मूलम् - ०२.०१.००२
(०२.०१.००२अब्) भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।
(०२.०१.००२च्द्) धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥
(०२.०१.००३अब्) सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।
(०२.०१.००३च्द्) गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥
(*विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा ।
भूतधात्री रत्नगर्भा जगती सागराम्बरा ॥)
लिङ्ग-सूरी - AK.02.01.002-3
भूरिति—भवति सर्वमस्यामिति भूः । ʻभू सत्तायाम् । ऊकारान्तोऽयं स्त्रीलिङ्गः । अव्ययं तु रेफान्तः । अस्यामिदम् अभूदिति भूमिः । न चलतीत्यचला । ʻचल कम्पने । न विद्यतेऽन्तो यस्याः सा अनन्ता । रस्यते आस्वाद्यत इति रसा । ʻरस आस्वादने । रसतीति वा । ʻरस शब्दे । रसा अत्र सन्तीति वा । विश्वं बिभर्तीति विश्वम्भरा । ʻडुभृञ् धारणपोषणयोः’ । स्थिरत्वात् स्थिरा । तिष्ठति सर्वमस्यामिति वा । ʻष्ठा गतिनिवृत्तौ’ ध्रियते नृपैरिति धरा । धरति विश्वमिति वा । ʻधृञ् धारणे । धरित्री धरणिश्च । क्षौतीति क्षोणिः । क्षोणी च । ʻटुक्षु शब्दे । जिनाति सर्वमस्यामिति ज्या । ʻज्या वयोहानौ’ । जिनाति सर्वान् पार्थिवानिति वा । कश्यपस्येयं काश्यपी । क्षियन्ति निवसन्ति सर्वेऽस्यामिति क्षितिः । ʻक्षि निनासगत्योः’ । सर्वं भारं सहत इति सर्वंसहा । ʻषह मर्षणे । वसु धनमस्यामस्तीति वसुमती । वसु दधातीति वसुधा । ʻडुधाञ् धारणपोषणयोः’ । ऊर्णूयते पर्वतैरित्युर्वी । ʻऊर्णुञ् आच्छादने । उरुत्वात् विस्तीर्णत्वाद्वा । वसु धारयतीति वसुन्धरा । ʻधृ धारणे । गोत्राः शैलाः सन्त्यस्यामिति गोत्रा । तृणादिना गवादीन् त्रायत इति वा । ʻत्रैङ् पालने । कौति ध्वनतीति कुः । ʻकु शब्दे । पृथुत्वात् पृथिवी । पृथ्वी च । पृथुना वैन्येन सत्कृता वा । प्रथते वा । ʻप्रथ प्रख्याने । क्षमते भारं क्ष्मा । ʻक्षमूष् सहने । क्ष्मायते विधूनयते नृपनाशायेति वा । ʻक्ष्मायी विधूनने । अव्यते नृपैरित्यवनिः । स्वयमवति प्रजा इति वा । ʻअव रक्षणे । मधुकैटभदैत्यमेदोयोगात् मेदिनी । ʻञिमिदा स्नेहने । मह्यत इति मही । ʻमह पूजायाम् । महिर्वा । अत्र भूम्यवनिक्षितिक्षोणिमहिधरणिशब्दाः कृदिकारान्ताः । भूनामानि ॥ २-३ ॥
मल्लि-नाथः - AK.02.01.002-3
भूर्भूमिः—मही । भूमिनामानि । ʻमहिः सर्वंसहा मही इति वैजयन्तीपाठात् (पृ। ३५, श्लो। ३) महिशब्दोऽप्यस्ति । अनुक्तम्—
ʻरत्नगर्भा घनश्रोणिरुर्वरा सागराम्बरा ।
दुर्दरा गह्वरी धात्री भूदधात्र्यब्धिमेखला ॥
रत्नसूः कुम्भिनी विश्वा धारिणी गौर्गिरिस्तनी ॥
एतानि च ॥ २-३ ॥
[[०२.१८७]]
मूलम् - ०२.०१.००४
(०२.०१.००४अब्) मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका ।
