मूलम् - ०१.१२.००१
(०१.१२.००१अब्) समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
(०१.१२.००१च्द्) उदन्वानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः ॥ १ ॥
(०१.१२.००२अब्) रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।
लिङ्ग-सूरी - AK.01.12.001
समुद्र इति—सम्यगुनत्ति समुद्रः । ʻउन्दी क्लेदने । समन्तात् मुदं रातीति वा । ʻरा दाने । मुद्रया मर्यादया सहित इति वा । आपो धीयन्ते अत्रेति अब्धिः । ʻडुधाञ् धारणपोषणयोः’ । मर्यादया कुं भुवं न पृणातीति अकूपारः । ʻपॄ पालनपूरणयोः’ । अकुत्सितं पारमस्येति वा । पारमावृणोतीति पारावारः । ʻवृञ् वरणे । पारमपारमस्य दुस्तरत्वादिति वा पारापारः । सरितां पतिः सरित्पतिः । उदकमस्त्यस्मिन्निति उदन्वान् । उदकानि धीयन्तेऽस्मिन्निति उदधिः । ʻडुधाञ् धारणपोषणयोः’ । स्यन्दते जलमत्र सिन्धुः । ʻस्यन्दू प्रस्रवणे । सरांस्यत्र सन्तीति सरस्वान् । सगरपुत्रैः खातः सागरः । अर्णांसि जलानि सन्त्यस्मिन्निति अर्णवः । रत्नानाम् आकरः रत्नाकरः । जलानां निधिः जलनिधिः । जलानि नितरां धीयन्तेऽस्मिन्निति वा । ʻडुधाञ् धारणपोषणयोः’ । यादसां जलजन्तूनां पतिः यादःपतिः । अपां जलानां पतिः अपाम्पतिः । अप्पतिर्वा । समुद्रनामानि ॥ १ ॥
मल्लि-नाथः - AK.01.12.001
समुद्रो—पारावारः । आवारपारकूपारावपि तत्पर्यायौ । ʻआवारपारः कूपारो रत्नमीनाभिधाकरः’ इति धनञ्जयः । सरित्पतिः—अर्णवः । ʻअर्णसो लोपश्च्ö (वा। ५। २। १०९) इति सलोपः । रत्नाकरो—अपाम्पतिः । समुद्रनामानि ॥ अनुक्तम्—ʻऊर्मिमाली पयोराशिः सरित्वान् सलिलाकरः’ । एतानि च ॥ १ ॥
(०१.१२.००२च्द्) तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
मूलम् - ०१.१२.००३
(०१.१२.००३अब्) आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।
(०१.१२.००३च्द्) पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥
(०१.१२.००४अब्) कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।
(०१.१२.००४च्द्) अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥
(०१.१२.००५अब्) मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
लिङ्ग-सूरी - AK.01.12.002-4
तस्येति—क्षीरमुदकं यस्य क्षीरोदः । लवणमुदकं यस्य लवणोदः । तथा अपरे । के ते ? दध्युदः, घृतोदः, सुरोदः, इक्षूदः, स्वादूदः । समुद्रविशेषनामानि ॥ इन्द्रेण आप्यन्ते आपः । ʻआप्लृ व्याप्तौ’ । बहुप्रदेशं वृणोतीति वाः । वारि च । ʻवृञ् वरणे वार् शब्दो रेफान्तः स्त्रीलिङ्गश्च पूर्वसाहचर्यात् । सरतीति सलिलम् । ʻसृ गतौ’ । काम्यते तृषितैरिति कमलम् । ʻकमु कान्तौ’ । जलति जडीभवतीति जलम् । ʻजल घातने । पयत इति पयः । ʻपय गतौ’ । पीयत इति वा । ʻपा पाने । कीलान् ज्वालान् अलति वारयतीति कीलालम् । ʻअल भूषणपर्याप्तिशक्तिवारणेषु’ । न म्रियन्तेऽनेनेत्यमृतम् । ʻमृङ् प्राणत्यागे । अनेन न मृतमिति वा । जीवन्ति येनेति जीवनम् । ʻजीव प्राणधारणे । भवति सर्वमस्मादिति भुवनम् । ʻभू सत्तायाम् । वन्यते याच्यत इति वनम् । ʻवनु याचने । कं सुखं बध्यतेऽत्र कबन्धम् । ʻबन्ध बन्धने । कं सुखं बध्नातीति वा । कमन्धमिति पाठे कम् अन्धमिति नामद्वयम् । तृषितैः काम्यत इति कम् । ʻकमु कान्तौ’ । अनन्त्यनेनेत्यन्धम् । ʻअन प्राणने । उनत्तीत्युदकम् । ʻउन्दी क्लेदने । पीयते पाथः । ʻपीङ् पाने । पातीति वा । ʻपा रक्षणे । पुष्णातीति पुष्करम् । ʻपुष पुष्टौ’ । सर्वतो मुखं यस्य तत् सर्वतोमुखम् । अमति गच्छतीत्यम्भः । ʻअम गत्यादिषु’ । मुखम् अम्भते वा अनेनेत्यम्भः । ʻअभि शब्दे । ऋणोतीत्यर्णः । ऋच्छतीति वा । ʻऋ गतौ’ । तौतीति तोयम् । ʻतुः आवरणार्थे । तायते पालयतीति वा तोयम् । ʻतायृ सन्तानपालनयोः’ । पीयत इति पानीयम् । पातव्यमिति वा । ʻपा पाने । नीयते नीरम् । ʻणीञ् प्रापणे । क्षीयते क्षीरम् । ʻक्षि निवासगत्योः’ । ʻक्षि क्षये इति वा धातुः । घस्यते वा । ʻघस्लृ अदने । अम्बते मुखमनेन अम्बु । ʻअवि रबि लबि शब्दे । शं सुखं वृणोतीति शम्बरम् । ʻवृञ् वरणे । सम्बरमिति पाठे संवृणोतीति सम्बरम् । वबरयोरभेदः । मेघस्य पुष्पं मेघपुष्पम् । घनस्य रसो घनरसः । एतानि जलनामानि ॥ अपां विकारः आप्यम् । अम्मयं च । जलविकारनामनी ॥ २-४ ॥
मल्लि-नाथः - AK.01.12.002-4
तस्य प्रभेदाः—अपरे । क्षीरोद इति क्षीरसमुद्रः । ʻमन्थोदधिस्तु क्षीराब्धिः क्षीरोदः कलशोदधिः’ इति वैजयन्ती (पृ। ३६, श्लो। ११) । लवणोद इति क्षारसमुद्रः । ʻलावणो लवणोदः स्यात् इति वैजयन्ती (पृ। ३५, श्लो। १०) । अपरशब्देनोच्यमाना दध्युदकघृतोदकमद्योदकेक्षुरसोदकस्वादूदकाः पञ्च समुद्रभेदाः । आपः—वाः । रेफान्तनपुंसकः । वारि—घनरसम् । ʻघनरसमम्भः क्षीरं घृतममृतं जीवनं वनं भुवनम् इति रत्नकोशपाठात् घनरसशब्दः नपुंसकः । ʻवार्न पुंसि स्त्रियो भूमन्यापो घनरसः पुमान् इति वैजयन्तीपाठात् (पृ। १५४, श्लो। ३) पुंलिङ्गः । उदकनामानि ॥ अनुक्तम्—ʻस्यात् किट्टिमं क्षारजलम् । लवणोदकं किट्टिमं स्यात् । ʻस्वादुतोयं तु शीतलम् । स्वादूदकनाम । त्रिषु—अम्मयम् । अब्विकारनामनी ॥ २-४ ॥
[[०१.१५८]]
(०१.१२.००५च्द्) भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ ५ ॥
मूलम् - ०१.१२.००६
(०१.१२.००६अब्) महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः ।
लिङ्ग-सूरी - AK.01.12.005
भङ्ग इति—भज्यते भङ्गः । ʻभञ्जो आमर्दने । तरतीति तरङ्गः । ʻतॄ प्लवनतरणयोः’ । ऊर्वतीति ऊर्मिः । ʻउर्वी हिंसायाम् । ऋच्छतीति वा । ʻऋ गतौ’ । स्त्रीपुंसयोः । वेति वृद्धिं गच्छतीति वीचिः । ʻवी गत्यादिषु’ । वीचिः स्त्रियाम् । तरङ्गनामानि ॥ उत् ऊर्ध्वं लोडति उल्लोलः । ʻलोडृ उन्मादे । कल्लते शब्दायते कल्लोलः । ʻकल्ल अव्यक्ते शब्दे । कत् ऊर्ध्वं लोलतीति कल्लोलः । महातरङ्गनामनी ॥ आवर्तते चक्रवद् भ्राम्यतीति आवर्तः । ʻवृतु वर्तने । अम्भोभ्रमणनाम ॥ ५ ॥
मल्लि-नाथः - AK.01.12.005
भङ्गस्तरङ्गः—वीचिः । तरङ्गनामानि ॥ ऊर्मिर्विकल्पितस्त्री । वीचिर्नियतस्त्री । अथोर्मिषु—कल्लोलौ । महावीचिवाचकोर्मिषु उल्लोलकल्लोलौ स्याताम् ।
ʻवीचिर्भङ्गस्तरङ्गः स्यात् तन्महत्त्वे च कथ्यते ।
ऊर्मिरुत्कलिकोल्लोलः कल्लोलो लहरी तथा ॥
इति हलायुधः (अ। मा। ३। ३१) । ʻकल्लोललीला मुरवैरिवाहा’ इति प्रयोगः चन्द्रकाव्ये । स्यादावर्तो—भ्रमः । अम्भोभ्रमणमावर्तः स्यात् ॥ ५ ॥
[[०१.१५९]]
