०२ पुरवर्गः

मूलम् - ०२.०२.००१

(०२.०२.००१अब्) पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् ।
(०२.०२.००१च्द्) स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात् पुरम् ॥ १ ॥
(०२.०२.००२अब्) तच्छाखानगरं वेशो वेश्याजनसमाश्रयः ।

लिङ्ग-सूरी - AK.02.02.001

पूरिति—पूर्यते जनैरिति पूः । ʻपॄ पालनपूरणयोः’ । रेफान्तस्त्रिलिङ्गः । पुरी च । क्रीडार्थं नगाःवृक्षाः पर्वता वा सन्त्यत्रेति नगरी । पुरीनगर्यौ विकल्पेन स्त्रियौ । पत्तनसाहचर्यात् नपुंसकेऽपि । पतन्ति जना अत्रेति पत्तनम् । ʻपल्लृ गतौ’ । पट्टणमिति पाठे पटन्ति गच्छन्ति जना अत्रेति पट्टणम् । ʻपट गतौ’ । पुटमगारं भिद्यतेऽत्रेति पुटभेदनम् । ʻभिदिर् विदारणे । पुटाः घृतघटादया जनसम्मर्दादस्मिन् भिद्यन्त इति वा । तिष्ठन्त्यस्मिन्निति स्थानीयम् । अकुतोभयत्वात् स्थानाय वासाय हितम् इति वा । ʻष्ठा गतिनिवृत्तौ’ । नियतं गच्छति जनोऽत्रेति निगमः । प्रधानपुरनामानि ॥ वृक्षस्य शाखा यथा तथा प्रधाननगरस्याङ्गं शाखानगरम् । प्रधानपुरादन्यपुरनाम ॥ विशन्ति कामुका अत्रेति वेशः । ʻविश प्रवेशने । वेश्याजनस्य समाश्रयो वासस्थानम् । गणिकासमूहस्थाननाम ॥ १ ॥

मल्लि-नाथः - AK.02.02.001

पूः । रेफान्तः स्त्रीलिङ्गश्च । पूरीनगर्यौ वा । पाक्षिकस्त्रीलिङ्गौ । ʻपीठं क्रोडं तुम्बं च मन्दिरापुर्यौ’ इत्यरुणदत्तलिङ्गानुशासनात् पक्षे नपुंसकलिङ्गौ । पट्टणं—निगमः । नगरनामानि । ʻपट्टणं पुटभेदनम् । पत्तनं च्ö इति वैजयन्तीपाठात् (पृ। १५९, श्लो। ३-४) पत्तनशब्दोऽप्यस्ति । अन्यत्तु—शाखानगरम् । मूलनगरादन्यन्नगरं यत्तच्छाखानगरं स्यात् । अनुक्तम्—ʻस्कन्धावारो राजधानी दुर्गं च कटकोऽस्त्रियाम् । राज्ञां प्रधाननगरीनामानि ॥ वेशो—समाश्रयः । वेश्याजनाश्रयो वेशः स्यात् । अनुक्तम्—ʻवेण्ठा विटजनाश्रयः’ । विटजनाश्रयः वेण्ठा स्यात् ॥ १ ॥

(०२.०२.००२च्द्) आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥ २ ॥
[[०२.१९६]]

मूलम् - ०२.०२.००३

(०२.०२.००३अब्) रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम् ।
(०२.०२.००३च्द्) प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः ॥ ३ ॥

लिङ्ग-सूरी - AK.02.02.002-3

आपण इति—आ समन्तात् पणन्ते व्यवहरन्त्यस्मिन्निति आपणः । ʻपण व्यवहारे स्तुतौ च्ö । विपणिश्च । निषीदन्ति वणिजोऽत्रेति निषद्या । ʻषद्लृ विशरणगत्यवसादनेषु’ । पण्यस्य वीथिका पण्यवीथिका । हट्टनामानि ॥ रथाय हिता रथ्या । प्रतोल्यते जनैरिति प्रतोली । ʻतुल उन्माने । मुण्डितशिरोवत् समभूमित्वाद् विशिखा । विशीयन्ते प्रकाश्यन्त इति वा । ʻशीङ् स्वप्ने । विपूर्वकत्वात् प्रकाशार्थकत्वम् । रथहितमार्गनामानि ॥ चीयते पाषाणादिभिरिति चयः । ʻचिञ् चयने । उप्यते प्राकारोऽत्रेति वप्रः । ʻडुवप् बीजसन्ताने । प्राकारधारभूतमृदादेर्नामनी ॥ प्रकर्षेण क्रियत इति प्राकारः । ʻडुकृञ् करणे । वृणोति सम्यगिति वरणः । व्रियते वेष्ट्यतेऽनेनेति वा । ʻवृञ् वरणे । स्यति पर्यन्तं करोतीति सालः । ʻषोऽन्तकर्मणि । स्यति गमनमिति वा । प्राकारनामानि ॥ प्रागास इति प्राचीनम् । प्राक् चीयत इति वा । ʻचिञ् चयने । प्राचीरमिति वा पाठः । प्राक् ईर्यत इति प्राचीरम् । ʻईर क्षेपे । ग्रामवृतिनामनी ॥ २-३ ॥