(०२.०१.००४च्द्) उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका ॥ ४ ॥
लिङ्ग-सूरी - AK.02.01.004
मृदिति—मृद्यते कुलालादिभिरिति मृत् । मृत्तिका च । ʻमृद क्षोदे । मृन्नामनी ॥ प्रशस्ता मृत् मृत्सा मृत्स्ना च । श्रेष्ठमृन्नामनी ॥ उर्वति क्षुधं हिनस्तीत्युर्वरा । ʻउर्वी हिंसायाम् । सर्वसस्य सम्पन्नभूनाम ॥ ऊषति बीजमित्यूषः । ʻऊष रुजायम् । क्षारा च मृत्तिका च क्षारमृत्तिका । क्षारमृत्तिकानामनी ॥ ४ ॥
मल्लि-नाथः - AK.02.01.004
मृन्मृत्तिका । मृदो नामनी ॥ प्रशस्ता—मृत्तिका । प्रशस्तमृत्तिकानामनी । उर्वरा—आढ्या । सर्वसस्योत्पादकमृदो नाम । स्यादूषः—मृत्तिका । क्षारमृत्तिकानाम ॥४ ॥
मूलम् - ०२.०१.००५
(०२.०१.००५अब्) ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली ।
(०२.०१.००५च्द्) समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ॥ ५ ॥
लिङ्ग-सूरी - AK.02.01.005
ऊषवानिति—ऊषोऽस्यास्तीत्यूषवान् । ऊषरश्च । द्वावप्यन्यलिङ्गौ । ऊषरक्षेत्रनामनी ॥ स्थलतीति स्थलम् । स्थली च । ʻष्ठल स्थाने । अकृत्रिमोन्नतदेशनामनी ॥ तृषया म्रियन्तेऽत्रेति मरुः । ʻमृङ् प्राणत्यागे । धन्वन्ति तृषयात्रेति धन्वा । ʻधवि गतौ’ । निर्जलदेशनामनी ॥ लाङ्गलेन न लिखितमिति खिलम् । ʻलिख अक्षरविन्यासे । खं लातीति वा । ʻला दाने । हलादिना न प्रहन्यत इत्यप्रहतम् । ʻहन हिंसागत्योः’ । इमौ शब्दौ विशेष्यनिघ्नौ । अकृष्टदेशनामनी ॥ ५ ॥
मल्लि-नाथः - AK.02.01.005
ऊषवान्—अन्यलिङ्गौ । क्षारमृत्तिकावत्प्रदेशनामनी । विशेषणं विवक्षितं चेत् तौ द्वावप्यन्यलिङ्गौ । तदविवक्षितं चेत् नपुंसकावेव ॥ ʻवर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् । इति शिशुपालवधे (१४। ४६) । स्थलं स्थली । भूतलनामनी ॥ समानौ—धन्वानौ । निर्जलप्रदेशनामनी ॥ द्वे—समे । अकृष्टभूतलनामनी । ʻपाडुनेल्ö ॥ ५ ॥
[[०२.१८८]]
मूलम् - ०२.०१.००६
(०२.०१.००६अब्) त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् ।
(०२.०१.००६च्द्) लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः ॥ ६ ॥
(०२.०१.००७अब्) देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः ।
लिङ्ग-सूरी - AK.02.01.006
त्रिष्वथो इति—जङ्गम्यते भृशं गच्छतीति जगती । जगच्च । गम्यते जनैरिति वा । ʻगम्लृ गतौ’ । लोक्यते सर्वमस्मिन्निति लोकः । ʻलोकृ दर्शने । विशन्त्यस्मिन्निति विष्टपम् । ʻविश प्रवेशने । सर्वमस्मिन् भवतीति भुवनम् । लोकनामानि ॥ भरतस्य राज्ञः इदं भारतम् । वृष्यते सिच्यते मेघैरिति वर्षम् । ʻवृषु सेचने । हिमवत्सेतुमध्यदेशनाम ॥ प्राचा सहितो दक्षिणो देशः प्राच्यः । शरावतीनद्यवधिभूतपूर्वदक्षिणदेशनाम ॥ उदीच्या सहितः पश्चिमो देशः उदीच्यः । उदीच्यां भवः उदीच्यः । पश्चिमेन सहितः उत्तरो देशः पश्चिमोत्तरः । शरावतीनद्यवधिभूतपश्चिमोत्तरदेशनामनी ॥ ६ ॥