(०१.१२.००६च्द्) पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् ॥ ६ ॥
मूलम् - ०१.१२.००७
(०१.१२.००७अब्) चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः ।
लिङ्ग-सूरी - AK.01.12.006
पृषन्तीति—पर्षन्तीति पृषन्ति । ʻपृषु सेचनहिंसाक्लेशनेषु’ । तकारान्तनपुंसकलिङ्गः । बिन्दतीति बिन्दुः । ʻबिदि अवयवे । पर्षन्ति सिञ्चन्तीति पृषताः । विगता प्रुट् दाहोऽस्याः विप्रुट् । बिन्दुनामानि ॥ चक्राकार एषामस्तीति चक्राणि । वक्राणीति पाठे वङ्कनात् वक्राणि । ʻवकि कौटिल्ये गतौ च्ö । जलशिरोरूपं पुटं भित्त्वा निर्यान्तीति पुटभेदाः । ʻभिदिर् विदारणे । भ्रमन्ति जलान्येभिरिति भ्रमाः । ʻभ्रमु चलने । जलानि निर्गच्छन्त्येभ्य इति जलनिर्गमाः । ʻगम्लृ गतौ’ । जलनिर्गमनामनी ॥ ६ ॥
मल्लि-नाथः - AK.01.12.006
पृषन्ति—विप्रुषः स्त्रियः । जलबिन्दुनामानि ॥ बहुत्वमत्राविवक्षितम् । ʻविप्रुट् स्त्री पृपतो बिन्दुः स्तोको द्रप्सः पृषन्न पुम् इति वैजयन्ती (पृ। २५, श्लो। ८) । वक्राणि पुटभेदाः स्युः । वेण्याकारजलकौटिल्यनामनी ॥ भ्रमाः—निर्गमाः । नीरनिर्गमनामनी । जलागमनपथनामेति केचित् । ʻनिल्लगण्ड्लु’ ॥ ६ ॥
(०१.१२.००७च्द्) कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ ७ ॥
मूलम् - ०१.१२.००८
(०१.१२.००८अब्) पारावारे परार्वाची तीरे पात्रं तदन्तरम् ।
लिङ्ग-सूरी - AK.01.012.007
कूलमिति—कूलयतीति कूलम् । ʻकूल आवरणे । रुध्यत इति रोधः, रुणद्धि जलमिति वा । ʻरुधिर् आवरणे । सकारान्तनपुसङ्कलिङ्गः, अकारान्तोऽपि । तरन्त्यस्मादिति तीरम् । ʻतॄ प्लवनतरणयोः’ । प्रतीरं च । तटतीति तटम् । ʻतट उच्छ्राये । तीरनामानि ॥ परं चार्वाक् च परार्वाची, ते तीरे पारावारे इत्युच्येते । पार्यते उत्तारणकर्म समाप्यतेऽत्र पारम् । ʻपार कर्मसमाप्तौ’ । परतीरनाम ॥ न विद्यते वाः उदकमत्र कदाचिदपीति अवारम् । अर्वाक्तीरनाम ॥ पीयत इति पात्रम् । ʻपीङ् पाने । उभयतीरमध्यप्रवाहस्वरूपनाम ॥ ७ ॥
मल्लि-नाथः - AK.01.12.007
कूलं—तटं त्रिषु । त्रिष्विति तटमात्रविशेषणम् । ʻकूलं तीरं प्रपातश्च प्रान्ते कच्छस्तटी त्रयी इति वैजयन्ती (पृ। १५६, श्लो। ३२) । तीरनामानि ॥ पारावारे—तदन्तरम् । परं तीरं पारं स्यात् । अर्वाक्तीरमवारं स्यात् । तयोर्मध्यं पात्रं स्यात् ॥ ७ ॥
[[०१.१६०]]
(०१.१२.००८च्द्) द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ ८ ॥
मूलम् - ०१.१२.००९
(०१.१२.००९अब्) तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् ।
लिङ्ग-सूरी - AK.01.12.008
द्वीप इति—वारिणोऽन्तः वारिमध्ये यत्तटं तस्मिन् द्वीपान्तरीपशब्दौ वर्तेते । द्विधा गताः आपोऽस्मिन्निति द्वीपः । अन्तर्गता आपोऽत्रेति अन्तरीपम् । अन्तरीपं चास्त्रियां वर्तते । उदकमध्यस्थतटनामनी ॥ तोये क्षीणे सति उत्थितं दृश्यं तत् पुलिनमित्युच्यते । पुलतीति पुलिनम् । ʻपुल महत्त्वे । तोयोत्थितद्वीपनाम ॥ सिकता अत्र सन्तीति सैकतम् । सिकतामयतटनाम ॥ ८ ॥
मल्लि-नाथः - AK.01.12.008
द्वीपो—तटम् । द्वीपमस्त्री । अन्तरीपं नपुंसकम् । एते द्वे जलमध्यतटनामनी ॥ तोयोत्थितं—पुलिनम् । तोयोत्थितद्वीपनाम । सैकतं सिकतामयम् । सिकतामयतटनाम । ʻयिनुकदिब्व्ö ॥ ८ ॥
[[०१.१६१]]
(०१.१२.००९च्द्) निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥
मूलम् - ०१.१२.०१०
(०१.१२.०१०अब्) जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।
लिङ्ग-सूरी - AK.01.12.009
निषद्वर इति—निषीदन्ति वराहादयोऽत्रेति निषद्वरः । ʻषद्लृ विशरणगत्यवसादनेषु’ । निषीदन्त्यस्मिन्निति निषत्, तां वृणोतीति वा । ʻवृञ् वरणे । जमति गतिं भक्षयतीति जम्बालः । ʻचमु छमु जमु अदने । पञ्च्यन्ते गन्तॄणां पदान्यत्रेति पङ्कः । ʻपचि व्यक्तीकरणे । शीयते पादोऽत्र शादः । ʻशद्लृ शातने । कर्दतीति कर्दमः । ʻकर्द कुत्सिते शब्दे । कृणोति हिंसयतीति वा । ʻकृञ् हिंसायाम् । पङ्कनामानि ॥ प्रवृद्धं जलमुच्छ्वसितीति यैर्मार्गैः ते जलोच्छ्वासाः । ʻश्वस प्राणने । परितो जलं वहन्तीति परीवाहाः । तटाकान्ते प्रवृद्धजलनिर्गमाय कृतमार्गनाम ॥ स्वल्पाः कूपाः कूपकाः । विदार्यन्ते विदारकाः । ʻदॄ विदारणे । शुष्कनद्यादौ जललाभाय क्रियमाणगर्तनाम ॥ ९ ॥
मल्लि-नाथः - AK.01.12.009
निषद्वरस्तु—कर्दमौ । पङ्कनामानि ॥ जलोच्छ्वासाः परीवाहाः । तटाकान्ते प्रवृद्धजलनिर्गमाय कृतमार्गनामनी । ʻचरुवुमरव्ö । ʻपूरोत्पीडे तटाकस्य परिवाह प्रतिक्रिया’ इत्युत्तररामचरिते (३। २९) । कूपकास्तु विदारकाः । शुष्कनद्यादौ जल्लाभाय क्रियमाणगर्तनामनी । भाषया ʻचलमलु’ । अनुक्तम्—ʻअवतारो घट्टस्तीर्थम् । जलावतरणनामानि । ʻनिल्लिरेवु’ ॥ ९ ॥
[[०१.१६२]]
(०१.१२.०१०च्द्) नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥
मूलम् - ०१.१२.०११
(०१.१२.०११अब्) उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः ।
लिङ्ग-सूरी - AK.01.12.010
नाव्यमिति—नावा तार्यं नाव्यम् । नौतार्यजलनाम ॥ नुद्यते इति नौः । ʻणुद प्रेरणे । नयतीति वा । ʻणीञ् प्रापणे । तरत्यनया नदीं तरणिः । तरिश्च । ʻतॄ प्लवनतरणयोः’ । तरणी तरिरिति वा पाठः । नौनामानि ॥ ऊर्ध्वमुप्यते उडुपम् । ʻडुवप् बीजतन्तुसन्ताने । उडवः आपः ताभ्यो रक्षति पातीत्युडुपम् । ʻपा रक्षणे । प्लवन्तेऽनेनेति प्लवः । ʻप्लुङ् गतौ जलोपरि सर्पणे च्ö । कोलति संस्त्यायतीति कोलः । ʻकुल संस्त्याने बन्धुषु च्ö । तृणप्लवनामानि ॥ स्वतः स्रवतीति स्रोतः । ʻस्रु गतौ’ । अकृत्रिमाम्बुसरणनाम ॥ १० ॥
मल्लि-नाथः - AK.01.12.010
नाव्यं—नौतार्ये । नावा तर्तुं योग्यं नाव्यं स्यात् । स्त्रियां—तरिः । नावो नामानि ॥ स्त्रियामिति जातिविशेषणम् । इयं नौरियं तरणिः, इयं तरिरियमङ्गिनी ॥ अनुक्तम्—ʻयानपात्रं प्रवहणं वोहित्थं च वहित्रकम् । यानपात्रनामानि ॥ उडुपं—कोलः । तृणप्लवनामानि । ʻतेप्प्ö ॥ अनुक्तम्—ʻतरण्डश्चर्मपात्रादि । जलतरणाय कल्पितवर्तुलचर्मपात्रादिस्तरण्डः स्यात् । ʻआरोह्योऽसौ तरण्डकः’ इति वैजयन्ती (पृ। १५५, श्लो। १६) । स्रोतो—स्वतः । स्वतोऽम्बुसरणं प्रवाहः । तत् स्रोतः स्यात् । ʻओघः प्रवाहो वेणी च धारा स्रोतो रयः स्मृतः’ इति हलायुधः (अ। मा। ३। ४७) ॥ १० ॥
(०१.१२.०११च्द्) आतरस्तरपण्यं स्याद् द्रोणी काष्ठाम्बुवाहिनी ॥ ११ ॥
मूलम् - ०१.१२.१२
(०१.१२.१२अब्) सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः ।
लिङ्ग-सूरी - AK.01.12.011
