मूलम् - ०१.०८.००१
(०१.०८.००१अब्) निषादर्षभगान्धारषड्जमध्यमधैवताः ।
(०१.०८.००१च्द्) पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥ १ ॥
लिङ्ग-सूरी - AK.01.08.001
निषाद इति—निषीदन्त्यत्र स्वरा इति निषादः । ʻषद्लृ विशरणगत्यवसादनेषु’ । ऋषभस्वरसंवादित्वात् ऋषभः । गां वाचं धारयतीति गान्धारः । गन्धं गृह्णातीति गान्धं घ्राणेन्द्रियम् । तस्मिन् इयर्तीति वा गान्धारः । ʻऋ गतौ’ । षट्सु नासाकण्ठोरस्तालुजिह्वादन्तस्थानेषु जायत इति षड्जः । ʻजनी प्रादुर्भावे । मध्यं मातीति मध्यमः । ʻमा माने वर्तने च्ö । मोक्षं धावतीति धैवतः । ʻधावु गतिशुद्ध्योः’ । धीर्हृत् तद्वत्सु नाभ्यादिस्थानेषु भवो वा धैवतः । पिकैः पञ्च्यते पञ्चमः । ʻपचि विस्तारवचने । पञ्चसु स्थानेषु मातीति वा । ʻमा माने वर्तने च्ö । एतानि सप्त तन्त्रीकण्ठोत्थितस्वरनामानि ॥ स्वयं राजते स्वरः । ʻराजृ दीप्तौ’ । श्रुतिस्थाने स्वहृदयं रञ्जयतीति वा । ʻरञ्ज रागे ॥
ʻषड्जं मयूरा ब्रुवते गावस्त्वृषभभाषिणः ।
अजाविकं तु गान्धारं पिकः कूजति पञ्चमम् ।
धैवतं हेषते वाजी निषादं बृंहते गजः ॥
इति ॥ १ ॥
मल्लि-नाथः - AK.01.08.001
निषाद—स्वराः । तन्त्रीकण्ठयोरुभयोर्जायमाना निषादादयः सप्त स्वरशब्दवाच्याः । तत्स्वरूपे नारदः—
ʻषड्जं मयूरो वदति गावो रम्भन्ति चर्षभम् ।
अजाविकौ तु गान्धारं क्रौञ्चो नदति मध्यमम् ॥
पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् ।
अश्वस्तु धैवतं रौति निषादं रौति कुञ्जरः ॥ (सं। म। १। १। १३-१४)
इति ॥ १ ॥
[[०१.१२१]]
मूलम् - ०१.०८.००२
(०१.०८.००२अब्) काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे ।
(०१.०८.००२च्द्) कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु ॥ २ ॥
(नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः ।
स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते ॥)
लिङ्ग-सूरी - AK.01.08.002
काकलीति—कुः सूक्ष्मः स चासौ कलश्च काकली । सूक्ष्मकलनाम ॥ कं सुखं लातीति कलः । ʻला दाने । कलयतीति वा । ʻकल शब्दे । अव्यक्तमधुरध्वनिनाम ॥ मन्दते शनैः निःसरतीति मन्द्रः । ʻमदि स्तुतिमोदमदस्वप्नकान्तिगतिषु’ । गम्भीरध्वनिनाम ॥ तारयति सन्देहं तारः । ʻतॄ प्लवनतरणयोः’ । अत्युच्चध्वनिनाम ॥ त्रयस्त्रिषु । कलमन्द्रताराः त्रिषु वर्तन्ते, विशेष्यनिघ्ना इत्यर्थः ॥ २ ॥
मल्लि-नाथः - AK.01.08.002
काकली—सूक्ष्मे । कलसूक्ष्मध्वनिः काकली स्यात् । ध्वनौ—कलः । मधुरास्फुटध्वनिः कलः स्यात् । मन्द्रस्तु गम्भीरे । गम्भीरध्वनिः मन्द्रः स्यात् । तारोऽत्युच्चैः । अत्युच्चध्वनिः तारः स्यात् ॥ त्रयस्त्रिषु । एते त्रयः त्रिष्विति वाच्यलिङ्गाः । कला रुतिः, मन्द्रा रुतिः इत्यादि ॥ २ ॥