मल्लि-नाथः - AK.02.01.006
त्रिषु । अत्र त्रिष्वित्यनेन खिलशब्दानुपदोक्ताप्रहतशब्द एव परामृश्यते । खिलं नपुंसकमेव । ʻखिलमप्रहता भूमिः’ इति हलायुधः (अ। मा। २। ३) । अनुक्तम्—ʻनारट्टः स्फुटिता भूमिः’ । स्फुटितभूमिर्नारट्टः स्यात् । ʻबिटिकेनेल्ö । ʻजन्तुप्राया कचङ्गला’ । जन्तुभूयिष्ठा भूमिः कचङ्गला स्यात् । अथो जगती—विष्टपम् । ʻविष्टपलोकौ नरौ’ इति रत्नकोशमतात् पुंलिङ्गश्च । भुवनं जगत् । लोकसामान्यनामनी ॥ लोको—वर्षम् । असौ लोको भारतं च वर्षं च स्यात् । इदमा प्रत्यक्षजम्बूद्वीपः परामृश्यते ।
ʻस्याद् व्यासभाषिते ग्रन्थे जम्बूद्वीपे च भारतम् ।
ʻपुन्नपुंसकयोर्वर्षं जम्बूद्वीपाब्दवृष्टिषु ।
इत्युभयत्र रुद्रः । अथवा हिमाद्रेर्दक्षिणभूतजम्बूद्वीपैकखण्डः परामृश्यते । ʻनाभीदं भारतं वर्षं हिमाद्रेस्तच्च दक्षिणम् इति वैजयन्ती (पृ। ३५। श्लो। ५) । शरावत्याः—पश्चिमोत्तरः । शरावत्याख्या नदी ऐशानदिशः सकाशात् निरृतिदिशं प्रत्यागत्य पश्चिमसमुद्रं प्रविष्टा । तन्नद्यवधि अङ्गवङ्गादिबहुभेदभिन्नः प्राग्दक्षिणदेशः प्राच्यः स्यात् । तदवधि गान्धारशूरसेनादिबहुभेदभिन्नः पश्चिमोत्तरदेश उदीच्यः स्यात् ॥ ६ ॥
[[०२.१८९]]
(०२.०१.००७च्द्) प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः ॥ ७ ॥
मूलम् - ०२.०१.००८
(०२.०१.००८अब्) आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः ।
(०२.०१.००८च्द्) नीवृज्जनपदो देशविषयौ तूपवर्तनम् ॥ ८ ॥
लिङ्ग-सूरी - AK.02.01.007-8
प्रत्यन्त इति—म्लेच्छानां देशः म्लेच्छदेशः । प्रतिगतोऽन्तं प्रत्यन्तः । शरावत्यन्तप्रतिगतशिष्टाचाररहितदेशनाम ॥ मध्यश्चासौ देशश्च मध्यदेशः । मध्ये भवः मध्यमः । हिमवद्विन्ध्यविनशनप्रयागमध्यगतदेशनामनी ॥ आर्या वर्तन्तेऽत्रेति आर्यावर्तः । पुण्या भूमिः पुण्यभूमिः । हिमवद्विन्ध्यमध्यदेशनामनी ॥ नितरां वर्तन्ते जना अत्रेति नीवृत् । ʻवृतु वर्तने । नियमेन वर्तन्त इति वा । जनपदशब्दसाहचर्यात् नीवृच्छब्दः पुंलिङ्गः । जनाः पद्यन्तेऽत्रेति जनपदः । ʻपद्लृ गतौ’ । प्रसिद्धराष्ट्रनामनी ॥ दिश्यत इति देशः । ʻदिश अतिसर्जने । विशेषेण सिनोति बध्नाति प्रीतिमिति विषयः । ʻषिञ् बन्धने । उपयोगवशात् वर्तन्तेऽत्रेत्युपवर्तनम् । विंशत्त्रिंशद्ग्रामात्मकस्थाननामानि ॥ ७-८ ॥
मल्लि-नाथः - AK.02.01.007-8