आतर इति—आतरन्त्यनेनेति आतरः । ʻतॄ प्लवनतरणयोः’ । आवाप इति वा पाठः । आ समन्तादुप्यते आवापः । ʻडुवप् बीजसन्ताने । तरस्य तरणस्य पण्यं मूल्यं तरपण्यम् । नदीतरणाय नाविकदेयमूल्यनामनी ॥ द्रवत्यस्यां जलमिति द्रोणी । ʻद्रु गतौ’ । काष्ठपाषाणादिनिर्मिताम्बुवाहिनीनाम ॥ समुदितानां यात्रा संयात्रा द्वीपान्तरगमनाम् । सा प्रयोजनमस्य सांयात्रिकः । पोते वणिक् पोतवणिक् । वहित्रवणिङ्नाम ॥ कर्णम् अरित्रं धारयतीति कर्णधारः। ʻधृञ् धारणे । नावा तरतीति नाविकः । ʻतॄ प्लवनतरणयोः’ । नौतारयितृनामनी ॥ ११ ॥
मल्लि-नाथः - AK.01.12.011
आतरस्तरपण्यं स्यात् । तरपण्यं तरणमूल्यम् तदातरः स्यात् । द्रोणी काष्ठाम्बुवाहिनी । द्रोणीनामनी ॥ ʻदोनि । काष्ठाम्बुवाहिनीति करिकलभसदृशप्रयोगः । ʻदोणी स्यादम्बुवाहिन्यां द्रवभाण्डे गिरिप्लवे इति वैजयन्ती (पृ। २२१, श्लो। १८) । सांयात्रिकः पोतवणिक् । सांयात्रिक इति वहित्रव्यवहारिणो नाम । वहित्रमिति पाषाणादि(?)निर्मितयानपात्रविशेषः । तरिव्यवहारी च भवति । ʻतरीषु तत्रत्यमफल्गुभाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् इति माघप्रयोगात् (शिशु। ३। ७६) । कर्णधारस्तु नाविकः । तरणितारयितृनामनी ॥ ११ ॥
[[०१.१६३]]
(०१.१२.०१२च्द्) नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ १२ ॥
मूलम् - ०१.१२.०१३
(०१.१२.०१३अब्) नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः ।
लिङ्ग-सूरी - AK.01.12.012
नियामका इति—नियच्छन्ति पोतं नियामकाः । ʻयम उपरमे पोतं वहन्तीति पोतवाहाः । ʻवह प्रापणे । पोतवाहनामनी ॥ कूपप्रतिकृतित्वात् कूपकः । गुणेन रज्ज्वा बद्धो वृक्षः गुणवृक्षकः । पोतमध्यस्थपताकास्तम्भनामनी ॥ नौकायाः प्रेरणदण्डो नौकादण्डः । क्षिप्यते नौरनयेति क्षेपणी, क्षेपणिर्वा । ʻक्षिप प्रेरणे । नौप्रेरणदण्डनामनी ॥ ऋच्छति नौरनेनेत्यरित्रम् । ʻऋ गतिप्रापणयोः’ । के जले नावो निपात्यन्तेऽनेनेति केनिपातकः । ʻपत्लृ गतौ’ । नौप्रवर्तकदर्वीनामनी ॥ १२ ॥
मल्लि-नाथः - AK.01.12.012
नियामकाः पोतवाहाः। वहित्रतारयितृनामनी ॥ कूपको गुणवृक्षकः। गुणेन बद्धपोतमध्यगतस्तम्भनामनी ॥ नौकादण्डः क्षेपणी स्यात् । नौकाप्रेरकदण्डः क्षेपणी स्यात् । अरित्रं केनिपातकः । नौदर्विनामनी ॥ १२ ॥
[[०१.१६४]]
अक्।०१.१२.०१३च्द् अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ॥ १३ ॥
मूलम् - ०१.१२.०१४
अक्।०१.१२.०१४अब् यानपात्रं तु पोतोऽब्धिभवे त्रिषु समुद्रियम् ।
अक्।०१.१२.०१४च्द् क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु ॥ १४ ॥
लिङ्ग-सूरी - AK.01.12.013-14
अभ्रिरिति—अभ्रयति पोते लवणादिकं पातयतीति अभ्रिः । ʻअभ्र गतौ’ । काष्ठनिर्मितः कुद्दालः काष्ठकुद्दालः । लवणादिखननकाष्ठकुद्दालनामनी ॥ सेकाय पात्रं सेकपात्रम् । सिच्यतेऽनेन नौकाजलमिति सेचनम् । ʻषिच क्षरणे । पोतरन्ध्रप्रविष्टजलस्य बहिःसेचनाय नियोजितदारुपात्रनामनी ॥ यानाय पात्रं यानपात्रम् । पूयते कालक्रमेणेति पोतः । ʻपूयी विशरणे । वहित्रनामनी ॥ समुद्रे भवं समुद्रियम् । त्रिषु । कथं समुद्रिया आपः, समुद्रियं लवणं, समुद्रियस्तरङ्ग इत्यादि । अब्धिभवमुक्तादिनाम ॥ नावोऽर्धम् अर्धनावम् । नावोऽर्धनाम ॥ अतीता नौर्येन अतिनु । नावमतिक्रान्तमिति वा । अतीतनौकजलादिनाम ॥ १३-१४ ॥
मल्लि-नाथः - AK.01.12.013-14
अभ्रिः—काष्ठकुद्दालः । दारुमयकुद्दालोऽभ्रिः स्यात् । अभ्रिपुरन्ध्रिशौरिशरारितन्द्रिवल्लरिवलिगालिशष्कुलिहलिधूलिशब्दा ह्रस्वान्ता दीर्घान्ताश्च भवन्तीत्यरुणदत्तलिङ्गानुशासने सम्यक् प्रतिपादितम् ॥ सेकपात्रं—सेचनम् । जलसेकबोक्काणः सेचनं स्यात् । ʻपोतरन्ध्रप्रविष्टजलस्य बहिःसेचनाय निर्मितदारुपात्रनाम्ö इति वदन्ति । तदसत् । ʻचर्मपात्रं तु बोक्काणः’ इति वामनलिङ्गानुशासनवचनात् । यानपात्रं तु पोतः । वहित्रनामनी ॥ अब्धिभवे—समुद्रियम् । अब्धौ समुद्रे भवं समुद्रियं स्यात् । तच्च त्रिलिङ्गम् । क्लीबे—अर्धे । नावोऽर्धेऽर्धनावं स्यात् । अर्धनावमर्धनावीति हि स्त्रिनपुंसकयोर्दृश्यत इति शाकटायनः (२। १। १६७) ॥ अतीतनौके—त्रिषु । नावमतिक्रान्तमतिनु स्यात् । ʻह्रस्वो नपुंसके प्रादिपदिकस्य्ö (१। २। ४७) इति ह्रस्वः । ʻस्त्रीपुंसयोस्तु अतिनौ’ ॥ १३-१४ ॥
मूलम् - ०१.१२.०१५
अक्।०१.१२.०१५अब् त्रिष्वागाधात् प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः ।
अक्।०१.१२.०१५च्द् निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये ॥ १५ ॥
[[०१.१६५]]
अक्।०१.१२.०१६अब् अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ।
लिङ्ग-सूरी - AK.01.12.015
त्रिष्विति—वक्ष्यमाणागाधपर्यन्ताः शब्दाः त्रिषु वर्तन्ते । प्रसीदतीति प्रसन्नः । ʻषद्लृ विशरणगत्यवसादनेषु’ । न छाद्यते दृष्टिरित्यच्छः । ʻछद अपवारणे । निर्मलनामनी ॥ कं जलं लुनातीति कलुषम् । ʻलञ् छेदने । कं लुषति हिनस्तीति ʻवा । ʻलुष हिंसायम् । न अच्छः अनच्छः । आविलतीत्याविलः । ʻविल संवरणे । अनिर्मलनामानि ॥ खननाय नितरां मनतीति निम्नः । ʻम्ना अभ्यासे । गमनेन भियं रातीति गभीरं गम्भीरं च । रा दाने । गां भुवं भियमीरयतीति वा । ʻईर प्रेरणे । अत्यर्थनिम्ननामानि ॥ उत् ऊर्ध्वं तन्यते उत्तानम् । ʻतनु विस्तारे । निम्नविपर्ययनाम ॥ न गाधम् अगाधम् । नास्ति गाधः प्रतिष्ठा अस्येति वा । ʻगाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च्ö । न विद्यते तलस्पर्शोऽत्र अतलस्पर्शः । अगाधनामनी ॥ के जले वर्तन्ते इति केवर्ताः मत्स्यादयः, तेषामयं हन्ता कैवर्तः । ʻवृतु वर्तने । विक्रयेण मत्स्यान् दाशति दाशः । ʻदाशृ दाने । दाश्नोति मत्स्यानिति वा । ʻदाशृ हिंसायाम् । धत्ते मत्स्यानिति धीवरः । ʻडुधाञ् धारणपषणयोः’ । ध्यायति मत्स्यानिति वा । ʻध्यै चिन्तायाम् । जालिकनामानि ॥ १५ ॥
मल्लि-नाथः - AK.01.12.015
त्रिष्वागाधात् । अगाधशब्दावधि ते त्रिलिङ्गाः त्रिष्विति पुनर्ग्रहणात् । प्रसन्नोऽच्छः । निर्मलनामनी । ʻतेट्ö । कलुषो—आविलः । अनिर्मलनामानि । ʻकलङ्कुट्ö । निम्नं—गम्भीरम् । अत्यर्थनिम्ननामानि ॥ उत्तानं तद्विपर्यये । निम्नविपर्ययनाम ॥ अगाधमतलस्पर्शः । तलस्पर्शविहीननाम ॥ कैवर्ते—धीवरौ । जालिकनामानि ॥ ʻशाल ॥ ॥ दाशपुरीशे —इत्यूष्मभेदपाठात् तालव्यः । ʻकैवर्तभृत्ययोर्दासो दासी बाणा च चेटिका’ इति रुद्राभिधानकोशपाठाद् दन्त्यः ॥ १५ ॥
अक्।०१.१२.०१६च्द् आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ॥ १६ ॥