मूलम् - ०१.०८.००३
(०१.०८.००३अब्) समन्वितलयस्त्वेकतालो वीणा तु वल्लकी ।
(०१.०८.००३च्द्) विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ ३ ॥
लिङ्ग-सूरी - AK.01.08.003
समेति—समन्वितोऽनुगतो लयः श्रुतादिर्यत्र समन्वितलयः । एकः समः तालो मानमस्य एकतालः । एकतान इति वा पाठः । तालाद्यन्वितलयनाम ॥ वेति प्रजायते स्वरोऽस्यामिति वीणा । ʻवी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु’ । वण्यत इति वा वीणा । ʻवण शब्दे । वल्लन्ते स्वरा अस्यामिति वल्लरी । ʻवल्ल सञ्चलने । विविधं पञ्च्यते स्वरा अत्रेति विपञ्ची । ʻपचि व्यक्तीकरणे । वीणानामानि ॥ परितो वदति स्वरानिति परिवादिनी । ʻवद व्यक्तायां वाचि । सप्ततन्त्रीयुक्तवीणानाम ॥ ३ ॥
मल्लि-नाथः - AK.01.08.003
समन्वितलयस्त्वेकतालः । अनुगतद्रुतादिमानगीतादिवस्तु एकतालः स्यात् । एकतान इति कतिचित् । वीणा तु वल्लकी विपञ्ची । वीणानामानि ॥ सा तु—परिवादिनी । सप्तभिः तन्त्रीभिः प्रोता वीणा परिवादिनीत्युच्यते ।
ʻतन्त्र्यश्चेत् सप्त सप्तास्या चतुर्दश चतुर्दशी ।
एकादशैकादशी भिदैवं वीणा त्रयोदशी ॥ इति ।
परिवादिनी बहुविधा । सप्ततन्त्री परिवादिनीति कथिता ॥ ३ ॥
[[०१.१२२]]
मूलम् - ०१.०८.००४
(०१.०८.००४अब्) ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् ।
(०१.०८.००४च्द्) वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥ ४ ॥
लिङ्ग-सूरी - AK.01.08.004
ततमिति—तन्यते ततम् । तन्त्रीजननात्ततम् । वीणादिवाद्यनाम ॥ चर्मणा आनह्यत इत्यानद्धम् । ʻणह बन्धने । मुरजादिवाद्यनाम ॥ सुषिः रन्ध्रमस्यास्तीति सुषिरम् । शुषिरं वा । वंशादिवाद्यनाम ॥ हन्यत इति घनम् । ʻहन हिंसागत्योः’ । तालादिकांस्यवाद्यनाम ॥ ४ ॥
मल्लि-नाथः - AK.01.08.004
ततं—वाद्यम् । वीणादिवाद्यं ततं स्यात् ॥ आनद्धं मुरजादिकम् । मुरजादिवाद्यमानद्धं स्यात् ॥ वंशादिकं तु सुषिरम् । वंशादिवाद्यं सुषिरं स्यात् ॥ कांस्यं—घनम् । कांस्यं तालादिकं वाद्यं घनं स्यात् ॥ केचन मुरजादिवाद्यमपि घनमिति वदन्ति । कांस्यं तालादिवाद्यं ततमिति च कथयन्ति ॥ ४ ॥
[[०१.१२३]]
मूलम् - ०१.०८.००५
(०१.०८.००५अब्) चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ।
(०१.०८.००५च्द्) मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः ॥ ५ ॥
लिङ्ग-सूरी - AK.01.08.005
चतुर्विधमिति—वाद्यत इति वाद्यम् । वादित्रं च । आ समन्तात् तोद्यत इत्यातोद्यम् । ʻतुद व्यथने । ततादिचतुर्विधवाद्यनामानि ॥ मृद्यत इति मृदङ्गः । मृत् मृत्स्ना अङ्गे यस्येति वा । ʻमृद मर्दने । मुरतीति मुरः । ʻमुर संवेष्टने । मुरः चर्मपट्टिकासंवेष्टनम् । तस्माज्जातो मुरजः । मृदङ्गनामनी ॥ अङ्के भवः अङ्क्यः । अङ्कोपरि निधाय वाद्यते वा । हरीतक्याकृतिमृद्ङ्गनाम ॥ आलिङ्ग्यते आलिङ्ग्य वाद्यत इत्यालिङ्ग्यः गोमुखाकृतिमृदङ्गनाम ॥ अङ्की आलिङ्गी इति वा पदच्छेदः । तदा तदाख्या ततो भवतीति विग्रहः । ऊर्ध्वीकृत्य वाद्यत इत्यूर्ध्वकः । यवमध्याकृतिमृदङ्गनाम ॥ ५ ॥