मल्लि-नाथः - AK.02.02.002-3

आपणस्तु निषद्यायाम् । आपणनामनी । ʻअङ्गडि । विपणिः—वीथिका । आपणवीथिनामनी । रथ्या—विशिखा । वीथिनामानि । अनुक्तम्—ʻउपरथ्या तु दर्शिनी । ग्रामस्य पुरतो गवाद्यागमनगमनाभ्यां कृतमार्गनामनी । भाषया ʻपशुवुल ॥ । अन्दुरु’ ॥ स्याच्चयो—अस्त्रियाम् । प्राकाराधारार्थं मृच्छिलाभ्यां बद्धसेतुनामनी । भाषया ʻआडुवलि । ʻवप्रः स्याद् धूलिकुट्टिमम् इति धनञ्जयः ॥ प्राकारो—सालः । प्राकारनामानि । ʻकोट्ö । देहलीदीपन्यायाद् वप्रमपि । ʻवप्रं सालं प्राकारमाहुरररं कवाटं च्ö इति हलायुधः (अ। मा। २। १३३) ॥ अनुक्तम्—ʻकपिशीर्षं तु सालाग्रम् । सालाग्रनाम । भाषया ʻकोटिकोम्म्ö ॥ प्राचीनं—वृतिः । सालावृतिनाम ॥ अनुक्तम्—ʻआवेष्टको वृतिर्वाटि । कण्टकशाखावरणनामानि । ʻमुंलकञ्चे ॥ २-३ ॥

[[०२.१९७]]

मूलम् - ०२.०२.००४

(०२.०२.००४अब्) भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम् ।
(०२.०२.००४च्द्) गृहं गेहोदवसिते वेश्म सद्म निकेतनम् ॥ ४ ॥
(०२.०२.००५अब्) निशान्तवस्त्यसदनं भवनागारमन्दिरम् ।
(०२.०२.००५च्द्) गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥

लिङ्ग-सूरी - AK.02.02.004-5

भित्तिरिति—भिद्यत इति भित्तिः । स्त्रियाम् । ʻभिदिर् विदारणे । कुड्यां साधु कुड्यम् । कुड्यत इति वा । ʻकुडि सङ्घाते । मृन्मयावरणनामनी ॥ इल्यते क्षिप्यतेऽस्थि अन्तरिति एडूकम् । ʻइल स्वप्नक्षेपणयोः’ । सास्थिभित्तिनाम ॥ गृह्णाति सर्वमिति गृहम् । ʻगृह उपादाने । गाह्यत इति गेहम्। ʻगाहू विलोडने । वल्कलादिना उद् ऊर्ध्वमवसीयत इत्युदवसितम् । उदवसीयते वध्यते वंशादिभिरिति वा । ʻपिञ् बन्धने । विशन्त्यस्मिन्निति वेश्म । ʻविश प्रवेशने । सीदन्ति तिष्ठन्त्यत्रेति सद्म । ʻपद्लृ विशरणगत्यवसादनेषु’ । निकेतयन्ति निवसन्त्यस्मिन्निति निकेतनम् । ʻकित निवासे । निकेत्यते स्थीयतेऽस्मिन्निति वा । नितरां शाम्यति दुःखमत्रेति निशान्तम् । ʻशमु उपशमे । अवश्यं निशायामम्यते गम्यत इति वा । ʻअम गत्यादिषु’ । वस्तुं साधु वस्त्यम् । ʻवस निवासे । अवस्त्यमिति पाठे अवस्त्यायते सङ्घीभवतीत्यवस्त्यम् । ʻस्त्यै शब्दसङ्घातयोः’ । सीदन्त्यत्र सदनम् । ʻषद्लृ विशरणादौ’ । भवन्ति बाला अत्रेति भवनम् । ʻभू सत्तायाम्ö । अगा वृक्षा ईर्यन्ते नीयन्ते स्वनिर्माण इत्यगारम् । ʻईर प्रेरणे । अगान् वृक्षान् स्तम्भभूतानियर्तीति वा । ʻऋ गतौ’ । मन्दन्ते मोदन्तेऽत्रेति मन्दिरम् । ʻमदि स्तुतिमोदमदस्वप्नकान्तिगतिषु’ । मन्द्यन्ते सुप्यन्तेऽत्रेति वा । गृहशब्दः पुंसि भूम्न्येव । गृह्णन्ति प्रविष्टानिति गृहाः । ʻग्रह उपादाने । चात् क्लीबमपि । गृहाणि । निचीयते द्रव्यमत्रेति निकाय्यः । ʻचिञ् चयने । निलीयन्ते आलीयन्ते जना अत्रेति निलयः । आलयश्च । ʻलीङ् श्लेषणे । गृहनामानि ॥ ४-५ ॥

मल्लि-नाथः - AK.02.02.004-5

भित्तिः—कुड्यम् । कुड्यनामनी ॥ एडूकं—कीकसम् । अन्तर्गतास्थिकुड्यनाम । ʻमेत्तिनकोड्ö । एडुकमित्यप्यस्ति । ʻएडुकमन्तर्गतास्थिकुड्यं स्यान् इति रत्नकोशः ॥ गृहं—उदवसितम् । गेहोदवसितशब्दयोर्गृहशब्देन सामानाधिकरण्यं लिङ्गान्तरसम्भावनार्थम् । ʻन नोदवसितं न स्त्री गेहं पुम्भूम्नि वा गृहम् इति वैजयन्ती (पृ। १६०, श्लो। १९) । वेश्म—सदनम् । वस्तमित्यत्रान्तःस्थादिपाठे ʻवस्तं वस्त्यं निकेतनम् इति वैजयन्ती (पृ। १६०, श्लो। १७) । पवर्गादिपाठे ʻसम्पद्गुणातिशयपस्त्य रुचं तवेति इति धर्मशर्माभ्युदयपद्मचित्रम् (१९। ९९) । भवनागारमन्दिरम्—आलयाः । गृहनामानि ॥ ४-५ ॥