मूलम् - ०१.१२.०१७
अक्।०१.१२.०१७अब् मत्स्यधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम् ।
लिङ्ग-सूरी - AK.01.12.016
आनाय इति—आनीयन्ते मत्स्या अनेनेति आनायः । ʻणीञ् प्रापणे । जालवत् गवाक्षवत् तिष्ठतीति जालम् । जले क्षिप्यत इति वा । जालनामनी ॥ शणमयं सूत्रं शणसूत्रम् । निमज्जनेन जलं पुनातीति पवित्रकम् । निर्मत्स्यत्वेन वा । ʻपूञ् पवने । जालरज्जुनामनी ॥ मत्स्या धीयन्तेऽत्रेति मत्स्यधानी । कुत्सितं वेणन्ते मत्स्या अत्र कुवेणी । ʻवेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु’ । मत्स्यकरण्डिकानामनी ॥ बलिनो मत्स्यान् श्यतीति बडिशम् । ʻशो तनूकरणे । मत्स्या विध्यन्ते येन तत् मत्स्यवेधनम् । ʻव्यध ताडने । मत्स्यगलग्राहकसामिषवक्रायोमययन्त्रनामनी ॥ १६ ॥
मल्लि-नाथः - AK.01.12.016
आनायः—जालं स्यात् । जालनामनी । ʻवल्ö । शणसूत्रं पवित्रकम् । जालादिरज्जुनामनी । ʻसन्नपुत्रादु’ । मत्स्यधानी—स्यात् । मीनकरण्डिकानामनी । ʻमीनबुट्टि । बडिशं मत्स्यबन्धनम् । मत्स्यग्राहकायोयन्त्रनामनी । ʻगालमु’ ।
ʻअजानन् दाहात्म्यं पततु शलभस्तीव्रदहने
स मीनोऽप्यज्ञानाद् बडिशयुतमश्नातु पिशितम् ।
इति भर्तृहरिः (वै। श। १८) ।
ʻबडिशक्रोडपाटलम् ।
तारकं रसनं नीडमेते टाबन्तकाः स्त्रियाम् ॥
इति त्रिकाण्डशेषपाठाद् (पृ। ३८, श्लो। १०४७-८) बडिशेत्यपि स्यात् ॥ १६ ॥
[[०१.१६६]]
अक्।०१.१२.०१७च्द् पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ॥ १७ ॥
मूलम् - ०१.१२.०१८
अक्।०१.१२.०१८अब् विसारः शकली चाथ गडकः शकलार्भकः ।
लिङ्ग-सूरी - AK.01.12.017
पृथुरोमेति—पृथूनि रोमाणि मुखदेशे यस्य सः पृथुरोमा । बालमत्स्यान् झषतीति झषः । ʻझष हिंसायाम् । माद्यति मांसजिघृक्षया मुह्यतीति मत्स्यः । ʻमदि हर्षग्लपनयोः’ । मीयते धीवरेण मीनः । ʻमीञ् हिंसायाम् । मिनोति क्षिपति जलमिति वा । ʻडुमिञ् प्रक्षेपणे । विसरतीति विसारी । ʻसृ गतौ’ । विसारी एव वैसारिणः । अण्डाज्जायत इत्यण्डजः । ʻजी प्रादुर्भावे । विचित्रं सरतीति विसारः । शकलं शल्यमस्यास्तीति शकली । शकुलीति वा पाठः । शकुल इति वा । शक्यते ग्रहीतुं शकुलः । ʻशक्लृ शक्तौ’ । मत्स्यनामानि ॥ गडति पुच्छाच्छोटनात् गडकः । ʻगड सेचने । शकलार्भकनाम ॥ १७ ॥
मल्लि-नाथः - AK.01.12.017
पृथुरोमा—मत्स्यः । मच्छोऽप्यत्रेति सुभूतिवचनान्मच्छोऽप्यस्ति । मीनो वैसारिणोऽण्डजः । विसार्येव वैसारिण इति व्युत्पत्तिः । विसारः शकली च । ʻशकली शल्की च विज्ञेयः’ इति हलायुधपाठात् (अ। मा। ३। ३५) शल्कीत्यपि स्यात् । मीननामानि ॥ ʻषडक्षीणोऽप्सुचकम आत्माशी जलपिप्पलः’ । एतानि च । अथ गडकः शकुलार्भकः । अधिकपुच्छमीननामनी । भाषया ʻकुच्चुलमीनु’ ॥ १७ ॥
[[०१.१६७]]
अक्।०१.१२.०१८च्द् सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ ॥ १८ ॥
मूलम् - ०१.१२.०१९
अक्।०१.१२.०१९अब् नडमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः ।
लिङ्ग-सूरी - AK.01.12.018
सहस्रदंष्ट्र इति—बहुदंष्ट्रत्वात् सहस्रदंष्ट्रः । भक्ष्यतया सास्त्रेषु पठ्यत इति पाठीनः । ʻपठ व्यक्तायां वाचि । पाठयति स्वजातीयविरुद्धमिति वा । पाटीन इति पाठे पाटयतीति । ʻपट भेदने । बहुदंष्ट्रमत्स्यनामनी ॥ उत् ऊर्ध्वं लुम्पति भ्रमतीति उलूपी । ʻलुप्लृ छेदने । उ सविस्मयं लुप्यति पङ्कजादिकमिति वा । ʻलुप विमोहने । शिशुरिव शिशुकः । शिशुवच्चपलमत्स्यनामनी ॥ नडाख्यतृणे मीनः नडमीनः । चीयते लीयते चिलिचिमः । ʻचिञ् चयने । ʻलीङ् श्लेषणे । तृणसञ्चारिमत्स्यनामनी ॥ प्रोषति पित्तादिकमिति प्रोष्ठी । ʻउष प्लुष दाहे । शफान् गतिसाधनावयवान् रिणाति पीडयतीति शफरी । ʻरी गतिरेषणयोः’ । पित्तघ्नमत्स्यनामनी ॥ १८ ॥
मल्लि-नाथः - AK.01.12.018
सहस्रदंष्ट्रः पाठीनः । बहुदंष्ट्रमीननामनी । ʻबेडिशमीनु’ । उलूपी—समौ । शिशुवच्चपलमत्स्यनामनी । ʻससियलु’ ॥ नडमीनश्चिलिचिमः । वृश्चिकाकारमत्स्यनामनी । ʻतेलुमीनु’ । प्रोष्ठी—द्वयोः । पित्तघ्नमीननामनी ॥ १८ ॥
[[०१.१६८]]
अक्।०१.१२.०१९च्द् क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो झषाः ॥ १९ ॥
मूलम् - ०१.१२.०२०
अक्।०१.१२.०२०अब् रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः ।
अक्।०१.१२.०२०च्द् तिमिङ्गिलादयश्चाथ यादांसि जलजन्तवः ॥ २० ॥
लिङ्ग-सूरी - AK.01.019-20
क्षुद्रेति—क्षुद्राणामपरिमितपरिमाणानां मत्स्यानामण्डाज्जाताः, तेषां मत्स्यानां सङ्घातः क्षुद्राण्डमत्स्यसङ्घातः । पोता मत्स्यपोता आधीयन्तेऽस्मिन्निति पोताधानम् । ʻडुधाञ् धारणपोषणयोः’ । मत्स्यपोतसमूहनामनी ॥ रोहितवर्णत्वात् रोहितः । जले मज्जतीति मद्गुरः । ʻटुमस्जो शुद्धौ’ । शलति शीघ्रं गच्छतीति शालः । ʻशल चल आशुगमने । राज्यः रेखा अस्य सन्तीति राजीवः । शक्नोति गन्तुं शकुलः । ʻशक्लृ शक्तौ’ । तिम्यतीति तिमिः । ʻतिम आर्द्रीभावे । तिमिं गिलतीति तिमिङ्गिलः । ʻगॄ निगरणे । एवमादीनि झषभेदनामानि ॥ यान्तीति यादांसि । ʻया प्रापणे । यतन्ते हन्तुं मत्स्यानिति वा । ʻयती प्रयत्ने । जले विद्यमाना जन्तवः जलजन्तवः । क्रूरजलजन्तुनाम ॥ १९-२० ॥
मल्लि-नाथः - AK.01.12.019-20
क्षुद्राण्ड—पोताधानम् । मत्स्यसमूहनामानि ॥ अथो झषः—तिमिङ्गिलादयश्च । ʻमकरो मत्स्यराड् झषः’ इति वैजयन्ती (पृ। १५२, श्लो। ५१) । झषादयः पृथक्पृथङ्भत्स्याः । अथ यादांसि जलजन्तवः । क्रूरजलजन्तवो यादांसीत्युच्यन्ते । ʻअन्तर्जलचरं सत्त्वं क्रूरं यादोऽभिधीयते इति हलायुधः (अ। मा। ३। ३४) ॥ १९-२० ॥
[[०१.१६९]]
मूलम् - ०१.१२.०२१
अक्।०१.१२.०२१अब् तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ।
अक्।०१.१२.०२१च्द् स्यात् कुलीरः कर्कटकः कूर्मे कमठकच्छपौ ॥ २१ ॥
लिङ्ग-सूरी - AK.01.12.021
तद्भेदा इति—शिशून् मारयतीति शिशुमारः। ʻमृङ् प्राणत्यागे । उनक्तीत्युद्रः । ʻउन्दी क्लेदने । शङ्कतेऽस्मात् लोकः शङ्कुः । ʻशकि शङ्कायाम् । मायां करोतीति मकरः । ʻडुकृञ् करणे । प्राणिकबलने मुखं किरतीति वा । ʻकॄ विक्षेपे । आदिशब्देन जलहस्तिग्राहादयः । एवमादीनि यादोभेदनामानि ॥ कौ भूमौ लीयत इति कुलीरः । ʻलीङ् श्लेषणे । कुलीः परलोकाय ईरयतीति वा । ʻईर प्रेरणे । कृणाति जननीं कर्कटकः । ʻकॄ हिंसायाम् । कर्कटनामनी ॥ कुत्सितः ऊर्मिः वेगोऽस्य कूर्मः । कं जलम् ऊर्वति प्राणिभक्षणायेति वा । ʻऊर्वी हिंसायाम् । के जले मठतीति कमठः । ʻमठ मदनिवासयोः’ । यज्ञार्थं काम्यत इति वा । ʻकमु कान्तौ’ । कच्छेन पुच्छेन पिबतीति कच्छपः । ʻपा पाने । कच्छमनूपदेशं पाति क्षुद्रजन्तुभक्षणेनेति वा । ʻपा रक्षणे । कूर्मनामानि ॥ २१ ॥