मल्लि-नाथः - AK.01.08.005
चतुर्विधमिदं—नामकम् । इदं चतुर्विधं वाद्यम् । वादित्रमातोद्यमिति च नामद्वयवद् भवति । वादित्रशब्दो वाद्यध्वनावपि वर्तते । ʻतूर्योऽस्त्री वाद्यनिर्घोषे वादित्रं वादनं च तत् इति वैजयन्ती (पृ। १४७, श्लो। १३६) । मृदङ्गा मुरजाः । मुरजनामनी ॥ वक्ष्यमाणभेदापेक्षया बहुवचनम् । भेदाः—त्रयः । अङ्क्यः, आलिङ्ग्यः , ऊर्ध्वक इत्येते त्रयो मुरजभेदाः । ʻपूर्वः पूर्वो महानेषामेतत् पुष्करमण्डले इति वैजयन्त्यां (पृ। १४६, श्लो। १३०) परिमाणभेदोऽभ्यधायि ।
ʻहरितक्याकृतिस्त्वङ्क्यो यवमध्यस्तथोर्ध्वकः ।
आलिङ्ग्यश्चैव गापुच्छ आकृत्या सम्प्रकीर्तितः ॥
इति सुभूतिटीकायामाकृतिभेदः कथितः ॥ ५ ॥
[[०१.१२४]]
मूलम् - ०१.०८.००६
(०१.०८.००६अब्) स्याद्यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान् ।
(०१.०८.००६च्द्) आनकः पटहोऽस्त्री स्यात् कोणो वीणादिवादनम् ॥ ६ ॥
लिङ्ग-सूरी - AK.01.08.006
स्यादिति—यशोनिमित्तं पटहः यशःपटहः । ढगिति व्यक्तं कायतीति ढक्का । ʻकै शब्दे । यात्रादौ वाद्यमानयशःपटहनाम ॥ बिभेति अस्याः परसैन्यमिति भेरी । ʻञिभी भये । दुन्दु इति शब्दं भाषते दुन्दुभिः । शत्रुहृदयं भिद्यत इति वा । भेरीनामानि ॥ आ समन्तात् नदतीत्यानकः । ʻणद अव्यक्ते शब्दे । अनेन स्वपक्षः आ समन्तात् अनिति वा । ʻअन प्राणने । पटवत् हन्यते पटहः । पणव इति पाठे पण्यते स्तूयते पणवः । ʻपण व्यवहारे स्तुतौ च्ö । परसेनाभीत्यर्थवाद्यनामानि ॥ अनेन कुणति वीणादिवाद्यमिति कोणः । ʻकुण शब्दोपकरणयोः’ । वीणादिवादनदण्डनाम ॥ ६ ॥
मल्लि-नाथः - AK.01.08.006
स्यात्—ढक्का । सामन्तढक्कानामनी । भेरी—पुमान् । भेरीनामनी । आनकः—स्यात् । अस्त्रीशब्द उभयविशेषणम् । ʻपटहस्त्वानकोऽस्त्रियाम् इति वैजयन्ती (पृ। १४६, श्लो। १३४) । पटहनामनी ॥ अनुक्तम्—ʻवंशस्तु वेणुर्मुरली । मुरलीनामानि ॥ ʻशृङ्गं खुरमुखं समे । शृङ्गनामनी । आन्ध्रभाषया ʻबूरगोम्मु’ ॥ ʻकाहली तु कुहाला स्यात् । काहलीनामनी ॥ ʻढेङ्गुरा जयघण्टिका’ । आन्ध्रभाषया ʻजांयण्ट पेरु’ । ʻताली द्वयोः कांस्यतालः पुमान् स्त्री तालपत्रिका’ । तालनामानि ॥ कोणो वीणादिवादनम् । वीणादिवादनसाधननाम ॥ ६ ॥
[[०१.१२५]]
मूलम् - ०१.०८.००७
(०१.०८.००७अब्) वीणादण्डः प्रवालः स्यात् ककुभस्तु प्रसेवकः ।
(०१.०८.००७च्द्) कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम् ॥ ७ ॥
लिङ्ग-सूरी - AK.01.08.007
