०३ शैलवर्गः

मूलम् - ०२.०३.००१

(०२.०३.००१अब्) महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः ।
(०२.०३.००१च्द्) अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥

लिङ्ग-सूरी - AK.02.03.001

महीध्र इति—महीं धारयतीति महीध्रः । ʻधृञ् धारणे । शिखराण्यस्य सन्तीति शिखरी । क्ष्मां बिभर्तीति क्ष्माभृत् । ʻडुभृञ् भरणपोषणयोः’ । हर्तुमशक्यः अहार्यः । ʻहृञ् हरणे । धरति भुवमिति धरः । ʻधृञ् धारणे । पर्वाणि सङ्घयोऽस्य सन्तीति पर्वतः । नराणामुपजीवनीयत्वाद् अद्यत इत्यद्रिः । ʻअद भक्षणे । गां भुवं त्रायत इति गोत्रः । ʻत्रैङ् पालने । कालेन गीर्यत इति गिरिः । ʻगॄ निगरणे । ग्रस्यते कालेनेति ग्रावा । ʻग्रसु अदने । न चलतीत्यचलः । ʻचल कम्पने । शिला अत्र सन्तीति शैलः । शिलानामुच्चयो राशिः शिलोच्चयः । पर्वतनामानि ॥ १ ॥

मल्लि-नाथः - AK.02.03.001

महीध्रे—शिलोच्चयाः । पर्वतनामानि । ʻकुत्कीलो भूधरः कुण्डः कुण्डिरः सानुमानपि । एतानि पञ्च च ॥ १ ॥

(०२.०३.००२अब्) लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत् समौ ।
अक्।०२.०३.००२च्द् अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ॥ २ ॥
<AK.02.03.002

lokāloka iti—ekasmin bhāge lokyate, ekasmin bhāge na lokyata iti lokālokaḥ . ʻlokṛ darśane . cakrākāreṇa valate saṃvṛṇotīti cakravālaḥ . ʻvala saṃvaraṇe . bhuvamāveṣṭya sthitasya girernāmanī .. trayaḥ kūṭāḥ śikharāṇyasyeti trikūṭaḥ . ata eva trikakut . trikūṭaparvatanāmanī .. sūryādirasyate atretyastaḥ . ʻasu kṣepaṇe . astamanupalabdhiṃ grahanakṣatrāṇāṃ karotīti vā . caramaḥ paścimaḥ sa cāsau kṣmābhṛcca caramakṣmābhṛt . caramagirināmanī .. sūryādayo’tra udayanta ityudayaḥ . ʻaya paya gataौ’ . pūrvaścāsau parvataśca pūrvaparvataḥ . udayagirināmanī .. 2 ..

मल्लि-नाथः - AK.02.03.002

लोकालोकश्चक्रवालः । लोकालोकपर्वतनाम ॥ त्रिकूटः—समौ । त्रिकूटपर्वतनामनी ॥ अस्तः—क्ष्माभृत् । अस्तपर्वतनाम । उदयः—पर्वतः । पूर्वपर्वतनाम । अनुक्तम्—ʻमलयश्चन्दनाद्रिः स्यात् । मलयपर्वतनाम ॥ ʻमन्थशैलस्तु मन्दरः’ । मन्दरगिरिनाम । अस्तपर्वतमेव मन्दरपर्वत इति कतिचित् कथयन्ति । ʻमन्दरोऽपरशैलोऽस्तः’ इति धनपालनिघण्टुः ॥ २ ॥

[[०२.२१०]]

मूलम् - ०२.०३.००३

अक्।०२.०३.००३अब् हिमवान् निषधो विन्ध्यो माल्यवान् पारियात्रकः ।
अक्।०२.०३.००३च्द् गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥

लिङ्ग-सूरी - AK.02.03.003

हिमवानिति—हिममस्यास्तीति हिमवान् । निषीदन्ति सुरा अत्रेति निषधः । ʻषद्लृ विशरणगत्यवसादनेषु’ । अगस्त्येन विद्धत्वाद् विन्ध्यः । ʻव्यध ताडने । सूर्यपथं विध्यतीति वा । स एव धातुः । माल्याकारतास्यास्तीति मास्यवान् । परितो यात्रा गमनमस्यास्तीति पारियात्रकः । गन्धेन मादयतीति गन्धमादनः । ʻमदी हर्षग्लपनयोः’ । अस्त्रियाम् । हेममयाः कूटा अस्य हेमकूटः । अन्ये च हेमकूटादयो गिरयः सन्ति । एतेषामुक्तान्येव नामानि प्रशस्तानि ॥ ३ ॥

मल्लि-नाथः - AK.02.03.003

हिमवान्—गन्धमादनम् । ʻअस्त्री कुलाचले ना तु मत्तेभे गन्धमादनम् इति भागुरिमतान्नपुंसकम् । अन्ये च—नगाः । हिमवदादयः पृथक् पर्वताः ॥ ३ ॥

[[०२.२११]]

मूलम् - ०२.०३.००४

अक्।०२.०३.००४अब् पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् ।
अक्।०२.०३.००४च्द् कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्तु तटो भृगुः ॥ ४ ॥

लिङ्ग-सूरी - AK.02.03.004

पाषाणेति—वस्तूनि पिनष्टि चूर्णयतीति पाषाणः । ʻपिप्लृ सञ्चूर्णने । प्रस्तृणाति आच्छादयति भुवमिति प्रस्तरः । ʻस्तृञ् आच्छादने । आतपादिभिस्तप्तः सन् जलं गिरतीति ग्रावा । नान्तः । ʻगॄ निगरणे । उपलाति भिनत्ति वस्तूनीति उपलः । ʻला आदाने । अश्नुते व्याप्नोति भुवमित्यश्मा । ʻअशू व्याप्तौ’ । वस्त्रादिकमश्रातीति वा । ʻअश भोजने । शिनोति तनूकरोत्यायुधमिति शिला । ʻशिञ् निशातने । द्रून् वृक्षान् सादयतीति नाशयतीति दृपत् ।ʻपद्लृ विशरणगत्यवसादनेपु’ । दृणातीति वा । ʻदृ विदारणे । शिलादृपदौ स्त्रियौ । पाषाणनामानि ॥ कूट्यते दह्यते रविणेति कूटः । ʻकूट दाहे । अयमस्त्री । शिखा अग्रशिलात्रास्तीति शिखरम् । शृङ्गवदौन्नत्यगुणयोगात् शृङ्गम् । शृणातीति वा । ʻशॄ हिंसायाम् । शिखरनामानि ॥ अस्मात् प्रपततीति प्रपातः । ʻपत्लृ गतौ’ । तटत्युच्छ्रायं प्राप्नोतीति तटः । ʻतट उच्छ्राये । भृज्ज्यते सूर्याग्नितेजसा पच्यत इति भृगुः । ʻभ्रस्ज पाके । शिखरादधस्तटनामानि ॥ प्रपातस्त्वतटो भृगुरिति पाठे अतटः प्रपातः सङ्कटदेशो भृगुरित्युच्यते ॥ ४ ॥

मल्लि-नाथः - AK.02.03.004

पाषाण—दृषत् । ʻकषायः कूष्माण्डो महिषवृषभव्योपदृपदः’ इत्यूष्मभेदपाठान्मूर्धन्यः । ʻशरच्छरद्दृशशत्त्रिंशश्चत्वारिंशश्च विंशतिः’ इत्यरुणदत्तलिङ्गानुशासनपाठात् तालव्यमध्य । तदा च दृशद् दृषदित्युभयथापि पाठः साधुः । शिलानामानि ॥ कूटोऽस्त्री—शृङ्गम् । गिरिशिखरनामानि ॥ प्रपातस्तु—भृगुः । सञ्चारानर्हशिखराधस्तलनामानि । भाषया ʻचरि ॥ ४ ॥

[[०२.२१२]]

मूलम् - ०२.०३.००५

अक्।०२.०३.००५अब् कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् ।
अक्।०२.०३.००५च्द् उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः ॥ ५ ॥