मल्लि-नाथः - AK.01.12.021
तद्भेदाः—मकरादयः ।
ʻशङ्कुः कच्छपसंस्थानः शिंशुमारोऽम्बुमर्कटः ।
उद्रः स्याज्जलमार्जार आलभ्यश्चाम्बुसूकरः ॥
शिंशुमारादयश्च पूर्वोक्तमकरादयश्च यादोभेदाः । स्यात्—कर्कटकः । कुलीरनामनी । आन्ध्रभाषया ʻयन्द्रिकाय्ö । ʻपृष्ठचक्षुर्द्विधागतिः’ । एते द्वे च । कूर्मे—कच्छपौ । कूर्मनामानि । ʻपञ्चगूढश्चतुर्गतिः’ । एते द्वे च ॥ २१ ॥
मूलम् - ०१.१२.०२२
अक्।०१.१२.०२२अब् ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता ।
अक्।०१.१२.०२२च्द् गण्डूपदः किञ्चुलको निहाका गोधिका समे ॥ २२ ॥
अक्।०१.१२.०२३अब् रक्तपा तु जलूकायां स्त्रियां भूम्नि जलौकसः ।
लिङ्ग-सूरी - AK.01.12.022
ग्राह इति—गृह्णाति न मुञ्चति प्राणिन इति ग्राहः । ʻग्रह उपादाने । अवहरतीत्यवहारः । ʻहृञ् हरणे । अवराह इति वा पाठः । तत्पक्षे अवरहयति स्थलभूमिमिति अवराहः । ʻरह त्यागे । तुरङ्गमास्यमत्स्यनामनी ॥ न क्रामति अतिदूरमिति नक्रः । ʻक्रमु पादविक्षेपे । कुम्भिनो गजानीरयतीति कुम्भीरः । ʻईर क्षेपे । गजादिकर्षनक्रनामनी ॥ मह्यां लतेव तिष्ठतीति महीलता । गण्ड्वः शरीरग्रन्थयः, त एव पदान्यस्य गण्डूपदः । मृदादि किञ्चित् लिञ्चित्वा चुलति अपनयतीति किञ्चुलुकः । ʻचुल संवरणे समुच्छ्राये च्ö । लताकारपाटलवर्णकृमिनामानि ॥ निजहाति जलं निहाका । ʻअहोक् त्यागे । गुध्यतीति गोधिका । ʻगुध परिवेष्टने । जलचरप्राणिविशेषनामनी ॥ रक्तं पिबतीति रक्तपा । ʻपा पाने । जलम् ओकः स्थानं यस्या जलूका । जलौकसश्च । जलूकानामानि ॥ २२ ॥
मल्लि-नाथः - AK.01.12.022
ग्राहोऽवहारः । घोटकमुखमीननामनी इति वदन्ति । तदसत् । उदकचरमण्डलिसर्पनामनी । ʻतन्तुनागस्तथा तन्तुर्नागो वरुणपाशकः’ । एतानि च ॥ नक्रस्तु कुम्भीरः । नक्रनामनी । ʻमोसलि । गजाकर्षणमत्स्यनामनी इति केचित् । तदज्ञान विजृम्भितम् । ʻगोमुखस्तालुजिह्वश्च्ö । एते द्वे च ॥ अथ महीलता—किञ्चुलुकः । लताकारपाटलवर्णकृमिनामानि । ʻयट्लु’ । निहाका—समे । गोधिकानामनी । ʻनीरुडुमु’ । रक्तपा तु—जलौकसः । जलूकानामानि । ʻजलौकः स्याज्जलूकायां जलौका जलजन्तुके । इति तारपालवचनात् जलौकापि स्यात् । ʻजलङ्ग्ö ॥ २२ ॥
[[०१.१७०]]
अक्।०१.१२.०२३च्द् मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात् कम्बुर् अस्त्रियौ ॥ २३ ॥
मूलम् - ०१.१२.०२४
अक्।०१.१२.०२४अब् क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ।
लिङ्ग-सूरी - AK.01.12.023
मुक्तास्फोट इति—मुक्ताः स्फुटन्ति यतः मुक्तास्फोटः । ʻस्फुट विकसने । मुक्ता यतः शोकन्तीति शुक्तिः । ʻशुक गतौ’ । शुक्तिनामनी ॥ शं सुखं खनति जनयतीति शङ्खः । ʻखनु अवदारणे । शमयति दुःखं जनानामिति वा । ʻशमु उपशमे । काम्यते मङ्गलार्थिनेति कम्बुः । ʻकमु कान्तौ’ । शङ्खनामनी ॥ क्षुद्राश्च ते शङ्खाश्च क्षुद्रशङ्खाः । शङ्खा नखा इव शङ्खनखाः । शङ्खवन्न विद्यते खम् अवकाशोऽस्येति वा । नद्यादौ विद्यमानक्षुद्रशङ्खनामनी ॥ शं वान्तीति शम्बूकाः । ʻवा गतिगन्धनयोः’ । शाम्यति दुःखमिति वा । जले विद्यमानाः शुक्तयः जलशुक्तयः । जलशुक्तिनामनी ॥ २३ ॥
मल्लि-नाथः - AK.01.12.023
मुक्तास्फोटः—शुक्तिः । शुक्तिनामनी ॥ शङ्खः—अस्त्रियाम् । शङ्खनामनी । अस्त्रीशब्द उभयविशेषणम् । ʻशङ्खो निधौ ललाटास्थ्नि कम्बौ न स्त्री इति नानार्थशास्त्रे (३। ३। १८) स्वयमेव वक्ष्यति । अनुक्तम्—ʻशम्फा तु शङ्खनिस्वानः’ । शङ्खध्वनिः शम्फा स्यात् । ʻशङ्खपात्रं तु पाटली । शङ्खपात्रं पाटली स्यात् । क्षुद्रशङ्खाः—जलशुक्तयः । जलशुक्तिनामानि । ʻनत्तगुल्ललु’ । शम्बूकशब्दः शङ्खशब्दसाहचर्यात् पुंलिङ्गः । ʻशम्बूकः शम्बुको ज्ञेयः शाम्बूकोऽपि च पण्डितः’ इति तारपालः । जलशुक्तिसाहचर्यात् स्त्रीलिङ्गोऽपि ।
ʻसिन्धोरुच्चैः पवनवलनादुच्चलद्भिस्तरङ्गै-
स्तीरं नीतो हतविधिवशाद् दक्षिणावर्तशङ्खः ।
दग्धः किं वा भवति मनसीवेति सन्देहिनीभिः
शम्बूकाभिः सह परिचयान्नीयते पामरीभिः ॥
इति ॥ २३ ॥
[[०१.१७१]]
अक्।०१.१२.०२४च्द् भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः ॥ २४ ॥
मूलम् - ०१.१२.०२५
अक्।०१.१२.०२५अब् शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ।
लिङ्ग-सूरी - AK.01.12.024
भेक इति—विभेति सर्पात् भेकः । ʻञिभी भये । मण्डति शोभते तटाकादौ मण्डूकः । ʻमडि भूषायाम् । वर्षासु भवतीति वर्षाभूः । ʻभू सत्तायाम् । शलति उत्प्लुत्य गच्छतीति शालूरः । ʻशल गतौ’ । प्लवते प्लवः । ʻप्लुङ् गतौ जलोपरि सर्पणे च्ö । शब्दैः कर्णौ दृणातीति दर्दुरः । ʻदृ विदारणे । भेकनामानि ॥ शिनोति श्यतीति वा शिली । ʻशिञ् निशाने । ʻशो तनूकरणे । शिलति मृदमिति वा । ʻशिल उञ्छे । गण्डूपदस्य स्त्री गण्डूपदी । भेकस्य स्त्री भेकी । वर्षाभ्वाः स्त्री वर्षाभ्वी । कमठस्य स्त्री कमठी । डोलयति जलमिति डुलिः । ʻडुल उत्क्षेपणे । कमठजातिस्त्रीनामनी ॥ २४ ॥
मल्लि-नाथः - AK.01.12.024
भेके—दर्दुराः । मण्डूकनामानि । ʻस्यात् केन्दुकः प्रावृषिजः स्त्री तु कूपेपिशाचिका’ । एते च । शिली गण्डूपदी । गण्डूपदस्त्रीनामनी ॥ भेकी वर्षाभ्वी । भेकस्त्रीनामनी । ʻवर्षाभ्वश्च्ö इति यणादेशः । ʻदृन्पुनःकरवर्षाभिर्भुवः’ इति शाकटायनशास्त्रे (१। २। ३९) करभूशब्दस्यापि यञादेशः ॥ कमठी डुलिः । कमठस्त्रीनामनी ॥ २४ ॥
[[०१.१७२]]
अक्।०१.१२.०२५च्द् मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका ॥ २५ ॥
मूलम् - ०१.१२.०२६
अक्।०१.१२.०२६अब् जलाशयो जलाधारस्तत्रागाधजलो ह्रदः ।
लिङ्ग-सूरी - AK.01.12.025
मद्गुरस्येति—शृणातीति शृङ्गी । ʻशॄ हिंसायाम् । मद्गुरमत्स्यभार्यानाम ॥ दुष्टं नाम यस्या दुर्नामा । ʻणमु प्रह्वत्वे शब्दे च्ö । आकारान्तः । दीर्घकोशातक्याकारत्वात् दीर्घकोशिका । हस्तिजलूकानामनी ॥ जलमाशेतेऽत्र जलाशयः । ʻशीङ् स्वप्ने । जलस्याधारो जलाधारः । साधारणजलस्थाननामनी ॥ कल्लोलैरव्यक्तं ह्रादतेऽत्रेति ह्रदः । ʻह्राद अव्यक्ते शब्दे । अगाधं जलं यत्र सः अगाधजलः । अगाधजलाशयनाम ॥ २५ ॥
मल्लि-नाथः - AK.01.12.025
