलिं करोतीति कलिकारक इति वा पाठः । पूतिकरञ्जनामानि । ʻनेमलियडुगुचेट्ट्ü ॥ षड् ग्रन्थयो यस्य षड्ग्रन्थः । ʻआरुकनुपुलुगलकानुग्ö ॥ मर्कटवत् पाटयतीति मर्कटी । ʻकोन्तिवन्नेकानुग्ö ॥ अङ्गारवर्णा वल्लर्योऽस्याः सन्तीति अङ्गारवल्लरी । ʻनिप्पुवन्नेगल पूगुत्तुलु गलकानुग्ö ॥ एते करञ्जभेदाः ॥ ४८ ॥

मल्लि-नाथः - AK.02.04.048

प्रकीर्यः—कलिमारकः । पूतीकोऽपि । ʻगौरः प्रकीर्णः पूतीकः सुमनामृतपत्रकः’ इति शेषः । ʻपूतीकपत्रगजचिर्भटचव्यवह्नान् इति धन्वन्तरिश्च । पूतिकरजनामानि । ʻनेमिलिचेट्ट्ü ॥ करञ्जभेदाः—अङ्गारवल्लरी । षड्ग्रन्थादयः करञ्जभेदा भवन्ति ॥ षड्ग्रन्थः ʻगण्टुलकानुग्ö ॥ मर्कटी ʻतीङ्गेकानुग्ö ॥ अङ्गारवल्लरी ʻनिप्पुलवन्नेगुत्तुलकानुग्ö ॥ ४८ ॥

[[०२.२४५]]

मूलम् - ०२.०४.०४९

(०२.०४.०४९अब्) रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।
(०२.०४.०४९च्द्) गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥

लिङ्ग-सूरी - AK.02.04.049

रोहीति—भिन्नप्ररूढोऽपि रोहतीति रोही । नकारान्तः । रोहितकश्च । रोहिरिति इकारान्त इति केचित् । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । प्लीहाख्यरोगशत्रुः प्लीहशत्रुः । दाडिमस्येव पुष्पाण्यस्य दाडिमपुष्पकः । रोहितकनामानि । ʻमुल्लुमोदुग्ö ॥ गायन्तं वैद्यं त्रायत इति गायत्त्री । ʻत्रैङ् पालने । इयमाकारान्तः । बालः सूक्ष्मः तनयः पत्राख्यप्रसवो यस्य बालतनयः । खदति स्थिरतरं भवतीति खदिरः । ʻखद स्थैर्ये । दन्तान् धावन्त्यनेनेति दन्दधावनः । ʻधावु गतिशुद्ध्योः’ । खदिरनामानि । ʻचन्द्रचेट्ट्ü ॥ ४९ ॥

मल्लि-नाथः - AK.02.04.049

रोही—दाडिमपुष्पकः । रोहिर्नान्त इकारान्तश्च । ʻढ्रलोप— (६। ३। १११) इति दीर्घः । रोहितवृक्षनामानि । स च मगधविषयप्रसिद्धः । कण्टकपलाश इति केचित् । तदज्ञानविलसितमेव ॥ गायत्री—दन्तधावनः । खदिरतरुनामानि । ʻचण्ड्रचेट्ट्ü । ʻगायत्री खदिरे स्त्री स्याच्छन्दस्यपि षडक्षरः’ इत्यभिधानप्रसिद्ध्या स्त्रीलिङ्गः । ʻपारिजातजपानिम्बवह्निगायत्रिणां पृथक् इति वैद्यकप्रसिद्ध्या वान्तपुंलिङ्गोऽपि ॥ ४९ ॥

मूलम् - ०२.०४.०५०

(०२.०४.०५०अब्) अरिमेदो विट्खदिरे कदरः खदिरे सिते ।
(०२.०४.०५०च्द्) सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥
[[०२.२४६]]

(०२.०४.०५१अब्) एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः ।
(०२.०४.०५१च्द्) चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ॥ ५१ ॥

लिङ्ग-सूरी - AK.02.04.050-51

अरिमेद इति—अरिर्दुःसहो मेदोऽस्य अरिमेदः । अयमकारान्तः । विडगन्धी खदिरो विट्खदिरः । ʻदुर्गन्धमुगुलचन्द्रचेट्ट्ü ॥ कुत्सितं गन्धं दृणातीति कदरः । ʻद्दृ विदारणे । सोमवत् चन्द्रवत् वल्कं वल्कलमस्य सोमवल्कः । श्वेतखदिरनामनी । ʻवेलिचन्द्रचेट्ट्ü ॥ व्याघ्रपुच्छाकारशाखायोगाद् व्याघ्रुपुच्छः । गन्धर्वस्य भूतविशेषस्य हस्त इव स्थूलपत्राण्यस्य गन्धर्वहस्तकः । ईरयति वातं नाशयतीति एरण्डः । ʻईर क्षेपे । उरु भृशं वातं वाति नाशयतीति उरुबूकः । ʻवा गति गन्धनयोः’ । वबयोरभेदः । रोचते पर्णैरिति रुचकः । ʻरुच दीप्तü । चित्रवर्णत्वात् चित्रकः । चञ्चति वायुना चञ्चुः । ʻचञ्चु गतü । पञ्चाङ्गुलयोऽवयवाः पत्रात्मके हस्तेऽस्येति पञ्चाङ्गुलः । मण्डयति स्वप्रदेशमिति मण्डः । ʻमडि भूषायाम् । आमण्ड इति वा पाठः । यत्र क्वापि वर्धत इति वर्धमानः । ʻवृधु वृद्धü । व्यडति रोगिणमुद्धरतीति व्यडम्बकः । ʻअड उद्यमने । एरण्डनामानि । ʻआमुदमुचेट्ट्ü ॥ ५०-१ ॥

मल्लि-नाथः - AK.02.04.050-51

अरिमेदो विट्खदिरे । दुर्गन्धखदिरनामनी । ʻतुम्म्ö ॥ कदरः—सोमवल्कोऽपि । श्वेतसारखदिरनामानि ॥ ʻउण्ड्रुचेट्ट्ü ॥ अथ व्याघ्रपुच्छ—व्यडम्बकाः । एरण्डनामानि । ʻआमुदमुचेट्ट्ü ॥ ५०-१ ॥

मूलम् - ०२.०४.०५२

(०२.०४.०५२अब्) अल्पा शमी शमीरः स्याच्छमी सक्तुफला शिवा ।
(०२.०४.०५२च्द्) पिण्डीतको मरुवकः श्वसनः करहाटकः ॥ ५२ ॥
(०२.०४.०५३अब्) शल्यश्च मदने शक्रपादपः पारिभद्रकः ।
(०२.०४.०५३च्द्) भद्रदारु द्रुकिलिमं पीतदारु च दारु च ॥ ५३ ॥
(०२.०४.०५४अब्) पूतिकाष्ठं च सप्त स्युर्देवदारुणि

लिङ्ग-सूरी - AK.02.04.052-53

अल्पा इति—अल्पा शमी शमीरः । ʻचिन्नदैनजम्मि ॥ शमयति दोषानिति शमी । ʻशमु उपरमे । सक्तुवत् स्वादूनि फलान्यस्य सक्तुफला । दोषशमनात् शिवा । शमीनामानि । ʻजम्मिचेट्ट्ü ॥ स्वल्पं पिण्डीभावम् इतः प्राप्तः पिण्डीतकः । ʻइण् गतü । विषपुष्पत्वात् म्रियन्तेऽनेन मरुवकः । ʻमृङ् प्राणत्यागे । श्वसन्त्यनेकरोगहरत्वात् श्वसनः । ʻश्वस प्राणने । दुःस्पर्शत्वेन करं हन्तीति करहाटकः । ʻहन हिंसागत्योः’ । शल्यं कण्टकमस्यास्तीति शल्यः । मदयतीति मदनः । ʻमदी हर्पग्लपनयोः’ । मरुवकनामानि । ʻमङ्गचेट्ट्ü ॥ शक्रस्य प्रियः पादपः शक्रपादपः । पारि निष्ठां प्राप्तं भद्रमस्य पारिभद्रकः । भद्रं च तद्दारु च भद्रदारु । द्रौ स्कन्धे किलिमं निर्यासोऽस्य द्रुकिलिमम् । पीतवर्णं च तद्दारु च पीतदारु । पूतिदार्विति पाठे पूतिगन्धि काष्ठं पूतिकाष्ठं, पूतिकाष्ठं च तद्दारु च पूतिदारु । एतौ शब्दौ विरुद्धलक्षणया निष्पन्नौ । दीर्यत इति दारु । ʻदॄ विदारणे । देवानां दारु देवदारु । अयं पुल्लिङ्गेऽपि । देवदारुनामानि । ʻदेवदारुवृक्षम्ü ॥ ५२-३ ॥

मल्लि-नाथः - AK.02.04.052-53

अल्पा शमी—स्यात् । अल्पशमीवृक्षनाम । ʻनेलजम्मि ॥ शमी—शिवा । शमीवृक्षनामनी । ʻजम्मिचेट्ट्ü ॥ पिण्डीतको—श्वसनः करहाटकः । स्वसन इति केचित् ॥ शल्यश्च मदने । मदनवृक्षनामानि । ʻमङ्गचेट्ट्ü ॥ शक्रपादपः—देवदारुणि । देवदारुद्रुमनामानि । ʻदेवदारुचेट्ट्ü ॥ ५२-३ ॥

[[०२.२४७]]

मूलम् - ०२.०४.०५

(०२.०४.०५४ब्) अथ द्वयोः ।
(०२.०४.०५४च्द्) पाटलिः पाटलामोघा काला स्थाली फलेरुहा ॥ ५४ ॥
(०२.०४.०५५अब्) कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया ।
(०२.०४.५५च्द्) लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥
(०२.०४.०५६अब्) विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सः ।

लिङ्ग-सूरी - AK.02.04.054-55

अथेति—पाटलवर्णपुष्पत्वात् पाटलिः । पाटला च । उपयोगिपुष्पत्वाद् अमोघा । मोघा इत्यपि पाठः । कृष्णवृन्तत्वात् काला । रसाधारकुम्भत्वात् स्थाली । काचस्थालीति पाठे काचवर्णा स्थाली वृन्तमस्या अस्तीति काचस्थाली । कालस्थालीति पाठे कालवर्णस्थालीत्वात् कालस्थाली । साचस्थालीति पाठे सा च स्थालीति पदच्छेदः । साङ्कुरफलत्वात् फले रोहतीति फलेरुहा । कृष्णं वृन्तमस्या अस्तीति कृष्णवृन्ता । यक्षाक्षितुल्यपुष्पत्वात् कुबेराक्षी । पाटलाया नामानि । ʻकलिगोट्टुचेट्ट्ü ॥ श्यामवर्णत्वात् श्यामा । महिलायाः स्त्रियाः आह्वयः नाम यस्याः सा महिलाह्वया । स्त्रियाः यानि नामानि तान्यस्या वर्तन्त इत्यर्थः । लतारूपत्वात् लता । गवि भूमौ वन्द्यते स्तूयत इति गोवन्दनी । ʻवदि अभिवादनस्तुत्योः’ । गुद्यते क्रीड्यतेऽनयेति गुन्द्रा । ʻगुद क्रीडायाम् । प्रीणाति रोगहरणेन प्रियङ्गुः । ʻप्रीञ् तर्पणे कान्तौ च्ö । फलयोगात् फलिनी । फलति विशीर्यत इति वा । फली च । ʻञिफला विशरणे । विष्वक् सिनोति बध्नातीति विष्वक्सेना । गन्धानि स्थूलानि फलान्यस्या गन्धफली । गन्धप्रधानं फलमस्या इति वा । किञ्चित् रम्भा कारम्भा । प्रिय एव प्रियकः । प्रियङ्गुनामानि । ʻप्रेङ्कणपुचेट्ट्ü ॥ ५४-५ ॥

मल्लि-नाथः - AK.02.04.054-55

अथ द्वयोः पाटलिः—अमोघा । ʻअमोघा पाटलीर्न क्ली इति वैजयन्ती (पृ। ५२, श्लो। ९०) । ʻमोघा स्त्री पाटलीवृक्षे माघस्त्रिषु निरर्थकः’ इति रुद्रः ॥ काचस्थाली—कुबेराक्षी । पाटलातरुनामानि । ʻकालिगोट्ट्ü ॥ श्यामा तु—फली । ʻप्रियके तु प्रियङ्ग्वाख्या’ इति वैजयन्ती (पृ। ५०, श्लो। ६६) ॥ विष्वक्सेना—प्रियका च सा । प्रियङ्गुवृक्षनामानि । ʻप्रेङ्कणमुन्न्ü ॥ ५४-५ ॥

[[०२.२४८]]

(०२.०४.०५६च्द्) मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ॥ ५६ ॥

मूलम् - ०२.०४.०५७

(०२.०४.०५७अब्) स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः ।
(०२.०४.०५७च्द्) शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥
[[०२.२४९]]

(०२.०४.०५८अब्) अमृता च वयस्था च त्रिलिङ्गस्तु विभीतकः ।
(०२.०४.०५८च्द्) नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥ ५८ ॥

लिङ्ग-सूरी - AK.02.04.056-58

मण्डूकपर्णेति—मण्डूका इव पर्णान्यस्य मण्डूकपर्णः । पत्रेपूर्णा यस्य पत्रोर्णः । नटति वातेनेति नटः । ʻनट नृत्तü । कटून्यङ्गान्यस्येति कट्वङ्गः । शिखाभिः टुण्टु इति शब्दं कायतीति टुण्टुकः । ʻकै शब्दे । डुण्डुक इति वा पाठः । स्योनं सुखमकतीति स्योनाकः । ʻअक अग कुटिलायां गतü । श्योनाक इति पाठे श्यायत इति श्योनाकः । ʻश्यैङ् गतü । शुकनासाकाराणि पुष्पाण्यस्य शुकनासः । ऋक्ष्णोति हिनस्तीति ऋक्षः । ʻऋक्ष हिंसायाम् । दीर्घं वृन्तमस्य दीर्घवृन्तः । कुटन् वक्रीभवन् नटतीति कुटन्नटः । ʻनट नृत्तü । शोणतीति शोणकः । ʻशोणृ वर्णगत्योः’ । शोनक इति पाठे शवति व्याप्नोति सर्वतः शाखाभिरिति शोनकः । ʻशव गतü । इयर्ति पित्तादिकमपसरतीत्यरालुः । ʻऋ गतü । शोणकनामानि । ʻपेद्दमान्ü ॥ तिष्यनक्षत्रवद् भास्वरं फलमस्या इति तिष्यफला । आमलते गुणानामलकी । ʻमल मल्ल धारणे । अमलफलयोगाद्वा । रसायनत्वादमृता । वयसि तिष्ठत्यस्या भक्षणेनेति वयस्था । वयो यौवनं तिष्ठति स्थिरीभवत्यनयेति वा । ʻष्टा गति निवृत्तü । आमलकीनामानि । ʻउसिरिकचेट्ट्ü ॥ विभेत्यस्माद् रोग इति विभीतकः । ʻञिभी भये । अक्ष्णोति फलैरिति अक्षः । ʻअक्षू व्याप्तü । तुष्यति स्वल्पवारिणेति तुषः । ʻतुष तुष्टü । कर्षमात्राणि फलान्यस्येति कर्षफलः । भूतानामावासो भूतावासः । कलेराश्रयो द्रुमः कलिद्रुमः । विभीतकनामानि । ʻदाण्ड्रचेट्ट्ü ॥ ५६-८ ॥

मल्लि-नाथः - AK.02.04.056-58

मण्डूकपर्ण—शोणकश्चारलौ । ʻभूतपुष्पो नटोदङ्कभक्षकट्वङ्ग आरलुः’ इत्यभिधानाद्दीर्घादिः । ʻमयूरजङ्घोऽरलुकः प्रियकेतुः कुटन्नटः’ इत्यभिधानात् ह्रस्वादिः । आरलुद्रुमनामानि । ʻपेनुमानु । दुन्दिलमुन्न्ü ॥ तिष्यफला—वयस्था च । आमलकनामानि । ʻउशिरिकचेट्ट्ü । अनुक्तम्—ʻमाकन्दी तु फलं तस्याः’ । तत्फलनाम । ʻउशिरिककाय्ö ॥ त्रिलिङ्गः—विभीतकः । नाक्षः । स्वग्रहणं नियमार्थम् ॥ तुषः—कलिद्रुमः । विभीतकतरुनामानि । ʻताण्डिचेट्ट्ü ॥ ५६-८ ॥

[[०२.२५०]]

मूलम् - ०२.०४.०५९

(०२.०४.०५९अब्) अभया त्वव्यथा पथ्या कायस्था पूतनामृता ।
(०२.०४.०५९च्द्) हरीतकी हैमवती रेचकी श्रेयसी शिवा ॥ ५९ ॥

लिङ्ग-सूरी - AK.02.04.059

अभयेति—नास्ति भयमस्याः सकाशाद् अभया । न व्यथयति रोगहरत्वाद् अव्यथा । ʻव्यथ भयसञ्चलनयोः’ । निरामये पथि साध्वी पथ्या । कायस्तिष्ठत्यनयेति कायस्था । काये शरीरे आरोग्यकरी तिष्ठतीति वा । वयस्थेति पाठे व्युत्प्ततिः पूर्वोक्ता । पूतयति पुरुषं पूतं करोतीति पूतना । ʻपूञ् पवने । रसायनत्वात् नास्ति मृतिर्मरणमस्या इत्यमृता । हरति रोगानिति हरीतकी । ʻहृञ् हरणे । हिमवति गिरौ प्रचुरा हैमवती । रेचयति विरेचनं करोतीति रेचकी । ʻरिचिर् विरेचने । श्रेयः करोतीति श्रेयसी । दोषशमनात् शिवा । हरीतकीनामानि । ʻकरकचेट्ट्ü ॥ ५९ ॥

मल्लि-नाथः - AK.02.04.059

अभया—वयस्था । कायस्थेत्यपि ॥ पूतना—शिवा । हरीतकीनामानि । ʻकरकचेट्ट्ü ॥ ५९ ॥

मूलम् - ०२.०४.०६०

(०२.०४.०६०अब्) पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः ।
(०२.०४.०६०च्द्) कर्णिकारः परिव्याधे लकुचो लिकुचो दहुः ॥ ६० ॥

लिङ्ग-सूरी - AK.02.04.060

पीतद्रुरिति—पीतवर्णो द्रुर्द्रुमः पीतद्रुः । सरति विस्तारं प्राप्नोतीति सरलः । सरलसञ्ज्ञकत्वाद्वा । पूतिगन्धि काष्ठं पूतिकाष्ठम् । सरलनामानि । ʻसरलपुचेट्ट्ü ॥ अस्य द्रुमस्योत्पलानीव पुष्पाणि सन्तीति द्रुमोत्पलः । कर्णिकाकारभूषणम् इयर्तीति कर्णिकारः । ʻऋ गतü । वायुना परिविध्यत इति परिव्याधः । ʻव्यध ताडने । कर्णिकारनामानि । ʻकोण्डगोङ्ग्ü ॥ लक्यते आस्वाद्यत इति लकुचः । लिकुचश्च । ʻलकि आस्वादने अग्निना दह्यत इति दहुः ʻदह भस्मीकरणे । ʻकम्मरेङ्ग्ü ॥ ६० ॥

मल्लि-नाथः - AK.02.04.060

पीतद्रुः—पूतिका च । सरलनामानि । ʻअन्दुगचेट्ट्ü ॥ अथ द्रुमोत्पलः—परिव्याधः । कर्णिकारनामानि । ʻकोण्डगोण्ड्ü ॥ लकुचो—डहुः । गजजम्बीरनामानि । ʻगजनिम्म्ö ॥ अनुक्तम्—ʻशाकः क्रकचपत्रः स्यात् पृथक्छदहरीतकü । शाकवृक्षनामानि । ʻतेङ्कुचेट्ट्ü ॥ ६० ॥

[[०२.२५१]]

मूलम् - ०२.०४.०६१

(०२.०४.०६१अब्) पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः ।
(०२.०४.०६१च्द्) काकोदुम्बरिका फल्गुर्मलपूर्जघनेफला ॥ ६१ ॥

लिङ्ग-सूरी - AK.02.04.061

पनस इति—पन्यते स्तूयत इति पनसः । ʻपन स्तुतü । पणस इति पाठे पण्यते व्यवह्रियते पणसः । ʻपण व्यवहारे स्तुतौ च्ö । कण्टकितानि फलान्यस्य कण्टकिफलः । ʻपनस् चेट्ट्ü ॥ निचोल्यते जलेनेति निचुलः । ʻचुल समुच्छ्राये । हितं जलमस्य हिज्जलः । अम्बुनि जायत इत्यम्बुजः । ʻजनी प्रादुर्भावे । निचुलनामानि । ʻएर्रगन्नेर्ü ॥ काकप्रिया च सा उदुम्बरकल्पा च काकोदुम्बरिका । निःसारत्वात् फलतीति फल्गुः । ʻञिफला विशरणे । मलात् श्वित्रादिकात् पुनातीति मलपूः । ʻपूञ् पवने । मलं यावयते कुत्सयतीति मलयूरिति वा पाठः । ʻयु जुगुप्सायाम् । जघने स्कन्धे फलानि यस्याः सा जघनेफला । ʻकुक्कमेडिचेट्ट्ü ॥ ६१ ॥

मल्लि-नाथः - AK.02.04.061

पनसः कण्टकिफलः । पनसवृक्षनामनी । ʻपनसचेट्ट्ü । पवर्गद्वितीयादिरिति केचित् । पणस इति टवर्ग्यमध्यम इति केचित् ॥ निचुलो—जघनेफला । काकोदुम्बरनामानि । ʻब्रह्ममेडि ॥ ६१ ॥

मूलम् - ०२.०४.०६२

(०२.०४.०६२अब्) अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः ।
(०२.०४.०६२च्द्) पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरु शिंशुपा ॥ ६२ ॥

लिङ्ग-सूरी - AK.02.04.062

अरिष्ट इति—न रिष्यते कुष्ठरोगग्रस्तोऽनेनेति अरिष्टः । ʻरिष हिंसायाम् । सर्वतो भद्रमस्य सर्वतोभद्रः । हिङ्गुवन्निर्यासोऽस्येति हिङ्गुनिर्यासः । मल्यते काकैर्वेष्ट्यत इति मालकः । ʻमल धारणे । पिचुं कुष्ठं मन्दयतीति पिचुमन्दः । ʻमदि हर्षग्लपनयोः’ । आरोग्यं नयतीति निम्बः । ʻणीञ् प्रापणे । निम्बनामानि । ʻवेपचेट्ट्ü ॥ पिच्छास्या अस्तीति पिच्छिला । न गुरु अगुरु । रोगं शिनोति तनूकरोतीति शिंशुपा । ʻशीञ् निशातने । शिंशपेति वा पाठः । शिंशुपानामानि ʻडरुगुडुम्रानि ॥ ६२॥

मल्लि-नाथः - AK.02.04.062

अरिष्टः—निम्बे । निम्बनामानि । ʻवेम्पचेट्ट्ü । अनुक्तम्—ʻकालशाकस्तु कैडर्यः’ । कैडर्यनामनी । ʻकरिवेम्पचेट्ट्ü ॥ अथ पिच्छिलागुरु । नपुंसकम् । ʻअगुरु क्ली शिंशपायां जोङ्गके लघुनि त्रिष्ü इति रुद्रः । ʻशिंशपा’ ॥ ६२ ॥

[[०२.२५२]]

मूलम् - ०२.०४.०६३

(०२.०४.०६३अब्) कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः ।
(०२.०४.०६३च्द्) भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥

लिङ्ग-सूरी - AK.02.04.063

कपिलेति—काम्यत इति कपिला । ʻकमु कान्तü । भस्मतुल्या मज्जा गर्भे अस्या अस्तीति भस्मगर्भा । हस्तिगर्भेति पाठे हस्तितुल्यो गर्भो मज्जा अस्या अस्तीति हस्तिगर्भा । कपिलानामनी । ʻकम्पुगलयरुगुडु चेट्ट्ü ॥ पिच्छिलादीनि भस्मगर्भान्तानि पदानि शिंशुपाया नामानीति केचित् ॥ शीर्यते मृदुपुष्पत्वादिति शिरीषः । ʻशॄ हिंसायाम् । कपीन् तनोतीति कपीतनः । ʻतनु विस्तारे । भण्ड्यते परिभाष्यते शुकैरिति भण्डिलः । ʻभडि परिभाषणे । शिरीषनामानि । ʻदिरिसेनपुचेट्ट्ü ॥ चम्पादेशे भवः चाम्पेयः । चम्यते षट्पदैरिति चम्पकः । ʻचमु अदने । हेमवर्णं पुष्पमस्येति हेमपुष्पकः । चम्पकनामानि । ʻसम्पेङ्गचेट्ट्ü ॥ ६३ ॥

मल्लि-नाथः - AK.02.04.063

कपिला—सा । शिंशपावृक्षनामानि । ʻपिच्छिला च महाश्यामा कृष्णसारस्तथागर्ü इति शेषे । ʻयिरुगुडुचेट्ट्ü । शिरीषस्तु—भण्डिलोऽपि । ह्रस्वमध्यः । ʻअथ भण्डिले कपीतनः शिरीषश्च्ö इति वैजयन्ती (पृ। ५१, श्लो। ७२) । शिरीषनामानि । ʻदिरिशिनचेट्ट्ü ॥ अथ चाम्पेयः—हेमपुष्पकः । चम्पकनामानि । ʻसम्पेङ्गचेट्ट्ü । ʻपञ्चपञ्चश्च सुरभिः’ । एते च ॥ ६३ ॥

[[०२.२५३]]

मूलम् - ०२.०४.०६४

(०२.०४.०६४अब्) एतस्य कलिका गन्धफली स्यादथ केसरे ।
(०२.०४.०६४च्द्) वकुलो वञ्जुलोऽशोके समौ करकदाडिमौ ॥ ६४ ॥

लिङ्ग-सूरी - AK.02.04.064

एतस्येति—गन्ध एव फलमस्या इति गन्धफली । चम्पककलिकानाम । ʻसम्पेङ्गमोग्गुपेर्ü ॥ के शिरसि सरति गन्धसारत्वात् केसरः । ʻसृ गतü । (कविभिः) उच्यते रोगानत्तीति वकुलः । ʻवच परिभाषणे । वकुलनामनी । ʻपोगडचेट्ट्ü ॥ वन्यते याच्यते कर्णपूरायेति वजुलः । ʻवनु याञ्चने । अश्नुते व्याप्नोतित्यशोकः । ʻअशू व्याप्तü । शोकनाशकत्वाद्वा । अशोकनामनी । ʻअशोकवृक्षम्ü ॥ करोति दोषाभावमिति करकः । ʻडुकृञ् करणे । किरति बीजानीति वा । ʻकॄ विक्षेपे । दल्यते पक्कावस्थायामिति दाडिमः । ʻदल विशरणे । दाडिमनामनी । ʻदानिम्मचेट्ट्ü ॥ ६४ ॥

मल्लि-नाथः - AK.02.04.064

एतस्य—स्यात् । एतत्कोरकनाम । ʻसम्पेङ्गमुग्ग्ö ॥ अथ—बकुलः । केसरवृक्षनामनी । ʻपोगड्ö । ʻकेसरः सिंहपूर्वश्च भव्यपूर्वश्च लम्पटः’ । एते च ॥ वञ्जुलोऽशोके । अशोकनामनी । ʻअशोकम्ü ॥ ʻकङ्केलिः कर्णपूरकः’ । एते च ॥ समौ—दाडिमौ । दाडिमद्रुमनामनी । ʻदानिम्म्ö । ʻस्वाद्वम्लो रक्तबीजश्च कुट्टिमः फलषाडवः’ । एतानि च ॥ ६४ ॥

मूलम् - ०२.०४.०६५

(०२.०४.०६५अब्) चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः ।
(०२.०४.०६५च्द्) जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥

लिङ्ग-सूरी - AK.02.04.065

चाम्पेय इति—चम्पाख्यदेशे भवः चाम्पेयः । के शिरसि सरतीति केसरः । ʻसृ गतü । नागप्रियाणि केसरवन्ति पुष्पाण्यस्य नागकेसरः । काञ्चनस्य स्वर्णस्याह्वयो यस्य काञ्चनाह्वयः । नागकेसरनामानि । ʻनागकेसरम्ü ॥ जयति शोषादिरोगानिति जया । जयन्ती च । तर्कं शोषादिनिवाशहेतुभावम् इयर्तीति तर्कारी । ʻऋ गतü । नद्यां भवा नादेयी । विजयते शोभादिकमनयेति वैजयन्तिका । जयन्तीनामानि । ʻतक्किलिचेट्ट्ü ॥ ६५ ॥

मल्लि-नाथः - AK.02.04.065

चाम्पेयः—काञ्चनाह्वयः। नागकेसकनामानि । ʻनागकेसरम्ü ॥ जया—वैजयन्तिका । तर्कारीनामानि । ʻतक्कोलचेट्ट्ü ॥ ६५ ॥

[[०२.२५४]]

मूलम् - ०२.०४.०६६

(०२.०४.०६६अब्) श्रीपर्णमग्निमन्थः स्यात् कणिका गणिकारिका ।
(०२.०४.०६६च्द्) जयाथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥

लिङ्ग-सूरी - AK.02.04.066

श्रीपर्णमिति—श्रीः शोभा पर्णेष्वस्य श्रीपर्णम् । अग्निं मथ्नात्यस्मिन्निति अग्निमन्थः । ʻमन्थ विलोडने । कणाः सन्त्यस्यामिति कणिका । गणिकावत् कुहकमियर्ति गच्छतीति गणिकारिका । जयति रोगानिति जया । ʻजि जये । अग्निमन्थस्य नामानि । ʻकूरनेल्लिचेट्ट्ö ॥ कुटिलो जायत इति कुटजः । ʻजनी प्रादुर्भावे । शक्रवृक्षत्वात् शक्रः । वस्ते त्वचमिति वत्सकः । ʻवस आच्छादने । गिरौ मल्लिकावत् तिष्ठतीति गिरिमल्लिका । कुटजनामानि । कोडिसेचेट्टु ॥ ६६ ॥

मल्लि-नाथः - AK.02.04.066

श्रीपर्णं—जया । अग्निमन्थवृक्षनामानि । ʻनेल्लिचेट्ट्ü । अथ कुटजः—गिरिमल्लिका । कुटजनामानि । ʻकोडिश्ö ॥ ६६ ॥

मूलम् - ०२.०४.०६७

(०२.०४.०६७अब्) एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले ।
(०२.०४.०६७च्द्) कृष्णपाकफलाविग्नसुषेणाः करमर्दके ॥ ६७ ॥

लिङ्ग-सूरी - AK.02.04.067

एतस्येति—कलिङ्गदेशे जातं कलिङ्गम् । इन्द्रवृक्षफलत्वाद् यववीजाकृतित्वाच्च इन्द्रयवम् । दीपनादिकल्याणकारित्वाद् भद्रयवम् । भद्रयवनामानि । ʻकोडीसेपण्ड्ü ॥ कृष्णं पाके फलमस्य कृष्णपाकफलः । आविजतेऽस्मादिति आविग्नः । ʻओविजी भयचलनयोः’ । उद्विग्न इति पाठे उद्विजन्ते जनाः पित्तकरेऽस्मिन्निति उद्विग्नः । सुषेणाख्यकपिमुखाभफलत्वात् सुपेणः । करेण मृद्यते करमर्दकः । ʻमृद मर्दने । करमर्दकनामानि । ʻकरिवे चेट्ट्ü ॥ ६७ ॥

मल्लि-नाथः - AK.02.04.067

एतस्यैव—फले । एतत्फलनामानि । ʻकोडिशकाय्ö । ʻकुटजस्य फले क्लीवं कलिङ्गेन्द्रयवं स्मृतम् इति रत्नकोशपाठात् समासाभिप्रेतम् । ʻकलिङ्गं तु यवे ना तु देशपक्षिविशेषयोः’ इति वैजयन्तीपाठाद् (पृ। २५९, श्लो। ३३) व्यासाभिप्रेतं कलिङ्गम् इन्द्रयवमिति ॥ अनुक्तम्—ʻदोषग्राहस्तु कतकः’ । कतकनाम । ʻइण्डुपुचेट्ट्ü ॥ ʻजम्बूः स्त्री सुरभीच्छदः’ । जम्बूनाम । ʻनेरेड्ü ॥ कृष्णपाकफला—करमर्दके । करमर्दकनामानि । ʻकलिवेचेट्टुन्नु वोङ्कचोट्टुन्न्ü । शब्दार्णवे कृष्णपाकफलशब्दाः बहुधा विकल्पिताः —

ʻकृष्णः पाकः फलो विग्नः सुषेणः करमर्दकः ।

कृण्णपाकफलः कृष्णफलपाको वनालकः ॥

कृण्णपाकफलादिश्च पाककृण्णः फलादिकः ।

कृण्णपाकः पाककृण्णः फलकृण्णो वरालकः ॥

पाककृण्णफलः पाकफलकृण्णः कराम्बुकः ।

फलपाकः पाकफलो बोलः कृण्णफलो वशः ॥

इति ॥ ६७ ॥

[[०२.२५५]]

मूलम् - ०२.०४.०६८

(०२.०४.०६८अब्) कालस्कन्धस्तमालः स्यात् तापिच्छोऽप्यथ सिन्दुकः ।
(०२.०४.०६८च्द्) सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८ ॥

लिङ्ग-सूरी - AK.02.04.068

कालस्कन्ध इति—कालवर्णः स्कन्धोऽस्य कालस्कन्धः । तम्यते तापिभिरिति तमालः । ʻतमु काङ्क्षायाम् । तापिनः छादयतीति तापिच्छः । ʻछद अपवारणे । तमालनामानि । ʻतमालम्ü ॥ स्यन्दते कटुरक्तरसमिति सिन्दुकः । ʻस्यन्दू प्रस्रवणे । सिन्दुं स्यन्दनं त्वगादिना वृणोतीति सिन्दुवारः । ʻवृञ् वरणे । इन्द्रस्य सुरसः प्रिय इति इन्द्रसुरसः । गुडतीति गुडः । ʻगुड वेष्टने । गुडाद्वेष्टनान्निष्क्रान्ता निर्गुण्डी । इन्द्रस्य प्रिया इन्द्राणिका । सिन्दुवारनामानि । ʻवाविलिचेट्ट्ü ॥ ६८ ॥

मल्लि-नाथः - AK.02.04.068

कालस्कन्धः—तापिच्छोऽपि । तमालतरुनामानि । ʻचीकटिचेट्ट्ü ॥ अथ सिन्दुके—इन्द्राणिकेत्यपि । सिन्दुकनामानि । ʻवाविलिचेट्ट्ü ॥ ६८ ॥

[[०२.२५६]]

मूलम् - ०२.०४.०६९

(०२.०४.०६९अब्) वेणी गरागरी देवताडो जीमूत इत्यपि ।
(०२.०४.०६९च्द्) श्रीहस्तिनी तु भूरुण्डी तृणशूल्यं तु मल्लिका ॥ ६९ ॥
(०२.०४.०७०अब्) भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा ।

लिङ्ग-सूरी - AK.02.04.069

वेणीति—वेणीवत् तिष्ठतीति वेणी । गरं मूषिकविषम् आगिरतीति गरागरी । ʻगॄ निगरणे । खरागरी, खरा, गरीति वा पाठः । ताडयन्ति कर्णं ताडाः अङ्कुराः । ʻतड आघाते । अङ्कुरा उद्भिदस्तेषु मुख्यत्वात् देवताडः । देवमिन्द्रियं ताडयतीति वा । जीमूत इवाह्लादकत्वात् जीमूतः । देतालनामानि । ʻदेवताडि पेल्ल्ü ॥ शोभान्वितहस्तिकर्णाभपत्रयोगात् श्रीहस्तिनी । भुवि रोहतीति भूरुण्डी । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । ʻगुरुगुचेट्ट्ü ॥ तृणशूले वातगुल्मे साधु तृणशूल्यम् । तृणशून्यं, तृणशून्या, तृणशूल्या इति पाठाः । मल्यते मूर्ध्नि मल्लिका । ʻमल मल्ल धारणे । भुवि पदं यस्याः सा भूपदी । शीताद् भीरुरिति शीतभीकुः । ʻञिभी भये । मल्लिकानामानि । ʻमल्लेचेट्ट्ü ॥ आस्फोटति ईषद्विकसतीति आस्फोटा । ʻस्फुट विकसने । आस्फोतेति वा पाठः । ʻअडविमल्लेपेर्ü ॥ ६९ ॥

मल्लि-नाथः - AK.02.04.069

वेणी—जीमूत इत्यपि । देवतालनामानि । ʻडापरडङ्गि । अनुक्तम्—ʻअजभक्षस्तु गोशृङ्गो बर्बुरश्च युगाक्षरः’ । बर्बुरनामानि । ʻबोब्बचेट्ट्ü । ʻकारस्करो महाकोलः किम्पाकः कालकूटकः’ । किम्पाकद्रुमनामानि । ʻकाञ्जीरवृक्षम्ü ॥ श्रीहस्तिनी—भूरण्डी । श्रीहस्तिनीनामनी । ʻगुरुगुचेट्ट्ü ॥ तृणशूल्यं तु । सुभूतिटीकायां तृणशूल्या तृणशून्या वेति रूपान्तरसत्ता स्त्रीलिङ्गता चोक्ता । मल्लिका—शीतभीरुश्च । मल्लिकानामानि । ʻमल्ले । ʻमदयन्ती विचकिलः’ । एते च ॥ सैव—वनोद्भवा । ʻअडविमल्ले । ʻकाकमल्यां वनोद्भवा’ इति वैजयन्ती (पृ। ६०, श्लो। १८४) ॥ ६९ ॥

[[०२.२५७]]

(०२.०४.०७०च्द्) शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥ ७० ॥

मूलम् - ०२.०४.०७१

(०२.०४.०७१अब्) सितासौ श्वेतसुरसा भूतवेश्यथ मागधी ।
(०२.०४.०७१च्द्) गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥

लिङ्ग-सूरी - AK.02.04.070-71

शेफालिकेति—शेर इति शेफाः निद्राणा अलयोऽत्रेति शेफालिका । सुष्ठु वहत्यामोदं सुवहा । ʻवह प्रापणे । गुडाद्वेष्टनान्निष्क्रान्ता निर्गुण्डी । नालपुष्पत्वात् नीलिका । शेफालिकानामानि । ʻनल्लवाविलि ॥ श्वेतः शोभनो रसो यस्याः सा श्वेतसुरसा । भूतानि विशत्याह्लादयतीति भूतवेशी । ʻविश आह्लादने । श्वेतशेफालिकानामनी । ʻतेल्लवाविलि ॥ मगधदेशप्रचुरा मागधी । गणिकावच्चित्ताकर्षणाद् गणिका । यूथो जालकमस्या अस्तीति यूथिका । भ्रमरैरम्ब्यते शब्द्यत इत्यम्वष्टा । ʻअबि शब्दे । अम्बो भ्रमराणां ध्वनिः, सोऽत्र तिष्ठतीति वा । ʻष्ठा गतिविवृत्तü । यूथिकानामानि । ʻअडविमोल्ल्ö ॥ हेमवर्णानि पुष्पाणि यस्या हेमपुष्पिका । पीतपुष्पयूथिकानाम । ʻपच्चपूवुलमोल्लपेर्ü ॥ ७०-१ ॥

मल्लि-नाथः - AK.02.04.070-71

शेफालिका—नीलिका च सा । नीलपुष्पनिर्गुण्डीनामानि । ʻनल्लवाविलि ॥ सितासौ—भूतवेशी । श्वेतपुष्पनिर्गुण्डीनामानि । ʻतेल्लवाविलि ॥ अथ मागधी—अम्बष्ठा । ʻमुल्ल्ö । सा—हेमपुष्पिका । सा यूथिका पीतपुष्पा चेत् हेमपुष्पिका । ʻपच्चपुप्पुलमुल्ल्ö ॥ ७०-१ ॥

पगे २५८ इस् लेफ़्त्।

लिङ्ग-सूरी - AK.02.04.073

म्लानः । महतीं पीडां सम्मर्दं सहते महासहा । महती च सा सहा चेति वा । महासहानामनी । ʻपेद्दगोरिण्ट्ö ॥ ७३ ॥

मल्लि-नाथः - AK.02.04.073

माध्यं कुन्दम् । कुन्दनाम । ʻकुन्दं वासो स्मृतं माध्यो दलकोशो दलाढकः’ इति पुन्नपुंसकयोर्व्यालिः । ʻतोण्टमुल्ल्ö । रक्तकस्तु—बन्धुजीवकः । बन्धुजीवनामानि । ʻमङ्केन्ö । सहा—तरणिः । सहानामानि । ʻचामन्ति ॥ अम्लानस्तु महासहा । महासहानामनी । ʻअनल्यमैनरेकुलुगलचामन्ति । अदे गोञ्जङ्गि । ʻकुब्बिका भद्रतरणिः वृहत्पत्रार्तिकेसरा । महासहा’ इति धन्वन्तरिः ॥ ७३ ॥

[[०२.२५९]]

मूलम् - ०२.०४.०७४

(०२.०४.०७४अब्) तत्र शोणे कुरवकस्तत्र पीते कुरण्टकः ।
(०२.०४.०७४च्द्) नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा ॥ ७४ ॥

लिङ्ग-सूरी - AK.02.04.074

तत्रेति—तत्र अम्लाने । कौ भुवि रूयते साधुरिति कुरवकः । ʻरु शब्दे । कुरवकनाम । ʻएर्रपूवुलगोरिण्ट्ö ॥ कौ भूमौ रम्यते कुरण्टकः । ʻरमु क्रीडायाम् । कुरण्टकनाम । ʻपच्चपूवुलगोरिण्ट्ö ॥ तत्र नीलपुष्पत्वात् नीली । झिमिति शब्दं करोति शुष्कदशायामिति झिण्टी । बणति शुष्कदशायामिति बाणा । ʻबण शब्दे । दस्यते क्षीयते कालेनेति दासी । ʻदसु उपक्षये । आर्तः क्षीणः सन् गलतीति आर्तगलः । ʻगल अदने स्रवणे च्ö । नीलझिण्टिकानामानि । ʻनल्लपूवुलगोरिण्ट्ö ॥ ७४ ॥

मल्लि-नाथः - AK.02.04.074

तत्र—कुरबकः । शोणसहानाम । ʻयेर्रचामन्ति ॥ तत्र—कुरण्टकः । पीतसहानाम । ʻपच्चशामन्ति ॥ नीली—चार्तगलस्तथा । नीलझिण्टीनामानि । ʻनल्लगेरिण्ट्ö ॥ ७४ ॥

मूलम् - ०२.०४.०७५

(०२.०४.०७५अब्) सैरेयकस्तु झिण्टी स्यात् तस्मिन् कुरवकोऽरुणे ।
(०२.०४.०७५च्द्) पीता कुरण्टको झिण्टी तस्मिन् सहचरी द्वयोः ॥ ७५ ॥

लिङ्ग-सूरी - AK.02.04.075

सैरेयक इति—सिराख्या वृक्षा यस्मिन् सन्तीति सैरः, सैरदेशे भवः सैरेयकः । शुष्के सति झिमिति शब्दं करोतीति झिण्टी । सैरेयकनामनी । ʻमुलुगोरिण्ट्ö ॥ कुरवकशब्दश्चोक्तः । कुरण्टक उक्तः । भ्रमरीभिः सह भ्रमराश्चरन्त्यस्यामिति सहचरी । ʻचर गतü । ʻपच्चपुव्वुलगोरिण्ट्ö ॥ ७५ ॥

मल्लि-नाथः - AK.02.04.075

सैरेयकस्तु—स्यात् । श्वेतझिण्टीनाम । ʻतेल्लगोरण्ट्ö ॥ तस्मिन्—अरुणे । ʻयेर्रगोरण्ट्ö । पीते—द्वयोः । पीतझिण्टीनामानि । ʻपच्चगोरण्ट्ö । अनुक्तम्—ʻकिङ्कराटः किङ्करातो वर्णपुष्पो मिलातकः’ । ʻवन्नेचेट्ट्ü ॥ ७५ ॥

[[०२.२६०]]

मूलम् - ०२.०४.०७६

(०२.०४.०७६अब्) उडुपुष्पं जपा पुष्पं वज्रपुष्पं तिलस्य यत् ।
(०२.०४.०७६च्द्) प्रतिहासशतप्रासचण्डातहयमारकाः ॥ ७६ ॥
(०२.०४.०७७अब्) करवीरे करीरे तु क्रकरग्रन्थिलावुभौ ।

लिङ्ग-सूरी - AK.02.04.076

उडुपुष्पमिति—उडुदेशे भवं पुष्पं उडुपुष्पम् । ओड्रपुष्पमिति वा पाठः । जपतीव तिष्ठति जलमध्ये जपा । ʻजप जल्प व्यक्तायां वाचि । जपानामनी । ʻदासानिचेट्ट्ü ॥ विरुद्धलक्षणया वज्रवत् कठिनं पुष्पं वज्रपुष्पम् । ʻनुव्वु पूवुपेर्ü ॥ विकसितैः पुष्पैः प्रतिहसतीव तिष्ठतीति प्रतिहासः । ʻहसे हसने । शतं प्रासा इव तीक्ष्णाः कुड्मला अस्येति शतप्रासः । चण्डं तीक्ष्णमततीति चण्डातः । ʻअत सातत्यगमने । कशासादृश्यशाखात्वाद् हयान् मारयतीति हयमारकः । ʻमृङ् प्राणत्यागे । करवीरवत् खड्गवत् मारकत्वात् रसपानेन करवीरः । कर्वीरनामानि । ʻगन्नेर्ü ॥ करिणं समीपगतम् ईरयति तीक्ष्णकण्टकैरिति करीरः । ʻईर क्षेपे । तीक्ष्णत्वात् क्रेति शब्दं करोति क्रकरः । ʻडुकृञ् करणे । ʻईर क्षेपे । तीक्ष्णत्वात् क्रेति शब्दं करोति क्रकरः । ʻडुकृञ् करणे । ग्रन्थिमत्त्वात् ग्रन्थिलः । करीरनामानि । ʻवेणुतुरुचेट्ट्ü ॥ ७६ ॥

मल्लि-नाथः - AK.02.04.076

ओड्रपुष्पं जपा । जपानामनी । ʻदासनम्ü । ʻजपायामोड्रपुष्पं स्यादत्र पद्मादयोऽपि च्ö इति वैजयन्ती (पृ। ६१, श्लो। १९५) । रुद्रपुष्पं जपेति क्कचित्पाठः । ʻरुद्रपुष्पमभिधीयते जपा’ इति हलायुधः (अ। मा। २। ५२) । पुष्पं—तिलस्य यत् । तिलस्य पुष्पं यत् तद्वज्रपुष्पं स्यात् । ʻनुवुपुव्व्ü ॥ प्रतिहास—करवीरे । करवीरनामानि । ʻगन्नर्ü ॥ अनुक्तम्—ʻतारावतस्तु दगरो नन्द्यावर्तो नभोङ्गणः’ । ʻनन्दिवर्धनम्ü ॥ करीरे—ग्रन्थिलाव् उभौ । करीरतरुनामानि । ʻवेणुतुर्ü ॥ ७६ ॥

[[०२.२६१]]

(०२.०४.०७७च्द्) उन्मत्तः कितवो धूर्तो धुत्तूरः कनकाह्वयः ॥ ७७ ॥

मूलम् - ०२.०४.०७८

(०२.०४.०७८अब्) मातुलो मदनश्चास्य फले मातुलपुत्रकः ।
(०२.०४.०७८च्द्) फलपूरो बीजपूरो रुचको मातुलङ्गके ॥ ७८ ॥

लिङ्ग-सूरी - AK.02.04.077-78

उन्मत्त इति—उन्मादयतीत्युन्मत्तः । ʻमदी हर्षग्लपनयोः’ । अत एव कितवः । धूर्वत्युन्मादकरणेनेति धूर्तः । ʻउर्वी तुर्वी धुर्वी हिंसायाम् । वातादिदोषान् धुवतीति धुत्तूरः । ʻधू विधूनने । काञ्चनस्याह्वयो नाम यस्य काञ्चनाह्वयः । कनकाह्वय इति वा पाठः । उन्मादकद्रव्येषु मा नास्ति तुला साम्यमस्येति मातुलः । मदयतीति मदनः । ʻमदी हर्षग्लपनयोः’ । धुत्तूरनामानि । ʻउम्मेत्तपेर्ü ॥ मातुलस्य पुत्रः फलं मातुलपुत्रकः । ʻउम्मेत्तकाय्ö ॥ फलैः पूर्यत इति फलपूरः । ʻपॄ पालनपूरणयोः’ । बीजैः पूर्यत इति बीजपूरः । रोचते स्वफलं नरेभ्य इति रुचकः । ʻरुच दीप्तावभिप्रीतौ च्ö । रुच्यवस्तुष्वनेन मा तुलां गच्छतीति मातुलुङ्गकः । मातुलुङ्गकनामानि । ʻमादीफलमुचेट्ट्ü ॥ ७७-८ ॥

मल्लि-नाथः - AK.02.04.077-78

उन्मत्तः—धुत्तूरः । तुर्तूरः दुस्तूर इति च क्वचित्पाठः । काञ्चनाह्वयः—मदनश्च । उन्मत्तद्रुमनामानि । ʻउम्मेत्तचेट्ट्ü ॥ अस्य—मातुलपुत्रकः । तत्फलनाम । ʻउम्मेत्तकाय्ö । अनुक्तम्—ʻत्रिपुरो मदमत्तः स्यात् । ʻवङ्गिचेट्ट्ü ॥ फलपूरो—मातुलुङ्गके । मातुलुङ्गनामानि । ʻमादिफलमुचेट्ट्ü ॥ ७७-८ ॥

[[०२.२६२ ]]

मूलम् - ०२.०४.०७९

(०२.०४.०७९अब्) समीरणो मरुवकः प्रस्थपुष्पः फणिज्जकः ।
(०२.०४.०७९च्द्) जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ ॥ ७९

लिङ्ग-सूरी - AK.02.04.079

समीरण इति—समीरयति प्रकाशयत्यामोदमिति समीरणः । ʻईर क्षेपे । मरुदेशे वाति वर्तत इति मरुवकः । ʻवा गतिगन्धनयोः’ । प्रस्थे सानौ स्थितोऽपि पुष्प्यतीति प्रस्थपुष्पः । ʻपुष्प विकसने । तीक्ष्णत्वेन फणाभपत्रत्वात् फणिज्जकः । फणिज्जकशब्दो देश्यः । जम्यते भक्ष्यत इति जम्बीरः । ʻजमु अदने । जम्बीरनामानि । ʻमरुवम्ü ॥ पुराणानि पर्णान्यस्यति क्षिपतीति पर्णासः । ʻअसु क्षेपणे । कठिनं मुद्गशष्कुल्यादिकं जरयति जीर्णं करोतीति कठिञ्जरः । ʻजॄष् वयोहानü । कुण्ठति मशकादिगतिं प्रतिबध्नातीति कुठेरकः । ʻकुठि प्रतिघाते । कठिञ्जरनामानि । ʻनल्लगग्गेर्ö ॥ ७९ ॥

मल्लि-नाथः - AK.02.04.079

समीरणो—जम्बीरोऽपि । मरुवकनामानि । ʻमरुवम्ü ॥ अथ पर्णासे—कुठेरकौ । पर्णासनामानि । ʻनल्लगग्गेर्ö ॥ ७९ ॥

मूलम् - ०२.०४.०८०

(०२.०४.०८०अब्) सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसञ्ज्ञकः ।
(०२.०४.०८०च्द्) अर्काह्ववसुकास्फोटगणरूपविकीरणाः ॥ ८० ॥
(०२.०४.०८१अब्) मन्दारश्चार्कपर्णेऽत्र शुक्लेऽलर्कप्रतापसौ ।

लिङ्ग-सूरी - AK.02.04.080

सित इति—अर्जयति नवपत्रादीन् अर्जकः । ʻअर्ज अर्जने । श्वेतपर्णासनाम । ʻतेल्लगग्गेर्ö ॥ वह्निपर्याये पाठोऽस्यास्तीति पाठी । चेतन्तीति चितो जन्तवस्तान् त्रायते व्याधित इति चित्रकः । ʻत्रेङ् पालने । वह्निसञ्ज्ञा नामास्यास्तीति वह्निसञ्ज्ञकः । चित्रकनामानि । ʻचित्रमूलम्ü ॥ अर्कस्याह्वा नामास्यास्तीति अर्काह्वः । वसत्यस्मिन् तेज इति वसुक । ʻवस निवासे । आस्फुटतीत्यास्फोटः । ʻस्फुट विकसने । आस्फोत इति वा पाठः । कालक्रमेण गणरूपाणि बहुरूपाण्यस्य गणरूपः । पुष्पाणि विकिरतीति विकीरणः । ʻकॄ विक्षेपे । मन्दान् क्षुद्रव्याधीनौषधत्वेन इयर्तीति मन्दारः । ʻऋ गतü ।अर्कवर्णपर्णत्वाद् अर्कपर्णः । मन्दारनामानि । ʻजिल्लेडुचेट्ट्ü ॥ अलति भूषयतीत्यल् । अल् चासौ अर्कश्च अलर्कः । ʻअल भूषणादü । प्रकृष्टास्तापसा अनेनेति प्रतापसः । अलर्कनामनी । ʻतेल्लपूव्वुलजिल्लेड्ü ॥ ८० ॥

मल्लि-नाथः - AK.02.04.080

सितेऽर्जकोऽत्र । श्वेतपर्णासनाम । ʻतेल्लगग्गेर्ö॥ अनुक्तम्—ʻदमनं तु ब्रह्मजटा’ । ʻदवनम्ü ॥ ʻतुलसी भारती समे । ʻतुलसी ॥ पाठी—वह्निसञ्ज्ञकः । चित्रमूलनामानि । ʻचित्रमूलम्ü । ʻचित्रको दहनव्यालपाठिसौरारुणोऽग्निकः’ इति तन्त्रान्तरपाठात पाठी इन्नन्तः ॥ अर्कार्ह—अर्कपर्णे । स्फाटस्फोटस्फोता इत्यमरमाला । अर्कवृक्षनामानि । ʻजिर्ल्लेड्ü ॥ अत्र शुक्ले—प्रतापसौ । अलर्कनामनी । ʻतेल्लजिर्ल्लेड्ü ॥ ८० ॥

[[०२.२६३]]

(०२.०४.०८१च्द्) शिवमल्ली पाशुपत एकाष्ठीलो बको वसुः ॥ ८१ ॥

मूलम् - ०२.०४.०८२

(०२.०४.०८२अब्) वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि ।

लिङ्ग-सूरी - AK.02.04.081

शिवमल्लीति—शिवेन मल्ल्यत इति शिवमल्ली । ʻमल मल्ल धारणे । पशुपतेरयं प्रियः पाशुपतः । एकोऽष्ठीलो मज्जास्यास्तीति एकाष्ठीलः । गन्धानुमेयसूक्ष्मांशैर्वाति गच्छतीति वकः । ʻवा गतिगन्धनयोः’ । वस्ते भूमिमाच्छादयतीति वसुः । ʻवस आच्छादने । बकपुष्पनामानि । ʻबकपुष्पम्ü ॥ वन्द्यते स्तूयते औषधत्वेनेति वन्दा । ʻवदि अभिवादनस्तुत्योः’ । वृक्षमत्ति पीडयतीति वृक्षादनी । ʻअद भक्षणे । वृक्षे रोहतीति वृक्षरुहा । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । जीवयतीति जीवन्तिका । ʻजीव प्राणधारणे । जीवन्तिकानामानि । ʻबदनिकपेर्ü ॥ ८१ ॥

मल्लि-नाथः - AK.02.04.081

शिवमल्ली—बुकः । बक इति वा । वसुः । बकपुष्पनामानि । ʻबकपुष्पमन्नचेट्ट्ü । वन्दा—जीवन्तिकेत्यपि । वृक्षोपरिप्ररूढविजातीयोद्भिन्नामानि । ʻबदनिक्ö ॥ ८१ ॥

[[०२.२६४]]

(०२.०४.०८२च्द्) वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता ॥ ८२ ॥

मूलम् - ०२.०४.०८३

(०२.०४.०८३अब्) जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि ।

लिङ्ग-सूरी - AK.02.04.082

वत्सादनीति—वत्सानां बालानामदनीयत्वाद् वत्सादनी । ʻअद भक्षणे । छिन्नापि रोहतीति छिन्नरुहा । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । ज्वरितान् गुडति रक्षतीति गुडूची । ʻगुड रक्षायाम् । तन्त्रयत्यायुरिति तन्त्रिका । ʻतन्त्रि कुटुम्बधारणे । रसायनत्वादमृता । जीवयति रोगिणमिति जीवन्तिका । ʻजीव प्राणधारणे । सोमस्यांशभूता वल्ली सोमवल्ली । विगतं शल्यमस्या इति विशल्या । मधुराणि पर्णान्यस्या इति मधुपर्णी । गुडूचीनामानि । ʻतिप्पतीगे ॥ ८२ ॥

मल्लि-नाथः - AK.02.04.082

वत्सादनी—मधुपर्ण्यपि । गुडूचीनामानि । ʻतिप्पतीङ्गे ॥ ८२ ॥

(०२.०४.०८३च्द्) मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा ॥ ८३ ॥

मूलम् - ०२.०४.०८४

(०२.०४.०८४अब्) मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ।

लिङ्ग-सूरी - AK.02.04.083

मूर्वेति—मूर्वति वेष्टयति यष्ट्यादिकमिति मूर्वा । ʻमुर्वी बन्धने । दीव्यतीति देवी । ʻदिवु क्रीडादü । मधुरसोऽस्या अस्तीति मधुरसा । मुरति वेष्टयति मोरटा । ʻमुर संवेष्टने । तेजयत्यग्निमिति तेजनी । ʻतिज निशातने । स्रवति रसमिति स्रवा । ʻस्रु प्रस्रवणे । मधु लातीति मधूलिका । ʻला दाने । मधुनः श्रेणिः पङ्क्तिरस्या इति मधुश्रेणी । गोकर्णाभपत्रत्वाद् गोकर्णी । पीलोरिव पर्णान्यस्याः पीलुपर्णी । मूर्वानामानि ॥ ʻचाङ्गचेट्ट्ü ॥ ८३ ॥

मल्लि-नाथः - AK.02.04.083

मूर्वा—पीलुपर्ण्यपि । यत्प्रभवत्वेन धनुर्गुणो मौर्वीत्युच्यते तस्योद्भिद्विशेषस्य नामानि । ʻचाङ्ग्ö ॥ ८३ ॥ </Amarapadaparijata

%%p. 02.265

AK.02.04.084cd pāṭhāmbaṣṭhā viddhakarṇī sthāpanī śreyasī śivā .. 84 ..