लिङ्ग-सूरी - AK.02.03.005

कटक इति—कटत्याकाशमावृणोतीति कटकः । ʻकटे वर्षावरणयोः’ । पर्वतस्य नितम्बप्रायत्वात् नितम्बः । अद्रिनितम्बनाम ॥ स्नौति जलमिति स्नुः । ʻष्णु प्रस्रवणे । प्रतिष्ठन्तेऽस्मिन् समभूभागत्वात् प्रस्थः । ʻष्ठा गतिनिवृत्तौ’ । सनोति सुखं ददाति उपवेशन इति सानुः । अस्त्रियाम् । ʻषणु दाने । फलकाकारावस्थितमहाशिलानामानि ॥ उनत्ति जलसम्पर्केणेत्युत्सः । ʻउन्दी क्लेदने । आपः प्रस्रवन्त्यस्मात् शिलासन्ध्यादाविति प्रस्रवणम् । ʻस्रु गतौ’ । पर्वतान्ताद् बहिर्निर्गताल्पस्यन्दितनरनामनी ॥ वारिणः प्रवाहः वारिप्रवाहः । निर्झीर्यते कालेन स्वल्पो भवतीति निर्झरः । झरश्च । ʻझॄष् वयोहानौ’ । प्रवाहवत्प्रस्रवणनामानि ॥ ५ ॥

मल्लि-नाथः - AK.02.03.005

कटको—अद्रेः । अद्रिनितम्बप्रदेशनाम । स्नुः—अस्त्रियाम् । स्नुर्वप्रः सानुरस्त्रियाम् इति पाठान्तरम् । तदधोगतविशालफलकशिलानामानि ।

ʻआमेखलं सञ्चरतां घनानां छायामधःसानुगतां निषेव्य ।

उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥

इति कालिदासः (कु। सं। १। ५) । स्नुशब्दः प्रस्थवप्रशब्दसाहचर्यात् पुंलिङ्गः । वप्रशब्दः सानुशब्दसाहचर्यात् पुन्नपुंसकः । ʻस्नुः पुमानस्त्रियां वप्रः’ इति जयकोशः । उत्सः प्रस्रवणम् । प्रस्यन्दननामनी । ʻनिल्लुगारुण्ट्ö । वारिप्रवाहो—झरः । ʻझारी झरी झलश्चापि एतानि च । झरीत्युपचयविवक्षायां स्त्रीलिङ्गः । ʻझरीदत्तपरीरम्भदरीसुप्तसरीसृपम् इति । निपत्य प्रवहदुदकनामानि ॥ अनुक्तम्—ʻनदी चेद्योजनातिगा’ । योजनमतिक्रान्ता झरी नदीत्युच्यते ॥ ५ ॥

मूलम् - ०२.०३.००६

अक्।०२.०३.००६अब् दरी तु कन्दरो वा स्त्री देवखातबिले गुहा ।
अक्।०२.०३.००६च्द् गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ६ ॥
(दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः)

लिङ्ग-सूरी - AK.02.03.006

दरीति—दीर्यते दरी । ʻदॄ विदारणे । कं कुत्सितं दृणातीति कन्दरः । केन जलेन दीर्यत इति वा । भित्तिवद्भासमानपर्वतपार्श्वनामनी ॥ देवैः खन्यत इति देवखातम् । ʻखनु अवदारणे । बिल्यत इति बिलम् । ʻबिल भेदने । देवखातं च दद्बिलं च देवखातबिलम् । तस्मिन् गुहागह्वरशब्दौ वर्तेते । गूहत्यन्धकारमिति गुहा । ʻगूह संवरणे । सिंहादिभिर्गाह्यत इति गह्वरम् । ʻगाहू विलोडने । पर्वतान्तराकृत्रिमविवरनामनी ॥ गण्डा इव शैला गण्डशैलाः । गण्डाः स्थूलाः शैला वा । भूकम्पादिना गिरिच्युतस्थूलोपलनाम ॥ ६ ॥