वीणादण्ड इति—प्रवलन्ते सर्वे स्वरा अत्रेति प्रवालः । ʻवल संवरणे सञ्चरणे च्ö । प्रचाल इति वा पाठः । ʻचल कम्पने । वीणादण्डनाम ॥ स्वालम्बनाय दण्डं कङ्कते आकाङ्क्षतीति ककुभः । ʻककि लौल्ये । प्रकर्षेण सेव्यते प्रसेवकः । ʻषेवृ सेवने । दण्डालम्बनायालाबूमूलनिक्षिप्तसन्दंशाकारसारदारुनाम ॥ कुल्यते सम्यक् स्त्यायतेऽनेन शब्दः कोलम्बहकः । ʻकुल संस्त्याने बन्धुषु च्ö । के शिरसि तन्त्रीरवलम्बते इति वा कोलम्बकः । ʻलवि शब्देऽवस्रंसने च्ö । वीणायाः दण्डादिसर्वपरिकरनिष्पन्नमूर्तिनाम ॥ उपनह्यन्ते तन्त्र्योऽनेन उपनाहः । ʻणह बन्धने । निबध्यन्ते तन्त्र्योऽनेन निबन्धनम् । ʻबन्ध बन्धने । तन्त्रीबन्धस्थाननामनी ॥ ७ ॥
मल्लि-नाथः - AK.01.08.007
वीणादण्डः प्रवालः स्यात् । वीणादण्डनाम ॥ ककुभस्तु प्रसेवकः । दण्डावलम्बनायालाबूमूलनिक्षिप्तसन्दंशाकारसारदारुनामनी । भाषया ʻबैसण्ö ॥ कोलम्बकस्तु कायोऽस्याः । वीणाया दण्डादिसर्वपरिकरनिष्पन्नमूर्तिः कोलम्बकः स्यात् । उपनाहो निबन्धनम् । तन्त्रीनिबन्धनस्थाननामनी । भाषया ʻकरिभे ॥ अनुक्तम्—ʻवीणागुणे स्त्रियां तन्त्री । वीणागुणनाम । ʻअवितॄस्तॄतन्त्रिभ्य ईः’ (उ। ३। १५८) इति ईःप्रत्ययान्तत्वात् सुलोपो नास्ति । तन्त्रीः तन्त्र्यौ तन्त्र्यः । हे तन्त्रीः इत्यादि । अत्र विशेषः । लक्ष्मीप्रभृतीनाम् ʻअम्बार्थनद्योर्ह्रस्वः’ (७। ३। १०७) इति ह्रस्वत्वं केचन नेच्छन्ति प्रयोगास्तु बहवो दृश्यन्ते ।
ʻहे लक्ष्मि स्यादलिन्द्राणामपि संस्पृश मे वपुः ।
तन्त्रीः कर्णामृतं कूज तन्द्रीः संश्रय चक्षुषी ॥
वातप्रमीर्वसाटव्यां तरीस्तर्पय चातकम् ।
॥ ॥ ॥ धत्स्व स्तनांशुकम् ॥
इत्यादि ॥ ७ ॥
मूलम् - ०१.०८.००८
(०१.०८.००८अब्) वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः ।
(०१.०८.००८च्द्) मर्दलः पणवोऽन्ये च नर्तकीलासिके समे ॥ ८ ॥
लिङ्ग-सूरी - AK.01.08.008
वाद्यप्रभेदा इति—डमिति शब्दमियर्ति डमरुः । ʻऋ गतौ’ । मड्डु इति उच्चारणात् मड्डुः । डिण्डिमिति शब्दं करोतीति डिण्डिमः । झर्झशब्दं करोतीति झर्झरः । मृद्यत इति मर्दलः । ʻमृद क्षोदे । पणाज्जायते पणवः । पण्यते स्तूयतेऽनेनेति वा । ʻपण व्यवहारे स्तुतौ च्ö । एते च अन्ये च वाद्यप्रभेदाः । नृत्यतीति नर्तकी । ʻनृती गात्रविक्षेपे । लसति क्रीडति रङ्गभूमाविति लासिका । ʻलस श्लेषणक्रीडनयोः’ ॥ नृत्तकारिणीनामनी ॥ ८ ॥
मल्लि-नाथः - AK.01.08.008
वाद्यप्रभेदः—अन्ये च । डमर्वादयश्चान्ये घण्टानिःसाणादयश्च वाद्यभेदाः । नर्तकी—समे । नृत्तकारिणीनामनी ॥ अनुक्तम्—ʻरङ्गः स्यान्नर्तनस्थानम् । नर्तनस्थलं रङ्गः स्यात् ॥ ʻसूत्रधारस्तु सूचकः’ । सूत्रधारनाम ॥ ८ ॥
[[०१.१२६]]
मूलम् - ०१.०८.००९
(०१.०८.००९अब्) विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ।