AK.02.04.085ab ekāṣṭhīlā pāpacelī prācīnā vanatiktakā .

लिङ्ग-सूरी - AK.02.04.084

पाठेति—बहुषु योकेषु पठ्यत इति पाठा । ʻपठ व्यक्तायां वाचि । अम्बे शब्दे तिष्टतीति अम्बष्ठा । ʻष्ठा गतिनिवृत्तü । वैद्यकर्णावनया विद्धाविति विद्धकर्णी । वस्तौ कर्मणि स्थापनीयत्वात् स्थापनी । श्रेयःसाधनत्वात् श्रेयसी । दोषशमनात् शिवा । एकोऽष्ठीलो मज्जास्या अस्तीति एकाष्ठीला । पापं चलयतीति पापचेली । ʻचल सञ्चलने । प्राच्यां भवा प्राचीना । वनजा च तिक्तरसा च वनतिक्तका । पाठानामानि । ʻअगुरुसोण्टि ॥ ८४ ॥

मल्लि-नाथः - AK.02.04.084

पाठाम्वष्ठा—वनतिक्तका । पाठाया नामानि । ʻपाट्ö, ʻइदे चिरिबोद्दि ॥ ८४ ॥

(०२.०४.०८५च्द्) कटुः कटुम्बराशोकरोहिणी कटुरोहिणी ॥ ८५ ॥

मूलम् - ०२.०४.०८६

(०२.०४.०८६अब्) मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी ।

लिङ्ग-सूरी - AK.02.04.085

कटुरिति—कटुरसोऽस्या अस्तीति कटुः । कटत्यवृणोति रोगमिति वा । ʻकटे वर्षावरणयोः’ । कटत्यावृणोति बलाख्यरोगमिति कटुंवरा । ʻवृञ् वरणे । कटुम्भरेति पाठे कटुं बिभर्तीति कटुम्भरा । कटम्भरेत्यपि पाठः । रोगजशोकं हन्ति रोपयति चाङ्गमिति अशोकरोहिणी । अशोका रोहणीति पदद्वयं वा । तत्पक्षे न विद्यते शोकोऽस्या अशोका । रोहति व्याप्नोत्यङ्गानीति रोहिणी । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । कटुश्चासौ रोहिणी च कटुरोहिणी । मत्स्यानां पित्तं जीवनमिति मत्स्यपित्ता । कृष्णो भेदः छेदोऽस्याः कृष्णभेदी । चक्रवदङ्गमस्या अस्तीति चक्राङ्गी । वक्राङ्गीति वा पाठः । शकुलानां मत्स्यानामदनमिति शकुलादनी । कटुरोहिणीनामानि । ʻकटुकरोहिणीपेर्ü ॥ ८५ ॥

मल्लि-नाथः - AK.02.04.085

कटुः—रोहिणी ।

ʻअशोका कटुरोहिण्यामशोको वञ्जुलद्रुमे ।

रोहिणी कटुरोहिण्यां भभेदे रोहिता गवोः ॥

इति रमसकोशादशोका रोहिणीति पदद्वयमपि । कटुरोहिणी । कटुकरोहिण्यपि ॥ मत्स्यपित्ता—शकुलादनी । शकुलादिनीति वा । कटुरोहिणीनामानि । ʻकटुकरोहिणीपेर्ü ॥ ८५ ॥

[[०२.२६६]]

(०२.०४.०८६च्द्) आत्मगुप्ताजहा व्यण्डा कण्डूरा प्रावृषायणी ॥ ८६ ॥

मूलम् - ०२.०४.०८७

(०२.०४.०८७अब्) ऋश्यप्रोक्ता शूकशिम्बिः कपिकच्छूश्च मर्कटी ।

लिङ्ग-सूरी - AK.02.04.086

आत्मगुप्तेति—आत्मा गुप्यतेऽस्या आत्मगुप्ता । ʻगुपू रक्षणे । न जहाति शूकान् अजहा । ʻओहाक् त्यागे । जडेति वा पाठे जडयतीति जडा । ʻजल अपवारणे । कन्दूकरणाय व्यडति वर्धत इति व्यण्डा । ʻअड उद्यमने । अव्यण्डेति वा पाठः । कण्डूं रातीति कण्डूरा । ʻरा दाने । प्रायेण प्रावृषि भवा प्रावृषायणी । ऋश्यैर्मृगैः प्रोक्ता दर्शिता ऋश्यप्रोक्ता । ऋष्यप्रोक्तेति वा पाठः । शूकप्रधाना शिम्बिः शूकशिम्बिः । कपीन् कषति हिनस्तीति कपिकच्छूः । ʻकष हिंसायाम् । मर्कटरोमवर्णफलत्वात् मर्कटी । मर्कटीनामानि । ʻदुरदगोडिचेट्ट्ü ॥ ८६ ॥

मल्लि-नाथः - AK.02.04.086

आत्मगुप्ता—अव्यण्डा । अकारपूर्वाविमौ शब्दौ । तथा चाहेन्दुः । ʻअव्यण्डा वृषती शस्यादजहा शूकशिम्बिका’ इति । ʻस्वयङ्गुप्ता जहा जटा’ इत्युक्तत्वात् जटेति पाठश्च ॥ कण्डूरा—मर्कटी । आत्मगुप्तानामानि । ʻदूलगोण्डि ॥ ८६ ॥ </Amarapadaparijata

%%p. 02.267

AK.02.04.087cd citropacitrā nyagrodhī dravantī śaṃbarī vṛṣā .. 87 ..

AK.02.04.088ab pratyakśreṇī sutaśreṇī raṇḍā mūṣikaparṇyapi .

लिङ्ग-सूरी - AK.02.04.087

चित्रेति—चित्रवर्णपर्णत्वात् चित्रा । उपचित्रा च । न्यक् तिर्यक् रुणद्धीति न्यग्रोधी । ʻरुधिर् आवरणे । द्रवति विसरतीति द्रवन्ती । ʻद्रु गतü । शं सुखं वृणोतीति शम्बरी । ʻवृञ् वरणे । आरोग्यकामिनां कामं वर्षतीति वृषा । ʻवृष सेचने । प्रत्यक् प्रतीची श्रेणी पर्णावलिरस्या इति प्रत्यक्श्रेणी । सुतानां पर्णादीनां श्रेणीरस्या इति सुतश्रेणी । रम्यते पक्षिभिरिति रण्डा । ʻरमु क्रीडायाम् । मूषिककर्णाभपत्रत्वात् मूषिकपर्णी । मूषिकपर्णीनामानि । ʻएलुकचेविचेट्ट्ü ॥ ८७ ॥

मल्लि-नाथः - AK.02.04.087

चित्रोपचित्रा—मूषकपर्ण्यपि । मूषकपर्णीनामानि । ʻयेलुकजीडि ॥ ८७ ॥

(०२.०४.०८८च्द्) अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ८८ ॥

मूलम् - ०२.०४.०८९

(०२.०४.०८९अब्) प्रत्यक्पर्णी कीशवल्ली किणिही खरमञ्जरी ।

लिङ्ग-सूरी - AK.02.04.088

अपामार्ग इति—अपकृष्टः आ समन्तात् मार्गोऽस्येति अपामार्गः । शिखरे भवतीति शैखरिकः । धाम स्थानमर्जयतीति धामार्गवः । ʻअर्ज अर्जने । धाम्नोऽर्गो धामार्गः । धामार्गं वातीति वा । मयूरचूडाप्रतिकृतित्वात् मयूरकः । प्रत्यञ्चि पर्णान्यस्याः सन्तीति प्रत्यक्पर्णी । कीशस्य कपेः रोमाभा वल्ल्योऽस्याः सन्तीति कीशवल्ली । कीशपर्णीति वा पाठः । किणिनो दद्रुरोगिण औषधत्वेन जिहीते यातीति किणिही । ʻओहाङ् गतü । खरास्तीक्ष्णा मञ्जर्योऽस्याः सन्तीति खरमञ्जरी । अपामार्गनामानि । ʻउत्तरेणि चेट्ट्ü ॥ ८८ ॥

मल्लि-नाथः - AK.02.04.088

अपामार्गः—किणिही । दीर्घतृतीयः । खरमञ्जरी । अपामार्गनामानि । ʻउत्तरेणि ॥ ८८ ॥

[[०२.२६८]]

(०२.०४.०८९च्द्) हञ्जिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥

मूलम् - ०२.०४.०९०

(०२.०४.०९०अब्) अङ्गारवल्ली बालेयशाकबर्बरवन्दकाः

लिङ्ग-सूरी - AK.02.04.089

हञ्जिकेति—हन्ति यक्ष्माणमिति हञ्जिका । ʻहन हिंसागत्योः’ । भञ्जिकेति पाठे भनक्ति रोगं भञ्जिका । ʻभञ्जो आमर्दने । ब्राह्मणीवत् पवित्रत्वाद् ब्राह्मणी । पद्माभपुष्पत्वात् पद्मा । भृञ्जति कफादिकं नाशयतीति भार्गी । ʻभ्रस्ज पाके । ब्राह्मणरीतित्वाद् ब्राह्मणयष्टिका । अङ्गाराभा वल्ल्योऽस्याअङ्गारवल्ली, लौहित्यात् । बालेयस्य गर्दभस्य शाको बालेयशाकः । शाखाभिः वृणोतीति बर्बरः । ʻवृञ् वरणे । वैद्यैर्वन्द्यते स्तूयत इति वन्दकः । ʻवदि अभिवादनस्तुत्योः’ । वर्धक इति वा पाठः । भार्गीनामानि ॥ ʻगण्डुबारङ्गि ॥ ८९ ॥

मल्लि-नाथः - AK.02.04.089

हञ्जिका । भञ्जिकापि ।

ʻभार्ङ्गी गर्दभशाकश्च भृगुजा च सुवर्चला ।

ब्रह्मरीतिः शुक्रमाता कासघ्नी भञ्जिका तथा ॥

इति वैद्यके । ब्राह्मणी—वन्दकाः । भार्ङ्गीनामानि । ʻभारङ्गि ॥ ८९ ॥

(०२.०४.०९०च्द्) मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ॥ ९० ॥

मूलम् - ०२.०४.०९१

(०२.०४.०९१अब्) मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ।

लिङ्ग-सूरी - AK.02.04.090

मञ्जिष्ठेति—मञ्जुनि मनोज्ञे वर्णे तिष्ठतीति मञ्जिष्ठा । विकसति दूरं प्रसरतीति विकसा । ʻकस गतü । जिङ्गति सर्वतः प्रसरतीति जिङ्गी । ʻजिगि गतü । समन्तादङ्गतीति समङ्गा । ʻअगि गतü । काले मिष्यते शब्द्यते कालमेषिका । कालमेशिकेति वा पाठः । ʻमिष मिश शब्दे । मण्डूका इव पर्णान्यस्या मण्डूकपर्णी । भण्ड्यते भण्डीरी । भण्डी । ʻभडि परिभाषणे । दीर्घवल्लीत्वात् योजनवल्ली । मञ्जिष्ठानामानि ॥ ʻमञ्जिष्ठचेट्ट्ü ॥ ९० ॥

मल्लि-नाथः - AK.02.04.090

मञ्जिष्ठा—योजनवल्ल्यपि । योजनफल्ल्यपीति केचित् । मञ्जिष्ठानामानि । ʻमञ्जिष्ठि ॥ ९० ॥

[[०२.२६९]]

(०२.०४.०९१च्द्) यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ९१ ॥

मूलम् - ०२.०४.०९२

(०२.०४.०९२अब्) रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा ।

लिङ्ग-सूरी - AK.02.04.091

यास इति—याति लतावत् प्रसरतीति यासः । ʻया प्रापणे । यौतीति यवासः । ʻयु गतü ʻयु मिश्रणे अमिश्रणे च्ö इति वा धातुः । कण्टकाचितत्वात् दुःखेन स्पृश्यत इति दुःस्पर्शः । ʻस्पृश स्पर्शने । धन्वनि मरुदेशे यासो धन्वयासः । कुं भुवं कण्टकत्वेन नाशयतीति कुनाशकः । ʻणश अदर्शने । स्पृशन्तं रोदयतीति रोदनी । ʻरुदिर् अश्रुविमोचने । कच्छुरोगं रातीति कच्छुरा । ʻरा दाने । अतिदूरव्यापिनीत्वाद् अनन्ता । समुद्रान्ता च । दुःखेन आलभ्यत इति दुरालभा । ʻडुलभष् प्राप्तü । धन्वयासनामानि । ʻतीण्टकसिण्डपेर्ü ॥ ९१ ॥

मल्लि-नाथः - AK.02.04.091

यासो—दुरालभा । दुरालभानामानि । ʻतीण्टकसवेन्द्ö । ʻरेगडिदूल्ö ॥ ९१ ॥

(०२.०४.०९२च्द्) पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिपर्णिका ॥ ९२ ॥

मूलम् - ०२.०४.०९३

(०२.०४.०९३अब्) क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनी गुहा ।

लिङ्ग-सूरी - AK.02.04.092

पृश्निपर्णीति—पृश्नीन्यल्पानि पर्णान्यस्याः पृश्निपर्णी । पृथक् भिन्नानि पर्णान्यस्याः पृथक्पर्णी । चित्राणि पर्णान्यस्याः चित्रपर्णी । अङ्घ्रेर्बुध्नादारभ्य पर्णान्यस्या अङ्घ्रिपर्णिका । अङ्घ्रिवल्लिकेति वा पाठः । क्रोष्टुभिर्विन्ना दत्तेवाभाति तत्पुच्छसाम्यात् क्रोष्टुविन्ना । ʻविद विचारणे । सिंहस्येव पुच्छं शाखा अस्याः सिंहपुच्छी । रसाधारत्वात् कलशसाम्यं किञ्चिदस्तीति कलशी । धावति प्रसरतीति धावनी । धावनिरिति वा पाठः । ʻधावु गतिशुद्ध्योः’ । गूहति रसमिति गुहा । ʻगुहू संवरणे । सिंहपुच्छीनामानि । ʻनक्कतोङ्कपोन्नचेट्ट्ü ॥ ९२ ॥

मल्लि-नाथः - AK.02.04.092

पृश्निपर्णी—गुहा । पृश्निपर्णीनामानि । ʻनक्कतोङ्कपोन्न्ö ॥ ९२ ॥

[[०२.२७०]]

(०२.०४.०९३च्द्) निदिग्धिकास्पृशी व्याघ्री बृहती कण्टकारिका ॥ ९३ ॥

मूलम् - ०२.०४.०९४

(०२.०४.०९४अब्) प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि ।

लिङ्ग-सूरी - AK.02.04.093

निदिग्धिकेति—निदिह्यतेऽङ्गोपाङ्गैरुपचीयत इति निदिग्धिका । ʻदिह उपचये । कण्टकित्वान्न स्पृश्यतेऽस्पृशी । ʻस्पृश स्पर्शने । स्पृशीति वा पाठः । अत एव व्याघ्रीव तिष्ठतीति व्याघ्री । कण्टकैर्बृहतीति बृहती । ʻबृह वृद्धü । कण्टकानियर्तीति कण्टकारिका । ʻऋ गतü । रुचिरत्वेन भोजनं प्रचोदयतीति प्रचोदनी । ʻचुद प्रेरणे । कोलति सान्द्रीभवतीति कुली । ʻकुल संस्त्याने बन्धुषु च्ö । वार्ताकीमपेक्ष्य ह्रस्वत्वात् क्षुद्रा । दुःखेन स्पृश्यते कण्टकित्वात् दुःस्पर्शा । राष्ट्रे भवा राष्ट्रिका । कण्टकारिकानामानि । ʻवाङ्कुडुचेट्ट्ü ॥ ९३ ॥

मल्लि-नाथः - AK.02.04.093

निदिग्धिका—राष्ट्रिकेत्यपि । निदिग्धिकानामानि । ʻवाङ्कुड्ü ॥ ९३ ॥

(०२.०४.०९४च्द्) नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४ ॥

मूलम् - ०२.०४.०९५

(०२.०४.०९५अब्) रञ्जनी श्रीफली तुत्था द्रोणी डोला च नीलिनी ।

लिङ्ग-सूरी - AK.02.04.094

नीलीति—नीलवर्णत्वान्नीली । काला च । क्रीतकं विनिमयोऽस्या अस्तीति क्लीतकिका । ग्रामे भवतीति ग्रामीणा । मधूनि मधुराणि पर्णान्यस्या मधुपर्णिका । रञ्जयति पटादिकं नीलीकरोतीति रञ्जनी । ʻरञ्ज रागे । रम्यफलत्वात् श्रीफली । फलनिष्पत्तिसमये तुद्यते पीड्यते तुत्था । ʻतुद व्यथने । अस्पृश्यतया द्विजोऽत्र द्रवतीति द्रोणी । ʻद्रु गतü । तूणीति वा पाठः । ʻतुण सङ्कोचने । ʻतूण प्रपूरणे इति वा धातुः । डोल्यते वायुनेति डोला । ʻडुल उत्क्षेपे । दोलेति वा पाठः । नीलवर्णोऽस्या अस्तीति नीलिनी । नीलीनामानि । ʻनीलिचेट्ट्ü ॥ ९४ ॥

मल्लि-नाथः - AK.02.04.094

नीली—क्लीतकिका । क्लीतकीति पाठान्तरम् । ग्रामीणा । ह्रस्वमध्येति केचित् । मधुपर्णिका—नीलिनी । द्रोणी दोरेति वा । द्रोणी तूणी चेति केचित् । नीलीनामानि । ʻनीलिचेट्ट्ü ॥ ९४ ॥

[[०२.२७१]]

(०२.०४.०९५च्द्) अवल्गुजः सोमराजी सुवल्ली सोमवल्लिका ॥ ९५ ॥

मूलम् - ०२.०४.०९६

(०२.०४.०९६अब्) कालमेषी कृष्णफली वाकुची पूतिफल्यपि ।

लिङ्ग-सूरी - AK.02.04.095

अवल्गुज इति—पूतिगन्धित्वाद् अवल्गोररम्याद् बीजाज्जातः अवल्गुजः । सोमेनाह्लादेन राजत इति सोमराजी । ʻराजृ दीप्तü । शोभना वल्ल्योऽस्या सन्तीति सुवल्ली । सोमा आह्लादका वल्ल्योऽस्या इति सोमवल्लिका । कालवर्णेन मिष्यते कृष्णफलेन शब्द्यत इति कालमेषी । ʻमिष शब्दे । कृष्णवर्णानि फलान्यस्याः कृष्णफली । वाति क्रिमीन् हन्ति कुष्ठादिरोगान् सङ्कोचयतीति वाकुची । ʻवा गतिगन्धनयोḵ । ʻकुच सङ्कोचने इति च धातुः । पूतिः गन्धः फलेऽस्या इति पूतिफली । वाकुचीनामानि ॥ ʻकारुगच्चपेर्ü ॥ ९५ ॥

मल्लि-नाथः - AK.02.04.095

अवल्गुजः—पूतिवल्ल्यपि । वाकुचीनामानि । ʻबावञ्जि ʻवारुगच्च्ö ॥ ९५ ॥

(०२.०४.०९६च्द्) कृष्णोपकुल्या वैदेही मागधी चपली कणा ॥ ९६ ॥

मूलम् - ०२.०४.०९७

(०२.०४.०९७अब्) ऊषणा पिप्पली शौण्डी कोलाथ करिपिप्पली ।
(०२.०४.०९७च्द्) कपिवल्ली कोलवल्ली श्रेयसी वसिरः पुमान् ॥ ९७ ॥

लिङ्ग-सूरी - AK.02.04.096-97

कृष्णेति—कृष्णवर्णत्वात् कृष्णा । कर्षति रोगानिति वा । ʻकृष विलेखने । उपकोलति संस्त्यायत इति उपकुल्या । ʻकुल संस्त्याने बन्धुषु च्ö । विदेहाख्यदेशे भवा वैदेही । मगधदेशे भवा मागधी । चपलः उष्णो रसः तद्योगाच्चपला । कणाः सन्त्यस्याः कणा । रोगानूषतीति ऊषणा । ʻऊष रुजायाम् । पिपर्ति पालयतीति पिप्पली । ʻपॄ पालनपूरणयोḵ । रोगापनोदने शक्तित्वात् शौण्डी । कोलति संस्त्यायतीति कोला । ʻकुल संस्त्याने । पिप्पलीनामानि । ʻपिप्पलिपेर्ü ॥ करिणः पिप्पली करिपिप्पली । मर्कटरोमाभावयवयोगात् कपिवल्ली । कोलवद् वराहवत् स्थूला वल्ली यस्याः कोलवल्ली । श्रेयस्करत्वात् श्रेयसी । वस्यते रोमभिराच्छाद्यत इति वसिरः । ʻवस आच्छादने । वशिर इति वा पाठः । गजपिप्पलीनामानि । ʻगजपिप्पलिपेल्ल्ü ॥ ९६-७ ॥

मल्लि-नाथः - AK.02.04.096-97

कृष्णा—कोला । पिप्पलीनामानि । ʻपिप्पलि ॥ अथ करिपिप्पली—वशिरः पुमान् । श्रेयसी तु शिरः पुमानिति पाठान्तरम् । ʻकाण्डी वशिरकाण्डीका गृहाकाण्डा शिरः पुमान् इति वैजयन्ती (पृ। १२९, श्लो। ७८) । ʻगजपिप्पलि ॥ ९६-७ ॥

[[०२.२७२]]

मूलम् - ०२.०४.०९८

(०२.०४.०९८अब्) चव्यं तु चविकं कोकचिञ्चीगुञ्जे तु कृष्णला ।
(०२.०४.०९८च्द्) पलङ्कषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः ॥ ९८ ॥
(०२.०४.०९९अब्) गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ।

लिङ्ग-सूरी - AK.02.04.098

चव्यमिति—चर्व्यत इति चव्यम् । चविकं च । चविका च । ʻचर्व अदने । चव्यनामनी । ʻचव्यमुपेल्ल्ü ॥ कोकवर्णाश्चिञ्चाः प्रान्ता अस्या इति कोकचिञ्ची । काकचिञ्चीति वा पाठः । शुष्कदशायां गुञ्जतीति गुञ्जा । ʻगुजि अव्यक्ते शब्दे । कृष्णवर्णं प्रान्ते लातीति कृष्णला । ʻला आदाने । गुञ्जानामानि । ʻपूसलगुरिवेन्दपेर्ü ॥ पलं मांसं कण्टकमुखेन कषतीति पलङ्कषा । ʻकष हिंसायाम् । इक्षोर्गन्ध इव गन्धोऽस्या अस्तीति इक्षुगन्धा । शुनो दंष्ट्रेव हिंस्रत्वात् श्वदंष्ट्रा । स्वादवः कण्टका अस्य स्वादुकण्टकः । गवां कबलेषु कण्टको गोकण्टकः । गवि भूमौ क्षुर इव पाददुःखहेतुत्वाद् गोक्षुरकः । वने शृङ्गमिव दुःखहेतुत्वादटति प्रतिपद्यत इति वनशृङ्गाटः । ʻअट गतü । गोक्षुरनामानि । ʻपल्लेरुचेट्ट्ü ॥ ९८ ॥

मल्लि-नाथः - AK.02.04.098

चव्यं तु चविका । ʻचव्यम्ü ॥ काकबिम्बीगुञ्जे तु कृष्णला । शेषे—

ʻवर्तन्तेऽस्यां रक्तिका च ताम्रिका कृष्णरक्तिका ।

चूडामा कपिलक्रोडा काकसाह्वा परा नव ॥

काकशब्दा पीलुपाठ्यौ चिञ्चीणन्त्यदनी नखी ।

जङ्घा रक्ता च दक्षा च ॥

रक्तगुञ्जानामानि । ʻयेर्रगुरिज्ö ॥ शेषे—ʻसा शुक्ला चेन्मधुस्रवा’ । ʻतेल्लगुरिज्ö ॥ पलङ्कषा—वनशृङ्गाट इत्यपि । पलङ्कषानामानि । ʻपल्लेर्ü ॥ ९८ ॥

[[०२.२७३]]

(०२.०४.०९९च्द्) विश्वा विषा प्रतिविषातिविषोपविषारुणा ॥ ९९ ॥

मूलम् - ०२.०४.१००

(०२.०४.१००अब्) शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे ।

लिङ्ग-सूरी - AK.02.04.099

विश्वेति—विशति रोगिणामुदरमिति विश्वा । ʻविश प्रवेशने । कटुत्वेन शरीरं वेवेष्टीति विषा । ʻविष्लृ व्याप्तü । विषस्य प्रति प्रतिकारः प्रतिविषा । विषमतिक्रान्ता अतिविषा । उपगता विषम् उपविषा । अपविषेति पाठे अपगतं विषमस्या अपविषा । विरुद्धलक्षणया अरुणकन्दत्वाद् अरुणा, श्वेतकन्देत्यर्थः । शृङ्गयुक्तत्वात् शृङ्गी । महच्च तदौषधं च महौषधम् । अतिविषानामानि । ʻअतिवस्ö ॥ क्षीरमवतीति क्षीरावी । दुग्धमस्या इति दुग्धिका । दुग्धिकानामनी । ʻचिरुपालचेट्ट्ü ॥ ९९ ॥

मल्लि-नाथः - AK.02.04.099

विश्वा—महौषधं च । अतिविषानामानि । ʻअतिवस्ö । अथ क्षीरावी—समे । क्षीरिणीलताया नामनी । क्षीरकाकोलीति गौडाः । ʻपिन्नपाल्ö । अष्टकवर्गौषधम् ।

ʻजीवकरऋषभकऋद्धिवृद्धिमेधामहामेधाः ।

काकालीक्षीरावीकाकोलीत्यष्टको वर्गḵ ॥ ९९ ॥

[[०२.२७४]]

(०२.०४.१००च्द्) शतमूली बहुसुताभीरुरिन्दीवरी वरी ॥ १०० ॥

मूलम् - ०२.०४.१०१

(०२.०४.१०१अब्) ऋश्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी ।
(०२.०४.१०१च्द्) अहेरुरथ पीतद्रुकालेयकहरिद्रवः ॥ १०१ ॥
(०२.०४.१०२अब्) दार्वी पचम्पचा दारुहरिद्रा पर्जनीत्यपि ।

लिङ्ग-सूरी - AK.02.04.100-101

शतमूलीति—शतं बहूनि मूलान्यस्याः सन्तीति शतमूली । बहवः सुता मूलान्यस्या इति बहुसुता । न भीरुः अभीरुः, स्थिरपत्रत्वात् । उत्पलाभपत्रत्वाद् इन्दीवरी । भुवं मूलैर्वृणोतीति वरी । ʻवृञ् वरणे । ऋश्यैर्मृगैः प्रोक्ता आश्रिता ऋश्यप्रोक्ता । ऋष्यप्रोक्तेति वा पाठः । अभीरूणि कम्पशून्यानि पत्राण्यस्याः सन्तीति अभीरुपत्री । नारायणाज्जाता नारीयणी । शतमूलैरावृणोति भुवमिति शतावरी । ʻवृञ् वरणे । न हिनोतीति अहेरुः । ʻहि गतü । आहेरुरिति वा पाठो ग्राह्यः । शतावरीनामानि । ʻपिल्लपिच्चर पेल्ल्ü ॥ पीतो द्रुः स्कन्धोऽस्येति पीतद्रुः । विरुद्धलक्षणया कालवर्णोऽस्येति कालेयकः । पीतवर्ण इत्यर्थः । कालयति दोषानिति कालीयक इति वा पाठः । ʻकल किल क्षेपे । हरिश्चासौ द्रुश्च हरिद्रुः । दारुसम्बन्धिनी दार्वी । अत्यर्थं रोगान् पचतीति पचम्पचा । ʻडुपचष् पाके । दारोर्हरिद्रा दारुहरिद्रा । कुष्ठादिरोगेभ्यः पिपर्तीति पर्जनी । ʻपॄ पालनपूरणयोḵ । पर्जनीनामानि । ʻम्रानिपसुवुपेल्ल्ü ॥ १००-१ ॥

मल्लि-नाथः - AK.02.04.100-101

शतमूली—वृष्यप्रोक्ता । ऋष्यप्रोक्ता वा । ऋश्यप्रोक्तेति तन्त्रान्तरम् । भीरुपत्रीनारायण्यः । द्वन्द्वाद्बहुवचनम् । शतावरी । आहेरुः । अहेरुर्वा । शतावरीनामानि ।

ʻआहेरुः शतवीर्या स्यादभीरुः शतमूलिका ।

सहस्रवीर्याभीरुश्च ।

इति प्रतापाभिधानादभीरुरपि । ʻपिल्लपीञ्चर्ö ॥ अथ पीतद्रु—पर्जनीत्यपि । दारुहरिद्रानामानि । ʻमानुपनुप्ü ॥ १००-१ ॥

[[०२.२७५]]

(०२.०४.१०२च्द्) वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ॥ १०२ ॥

मूलम् - ०२.०४.१०३

(०२.०४.१०३अब्) शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका ।
(०२.०४.१०३च्द्) वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः ॥ १०३ ॥