प्रत्यन्तो—स्यात् । भारतवर्षान्तस्थितदेशनाम । मध्यदेशः—मध्यमः । भारतवर्षस्य मध्यमदेशनाम । आर्यावर्तो ब्रह्मवेदिः—हिमालयोः । पूर्वपश्चिमसमुदायतयोर्विन्ध्याचलहिमायलयोर्मध्यम् आर्यावर्तश्च ब्रह्मवेदिश्चेत्युच्यते । अनुक्तम्—ʻविन्ध्यात्तु दक्षिणो देशो दक्षिणापथसञ्ज्ञितः’ । विन्ध्याचलात् सेतुपर्यन्तं दक्षिणापथः स्यात् । नीवृत्—उपवर्तनम् । देशनामानि अत्र तुशब्दो निरर्थकः । ʻनीवृज्जनपदो देशस्तद्भेदाः पुंसि भूम्नि च्ö इति वैजयन्ती (पृ। ३६, श्लो। २१) । ʻराष्ट्रं जनपदो निर्गो जनान्तो विषयः स्मृतः’ इति धनञ्जयः ॥ ७-८ ॥
[[०२.१९०]]
मूलम् - ०२.०१.००९
(०२.०१.००९अब्) त्रिष्वा गोष्ठान्नडप्राये नड्वान् नड्वल इत्यपि ।
(०२.०१.००९च्द्) कुमुद्वान् कुमुदप्राये वेतस्वान् बहुवेतसे ॥ ९ ॥
लिङ्ग-सूरी - AK.02.01.009
त्रिष्विति—आ गोष्ठात् गोष्ठशब्दपर्यन्तं त्रिषु । नडाः सन्त्यत्रेति नड्वान् । नड्वलश्च । नडतृणप्रायदेशनामनी ॥ कुमुदान्यत्र सन्तीति कुमुद्वान् । कुमुदानि प्रायः अत्र । कुमुदप्रायदेशनाम ॥ वेतसाः सन्त्यत्र वेतस्वान् । बहवः वेतसाः सन्त्यत्र । बहुवेतस देशनाम ॥ ९ ॥
मल्लि-नाथः - AK.02.01.009
त्रिष्वा गोष्ठात् । गोष्ठशब्दात् प्राग्भूतशब्दास्त्रिलिङ्गाः । उत्तराधिकारस्य बाधितविषयत्वात् कच्छादयः शब्दा उक्तलिङ्गा एव । नडप्राये—इत्यपि । नडतृणप्रायदेशे नड्वान् नड्वलश्चेत्येतौ वर्तेते । कमुद्वान् कुमुदप्राये । कुमुदप्रायदेशनाम । वेतस्वान् बहुवेतसे । बहुनिचुलदेशनाम ॥ ९ ॥
मूलम् - ०२.०१.०१०
(०२.०१.०१०अब्) शाद्वलः शादहरिते सजम्बाले तु पङ्किलः ।
(०२.०१.०१०च्द्) जलप्रायमनूपं स्यात् पुंसि कच्छस्तथाविधः ॥ १० ॥
लिङ्ग-सूरी - AK.02.01.010
शाद्वल इति—शादो बालतृणमस्मिन्नस्तीति शाद्वलः । शाड्वलो वा । शादहरितदेशनाम ॥ पङ्कोऽस्यास्तीति पङ्किलः । जम्बालेन पङ्केन सह वर्तत इति सजम्बालः । कर्दमसहितदेशनाम ॥ अनुगता आपोऽत्रेत्यनूपम् । जलप्रायघट्टादिस्थलनाम ॥ कषन्ति आपो यं देशं स कच्छः । कष्यते जलैरिति वा । ʻकप हिंसायाम् । जलप्रायदेशनाम ॥ १० ॥
मल्लि-नाथः - AK.02.01.010
शाद्वलः—हरिते । बालतृणहरितदेशनाम । सजम्बाले—पङ्किलः । जम्बालाविलदेशनाम । जलप्रायम्—तथाविधः । बहुलजलदेशोऽनूपं स्यात् । कच्छ इति च स्यात् । ʻपुंस्येवान्धुः प्रहिः कूपः’ (१। १२। २७) इत्यत्रैवकारः क्कचिदनित्यत्वबोधनार्थः । पुंसि च कच्छमनूपः ॥ ॥
[[०२.१९१]]
मूलम् - ०२.०१.०११
(०२.०१.०११अब्) स्त्री शर्करा शर्करिलः शार्करः शर्करावति ।
(०२.०१.०११च्द्) देश एवादिमावेवमुन्नेयाः सिकतावति ॥ ११ ॥
लिङ्ग-सूरी - AK.02.01.011
स्त्रीति—शृणातीति शर्करा । सा अस्त्यत्रेति शर्करा । ʻशॄ हिंसायाम् । शर्करा अस्मिन् सन्तीति शर्करिलः । शर्करावद्देशस्यैव नामनी ॥ शर्करावन्मात्रवृत्तिरत्रास्तीति शार्करः । शर्करावांश्च । शर्करावद्भूमिनामनी ॥ एवं सिकतावति देशे । आदिमौ द्वौ शब्दौ अपरौ च इति चत्वारः शब्दा उन्नेयाः । कथम् । सिकता सिकतिलः इति द्वौ तद्वद्देश एव । सैकतः सिकतावान् इत्युत्तरौ शब्दौ सिकतावन्मात्रवृत्तौ ॥ ११ ॥
