मूलम् - ०१.१०.००
(०१.१०.००१ब्) नागाः काद्रवेयास्तदीश्वरः ।
(०१.१०.००१च्द्) शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे ॥ १ ॥
(०१.१०.००२अब्) तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ ।
लिङ्ग-सूरी - AK.01.10.001
नागा इति—पद्भ्यां नाङ्गन्ति गच्छन्तीति नागाः । ʻअगि गतौ’ । कद्रोरपत्यानि पुमांसः काग्रवेयाः । देवयोनिसर्पनामनी ॥ शेते हरिरस्मिन्निति शेषः । अन्तकालेऽपि शिष्यत इति वा । ʻशिष असर्वोपयोगे । न विद्यतेऽन्तो यस्य सः अनन्तः । देवयोनिसर्पेश्वरनामनी ॥ वसति पाताल इति वासुकिः । ʻवस निवासे । वसुकस्यापत्यं वा । सर्पाणां राजा सर्पराजः । देवयोनिसर्पराजनामनी ॥ गोरिव नासा यस्य सः गोनसः । तिलति स्निह्यतीति तिलित्सः । ʻतिल स्नोहने । तिलिङ्ग इति पाठे ʻतिल गतौ’ । अजं मेषं गिरतीति अजगरः । ʻगॄ निगरणे । अजो नित्यो गरो विषं यस्येति वा । शेते अत्यर्थमिति शयुः । ʻशीङ् स्वप्ने । वाहं गमनं स्यतीति वाहसः । ʻषोऽन्तकर्मणि । वाहयति प्राणिनः आत्मवशं नयतीति वा । ʻपेनुपामु पेरु’ ॥ १ ॥
मल्लि-नाथः - AK.01.10.001
नागाः । वक्ष्यमाणनाम । काद्रवेयास्तदीश्वराः । तन्नायकाः काद्रवेयाः स्युः । शेषवासुकिप्रभृतयः कद्रुपुत्राः ।
ʻकाद्रवेया इमे ज्ञेयाः शेषवासुकितक्षकाः
ऐरावतो महापद्मः कम्भलाश्वतरावुभौ ॥
एलापुत्रश्च गर्गश्च कर्कोटकधनञ्जयौ ।
महानीलमहाकण्ठौ धृतराष्ट्रबलाहकौ ॥
दुर्मुखः खररोमा च मणिरित्येवमादयः ॥
इति ॥ शेषोऽनन्तः । शेषनामनी । वासुकिस्तु सर्पराजः । वासुकिनाम ॥ अथ गोनसे—स्यात् । गोनासशब्दोऽप्यस्ति । ʻभवेत् तिलित्सो गोनासः’ इति हलायुधः (अ। मा। ३। २०) । भाषया ʻमण्डलमुन्नु’ । ʻचिलिम्ö । कर्णाटभाषया मण्डलनाम ॥ अजगरे—इत्युभौ । अजगरनामनी । ʻपेनुपामु’ ॥ १ ॥
[[०१.१४९]]
(०१.१०.००२च्द्) अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ ॥ २ ॥
मूलम् - ०१.१०.००३
(०१.१०.००३अब्) मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः ।
लिङ्ग-सूरी - AK.01.10.002
अलगर्द इति—अलं गिरति भेकानिति अलगर्दः । ʻगॄ निगरणे । अरश्चासौ गर्दश्चेत्यरगर्दः । रलयोरभेदात् । अलिगर्द इति वा पाठः । अलिवद्गर्दतीति अलिगर्दः । ʻगर्द शब्दे । जले व्यालः जलव्यालः । जलस्थसर्पनामनी । ʻनीरुकट्टुपामुपेरु’ ॥ राजिं रेखां लातीति राजिलः । ʻला दाने आदाने च्ö । डुण्डतीति डुण्डुभः । ʻडुडि मज्जने । डुण्डु इति भेकशब्दानुकारेण भाषते वा । निर्विषमुखसर्पनामनी ॥ मालुरोषधिः धानं स्थानमस्य मालुधानः । मातुले धत्तूरे वर्तमानोऽहिः मातुलाहिः । अवान्तरसर्पभेदनामनी ॥ निर्मुक्तः कञ्चुको येन निर्मुक्तः । ʻमुच्लृ मोक्षणे । मुक्तकञ्चुकसर्पनाम ॥ २ ॥
मल्लि-नाथः - AK.01.10.002