मद्गुरस्य—शृङ्गी । मद्गुरस्य स्त्री शृङ्गी स्यात् । सर्पशफरीनाम । ʻपामुमीनु’ । ʻशृङ्गी तु सर्पशफरी इति वैजयन्ती (पृ। १५१, श्लो। ४४) ॥ दुर्नामा दीर्घकोशिका । गजजलूकानामनी । ʻयेरुचिप्प्ö । सुभूतिटीकायामस्य ङीप् डाप् प्रतिषेधाभ्यां त्रैरूप्यं दर्शितं दुर्नाम्नीं दुर्नामां दुर्नामानमिति ॥ जलाशयो जलाधारः । साधा-
पगे १७३ इस् लेफ़्त्।
[[०१.१७४]]
लिङ्ग-सूरी - AK.01.12.027
अवदारणे । कृत्रिमजलाशयनामनी ॥ न खन्यत इत्यखातम् । देवैः खन्यत इति देवखातकम् । अकृत्रिमजलाशयनामनी ॥ २७ ॥
मल्लि-नाथः - AK.01.12.027
नेमिस्त्रिकास्य । कूपस्य नेमिस्त्रिका स्यात् । ʻत्रिका कूपस्य नेमौ स्त्री पृष्ठवंशाधरे त्रिकम् इति रभसकोशः । वंशत्रयेण रज्जुधारणार्थं कूपापरिकल्पिततोरणयन्त्रनामनी । ʻगिरक्ö ॥ पीनाहो—यत् । शिलादिकल्पितकूपमुखबन्धननाम । ʻबावियोनरिकट्टु’ ॥ पुष्करिण्यां—स्यात् । कृत्रिमजलाशयनाम ॥ अखातं देवखातके । ʻअखातो देवखातके इति पुंस्काण्डे अमरदत्तः । देवनिर्मितजलाशयनाम ॥ ʻदोने ॥ २७ ॥
अक्।०१.१२.०२८च्द् पद्माकरस्तटाकोऽस्त्री कासारः सरसी सरः ॥ २८ ॥
मूलम् - ०१.१२.०२९
अक्।०१.१२.०२९अब् वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ।
लिङ्ग-सूरी - AK.01.12.028
पद्माकर इति—पद्मानामाकरः पद्माकरः । तटानि अकति कुटिलं यथा भवति तथा प्राप्नोतीति तटाकः । ʻअक अग कुटिलायां गतौ’ । प्रवाहेण तटानि ताडयतीति वा तडागः । ʻतड आघाते । पद्माकरनामनी ॥ कम् उदकमासरत्यत्रेति कासारः । ʻसृ गतौ’ । नड्वलाम्बुत्वात् कासनं कुत्सनमियर्तीति वा । ʻऋ गतौ’ । कासत इति वा । ʻकासृ शब्दे । सरति प्रवहतीति सरसी । सरश्च । सान्तोऽयम् । ʻसृ गतौ’ । नड्वलवर्तिमहाजलाशयनामानि ॥ विशन्ति महिषादयोऽस्मिन्निति वेशन्तः । ʻविश प्रवेशने । पलन्ति महिषादयोऽत्रेति पल्वलम् । ʻपल गतौ’ । अल्पं च तत् सरश्च अल्पसरः । अल्पसरोनामानि ॥ उप्यते पद्मादिकमस्यामिति वापी । ʻडुवप् वीजतन्तुसन्ताने । दीर्घैव दीर्घिका । दीर्घचतुरश्रतया खातजलाशयनामनी ॥ २८ ॥
मल्लि-नाथः - AK.01.12.028
पद्माकरः—अस्त्री । तडाग इति क्वचित् पाठः । ʻपथि पथिकदृशां दत्तरागस्तडागः’ इति धर्मशर्णाभ्युदयः ॥ कासारः—सरः । सरोनामनी । पद्माकरशब्दो रूढो यौगिकश्च । तेन पद्मशून्यमपि सरः पद्माकरः स्यात् ॥ वेशन्तः—चाल्पसरः । अल्पसरोनामानि ॥ वापी—दीर्घिका । दीर्घचतुरश्रतया निखातजलाशयनामनी । ʻकेलाकूलि ॥ २८ ॥
[[०१.१७५]]
अक्।०१.१२.०२९च्द् खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ॥ २९ ॥
मूलम् - ०१.१२.०३०
अक्।०१.१२.०३०अब् स्यादालवालमावालमावापोऽथ नदी सरित् ।
अक्।०१.१२.०३०च्द् तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी ॥ ३० ॥
अक्।०१.१२.०३१अब् स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा ।
(कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती)
लिङ्ग-सूरी - AK.01.12.029-30
खेयमिति—खन्यत इति खेयम् । ʻखनु अवदारणे । परितः खन्यत इति परिखा । दुर्गवेष्टनखनिकानामनी ॥ आध्रियन्त आपोऽत्र आधारः । ʻधृञ् धारणे । अम्भोधारणगर्तनाम ॥ आलूयते खन्यतेऽत्रीति आलवालम् । ʻलूञ् छेदने । आवलतेऽम्भोऽत्रेति आवालम् । ʻवल संवरणे सञ्चरणे च्ö । आ समन्तादुप्यन्तेऽम्भांस्यत्रेति आवापः । ʻडुवप् बीजतन्तुसन्ताने । सेकार्थं तरुं परितः कृतजलाधारनामानि ॥ नदति जलवेगेनेति नदी । ʻणद अव्यक्ते शब्दे । सरतीति सरित् । ʻसृ गतौ’ । तरङ्गा अस्यां सन्तीति तरङ्गिणी । शैवलमस्यामस्तीति शैवलिनी । तटमस्या अस्तीति तटिनी । ह्रादोऽव्यक्तशब्दोऽस्यामस्तीति ह्रादिनी । ह्रादुनीति वा पाठः । धुनोति पापमिति धुनी । ʻधूञ् कम्पने । स्रोतोऽस्यास्तीति स्रोतस्विनी । द्वीपानि सन्त्यस्यामिति द्वीपवती । स्रवति गिरिभ्य इति स्रवन्ती । ʻस्र गतौ’ । निम्नं गच्छतीति निम्नगा । ʻगम्लृ गतौ’ । अपां वेगः आपम् । तेन गच्छतीत्यापगा । अपां समूहः आपम् । तेन गच्छतीति वा । नदीनामानि ॥ २९-३० ॥
मल्लि-नाथः - AK.01.12.029-30
खेयं—परिखा । सालपरिवेष्टनखातिकानामनी । ʻअगडिते । खातिकेति प्रौढप्रयोगः । ʻयज्जेतुमेतामिव खातिकाम्भशछायाच्छलात् क्रामति नागलोकम् । इति धर्मशर्माभ्युदयः (१। ६२) ॥ आधारः—धारणम् । यस्मिन् कस्मिन् देशे शाल्यादिसस्यसंवर्धनायोदकं प्रतिबद्धं स आधारः स्यात् । ʻसेतु’ ʻकत्तुव्ö ॥ स्यादालवालम्—आवापः । वृक्षलतादेर्जलसेचनार्थं निबद्धसेतुनामानि । ʻचेट्ल पादुकुचेसिन कुदुरु’ । आधारशब्दोऽत्रापि सम्पद्यते । ʻआधारबन्धप्रमुखैः प्रयत्नैःसंवर्धितानां सुतनिर्विशेषम् इति रघुवंशे (५। ६) । अथ नदी—आपगा । आपं समुद्रं गच्छतीत्यापगेति व्युत्पत्त्या आपशब्दः समुद्रपर्यायः । नदीनामानि ॥ अनुक्तम्—
ʻकूलङ्कषा निर्झरिणी रोधोवक्त्रा पयस्विनी ।
स्रोतोवहा च ह्रदिनी ॥
एतीनि च ॥ २९-३० ॥
[[०१.१७६]]
अक्।०१.१२.०३१च्द् गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ॥ ३१ ॥
मूलम् - ०१.१२.०३२
अक्।०१.१२.०३२अब् भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ।
लिङ्ग-सूरी - AK.01.12.031
गङ्गेति—हरशिरसः गां भुवं गता गङ्गा । हरिचरणात् भूमिं गता वा । विष्णुपदोत्था विष्णुपदी । जह्नोस्तनया जह्नुतनया । जाह्नवी च । सुराणां निम्नगा सुरनिम्नगा । भगीरथस्यापत्यं, तस्येयमिति वा भागीरथी । त्रयाणां पथां समाहारस्त्रिपथम् । तेन गच्छतीति त्रिपथगा । त्रीणि स्रोतांसि यस्याः सा त्रिस्रोताः । भीष्मं सूयते भीष्मसूः । ʻषूङ् प्राणिप्रसवे । गङ्गानामानि ॥ ३१ ॥
मल्लि-नाथः - AK.01.12.031
गङ्गा—भीष्मसूरपि । गङ्गानामानि । ʻघर्मद्रवी हैमवती त्रिमार्गा हरशेखरा’ । एतानि च ॥ ३१ ॥
अक्।०१.१२.०३२च्द् कालिन्दी सूर्यतनया यमुना शमनस्वसा ॥ ३२ ॥
मूलम् - ०१.१२.०३३
अक्।०१.१२.०३३अब् रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका ।
लिङ्ग-सूरी - AK.01.12.032
कालिन्दीति—कलिन्दपर्वतोद्भवा कालिन्दी । सूर्यस्य तनया सूर्यतनया । यमेन यमलजा यमुना । शमनस्य यमस्य स्वसा शमनस्वसा । यमुनानामानि ॥ रेवते विन्ध्याद्रौ रेवा । ʻरेवृ गतौ’ । नर्म केलिं ददातीति नर्मदा । ʻडुदाञ् दाने । सोम उद्भवो यस्याः सा सोमोद्भवा । सोमवंशजेन पुरूरवसा भुवं प्रत्यवतारिता वा । मेखलाद्रेः कन्यका, उद्भवत्वात्, मेखलकन्यका । नर्मदानामानि ॥ ३२ ॥
मल्लि-नाथः - AK.01.12.032
कालिन्दी—शमनस्वसा । यमुनानामानि ॥ रेवा तु—मेखलकन्यका । नर्मदानामानि ॥ ३२ ॥
[[०१.१७७]]
अक्।०१.१२.०३३च्द् करतोया सदानीरा बाहुदा सैतवाहिनी ॥ ३३ ॥
मूलम् - ०१.१२.०३४
अक्।०१.१२.०३४अब् शतद्रुस्तु शुतुद्रिः स्याद् विपाशा तु विपाट् स्त्रियाम् ।