मूलम् - ०२.०१.०१२
(०२.०१.०१२अब्) देशो नद्यम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालितः ।
(०२.०१.०१२च्द्) स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२ ॥
लिङ्ग-सूरी - AK.02.01.012
देश इति—नदी मातेव यस्य नदीमातृकः । नद्यम्बुसम्पन्नव्रीहिपावितदेशनाम ॥ देवो मातेव यस्य देवमातृकः । वृष्ट्यम्बुसम्पन्नव्रीहिपावितदेशनाम ॥ १२ ॥
[[०२.१९२]]
मूलम् - ०२.०१.०१३
(०२.०१.०१३अब्) सुराज्ञि देशे राजन्वान् स्यात् ततोऽन्यत्र राजवान् ।
(०२.०१.०१३च्द्) गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥
लिङ्ग-सूरी - AK.02.01.013
सुराज्ञीति—शोभनो राजा यस्मिन् सः राजन्वान् । सुराजदेशनाम ॥ राजा अत्रास्तीति राजवान् । राजवद्देशनाम ॥ गावोऽत्र तिष्ठन्तीति गोष्ठम् । ʻष्ठा गतिनिवृत्तौ’ । गोस्थाननाम ॥ गावो यत्र प्रागासन् तत् गौष्ठीनम् । पुरातनगोस्थाननाम ॥ १३ ॥
मूलम् - ०२.०१.०१४
(०२.०१.०१४अब्) पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान् ।
(०२.०१.०१४च्द्) वामलूरुश्च नाकुश्च वल्मीकं पुन्नपुंसकम् ॥ १४ ॥
लिङ्ग-सूरी - AK.02.01.014
पर्यन्तभूरिति—पर्यन्ते उपान्ते भूः पर्यन्तभूः । परितः सरन्त्यत्रेति परिसरः । ʻसृ गतौ’ । ग्रामादिसमीपभूनामनी ॥ सिन्वन्ति बध्नन्ति मृत्पाषाणादिभिरिति सेतुः । ʻषिञ् बन्धने । अल्यते निवार्यते प्रवाहोऽनयेति आलिः । आली च । ʻअल भूषणपर्याप्तिवारणेषु’ । स्त्रियाम् आलिः सेतुः पुमान् । सेतुनामनी ॥ वामैः प्राणिभिः लूयत इति वामलूरुः । वामलूर इति वा पाठः । ʻलूञ् छेदने । प्राणिनः प्रवेशे नमन्त्यत्रेति नाकुः । ʻणमु प्रह्वत्वे शब्दे च्ö । वलन्ते प्राणिनोऽत्रेति वल्मीकम् । पुन्नपुंसके । ʻवल सञ्चलने । वल्मीकनामानि ॥ १४ ॥
मूलम् - ०२.०१.०१५
(०२.०१.०१५अब्) अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।
(०२.०१.०१५च्द्) सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥
लिङ्ग-सूरी - AK.02.01.015
अयनमिति—अयन्तेऽनेनेति अयनम् । ʻअय पय गतौ’ । वर्तन्तेऽनेनेति वर्त्म । ʻवृतु वर्तने । मृगयन्ते गवेषयन्त्यनेनेति मार्गः । ʻमृग अन्वेषणे । अद्यते भक्ष्यते पथिकैरत्रेत्यध्वा । ʻअद भक्षणे । पथन्त्यनेन पन्थाः । ʻपथे गतौ’ । नकारान्तः । पतन्त्यत्रेति वा । ʻपत्लृ गतौ’ । पद्यन्तेऽनयेति पदवी । ʻपद गतौ’ । सरन्त्यनयेति सृतिः । ʻसृ गतौ’ । सरणिश्च । पद्भ्यां हन्यत इति पद्धतिः । ʻहन हिंसागत्योः’ । पदमत्र दृश्यते पद्या । ʻदृशिर् प्रेक्षणे । वर्तन्तेऽनया वर्तनी । एके कतिपये पादा लक्ष्यन्तेऽत्रेति एकपदी । मार्गनामानि ॥ १५ ॥