लिङ्ग-सूरी - AK.02.04.102-103

वचेति—अनया वक्तीति वचा । ʻवच परिभाषणे । उग्रो दुःसहो गन्धोऽस्या इत्युग्रगन्धा । षड् ग्रन्थयः पर्वाण्यस्याः षड्ग्रन्था । गोरिव लोमान्यस्या गोलोमी । शतं बहूनि पर्वाण्यस्याः शतपर्विका । वचानामानि । ʻवसपेल्ल्ü ॥ शुक्लवर्णत्वात् शुक्ला । हिमवति भवा हैमवती । श्वेतमूलवचानाम । ʻतेल्ल वस पेर्ü ॥ वचादिशतपर्विकान्तानि पञ्च नामानि सामान्यवचाया एवेति केचित् ॥ वैद्यानां मातेव हितकारित्वाद् वैद्यमाता । हिनस्ति कासादिरोगानिति सिंही । ʻहिसि हिंसायाम् । ज्वरितादिभिर्वाश्यते स्तूयत इति वाशिका । ʻवाशृ शब्दे । उश्यते काम्यते वैद्यैरिति वा । ʻवश कान्तü । तिक्तं रसं वर्षतीति वृषः । ʻवृषु सेचने । अटतो व्याप्तस्य रोगस्य रोषति अटरूषः । ʻरुष हिंसायाम् । सिंहमुखाभपुष्पत्वात् सिंहास्यः । वासयतीति वासिकः । वस्ते आच्छादयतीति वा । वाजिदन्ता इव केसराण्यस्य वाजीदन्तकः । वाशिकानामानि । ʻअड्डसरम्ü ॥ १०२-३ ॥

मल्लि-नाथः - AK.02.04.102-103

वचोग्रगन्धा—शतपर्विका । वचानामानि । ʻवस्ö ॥ शुक्ला हैमवती । ʻतेल्लवस्ö ॥ वैद्यमातृसिंह्यौ—वृषा । स्त्रीलिङ्गः । वैद्यके पुंलिङ्गश्च दृश्यते ॥ अटरूषः । दीर्घादिरपि । सिंहास्यो—वाजिदन्तकः । वाशानामानि । ʻअडसरम्ü ॥ १०२-३ ॥

मूलम् - ०२.०४.१०४

(०२.०४.१०४अब्) आस्फोटा गिरिकर्णी स्याद् विष्णुक्रान्तापराजिता ।
(०२.०४.१०४च्द्) इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ॥ १०४ ॥

लिङ्ग-सूरी - AK.02.04.104

आस्फोटेति—आस्फोटयति पित्तादीनित्यास्फोटा । ʻस्फुट भेदने । गिरेः कर्णसादृश्याद् गिरिकर्णी । विष्णुना समाक्रान्ता विष्णुक्रान्ता । विष्णोरिव क्रान्तिरस्या इति वा । अत एव भूतव्रातेनाप्रतिहता अपराजिता । विष्णुक्रान्तानामानि । ʻविष्णुक्रान्तम्ü ॥ इक्षोरिव गन्धोऽस्या इति इक्षुगन्धा । काण्डे इक्षोरिव ग्रन्थयोऽस्य सन्तीति काण्डेक्षुः । कोकिलस्य अक्षिणी इव पुष्पाण्यस्य कोकिलाक्षः । इक्षुगन्धं राति ददातीति इक्षुरः । ʻरा दाने । पारुष्यात् क्षुर इव क्षुरः । क्षुरतीति क्षुरः । ʻक्षुर विलेखने । इक्षुर एव क्षुरः । इकारलोपः । पिधानशब्दवत् । कोकिलाक्षनामानि । ʻगोलिमिडि ॥ १०४ ॥

मल्लि-नाथः - AK.02.04.104

आस्फोटा—स्यात् । शेषे—ʻशीपलाश्वखुरी च सा । सृण्डा च्ö गिरिकर्णिकानामानि । ʻदिण्टेन्ö ॥

ʻ ॥।अत्र सितायां तु श्वेतसारा गवार्दनी ।

चारणी कटुनी सूर्याश्वक्षुद्राश्वखुरा तथा ॥

श्वेतपुष्पी च्ö ।

श्वेतगिरिकर्णिकानामानि । ʻतेल्लदिण्टेन्ö ॥ ʻनीला तु नीलपुष्प्यतिमेचका । वनिता स्थूलपुष्पी च्ö । नीलगिरिकर्णिकानामानि । ʻनल्लदिण्टेन्ö ॥ वैजयन्त्याम् (पृ। ५६, श्लो। १३३-१४)—ʻअपराजिता । विष्णुक्रान्तापरास्फोटाश्वखुरी शीतलात्र त्ü इत्युक्तत्वाद् विष्णुक्रान्तापराजिताशब्दौ गीरिकर्णिकायामपि ॥ विष्णुक्रान्तापराजिता । विष्णुक्रान्तानामनी । ʻविष्णुक्रान्त्ö । ʻविष्णुक्रान्ता तु सुमुखी भवघ्नी स्यान्महारसा’ । एतानि च ॥ इक्षुगन्धा—काण्डेक्षा । काण्डेक्षुरिति वा । कोकिलाक्षा—क्षुराः । इक्षुगन्धानामानि । ʻमुलिगोलिमिडि । ʻगोजाकर्णी फेनदुग्धा लूताशत्रुः पयस्विनी इति क्षीरेक्षुगन्धापर्यायोऽपि पृथक् । ʻपालगिमिडि ॥ १०४ ॥

[[०२.२७६]]

मूलम् - ०२.०४.१०५

(०२.०४.१०५अब्) शालेयः स्याच्छीतशिवा छत्रा मधुरिका मिसिः ।
(०२.०४.१०५च्द्) मिश्रेयोऽप्यथ सिंहुण्डो वज्रद्रुः स्नुक्स्नुही गुडा ॥ १०५ ॥
(०२.०४.१०६अब्) समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला ।
(०२.०४.१०६च्द्) तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम् ॥ १०६ ॥

लिङ्ग-सूरी - AK.02.04.105-106

शालेय इति—शाल्यते श्लाघ्यते शाकाय भवतीति शालेयः । ʻशाल श्लाघायाम् । स्वपुष्पैः शालया गृहेणेवाच्छादितत्वात् इति वा । शीतवीर्यत्वात् शिवा भद्रा शीतशिवा । छत्राकृतिरस्याः पुष्पेष्विति छत्रा । स्वादुत्वात् मधुरिका । मस्यति परिणमति तिक्तत्वेनेति मिसिः । ʻमसी परिणामे । दुःखमिश्रितं श्रेयोऽत्रास्तीति मिश्रेयः । पुष्पैर्मिश्र्यते संश्लिष्यत इति वा । ʻमिश्र सम्पर्के । मधुरिकानामानि । ʻसदापपेर्ü ॥ सिंहतुण्डाभशाखत्वात् सिंहुण्डः । तकारलोपः । वज्र इव प्लीहादिरोगान् दृणातीति वज्रद्रुः । ʻदॄ विदारणे । वज्र इव द्रुः स्कन्धोऽस्येति वा । स्नुह्यति क्षीरमिति स्नुक् । स्नुही च । ʻष्णुह उद्निरणे । गुडति प्लीहादिरोगेभ्यो गुडा । ʻगुड रक्षायाम् । समन्ताद् दुग्धं क्षीरमस्या इति समन्तदुग्धा । सिंहुण्डनामानि । ʻजेमुडुपेर्ü ॥ वेल्लति लघुत्वादिति वेल्लम् । ʻवेल्ल चलने । उपयोगिबीजत्वाद् अमोघा । चित्रास्तण्डुलाः सूक्ष्मबीजान्यस्याः चित्रतण्डुला । तण्डुलाः सन्त्यस्येति तण्डुलः । कृमीन् हन्तीति कृमिघ्नः । ʻहन हिंसागत्योḵ । विडति गुल्मादिग्रन्थीनिति विडङ्गम् । ʻविड भेदने । विडङ्गनामानि । ʻवायुविलड्गमु पेर्ü ॥ १०५-६ ॥

मल्लि-नाथः - AK.02.04.105-106

शालेयः—मिसिः । ʻतालपर्णी शीतशिवा छत्रेति प्रतापवचनात् स्त्रियां च । ʻतालपर्णी मिसिः पुमान् इति वचनात् मिसिः पुंलिङ्गः ॥ मिश्रेयोऽपि । ʻवन्यायां शतपुष्पायां मिश्रेया तालपत्रिका’ इति प्रतापवचनात् स्त्रियामपि । वन्यशतपुष्पानामानि । ʻअडवि सदाप्ö । अथ सिंहिण्डः—

ʻप्रायो जनाः सन्ति वनेचराद्याः गोपादयः प्राकृतनामतज्ज्ञाः ।

प्रयोजनार्था वचनप्रवृत्तिर्यतस्ततः प्राकृतमित्यदोषः ॥

इति धन्वन्तरिवचनात् (ध। नि। १। ८) प्राकृतग्रहणम् । ʻसिंहुण्डः सिन्धुरप्यस्याम् इति वैजयन्त्यामपि (पृ। ५३, श्लो। ९८) प्राकृतग्रहणमेव कृतम् ॥ वज्रद्रुः—समन्तदुग्धा । सिंहुण्डनामानि । ʻअकुचमुड्ü । अनुक्तम्—ʻनिष्पत्रिका तु गण्डीरी वज्रिका च त्रिकण्टकḵ । कण्टकवतीस्नुहीनामानि । ʻमुलुचमुड्ü ॥ अथो—पुन्नपुंसकम् । विडङ्गनामानि । ʻविडङ्गम्ü ॥ १०५-६ ॥

[[०२.२७८]]

मूलम् - ०२.०४.१०७

(०२.०४.१०७अब्) बला वाट्यालको घण्टारवा तु शणपुष्पिका ।
(०२.०४.१०७च्द्) मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ॥ १०७ ॥

लिङ्ग-सूरी - AK.02.04.107

बलेति—बलन्त्यनया बला । ʻबल प्राणने । वटति वेष्टयति समापदेशमिति वाट्यालकः । ʻवट वेष्टने परिभाषणे च्ö । बलानामनी । ʻचिट्टामुदपुचेट्ट्ü ॥ घण्टेव रौतीति घण्टारवा । ʻरु शब्दे । शणस्येव पुष्पाण्यस्याः शणपुष्पिका । शणपुष्पिकानामनी । ʻगिलकचेट्ट्ü ॥ मृद्यत इति मृद्वीका । ʻमृद क्षोदे । मृदुत्वयोगाद्वा । गोस्तनाभफलत्वाद् गोस्तनी । द्राति द्रावयति दाहादिकमिति द्राक्षा । ʻद्रा कुत्सायां गतü ʻद्रु गतü । स्वादुत्वात् स्वाद्वी । अत एव मधुरसा च । द्राक्षानामानि । ʻद्राक्षपेल्ल्ü ॥ १०७ ॥

मल्लि-नाथः - AK.02.04.107

बला वाट्यालकः । बलानामनी । ʻमुत्तुवपुलगम्ü । अनुक्तम्—ʻवाट्यपुष्ट्यामतिबला’ । ʻअतिबल्ö । ʻवाट्यवन्यां महाबला’ । ʻमहाबल्ö ॥ घण्टारवा—शणपुष्पिका । घण्टारवानामनी । ʻगिलगिच्च्ö ॥ मृद्वीका । ह्रस्वमध्येति च कथयन्ति । ʻमृद्वीका किङ्किणीकादेर्मृद्विका सौकुमार्यतḵ इति । गोस्तनी—मधुरसेति च । द्राक्षानामानि । ʻद्राक्षतीङ्गे । ʻहारहूरा प्रियाला च कृष्णा स्वादुरसा गुडा’ । एतानि च ॥ १०७ ॥

मूलम् - ०२.०४.१०८

(०२.०४.१०८अब्) सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् ।
(०२.०४.१०८च्द्) त्रिभण्डी रेचनी श्यामापालिन्द्यौ तु सुषेणिका ॥१०८ ॥
(०२.०४.१०९अब्) काला मसूरवितलार्धचन्द्रा कालमेषिका ।

लिङ्ग-सूरी - AK.02.04.108

सर्वानुभूतिरिति—कषायमधुररसत्वात् सर्वैरनुभूयत इति सर्वानुभूतिः । ʻभू सत्तायाम् । रेचनीत्वात् सरतीति सरला । ʻसृ गतü । त्रयः पुटा अस्या इति त्रिपुटा । त्रिभिः पुटैर्व्रियते आच्छाद्यत इति त्रिवृता । ʻवृञ् वरणे । वृत्यत् इति वा, ʻवृतु वरणे । त्रिवृच्च । कफहरत्वपित्तहरत्वरेचकत्वगुणैस्त्रिभिः प्रवृत्तिनिमित्तैर्भण्ड्यते शब्द्यत इति त्रिभण्डी । ʻभडि परिभाषणे । रेचयति विरेचयति रेचनी । ʻरिचिर् विरेचने । रेचनहेतुत्वाद्वा । रोचनीति वा पाठः । रुचिकरत्वात् रोचनी । रेचनीनामानि । ʻतेल्लतिगडपेल्ल्ü ॥ श्यामवर्णत्वात् श्यामा । क्रिम्यादिरोगेभ्यः पालयतीति पालिन्दी । ʻपाल रक्षणे । पालिनीति वा पाठः । सुष्ठु सिनोति क्रिमीन् हन्तीति सुषेणिका । ʻषिञ् बन्धने । कालवर्णत्वात् काला । मसूराणि मृष्टानि विदलान्यस्या इति मसूरविदला । अर्धचन्द्रा कारदलत्वाद् अर्धचन्द्रा । कालेति नाम्ना मिष्यते शब्द्यत इति कालमेषिका । ʻमिष स्पर्धायाम् । श्यामानामानि । ʻनल्लतेगडपेल्ल्ü ॥ १०८॥

मल्लि-नाथः - AK.02.04.108

सर्वानुभूतिः—रेचनी । श्वेतत्रिवृतानामानि । ʻतेल्लतेगड्ö ॥ श्यामा—कालमेषिका । नीलत्रिवृतानामानि । ʻनल्लतेगड्ö ॥ १०८ ॥

[[०२.२७९]]

(०२.०४.१०९च्द्) मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ॥ १०९ ॥

मूलम् - ०२.०४.११०

(०२.०४.११०अब्) विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता ।
(०२.०४.११०च्द्) अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका ॥ ११० ॥

लिङ्ग-सूरी - AK.02.04.109-110

मधुकमिति—मधुकरत्वेन मधुसमत्वात् मधुकम् । क्लीबत्वं तकति प्रतिहन्तीति क्लीतकम् । ʻतक प्रतिघाते । यष्ट्याकारत्वात् मधुद्रवत्वाच्च यष्टिमधुकम् । मधुयष्टिका च । यष्टिमधुकनामानि । ʻअतिमधुरम्ü ॥ विदारयति भूमिमिति विदारी । ʻदॄ विदारणे । क्षीरेव शुक्लेवामलस्वरूपेति क्षीरशुक्ला । इक्षोरिव गन्धोऽस्या इक्षुगन्धा । ʻतेल्लनेलगुम्मुड्ü ॥ रोगान् नाशयामीति क्रोशतीति क्रोष्ट्री । ʻक्रुश आह्वाने रोदने च्ö । ʻनल्लनेलगुम्मुडुपेल्ल्ü ॥ विदार्यादीक्षुगन्धान्तानि नामानि क्रोष्ट्रीनामानीति केचित् ॥ क्षीरवत् श्वेता विदारी क्षीरविदारी । स्वरूपतः कन्दतश्च क्षीरतश्च श्वेतत्वात् महाश्वेता । ऋक्षवत् क्रिम्यादिरोगान् गन्धयते नाशयतीति ऋक्षगन्धिका । ʻगन्ध अर्दने । ऋक्ष्णुवन्ति हिंसन्तीति ऋक्षाः । ʻऋक्ष हिंसायाम् । ऋक्षान् पित्तादिरोगान् गन्धयत इति वा । क्षीरविदारीनामानि । ʻपालगुम्मुडुपेल्ल्ü ॥ १०९-१० ॥

मल्लि-नाथः - AK.02.04.109-110

मधुकं—मधुयष्टिका । अत्र द्वे नपुंसके । द्वे स्त्रीलिङ्गे । मधुयष्टिकानामानि । ʻयष्टिमधुकम्ü ॥ विदारी—या सिता । श्वेतविदारीनामानि । ʻतेल्लनिनेलगुम्मडि ॥ अन्या—ऋक्षगन्धिका । क्लष्णभूमिकूश्माण्डनामानि । ʻनल्लनिनेलगुम्मडि । महाश्वेतापदे विरोधिलक्षणा ॥ १०९-१० ॥

[[०२.२८०]]

मूलम् - ०२.०४.१११

(०२.०४.१११अब्) लाङ्गली शारदी तोयपिप्पली शकुलादनी ।
(०२.०४.१११च्द्) खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥

लिङ्ग-सूरी - AK.02.04.111

लाङ्गलीति—हलाकारफलयोगात् लाङ्गली । शरदि भवा शारदी । तोयजा पिप्पली तोयपिप्पली । शकुलानां मत्स्यानामदनं भवतीति शकुलादनी । जलपिप्पलीनामानि । ʻनीरुपिप्पलिपेल्ल्ü ॥ खरत्वम् उष्णत्वमश्नुत इति खराश्वा । ʻअशू व्याप्तü । कारुवत् सर्वौषधीनां भवतीति कारवी । दीपनं करोतीति दीप्यः । दीप्यतेऽनेनेति वा । ʻदीप दीप्तü । अग्निमान्द्यं मीनाति नाशयतीति मयूरः । ʻमीञ् हिंसायाम् । लोचमुपनीतं मस्तकमस्येति लोचमस्तकः । मयूरशिखानामानि ॥ ʻओमम्ü ॥ १११ ॥

मल्लि-नाथः - AK.02.04.111

लाङ्गली—शकुलादनी । नीरपिप्पलीनामानि । ʻनीरुपिप्पलि । ʻमराटपुचेट्टुन्न्ü ॥ खराश्वा—लोचमस्तकः । मयूरशिखानामानि । ʻवोममनि कोन्दर्ü ॥ १११ ॥

[[०२.२८२]]

मूलम् - ०२.०४.११२

(०२.०४.११२अब्) गोपी श्यामा शारिबा स्याच्चन्दनोत्पलशारिबा ।
(०२.०४.११२च्द्) योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ ११२ ॥

लिङ्ग-सूरी - AK.02.04.112

गोपीति—अतिसाररोगिणं गोपायतीति गोपी । ʻगुपू रक्षणे । श्यामवर्णत्वात् श्यामा । शीर्यन्तेऽनया दोषा इति शारिबा । ʻशॄ हिंसायाम् । चन्दयति सुगन्धेनाह्लादयतीति चन्दना । ʻचदि आह्लादने । उत्पलाभपुष्पत्वाद् उत्पलशारिबा । उत्पलशारिबानामानि । ʻसुगन्धिपालपेर्ü ॥ अष्टवर्गगतौषधियोगे साध्विति योग्यम् । ऋध्नोत्यनयेति ऋद्धिः । ʻऋधु वृद्धü । सिद्ध्यत्यारोग्यमनयेति सिद्धिः । ʻषिधु संराद्धü । लक्ष्यत इति लक्ष्मीः । ʻलक्ष दर्शनाङ्कनयोḵ । ऋद्ध्याख्यौषधिनामानि । ʻऋद्धियनुगन्धद्रव्यम्ü ॥ इमे वृद्ध्याख्यौषधेरपि आह्वया नामानि ॥ ११२ ॥

मल्लि-नाथः - AK.02.04.112

गोपी—चन्दना । अनन्तेति केचित् । उत्पलशारिबा । शारिबानामानि । ʻमामेन्ö ॥ योग्यम्—लक्ष्म्यौ । ऋद्धेर्नामानि । ʻऋद्धि ॥ वृद्धेरपि—इमे । इमे योग्यादयो वृद्धिसञ्ज्ञाया ओषधेरपि नामानि । ʻवृद्धिपेल्लुन्न्ü ॥

ʻअष्टवर्गो महामेदा मेदा स्याज्जीवकर्षभौ ।

काकोली क्षीरकाकोली ऋद्धिर्वृद्धिरितीरितः ॥

इति ॥ ११२ ॥

मूलम् - ०२.०४.११३

(०२.०४.११३अब्) कदली वारणबुसा रम्भा मोचांशुमत्फला ।
(०२.०४.११३च्द्) काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि ॥ ११३ ॥

लिङ्ग-सूरी - AK.02.04.113

कदलीति—केन वायुना दल्यत इति कदली । ʻदल विशरणे । वारणानां बुसा घासः वारणबुसा । रमन्ते पक्षिणोऽत्रेति रम्भा । ʻरमु क्रीडायाम् । मुञ्चति त्वचमिति मोचा । ʻमुच्लृ मोक्षणे । अंशुमन्ति तेजस्वन्ति फलान्यस्या इति अंशुमत्फला । ईषदष्ठीला मज्जा अस्या अस्तीति काष्ठीला । कदलीनामानि । ʻअरण्टिचेट्ट्ü ॥ मुद्गस्येव पर्णान्यस्या मुद्गपर्णी । हीनमुद्गत्वात् काकमुद्गा । सह्यते वातरोगोऽनया सहा । ʻषह मर्षणे । काकमुद्गानामानि । ʻपिल्लपेसरपेल्ल्ü ॥ ११३ ॥

मल्लि-नाथः - AK.02.04.113

कदली वारणबुसा । वारणवृषा च । ʻकदले पुनः । वृषा वारबुसा रम्भा’ इति वैजयन्तीपाठात् (पृ। ५९, श्लो। १७३) कदलशब्दो वारबुसाशब्दश्च ॥ रम्भा—काष्ठीला । कदलीनामानि । ʻअरटिचेट्ट्ü । अनुक्तम्—ʻशिलीन्ध्रः कदलीपुष्पम् । तत्पुष्पनाम ॥ मुद्गपर्णी—सहेत्यपि । मुद्गपर्णीनामानि । ʻपिल्लपेसर्ö ॥ ११३ ॥

[[०२.२८२]]

मूलम् - ०२.०४.११४

(०२.०४.११४अब्) वार्ताकी हिङ्गुली सिंही भण्डाकी दुष्प्रधर्षणी ।
(०२.०४.११४च्द्) नाकुली सुरसा नागसुगन्धा गन्धनाकुली ॥ ११४ ॥
(०२.०४.११५अब्) नकुलेष्टा भजङ्गाक्षी छत्राकी सुवहा च सा ।

लिङ्ग-सूरी - AK.02.04.114

वार्ताकीति—वृत्तफलयोगाद् वार्ताकी । वार्तं निरामयं करोतीति वा । हिनोति वर्धत इति हिङ्गुली । ʻहि गतौ वृद्धौ च्ö । हिनस्ति कण्टकैरिति सिंही । ʻहिसि हिंसायाम् । भण्ड्यते रुचिकरत्वाद् भण्डाकी । ʻभडि परिभाषणे । भाण्डारीत्येके । भाण्डाकीत्यन्ये । कण्टकैर्दुःखेन प्रधृष्यत इति दुष्प्रधर्षणी । ʻञिधृषा प्रागल्भ्ये । भण्डाकीनामानि । ʻमुलकचेट्ट्ü ॥ नकुलानामियं प्रियेति नाकुली । शोभनो रसोऽस्या इति सुरसा । नागानां सर्पाणामिव सुगन्धोऽस्या इति नागसुगन्धा । रास्ना, सुगन्धेति वा पाठः । गन्धतो नकुलानां प्रिया गन्धनाकुली । गन्धतो नकुलानामिष्टा नकुलेष्टा । सर्पनयनसदृशपुष्पत्वाद् भुजङ्गाक्षी । छत्राभानि पर्णान्यकतीति छत्राकी । ʻअक कुटिलायां गतü । सुष्ठु वहत्यामोदं सुवहा । ʻवह प्रापणे । भुजङ्गाक्षीनामानि । ʻसर्पाक्षिपेल्ल्ü ॥ ११४ ॥

मल्लि-नाथः - AK.02.04.114

वार्ताकी हिङ्गुली । हिङ्गुदीति केचित् । सिंही । क्षुद्रवार्ताकीनामानि । ʻमुलक्ö । ʻबृहत्यां प्रसहा काली वार्ताकी हिङ्गुली कुली इति वैजयन्ती (पृ। ५३, श्लो।१०४) । भण्टाकी दुष्प्रधर्षिणी । वार्ताकनामानि । ʻवङ्ग्ö ।

ʻवातिङ्गणस्तु वार्ताकुर्वार्ताकः शआकबिल्वकः ।

भाण्डाकी राजकूश्माण्डी वार्ताकी दुष्प्रधर्षिणी ॥

इति रभसकोशः । अनुक्तम्—ʻकटङ्काका राजमाता’ । ʻवङ्ग्ö ॥ नाकुली—सुवहा च सा । वैद्यके—

ʻनाकुली सर्पगन्धा च सुगन्धा चोग्रगन्धिका ।

अन्या महासुगन्धा तु सुवहा गन्धनाकुली ॥

सर्पाक्षी नकुलेष्टा च छत्राकी विषमर्दिनी ।

ʻनाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ॥

इत्युक्तत्वात् सर्पाक्ष्या रास्नायाश्च नामानि । ʻसर्पाक्षिरास्नान्ü ॥ ११४ ॥

[[०२.२८३]]

(०२.०४.११५च्द्) विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥

मूलम् - ०२.०४.११६

(०२.०४.११६अब्) तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च ।
(०२.०४.११६च्द्) भारद्वाजी तु सा वन्या शृङ्गी तु वृषभो वृषः ॥ ११६ ॥

लिङ्ग-सूरी - AK.02.04.115-16

विदारिगन्धेति—विदार्या इव गन्धोऽस्या इति दारिगन्धा । दीर्घा अंशवो मूलान्यस्याः सन्तीति अशुमती । सालस्येव पर्णान्यस्याः सन्तीति सालपर्णी । तिष्ठतीति स्थिरा । ʻष्ठा गतिनिवृत्तü । ध्रुवति स्थिरीभवतीति ध्रुवा । ʻध्रुव स्थैर्ये । सालपर्णीनामानि । ʻमुय्याकुपोन्नपेल्ल्ü ॥ तुण्डिकाद्वदनतो गवादीनीरयति प्रेरयतीति तुण्डिकेरी । ʻईर क्षेपे । दूरप्रसरणात् समुद्रान्ता । तन्त्वाद्यनेकलोकोपकाराय कल्पत इति कार्पासी । ʻकृपू सामर्थ्ये । बदर्या इव फलान्यस्याः सन्तीति बदरा । कार्पासीनामानि । ʻप्रत्तिचेट्ट्ü ॥ भरद्वाजसमृष्टत्वाद् भारद्वाजी । वन्यकार्पासीनाम । ʻअडविप्रत्ति ॥ वृषभशृङ्गाकारावयवयोगात् शृङ्गी । वृषभः । वृषश्च । ऋषभ इति वा पाठः । ʻवृषभमहौषधम्ü ॥ ११५-१६ ॥

मल्लि-नाथः - AK.02.04.115-16

विदारी—ध्रुवा । विदारीगन्धानामानि । ʻमुय्याकुलपोन्न्ö । तुण्डिकेरी—बदरेति च । बदरं फलमस्यां बदरा । ʻअर्शआदिभ्योऽच् इति (५। २। १२७) सूभूतिटीकावचनाट्टाबन्तः । ʻबदरं कोलकार्पास्योः फले स्याद्बदरी तयोḵ इति विश्वप्राकशवचनात् (पृ। १३४, श्लो। ११०) ङ्यन्तः । ʻकार्पासो बदरः प्रोक्तḵ इत्यमरमालावचनात् पुंलिङ्गोऽपि । कार्पासीनामानि । ʻप्रत्तिचेट्ट्ü ॥ भारद्वाजी—वन्या । वन्यकार्पासीनाम । ʻअडविप्रत्तिचेट्ट्ü । वैद्यके—

ʻतुण्डिकेरी समुद्रान्ता केसरा बदरा फला ।

कार्पास्यक्ल्यत्र वन्यायां भारद्वाज्यपि कुष्ठनुत् ॥

इति । शृङ्गी—वृषः । वृषभाख्याया ओषधेर्नामनी । ʻवृषभकम्ü ॥ ११५-१६ ॥

[[०२.२८४]]

मूलम् - ०२.०४.११७

(०२.०४.११७अब्) गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका ।
(०२.०४.११७च्द्) धामार्गवो घोषकः स्यान्महाजाली स पीतकः ॥ ११७ ॥

लिङ्ग-सूरी - AK.02.04.117

गाङ्गेरुकीति—गङ्गाया इदं गाङ्गम् । जलमित्यर्थः । तस्मिन्नीरयति प्रेरयतीति गाङ्गेरुकी । अथवा पवित्रत्वाद् गङ्गास्मरणफलमीरयतीति वा । ʻईर क्षेपे । नागानां गजानां बलकृत् नागबला । झषति हिनस्ति रोगमिति झषा । ʻझष हिंसायाम् । ह्रस्वे स्वल्पे गवि जले एधत इति ह्रस्वगवेधुका । ʻएध वृद्धü । नागबलानामानि । ʻजिबिलिकचेट्ट्ü ॥ धाम कफस्थानं कण्ठादिकम् अर्जयतीति धामार्गवः । ʻअर्ज अर्जने । शुष्कदशायां घोषयति शब्दायत इति घोषकः । ʻघुषिर् विशब्दने । घोषवल्लीनामनी । ʻतेल्लपूवुल गल आवड चेट्टुपेल्ल्ü ॥ महाजालं वितानमस्या अस्तीति महाजाली । पीतवर्णघोषवल्लीनाम । ʻपच्चपूवुलयावडचेट्टुपेर्ü ॥ ११७ ॥