लिङ्ग-सूरी - AK.01.12.033
करतोयेति—ईश्वरस्य करतोयाज्जाता करतोया । सदा नीरमस्यामिति सदानीरा । गौरीप्रदाने शर्वकरजलजातनदीनामनी ॥ बाहुबलं ददातीति बाहुदा । बहुदेन कार्तवीर्येणावतारितत्वाद् वा । सितमम्बु वहतीति सितवाहिनी । सितवाहिन्येव सैतवाहिनी । कार्तवीर्यावतारितनदीनामनी ॥ पुत्रशोकार्तं शिलां बध्वा प्रविष्टं वसिष्ठं दृष्ट्वा भयात् शतधा द्रवतीति शतद्रुः । शु शोभनं यथा पापं तुदतीति शुतुद्रिः । ʻतुद व्यथने । पुत्रशोकाकुलवसिष्ठप्रविष्टनदीनामनी ॥ विगताः पाशा यत्र विपाशा । विपाट् च । विपाशानदीनामनी ॥ ३३ ॥
मल्लि-नाथः - AK.01.12.033
करतोया सदानीरा । करतोयाख्यनदीनामनी ॥ बाहुदा सैतवाहिनी । प्रज्ञादित्वादण् (५। ४। ३८) । बाहुदाख्यनदीनामनी ॥ शतद्रुस्तु शुतुद्रिः स्यात् शतद्रुनदीनामनी ॥ विपाशा तु—स्त्रियाम् । विपाशाख्यनदीनामनी ॥ ३३ ॥
[[०१.१७८]]
अक्।०१.१२.०३४च्द् शोणो हिरण्यवाहः स्यात् कुल्याल्पा कृत्रिमा सरित् ॥ ३४ ॥
मूलम् - ०१.१२.०३५
अक्।०१.१२.०३५अब् शरावती वेत्रवती चन्द्रभागा सरस्वती ।
अक्।०१.१२.०३५च्द् कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः ॥ ३५ ॥
लिङ्ग-सूरी - AK.01.12.034-35
शोण इति—शोणतीति शोणः । ʻशोणृ वर्णगत्योः’ । हिरण्य वहतीति हिरण्यवाहः । ʻवह प्रापणे । शोणनदनामनी ॥ कुल्यते कुल्या । ʻकुल संस्त्याने बन्धुषु च्ö । नदीमातृकक्षेत्रसेकाय अल्पकृत्रिमसरिन्नाम ॥ शराः तृणविशेषा अत्र सन्तीति शरावती । वेत्रा वेणुवलयाः सन्त्यस्यामिति वेत्रवती । चन्द्रभागाभ्यां गिरिभ्यां जाता चन्द्रभागा । चन्द्रेण भागतो न्यस्ता वा । सरांस्यत्र सन्तीति सरस्वती । सरसि प्रवहतीति वा । कवेराद्रेर्जाता कावेरी । कवेरस्य राज्ञोऽपत्यं स्त्रीति वा । एतानि प्रत्येकं नदीविशेषनामानि ॥ अन्याश्च कृष्णवेण्यादयः सरितः सन्ति । ग्रन्थकारेणात्र ग्रन्थविस्तरभयान्नोक्ताः ॥ सम्भिद्यन्ते सङ्गच्छन्ते सरितोऽत्र परस्परमिति सम्भेदः । ʻभिदिर् विदारणे । सिन्ध्वोः सङ्गमः सिन्धुसङ्गमः । अनेकसिन्धुसङ्गमनाम ॥ ३४-५ ॥
मल्लि-नाथः - AK.01.12.034-35
शोणो—स्यात् । शोणनदीनामनी ॥ कुल्या—सरित् । कृतकाल्पनदी कुल्या स्यात् । ʻकालुव्ö ॥ शरावती वेत्रवती चन्द्रभागा । अस्य सुभूतिटीकायां चातूरूप्यमभिहितम् । चन्द्रभागा, चन्द्रभागी, चान्द्रभागा, चान्द्रभागीति ॥ सरस्वती—अन्याश्च । शरावत्यादयः पञ्च । तुङ्गभद्रा गोदावरी कृष्णवेण्यादयोऽन्याश्च नद्यः ॥ सम्भेदः सिन्धुसङ्गमः । नदीसङ्गमनाम ॥ ३४-३५ ॥
मूलम् - ०१.१२.०३६
अक्।०१.१२.०३६अब् द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ।
अक्।०१.१२.०३६च्द् देविकायां सरय्वां च भवे दाविकसारवौ ॥ ३६ ॥
अक्।०१.१२.०३७अब् सौगन्धिकं तु कह्लारं हल्लकं रक्तसन्ध्यकम् ।
लिङ्ग-सूरी - AK.01.12.036
द्वयोरिति—प्रणलत्यम्भोऽनया प्रणाली । ʻणल गतौ’ । प्रणाल इति वा पाठः । प्रासादादौ निर्मितजलमार्गनाम ॥ उत्तरे पदे त्रिषु वर्तेते । देविकायां भवः दाविकः । सरय्वां भवः सारवः । देविकासरयूद्भववस्तुनः क्रमेण नामनी ॥ शोभनः गन्धः प्रयोजनमस्य सौगन्धिकम् । के जले ह्लादते कह्लारम् । ʻह्लादी सुखेऽव्यक्ते शब्दे च्ö । ईषद्रक्तवर्णपरिमलवहुलोत्पलनामनी ॥ हल्लति भ्रमरोऽत्रेति हल्लकम् । ʻहल्ल भ्रमणे । रक्तं सन्ध्यावत् रक्तसन्ध्यकम् । रक्तोत्पलनामनी ॥ ३६ ॥
मल्लि-नाथः - AK.01.12.036
द्वयोः—पदव्याम् । हर्म्यादेः प्रवहत्सलिलवर्त्मनाम । द्वयोरित्यनेनाल्पानल्पविभागाल्लिङ्गविभागः प्रणाली प्रणाल इति ॥ त्रिषु—दाविकसारवे । देविकानदीविशेषे भवं दाविकं स्यात् । सरयूनदीविशेषे भवं सारवं स्यात् । तदुभयं त्रिलिङ्गम् ॥ अनुक्तम्—ʻसमुद्रियं स्यादप्यं च समुद्रेऽप्सु भवे क्रमात् । समुद्रे भवं समुद्रियम् । अप्सु भवमप्यम् ॥ त्रिषु तूत्तरे इत्यनेन त्रिलिङ्गौ ॥ सौगन्धिकं—रक्तसन्ध्यकम् । अल्परक्तपरिमलाधिकोत्पलनामानि ॥ भाषया ʻचेङ्गलुव्ö ॥ ३६ ॥
[[०१.१७९]]
अक्।०१.१२.०३७च्द् स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च ॥ ३७ ॥
मूलम् - ०१.१२.०३८
अक्।०१.१२.०३८अब् इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरवे ।
लिङ्ग-सूरी - AK.01.12.037
स्यादिति—उद् ऊर्ध्वं पलति गच्छतीति उत्पलम् । ʻपल गतौ’ । कौ वलत इति कुवलयम् । ʻवल संवरणे । कुत्सितो वलयो पत्रसंवेष्टनमत्रेति वा । इन्दतीति इन्दी लक्ष्मीः । ʻइदि परमेश्वर्ये । तया व्रियत इति इन्दीवरम् । ʻवृञ् वरणे । पुष्पेषु इन्दतीति वा । नीलोत्पलनामनी ॥ कौ भूमौ मोदत इति कुमुदम् । ʻमुद हर्षे । के जले रौतीति केरवः हंसः । तस्येदं प्रियमिति कैरवम् । सितोत्पलनामनी ॥ ३७ ॥
मल्लि-नाथः - AK.01.12.037
स्यादुत्पलं कुवलयम् । उत्पलमात्रनामनी । ʻकलुव्ö ॥ ʻकुवेलं कुवलं च लत् । एते द्वे च ॥ अथ नीलाम्बुजन्म—नीलेऽस्मिन् । नीलोत्पलनामनी ॥ ʻदोलाभमपि कन्दोट्टम् । एते द्वे च ॥ सिते—कैरवे । सितोत्पलनामनी ॥ अनुक्तम्—ʻरक्तेऽस्मिन् रक्तमण्डलम् । अतिरक्तोत्पलनाम ॥ ३७ ॥
[[०१.१८०]]
अक्।०१.१२.०३८च्द् शालूकमेषां कन्दः स्याद् वारिपर्णी तु कुम्भिका ॥ ३८ ॥
मूलम् - ०१.१२.०३९
अक्।०१.१२.०३९अब् जलनीली तु शैवालं शैवलोऽथ कुमुद्वती ।
अक्।०१.१२.०३९च्द् कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः ॥ ३९ ॥
लिङ्ग-सूरी - AK.01.12.038-39
शालूकमिति—शलत इति शालूकम् । ʻशल चलनसंवरणे । उत्पलादिकन्दनाम ॥ वारि पिपर्ति आच्छादयतीति वारिपर्णी । ʻपॄ पालनपूरणयोः’ । वारिणि पर्णान्यस्या इति वा । वारि कुम्भयतीति कुम्भिका । ʻकुभि आच्छादने । कुम्भिक इति वा पाठः । जलोपरिस्थितलतारूपशाकनामनी ॥ जले नीली जलनीली । जले शेते शैवालम् । शैवलं च । ʻशीङ् स्वप्ने । शैवलनामानि ॥ कुमुदान्यस्याः सन्तीति कुमुद्वती । कुमुदिनी च । कुमुद्वद्दीर्घिकानामनी ॥ नलमस्यामस्तीति नलिनी । बिसमस्यामस्तीति बिसिनी । एवं पद्मिन्यादीनि कुमुदिनीवत् ॥ ३८-९ ॥
मल्लि-नाथः - AK.01.12.038-39
शालूकम्—कन्दः स्यात् । सौगन्धिकादीनां कन्दः शालूकं स्यात् ॥ वारिपर्णी—कुम्भिका । तोये पर्यस्तलतारूपशैवलनामनी । ʻअन्तर्वजल्लि ॥ जलनीली—शैवलः । शैवालनामानि । शेवालमित्यप्यस्ति । ʻशेवालमपि शैवालं जलशूकश्च नीलिका’ इति हलयुधः (अ। मा। ३। ६१) । शिफालमिति शैवलविशेषः । ʻशिफालं शैवलं यद्धि चूर्णाभं लोहितं जले इति वैजयन्ती (पृ। १५३, श्लो। ४९) ॥ अथ—कुमुदिन्याम् । कुमुदस्तम्बनाम ॥ नलिन्यां—पद्मिनीमुखाः । पद्मस्तम्बनामानि । पद्मवत्सरोनामान्यपि भवन्ति । ʻबिसिनीपद्मिनीत्याद्याः पद्मस्तम्बे सरस्यपि इति वैजयन्ती (पृ। १५३, श्लो। ४३) ॥ ३८-९ ॥