[[०२.१९८]]

मूलम् - ०२.०२.००६

(०२.०२.००६अब्) वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम् ।
(०२.०२.००६च्द्) चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६ ॥

लिङ्ग-सूरी - AK.02.02.006

वास इति—वसन्त्यस्मिन्निति वासः। ʻवस निवासे । कुटति कुटिलीभवतीति कुटी । ʻकुट कौटिल्ये । कुट्यन्ते पशवो बध्यन्तेऽस्मिन्निति वा । कुटी द्वयोः । शलन्त्यस्यामिति शाला । ʻशल गतौ’ । शाल्यते वा । ʻशालृ श्लाघायाम् । सह भान्त्यस्यामिति सभा । ʻभा दीप्तौ’ । सभागृहनामानि ॥ सञ्जवन्ते सङ्गच्छन्ते चतस्रः शाला अत्रेति सञ्जवनम् । संवहनमिति पाठे संवहन्ति मिलन्त्यत्रेति । गत्यर्थो धातुरत्र । चतस्रः शालाः समाहृता अत्रेति चतुःशालम् । चतुःशालगृहनामनी ॥ पर्णैः कृता शाला पर्णशाला । उटैस्तृणपर्णैर्जायत इति उटजः । ʻजनी प्रादुर्भावे । मुनिसदननामनी ॥ ६ ॥

मल्लि-नाथः - AK.02.02.006

वासः—सभा । गृहनामानि । अनुक्तम्—ʻनिवासावसथावासा वास्त्वस्त्री निर्वृतं कुलम् । एतानि षट् च । सञ्जवनं—चतुःशालम् । चतुःशालगृहनामनी । ʻतोड्डिल्लु’ ॥ मुनीनां—अस्त्रियाम् । आश्रमनामनी । ʻआश्रमे तु पर्णशालोटजमस्त्रियाम् । इति वैजयन्ती (पृ। १६१, श्लो। २६) ॥ ६ ॥

[[०२.१९९]]

मूलम् - ०२.०२.००७

(०२.०२.००७अब्) चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा ।
(०२.०२.००७च्द्) आवेशनं शिल्पिशाला प्रपा पानीयशालिका ॥ ७ ॥

लिङ्ग-सूरी - AK.02.02.007

चैत्यमिति—मृदादिना चीयत इति चैत्यम् । ʻचिञ् चयने । आयतन्तेऽस्मिन्नित्यायतनम् । ʻयती प्रयत्ने । मुन्यालयनामनी ॥ वाजिनां शाला वाजिशाला । मन्दन्तेऽत्राश्वा इति मन्दुरा । ʻमदि स्तुत्यादौ’ । वाजिशालानाम ॥ आविशन्त्यत्र कर्मकारा इत्यावेशनम् । शिल्पिनां शाला । शिल्पिशालानाम ॥ प्रपिबन्त्युदकमस्यामिति प्रपा । ʻपा पाने । पानीयस्य जलस्य शाला । पानीयशालानाम ॥ ७ ॥

मल्लि-नाथः - AK.02.02.007

चैत्यम्—तुल्ये । देवसदननामनी । तुल्ये इत्यनेनार्थान्तरेऽपि तुल्यत्वम् ।

ʻचैत्यं देवकुले बुद्धविम्वेऽप्युद्देशपादपे ।

देवसद्मन्यायतनं सद्ममात्रेऽपि तद्विदुः ॥

इति । वाजिशाला—मन्दुरा । हयशालायां मन्दुरा स्यात् । अनुक्तम्—ʻचतुरं हस्तिनां शाला’ । गजालयश्चतुरं स्यात् । ʻशाला सन्धानिनी गवाम् । गवां शाला सन्धानिनी स्यात् । आवेशनं शिल्पिशाला । कुलालपाकपुटी च कारोरव्यासवश्च पल्याणकारकचकिश्च नापितखरकुटिष्च चित्रकारजालिनी च पाटसालिकतन्तुवायगर्तिकादिकं च सर्वमावेशनं स्यात् ॥ प्रपा पानीयशालिका । पानीयशालानाम ॥ अनुक्तम्—ʻसत्रशाला शुभस्थली । सत्रशालानामनी ॥ ७ ॥

मूलम् - ०२.०२.००८

(०२.०२.००८अब्) मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम् ।
(०२.०२.००८च्द्) गर्भागारं वासगृहमरिष्टं सूतिकागृहम् ॥ ८ ॥
(कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्)

लिङ्ग-सूरी - AK.02.02.008

मठ इति—मठन्त्यत्रेति मठः । ʻमठ मदनिवासयोः’ । शिष्यापत्यादिनिवासनाम ॥ गञ्जन्ति शब्दायन्ते मत्ता अस्यामिति गञ्जा । ʻगजि शब्दे । मदिराया मद्यस्य सन्धानगृहं मदिरागृहम् । सुरागृहनामनी ॥ गर्भेऽन्तः अगारम् गर्भागारम् । वासाय गृहं वासगृहम् । गृहान्तर्गृहनामनी । कृतरक्षत्वाद् ग्रहैर्न रिष्यत इत्यरिष्टम् । ʻरिष हिंसायाम् । सूतिकाया अभिनवसूतिकाया गृहम् । सूतिकागृहनामनी ॥ ८ ॥