अलगर्दो जलव्यालः । नीरसर्पनामनी ॥ भाषया ʻनीरुकट्टिपामु’ । अजगर्द इति क्वचित् पाठः । अलिगर्द इत्येके । अलगर्द इति केचिदिति सुभूतिटीकायां त्रेधा विकल्पितः पाठः । समौ—डुण्डुभौ । क्षीराकारनिर्विषद्विमुखसर्पनामनी । ʻराजिलः क्षीरकश्चाथ्ö इति वैजयन्ती (पृ। १४९, श्लो। २०) । मालुधानो मातुलाहिः । धत्तूरवृत्तिसर्पनामेति केचित् । ʻमुरुटपामु’ । ʻपोष्यमाणवनविनालमालुधाननकुललिशाजालिकादिभिरटविकुटुम्बिनां गृहेरुदितं वनग्रामं ददर्श्ö इति हर्षचरिताभ्युदयः । अनुक्तम्—ʻअहिरिणी तु द्विमुखी । द्विमुखसर्पनाम । ʻरेण्डुतललविषङ्गलपामु’ ॥ ʻसर्पराजस्तु सर्पभुक् । सर्पभक्षकसर्पनाम ॥ निर्मुक्तो—कञ्चुकः । परित्यक्तकञ्चुकसर्पनाम ॥ २ ॥
[[०१.१५०]]
(०१.१०.००३च्द्) सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ३ ॥
मूलम् - ०१.१०.००४
(०१.१०.००४अब्) आशीविषो विषधरश्चक्री व्यालः सरीसृपः ।
(०१.१०.००४च्द्) कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥ ४ ॥
(०१.१०.००५अब्) दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ।
(०१.१०.००५च्द्) उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ५ ॥
(लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ।
कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ।
अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ॥)
लिङ्ग-सूरी - AK.01.10.003-5
सर्प इति—सर्पतीति सर्पः । ʻसृप्लृ गतौ’ । पर्दत इति पृदाकुः । ʻपर्द कुत्सिते शब्दे । आखुग्रहणार्थं कुं भुवं प्रियते गच्छति वा पृदाकुः । परनिपातः । ʻपृङ् व्यायामे । भुजं कुटिलं गच्छतीति भुजगः । भुजङ्गः। भुजङ्गमश्च । ʻगम्लृ गतौ’ । भुजतीति भुजः । ʻभुज कौटिल्ये । भुजः सर्पदेहः, तेन गच्छतीति वा । अंहत इत्यहिः । ʻअहि गतौ’ । आशिषि दंष्ट्रायां विषमस्येति आशीविषः । विषस्य धरः विषधरः । चक्रं मण्डलाकारोऽस्यास्तीति चक्री । शिरसि चक्रयोगाद्वा । दष्टुं व्याडतीति व्यालः । डलयोरभेदात् । ʻअड उद्यमने । कुटिलं सर्पतीति सरीसृपः । ʻसृप्लृ गतौ’ । कुण्डलाकारं वपुरस्येति कुण्डली । गूढाः पादाः यस्य सः गूढपात् । चक्षुषी श्रवसी यस्य चक्षुःश्रवाः । काकस्येवोदरं यस्य काकोदरः । काको विषविशेषः उदरे यस्येति वा । फणोऽस्यास्तीति फणी । दर्वी फणैव करो यस्य दर्वीकरः । दर्व्या फणया कृणोति हिंसयतीति वा दर्वीकरः । ʻकृञ् हिंसायाम् । दीर्घं पृष्ठमस्येति दीर्घपृष्ठः । कुत्सितं दशतीति दन्दशूकः । ʻदंश दशने । बिले शेत इति बिलेशयः । ʻशीङ् स्वप्ने । उरसा गच्छतीति उरगः । ʻगम्लृ गतौ’ । पद्भ्यां न गच्छतीति पन्नगः । पन्नं पतितं यथा तथा गच्छतीति वा । भोगः सर्पशरीरं । तदस्यास्तीति भोगी । जिह्मं कुटिलं गच्छतीति जिह्मगः। पवनोऽशनं यस्य सः पवनाशनः । सर्पनामानि ॥ ३-५ ॥
मल्लि-नाथः - AK.01.10.003-5
सर्पः—पवनाशनः । अनुक्तम्—ʻकुम्भीनसः पुण्डरीको लेलिहानश्च कञ्चुकी । गोकर्णो नाकुसद्मा च्ö इत्येतानि च सर्पजातिनामानि ॥
ʻषड्विंशतिर्मण्डलिनस्तथा दर्विकराभिधाः ।
त्रयोदश च राजीला वैकरञ्जाभिधास्त्रयः ।
निर्विषा द्वादशेत्येवमशीतिः सर्पजातयः’ ॥ ३-५ ॥
[[०१.१५१]]
मूलम् - ०१.१०.००६
(०१.१०.००६अब्) त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः ।