मल्लि-नाथः - AK.02.04.117

गाङ्गेरुकी—ह्रस्वगवेधुका । नागबलानामानि । वैद्यके—

ʻगाङ्गेरुकी नागबला नीरबन्धनिका झषा ।

विश्वदेवा तथारिष्टा खञ्जा ह्रस्वगवेधुका ॥

इति । ʻचिबिविक्ö ॥ धामार्गवो—पीतकः । पीतकनामानि । ʻआरवीर्ö स इति सर्वनामनिर्देशः साङ्कर्यनिरासार्थः ॥ ११७ ॥

[[०२.२८५]]

मूलम् - ०२.०४.११८

(०२.०४.११८अब्) ज्यौत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका ।
(०२.०४.११८च्द्) स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका ॥ ११८ ॥

लिङ्ग-सूरी - AK.02.04.118

ज्यौत्स्नीति—ज्योत्स्नेव रात्रौ भासति ज्यौत्स्नी । पटति विस्तीर्यत इति पटोलिका । पटं पटसदृशं पुष्पसमूहम् उलत्यावृणोतीति वा । ʻउल आवरणे । पुष्पे जालसदृशत्वात् जाली । पटोलिकानामानि । ʻपोट्लचेट्टुपेल्ल्ü ॥ नद्यां भवा नादेयि । भूमौ जम्बूः भूमिजम्बुका । नादेयीनामनी ॥ लाङ्गलवद् गर्भभेदकत्वात् लाङ्गलिकी । अत एवाग्नेः शिखेव तिष्ठतीति अग्निशिखा । लाङ्गलीनामनी । ʻतरि गोट्टु चेट्ट्ü ॥ काकाङ्गसदृशफलमस्या अस्तीति काकाङ्गी । काकनासिकासदृशफलमस्या अस्तीति काकनासिका । काकनासिकनामनी । ʻकाकिदोण्डचेट्ट्ü ॥ ११८ ॥

मल्लि-नाथः - AK.02.04.118

ज्योत्स्नी—जाली । पटोलिकानामानि । ʻचेन्तिपोल्ल्ö । अनुक्तम्—ʻबहुजाली कोकफला’ । ʻअडविबीर्ö ॥ नादेयी—जम्बुका । भूमिजम्बूनामनी । ʻनेलनेरेड्ü ॥ स्यात्—अग्निशिखा । लाङ्गलिकीनामनी । ʻतरिगोर्र्ö ॥ काकाङ्गी—नासिका । वैद्यके—ʻकाकतुण्डफला च सा । सुरङ्गी तस्करस्नायुर्ध्वाङ्क्षतुण्डफला मता’ ॥ प्रतापे—

ʻकाकजङ्घा नटी दासी काकसव्यपि लोमका ।

पारावतपदी स्यातां पुंसि काण्डप्रचीवरौ ॥

इति ॥ ʻवन्यबिम्बी तु काकाङ्गी इति गौडः । वैजयन्त्याम् (पृ। ५४, श्लो। १११) ʻदास्यां षडश्रा शार्ङ्गष्ठा काकजङ्घा विलोमिका’ इति । वन्यबिम्बीनामानि । ʻकाकिदोण्ड्ö ॥ ११८ ॥

[[०२.२८६]]

मूलम् - ०२.०४.११९

(०२.०४.११९अब्) गोधापदी तु सुवहा मुसली तालमूलिका ।
(०२.०४.११९च्द्) अजशृङ्गी विषाणी स्याद् गोजिह्वादार्विके समे ॥ ११९ ॥

लिङ्ग-सूरी - AK.02.04.119

गोधापदीति—गोधाया इव पादा मूलानि यस्याः गोधापदी । सुष्ठु वहत्यामोदं सुवहा । ʻवह प्रापणे । गोधापदीनामनी । ʻचेप्पुतट्टचेट्ट्ü ॥ मुस्यति त्रिदोषानिति मुसली । ʻमुस खण्डने । तालस्येव मूलमस्या इति तालमूलिका । मुसलीनामनी । ʻनेलताटिपेल्ल्ü ॥ अजशृङ्गाभफलयोगाद् अजशृङ्गी । अत एव विषाणी च । अजशृङ्गीनामनी । ʻदुष्टुवुतीङ्गेपेल्ल्ü ॥ गोजिह्वाभपत्रत्वाद् गोजिह्वा । दारयति रोगान् दार्विका । ʻदॄ विदारणे । गोजिह्वानामनी । ʻएद्दुनालुकचेट्ट्ü ॥ ११९ ॥

मल्लि-नाथः - AK.02.04.119

गोधापदी—सुवहा । हंसपदीनामनी । ʻचप्पुतट्ट्ö ॥ मुसली—मूलिका । भूतालिनामनी । ʻअर्शोघ्न्यां मुसली ताली तालमूली फलिन्यपि इति वैजयन्ती (पृ। ६१, श्लो। २०३) । ʻनेलताडि ॥ अजशृङ्गी—स्यात् । साहचर्यात् स्त्रीलिङ्गः । वैजयन्त्याम्—ʻअजशृङ्गी मेषशृङ्गी सर्पदंष्ट्रा च वर्तिका’ इत्येतत्पर्यायत्वेन मेषशृङ्गी प्रोक्ता । वैद्यके—ʻमेषशृङ्गीफलं स्वादु तिक्तमुष्णं प्रमेहनुत् इति फलप्रतिपादनादिमौ शब्दौ फलवद्वृक्षविशेषनामनी । ʻटोद्दिचेट्ट्ü । लताविशेषनामानीति केचित् । ʻदुट्टुग्ü । कर्कटकशृङ्कीनामनी इत्यन्ये । शेषे—ʻकुलङ्गी कर्कटाह्वया’ । ʻकुलीरशृङ्गी शृङ्गी च्ö । कुलुङ्ग्यादयः कर्कटशृङ्गीनामानि । ʻकर्काटकशृङ्गी ॥ गोजिह्वा—समे । गोजिह्वानामनी । ʻयेद्दनालिकचेट्ट्ü ॥ ११९ ॥

मूलम् - ०२.०४.१२०

(०२.०४.१२०अब्) ताम्बूलवल्ली ताम्बूली नागवल्ल्यप्यथ द्विजा ।
(०२.०४.१२०च्द्) हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥

लिङ्ग-सूरी - AK.02.04.120

ताम्बूलवल्लीति—ताम्बूलार्थं वल्ली ताम्बूलवल्ली । ताम्बूलसाधनत्वात् ताम्बूली । नागलोकादाहृता वल्ली नागवल्ली । नागस्यैरावणस्यालाने जातत्वाद्वा । नागवल्लीनामानि । ʻतमलपाकुतीङ्गेपेल्ल्ü ॥ द्विर्जायते द्विजा । द्विजसादृश्याद्वा । तृष्णादिकं हरतीति हरेणुः । ʻहृञ् हरणे । रेणुयोगाद् रेणुका । कुन्त्यै दुर्वाससा दत्ता कौन्ती । कपिलवर्णत्वात् कपिला । भस्मना रेणुना गन्धयति वासयतीति भस्मगन्धिनी । ʻगन्ध अर्दने । हरेणुनामानि । ʻतक्कोलम्ü ॥ १२० ॥

मल्लि-नाथः - AK.02.04.120

ताम्बूलवल्ली—नागवल्ल्यपि । ताम्बूलवल्लीनामानि । ʻतमलपाकुतीङ्ग्ö । अथ द्विजा । हरेणू रेणुका । ʻढ्रलोपे ॥ । (६। ३ १११) इति दीर्घः । कुन्ती । कौन्तीत्यन्ये । कपिला भस्मगन्धिनी । रेणुकाख्यगन्धद्रव्यविशेषनामानि । ʻरेणुकम्ü । शेषे—ʻपाण्डुपत्नी राजपुत्री भस्मगर्भा च नन्दिनी ॥ १२० ॥

[[०२.२८७]]

मूलम् - ०२.०४.१२१

(०२.०४.१२१अब्) एलावालुकमैलेयं सुगन्धि हरिवालुकम् ।
(०२.०४.१२१च्द्) वालुकं चाथ पालङ्क्या मुकुन्दः कुन्दकुन्दुरू ॥ १२१ ॥

लिङ्ग-सूरी - AK.02.04.121

एलावालुकमिति—एलावत् प्रियगन्धेन वनस्थलं वलते संवृणोतीत्येलावालुकम् । ʻवल संवरणे । इलायां भवम् ऐलेयम् । शोभनो गन्धो यस्येति सुगन्धि । हरिः पिङ्गलवर्णः, तेन वलत इति हरिवालुकम् । वलते भुवं संवृणोतीति वालुकम् । ʻवल संवरणे सञ्चलने च्ö । वालुकनामानि । ʻकून्तुरुबुडम्ü ॥ वैद्यैः पाल्यत इति पालङ्क्या । ʻपाल रक्षणे । पालेन रक्षणेन अङ्क्यत इति वा । ʻअकि लक्षणे । मुखेन कुन्द इव प्रतिभातीति मुकुन्दः । कुन्द इव भातीति कुन्दः । कुं भुवं द्यति मूलैरिति कुन्दुरुः । ʻदे अवखण्डने । कुन्दनामानि । ʻकुन्दुरुष्कम्ü ॥ १२१ ॥

मल्लि-नाथः - AK.02.04.121

एलावालुकम्—वालुकं च । एलावालुकनामानि । ʻकून्तुरुबुडम्ü ॥ अथ पालङ्क्या—कुन्दकुन्दुरू । कुन्दुरुनामानि । ʻकुन्दुरुल्ü ॥ १२१ ॥

मूलम् - ०२.०४.१२२

(०२.०४.१२२अब्) बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च ।
(०२.०४.१२२च्द्) कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ॥ १२२ ॥
[[०२.२८८]]

(०२.०४.१२३अब्) शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा ।
(०२.०४.१२३च्द्) गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥
(०२.०४.१२४अब्) महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च ।

लिङ्ग-सूरी - AK.02.04.122-23

बालमिति—वलते भुवं मूलबाहुल्यात् बालम् । ʻवल संवरणे सञ्चलने च्ö । निगूढत्वेन ह्रीयुक्तमिव बेरमस्येति ह्रीबेरम् । बर्हति वर्धत इति बहिष्ठम् । ʻबृह वृद्धü । उदग्देशे भवमुदीच्यम् । कैशानामम्बुनां च नामान्यस्य सन्तीति केशाम्बुनाम । ह्रीबेरनामानि । ʻकुरुवेरुपेल्ल्ü ॥ शीतोष्णाभ्यां कालोऽनुसर्यतेऽनेनेति कालानुसार्यम् । चिरस्थितत्वात् वृद्धम् । अस्मनः पुष्पमिव अश्मपुष्पम् । शीतवीर्येण शिवं शीतशिवम् । शिलायां भवं पुष्पं शैलेयम् । शैलेयनामानि । ʻरातिपुव्वुपेल्ल्ü ॥ तालस्येव पर्णान्यस्या इति तालपर्णी । मुराख्यदैत्यनामास्या अस्तीति दैत्या । गन्धस्य कुटी गृहं गन्धकुटी । मुरतीति मुरा । ʻमुर वेष्टने । मुराख्यदैत्यनामयोगाद्वा । प्रशस्तो गन्धोऽस्या अस्तीति गन्धिनी । गन्धकुटीनामानि । ʻमुरयनुगन्धद्रव्यमुपेल्ल्ü ॥ गजैर्भक्ष्यत इति गजभक्ष्या । ʻभक्ष अदने । सुष्ठु वहत्यामोदं सुवहा । ʻवह प्रापणे । घ्राणतर्पणगन्धत्वात् सुरभिः । बहुरसयोगाद् रस्यत इति रसा । महदीरणं प्रेरणं गजानां भक्षणेऽस्या इति महेरणा । ʻईर प्रेरणे । कुं भुवं द्यति मूलैरिति कुन्दुरुकी । ʻदो अवखण्डने । सत्कृत्य लक्यते आस्वाद्यते गजैरिति सल्लकी । ʻलक आस्वादने । ह्लादोऽस्या अस्तीति ह्लादिनी । ह्लादिनीति वा पाठः । सल्लकीनामानि । ʻअन्दुगुचेट्टुपेल्ल्ü ॥ १२२-३ ॥

मल्लि-नाथः - AK.02.04.122-23

बालं—केशाम्बुनाम च । ह्रीबेरनामानि । ʻकुरुवेल्ü ॥ कालानुसार्य—शैलेयम् । शैलेयनामानि । ʻरापुव्व्ü । दैत्या—गन्धिनी । मुरानामानि । ʻमुर अने गन्धद्रव्यम्ü ॥ गजभक्ष्या—सुरभी रसा । ʻढ्रलोपे ॥ । (६। ३। १११) इति दीर्घः । महेरणा—ह्रादिनीति च । सल्लकीनामानि । ʻअन्दुगचेट्ट्ü । तस्य निर्यासो गन्धद्रव्यम् ॥ १२२-३ ॥

[[०२.२८९]]

(०२.०४.१२४च्द्) अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका ॥ १२४ ॥

मूलम् - ०२.०४.१२५

(०२.०४.१२५अब्) पृथ्वीका चन्द्रबालैला निष्कुटी बहुलाथ सा ।
(०२.०४.१२५च्द्) सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः ॥ १२५ ॥

लिङ्ग-सूरी - AK.02.04.124-25

अग्निज्वालेति—अग्निज्वालाभपुष्पयोगाद् अग्निज्वाला । शोभना भिक्षा प्रार्थनास्यामिति सुभिक्षा । ʻभिक्ष याच्ञायाम् । दधाति पुष्पाणीति धातकी । ʻडुधाञ् धारणपोषणयोḵ । धातुवद् रक्तपुष्पयोगाद् धातुपुष्पिका । धातकीनामानि । ʻधातकीकुसुमम्ü ॥ बहुफलयोगात् पृथ्वीका । चन्द्रस्य कर्पूरस्य बाला पुत्रिकेव स्थिता चन्द्रबाला । एलयति निष्कुटी । बहूनि फलानि लातीति बहुला । ʻला दाने । एलानामानि । ʻपेद्दयेलकुलपेल्ल्ü ॥ उपकुञ्चति स्वल्पीभवतीति उपकुञ्चिका । ʻकुञ्च कौटिल्याल्पीभावयोḵ । अत एव तुच्छत्वात् तुच्छेति वा पाठः । तुदति तापं तुत्था । ʻतुद व्यथने । कुरति शब्दायत इति कोरङ्गी । ʻकुर शब्दे । पुटत्रयशालिनीत्वात् त्रिपुटा । सूक्ष्मत्वात् त्रट्यतीति त्रुटिः । ʻत्रुट भेदने । सूक्ष्मैलानामानि । ʻसन्नयेलकुलपेल्ल्ü ॥ २१४-५ ॥

मल्लि-नाथः - AK.02.04.124-25

अग्निज्वाला—धातुपुष्पिका । धातकीनामानि । ʻयेरुजाजी । पुष्पगन्धद्रव्यम् ॥ पृथ्वीका—बहुला । वैद्यके—

ʻभद्रैला बृहदेला च त्रिदिवा त्रिदिवोद्भवा ।

स्थूलैला त्वक्सुगन्धा च पृथ्वीका कन्यका पुटा ॥

इति स्थूलैलानामानि । ʻपेद्दयालकुल्ü ॥ अथ सा—त्रुटिः । वैद्यके—

ʻसूक्ष्मैला द्राविडी तुत्था कोरङ्गी बहुला त्रुटिः ।

एला कपोतवर्णा च चन्द्रबाला च निष्कुटी ॥

इति । सूक्ष्मैलानामानि । ʻसन्नपुयालकुल्ü ॥ १२४-५ ॥

[[०२.२९०]]

मूलम् - ०२.०४.१२६

(०२.०४.१२६अब्) व्याधिः कुष्ठं पारिभाव्यं वाप्यं पाकलमुत्पलम् ।
(०२.०४.१२६च्द्) शङ्खिनी चोरपुष्पी स्यात् केशिन्यथ वितुन्नकः ॥ १२६ ॥
(०२.०४.१२७अब्) झटामलाज्झटा ताली शिवा तामलकीति च ।

लिङ्ग-सूरी - AK.02.04.126

व्याधिरिति—कुष्ठव्याधिनामान्यस्य सन्तीति व्याधिः । कौ तिष्ठतीति कुष्ठम् । ʻष्ठा गतिनिवृत्तü । कुष्ठनामधेययोगाद्वा । पारिषु जलेषु भवतीति पारिभाव्यम् । वारिभाव्यमिति वा पाठः । अत एव वाप्यां भवं वाप्यम् । व्याप्यमिति वा पाठः । त्रिदोषपरिपाकं लाति ददातीति पाकलम् । उत्पलाभपुष्पत्वाद् उत्पलम् । कुष्ठनामानि । ʻचेङ्गल्वकोष्टुपेल्ल्ü ॥ शङ्खाभपुष्पयोगात् शङ्खिनी । रात्रावेव पुष्प्यतीति चारपुष्पी । केशप्ररोहत्वात् केशाः सन्त्यस्येति केशिनी । शङ्खिनीनामानि । ʻकडिलट्टुपेल्ल्ü ॥ वितुद्यते पित्तं श्लेष्म चानेनेति वितुन्नकः । ʻतुद व्यथने । झटः फलसङ्घातोऽस्या अस्तीति झटा । विशदफलयोगाद् अमला । आश्चर्यकारी झटः फलसङ्घातोऽस्या अज्झटा । अदिति आश्चर्ये वर्तते । मालाभानि फलान्यस्या अन्योन्यं ताडयन्तीति ताली । ताडीति वा पाठः । ʻतड आघाते । आरोग्यरूपमङ्गलहेतुत्वात् शिवा । तम्यते काङ्क्ष्यत इति तामलकी । ʻतमु काङ्क्षायाम् । तालीनामानि । ʻनेलयुसिरिकपेल्ल्ü ॥ १२६ ॥

मल्लि-नाथः - AK.02.04.126

व्याधिः । व्याधेर्नामान्यपि । ʻपारिभाव्यं गदाह्वयम् इति रभसकोशः । कुष्ठनामानि । ʻकोष्टव्ü ॥ शङ्खिनी—केशिनी । शेषे—ʻग्रन्थिका च निशाचरी चोरी धनहरी चण्डा’ । शङ्खिनीनामानि । ʻकट्लुतीङ्गपद्मपुतीङ्गान्ü ॥ अथ वितुन्नकः—तामलकीति च । शेषे—ʻआमलक्युत्तमा चैव तमाला लच तमालिनी । भूम्यामलकीनामानि । ʻनल उशिरिक्ö ॥ १२६ ॥

[[०२.२९१]]

(०२.०४.१२७च्द्) प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः ॥ १२७ ॥

मूलम् - ०२.०४.१२८

(०२.०४.१२८अब्) कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी ।
(०२.०४.१२८च्द्) चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥

लिङ्ग-सूरी - AK.02.04.127-28

प्रपौण्डरीकमिति—पुण्डकीकस्येदं पौण्डरीकम् । प्रकृष्टं पौण्डरीकं प्रपौण्डरीकम् । पौण्डर्यमिति देशीयपदम् । पौण्डर्यनामनी । ʻपुण्डरीकमनु गन्धद्रव्यम्ü ॥ तुद्यते हस्तादिभिरिति तुन्नः । ʻतुद व्यथने । कुत्सितं वेरमस्यास्तीति कुवेरकः । शाखाभङ्गात् कौतीति कुणिः । ʻकु शब्दे । कष्यते गजैरिति कच्छः । ʻकष हिंसायाम् । कस्य जलस्यान्तं समीपं गच्छन्तीति कान्ता गजाः, तैर्लक्यत इति कान्तलकः । ʻलक आस्वादने । नन्दिसञ्ज्ञको वृक्षो नन्दिवृक्षः । नन्दिवृक्षनामानि । ʻनन्दिवृक्षम्ü ॥ वनचरा गन्धाढ्यां मूर्तिं रक्षन्तीति राक्षसी । ʻरक्ष पालने । तीक्ष्णत्वात् चण्डा । राक्षसीनामसाम्यात् चण्डत इति वा । ʻचडि कोपे । बहुमूल्यत्वाद् धनं हरतीति धनहरी । ʻहृञ् हरणे । दीपनत्वेन क्षेमकरत्वात् क्षेमः । क्षियति वसति गन्धोऽस्मिन्निति वा । ʻक्षि निवासगत्योḵ । दुष्टानि पत्राण्यस्य दुष्पत्रः । दुष्पुत्र इति वा पाठः । सौरभ्यातिशयेन सर्वजनमुखविकासकरत्वाद् गणहासकः । ʻहसे हसने । हासो विकासः । धनहरीनामानि । ʻनल्लकचोरमुपेल्ल्ü ॥ १२७-८ ॥

मल्लि-नाथः - AK.02.04.127-28

प्रपौण्डरीकं पौण्डर्यम् । द्रव्यावल्याम्—

ʻप्रपौण्डरीकं चक्षुष्यं पुण्डर्यं पुण्डरीयकम् ।

पुण्डरीकं श्वेतपुष्पं सुपुष्पं साधुमूलकम् ।

मूलसाधनसञ्ज्ञं च श्रीपुष्पं पुण्ड्रकाह्वयम् ॥

इति ॥ ʻपौण्डर्यकं सालपुष्पं दृष्टिकृत् पुण्डरीयकम् इति रभसकोशः । पुण्डरीकाख्यगन्धद्रव्यनामानि । ʻपुण्डरीकमन्नगन्धद्रव्यमु । अदे सालपुष्पमुन्न्ü ॥ अथ तुन्नः—नन्दिवृक्षः । नन्दिवृक्षनामानि । ʻनन्दिवृक्षम्ü ॥ अथ राक्षसी—गणहासकाः । शेषे—ʻचोरकः शङ्कितस्तेनः कुहनः कितवो रिपुḵ । चोराख्यगन्धद्रव्यनामानि । ʻनल्लकचोरम् । हस्तिकर्णीनामानि च । ʻबलुरक्किस्ö ॥ १२७-८ ॥

[[०२.२९२]]

मूलम् - ०२.०४.१२९

(०२.०४.१२९अब्) व्यालायुधं व्याघ्रनखं करञ्जं चक्रकारकम् ।
(०२.०४.१२९च्द्) सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली ॥ १२९ ॥
(०२.०४.१३०अब्) धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी ।

लिङ्ग-सूरी - AK.02.04.129

व्यालायुधमिति—व्यालस्य व्याघ्रस्यायुधं नखमिव तिष्ठतीति व्यालायुधम् । व्याघ्रनखं च । कमुदकं रञ्जयतीति करञ्जम् । ʻरञ्ज रागे । करजमिति वा पाठः । धूपसमूहेन चक्रं मेलनं करोतीति चक्रकारकम् । ʻडुकृञ् करणे । व्याघ्रनखनामानि । ʻपुलिगोरुचेट्ट्ü ॥ सुषिरं रन्ध्रमस्या अस्तीति सुषिरा । विद्रुमलताभत्वात् विद्रुमलता । कपोताङ्घ्रिसदृशमूलत्वात् कपोताङ्घ्रिः । वायुवशान्नटति चलतीति नटी । ʻनट नृत्तü । नल्यते नली । ʻणल गन्धने । सुषिरवत्त्वाद् धम्यत इति धमनी । ʻध्मा शब्दाग्निसंयोगयोḵ । अञ्जनसदृशाः केशाः सूक्ष्ममूलान्यस्या इत्यञ्जनकेशी । धमनीनामानि । ʻनलियनुगन्धद्रव्यम्ü ॥ हन्त्यामयमिति हनुः । ʻहन हिंसागत्योḵ । हट्टवीथ्यां विलसतीति हट्टविलासिनी । ʻलस श्लेषणक्रीडनयोḵ ॥ १२९ ॥

मल्लि-नाथः - AK.02.04.129

व्यालयुधं—चक्रकारकम् । शेषे—ʻत्र्यक्ष व्याघ्रतलं पादं कूटस्थं पुण्ड्रकं नखम् । व्याघ्रनखाख्यवृक्षनामानि । ʻव्याघ्रनखवृक्षम्ü ॥ नखनामकगन्धद्रव्यनामानीति केचित् ॥ सुषिरा—नली । नलीनामवृक्षनामानि । ʻनलीवृक्षम्ü । ʻसुषिरा धमनी शून्या निर्मथ्या नर्तकीति च्ö इति धन्वन्तरिः (ध। नि। ३। ४३) । गन्धद्रव्यविशेषस्य कपोताङ्घ्रिनामौषधिविशेषस्य च नामानीति केचित् । ʻनली अनि गन्धद्रव्यमुन्नु गुव्वकुत्तुकान्ü ॥ धमनी—हट्टविलासिनी ॥ २२९ ॥

[[०२.२९३]]

(०२.०४.१३०च्द्) शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी ॥ १३० ॥

मूलम् - ०२.०४.१३१

(०२.०४.१३१अब्) काक्षी मृत्स्ना तुवरिका मृतालकसुराष्ट्रजे ।

लिङ्ग-सूरी - AK.02.04.130

शुक्तिरिति—शुक्त्याकृतित्वात् शुक्तिः । शङ्खसाम्यात् शङ्खः । खुरति भूतान् हन्तीति खुरः । ʻखुर विलेखने । कोली बदरी तत्पत्रयोगात् कोलः । कुल्यत इति कोलः । ʻकुल संस्त्याने । दलति भूतानीति दलम् । ʻदल विशरणे । कोलस्येव दलं कोलदलम् । नखति कुष्ठादिरोगान् गृहीत्वा गच्छतीति नखम् । ʻनख गतü । नखगन्धद्रव्यनामानि । ʻनखमनेडिगन्धद्रव्यम्ü ॥ आढक्याख्यधान्यतुल्यरसत्वाद् आढकी । कषति हिंसति कण्ड्वादिरोगानिति काक्षी । ʻकष हिंसायाम् । प्रशस्ता मृत् मृत्स्ना । तुवरः कषायो रसोऽयातुवरिका । म्रियते विलीयते सुवर्णमनेनेति मृतालकम् । ʻमृङ् प्राणत्यागे । मृत्तालकमिति वा पाठः । मृत्, तालकमिति पदद्वयमिति केचित् । मृद्यते मृत् । ʻमृद क्षोदे । तलन्ति प्रतिष्ठन्तेऽनेनेति तालकम् । सुराष्ट्रदेशे भवं सुराष्ट्रजम् । तुवरिकानामानि । ʻतोवरिमन्न्ü ॥ १३० ॥

मल्लि-नाथः - AK.02.04.130

शुक्तिः—नखम् । शेषे—

ʻनागहनुः सहः।

चलः कोशी च केशी च शिल्पी कररुहस्तथा ।

सामुद्रो हस्तिकर्णश्च नखी ॥

नखाख्यवृक्षनामानि । ʻनखवृक्षम्ü ॥ ʻधमन्यञ्जनकेश्यौ तु हनुर्हट्टविलासिनी इति वैजयन्ती (पृ। १३१, श्लो। १०१) । अथाढकी—सुराष्ट्रजे । आढकीनामानि । ʻकन्दिचेट्ट्ü ।

ʻतालकं ॥ । मृन्मृत्स्ना मृत्तिकाजिता ।

सौराष्ट्री तुवरी काक्षी काची तालमृतालके ॥

इतीन्दुः । सुराष्ट्रमृत्तिकानामानीति केचित् । ʻतोगरिमन्न्ü । ʻअडवितोगरितीङ्गेनु । सुरुगुड्ü ॥ १३० ॥

[[०२.२९४]]

(०२.०४.१३१च्द्) कुटन्नटं दाशपुरं वानेयं परिपेलवम् ॥ १३१ ॥

मूलम् - ०२.०४.१३२

(०२.०४.१३२अब्) प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ।
(०२.०४.१३२च्द्) ग्रन्थिपर्णं शुकं बर्हपुष्पं स्थौणेयकुक्कुरे ॥ १३२ ॥

लिङ्ग-सूरी - AK.02.04.131-32

कुट्टन्नटमिति—कुटन् वक्रीभवन्नटतीति कुटन्नटम् । ʻनट नृत्तü । दशपुराख्यदेशे भवं दाशपुरम् । वनं जलमात्रास्तीति वानम् । वाने जलाशये भवं वानेयम् । कोलत्वात् परितः पेलवं परिपेलवम् । लघुतया प्लवत इति प्लवम् । ʻप्लुङ् गतü । अभक्ष्यतया गवां पुरति अग्रे तिष्ठति गोपुरम् । ʻपुर अग्रगमने । अरुचित्वेन गा नर्दयति क्रोशयतीति गोनर्दम् । ʻनर्द शब्दे । केवर्तानां मत्स्यानां भक्षणमिति कैवर्ती । मुस्यते वराहैरिति मुस्तकम् । ʻमुस खण्डने । कैवर्तमुस्तकं तदिति वा पाठः । तथाष्टमं नाम त्रिलिङ्गम् । एवं भिन्नलिङ्गानां द्वन्द्वः कृत इति नावगन्तव्यम् । कैवर्तीमुस्तकनामानि । ʻतुङ्गमुस्तलुपेल्ल्ü ॥ ग्रन्थिषु पर्णान्यस्मिन् सन्तीति ग्रन्थिपर्णम् । शुकवत् पत्राण्यस्य शुकम् । बर्हतुल्यपुष्पत्वात् बर्हपुष्पम् । केचित्तु शुकबर्हमिति पठन्ति । तदा शुकस्य बर्हाणीव पत्राण्यस्येति विग्रहः । पुष्प्यतीति पुष्पं च । ʻपुष्प विकसने । स्थूणाकृतित्वात् स्थौणेयम् । शुनकाकारत्वात् कुक्कुरम् । ग्रन्थिपर्णनामानि ॥ ʻस्थौणेयमनेडि गन्धद्रव्यम्ü ॥ १३१-२ ॥