(०१.०८.००९च्द्) तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥ ९ ॥
(०१.०८.०१०अब्) ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने ।
लिङ्ग-सूरी - AK.01.08.009
विलम्बितमिति—विलम्बितं द्रुतं मध्यम् इति लयविशेषाः क्रमात् तत्त्वम् ओघः घनमित्युच्यन्ते । तलन्ति गीतवाद्यनृत्तानि तिष्ठन्त्यत्र तालः । ʻतल प्रतिष्ठायाम् । मध्यकालक्रियायाः परिच्छेदकनाम ॥ लीयतेऽत्रेति लयः । ʻलीङ् श्लेषणे । न्यूनाधिकरहिततालसाम्यनाम ॥ तण्डुना शिवेनोपदिष्टं ताण्डवम् । उद्धतप्रयोगनर्तननाम । नट्यते नटनम् । ʻनट नृत्तौ’ । नटस्य कर्म नाट्यम् । नटनर्तननाम ॥ लसतीति लास्यम् । ʻलस श्लेषणक्रीडनयोः’ । सुकुमारप्रयोगनर्तननाम ॥ नृत्यतीति नृत्यम् । ʻनृती गात्रविक्षेपे । नर्तननामानि ॥ ९ ॥
मल्लि-नाथः - AK.01.08.009
विलम्बितं—क्रमात् । विलम्बितादिमानानि तत्त्वादिसञ्ज्ञानि भवन्ति । तालः कालक्रियामानम् । कालस्याङ्गुलिकरक्रियया कृतं मानं तालः स्यात् । लयः साम्यम् । सर्वाभिनयमाम्यं लयः स्यात् । अथाक्षजं—नर्तने । नटनर्तननामानि । अक्षजशब्दस्थानेऽस्त्रियामिति, नृत्यशब्दस्थाने नृत्तमिति च पठन्ति ॥ ९ ॥ </Amarapadaparijata
%%p. 01.127
AK.01.08.010cd tauryatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam .. 10 ..
AK.01.08.011ab bhrakuṃsaśca bhrukuṃsaśca bhrūkuṃsaśceti nartakaḥ .
AK.01.08.011cd strīveṣadhārī puruṣo nāṭyoktau gaṇikājjukā .. 11 ..
लिङ्ग-सूरी - AK.01.08.010-11
तौर्यत्रिकमिति—तूर्याणां त्रिकं तौर्यत्रिकम् । तूर्याणां सम्बन्धि तौर्यम् । तच्च त्रिकं च तौर्यत्रिकम् । नटकर्म नाट्यम् । समुदितनृत्तगीतवाद्यनाम ॥ भ्रूभ्यां कुंसयतीति भ्रकुंसः । भ्रुकुंसश्च । भ्रकुंसश्च । ʻकुसि भाषायाम् । स्त्रीवेषधारिनर्तकपुरुषनामानि ॥ नाट्योक्तौ नटव्यवहारे नामान्याह । अर्जतीत्यज्जुका । ʻअर्ज अर्जने । नाट्योक्तौ गणिकानाम ॥ १०-११ ॥
मल्लि-नाथः - AK.01.08.010-11
तौर्यत्रिकं—त्रयम् । नृत्तगीतवाद्यानि त्रीणि तौर्यत्रिकम् । इदं त्रयं नाट्यं स्यात् । तत् प्रेक्षणार्थं स्याच्चेत् सङ्गीतं भवति । ʻसङ्गीतं प्रेक्षणार्थेऽस्मिन् इति वैजयन्ती (पृ। १४१, श्लो। ७२) । भ्रकुंसश्च—पुरुषः । भ्रकुंसादयः । षडपि स्त्रीवेषधारिनर्तकपुरुषनामानि । भ्रकुंसशब्दो रुशब्दादिश्च ऋकारादिश्च भवति । ʻस भ्रूकुंसो भ्रुकुंसश्च भृकुंसश्च भ्रकुंसवत् इति वैजयन्ती (पृ। १४१, श्लो। ६७) । अनुक्तम्—ʻपात्राण्यधिकृता नाट्ये । नाट्ये नियुक्तास्ते पात्राणीत्युच्यन्ते । ʻतेषां वेषस्तु भूमिका’ । तेषां वेषो भूमिका स्यात् ॥ नाट्योक्तौ । अङ्गहारावधि अधिकारवचनम् । तस्मादितःपरं वक्ष्यमाणाः शब्दाः नाट्यविषयाः । व्यवस्थिताधिकारविषयत्वाद् देवकुमारादिशब्दा इतरविषयाश्च भवन्ति । गणिकाज्जुका । लञ्जिका अज्जुका स्यात् ॥ १०-११ ॥
