११ नरकवर्गः

मूलम् - ०१.११.००१

(०१.११.००१अब्) स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।
(०१.११.००१च्द्) तद्भेदास्तपनावीचिमहारौरवरौरवाः ॥ १ ॥
(०१.११.००२अब्) संहारः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः ।
(०१.११.००२च्द्) प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः ॥ २ ॥

लिङ्ग-सूरी - AK.01.11.001-2

स्यान्नारक इति—नारं नरसमूहं कायत्यस्मिन्निति नारकः । नरकश्च । ʻकै शब्दे । निर्गतोऽयः दैवमस्मादिति निरयः । दुष्टा गतिरिति दुर्गतिः । नरकनामानि ॥ तप्यन्ते पापिनोऽत्र तपनः । ʻतप सन्तापे । अव्यन्ते रक्ष्यन्तेऽस्माद् अवीचिः । नास्ति वीचिः सुखस्य स्वल्पोऽप्यत्रेति वा । ʻअव रक्षणे । अव्यन्ते खाद्यन्तेऽस्मिन्निति वा । स्त्रीपुंसयोः । रुः दुःखं, तस्य रवोऽत्रेति रौरवः । महांश्चासौ रौरवश्च महारौरवः । संह्रियन्ते पापिनोऽस्मिन्निति संहारः । ʻहृञ् हरणे । सङ्घात इति वा पाठे ʻहन हिंसागत्यो । कालानि अयोमयानि सूत्राण्यस्मिन्निति कालसूत्रम् । एवमादीनि नरकभेदनामानि ॥ आद्यशब्देन तामिस्रान्धतामिस्रासिपत्रवनादयः उच्यन्ते । सत्त्वाः प्राणिनः । नरके विद्यमानाः नारकाः । प्रकर्षेण नरकमिताः प्रेताः । ʻइण् गतौ’ । नकरलम्बन्धिप्राणिनाम ॥ विगतं तरणं यत्र वितरणम् । वितरणे नरके भवा वैतरणी । विगता तरणिः नौरत्रेति वितरणिः । वितरणिरेव वैतरणी । विगतः तरणिः सूर्योऽत्रेति वितरणिः पातालः, तस्मिन् भवा वा । नरकसिन्धुनाम ॥ न लक्ष्यते अलक्ष्मीः । ʻलक्ष दर्शनाङ्गनयोः’ । लक्ष्मीर्न भवतीति वा । ऋतेः सन्मार्गात् निष्क्रान्ता निरृतिः । अभाग्यनामानि ॥ १-२ ॥

[[०१.१५४]]

मूलम् - ०१.११.००३

(०१.११.००३अब्) विष्टिराजूः कारणा तु यातना तीव्रवेदना ।
(०१.११.००३च्द्) पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ॥ ३ ॥
स्यात् कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् ।

इति नरकवर्गः

लिङ्ग-सूरी - AK.01.11.003

विष्टिरिति—विशति नरकमनया विष्टिः । ʻविश प्रवेशने । आजवते यया नरकम् आजूः । आ समन्तात् अज्यते वा । ʻअज गतिक्षेपणयोः’ । नरके हठात् प्रक्षेपनामनी ॥ कृणातीति कारणा । ʻकॄ हिंसायाम् । याति नाशमनयेति यातना । ʻया प्रापणे । यातयतीति वा । ʻयत नाराकारोपस्कारयोः’ । तीव्रवेदनानाम ॥ पीड्यतेऽनयेति पीडा । ʻपीड अवगाहने । बाध्यते यया बाधा । ʻबाधृ विलोडने । व्यथ्यन्तेऽनयेति व्यथा । ʻव्यथ भयसञ्चलनयोः’ । दुष्टानि खानीन्द्रियाण्यस्मिन्निति दुःखम् । दुःखमात्रनामानि ॥ अमनसो भवम् आमनस्यम् । मानसे साधु मानस्यं, तन्न भवतीत्यामनस्यम् । प्रसूतेर्जातं प्रसूतिजम् । दुःखविशेषनामानि ॥ कषति हिंसयतीति कष्टम् । ʻकष हिंसायाम् । कृणत्ति वेष्टयतीति कृच्छ्रम् । ʻकृती वेष्टने । आ समन्तात् भियं लातीति आभीलम् । ʻला दाने । शरीरपीडानामानि ॥ पाडाद्याभीलान्तानि नामानि दुःखवाचकानीति केचित् । त्रिष्वेषां भेद्यगामि यत् । एषां शब्दानां दुःखादीनां मध्ये यद् भेद्यगामि विशेष्यगामि तत् त्रिषु; कष्टा सेवा, कष्टो भृत्यभावः, कष्टं व्याकरणमिति ॥ ३ ॥

इत्यमरसोशपदविवृतौ नरकवर्गः

मल्लि-नाथः - AK.01.11.003

विष्टिराजूः । कर्मनरकनामनी । भाषया ʻवेट्टु’ । स्त्रीलिङ्गमध्यपाठात् स्त्रीलिङ्गौ । ʻत्रिषु कर्मकरे विष्टिस्त्र्याजूर्वेतनकर्मसु’ इति रुद्रः ॥ कारणा—तीव्रवेदना । अत्यन्तदुःखनामानि ॥ पीडा—दुःखम् । दुःखनामानि ॥ बाधा चाबाधेति चात्र रूपद्वयं सम्भाव्यम् । ʻबाधा दुःखनिषेधयोः’ इति वैजयन्ती (पृ। २२२, श्लो। २५) । ʻआबाधा वेदना दुःखम् इति हलायुधः (अ। मा। ३। ४) । अत्रापि दुःखं दुष्खमिति रूपद्वयस्य सम्भावना । ʻकान्तो नयनानन्दो बाले दुःखेन भवति सदा’ इति रुद्रटालङ्कारे (५। २८) बिन्दुच्युतकत्वाद्विसर्गश्रुतिः । ʻपुष्पभूषणविषाणघोषणादुष्खदुष्कृतवरीषु पुष्करम् इति ऊष्मभेदपाठात् षकारश्रुतिः । आमनस्यं प्रसूतिजम् । प्रसवसञ्जातदुःखमामनस्यं स्यात् । स्यात् कष्टं—आभीलम् । कष्टनामानि ॥ त्रिष्वेषां—यत् । कष्टादयस्त्रयो यदा भेद्यगामिनस्तदा त्रिलिङ्गाः । कष्टा सेवा । कष्टः प्रसवः । कष्टं विषभक्षणम् । अन्यथा नपुंसकलिङ्गा एव । कष्टेनातिक्रान्तो नरकः ॥ ३ ॥

इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते नरकवर्गः

[[०१.१५६]]