मल्लि-नाथः - AK.02.04.131-32

कुटन्नटं—कैवर्तीमुस्तकानि च । कैवर्तीमुस्तकमित्येकपदम् ।

ʻजायते मुस्तकाकारः शैवालदलसञ्चयः ।

कैवर्तीमुस्तकं नाम गन्धद्रव्यं तदुच्यते ॥

इति ॥ ʻकैवर्तीमुस्तके क्लीबं शोनके नाकुटं नटḵ इति च । कैवर्ती पृथक्पदमिति केचित् । रूपभेदात् स्त्रीलिङ्गम् । नपुंसकमपि । ʻकैवर्तं मुस्तकं तच्च तथा च करिवल्लभम् इति तन्त्रान्तरोक्तत्वादित्याहुः । शेषे—

ʻप्लवनं कर्तनं मुस्ता सुगन्धिः कर्णपूरकः ।

शकुलादश्वेतमध्यो नादेयपिठरावपि ॥

इति । तथा च वैजयन्त्याम्—

ʻजलमुस्ते तु प्लवनं गोनर्दं परिपेलवम् ।

कुटन्नटं दशपुरं गोपुरं वर्तकं प्लवम् ॥ (पृ। ६१, श्लो। २०१)

इति । जलमुस्तानामानि । ʻकैवडिमुस्तलु ॥ ग्रन्थिपर्णं—कुक्कुरे । शेषे—

ʻबर्हपुष्पं बर्हिचूडं शुकपुष्पं शुकच्छदम् ।

विकचं शुकबर्हं च हरितं शीर्णलोमकम् ॥

इति । ग्रन्थिपर्णनामानि । ʻगन्दिवनमुपच्चाकुन्नुमाचिपत्रिन्नि ॥ १३१-२ ॥

[[०२.२९५]]

मूलम् - ०२.०४.१३३

(०२.०४.१३३अब्) मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः ।
(०२.०४.१३३च्द्) समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥

लिङ्ग-सूरी - AK.02.04.133

मरुन्मालेति—मरुतः माला अस्या इति मरुन्माला । पदद्वयं वा । मरुता तुल्यत्वात् मरुत् । मालाकारत्वात् माला । गन्धं पिंशति सूचयतीति पिशुना । ʻपिश अवयवे । स्पृशति दूरस्थं गन्धेनेति स्पृक्का । ʻस्पृश संस्पर्शने । देवपुत्रीसञ्ज्ञकत्वाद् देवी । लतारूपत्वात् लता । लघुत्वात् लघुः । दूरप्रसरणात् समुद्रान्ता । उह्यते परिमलेन वधूः । ʻवह प्रापणे । कोटिभिरग्राभिर्मधु वर्षतीति कोटिवर्षा । ʻवृष सेचने । लङ्कायामुप्यते लङ्कोपिका । ʻडुवप् बीजसन्ताने । लङ्कोपिकानामानि । ʻस्पृक्कयनुगन्धद्रव्यमुपेल्ल्ü ॥ १३३ ॥

मल्लि-नाथः - AK.02.04.133

मरुन्माला—लङ्कोपिकेत्यपि । शेषे—ʻस्पृङ्निर्माल्या पङ्कमुष्टिर्माला च ब्राह्मणी मरुत् । तथा च वैद्यके—

ʻस्पृङ्नीरुता पङ्कमुष्टिर्माला देवी लता गुरुः

देवपुत्री देवजाता सिता पङ्कजमुष्टिका ॥

सुन्दरी च मरुत्कोटिवर्षा निर्मालिका वधूः ।

लङ्कोपिका ब्राह्मणी च निर्माल्या पिशुना तथा ॥

इति । स्पृक्कानामानि । ʻपिक्कचेट्ट्ü ॥ १३३ ॥

[[०२.२९६]]

मूलम् - ०२.०४.१३४

(०२.०४.१३४अब्) तपस्विनी जटा मांसी जटिला लोमशा मिसी ।
(०२.०४.१३४च्द्) त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोदं वराङ्गकम् ॥ १३४ ॥

लिङ्ग-सूरी - AK.02.04.134

तपस्विनीति—जटायोगसाम्यात् तपस्विनी । जटाः सन्त्यस्या इति जटा । जटिला च मांससदृशावयवत्वात् मांसी । जटामांसीति वा पाठः । लोमानीव जटा अस्याः सन्तीति लोमशा । मस्यतीति मिसी । ʻमसी परिणामे । जटामांसीनामानि । ʻजटामांसिअनेडि गन्धद्रव्यम्ü ॥ त्वग्भूयस्त्वात् त्वक् । त्वचं च । पत्रमिश्रितत्वात् पत्रम् । अतितीक्ष्णत्वाद् उत्कटम् । भृङ्गकार्ष्ण्यसाम्याद् भृङ्गम् । अग्नि चोदयतीति चोदम् । ʻचुद प्रेरणे । चोचमिति वा पाठः । वरं श्रेष्ठमङ्गमस्येति वराङ्गकम् । वराङ्गकनामानि । ʻलवङ्गपुचेट्ट्ü ॥ १३४ ॥

मल्लि-नाथः - AK.02.04.134

तपस्विनी—मिसी । ʻस्यान्मांस्यां शतपुष्पायां मधुरायां मिसी स्त्रियाम् इति रभसकोशपाठात् मिसी । ʻजटिला लोमशी मांसी तपस्विन्यामिषी मिषी इति वैजयन्तीपाठात् (पृ। १३१, श्लो। १००) मिषी । शेषे—

ʻस्त्रियां तपस्विपिशितपिशाचाम्बार्थवाचकाः ।

तथा भूतजटा कृष्णजटा हिंस्रा च पूतना ॥

स्त्रियां वर्तमानास्तपस्व्यादिपर्याया जटामांसीनामानि भवन्ति । यथा तपस्विनी तापसी पिशिती मांसी पिशाची क्रव्यादी अम्बा माता जननीत्यादयः । जटामांसीनामानि । ʻजटामांसि ॥ त्वक्पत्रं—वराङ्गकम् । त्वक्पत्रमेकपदमिति केचित् । ʻमुखरोदं प्रियं वर्णं वल्कं सुरभिवल्कलम् इति वैद्यके । लवङ्गद्रुमत्वचो नामानि । ʻलवङ्गपुचेक्क्ö ॥ १३४ ॥

[[०२.२९७]]

मूलम् - ०२.०४.१३५

(०२.०४.१३५अब्) कर्चूरको द्राविडकः काल्यको वेधमुख्यकः ।
(०२.०४.१३५च्द्) ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ॥

लिङ्ग-सूरी - AK.02.04.135

कर्चूरक इति—कर्जति रोगानिति कर्चूरकः । ʻकर्ज व्यथने । द्रावयति रोगानिति द्राविडकः । ʻद्रु गतिहिंसाकौटिल्येष्ü । कल्यं निरामयं करोतीति काल्यकः । प्लीहादिरोगवेधे मुख्यत्वात् वेधमुख्यकः । ʻव्यध ताडने । कर्चूरकनामानि । ʻगन्धकचोरम्ü ॥ जातिमात्रे फलपाकादिव्यक्तिमात्रे वर्तमान ओषधिशब्दः इकारान्त ईकारान्तो वा स्त्रिलिङ्गो भवति । अजातौ फलपाकादिव्यक्तेरन्यत्र वर्तमान ओषधिशब्दः औषधमित्यकारान्तनपुंसकलिङ्गो भवति ॥ १३५ ॥

मल्लि-नाथः - AK.02.04.135

कर्चूरको—वेधमुख्यकः । द्रव्यावल्याम्—

ʻकर्चूरो गन्धमूलश्च द्रविकः काल्य एव च ।

वेधमुख्यो दुर्लभश्च कस्यचित्सम्मता शची ॥

इति । कर्चूरनामानि । ʻकचूरम्ü ॥ ओषध्यो—स्युः । वनस्पतिवानस्पत्यक्षुपोलपलतातृणत्वक्सारादिभेदभिन्नोद्भिज्जातिमात्रे ओषध्यो वर्तन्ते । ʻकृदिकाराद् ॥ । इति वा डीष् । ʻओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधḵ इति काशिका (पृ। ४४९, सू। ८। ४। ६) । उद्भिज्जातिनाम । ʻचेट्लु मोदलयिनवि ॥ अजातौ—औषधम् । रोगहरं फलमूलघृतचूर्णक्षौद्रादिसर्वमौषधं स्यात् । ʻओषधेरजातü (५। ४। ३७) इत्यण् । ʻमन्द्ü ॥ १३५ ॥

मूलम् - ०२.०४.१३६

(०२.०४.१३६अब्) शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः ।
(०२.०४.१३६च्द्) विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका ॥ १३६ ॥

लिङ्ग-सूरी - AK.02.04.136

शाकाख्यमिति—शक्यते भोक्तुमनेनेति शाकम् । ʻशक्लृ शक्तü । पत्रपुष्पादि शाकाख्यं शाकनामकम् । अत्र श्लोकः—

ʻमूलपत्रकरीराग्रफलकाण्डादिरूढकम् ।

त्वक् पुष्पं कवचं चेति शाकं दशविधं स्मृतम् ॥

इति । लघुतण्डुलाभबीजयोगात् तण्डुलीयः । अल्पं सम्मर्दनं मृष्यति सहत इत्यल्पमारिषः । ʻमृष सहने । अल्पामपि मारिं व्याधिं स्यतीति वा । ʻषोऽन्तकर्मणि । तण्डुलीयनामनी । ʻचिर्रिकूरपेल्ल्ü ॥ विगतं शल्यमस्या इति विशल्या । गर्भभेदकत्वाद् अग्निशिखेव तिष्ठतीत्यग्निशिखा । बहुदेशव्यापित्वाद् अनन्ता । फलानि सन्त्यस्या इति फलिनी । शक्रप्रियपुष्पत्वात् शक्रपुष्पिका । शक्रपुष्प्यपीति वा पाठः । अग्निशिखानामानि । ʻवेन्नवेदुरुकूर्ö ॥ १३६ ॥

मल्लि-नाथः - AK.02.04.136

शाकाख्यं—पुष्पादि । पत्रपुष्पफलमूलादिरूपभोज्यं शाकशब्दवाच्यं भवति ।

ʻमूलपत्रकरीराग्रफलकाण्डादिरूढजाः ।

पुष्पं त्वक् कवचं चेति शाकं दशविधं स्मृतम् ॥

ʻक्रूर्ö ॥ तण्डुलीयो—मारिषः ।

ʻमारिषे जीवशाकः स्यादत्राल्पे तण्डुलीयकः ।

मेघनादो विगण्डीरम् ॥

इति यादववचनात् । ʻचिर्रिकूर्ö । मारिषः, जीवः, शाकनाम । ʻतोम्बकूर्ö ॥ विशल्या—शक्रपुष्प्यपि । फलिनीशाकनामानि । ʻनादण्टिजालुकूर । अदे तरिगोर्रानुन्न्ü ॥ ʻतिन्दुकाकारपत्रस्तु विटपाग्निशिखा मता’ ॥ १३६ ॥

[[०२.२९८]]

मूलम् - ०२.०४.१३७

(०२.०४.१३७अब्) स्यादृक्षगन्धा छगलाण्ड्यावेगी वृद्धदारकः ।
(०२.०४.१३७च्द्) जुङ्गो ब्राह्मी तु मत्स्याक्षी वयःस्था सोमवल्लरी ॥ १३७ ॥

लिङ्ग-सूरी - AK.02.04.137

स्यादिति—ऋक्षवत् क्रिमीन् गन्धयतेऽर्दयतीति ऋक्षगन्धा । ʻगन्ध अर्दने । छगलस्याजस्येवाण्डान्यस्थीन्यस्या इति छगलाण्डी । छगलाङ्गीति वा पाठः । धातुवृद्धिकरत्वाद् आवेगोऽस्या अस्तीति आवेगी । वृद्धत्वं दारयतीति वृद्धदारकः । ʻदॄ विदारणे । जुङ्गति कफाल्पादिदोषान् वर्जयतीति जुङ्गः । ʻजुगि वर्जने । ऋक्षगन्धानामानि । ʻबोद्दि कूरपेल्ल्ü ॥ पावनत्वात् ब्राह्मी । मत्स्याक्षितुल्यपुष्पत्वात् मत्स्याक्षी । वयसि तिष्ठतीति वयःस्था ʻष्ठा गतिनिवृत्तü । सोमवत् शीतवीर्यत्वात् सोमवल्लरी । ब्राह्मीनामानि । ʻपोन्नगण्टिकूरपेल्ल्ü ॥ १३७ ॥

मल्लि-नाथः - AK.02.04.137

स्यादृक्षगन्धा—जुङ्गः । जुङ्गाख्यशाकनामानि । ʻबोद्धिकूर्ö ॥ ब्राह्मी तु । मण्डूकब्रह्मीनाम । ʻब्राह्मी कपोतवेगा स्यान्माण्डूकीति सुवर्चला’ इति वैजयन्ती ॥ मत्स्याक्षी । लोहमारकनाम । ʻपोन्नगण्टि ॥ ʻमत्स्याक्ष्यां शालशारिण्डौ पत्तूरो लोहमारकḵ इति वैजयन्ती (पृ। ५८, श्लो। १५६) ॥ वयस्था—वल्लरी । सोमवल्लरीनामानि । ʻसेमेदकूर्ö । ʻब्रह्म्यां सत्यवती ब्राह्मी मत्स्याक्षी सोमवल्लरी इति वैजयन्ती (पृ। ५७, श्लो। १४४) ॥ १३७ ॥

[[०२.२९९]]

मूलम् - ०२.०४.१३८

(०२.०४.१३८अब्) पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती ।
(०२.०४.१३८च्द्) हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥ १३८ ॥

लिङ्ग-सूरी - AK.02.04.138

पटुपर्णीति—पटूनि श्रेष्ठानि पर्णान्यस्या इति पटुपर्णी । हिमवति प्रचुरत्वाद् हैमवती । स्वर्णवर्णं क्षीरमस्या इति स्वर्णक्षीरी । हिमं शीतलत्वमस्या इति हिमावती । स्वर्णक्षीरीनामानि । ʻकङ्कोष्टुपुचेट्ट्ü ॥ हयपुच्छाभशाखात्वाद् हयपुच्छी । काम्बोजदेशे भवा काम्बोजी । माषस्येव पर्णान्यस्या माषपर्णी । महान् रोगः सह्यतेऽनया महासहा । ʻषह मर्षणे । माषपर्णीनामानि । ʻकारुमिनुम्ü ॥ १३८ ॥

मल्लि-नाथः - AK.02.04.138

पटुपर्णी—हिमावती । शेषे—ʻक्षीरिणी काञ्चनाह्वा च तिक्तदुग्धा च कर्षिणी । हेमदुग्धिकानामानि । ʻरेडण्ढिवारिनानावाल्ü ।

ʻहेमपीतं पयस्तस्या हिमवद्भूमिसम्भवा ।

सा नागजिह्विकाकारा तन्मूलं वणिगौषधम् ॥

हयपुच्छी—महासहा । वनमाषनामानि । ʻकारुमिनुम्ü ॥ १३८ ॥

[[०२.३०० ]]

मूलम् - ०२.०४.१३९

(०२.०४.१३९अब्) तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि ।
(०२.०४.१३९च्द्) बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका ॥ १३९ ॥

लिङ्ग-सूरी - AK.02.04.139

तुण्डिकेरीति—तुण्डिकमोष्ठबिम्बमियर्त्यनुकरोतीति तुण्डिकेरी । ʻऋ गतü । रक्तवर्णफलत्वाद् रक्तफला । फलैरोष्ठबिम्बमनुकरोतीति बिम्बिका । पीलोरिव पर्णान्यस्याः पीलुपर्णी । तुण्डिकेरीनामानि । ʻदोण्डचेट्टुपेल्ल्ü ॥ कुटिलह्रस्वकेशाभत्वाद् बर्बरा । कबरी च । विरुद्धलक्षणया तुङ्गत्वात् तुङ्गी । खराणि परुषाणि पुष्पाण्यस्याः खरपुष्पा । अजस्येव गन्धोऽस्या असतीति अजगन्धिका । खरपुष्पानामानि ॥ ʻवायण्टचेट्टपेल्ल्ü ॥ १३९ ॥

मल्लि-नाथः - AK.02.04.139

तुण्डिकेरी—पीलुपर्ण्यपि । बिम्बिलतानामानि । ʻदोण्ड्ö ॥ बर्बरा—अजगन्धिका । बर्बराशाकनामानि । ʻदायिण्ट्ö ॥ १३९ ॥

मूलम् - ०२.०४.१४०

(०२.०४.१४०अब्) एलापर्णी तु सुवहा रास्ना युक्तरसा च सा ।
(०२.०४.१४०च्द्) चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका ॥ १४० ॥

लिङ्ग-सूरी - AK.02.04.140

एलापर्णीति—एलाया इव पर्णान्यस्या इति एलापर्णी । सुष्ठु वहत्यामोदमिति सुवहा । ʻवह प्रापणे । रस्यत इति रास्ना । ʻरस आस्वादने । युक्तः प्रियो रसोऽस्या इति युक्तरसा । एलापर्णीनामानि । ʻसन्नरास्नमुपेल्ल्ü ॥ चाङ्गं दन्तपटुत्वमीरयति अपगमयतीति चाङ्गेरी । चकन्त्यनेनेति चुक्रः अम्लः । तद्योगात् चुक्रिका । ʻचक तृप्तü । चुक्किकेति वा पाठः । चुक्कयन्ति व्यथन्तेऽस्या उष्णवीर्यत्वात् चुक्किका । ʻचुक्क व्यथने । आम्लत्वाद् दन्तानां शठं करोतीति दन्तशठा । अम्वेव तिष्ठतीति अम्बष्ठा । अम्लरसेन दन्तान् लुनातीति अम्ललोणिका । ʻलूञ् छेदने । अम्ललोणिकानामानि । ʻपुलिचिन्तपेल्ल्ü ॥ १४० ॥

मल्लि-नाथः - AK.02.04.140

एलापर्णी—युक्तरसा च सा । रास्नानामानि । ʻकारुयालकि ॥ चाङ्गेरी—अम्ललोणिका । वैद्यके—ʻक्षुद्राम्लिका तु चाङ्गेरी लोणिका चाम्ललोणिका’ । इति । चाङ्गेरीनामानि । ʻपुलुचिञ्चलम् । अम्बरोहिकेति पाठः साधुः । अम्बरोलिकेति केचित् ॥ १४० ॥

[[०२.३०१]]

मूलम् - ०२.०४.१४१

(०२.०४.१४१अब्) सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि ।
(०२.०४.१४१च्द्) नमस्कारी गण्डकाली समङ्गा खदिरेत्यपि ॥ १४१ ॥

लिङ्ग-सूरी - AK.02.04.141

सहस्रवेधीति—सहस्रसङ्ख्याकैर्मूलैर्भुवं विध्यतीति सहस्रवेधी । शतवेधी च । चुक्कयन्ति व्यथन्तेऽस्मादुष्णवीर्यात् चुक्रः । ʻचुक्क व्यथने । अम्लरससंयुक्तो वेतसः अम्लवेतसः । अम्लवेतसनामानि । ʻपुल्ल प्रब्बलिपेल्ल्ü ॥ अञ्जलिरूपत्वान्नमस्करोतीव नमस्कारी । गण्डेषु ग्रन्थिषु कालिमास्या अस्तीति गण्डकाली । समन्तादङ्गतीति समङ्गा । ʻअगि गतü । सम्यगङ्गान्यस्या इति वा । खदिरवत् कृष्णसूक्ष्मपर्णत्वात् खदिरा । खदिरानामानि । ʻमुनुगुदामरपेल्ल्ü ॥ १४१ ॥

मल्लि-नाथः - AK.02.04.141

सहस्रवेधी—शतवेध्यपि । अम्लवेतसनामानि । ʻअम्लवेतसम्ü । नमस्कारी—खदिरेत्यपि । वैद्यके—

ʻरक्तपादी शमीपत्रा समङ्गाञ्जलिकारिका ।

लज्जालुर्गण्डकारी च रास्ना खदिरिकेत्यपि ॥

इति । अञ्जलिकारिकानामानि । ʻमुणुगुदामर्ö ॥ १४१ ॥

[[०२.३०२]]

मूलम् - ०२.०४.१४२

(०२.०४.१४२अब्) जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ।
(०२.०४.१४२च्द्) कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः ॥ १४२ ॥

लिङ्ग-सूरी - AK.02.04.142

जीवन्तीति—जीवन्ति प्राणिनोऽनयेति जीवन्ती । जीवनी । जीवा । जीवनीया च । ʻजीव प्राणधारणे । मधु स्रवतीति मधुस्रवा । ʻस्रु गतü । जीवन्तीनामानि । ʻपालकूरपेल्ल्ü ॥ कूर्चवत् श्मश्रुबत् शीर्षमस्येति कूर्चशीर्षः । मधुरत्वात् मधुरकः । शृङ्गाभावयवयोगात् शृङ्गः । ह्रस्वान्यङ्गान्यस्य ह्रस्वाङ्गः । जीवयतीति जीवकः । जीवकनामानि । ʻजीवकमुसुगन्धद्रव्यमुपेल्ल्ü ॥ १४२ ॥

मल्लि-नाथः - AK.02.04.142

जीवन्ती—मधुस्रवा । जीवन्तीनामानि ।

ʻचक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा ।

इति धन्वन्तरिः (ध। नि। १। १४१) । ʻपालकूर्ö ॥ कूर्चशीर्षो—जीवकाः । शेषे—ʻदीर्घायुः सर्जकः स्वादुः प्राणदश्चिरजीव्यपि । जीवकनामानि । ʻजीवकम्ü ॥ १४२ ॥

मूलम् - ०२.०४.१४३

(०२.०४.१४३अब्) किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला ।
(०२.०४.१४३च्द्) विमला सातला भूरिफेना चर्मकषेत्यपि ॥ १४३ ॥

लिङ्ग-सूरी - AK.02.04.143

किराततिक्त इति—तिक्तरसयोगात् तिक्तः, किरातदेशे भवस्तिक्तः किराततिक्तः । भुवि निम्बो भूनिम्बः । अनार्याः किराताः तद्देशे भवस्तिक्तः अनार्यतिक्तः । भूनिम्बनामानि । ʻनेलवेमुपेल्ल्ü ॥ सपति स्वावयवेषु समेता सप्तला । ʻषप समवाये । विगतं मलमनयेति विमला । सातं सुखं लातीति सातला । सतां सुखं लातीति वा । भूरयः फेनविन्दवोऽस्याः सन्तीति भूरिफेना । चर्म कषतीति चर्मकषा । ʻकष हिंसायाम् । चर्मकसेति पाठे चर्म कसति वर्धतेऽत्रेति चर्मकसा । ʻकस गतü । सप्तलानामानि । ʻसम्बरेनिपेल्ल्ü ॥ १४३ ॥

मल्लि-नाथः - AK.02.04.143

किराततिक्तो—अनार्यतिक्तः । भूनिम्बनामानि । ʻनेलवेम्ü । अनुक्तम्—ʻकाकजङ्घा तु शार्ङ्गष्ठा षडश्रा च विलोमिका’ । ʻवेलमलन्दि । स भूनिम्बावान्तरभेदः ॥ अथ सप्तला—चर्मकषेत्यपि । चर्मेव कसति वर्धत इति चर्मकसेति दन्त्योपधः सुभूतिटीकायां व्युत्पादितः । सातलानामानि ।

ʻफेनाभबिन्दुयुक्तेयं पश्चाद्देशसमुद्भवा ।

सातरिष्येव विख्याता गन्धद्रव्यं वणिग्धनम् ॥

ʻसम्बरेणि ॥ १४३ ॥

[[०२.३०३]]

मूलम् - ०२.०४.१४४

(०२.०४.१४४अब्) वायसोली स्वादुरसा वयःस्थाथ मकूलकः ।
(०२.०४.१४४च्द्) निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ॥ १४४ ॥

लिङ्ग-सूरी - AK.02.04.144

वायसोलीति—वायसवदुलति चलतीति वायसोली । ʻउल सञ्चलने । अवलीयत इति वा । ʻली श्लेषणे । स्वादू रसोऽस्या इति स्वादुरसा । वयसि स्थीयतेऽनयेति वयःस्था । कायस्थेति पाठे काये बुध्ने तिष्ठतीति कायस्था । ʻष्ठा गतिनिवृत्तü । वयःस्थानामानि । ʻकारुगोलिमि ॥ मङ्क्यते चित्रत्वात् मकूलकः । ʻमकि मण्डने । रसाधारत्वेन निश्चितः कुम्भो निकुम्भः । कफादिदोषाः दाम्यन्त्युपशाम्यन्त्यनयेति दन्दिका । ʻदमु उपशमने । प्रत्यक् तिर्यक् पर्णश्रेणयोऽस्याः सन्तीति प्रत्यक्श्रेणी । उदुम्बरस्येव पर्णान्यस्या उदुम्बरपर्णी । दन्तिकानामानि । ʻदन्तिचेट्टुपेल्ल्ü ॥ १४४ ॥

मल्लि-नाथः - AK.02.04.144

वायसोली—वयःस्था । कायस्थेति केचित् । अत्र कालिका काकोली शुक्लादयः शब्दाश्च । गौडदेशप्रसिद्धकाकोलीनामानि । ʻकाकोलीकारुकोरिन्नि ॥ अथ मकूलकः—उदुम्बरपर्ण्यपि । दन्तीनामानि । ʻदन्तिचेट्ट्ü ॥ १४४ ॥

[[०२.३०४]]

मूलम् - ०२.०४.१४५

(०२.०४.१४५अब्) अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका ।
(०२.०४.१४५च्द्) मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५ ॥

लिङ्ग-सूरी - AK.02.04.145

अजमोदेति—अजस्येव मोदो गन्धोऽस्या अस्तीति अजमोदा । उग्रो गन्धोऽस्या उग्रगन्धा । ब्रह्मसम्बन्धित्वात् दर्भाकारत्वाच्च ब्रह्मदर्भा । यवानीव सूक्ष्मपुञ्जसरूपत्वाद् यवानिका । अजमोदानामानि । ʻअजमोदमनुनोममुपेल्ल्ü ॥ स्थलपद्मिनीमूलत्वेन पुष्करस्य मूलमिदं पुष्करम् । काश्मीरदेशे भवं काश्मीरम् । पद्मस्येव पत्राण्यस्य पद्मपत्रम् । पुष्करस्येदं पौष्करम् । पुष्करमूलनामानि । ʻपुष्करमूलमुपेल्ल्ü ॥ १४५ ॥

मल्लि-नाथः - AK.02.04.145

अजमोदा—यवानिका । इयं द्विविधा । एका गन्धद्रव्यम् । अपरा क्षेत्रजा । द्वयोर्नामानि । ʻअजमोदमुन्नु वोममुन्न्ü ॥ मूले—पौष्करे । पौष्करे मूले पुष्करकाश्मीरपद्मपत्राणि स्युः । द्रव्यावल्यां तु—

ʻमूलं पुष्करमूलं च पौष्करं पुष्कराह्वयम् ।

काश्मीरं पुष्करजटाचीरं तत् पद्मपत्रकम् ॥

श्वासारिब्रह्मतीर्थं च पद्मकं पुण्यसागरम् ॥

इति मूलपौष्करशब्दौ पर्यायत्वेनोक्तौ ॥ १४५ ॥

मूलम् - ०२.०४.१४६

(०२.०४.१४६अब्) अव्यथातिचरा पद्मा चारटी पद्मचारिणी ।
(०२.०४.१४६च्द्) काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि ॥ १४६ ॥

लिङ्ग-सूरी - AK.02.04.146

अव्यथेति—न व्यथतेऽनयेति अव्यथा । ʻव्यथ भयचलनयोḵ । अत्यर्थं चरति व्याप्नोतीति अतिचरा । ʻचर गतिभक्षणयोḵ । पद्मसादृश्यात् पद्मा । चरति व्याप्नोतीति चारटी । पद्ममिव चरतीति पद्मचारिणी । ʻमेट्ट (काश्मीरदेशपु) दामरपेल्ल्ü ॥ कम्पिल्याख्यदेशे भवः काम्पिल्यः । कटुतिक्तोष्णरूपत्वात् कृणोतीति कर्कशः । ʻकृञ् हिंसायाम् । रोगहरणेन चन्दयत्याह्लादयतीति चन्द्रः। ʻचदि आह्लादने । रक्तमङ्गमस्येति रक्ताङ्गः । रोचयति रक्तपर्णेनेति रोचनी । ʻरुच दीप्तü । रोचनीनामानि । ʻकम्पिल्लमुपेल्ल्ü ॥ १४६ ॥

मल्लि-नाथः - AK.02.04.146

अव्यथा—पद्मचारिणी । शेषे—ʻपद्मावती गन्धमूला लक्ष्मीः श्रेष्ठा च पुष्करा’ । स्थलपद्मिनीनामानि । ʻमेट्टदामर्ö ॥ काम्पिल्यः—रोचनीत्यपि । ʻरजतो रोहीताङ्गश्च कर्कशो रक्तचूर्णकः । करम्बः स्यात् इतीन्दुः । काम्पिल्यनामानि । ʻकम्पिल्लम्ü ॥ १४६ ॥