[[०१.१२८]]
मूलम् - ०१.०८.०१२
(०१.०८.०१२अब्) भगिनीपतिरावुत्तो भावो विद्वानथावुकः ।
(०१.०८.०१२च्द्) जनको युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥
लिङ्ग-सूरी - AK.01.08.012
भगिनीपतिरिति—अवति भगिनीमिति आवुत्तः । ʻअव रक्षणे । भगिनीपतिनाम ॥ भावयतीति भावः । विदूषकनाम ॥ अवतीति आवुकः । ʻअव रक्षणे । जनकनाम ॥ कुत्सितं मारयतीति कुमारः । ʻमृङ् प्राणत्यागे । युवा चासौ राजा च युवराजः । कुमारयतीति वा कुमारः । ʻकुमार क्रीडायाम् । प्रेष्यादीन् बिभर्तीति भर्ता । तस्य दारकः भर्तृदारकः । पोष्यान् दारानिव बिभर्तीति वा । ʻडुभृञ् धारणपोषणयोः’ । युवराजनामनी ॥ १२ ॥
मल्लि-नाथः - AK.01.08.012
भगिनीपतिरावुत्तः । ज्येष्ठकनिष्ठभगिन्योः पतिः आवुत्तः स्यात् । अनुक्तम्—ʻपतिरार्योऽप्यार्यपुत्रः’ । पतिरार्य आर्यपुत्रश्च स्यात् ॥ भावो विद्वान् । तत्र विद्वान् भावः स्यात् ॥ अथावुको जनकः । पिता आवुकः स्यात् ॥ युवराजः—भर्तृदारकः । युवराजश्च कुमारश्च भर्तृदारकः स्यात् ॥ अनुक्तम्—ʻगोस्वामिनो राजसुताः’ । अन्यराजपुत्रा गोस्वामिन इत्युच्यन्ते ॥ १२ ॥
मूलम् - ०१.०८.०१३
(०१.०८.०१३अब्) राजा भट्टारको देवस्तत्सुता भर्तृदारिका ।
(०१.०८.०१३च्द्) देवी कृताभिषेकायामितरासु तु भट्टिनी ॥ १३ ॥
लिङ्ग-सूरी - AK.01.08.013
राजेति—भटन्ति उद्धतं भाषन्ते भट्टाः । ʻभट परिभाषणे । भट्टान् शत्रून् अरति पीडयतीति भट्टारकः । ʻअर पीडने । दीव्यतीति देवः । ʻदिवु क्रीडादौ’ । भर्तृदारिकाशब्दः भर्तृदारकशब्दवत् । राजपुत्रीनाम ॥ दीव्यतीति देवी । अभिषिक्तराजपत्नीनाम ॥ भटति उद्धतं भाषते भट्टिनी । अकृताभिषेकराजभार्यानाम ॥ १३ ॥
मल्लि-नाथः - AK.01.08.013
राजा—देवः । नृपः भट्टारको देवश्च स्यात् । नामान्ते प्रयुक्ता अप्येते पूज्यमपि कथयन्ति । ʻपादा इति नामान्ते देवो भट्टारको वापि इति हलायुधः (अ। मा। १। १५५) । तत्सुता भर्तृदारिका । राजसुता भर्तृदारिका स्यात् ॥ देवी कृताभिषेकायाम् । महिषीनाम ॥ इतरासु तु भट्टिनी । अन्या राजपत्न्यः भट्टिन्यः स्युः ॥ १३ ॥
[[०१.१२९]]
मूलम् - ०१.०८.०१४
(०१.०८.०१४अब्) अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः ।
(०१.०८.०१४च्द्) अम्बा माताथ बाला स्याद् वासूरार्यस्तु मारिषः ॥ १४ ॥
लिङ्ग-सूरी - AK.01.08.014
अब्रह्मण्यमिति—ब्राह्मणोऽवध्य इत्युक्तिः अब्रह्मण्यम् । ब्रह्मणो हितं ब्रह्मण्यं, शान्तता, तदविद्यमानमत्रि वा । अवध्योक्तिनाम ॥ राज्ञः श्यालः राजश्यालः । राष्ट्री राज्ञी तस्या भ्राता राष्ट्रियः । राजपत्नीभ्रातृनाम ॥ अम्ब्यते शब्द्यते बालैरित्यम्बा । ʻअवि शब्दे । मातृनाम ॥ वसति मातुः समीप इति वासूः । ʻवस निवासे । बालानाम ॥ मायामियर्ति गच्छतीति मारिषः । ʻऋ गतौ’ । आर्यनाम ॥ १४ ॥