[[०२.१९३]]
मूलम् - ०२.०१.०१६
(०२.०१.०१६अब्) अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि ।
(०२.०१.०१६च्द्) व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः ॥ १६ ॥
लिङ्ग-सूरी - AK.02.01.016
अतिपन्था इति—अतिपूज्यः पन्था अतिपन्थाः । सुपूज्यः पन्थाः सुपन्थाः । संश्चासौ पन्थाश्च सत्पथः । अर्चिताध्वनामानि ॥ विरुद्धोऽध्वा व्यध्वः । दुष्टोऽध्वा दुरध्वः । विरुद्धः पन्थाः विपथः । कुत्सितोऽध्वा कदध्वा । कुत्सितः पन्थाः कापथः । कुत्सितमार्गनामानि ॥ १६ ॥
मूलम् - ०२.०१.०१७
(०२.०१.०१७अब्) अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे ।
अक्।०२.०१.०१७च्द् प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम् ॥ १७ ॥
लिङ्ग-सूरी - AK.02.01.017
अपन्था इति—पन्था न भवतीत्यपन्थाः । अपथं च । मार्गाभासनामनी ॥ शृङ्गवन्नानादिगाश्रितैर्मार्गैरटतीति शृङ्गाटकम् । शृङ्गैरुत्सवैर्जनोऽटतीति वा । ʻअट गतौ’ । चतुर्णां पथां समाहारः चतुष्पथम् । चतुष्पथनामनी ॥ प्रकृष्टं ग्रामयोरन्तरं व्यवधानं यत्रेति प्रान्तरम् । प्रगता ग्रामादयोऽन्तरेऽस्मिन्निति वा । दूरशून्याध्वनाम ॥ कस्य जलस्यान्तरं समीपमृच्छतीति जनोऽत्र कान्तारम् । ʻऋ गतौ’ । दुर्गमवर्त्मनाम ॥ १७ ॥
[[०२.१९४ ]]
मूलम् - ०२.०१.०१८
अक्।०२.०१.०१८अब् गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम् ।
अक्।०२.०१.०१८च्द् घण्टापथः संसरणं तत् पुरस्योपनिष्करम् ॥ १८ ॥
(द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी ।
दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः ॥)
इति श्रीमदमरसिंहकृते नामलिङ्गानुशासने भूमिवर्गः
लिङ्ग-सूरी - AK.02.01.018
गव्यूतिरिति—गवोः क्रोशयोर्यूतिः युग्मं गव्यूतिः । क्रोशयोर्युगं युग्मम् । क्रोशयुगनाम ॥ नल्यते बध्यतेऽनेनेति नल्वः । ʻणल बन्धने । किष्कूणां हस्तानां चतुःशतम् । चतुःशतहस्तप्रमाणवर्त्मनाम ॥ घण्टावतां गजानां पन्थाः घण्टारपथः । सम्यक् सरन्त्यनेनेति संसरणम् । ʻसृ गतौ’ । राजमार्गनामनी ॥ उप समीपे निष्कीर्यते सैन्यमत्रेत्युपनिष्करम् । ʻकॄ विक्षेपे । पुरराजमार्गनाम ॥ १८ ॥
इति श्रीलिङ्गयसूरिविरचितायाम् अमरकोशपदविवृतौ भूमिवर्गः
मल्लि-नाथः - AK.02.01.018
॥ ।हस्तानां चतुःशतं चेत् नल्वः स्यात् । घण्टापथः संसरणम् । राजमार्गनामनी । ʻराजमार्गः संसरणं श्रीघण्टाभ्यां पथः परः’ इति वैजयन्ती (पृ। १६०, श्लो। १६) । तत् पुरस्योपनिष्करम् । तदेव पुराभिमुखं चेदुपनिष्करं स्यात् । द्यावापृथिव्यौ—पृथिव्यौ । आकाशभूम्योर्नामानि । गञ्जा—लवणाकरः । लवणभूनामनी ॥ १८ ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते भूमिवर्गः
[[०२.१९५]]