[[०२.३०५]]

मूलम् - ०२.०४.१४७

(०२.०४.१४७अब्) प्रपुन्नाटस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ।
(०२.०४.१४७च्द्) पद्माट उरणाक्षश्च पलाण्डुस्तु सुकन्दकः ॥ १४७ ॥

लिङ्ग-सूरी - AK.02.04.147

प्रपुन्नाट इति—प्रकर्षेण पुमांसं नाटयतीति प्रपुन्नाटः । प्रकर्षेण पुनातीति वा । ʻपूञ् पवने । बलं प्रपुणतीति प्रपुण्णाट इति वा पाठः । ʻपुण कर्मणि शुभे । एदाभपुष्पत्वाद् एडः । गज्यत इति गजः । ʻगज शब्दे । एडश्चासौ गजश्च एडगजः । दद्रुं रोगं हन्तीति दद्रुघ्नः । चक्राणि दद्रुमण्डलानि मृद्नाति नाशयतीति चक्रमर्दकः । ʻमृद क्षोदे । पद्मवदटति चरतीति पद्माटः । ʻअट पट गतü । उरणो मेषस्तदक्षिसदृशपुष्पत्वाद् उरणाक्षः । उरणाख्य इति वा पाठः । तदोरणस्य मेषस्याख्या अस्येति । पद्माटनामानि । ʻतगिरसचेट्टुपेल्ल्ü ॥ कफं पिपर्ति पूरयतीति पलाण्डुः । ʻप पालनपूरणयोḵ । शोभनः कन्दोऽस्यास्तीति सुकन्दकः । पलाण्डुनामनी ॥ ʻनीरुल्लीपेर्ü ॥ १४७ ॥

मल्लि-नाथः - AK.02.04.147

प्रपुन्नाटः—उरणाक्षश्च । ʻप्रपुन्नटः प्रपुन्नाडो दद्रुपामनिघातकḵ इति वैद्यके । प्रपुन्नाटनामानि । ʻतण्टेपुचेट्ट्ü ॥ पलाण्डुस्तु सुकन्दकः । पलण्डुश्च पलण्डश्च पलाण्डुनामनी । ʻनीरुल्लि ॥ १४७ ॥

[[०२.३०६]]

मूलम् - ०२.०४.१४८

(०२.०४.१४८अब्) लतार्कदुर्द्रुमौ तत्र हरितेऽथ महौषधम् ।
(०२.०४.१४८च्द्) लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ १४८ ॥

लिङ्ग-सूरी - AK.02.04.148

लतार्क इति—लताभिः शाखाभिरर्च्यत इति लतार्कः । अपवित्रत्वेन दुष्टो द्रुमो दुर्द्रुमः । हरितपलाण्डुनामनी । ʻपच्चनिनीरुल्लिपेर्ü ॥ महच्च तदौषधं च महौषधम् । अश्यते भुज्यत इति लशुनम् । ʻअश भोजने । गृञ्ज्यते कुत्सितं शब्द्यत इति गृञ्जनः । ʻगृजि शब्दे । न रिष्यतीत्यरिष्ट । ʻरिष हिंसायाम् । महान् कन्दो यस्य सः महाकन्दः । षट्सु रसेषु एकेनाम्लरसेनोनः रसोनकः । लशुननामानि । ʻवेल्लुल्लिपेल्ल्ü ॥ १४८ ॥

मल्लि-नाथः - AK.02.04.148

लतार्कदुर्द्रुमौ—हरिते । हरितपलाण्डुनामनी । ʻपच्चनिनीरुल्लि । अथ महौषधं—रसोनकाः । लशुननामानि । ʻवेल्लुल्लि । वैद्यके तु—

ʻलशुनं दीर्घपत्रं च पिच्छागन्धो महौषधम् ।

पलण्डुश्च पलाण्डुश्च लतार्कश्च पताकिका ॥

गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः ॥

इत्युक्तम् ॥ १४८ ॥

मूलम् - ०२.०४.१४९

(०२.०४.१४९अब्) पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम् ।
(०२.०४.१४९च्द्) स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि ॥ १४९ ॥

लिङ्ग-सूरी - AK.02.04.149

पुनर्नवेति—पुनः पुनर्नवो भवतीति पुनर्नवा । पुनर्भव इति वा पाठः । शोथं हन्तीति शोथघ्नी । शोफघ्न इति वा पाठः । ʻहन हिंसागत्योḵ । शोथघ्नीनामनी । ʻगलिजेरुपेर्ü ॥ वितुद्यते विशेषेण छिद्यत इति वितुन्नम् । ʻतुद व्यथने । सुष्ठु निषीदन्ति गुणा अत्रेति सुनिषण्णकम् । ʻषद्लृ विशरणगत्यवसादनेष्ü । वितुन्ननामनी । निरुचेञ्चलिपेल्लु ॥ वातं करोतीति वातकः । अत एव शीतं लातीति शीतला । रोगैरपराजितत्वाद् अपराजिता । शणस्येव पर्णान्यस्याः शणपर्णी । शणपर्णीनामानि । ʻसोमिदपुचेट्टुपेल्ल्ü ॥ १४९ ॥

मल्लि-नाथः - AK.02.04.149

पुनर्नवा—शोफघ्नी । पुनर्नवानामनी । ʻगलिजेर्ü ।

ʻशोभघ्न्यां पूरणा पूरी वर्षाभ्वी जीवबोधिनी ॥

पुनर्नवा च रक्तायां तस्यां योग्या कटिल्लका ।

श्वेतायां वृश्चिकोऽल्पायां दीर्घपत्री विटाटिका ॥

अस्या जात्यन्तरे स्वल्पे पूरणी हस्तिपूरणी ॥

इति वैजयन्ती (पृ। ५७, श्लो। १४५-७) । वितुन्नं सुनिषण्णकम् । जलचुक्रिकानामानि । ʻनीरुचिञ्चिलम् । स्याद्वातकः—शणपर्ण्यपि ।

ʻबलापराजिता मोटा स्यन्दा शीतलवातलः ।

इत्यायुर्वेदप्रकाशोक्त्या शीतलवातल इत्येकपदमिति केचित् । शणपर्णीनामानि । ʻसोमिदम् ॥ १४९ ॥

[[०२.३०७ ]]

मूलम् - ०२.०४.१५०

(०२.०४.१५०अब्) पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता ।
(०२.०४.१५०च्द्) वार्षिकं त्रायमाणा स्यात् त्रायन्ती बलभद्रिका ॥ १५० ॥

लिङ्ग-सूरी - AK.02.04.150

पारावताङ्घ्रिरिति—पारावताङ्घ्रिसदृशावयवयोगात् पारावताङ्घ्रिः । कटत्यावृणोतीति कटभी । ʻकटे वर्षावरणयोḵ । पण्यते स्तूयत इति पण्या । ʻपण व्यवहारे स्तुतौ च्ö । ज्योतिरुष्णमस्या अस्तीति ज्योतिष्मती । दूरप्रसरात् लता । ज्योतिष्मतीनामानि । ʻएक्कुडुदिङ्गेपेल्ल्ü ॥ वर्षासु भवं वार्षिकम् । रोगेभ्यस्त्रायत इति त्रायमाणा । ʻत्रैङ् पालने । त्रायन्ती च । बलेन प्राणेन भद्रत्वात् बलभद्रिका । त्रायमाणानामानि । ʻकटुगानुगुपेल्ल्ü ॥ १५० ॥

मल्लि-नाथः - AK.02.04.150

पारावताङ्घ्रिः—लता । शेषे—

ʻज्योतिष्का साग्निभा सा च लवणोक्ता च दुर्मदा ।

स्यात्सुपर्णलता चैद्या त्रिपर्णी किंशुकापि च ॥

ज्योतिष्मतीनामानि । ʻमानेरुदीग्ö ॥ वार्षिकं—बलभद्रिका । त्रायन्तीनामानि । ʻकलुक्रान्त्ö ॥ १५० ॥

[[०२.३०८]]

मूलम् - ०२.०४.१५१

(०२.०४.१५१अब्) विष्वक्सेनप्रिया घृष्टिर्वाराही बदरेति च ।
(०२.०४.१५१च्द्) मार्कवो भृङ्गराजः स्यात् काकमाची तु वायसी ॥ १५१ ॥

लिङ्ग-सूरी - AK.02.04.151

विष्वक्सेनप्रियेति—विष्वक्सेनस्य प्रिया विष्वक्सेनप्रिया । वराहैर्घृष्यत इति घृष्टिः । ʻघृष सङ्कर्षणे । वराहैराक्रान्ता वाराही । बदति स्थिरीभवतीति बदरा । ʻबद स्थैर्ये । वाराहीनामानि । ʻपाञ्चितीङ्गेपेल्ल्ü ॥ मार्कः सम्पर्कः औषधेषु तं वातीति मार्कवः । ʻवा गतिगन्धनयोḵ । भृङ्गवद् राजते भृङ्गराजः । ʻराजृ दीप्तü । भृङ्गराजनामनी । ʻगुण्टगलगरपेल्ल्ü ॥ काकान् मञ्चत इति काकमाची । ʻमचि धारणोच्छ्रायपूजनेष्ü । काकमूचीति पाठे काकवर्णेन मूयते सम्बध्यत इति काकमूची । ʻमूङ् बन्धने । वायसवर्णरसत्वाद् वायसी । ʻकाञ्चिचेट्टुपेल्ल्ü ॥ १५१ ॥

मल्लि-नाथः - AK.02.04.151

विष्वक्सेनप्रिया—बदरेत्यपि । यद्रसयोगेन तक्रस्त्यानता तल्लतानामानि । ʻपाञ्चितीङ्गे ॥ मार्कवो—स्यात् । द्रव्यावल्याम्—

ʻअङ्गारको भृङ्गराजो भृङ्गः स्यात् केशरञ्जनः ।

भृङ्गारकेशरागा च भृङ्गराजार्थवाचकाः ॥

इति । भृङ्गराजनामानि । ʻगुण्टकलगर्ö । काकमाची—वायसी । वैद्यके—ʻकाकार्थेभ्यः परा माची काकसाह्वा च वायसी इति । अनेन ध्वाङ्क्षमाचीत्यादिरपि । काकी करटेत्यादिश्च । काकमाचीनामानि । ʻकाञ्चिचेट्टु । अदे नल्लबुडुसर्ö ॥ १५१ ॥

[[०२.३०९]]

मूलम् - ०२.०४.१५२

(०२.०४.१५२अब्) शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः ।
(०२.०४.१५२च्द्) अवाक्पुष्पी कारवी च सारणी तु प्रसारिणी ॥ १५२ ॥
(०२.०४.१५३अब्) तस्यां कटम्भरा राजबला भद्रबलेति च ।

लिङ्ग-सूरी - AK.02.04.152

शतपुष्पेति—बहुपुष्पत्वात् शतपुष्पा । सितच्छत्राभानि पुष्पाण्यस्या इति सितच्छत्रा । छत्रमतिक्रान्ता अतिच्छत्रा । विरुद्धलक्षणया मधुरत्वात् मधुरा । मस्यति परिणमतीति मिसिः । ʻमसी परिणामे । अवाञ्च्यधोमुखानि पुष्पाण्यस्या अवाक्पुष्पी । कारेण यत्नेन वीयते खाद्यते, कटुतिक्तत्वादिति कारवी । ʻवी गतिव्याप्तिप्रजनकान्त्यसनखादनेष्ü । मधुरानामानि । ʻपेद्दसदापपेल्ल्ü ॥ सार्यते निःसार्यते पीडानयेति सारणी । प्रसारिणी च । ʻसृ गतü । कटिं श्रोण्याद्यवयवं बिभर्ति पुष्णातीति कटम्भरा । ʻडुभृञ् धारणपोषणयोḵ । बलप्रदवस्तुषु राजवन्मुख्यत्वाद् राजबला । भद्रं बलमस्या अस्तीति भद्रबला । प्रसारिणीनामानि । गोन्तेमगोरुचेट्टुपेल्ल्ü ॥ १५२ ॥

मल्लि-नाथः - AK.02.04.152

शतपुष्पा—कारवी च । शतपुष्पानामानि । ʻसदाप्ö । सारणी—भद्रबलेति च । प्रसारिणीनामानि । ʻगोन्तेमगारु । दूसर्ö ॥ १५२ ॥

[[०२.३१०]]

(०२.०४.१५३च्द्) जनी जतूका जननी जतुकृच्चक्रवर्तिनी ॥ १५३ ॥

मूलम् - ०२.०४.१५४

(०२.०४.१५४अब्) संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि ।
(०२.०४.१५४च्द्) कर्चूरोऽपि पलाशोऽथ कारवेल्लः कटिल्लकः ॥ १५४ ॥
(०२.०४.१५५अब्) सुषवी चाथ कुलकं पटोलस्तिक्तकः पटुः ।

लिङ्ग-सूरी - AK.02.04.153-54

जनीति—जनयति शैत्यादिकं जनी । जननी च । ʻजनी प्रादुर्भावे । जतु लाक्षा तद्वद्रोगक्षयं करोतीति जतूका । जतुकृच्च । चक्रे शाकानां समूहे वर्तत इति चक्रवर्तिनी । ʻवृतु वर्तने । शीतगुणत्वात् सम्यक् स्पृश्यते संस्पर्शा । ʻस्पृश संस्पर्शने । संस्पर्शोऽस्या इति वा । चक्रवर्तिनीनामानि । ʻकीरिन्दचेट्टुपेल्ल्ü ॥ शटति कफादिरोगान् नाशयतीति शटी । ʻशट रुजाविशरणगत्यवसादनेष्ü । गन्धयुक्तं मूलमस्या इति गन्धमूली । षड्ग्रन्थयोऽस्याः सन्तीति षड्ग्रन्थिका । कर्चूं चूर्यते दहतीति कर्चूरः । ʻचूरी दाहे । पृथुपलाशत्वात् पलाशः । व्रणस्थं पलं मांसमश्नुते वा । ʻअशू व्याप्तü । गन्धमूलीनामानि । ʻगण्ट्लकचोरमुपेल्ल्ü ॥ कारेण प्रयत्नेन यष्ट्यादिकमवलम्ब्य वेल्लति चलतीति कारवेल्लः । ʻवेल्ल चलने । कटत्यावृणोतीति कटिल्लकः । ʻकटे वर्षावरणयोḵ । सुष्ठु सूयते फलानीति सुषवी । ʻषूञ् प्राणिप्रसवे । कारवेल्लनामानि । ʻकाङ्करचेट्ट्ü ॥ कुत्सितं लक्यते आस्वाद्यत इति कुलकम् । ʻलक आस्वादने । पटति सरतीति पटोलः । ʻअट पट गतü । तिक्तरसत्वात् तिक्तकः । देहपटुत्वयोगात् पटुः । कटुरिति वा पाठे कटुरसत्वात् कटुः । पटोलनामानि । ʻचेन्दुपोट्लचेट्ट्ü ॥ १५३-४ ॥

मल्लि-नाथः - AK.02.04.153-54

जनी—संस्पर्शा । लाक्षाजनकलताविशेषनामानि । ʻकारिन्द्ö । अथ शटी । मूर्धन्योपधः । गन्धमूली—पलाशः । ग्रन्थिकचोरनामानि । ʻगण्ट्लकचोरम्ü । कारवेल्लः—सुषवी च । कारवेल्लनामानि । ʻकाङ्कर्ö । अनुक्तम्—ʻसुकन्दरस्तु कर्कोटḵ । तद्विशेषनामनी । ʻमट्टुकाङ्कर्ö ॥ अथ कुलकः—पटुः । वैद्यके—

ʻपटोलस्तिक्तकस्तिक्तस्तिलकः कर्कशच्छदः ।

राजिमान् बीजगर्भश्च कुष्ठहा कासमर्दनः ॥

प्रतीककर्कशौ चैव तथा राजिपटोलकः ।

राजिराजामृतापाण्डुभूतेभ्यश्च फलः परः ॥

रवणश्चेति ॥

यादवस्त्वाह—

ʻपटोलिका ह्रस्वफला कन्याकुब्जा यवीयसी ।

सा तिक्ता तिक्तफलिका वन्या तिक्तपटोलिका ॥

इति । पटोलनामानि । ʻपोट्ल्ö ॥ ʻपटोलायास्तु पर्यायैर्योजयेद्भिषगुत्तमḵ इति धन्वन्तरिवचनात् (ध। नि। १। ५२) तिक्तपटोलनामान्यपि । ʻचेन्ति पोट्लानुन्न्ü ॥ १५३-४ ॥

[[०२.३११]]

(०२.०४.१५५च्द्) कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ ॥ १५५ ॥

मूलम् - ०२.०४.१५६

(०२.०४.१५६अब्) इक्ष्वाकुः कटुतुम्बी स्यात् तुम्ब्यलाबूरुभे समे ।
(०२.०४.१५६च्द्) चित्रा गवाक्षी गोतुम्बा विशाला त्विन्द्रवारुणी ॥ १५६ ॥

लिङ्ग-सूरी - AK.02.04.155-56

कूष्माण्डक इति—कुत्सित ऊष्मा अण्डेषु बीजेषु यस्य कूष्माण्डकः । तृप्तिं करोतीति कर्कः । इयर्तीति अरुः । ʻऋ गतü । कर्कश्चासावरुश्च कर्कारुः । कूष्माण्डनामनी । ʻगुम्मडिपेल्ल्ü ॥ कटुरसेन जिह्वामूर्वतीति उर्वारुः । ʻउर्वी हिंसायाम् । कर्कापेक्षया ह्रस्वत्वात् कर्कटी । उर्वारुनामनी । ʻदोसचेट्टुपेल्ल्ü ॥ इक्षुमप्यकयति कुटिलयति तिक्तत्वेनेति इक्ष्वाकुः । ʻअक कुटिलायां गतü । कटुत्वेन जनं तुम्बयति पीडयतीति कटुतुम्बी । ʻतुबि अदर्शने अर्दने च्ö । कटुतुम्बीनामनी । ʻचेन्दुसोरपेल्ल्ü ॥ तुम्बयति पित्तं नाशयतीति तुम्बी । ʻतुबि अर्दने । न लम्बते जलेऽधो न गच्छति शुष्कदशायामिति अलाबूः । ʻलबि शब्दे अवस्रंसने च्ö । अलाबूनामनी । ʻमञ्चिसोरपेल्ल्ü ॥ चित्ररूपफलत्वात् चित्रा । वृषभाक्षितुल्यपुष्पयोगात् गवाक्षी । गोभिर्भक्षणेन तुम्ब्यते गोतुम्बा । ʻतुवि अर्दने । गवाक्षीनामानि । ʻपिन्नपापरपेल्ल्ü ॥ विशालफलयोगाद् विशाला । इन्द्र इव वृषभाक्षाभैः फलैः स्वदेहं वृणोतीति इन्द्रवारुणी । ʻवृञ् वरणे । इन्द्रवारुणीनामनी । ʻपेद्दपापर्ö ॥ १५५-६ ॥

मल्लि-नाथः - AK.02.04.155-56

कूश्माण्डकः—कर्कारुः । वैद्यके—

ʻकूश्माण्डश्चित्रकः सोमः पीतपुष्पो नृपात्मजः ।

वनवासः पुण्ड्रफलः कालिङ्गीपीतके स्त्रियौ ।

महाफला शाकफला सुभद्रा शकुलापि च ॥

इति । वाक्चन्द्रिकायां तु—

ʻकूश्माण्डस्तु कलिङ्गः स्याच्चित्रको गर्भपातनः ।

इति । कूश्माण्डनामानि । ʻगुम्मडि ॥ उर्वारुः—स्त्रियौ । वैजयन्त्याम्—ʻभीरुस्त्विर्वारुकर्कटी, (पृ। ५८, श्लो। १६६) ʻचोदन्युर्वारुपालक्यḵ, ʻअल्पा सा राजकर्कटी (पृ। ५८, श्लो। १६६) ʻचोदन्युर्वारुपालक्यḵ, ʻअल्पा सा राजकर्कटी (पृ। ५८, श्लो। १६७) इति कर्कटीसामान्यनामानि । ʻदोस्ö ॥ शेषे—ʻसुखवासी शीर्णवृन्तस्तीव्रगन्धः सुवासकḵ । तद्विशेषनामानि । ʻकोरुबुडम्ö । शेषे—

ʻत्रिलिङ्ग्यां त्रपुसेत्रालं डर्दिनी हस्तिपर्णिनी ।

विपाण्डुश्चिद्विटीमूत्रफलः स्यात् तिक्तकर्कटी ॥

त्रपुसा इत्रालमिति छेदः । इतालमिति केचित् । तिक्तकर्कटीनामानि । ʻचिन्तिदोस्ö । ʻकरबुजमुन्न्ü । ʻचिर्भटी पुनरुर्वारुḵ इति वैजयन्ती । (पृ। ५९, श्लो। १७२) ʻनक्कदोस्ö । ʻविटङ्कोऽतिमृगेर्वारुḵ इति वैजयन्ती (पृ। ५९, श्लो। १७२) । ʻबुडुम्ö ॥ इक्ष्वाकुः—स्यात् । शेषे—

ʻअम्बा पिण्डफला तथा ।

उषा च क्षत्रियरसस्तिक्तबीजो महाफलः ।

बृहद्फला राजपुत्री ॥

तिक्ततुम्बीनामानि । ʻसदर्ö । ʻचेन्तिसोर्ö ॥ तुम्ब्यलाबूः—समे । अलाबूनामानि । ʻअनुगम्ü ॥ अनुक्तं—ʻकालिङ्ग्यां सोमकर्कारुर्वनवासक इत्युभü । कालिङ्गानामनी । ʻपुच्चचेट्ट्ü ॥ चित्रा—गोतुम्बा । ʻचित्रा विशाला द्रवन्ती चेति द्व्यर्थतन्त्राभिधाने सत्यपि विशालावान्तरभेदत्वाद् गवाक्षीपर्यायत्वेनोक्तिः । गवाक्षीनामानि । क्षुद्रफलेन्द्रवारुणीनामानि च । ʻबुडमान्ü । ʻपिन्नपाम्परान्ü ॥ विशाला—इन्द्रवारुणी । शेषे—ऐन्द्रीद्रसाह्वा त्रपुसी शक्रेर्वारुश्च तुम्बिनी । इन्द्रवारुणीनामानि । ʻपेद्दपाम्पर्ö ॥ (१५५-६)

[[०२.३१३]]

मूलम् - ०२.०४.१५७

(०२.०४.१५७अब्) अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला ।
(०२.०४.१५७च्द्) कलम्ब्युपोदकास्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥

लिङ्ग-सूरी - AK.02.04.157

अर्शोघ्न इति—अर्शोरोगं हन्तीति अर्शोघ्नः । सूयते प्रेर्यते भक्षणे रुचित्वादिति सूरणः । ʻषू प्रेरणे । अर्शोरोगिभिः कन्द्यतेऽन्विष्यत इति कन्दः । ʻकदि आह्वाने रोदने च्ö । सूरणनामानि । ʻकन्दपेल्ल्ü ॥ गण्डीन् ग्रन्थीनीरयत्यपनयतीति गण्डीरः । ʻईर क्षेपे । सम्यगस्थीन्यन्तर्वस्तूनि लात्यादत्ते समष्ठिला । ʻला आदाने । गण्डीरनामनी । ʻएरुवङ्गपेल्ल्ü ॥ के जले लम्बते कलम्बी । ʻतीङ्गेबच्चलिपेर्ü ॥ उपगतमुदकं यस्याः सा उपोदका । ʻदुम्बबच्चलि ॥ प्रशस्तानि मूलान्यस्येति मूलकम् । ʻमुल्लङ्गि ॥ हेलया रोगान् मोचयतीति हिलमोचिका । ʻमुच्लृ मोक्षणे । ʻचिलुककूर्ö ॥ १५७ ॥

मल्लि-नाथः - AK.02.04.157

अर्शोघ्नः—कन्दः । शेषे—ʻकण्डूरश्चित्रदण्डकः । उल्लुश्च दैत्यमदनḵ । सूरणनामानि । ʻकन्द्ö । ʻकन्दं त्वस्त्री चित्रदण्ड उल्लुः कण्डूरसूरणü इति वैजयन्ती (पृ। ६२, श्लो। २०८) । अनुक्तम्—ʻअस्त्रियामानुवक्रोष्टि । ʻगेणुस्ü ॥ ʻशकुटो जलकूचिका’ । ʻअडिविचाम्ö ॥ ʻवृहच्छदो महापद्मो मोहमाण इमे समाḵ । ʻबलुरक्किस्ö ॥ ʻवज्रवल्ली काण्डलता’ । ʻनल्लेर्ü ॥ ʻकन्याह्वा तु स्थलेरुह्ȫ । ʻकलुबन्द्ö ॥ ʻछत्राकस्तु शिलीन्ध्रोऽहिच्छत्रं भूस्फोटमित्यपि । ʻपुट्टगोडुग्ü ॥ ʻमुण्डिनी श्रमणी मुण्ड्ȫ । ʻबोडतरम्ü ॥ ʻकुणुञ्जो वनवास्तुकम् । ʻचञ्चलिकपित्थपत्रिझरसी । ʻचेन्तलासि ॥ ʻद्रोणपुष्पी कुरण्टिक्ȫ । ʻतुम्मि ॥ ʻअरण्यवासिनी घोली । ʻघोलिकूर्ö ॥ ʻक्षुद्रा सैव विचिल्लिक्ȫ । ʻपावलिकूर्ö ॥ गण्डीरः—समष्ठिला । गण्डीरनामनी । ʻयोकुवङ्ग । तुरुजकूरान्ü ॥ कलम्बी—हिलमोचिका । कलम्ब्यादिपञ्चकं शाकविशेषवाचकम् । कलम्बी—ʻतीङ्गेबच्चवी । उपोदका । ʻअपोदका मत्स्यकाली । इति धन्वन्तरिपाठादपशब्दादिरपि । ʻदुम्प्फबच्चलि । अस्त्री तु मूलकं । मूलकः । ʻमुल्लङ्गि । हिलमोचका—ʻचिलुककूर्ö ॥ १५७ ॥

[[०२.३१४]]

मूलम् - ०२.०४.१५८

(०२.०४.१५८अब्) वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका ।
(०२.०४.१५८च्द्) सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता ॥ १५८ ॥
(०२.०४.१५९अब्) गोलोमी शतवीर्या च गण्डाली शकुलाक्षकः ।

लिङ्ग-सूरी - AK.02.04.158

वास्तुकमिति—वसन्त्यत्र त्रिदोपघ्नगुणा इति वास्तुकम् । ʻवस निवासे । ʻचक्रवर्तिकूर्ö ॥ एते कलम्ब्याद्याः पञ्च शाकभेदा इत्युच्यन्ते ॥ दूर्व्यते पशुभिरिति दूर्वा । ʻदुर्वी हिंसायाम् । दूरं वाति गच्छतीति वा । ʻवा गतिगन्धनयोḵ । शतं पर्वाण्यस्यामिति शतपर्विका । महाप्रभावत्वात् सहस्रवीर्या । भृगोरियं भार्गवी । छिन्नापि रोहतीति रुहा । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । दूरप्रसरणाद् अनन्ता । दूर्वानामानि । ʻगरिकपेल्ल्ü ॥ गोरिव लोमान्यस्या इति गोलोमी । शतं वीर्याणि प्रसरणरूपाण्यस्या इति शतवीर्या । सितदूर्वानामनी । ʻतेल्लगरिकपेल्ल्ü ॥ गण्डैर्ग्रन्थिभिरल्यते भूष्यत इति गण्डाली । ʻअल भूषणादü । मत्स्यनयनतुल्यग्रन्थियोगात् शकुलाक्षकः । शकुलाक्षकनामनी । ʻतेल्लगरिक यनि कोन्दर्ü ॥ १५८ ॥

मल्लि-नाथः - AK.02.04.158

वास्तुकं—स्युः । वास्तुकं, वास्तूकमपि । ʻवास्तूकं चक्रवास्तुकम् इति वाग्भटः । ʻचक्रवर्तम्ü ॥ शाकाख्यं पत्रपुष्पादीत्यारभ्य (श्लो। १३६) वास्तुकान्ताः (श्लो। १५८) शाकभेदाः स्युरित्युपसंहारः ॥ दूर्वा तु शतपर्विका । तुशब्देन तृणप्रकरणारम्भो द्योत्यते । सहस्रवीर्या—अनन्ता । दूर्वानामानि । ʻगरिकि । अथ सा—शतवीर्या च । श्वेतदूर्वानामनी । ʻतेल्लगरिकि ॥ गण्डाली शकुलाक्षकः । महादूर्वानामनी । ʻअथ महादूर्वा परा पुनः । गण्डाली शकुलाक्षश्च्ö इति प्रतापः । ʻतीङ्गेगरिकि ॥ १५८ ॥