मल्लि-नाथः - AK.01.08.014
अब्रह्मण्यमवध्योक्तौ । अवध्योऽस्मीत्युक्तिरवध्योक्तिः । तस्यामाक्रोशनेऽपि अब्रह्मण्यशब्दः स्यात् ॥ राज्ञः—राष्ट्रियः । राज्ञः पत्नीभ्राता राष्ट्रियः स्यात् । अम्बा माता । जननी अम्बा स्यात् । ʻअम्ब सरस्वति किमियं तव माता विष्णुवल्लभा देवी । अथ—वासूः । बालिका वासूरित्युच्यते । ʻवासु-देवालयं गत्वा सोमं श्करमर्चय्ö आर्यस्तु मारिषः । आर्यनाम । मार्षोऽपि भवति । ʻआर्यौ मारिषमार्षकौ’ इति वैजयन्ती (पृ। १४४, श्लो। १०६) । अनुक्तम्—ʻक्षपणाद्या भदन्ताः स्युः’ । क्षपणसौगतादयो भदन्ता इत्युच्यन्ते ॥ १४ ॥
[[०१.१३० ]]
मूलम् - ०१.०८.०१५
अक्।०१.०८.०१५अब् अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे ।
अक्।०१.०८.०१५च्द् हण्डे हञ्जे हलाह्वानं नीचां चेटीं सखीं प्रति ॥ १५ ॥
लिङ्ग-सूरी - AK.01.08.015
अत्तिकेति—अत्ति भ्रातृभार्यां वचनैरिति अत्तिका । ʻअद भक्षणे । ज्येष्ठभगिनीनाम ॥ नियतं स्थानं निष्ठा । निःशेषेण वहनं प्रस्तुतकथायाः समाप्तिः निर्वहणम् । समे इति समानार्थे । नाटकस्य निर्वहणाख्यपञ्चमसन्धिनामनी ॥ हण्डे इति नीचां प्रति, हञ्जे इति चेटीं प्रति, हला इति सखीं प्रति आह्वानम् । एते त्रयः सम्बोधनार्थे अव्ययाः ॥ नाट्योक्तयः समाप्ताः ॥ १५ ॥
मल्लि-नाथः - AK.01.08.015
अत्तिका—जयेष्ठा । ज्येष्ठभगिनी अत्तिका स्यात् । अनुक्तम्—ʻकनिष्ठा तु बलाबुसा’ । कनिष्ठा स्वसा बलाबुसा स्यात् । निष्ठा—समे । प्रस्तुतकथासंहारः निष्ठा च निर्वहणं च स्यात् । हण्डे—सखीं प्रति । नीचाह्वाने हण्डेशब्दः प्रवर्तते । चेटिकाह्वाने हञ्जेशब्दः । सख्याह्वाने हलाशब्दः । ʻहला सौन्दले । हलिलेशब्दोऽप्यस्ति । ʻहलिले जनमध्ये याचितवत्यसि । हण्डे हञ्जे हलेति शब्दास्त्रयः सम्बोधनार्थका इति प्राकृतसञ्जीविन्यामव्ययपरिच्छेदे कथितत्वादव्ययाः ॥ १५ ॥
मूलम् - ०१.०८.०१६
अक्।०१.०८.०१६अब् अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ ।
अक्।०१.०८.०१६च्द् निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके ॥ १६ ॥
लिङ्ग-सूरी - AK.01.08.016
अङ्गहार इति—अङ्गानां हारोऽन्यत्रानयनम् अङ्गहारः । अङ्गानां विक्षेपोऽङ्गविक्षेपः । स्थानात् स्थानान्तरानयनरूपक्रियानामनी ॥ व्यनक्त्यर्थं व्यञ्जकः । ʻअञ्जू व्यक्तिम्रक्षणकान्तिगतिषु’ आभिमुख्येन नीयतेऽनेनार्थः अभिनयः । ʻणाञू प्रापणे । वाचिकाङ्गिकसात्त्विकाख्यभावसूचकनामनी ॥ अङ्गेन निर्वृत्तम् आङ्गिकम् । सत्त्वेन निर्वृत्तं सात्त्विकम् । सत्त्वोत्कटे मनसि पुलकिताद्यभिनयनामनी ॥ १६ ॥
मल्लि-नाथः - AK.01.06.016