मल्लि-नाथः - AK.02.02.008

मठः—निलयः । अन्तेवास्याश्रयो मठः स्यात् ॥ गञ्जा—मदिरागृहम् । सुरादिविक्रेतृगृहं गञ्जा स्यात् । स गञ्जाशब्दः पुंलिङ्गश्चेत् भाण्डागारनामापि स्यात् । ʻभाण्डागारे पुमान् गञ्जः स्त्री तु खन्यां सुरागृहे इति वैजयन्ती (पृ। २३२, श्लो। २६) ॥ गर्भागारम् । कोष्ठगृहनाम । ʻगर्भागारोऽपवरकः’ इति वैजयन्ती (पृ। १६३, श्लो। ५१) । वासगृहम् । सज्जिकागृहनाम । ʻउशन्ति शयनस्थानं वासागारं विशारदाः’ इति हलायुधः (अ। मा। २। १४०) । अरिष्टं सूतिकागृहम् । प्रसूतिगृहनाम ॥ ८ ॥

[[०२.२००]]

मूलम् - ०२.०२.००९

(०२.०२.००९अब्) वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः ।
(०२.०२.००९च्द्) हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम् ॥ ९ ॥

लिङ्ग-सूरी - AK.02.02.009

वातायनमिति—वातस्यायनं वातायनम् । गौश्चक्षुरक्ष्यत इति गवाक्षः । ʻअक्षू व्याप्तौ’ । गोचक्षुरिव वर्तुलाकारत्वाद्वा । जालकनामनी ॥ मण्ड्यते जनैरिति मण्डपः । ʻमडि भूषायाम् । जनानामाश्रयः जनाश्रयः । सर्वजनाश्रयशालानाम ॥ मनो हरतीति हर्म्यम् । ʻहृञ् हरणे । धनिकगृहनाम ॥ प्रसीदन्त्यस्मिन्निति प्रासादः । ʻषद्लृ विशरणगत्यवसादनेषु’ । प्रमुदिताः सीदन्त्यस्मिन्निति वा । देवनृपगृहनाम ॥ ९ ॥

मल्लि-नाथः - AK.02.02.009

वातायनं—स्यात् । जालकनामनी । ʻदीर्घाश्रं कर्णगच्छिद्रं तद्गवाक्षमिति स्मृतम् इति मयमतप्रयोगान्नपुंसकम् । ʻविलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्रावरणा इवासन् इति रघुवंशप्रयोगात् (७। ११; कु। सं। ७। ६२) पुंलिङ्गः । गवाक्षनामानि ॥ अनुक्तम्—ʻकुट्टिमोऽस्त्री निबद्धा भूः’ । पाषाणादिनिबद्धभूमिनाम ॥ ʻचन्द्रशाला शिरोगृहम् । गृहोपरि गृहनामनी । मण्टपोऽसत्री जनाश्रयः । मण्टपनामनी ॥ हर्म्यादि—वासः । धनिकानां निवासः हर्म्यादिसञ्ज्ञकः स्यात् । आदिशब्दः पर्यायवचनः । ʻहर्म्यं च मालिका’ । प्रासादो देवभूभुजाम । देवनृपवासः प्रासादसञ्ज्ञः स्यात् ॥ ९ ॥

०२.२०१

मूलम् - ०२.०२.०१०

(०२.०२.०१०अब्) सौधोऽस्त्री राजसदनमुपकार्योपकारिका ।
(०२.०२.०१०च्द्) स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥
(०२.०२.०११अब्) विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् ।

लिङ्ग-सूरी - AK.02.02.010

सौध इति—सुधायोगात् सौधः । राज्ञां सदनं राजसदनम् । राजभवननाम ॥ उप समीपे क्रियत इत्युपकार्या । प्रयाणे उपकरोतीति उपकारिका । पटकृतराजवेश्मनामनी ॥ स्वस्ति शुभं कायतीति स्वस्तिकः । ʻकै शब्दे । सर्वतो भद्रमस्येति सर्वतोभद्रः । नन्दिमानन्दम् आवर्तयतीति नन्द्यावर्तः । आदिग्रहणाद् रुचकवर्धमानादि गृह्यते । विशिष्टः छन्दोऽत्र विच्छन्दकः । एते ईश्वरसद्मनां विच्छन्दकप्रभेदाः रचनाविशेषा भवन्ति । रचनाविशेषयुक्तनृपगृहाणां नामानि ॥ १० ॥

मल्लि-नाथः - AK.02.02.010

सौधो—राजसदनम् । राजगृहनामनी ॥ उपकार्योपकारिका । पटादिकृतराजगृहस्थाननामनी । ʻगृहस्थानं मतं राज्ञामुपकार्योपकारिका’ इति हलायुधः (आ। मा। ?। १३५) ॥ स्वस्तिकः—सद्मनाम् । स्वस्तिकसर्वतोभद्रनन्द्यावर्तरुचकवर्धमाना राजगृहरचनाविशेषाः । तत्स्वरूपं तु—