(०१.१०.००६च्द्) समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् ॥ ६ ॥
लिङ्ग-सूरी - AK.01.10.006
त्रिष्विति—अहौ सर्पे भवम् आहेयम् । विषास्थ्यादिनाम ॥ स्फटतीति स्फटा । ʻस्फट विकसने । स्फुटति विशीर्यतेऽनया आहत इति स्फुटा वा । ʻस्फुट विशरणे । फणत्यनया फणा । ʻफण गतौ’ । दर्विनामनी ॥ कञ्चुक इव तिष्ठतीति कञ्चुकः । कञ्च्यते बध्यत इति कञ्चुकः । ʻकचि दीप्तिबन्धनयोः’ । निर्मुच्यत इति निर्मोकः । ʻमुच्लृ मोक्षणे । सर्पकञ्चुकनामनी ॥ क्ष्वेडत इति क्ष्वेडः । ʻञिक्ष्विदा स्नेहनमोचनयोः’ । अन्तः निगीर्यत इति गरलम् । गिरति जीवमिति वा । ʻगॄ निगरणे । देहं वेवेष्टीति विषम् । ʻविष्लृ व्याप्तौ’ । विषशब्दः पुंसि क्लीबे वा । विषनामानि ॥ ६ ॥
मल्लि-नाथः - AK.01.10.006
त्रिंषु—विषास्थ्यादि । अहेर्विषास्थ्यादि आहेयं स्यात् । तच्च त्रिलिङ्गम् । स्फटायां—द्वयोः । फणानामनी । ʻफटा दर्दिः खटेरुश्च्ö । एतानि त्रीणि च ॥ समौ—निर्मोकौ । सर्पकञ्चुकनामनी ॥ ʻसर्पाम्बरो निर्ल्वयनी । एते द्वे च । क्ष्वेडस्तु—विषम् । विषनामानि ॥ ६ ॥
[[०१.१५२]]
मूलम् - ०१.१०.००७
(०१.१०.००७अब्) पुंसि क्लीबे च काकोलकालकूटहलाहलाः ।
(०१.१०.००७च्द्) सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ ७ ॥
(०१.१०.००८अब्) दारदो वत्सनाभश्च विषभेदा अमी नव ।
(०१.१०.००८च्द्) विषवैद्यो जाङ्गलिकः व्यालग्राह्यहितुण्डिकः ॥ ८ ॥
इति भोगिवर्गः
लिङ्ग-सूरी - AK.10.01.007-8
पुंसीति—काकवत् मेचकः काकोलः । का ईषत् कोलति संस्त्यायतीति वा । ʻकुल संस्त्याने । कालवर्णस्य कूटः कालकूटः । कालं यममपि कूटयतीति वा । ʻकूट परिदाहे । हलति विलिखति जठरं न हलति च हलाहलः । ʻहल विलेखने । सुराष्ट्रदेशे भवः सौराष्ट्रिकः । शुक्लदेशे भवः शौक्लिकेयः । ब्रह्मणः पुत्रः ब्रह्मपुत्रः । प्रदीपयतीति प्रदीपनः । ʻदीपी दीप्तौ’ । दरददेशे भवः दारदः । दरदे नागविशेषे भवो वा । वत्सस्येव नाभिरस्य वत्सनाभः । अमूनि विषभेदनामानि ॥ जाङ्गलं विषविद्या । जाङ्गुलिर्जाङ्गुली वा । तां वेत्तीति जाङ्गलिकः, जाङ्गुलिको वा । विषवैद्यनाम ॥ अहितुण्डेन जीवतीति अहितुण्डिकः । व्यालग्राहिपुरुषनाम ॥ ७-८ ॥
इति अमलकोशपदविवृतौ भोगिवर्गः
मल्लि-नाथः - AK.01.10.007-8
पुंसि—नव । काकोलादये नव विषभेदाः । समानसामर्थ्यात् पुंसि क्लीबे वेति विशेषविधिः काकोलादिषु त्रिषेवेव । काकोलः, काकोलम् । कालकूटः, कालकूटम् । हलाहलः, हलाहलम् । ʻहालाहलं विषमिवाप्रगुणं तदेव्ö इति प्रयोगाद् हालाहलः । हालाहलम् । ʻहृदये हालहलं महद्विषम् इति प्रयोगाद् हालहलमित्यपि । अनुरक्तम्—ʻगरस्तु कृतकं विषम् । कृत्रिमविषं गरः स्यात् ॥ विषवैद्यो जाङ्गुलिकः । गारुडविद्याभिज्ञनामनी । जाङ्गुलिं जाङ्गुलं वा वेत्तीति व्युत्पत्तिद्वारेण । जाङ्गुलिर्विषमन्त्रः । जाङ्गुलो विषतन्त्रः ॥ व्यालग्राह्यहितुण्डिकः । ʻव्यालग्राहोऽहितुण्डिकः’ इति रत्नकोशनाममालिके । व्यालग्राहिपुरुषनामनी ॥ ७-८ ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते पातालभोगिवर्गः
[[०१.१५३]]