(०२.०४.१५९च्द्) कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥

मूलम् - ०२.०४.१६०

(०२.०४.१६०अब्) स्याद् भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा ।

लिङ्ग-सूरी - AK.02.04.159

कुरुविन्द इति—कुरुदेशं विन्दत्याश्रयत्वेनेति कुरुविन्दः । ʻविद्लृ लाभे । मेघनामान्यस्य सन्तीति मेघनामा । मुस्यति खण्डयति पित्तादिरोगानिति मुस्ता । ʻमुस खण्डने । मुस्तकं च । मुस्तानामानि । ʻनिडुपुगल तुङ्गमुस्तलपेल्ल्ü ॥ भद्रश्चासौ मुस्तश्च भद्रमुस्तकः । अतिसारादिरोगहरत्वगुणैर्द्रातीति गुन्द्रा । ʻद्रा कुत्सायां गतü । ʻभद्रमुस्तल्ü ॥ चूडां लातीति चूडाला । ʻला दाने । चक्राकारं लात्यादत्त इति चक्रला । उच्चटति रोगानिति उच्चटा । ʻचट भेदने । चूडानामानि । ʻवटुवमुस्तलपेल्ल्ü ॥ १५९ ॥

मल्लि-नाथः - AK.02.04.159

कुरुविन्दो—मुस्तकमस्त्रियाम् । दीर्घमुस्तानामानि । ʻनिडुपुतुङ्गमुस्तेल्ü । स्यात्—गुन्द्रा । भद्रमुस्तानामनी । ʻभद्रमुस्तल्ü । चूडाला—उच्चटा । वृत्तमुस्तानामानि । ʻवट्लुवमुस्तल्ü । आम्लपत्रतृणविशेषनामानीति टीकासर्वस्वे (पृ। २०३, श्लो। १६०) ॥ १५९ ॥

[[०२.३१५]]

(०२.०४.१६०च्द्) वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः ॥ १६० ॥

मूलम् - ०२.०४.१६१

(०२.०४.१६१अब्) शतपर्वा यवफलो वेणुमस्करतेजनाः ।

लिङ्ग-सूरी - AK.02.04.160

वंश इति—वन्यते सेव्यत इति वंशः । ʻवन पण सम्भक्तü । त्वचि सारो दार्ढ्यमस्येति त्वक्सारः । त्वचिसारश्च । मिथः सङ्घट्टनादि कर्म इयर्तीति कर्मारः । ʻऋ गतü । तृणानां मध्ये मुख्यत्वात् तृणध्वजः । शतमनेकानि पर्वाण्यस्येति शतपर्वा । यवफलाभफलत्वाद् यवफलः । वयन्त्यनेन कटादिकमिति वेणुः । ʻवेञ् तन्तुसन्ताने । मङ्कते नौकादिरनेनेति मस्करः । ʻमकि मण्डने । मा क्रियते प्रतिषिध्यतेऽनेनेति वा । तेजयत्यग्निमिति तेजनः । ʻतिज निशाने । वेणुनामानि । ʻवेदुरुपेल्ल्ü ॥ १६० ॥

मल्लि-नाथः - AK.02.04.160

वंशे—तेजनाः । शेषे—ʻमृत्युपुष्पं च यः खेलḵ । वंशनामानि । ʻवेदुर्ü ॥ शेषे—भल्लुङ्गः ʻगट्टुवेदुर्ü । कृष्णसारकः । ʻनल्लनिवेदुर्ü ॥ १६० ॥

[[०२.३१६]]

(०२.०४.१६१च्द्) वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥ १६१ ॥

मूलम् - ०२.०४.१६२

(०२.०४.१६२अब्) ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः ।
(०२.०४.१६२च्द्) नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम् ॥ १६२ ॥
(०२.०४.१६३अब्) इक्षुगन्धा पोटगला पुम्भूमनि तु बल्वजाः ।

लिङ्ग-सूरी - AK.02.04.161-62

वेणव इति—ये वेणवोऽनिलोद्धता वायुना ताडिताः स्वनन्ति ते कीचका इत्युच्यन्ते । की चेति कायन्ति शब्दायन्त इति कीचकाः । ʻकै शब्दे । ʻबोङ्गुवेदुल्लपेर्ü ॥ ग्रन्थ्यते सन्धिरूपेण बध्यत इति ग्रन्थिः । ʻग्रथि कौटिल्ये ʻग्रन्थ सन्दर्भे इति वा धातुः । पर्वति स्थूलो भवतीति पर्व । ʻपर्व पूरणे । पिपर्तीति परुः । ʻपॄ पालऩपूरणयोḵ । सान्तोऽयं नपुंसकलिङ्गः । पर्वनामानि । ʻवेदुरु गणुपुलपेल्ल्ü ॥ गूयत इति गुन्द्रः । ʻगूञ् शब्दे । इन्द्र इति पाठे इन्दतीन्द्रः । ʻइदि परमैश्वर्ये । तेजयति पित्तादिरोगान् तनूकरोतीति तेजनकः । ʻतिज निशातने । शृणाति रोगं शरः । ʻशॄ हिंसायाम् । शरनामानि । ʻकाकिवेदुरुपेल्ल्ü ॥ वायुवशात् नलति चलतीति नडः । ʻनल गतü । सुषिरत्वात् ध्मायते पूर्यत इति धमनः । ʻध्मा खब्दाग्निसंयोगयोḵ । पुटति गलति चेति पोटगलः । ʻप्टसंश्लेषणे । नडनामानि । ʻकिक्कसकसवुपेल्ल्ü ॥ काशत इति काशम् । ʻकाशृ दीप्तü । इक्षोरिव गन्धोऽस्या इति इक्षुगन्धा । गले मूलस्थाने पुटतीति पोटगला । ʻपुट संश्लेषणे । काशनामानि । ʻरेल्लुकसवुपेल्ल्ü ॥ बल्वाख्ये विशेषस्थाने जायन्त इति बल्वजाः । ʻजनी प्रादुर्भावे । अयं शब्दः पुंसि भूम्न्येव वर्तते । ʻमोदयवुकसवुपेल्ल्ü ॥ १६१-२ ॥

मल्लि-नाथः - AK.02.04.161-62

वेणवः—अनिलोद्धताः । ये वंशा अनिलोद्धताः सन्तः स्वनन्ति ते वेणवः कीचकाश्च स्युः । ʻबोङ्गुवेदुल्ल्ü । अनुक्तम्—ʻविषमो निःस्तुषौ रेणü । ʻवोलुलेनि वेदुर्ü ॥ ग्रन्थिः—पर्वपरुषी । सान्तद्विवचनम् । द्वे नपुंसके । ग्रन्थिनामानि । ʻकणुप्ü ॥ गुन्द्रः—शरः । शेषे—ʻशरनामा भद्रमुञ्जो मुञ्जेक्ष्वतिखराः समाḵ । वंशकारतृणविशेषस्य नामानि । ʻकारिवेदुरुन्नु काकिचरुकुन्नु कनुमुन्न्ü । अनुक्तम्—ʻलतावंशश्च वेत्रश्च भूधरश्च समार्थकाḵ । ʻपेम्ü । नडस्तु—पोटगलः । शेषे—ʻरन्ध्री च नर्तकः । विभीषणः शून्यमध्यो नलḵ । अन्तः सरन्ध्रस्य तृणविशेषस्य नामानि । ʻकिक्किस्ö । अथो काशं—पोटगलः । अपचयविवक्षायां स्त्रीलिङ्गो भवति काशीति । ʻइक्षुगन्धा तु काण्डेक्षुकाशयोḵ इति यादववचनात् । ʻदर्भेऽश्ववालः काशिर्ना काशोऽस्त्री स्त्रीक्षुगन्धिक्ȫ इति वैजयन्तीवचनाच्च (पृ। ६३, श्लो। २२७) स्त्रीलिङ्गत्वमिक्षुगन्धाशब्दस्य । अश्ववालदर्भनामानि । ʻरेल्ल्ü ॥ पुम्भूमनि—बल्बजाः । पुंलिङ्गो बहुवचनश्चायं शब्दः । ʻएकश्च बल्बजो बन्धनेऽसमर्थḵ इत्यर्थवत्सूत्रे (१। २। ४५) महाभाष्यप्रयोगदर्शनादेकवचनान्तत्वमपि । मुञ्जकल्पस्य तृणविशेषस्य नाम । ʻमोदयम्ü । केचिल्लिङ्गवचनद्योतनार्थस्तुशब्द इति काशादिबल्बजान्तान् पर्यायानेवाहुः ॥ १६१-२ ॥

[[०२.३१७]]

(०२.०४.१६३च्द्) रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः ॥ १६३ ॥

मूलम् - ०२.०४.१६४

(०२.०४.१६४अब्) स्याद्वीरणं वीरतरं मूलेस्योशीरमस्त्रियाम् ।
(०२.०४.१६४च्द्) अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥
(०२.०४.१६५अब्) लामज्जकं लघुलयमवदाहेष्टकापथे ।

लिङ्ग-सूरी - AK.02.04.163-64

रसाल इति—रस्यत इति रसालः । ʻरस आस्वादने । रसेनालत इति वा । ʻअल भूषणादü । इष्यते सर्वैरिति इक्षुः । ʻइषु इच्छायाम् । रसालनामनी । ʻचेरुकुपेल्ल्ü ॥ तद्भेदानाह । पुण्ड्राख्यदेशे भवः पुण्ड्रः । काम्यत इति कान्तारकः । ʻकमु कान्तü । पुण्ड्रनामनी । ʻबङ्गालपुचेरुक्ü ॥ पूर्वः श्वेतरसालः, इतरमान्ध्राः बङ्गालमिति वदन्ति । इत्यादयः सन्ति ॥ वीरयति विक्रमति तीक्ष्णत्वेनेति वीरणम् । वीरतरं च । ʻवीर विक्रान्तü । वीरणनामनी । ʻअवुरुकसवुपेल्ल्ü ॥ उश्यते काम्यते उशीरम् । ʻवश कान्तü । न विद्यते भयमनेनेत्यभयम् । नलत्यर्दयतीति नलं पित्तादिकम् । तद् द्यतीति नलदम् । ʻदो अवखण्डने । ʻनल गन्धने । सेव्यते पित्तादिशमनार्थमिति सेव्यम् । ʻषेवृ सेवायाम् । मृणति हिनस्तीति मृणालं हिंस्रं, तन्न भवतीति अमृणालम् । ʻमृण हिंसायाम् । जले आशेत इति जलाशयम् । ʻशीङ् स्वप्ने । रक्तदोषं लाति नाशयतीति ला । ला मज्जासारोऽस्यास्तीति लामज्जकम् । इक्षुरसवदगुरुत्वात् लघु । जठराग्नौ लीयतेऽनेनेति लयम् । ʻलीङ् श्लेषणे । अवलीयते दाहोऽनेनेत्यवदाहम् । पथि इष्टकमबाधकस्थानमस्येतीष्टकापथम् । वारणमूलनामानि । ʻतेल्लनिवट्टिवेर्ü ॥ १६३-४ ॥

मल्लि-नाथः - AK.02.04.163-64

रसाल इक्षुः । शेषे—

ʻपिप्पलरसो मधुदृणस्तथा ।

खड्गपत्रं कर्कटकः कान्तारो वेणुनिःसृतिः ।

मृत्युप्रसूनः ॥

इक्षुनामानि । ʻचेरुक्ü ॥ तद्भेदा—कान्तारकादयः । आदिपदाच्छतपर्ववङ्गालनेपालादयो गृह्यन्ते । ʻचेरुकु भेदाल्ü । अनुक्तम्—ʻअनिक्षुस्त्विक्षुनासिक्ȫ । ʻनल्लजेरुक्ü ॥ स्यात्—वीरतृणम् । यन्मूलमुशीरं तत्तृणस्य नामनी । ʻअवुर्ü ॥ मूलो—अमृणालम् । वीरणमूलस्य नामानि । ʻवट्टिवेल्ल्ü । जलाशयं—इष्टकापथे । सेव्यामृणालशब्दौ लामज्जकेऽपि वर्तेते । तथा चोक्तं द्व्यर्थे—अमृणालं लामज्जकमुशीरं च । (अ। द्र। २। ७०) सेव्यं लामज्जकमुशीरं च । (अ। द्र। २। २१) अत एव उशीरलामज्जकयोर्भेदः ।

ʻलामज्जकं सुनालं स्यादमृणालं लयं लघु ।

इष्टकापथकं शीघ्रं दीर्घमूलं जलाशयम् ॥

इति वैद्यके (ध। नि। ३। ८६) दर्शनात् लघु लयमितिसञ्ज्ञाद्वयमेतत् ।

ʻलामज्जकं हितं तिक्तं रक्तपित्तविषार्तिनुत् ।

उशीरं शीतलं तिक्तं दारक्लमहरं च तत् ॥

इति वैद्यके च भेदो विवक्षितः । जलस्थवीरणमूलनामानि । ʻनीटवट्टिवेल्ल्ü केचिदभेदविवक्षयोशीरादीष्टपथान्तानां पर्यायत्वमाहुः ॥ १६३-४ ॥

[[०२.३१८]]

(०२.०४.१६५च्द्) नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ॥

मूलम् - ०२.०४.१६६

(०२.०४.१६६अब्) अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् ।
(०२.०४.१६६च्द्) पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् ॥ १६६ ॥

लिङ्ग-सूरी - AK.02.04.165-66

नडादय इति—नडकाशादयः गर्मुच्छ्यावकप्रमुखाश्च तृणं तृणभेदा इत्युच्यन्ते । गीर्यतेऽस्य धान्यं मनुष्यैरिति गर्मुत् । ʻगॄ निगरणे श्यामवर्णमकति प्राप्नोतीति श्यामाकः । ʻअक अग कुटिलायां गतü । एते प्रत्येकं तृणविशेषाः ॥ तृण्यतेऽद्यते पशुभिरिति तृणम् । ʻतृणु अदने । कौ भूमौ शेते कुशम् । ʻशीङ् स्वप्ने । विप्रपाणिषु कुथ्यत इति कुथः । ʻकुथ श्लेषणे । दृणाति करादिकमिति दर्भः । ʻदॄ विदारणे । पुनातीति पवित्रम् । ʻपूञ् पवने । दर्भनामानि । ʻदर्भपेल्ल्ü ॥ कुत्सितं तृणं कत्तृणम् । पुरे भवं पौरम् । शोभनो गन्धः प्रयोजनमस्येति सौगन्धिकम् । ध्यायते पशुभिरप्रियत्वादिति ध्यामम् । ʻध्यै चिन्तायाम् । देवेन कालेन जक्ष्यत इति देवजग्धकम् । ʻजक्ष भक्षहसनयोḵ । यत्र तत्र वा रोहतीति रौहिषम् । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । सौगन्धिकनामानि । ʻकामञ्चिपूरिपेल्ल्ü ॥ १६५-६ ॥

मल्लि-नाथः - AK.02.04.165-66

नडादयः—प्रमुखा अपि । पूर्वोक्ता नडकाशाद्यास्तृणजातयस्तृणशब्देनोच्यन्ते । तथा गर्मुत् श्यामाकादयोऽपि । गर्मुत्—ʻगण्टे । श्यामाकः—ʻचाम्ö । ʻश्यामाको नीलपुष्पः स्यात् इति वैजयन्ती (पृ। १२७, श्लो। ५८) । अस्त्री—कुथः । विप्रपाणिषु कुथ्यत इति । ʻकुथ संश्लेषणे । दर्भः पवित्रम् । शेषे—

ʻबहिरद्वयोः ।

ऋषिशस्त्रो दीर्घमूलः पीनाहो यज्ञजागरः ।

क्षुरवप्रो मुनिर्वीरा सूचिः ॥

कुशनामानि । ʻकुशदर्भ्ö । ʻलताकुशे तु शारिः स्त्री मुञ्जः स्याद् ब्रह्ममेखलḵ ॥ अथ कत्तृणं—रौहिषम् । सुगन्धितेजनतृणनामानि । ʻकामञ्चि । ʻरामकर्पूरम्ü ॥ १६५-६ ॥

[[०२.३१९]]

मूलम् - ०२.०४.१६७

(०२.०४.१६७अब्) छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे ।
(०२.०४.१६७च्द्) शष्पं बालतृणं घासो यवसं तृणमर्जनम् ॥ १६७ ॥

लिङ्ग-सूरी - AK.02.04.167

छत्रेति—छत्राकारत्वात् छत्रा । अत एव छत्रमतिक्रान्तोऽतिच्छत्रः । छत्रातिच्छत्र इत्येकं वा नाम । नैष्ठुर्यात् पालं पालकं रक्षकं हन्तीति पालघ्नः । ʻहन हिंसागत्योḵ । छत्रानामानि । ʻछत्राकारमैनतृणमुपेल्ल्ü ॥ मालारूपाणि तृणान्यस्येति मालातृणकम् । भूरित्यव्ययम् । तस्यां तृण भूस्तृणम् । मालातृणकनामनी । ʻचिप्पकसवुपेल्ल्ü ॥ शस्यते पशुभिर्भक्षणेनेति शष्पम् । ʻशसु हिंसायाम् । ʻशंसु स्तुतü वा धातुः । बालं च तत् तृणं च बालतृणम् । शष्पनामनी । ʻतेन्तकसवुपेल्ल्ü ॥ घस्यते पशुभिरिति घासः । ʻघस्लृ अदने । यूयते मिश्रीक्रियते लावकैर्बन्धनकाल इति यवसम् । ʻयु मिश्रणे । घासनामनी । ʻवेन्तपूरि ॥ तृण्यते पशुभिरिति तृणम् । ʻतृणु अदने । पशुग्रासार्थमर्जतेऽर्जनम् । ʻअर्ज अर्जने । अर्जुनमिति वा पाठः । तृणनामनी । ʻसामान्यमुगा कसवुपेल्ल्ü ॥ १६७ ॥

मल्लि-नाथः - AK.02.04.167

छत्रा—पालघ्नौ । छत्रेति भिन्नं पदं, स्त्रीलिङ्गं च । अतिच्छत्रपालघ्नौ पुंलिङ्गेऽपि । तथा च रुद्रः—

ʻआतपत्रं मतं छत्रं छत्रा मधुरिका मता ।

अतिच्छत्रोऽपि छत्रः स्याच्छत्रा धान्याकमुच्यते ॥

इति । छत्रातिच्छत्र इत्येकपदमिति केचित् । छत्रा द्रोणिका अतिच्छत्रपालघ्नौ देवद्रोणिकेति केचित् । ʻऋषणी द्रोणिका छत्रा चक्षुष्या द्रोणपुष्पिक्ȫ इति वैजयन्ती (पृ। ५५, श्लो। १२४) । देवद्रोणीति गोपालः । छत्राकारस्य तृणविशेषस्य नामानि । ʻगुड्ढिकामञ्चि । मालातृणकभूस्तृणे । सकाररहितं भूतृणमिति केचित् । यस्य ग्रन्थिस्थानेषु परिमण्डलावयवा भवन्ति स भूतृणाख्यः शाकविशेषः । ʻतथा च भूस्तृणशिग्रुसर्षप— इत्यादि शाकप्रकरणे विष्णुवचनं (विष्णुस्मृतिः ७९। १७) स्मृतिचन्द्रिकाकारः पपाठ । भूतृणनामनी । ʻतुम्मिकूर्ö । वैद्यके तु—(ध। नि। ८। ४२) ।

ʻभूस्तृणं रोहिणं भूतिर्भूम्यूतिश्च कुटुम्बकः ।

मालातृणं च पालघ्नः छत्रातिच्छत्रकस्तथा ॥

इति छत्रादिभूस्तृणान्तानां पर्यायत्वमाह । ʻचिप्पकसव्ü । शष्पं बालतृणम् । अमरमालायां पुंस्यप्युक्तम् । नवतृणनामनी । ʻवेन्तकसव्ü । नीलदूर्वानामापि । ʻनीलदूर्वा भवेच्छष्पं शाद्वलं हरिता तथ्ȫ इति माधवः । घासो—अर्जुनम् । तृणसामान्यनामानि । ʻकसव्ü । घासादिद्वयं पशुभक्ष्ये, तृणादिद्वयं तृणसामान्य इति वदन्ति । अन्ये शष्पादिचतुष्टयं बालतृणे, तृणादिद्वयं तृणमात्र इति वदन्ति ॥ १६७ ॥

[[०२.३२१]]

मूलम् - ०२.०४.१६८

(०२.०४.१६८अब्) तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः ।
(०२.०४.१६८च्द्) तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली ॥ १६८ ॥

लिङ्ग-सूरी - AK.02.04.168

तृणनामिति—तृणानां समूहः तृण्या । ʻगड्डिकुप्प्ö ॥ नडतृणानां समूहो नड्या । ʻकिक्कसवुकसवुकुप्प्ö ॥ तृणानां राजा मुख्यः तृणराजः । तृणराजः इत्याह्वयो यस्येति तृणराजाह्वयः । तलति प्रतिष्ठते दृढमूलत्वात् तालः । ʻतल प्रतिष्ठायाम् । तालनामनी । ʻताटिचेट्टुपेल्ल्ü ॥ नाल्या कमुदकमीरयतीति नालिकेरः । ʻईर क्षेपे । नालीकानि नालयुक्तानि फलादीनीरयति वर्धयतीति वा । लाङ्गलवत् कुञ्चिताग्रावयवत्वात् लाङ्गली । नालीकेरनामनी । ʻनारिकेलवृक्षमु (टेङ्कायचेट्टु) ॥ १६८ ॥

मल्लि-नाथः - AK.02.04.168

तृणानां—तृण्या । तृणसमूहनाम । ʻगड्डिमोपु । अदे कुप्पैतेनुवरड्ढम्ü । ʻवरण्डस्तृणसञ्चयḵ इति वैजयन्ती (पृ। १२८, श्लो। ६५) । ʻपूलम्ü । ʻपूलोऽस्त्री तृणपञ्चिक्ȫ इति वैजयन्ती (पृ। १२८, श्लो। ६४) । नड्या—नडसंहतिः । नडसमूहनाम । ʻकिक्किसवामि । शेषे—ʻपुञ्जिलस्तु तृणस्तम्बे । तृणगुल्मनाम । ʻगड्ढिदुब्ब्ü । ʻइषीकात्र सकण्टके । कण्टकसहिततृणस्तम्बनाम । ʻमुंल्लदुब्ब्ü । ʻमुञ्जस्तु यज्ञियो मेध्यो मृदुत्वग्ब्रह्ममेखलḵ । मुञ्जदर्भनामानि । ʻउल्लूनस्तूलपो दर्भ ऊर्ध्वमूलः खरच्छदḵ । उलपदर्भनामानि ॥ तृणराजाह्वयस्तालः । शेषे—

ʻदीर्घस्कन्धो द्रुमेश्वरः ।

फलेरुहो महापत्रस्तलो भूमिपिशाचकः ॥

कालो दीर्घतरुर्लेख्यपत्रकश्च दुरारुहः ।

ध्वजद्रुमो द्रुमश्रेष्ठः ॥

तालनामानि । ʻताडि । नारिकेलः—लाङ्गली । शेषे—

ʻनारिकेलो रसफलः सुतुङ्गः कूर्चकेसरः ।

लालावृक्षो दृढफलो दाक्षिणात्यः सुपत्रकः ।

तृणराजो महाप्रांशुर्दृढमूलो महाफलः ।

जीवनध्रुवको रोही दीर्घदण्डः सुनीरकः ।

घटोदकः स्कन्धफलो बली चापि सुराफलः ॥

नारिकेरनामानि । ʻनारिकेरम्ü ।

ʻनारिकेरे तु लाङ्गली ।

दाक्षिणात्यो नीरफलः सुतुङ्गः कूर्चकेसरः ।

सुराफलो नली च्ö ।

इति वैजयन्ती (पृ। ६३, श्लो। २२०-१) शेषे—ʻह्रस्वे त्वखण्डुकḵ । ʻचेन्नङ्गि । ʻरक्तेऽग्निकः स्वर्णḵ । ʻयेर्रनिकायलनारिकडम्ü । ʻअस्य पट्टके परिक्रोण्ȫ । ʻनारिकडपु दोत्ति । ʻफलं त्वस्य चोचं च घटसञ्ज्ञकम् । ʻनारिकडपुकाय्ö ॥ १६८ ॥

[[०२.३२२]]

मूलम् - ०२.०४.१६९

(०२.०४.१६९अब्) घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु ।
(०२.०४.१६९च्द्) फलमुद्वेगमेते च हिन्तालसहितास्त्रयः ॥ १६९ ॥
खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः ।

इति वनौषधिवर्गः

लिङ्ग-सूरी - AK.02.04.169

घोण्टेति—घुणन्ति भ्रमन्त्यनया जना इति घोण्टा । ʻगुण भ्रमणे । पुनाति मुखं फलेनेति पूगः । ʻपूञ् पवने । क्रामन्त्यस्मिन् फलार्थिन इति क्रमुकः । ʻक्रमु पादविक्षेपे । गुवति मलं निःसारयत्यनेनेति गुवाकः । ʻगु पुरीषोत्सर्गे । खानीन्द्रियाणि पृणोतीति खपुरः । ʻपृ प्रीतü । ʻपोङ्कचेट्ट्ü ॥ उद्गतो वेगोऽस्येति उद्वेगम् । उद्विजन्तेऽस्माद् दुर्बला इति वा उद्वेगम् । ʻओविजी भयचलनयोḵ । ʻपोङ्कपण्ड्ü ॥ हिनोति वर्धते तलति प्रतिष्ठत इति हिन्तालः । ʻहि गतौ वृद्धौ च्ö । ʻहितालम्ü ॥ हिन्तालसहिताः प्रागुक्तास्तृणराजा नालीकेरक्रमुकाख्यास्त्रयो वृक्षाः तृणद्रुमा इत्युच्यन्ते । खर्जति रक्तपित्तमिति खर्जूरः । ʻखर्ज व्यथने । ʻखर्जूरमुपेर्ü ॥ कित्यते ज्ञायते गन्धेनेति केतकी । ʻकित ज्ञाने । ʻमोगलिचेट्टुपेर्ü ॥ तलति प्रतिष्ठते ताली । ʻतल प्रतिष्ठायाम् । ʻश्रीतालमुपेर्ü ॥ खर्जति रोगं खर्जूरी । ʻखर्ज व्यथने । ʻचिट्टीन्दुपेर्ü ॥ एते चत्वारो वृक्षा अपि तृणद्रुमा इत्युच्यन्ते ॥ १६९ ॥

इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ वनौषधिवर्गः

मल्लि-नाथः - AK.02.04.169

घोण्टा—गुवाकः । गूवाक इति वा । ʻगुवाकोऽपि च गूवाकḵ इत्युभयत्र तारपालः । खपुरः । शेषे—आसवः क्रूरः कषायस्त्रिवाटी रागवान् वीटिका । क्रमुकनामानि । ʻपोङ्कमान्ü ॥ अस्य—अस्त्री स्यात् । शेपे—स्रंसिपर्कटम् । पूगादिशब्दाः नपुंसकलिङ्गाः सन्तः फलवाचकाः । घोण्टाशब्दः स्त्रीलिङ्गः सन्नेव फलवाचकः । तथा च प्रतापः—

ʻअस्य तु ।

फलं पूगफलस्रंसि गुडा घोण्टा फलं भवेत् ॥

उद्वेगश्चिक्कणश्चिक्का चिक्कणं च प्रकीर्तितम् ।

तथा गोपफलं चेति ॥

क्रमुकफलनामानि । ʻपोङ्कल्ü । अत्र तु—ʻपक्के पोढम् । ʻपण्डुपोङ्क्ö । ʻखरं शुष्के । ʻयेण्डुपोङ्क्ö । ʻमसृणे चिक्कचिक्कणे । ʻचिकिनीचक्क्ö । ʻदीर्घवृन्ते रामपूगḵ । ʻतोडिमेनिडुवैनपोङ्क्ö । ʻलतापूगे तु योजनḵ । ʻसूदिगोण्टि । ʻभूपूगे लघुकḵ । ʻतोण्टपोङ्क्ö । ʻक्षुद्रफले बोदाबकापि च्ö । ʻसन्नपुपोङ्क्ö । ʻगौलेयकः शैलजातपूगḵ । ʻकारुपोङ्क्ö । ʻपूगस्य पटकी खपुरḵ । ʻपोङ्कजबर्ö । ʻपुष्पपट्टे तु कुहली घटिकेति च्ö । ʻपोङ्कपोत्ति । तालागमाद्या एते च ॥ हिन्तालः—तृणद्रुमाः । एते प्रागुक्तास्त्रयस्तालागमाद्यास्तालनारिकेलपूगा हिन्तालसहिताः खर्जूरादयश्चत्वारः शब्दास्तृणद्रुमा इत्युच्यन्ते । ʻयेनिमिदिन्नि तृणद्रुममुल्ü । शेषे—ʻहिन्तालस्तृणराजश्च लताङ्कुरक इत्यपि । हिन्तालनामानि । ʻगिरुकताडि । ʻमहारसो मधुक्षीरः परूषः पाण्डुरेव च । खर्जूरḵ । खर्जूरनामानि ʻखजूरम्ü । ʻपेरीन्दुन्न्ü ।

ʻपत्रलायां तु फलपाकान्तिकेत्यपि ।

ताली दृढफला नाली श्रीताली च वराङ्गना ॥

श्रीतालीनामानि । ʻश्रीताडि ।

ʻहलीमे केतकी न क्ली दीनो व्यञ्जनजम्बुलौ ।

स्त्रीभूषणो रजःपुष्पो गुप्तरागो बलीनकः ॥

इति वैजयन्ती (पृ। ६३, श्लो। १२३) । केतकीनामानि । ʻमोगलि । ʻसा पीता मदनद्रोणी सुगन्धिः कनकच्छद्ȫ । ʻगेदङ्गि । ʻपरूषी चापि खर्जूरी निस्त्वचा दृढकण्टक्ȫ । खर्जूरीनामानि । ʻचिट्टीन्द्ü ॥ १६९ ॥

इति वनौषधिवर्गः

[[०२.३२४]]