ʻअपरान्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ ।

तदवधिवधृतश्चान्यः प्राग्द्वारं स्वस्तिकं शुभदम् ॥

अप्रतिषिद्धालिन्दं समन्तगे वास्तु सर्वतोभद्रम् ।

नृपविबुधसमूहानां कार्यं द्वारैश्चतुर्भिरपि ॥

नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्त्यगतैः ।

द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥

प्राक्पश्चिमावलिन्दावन्त्यगतौ तदवधि स्थितौ शेषौ ।

रुचकं द्वारं न शुभदमुत्तरतोऽन्यानि शस्तानि ॥

द्वारालिन्दोऽन्त्यगतः प्रदक्षिणोऽन्यस्ततश्चान्यः

रुद्धश्च वर्धमानो द्वारं तु न दक्षिणं कार्यम् ॥

इति ॥ १० ॥

(०२.०२.०११च्द्) स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥

मूलम् - ०२.०२.०१२

(०२.०२.०१२अब्) शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम् ।
(०२.०२.०१२च्द्) प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ॥ १२ ॥

लिङ्ग-सूरी - AK.02.02.011-12

स्त्र्यगारमिति—स्त्रीणामगारं स्त्र्यगारम् । अन्तः पूर्यत इत्यन्तःपुरम् । ʻपॄ पालनपूरणयोः’ । अन्तरभ्यन्तरे पुरं गृहमिति वा । अवरुध्यन्ते राज्ञः स्त्रियोऽत्रेत्यवरोधनम् । ʻरुधिर् आवरणे । अवरोधश्च । शुद्धाः सुरक्षिता अन्तिकाः समीपवर्तिनोऽत्रेति शुद्धान्तः । राजस्त्रीणामगारनामानि ॥ अट्टन्ते हिंसन्ति योधा अत्र स्थित्वेत्यट्टः । ʻअट्ट अतिक्रमणहिंसनयोः’ । योधा अत्र क्षुवन्तीति क्षोमम् । ʻटुक्षु शब्दे । प्राकारग्रस्थितरणगृहनामनी ॥ प्रहन्यते घटादिरनेनेति प्रघाणः । प्रघणश्च । ʻहन हिंसागत्योः’ । अल्यते भूष्यत इत्यलिन्दः । आलिन्द इति वा पदच्छेदः । ʻअल भूषणपर्याप्तिशक्तिवारणेषु’ । बहिर्द्वाराल्पगृहनामनी ॥ ११-१२ ॥

मल्लि-नाथः - AK.02.02.011-12

स्त्र्यगारं—अवरोधश्च । राजस्त्रीगृहनामानि । तात्स्थ्यात् तद्व्यपदेश इति राजस्त्रीनामान्यपि ।

ʻकलत्रवन्तमात्मानमवरोधे महत्यपि ।

तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः’ ॥

इति रघुवंशे (१। ३२) । स्यादट्टः—अस्त्रियाम् । अट्टनामनी । ʻअट्टुग्ö ॥ ʻकोद्रङ्गस्तु तमङ्गः स्यात् । तमङ्गनामनी । भाषया ʻतमगम् ॥ प्रघाण—प्रकोष्ठके । द्वारपार्श्वाल्पगृहनामानि ॥ अलिन्द इति ह्रस्वादिः । आलिन्द इति दीर्घादिश्च भवति । ह्रस्वादेरुदाहरणम् ʻप्रघाणः प्रघणोऽलिन्दः’ इति रत्नकोशः । दीर्घादेः—ʻगृहैकदेश आलिन्दः प्रघाणः प्रघणस्तथा’ इत्यमरमाला ॥ अनुक्तम्—ʻसंवेशिनी मुखे शाला’ । मुखशालानाम । भाषया ʻमोगसाल्ö ॥ ११-१२ ॥

[[०२.२०३]]

मूलम् - ०२.०२.०१३

(०२.०२.०१३अब्) गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे ।
(०२.०२.०१३च्द्) अधस्ताद्दारुणि शिला नासा तारूपरि स्थितम् ॥ १३ ॥

लिङ्ग-सूरी - AK.02.02.013

गृहावग्रहणीति—गृहं गृहद्वारशाखा अवगृह्यतेऽनयेति गृहावग्रहणी । ʻग्रह उपादाने । दिह्यते पङ्कादिनेति देहली । ʻदिह उपचये । द्वारमूले तिर्यक्स्थितपूज्यदारुनामनी ॥ अङ्गन्त्यत्रेत्यङ्गणम् । अङ्गनं वा । ʻअगि गतौ’ । चतन्ते याचका अत्र स्थित्वेति चत्वरम् । ʻचते याचने । अजन्ति क्षिपन्ति धान्यादिकमत्रेति अजिरम् । ʻअज गतिक्षेपणयोः’ । गृहस्य पुरःप्रदेशनामानि ॥ अक्षतैः शाल्यत इति शिला । ʻशालृ श्लाघायाम् । देहल्यधःस्थितपूज्यह्रस्वदारुनाम ॥ गृहस्य नासिकेव तिष्ठतीति नासा । द्वारोपरि तिर्यक्स्थितपूज्यदारुनाम ॥ १३ ॥

मल्लि-नाथः - AK.02.02.013

गृहावग्रहणी देहलिः । द्वारमूले तिर्यक्प्रसारितपूज्यदारुनामनी । ʻकडप्ö ॥ अनुक्तम्—ʻउत्तराङ्गं तु तत्तिर्यग्द्वारस्योपरि दारु यत् । द्वारोपरि तिर्यक्प्रसारितदारु उत्तराङ्गं स्यात् ॥ अङ्गणं—अजिरे । प्राङ्गणभूनामानि । अङ्गत्यस्मिन्नित्यङ्गणम् । पृषोदरादित्वाण्णत्वमिति सुभूतिटीका । अङ्गनमिति च कतिचन कथयन्ति ॥ अधस्तात्—स्थितम् । सन्धिकर्मोचितकाष्ठयोरधस्तनकाष्ठं शिला स्यात् । उपरितनकाष्ठं नासा स्यात् ॥ १३ ॥