[[०१.१८१]]
मूलम् - ०१.१२.०४०
अक्।०१.१२.०४०अब् वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ।
अक्।०१.१२.०४०च्द् सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ॥ ४० ॥
अक्।०१.१२.०४१अब् पङ्केरुहं तामरसं सारसं सरसीरुहम् ।
अक्।०१.१२.०४१च्द् बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ॥ ४१ ॥
लिङ्ग-सूरी - AK.01.12.040-41
वा पुंसीति—पद्यतेऽत्र लक्ष्मीरिति पद्मम् । ʻपद्लृ गतौ’ । नल्यते बध्यते चन्द्रेणेति नलिनम् । ʻणल बन्धने । अरान् केसरान् विन्दतीति अरविन्दम् । ʻविद्लृ लाभे । महच्च तदुत्पलं च महोत्पलम् । सहस्रं पत्राणि यस्य तत् सहस्रपत्रम् । केन जलेन मल्यत इति कमलम् । ʻमल धारणे । शतं पत्राणि यस्य तत् शतपत्रम् । कुशे जले शेत इति कुशेशयम् । ʻशीङ् स्वप्ने । पङ्के रोहतीति पङ्केरुहम् । ʻरुह बीजजन्मनि प्रादुर्भावे च्ö । ताम्यति रसति चेति तामरसम् । ʻतमु ग्लानौ’, ʻरस आस्वादने । ताम्यद्भिः रस्यत इति वा । सरसि भवं सारसम् । सरस्यां रोहतीति सरसीरुहम् । बिसस्य प्रसूनं बिसप्रसूनम् । राज्योऽस्य सन्तीति राजीवम् । पुष्णातीति पुष्करम् । ʻपुष पुष्टौ’ । अम्भसि रोहतीति अम्भोरुहम् । पद्मनामानि ॥ ४०-१ ॥
मल्लि-नाथः - AK.01.12.040-41
वा पुंसि—अम्भोरुहाणि च । पद्मनामानि । ʻसरसिजमप्सुजमब्जं सरोजमिन्दीवरं बिसजम् । एतानि च ॥ ४०-१ ॥
मूलम् - ०१.१२.०४२
अक्।०१.१२.०४२अब् पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ।
अक्।०१.१२.०४२च्द् रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् ॥ ४२ ॥
अक्।०१.१२.०४३अब् मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम् ।
लिङ्ग-सूरी - AK.01.12.042
पुण्डरीकमिति—पुणति मङ्गलत्वात् पुण्डरीकम् । ʻपुण कर्मणि शुभे । सितं च तदम्भोजं च सिताम्भोजम् । सितपद्मनामनी ॥ रक्तं च तत् सरोरुहं च रक्तसरोरुहम् । रक्तं च तदुत्पलं च रक्तोत्पलम् । कोकाः चक्रवाका नदन्त्यस्मिन्निति कोकनदम् । रक्तपद्मस्य रक्तोत्पलस्य च नामानि ॥ नल्यते बध्यते पुष्पेणेति नालः । नालं च । ʻणल बन्धने । पद्मादिदण्डाकारवृन्तनामनी ॥ मृण्यते भक्ष्यत इति मृणालम् । ʻमृण तर्षणे, ʻमृण हिंसायां इति वा धातुः । बिस्यन्ते उत्सृज्यन्ते तन्तवोऽत्र भक्षणसमय इति बिसम् । ʻबिस उत्सर्गे । पद्मकन्दोपरिस्थितभक्ष्यनामनी ॥ भ्रमरेभ्यो रसं सनोतीति षण्डः । ʻषणु दाने । अब्जादिसमूहनाम ॥ ४२ ॥
मल्लि-नाथः - AK.01.12.042
पुण्डरीकं सिताम्भोजम् । सितारविन्दनामनी ॥ अथ—कोकनदम् । शोणाम्बुजनामानि ॥ ʻकन्दादं खरदण्डं च बिसखण्डं च तद्भवेत् । इत्येतानि च ॥ नालो नलम् । कमलनालो नलमित्युच्यते ।
ʻस्तनतापशून्यमवनम्रनलं बिसपत्रमत्र कुसुमास्तरणे ।
किमुतोज्झितान्यमनसा विगुणी सुरयोषिता विरहवल्लरिका ॥
इति राघवपाण्डवीये (द्विसं। १२। १८) ॥ अथास्त्रियां—बिसम् । तामरसमूलनामनी । ʻतामेरपेल्लु’ ॥ अब्जादिकदम्बे—अस्त्रियाम् । अब्जादिकदम्बं षण्डः स्यात् । अब्जषण्डः, कुमुदषण्डः । ʻषण्डः स्याद्विट्चरेऽब्जादिकदम्बे षण्डमस्त्रियाम् इति रुद्राभिधानकोशान्मूर्धन्यादिः । ʻशडि रुजायां सङ्घाते च्ö । शण्डत इति शण्डः । पद्मशण्डः—इति धातुप्रदीपात् तालव्यादिः ॥ ४२ ॥
[[०१.१८२]]
अक्।०१.१२.०४३च्द् करहाटः शिफा कन्दः किञ्जल्कः केसरोऽस्त्रियाम् ॥ ४३ ॥
संवर्तिका नवदलं बीजकोशो वराटकः ।
इति वारिवर्गः
लिङ्ग-सूरी - AK.01.12.043
करहाट इति—कं जलम् उपरिवर्तनाद् रहयन्तीति करहाः पद्मादयः । ʻरह त्यागे । तानि प्रतिदिनम् अभिवृत्याटतीति करहाटः । ʻअट पट गतौ’ । करं घ्नन्तीति करहाः मीनाः, तैरट्यते प्राप्यत इति वा । शिनोति क्ष्मां शिफा । ʻशिञ् निशातने । कन्दति भक्षणार्थं मत्स्यादिरिति कन्दः । ʻकदि आह्वाने रोदने च्ö । पद्मादिमूलनामानि ॥ किञ्चित् जलति जडीभवतीति किञ्जल्कः । ʻजल घातने । के जले सरतीति केसरः । ʻसृ गतौ’ । केसरनामनी ॥ संवर्तयति वेष्टयतीति संवर्तिका । ʻवत वर्तने । नवोत्पन्नं दलं नवदलम् । नवदलनामनी ॥ बीजानां पद्माक्षाणां कोशः आकरो बीजकोशः । वरं श्रेष्ठं पद्ममटतीति वराटकः । ʻअट रट गतौ’ । बीजकोशनामनी ॥ ४३ ॥
इति अमरकोशपदविवृतौ वारिवर्गः
मल्लि-नाथः - AK.01.12.043
करहाटः—कन्दः । पद्मादिमूलनामानि । ʻदानिगद्द्ö । किञ्जल्कः—अस्त्रियाम । केसरनामनी । अब्जादिकदम्बे षण्डमस्त्रियामिति विशेषविधिरव्जमात्रविषयः । ʻअभूदलिविलासिनीलुलितकेसरं केसरम् इत प्रपञ्चयन्ति ॥ संवर्तिका नवदलम् । पद्मनूतनदलं संवर्तिका स्यात् ॥ बीजकोशो वराटकः । पद्मबीजकोशो वराटकः स्यात् ॥ ४३ ॥
इति वारिवर्गः
[[०१.१८३]]
काण्डसमाप्तिः
मूलम् - ०१.१२.०४४
अक्।०१.१२.०४४अब् उक्तं स्वर्व्योमदिक्कालधीवाक्छब्दादि नाट्यकम् ।
अक्।०१.१२.०४४च्द् पातालभोगिनरकं वारि चैषां च सङ्गतम् ॥ ४४ ॥
अक्।०१.१२.०४५अब् इत्यमरसिंहकृतौ नामलिङ्गानुशासने ।
अक्।०१.१२.०४५च्द् स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः ॥ ४५ ॥
इति श्रीमदमरसिंहकृते नामलिङ्गानुशासने प्रथमकाण्डः
लिङ्ग-सूरी - AK.01.12.044-45
अथ काण्डसमाप्तिं चिकीर्षुः अमरसूरिः एतत्काण्डोक्तवर्गान् सङ्क्षेपेणाह—उक्तमिति । स्वः स्वर्गः व्योम आकाशः दिशश्च कालश्च वाचश्च शब्दादिश्च । आदिना रसगन्धादिः गृह्यते । नाट्यकं तत्सम्बन्धि गीतवाद्यादिकमुच्यते । पातालभोगिनरकं वारि च । द्वन्द्वैकवद्भावः । उक्तमित्यनेनान्ययः । एषां यत्सङ्गतं स्वर्गे देवतादि। दिशि दिग्गजादि, काले उपरागादि, धीसङ्गतं विचारादि, वाचि श्रुत्यादि, शब्दे उदात्तादि, नाट्ये भ्रकुंसादि, पाताले कुहरादि, भोगिनि कञ्चुकादि। नरके पीडाबाधादि, वारिणि नौकापद्मोत्पलादि, एतत् सर्वमुक्तमस्मिन् काण्डे इत्यर्थः ॥ ४४-४५ ॥
इति वङ्गलभट्टोपाध्यायसूरिसुतलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ प्रथमकाण्डः समाप्तः
मल्लि-नाथः - AK.01.12.044-45
उक्तं—समर्थितः ॥ ४४-४५ ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते प्रथमकाण्डः
श्रीवत्सान्वयमान्येन मल्लिनाथेन निर्मिते ।
व्याख्यानेऽमरसिंहस्य प्रथमः काण्ड उम्भितः ॥
चकोरैरत्यन्तं परिदलितशालीनकिरणः
प्रकुप्यद्राहूद्यद्विषशिखिशिखाशोषिततनुः ।
पुरारातेर्भूषा कुवलयविकासेन किमभू-
न्ममाप्येष ग्रन्थो भवति जगदानन्दजनकः ॥
[[०२.१८५]]