मल्लि-नाथः - AK.02.03.006

दरी—वा स्त्री । गिरिनारट्टनामनी । भाषया ʻपर्वतमुयोक्कशिशु’ । देव—गह्वरम् । गुहानामानि ॥ षडपि पर्याया इति केचित् । ʻदरी गुहा कन्दरोऽक्ली इति वैजयन्ती (पृ। ४१, श्लो। ६) । गण्डशैलाः—गिरेः । गिरेः च्युताः पृथुलोपलाः गण्डशैलाः स्युः । अनुक्तम्—ʻदन्तास्तून्नतपाषाणाः’ । उच्चोपलनाम । भाषया ʻदक्कनिनिल्पुराल्लु’ ॥ ६ ॥

[[०२.२१३]]

मूलम् - ०२.०३.००७

अक्।०२.०३.००७अब् खनिः स्त्रियामाकरः स्यात् पादाः प्रत्यन्तपर्वताः ।
अक्।०२.०३.००७च्द् उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ॥ ७ ॥
अक्।०२.०३.००८अब् धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः ।
अक्।०२.०३.००८च्द् निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे ॥ ८ ॥
इति शैलवर्गः

लिङ्ग-सूरी - AK.02.03.007-8

खनिरिति—खन्यते रत्नादिकमत्रेति खनिः । ʻखनु अवदारणे । स्त्रियाम् ॥ आकीर्यन्ते धातवोऽत्रेत्याकरः । ʻकॄ विक्षेपे । लोहादिधातुखननस्थाननामनी ॥ पादा इव तिष्ठन्तीति पादाः । प्रत्यन्ते समीपे पर्वताः प्रत्यन्तपर्वताः । समीपस्थक्षुद्रपर्वतनामनी ॥ उप समीपे भूरुपत्यका । अद्रेरासन्नभूमिनाम ॥ अद्रेराधिभूः ऊर्ध्वभूरधित्यका । अद्रेरूर्ध्वभूनाम ॥ धत्ते मिथो व्यावर्तकं धर्ममिति धातुः । ʻडुधाञ् धारणपोषणयोः’ । मनःशिलादिनाम ॥ गिरौ भवं गैरिकम् । धातुविशेषनाम ॥

ʻसुवर्णरौप्यताम्राश्महरितालमनःशिलाः ।

गैरिकाञ्जनकांस्यादिलोहसीसाः सहिङ्गुलाः ।

गन्धकोऽभ्रकमित्याद्या धातवो गिरिसम्भवाः ॥

पक्षिणोऽत्र स्थित्वा निकूजन्तीति निकुञ्जः । कुञ्जश्च । ʻकूज अव्यक्ते शब्दे । उभौ शब्दौ वा क्लीबे । गृहवद्भासमानलतापिहितप्रदेशनामनी ॥ ७-८ ॥

इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ शैलवर्गः

मल्लि-नाथः - AK.02.03.007-8

खनिः—आकरः स्यात् । रत्नाद्युत्पत्तिस्थाननामनी । भाषया ʻगनि । खानिशब्दोऽप्यस्ति । ʻआकरश्च खनिः खानिः’ इति व्यालिः । अनुक्तम्—ʻरुमा तु लवणाकरः’ । लवणखनी रुमा स्यात् । पादाः प्रत्यन्तपर्वताः । अधःस्थितस्वल्पपर्वताः पादाः स्युः । उपत्यका—भूमिः । गिरेरासन्ना भूमिरुपत्यका स्यात् । ऊर्ध्वमधित्यका । ऊर्ध्वभूमिरधित्यका स्यात् । धातुः—अद्रेः । हरितालं मनःशिलादिशिलाविकाराः सर्वेऽपि सामान्यतो धातव एव । गैरिकं—विशेषतः । गैरिकं विशेषतो धातुरित्युच्यते । ʻगैरिकं स्वर्णरेतोऽस्थिषु विशेषतः’ इति वैजयन्ती (पृ। ४१, श्लो। ११) । निकुञ्ज—पिहितोदरे । लतादिभिः पिहितोदरस्य प्रदेशस्य नामनी । ʻपादरिऴ्ऴु’ ॥ ७-८ ॥

इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसुधीविरचितेऽमरपदपारिजाते शैलवर्गः

[[०२.२१५]]