मूलम् - ०२.०२.०१४

अक्।०२.०२.०१४अब् प्रच्छन्नमन्तर्द्वारं स्यात् पक्षद्वारं तु पक्षकः ।
अक्।०२.०२.०१४च्द् वलीकनीव्रे पटलप्रान्तेऽथ पटलं छदिः ॥ १४ ॥

लिङ्ग-सूरी - AK.02.02.014

प्रच्छन्नमिति—प्रच्छाद्यत इति प्रच्छन्नम् । ʻछद अपवारणे । अन्तः स्थितं द्वारम् अन्तर्द्वारम् । गृहान्तर्गतद्वारनामनी ॥ पक्षे पार्श्वे क्रियत इति पक्षकः । पार्श्वकृतद्वारनामनी ॥ वलति संवृणोति भित्तेः बहिःप्रदेशमिति वलीकम् । ʻवल संवरणे । कुड्यादेर्नितरां बहिर्व्रियत इति नीव्रम् । ʻवृञ् वरणे । जलं बहिर्नीयत इति वा । ʻणीञ् प्रापणे । पटलस्य प्रान्तः पटलप्रान्तः । छदिषः प्रान्तनामानि ॥ पटं पटकार्यं लातीति पटलम् । ʻला दाने । छाद्यतेऽनेनेति छदिः । ʻछद अपवारणे । सान्तोऽयं नपुंसकलिङ्गः । छदिषो नामनी ॥ आन्ध्रभाषायां ʻकप्पु’ ॥ १४ ॥

मल्लि-नाथः - AK.02.02.014

प्रच्छन्नम्—स्यात् । अन्तर्द्वारनाम । भाषया ʻलोनि वाकिलि । पक्षद्वारं—पक्षकः । पक्षद्वारनाम । नपुंसकोऽप्यस्ति । ʻपक्षकं तु पक्षद्वारं शडक्किका’ इति वैजयन्ती (पृ। १६२, श्लो। ४२) । वलीक—प्रान्ते । पटलप्रान्तनामानि ॥ ʻचारुनीव्रो वलिकः पटलप्रान्त इत्यपि इति पुंस्काण्डे गोपालितः । अथ पटलं छदिः । अपवारणनामनी । आन्ध्रभाषायां ʻकप्पु’ । पटलशब्दसाहचर्याच्छदिःशब्दो नपुंसकः ॥ १४ ॥

[[०२.२०४]]

मूलम् - ०२.०२.०१५

अक्।०२.०२.०१५अब् गोपानसी तु वलभी छादनेऽवक्रदारुणि ।
अक्।०२.०२.०१५च्द् कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम् ॥ १५ ॥

लिङ्ग-सूरी - AK.02.02.015

गोपानसीति—गोपायतीति गोपानसी । ʻगुपू रक्षणे । वलतीति वलभी । ʻवल संवरणे । पटलोपस्थितस्यावक्रस्य दारुणो नामनी । वक्रदारुणीति वा पदच्छेदः । तदा पटलप्रान्ते शिखेव स्थितस्य वक्रदारुणो नामनी ॥ कोपतान् पालयतीति कपोतपालिका । ʻपाल रक्षणे । विशिष्य टङ्क्यतेऽत्रेति विटङ्कम् ʻटकि बन्धने । पुन्नपुंसके । वक्रदार्वधः पक्षिविश्रमाय क्षिप्तस्य दारुणो नामनी ॥ १५ ॥

मल्लि-नाथः - AK.02.02.015

गोपानसी—वक्रदारुणि । वलभिच्छादनवक्रदारु गोपानसी स्यात् । ʻगोप्पुलु’ । कपोतपालीकायां—पुन्नपुंसकम् । कपोतादिपक्षिणामावासार्थं निर्मितकाष्ठविशेषनाम ॥ १५ ॥

[[०२.२०५ ]]

मूलम् - ०२.०२.०१६

अक्।०२.०२.०१६अब् स्त्री द्वार्द्वारं प्रतीहारः स्याद् वितर्दिस्तु वेदिका ।
अक्।०२.०२.०१६च्द् तोरणोऽस्त्री बहिर्द्वारं पुरद्वारं तु गोपुरम् ॥ १६ ॥

लिङ्ग-सूरी - AK.02.02.016

स्त्रीति—द्वार्यते जनोऽत्रेति द्वाः । रेफान्तस्त्रीलिङ्गः । द्वारं च । ʻद्व संवरणे । प्रतिह्रियते नूतनो जनोऽत्रेति प्रतीहारः । ʻहृञ् हरणे । गृहद्वारनामानि ॥ विगता तर्दिः श्रमोऽत्रेति वितर्दिः । ʻतर्द हिंसायाम् । श्रमं वितर्दयतीति वा । पथिकैर्विद्यते लभ्यत इति वेदिका । ʻविद्लृ लाभे । विदन्त्यस्यामिति वा । ʻविद ज्ञाने । वेदिकानामनी ॥ मङ्गलार्थं बन्धून् त्वरयतीति तोरणम् । ʻतुर त्वरणे । द्वाराद्वहिः वहिर्द्वारम् । द्वाराद्बहिर्वन्दनमालाबन्धनाय रचितस्तम्भद्वयनाम । गोप्यते पौरैरिति गोपुरम् । ʻगुपू रक्षणे । पुरद्वारनाम ॥ १६ ॥

