मूलम् - ०१.०९.००१
(०१.०९.००१अब्) अधोभुवनपातालं बलिसद्म रसातलम् ।
(०१.०९.००१च्द्) नागलोकोऽथ कुहरं सुषिरं विवरं बिलम् ॥ १ ॥
(०१.०९.००२अब्) छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा सुषिः ।
(०१.०९.००२च्द्) गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु ॥ २ ॥
लिङ्ग-सूरी - AK.01.09.001-2
अधोभुवनमिति—अधःस्थितं भुवनम् अधोभुवनम् । पतन्त्यस्मिन् पापादिति पातालम् । ʻपत्लृ गतौ’ । बले सद्म बलिसद्म । रसाया भूमेः तलमधोभागः रसातलम् । नागानां लोकः नागलोकः । पाताललोकनामानि ॥ प्राण्यादिकं कुत्सितं कृत्वा हरतीति कुहरम् । ʻहृञ् हरणे । तमसा कुहयते विस्मापयतीति वा । ʻकुह विस्मापने । सुष्ठु स्यति गतिमिति सुषिरम् । ʻषोऽन्तकर्मणि । विव्रियते विवरम् । ʻवृञ् वरणे । बिल्यते बिलम् । ʻबिल भेदने । छिद्यते छिद्रम् । ʻछिदिर् द्वैधीकरणे । निर्व्यथन्तेऽस्मात् निर्व्यर्थनम् । ʻव्यथ भयसञ्चलनयोः’ । रौति स्वगतप्राणिमुखेन शब्दायत इति रोकम् । रोचते प्रकाशते वा । ʻरु शब्दे ʻरुच दीप्तौ अभिप्रीतौ च्ö । गतिं रन्धयतीति रन्ध्रम् । ʻरध हिंसासंराध्योः’ । रणति वायुनेति वा । ʻरण शब्दे । शुभं परिहृत्य अभ्रति वर्तत इति श्वभ्रम् । ʻअभ्र गतौ’ । शोभनमभ्रमाकाशमस्मिन्निति वा । उप्यते क्षिप्यते पर्णादिकमस्यां वपा । ʻडुवप् बीजसन्ताने । प्रमादपतितान् सुष्ठु स्यति सुषिः । ʻषोऽन्तकर्मणि । बिलनामानि ॥ गिरति सर्पादिकमिति गर्तः । ʻगॄ निगरणे । अवति सर्पादिकमित्यवटः । ʻअव रक्षणे । श्वभ्रनामानि ॥ सुषिरत्रास्तीति सुषिरम् । सरन्ध्रवेण्वादिनाम ॥ १-२ ॥
मल्लि-नाथः - AK.01.09.001-2
अधोभुवन—नागलोकः । पातालनामानि ॥ रसेति तलमिति व्यस्तमपि तन्नाम । ʻरसातलं तलं नागलोको दैत्यक्षयो रसा’ इति वैजयन्ती (पृ। १४८, श्लो। १) । अथ कुहरं—बिलम् । ʻछिद्रे छिद्रान्विते वाद्ये सुषिरं सुषिरो नडः’ इति वैजयन्तीपाठाद् (पृ। २६४, श्लो। ९०) दन्त्यादिरेव सुषिरशब्दः । छिद्रं—सुषिः । ʻकलशकुलिशशुभ्रश्वभ्रकाश्मीरशिल्पम् इति श्वभ्रशब्दस्य तालव्यादित्वम् । बिलनामानि ॥ गर्तावटौ—श्वभ्रे । श्वभ्रनामनी ॥ सरन्ध्रे—त्रिषु । रन्ध्रवद् द्रव्यं सुषिरं त्रिलिङ्गं स्यात् ॥ १-२ ॥
[[०१.१४७]]
मूलम् - ०१.०९.००३
(०१.०९.००३अब्) अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः ।
(०१.०९.००३च्द्) ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः ॥ ३ ॥
(०१.१०.००१अ) विष्वक् सन्त्मसम्
इति पातालवर्गः
लिङ्ग-सूरी - AK.01.09.003
अन्धकार इति—अन्धं करोतीति अन्धकारः । ʻडुकृञ् करणे । ध्वनन्त्यत्र मार्गमपश्यन्त इति ध्वान्तम् । ʻध्वन शब्दे । तमयति लोकं तमः । ʻतमु ग्लानौ’ । तम एव तमिस्रम् । तिम्यत्यनुष्णत्वादिति तिमिरम् । ʻतिम आर्द्रीभावे । तमिस्रशब्दः स्त्रीनपुंसकयोः । अन्धकारनामानि ॥ अन्धं तमः अन्धतमसम् । अन्धयति जनानां दृष्टिमिति वा अन्धतमसम् । ʻअन्ध दृष्ट्युपघाते । गाढध्वान्तनाम ॥ अवक्षीणं तमः अवतमसम् । क्षीणध्वान्तनाम ॥ विष्वक् समन्तात् तमः सन्तमसम् । सर्वतःस्थिततमोनाम ॥ ३ ॥
इति पातालवर्गः
मल्लि-नाथः - AK.01.09.003
अन्धकारो—तमः । प्रज्ञादिपाठात् तामिस्रमपि स्यात् । ʻस्मररागमयी वपुस्तमिस्रा’ इति माघप्रयोगात् (शिशु। ६। ७०) तमिस्रा च भवति । अन्धकारनामानि ॥ ʻकालिकज्जलभूच्छायतमं वा स्यात् तमिः स्त्रियाम् । एतानि च ॥ ध्वान्ते—अन्धतमसम् । अतिसान्द्रतिमिरनाम ॥ शाकटायनवृत्तौ ʻयञ्युपसर्गस्य च्ö (२। २। ८८) इति दीर्घविधानसूत्रे अन्धातमसमित्युदाहृतम् । ʻतदन्धातमसं प्राहुर्गाढं तिमिरमित्यपि इति हारावली । क्षीणेऽवतमसम् । अल्पं तमोऽवतमसम् स्यात् । क्षीणतमसो नाम ॥ तमः—सन्तमसम् । सर्वतः प्रसृततमोनाम ॥ अनुक्तम्—ʻरुपीडोऽस्त्री रुहेलिः स्त्री रुभेटिरपि धूमिका’ । धूमिकानामानि ॥ ३ ॥
इति पातालवर्गः
[[०१.१४८]]