मल्लि-नाथः - AK.02.02.016

स्त्री —प्रतीहारः । द्वारनामानि ॥ स्यात्—वेदिका । वेदिकानामनी ॥ तोरणो—बहिर्द्वारम् । बाह्यद्वारं तोरणं स्यात् । ʻतलवाकिलि । तदग्रे मङ्गलार्थमाबद्धस्रग्विशेषोऽपि तोरणं स्यात् । ʻबुधैर्वन्दनमाला तु तोरणं परिकीर्तितम् इति हलायुधः (अ। मा। २। १४६) । पुरद्वारं—गोपुरम् । नगरद्वारं गोपुरं स्यात् । ʻऊरुवाकिलि ॥ १६ ॥

मूलम् - ०२.०२.०१७

अक्।०२.०२.०१७अब् कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु ।
अक्।०२.०२.०१७च्द् कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना ॥ १७ ॥

लिङ्ग-सूरी - AK.02.02.017

कूटमिति—हस्तिनो नखमिव तिष्टतीति हस्तिनखः । पूर्द्वारमृत्कूटनाम ॥ के शिरः पाटयतीति कपाटम् । कं वातं वटति वेष्टयतीति कवाटं वा । ʻपट भेदने ʻवट वेष्टने । इयर्ति यातायातप्रकारेणेति अररम् । ʻऋ गतौ’ । द्वारपिधाननामनी ॥ तत् कपाटं विष्कभ्नातीति विष्कम्भः । ʻस्कम्भु रोधनस्तम्भनयोः’ । अरेण कर्षणेन गलतीत्यर्गलम् । ʻगल अदने स्रवणे च्ö । कवाटानुद्धाटनाय निर्मितदारुयन्त्रनामनी ॥ १७ ॥

मल्लि-नाथः - AK.2.02.017

कूटं—तस्मिन् । पुरद्वारेऽक्रमनिम्नमृत्कूटो हस्तिनखः स्यात् । ʻशनैरनीयन्त रयात् पतन्तो रथाः क्षितिं हस्तिनखादखेदैः’ इति माघः (शिशु। ३। ६८) । ʻवङ्कदारम् । कवाटम्—तुल्ये । द्वारपिधाननामनी ॥ त्रिलिङ्गः कवाटः । कवाटः, कवाटी, कवाटम् । पवर्गमध्य इति रभसकोशकारेणाभ्यधायि । कपाटः कपाटीति । अररं नपुंसकमेव । ʻअथ त्रयी कपाटोऽपि कवाटोऽप्यररं न पुम् इति वैजयन्ती (पृ। १६२, श्लो। ४६) । अररीत्यपचयविवक्षायां स्त्री । पुंलिङ्गोऽररिशब्दोऽप्यस्ति ।

ʻअप्यन्वेष्टं रतिगृहगुहां गन्धवाहेन कार्ये

प्रेर्यन्तेऽमी परमररयो हर्म्यवातायनानाम् ।

इति चन्द्रकाव्यम् । अनुक्तम्—ʻघर्घरो द्वितलादीनामधोद्वारकवाटिका’ । द्वितलत्रितलादिगृहद्वारकवाटिका घर्घरः स्यात् । तद्विष्कम्भो—न ना । कवाटधारकलोहदण्डादिकमर्गलं स्यात् । ʻद्वारयन्त्रं तु तालकम् इत्यल्पार्गलपर्यायश्च पृथक् । ʻतलुपुघडिय्ö । ʻवितण्डस्त्वर्गला त्रयी इत्ययस्तालकपर्यायोऽपि पृथक् । ʻबीगेमु’ ॥ १७ ॥

[[०२.२०६]]

मूलम् - ०२.०२.०१८

अक्।०२.०२.०१८अब् आरोहणं स्यात् सोपानं निश्रेणिस्त्वधिरोहिणी ।
अक्।०२.०२.०१८च्द् सम्मार्जनी शोधनी स्यात् सङ्करोऽवकरस्तया ॥ १८ ॥

लिङ्ग-सूरी - AK.02.02.018

आरोहणमिति—आरोहन्त्यनेनेत्यारोहणम् । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । सह उपानमन्त्यत्रेति सोपानम् । ʻणम प्रह्णत्वे शब्दे । सोपाननामनी ॥ निश्रयन्ति ऊर्ध्वतलमनयेति निश्रेणिः । ʻश्रिञ् सेवायाम् । अधिरोहत्यनयेति अधिरोहिणी । दारुनिर्मितसोपाननामनी ॥ सम्माष्ट्र्यनयेति सम्मार्जनीं । ʻमृजूष शुद्धौ’ । शोधयत्यनयेति शोधनी । ʻशुध शौचे । अङ्गणादौ रजःसमूहनिराकरणसाधननामनी ॥ तृणादिना सह कीर्यत इति सङ्करः । अवकरश्च । ʻकॄ विक्षेपे । तया सम्मार्जन्या एकत्र क्षिप्तरजोनामनी ॥ १८ ॥

मल्लि-नाथः - AK.02.02.018

आरोहणं—सोपानम् । सोपाननामनी ॥ निश्रेणिः—अधिरोहिणी । अट्टाद्यरोहणार्थं वंशादिनिर्मितयन्त्रनामनी । ʻनिच्चेन्ö ॥ सम्मार्जनी—स्यात् । गृहाद् रजस्तृणाद्यपनयनाय निर्मितकामञ्जकादिसन्दोरनामनी । ʻपारक्ö । सङ्करो—क्षिप्ते । सम्मार्जन्यपनीततृणराशिनामनी । ʻकनवुकुप्प्ö । ʻसम्मार्जनी वर्धनी तन्मलेऽवकरसङ्करौ’ इति वैजयन्तीपाठात् (पृ। २६३, श्लो। ५२) सङ्करशब्दोऽबन्तः । ʻसङ्कारोऽग्निचटत्कारे सम्मार्जन्यवमार्जिते इति विश्वप्रकाशिकापाठात् (पृ। १३९, श्लो। १७९) सङ्कारो घञन्तः । अनुक्तम्—गोमुखं तूपवेशनम् । गृहाद्युपलेपननामनी । ʻयिल्लुललुकुट्ö ॥ १८ ॥

[[०२.२०७]]

मूलम् - ०२.०२.०१९

अक्।०२.०२.०१९अब् क्षिप्ते मुखं निःसरणं सन्निवेशो निकर्षणम् ।
अक्।०२.०२.०१९च्द् समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥

लिङ्ग-सूरी - AK.02.02.019

क्षिप्त इति—गृहस्य मुखप्रायत्वात् मुखम् । गृहान्निःसरन्त्यनेनेति निःसरणम् । ʻसृ गतौ’ । गृहादिपुरोदेशनामनी ॥ समन्तात् निविशन्तेऽत्र सन्निवेशः । ʻविश प्रवेशने । निवृत्तं कर्षणमत्रेति निकर्षणम् । ʻकृष विलेखने । पुरादेर्बहिर्विहरणभूनामनी ॥ सम्यग् वसन्त्यत्रेति संवसथः । ʻवस निवासे । ग्रस्यते भुज्यत इति ग्रामः । ʻग्रसु अदने । पुरादन्यकतिपयगृहसमूहनामनी ॥ वसन्त्यत्र गृहिण इति वास्तुः । वेश्मनो भूर्वेश्मभूः । वेश्मस्थानभूनामनी ॥ १९ ॥

मल्लि-नाथः - AK.02.02.019

मुखं निःसरणम् । गेहादिपुरोभागनामनी ॥ सन्निवेशो निकर्षणम् । गृहाद्यपरभागनामनी । ʻइण्ट्टुबेनक्ö । समौ—ग्रामौ । ग्रामनामनी । तत्र परिवसथादिशब्दा अपि सन्ति । ʻग्राम पर्युपसन्निभ्यः प्रतेश्च वसथः परः’ इति वैजयन्ती (पृ। १५९, श्लो। २) ॥ वेश्मभूः—अस्त्रियाम् । गृहभूमिर्वास्तु स्यात् । वेश्मशब्द उपलक्षणम् । ʻग्रामादिभूमिर्वास्त्वस्त्री इति वैजयन्ती (पृ। १५९, श्लो। १०) ॥ १९ ॥

[[०२.२०८]]

मूलम् - ०२.०२.०२०

अक्।०२.०२.०२०अब् ग्रामान्तमुपशल्यं स्यात् सीमसीमे स्त्रियामुभे ।
अक्।०२.०२.०२०च्द् घोष आभीरपल्ली स्यात् पक्कणः शबरालयः ॥ २० ॥
इति पुरवर्गः

लिङ्ग-सूरी - AK.02.02.020

ग्रामान्तमिति—ग्रामस्यान्तं ग्रामान्तम् । उपगतः शल्यः कीलको यत्र चिह्नार्थं प्रक्षेपात् उपशल्यम् । ʻशल चलनसंवरणयोः’ । ग्रामसमीपप्रदेशनामनी ॥ सीयते बध्यत इति सीमा । नान्तः । सीमा आकारान्तस्त्रीलिङ्गश्च । ʻषिञ् बन्धने । ग्रामान्तनामनी ॥ घोषन्ति गावोऽत्रेति घोषः । ʻघुषिर् अविशब्दने । आभीराणां गोपानां पल्ली ग्रामः आभीरपल्ली । गोपालग्रामनामनी ॥ पच्यते कदन्नमत्र पक्कणः । ʻडुपचष् पाके । शबन्ति भ्रमन्तीति शबराः । ʻशब भ्रमणे । तेषामालयः शबरालयः । शबरालयनामनी ॥ २० ॥

इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ पुरवर्गः

मल्लि-नाथः - AK.02.02.020

ग्रामान्तम्—स्यात् । ग्रामान्तनाम ॥ अनुक्तम्—ʻप्रान्तरं ग्रामयोर्मध्यम् । ग्रामद्वयमध्यं प्रान्तरं स्यात् ॥ सीमसीमे—उभे । सीमनामनी । ʻद्व्यच्कमसिसुसन्नन्तम् (३। ५। २४) इति विशेषविधिरबाधितः । ʻसीमभिः सस्यसम्पन्नैः’ इति । ʻमर्यादावधि राघाटः’ । एतानि त्रीणि च ॥ घोषः—स्यात् । वल्लवपल्लीनाम । पक्कणः शबरालयः । किरातालयः पक्कणः स्यात् ॥ २०॥

इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते पुरवर्गः

[[०२.२०९]]