अङ्गहारोऽङ्गविक्षेपः । अवयवविक्षेपोऽङ्गहारः स्यात् । व्यञ्जक—समौ । सूच्यार्थसूचननामानी ॥
ʻनिर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके ।
व्यञ्जकोऽभिनयो यस्तु सूच्यार्थोऽभिनयस्य च ॥
इत्यनेन सूच्यार्थश्चाभिनयः । अङ्गनिर्वृत्तं स्यादाङ्गिकम् । सत्त्वनिर्वृत्तं स्यात् सात्त्विकम् । द्विशब्दग्रहणेन वाचिकाहार्ययोर्गुणत्वं सूच्यते ॥ १६ ॥
[[०१.१३१]]
मूलम् - ०१.०८.०१७
अक्।०१.०८.०१७अब् शृङ्गारवीरकरुणाद्भुतहास्यभानकाः ।
अक्।०१.०८.०१७च्द् बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥
लिङ्ग-सूरी - AK.01.08.017
शृङ्गारेति—शृङ्गारो वीरः करुणा अद्भुतः हास्यं भयानकः बीभत्सः रौद्रः चकारात् शान्तश्च । एते शृङ्गारादयो नव रसा भवन्ति । सामाजिकजनेन रस्यन्त इति रसाः । ʻरस आस्वादने । शृङ्गं युवादिकमियर्तीति शृङ्गारः । ʻऋ गतौ’ । जुगुप्सादिरहितत्वात् शुचिः । उज्ज्वलति प्रकाशते उज्ज्वलः । ʻज्वल दीप्तौ’ । शृङ्गाररसनामानि ॥ १७ ।
मल्लि-नाथः - AK.01.08.017
शृङ्गार—रसाः । शृङ्गारादयोऽष्टौ रसशब्दवाच्याः । चशब्दो मतान्तरबोधनार्थः ।
ʻशृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च नव नाट्यरसाः स्मृताः ॥
ʻशृङ्गारवीरौ बीभत्सरौद्रौ हास्यं भयानम् ।
करुणाद्भुतशान्ताश्च वात्सल्यं च रसा दश ॥
इति । द्वादशरसा इति केचित् । शृङ्गारः—उज्ज्वलः । शृङ्गारः उज्ज्वलः । शृङ्गाररसनामानि ॥ १७ ॥
मूलम् - ०१.०८.०१८
अक्।०१.०८.०१८अब् उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा ।
अक्।०१.०८.०१८च्द् कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः ॥ १८ ॥
अक्।०१.०८.०१९अब् हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् ।
लिङ्ग-सूरी - AK.01.06.018
उत्साहेति—उत्साहं वर्धयतीति उत्साहवर्धनः। ʻवृधु वृद्धौ’ । विरुद्धान् राति हन्तीति वीरः । ʻरा दाने छेदने च्ö । विद्विष्टान् ईरयतीति वा । ʻईर क्षेपे । वीरयतीति वा वीरः । ʻशूर वीर विक्रान्तौ’ वीररसनाम ॥ कुर्वन्त्यात्मानमदीनमनयेति करुणा । ʻडुकृञ् करणे । कुरुं क्लेशं न सहत इति वा । करुणैव कारुण्यम् । घृण्यन्तेऽनुगृह्यन्तेऽनयेति घृणा । ʻघृणि ग्रहणे ʻघृणु दीप्तौ’ इति वा धातुः । क्रपयते कृपा । ʻक्रप कृपायाम् । दयन्ते रक्षन्त्यनया दया । ʻदय दानगतिहिंसारक्षणेषु’ । अनुकम्पन्तेऽनयेत्यनुकम्पा । ʻकपि चलने । अनुक्रोशन्त्यनेनेत्यनुक्रोशः । ʻक्रुश आह्वाने रोदने च्ö । करुणारसनामानि ॥ हासयति जनानिति हसः, हासः, हास्यं च । ʻहस हसने । हास्यरसनामानि ॥ बीभत्सा निन्दा, सा अत्रास्तीति बीभत्सम् । सद्विरुद्धत्वात् विकृतम् । बीभत्सरसनामनी ॥ इदं द्वयं तद्वति त्रिषु ॥ १८ ॥
मल्लि-नाथः - AK.01.08.018
उत्साह—वीरः । वीररसनाम ॥ ʻशुच्युज्ज्वलौ तु शृङ्गारो वीर उत्साहवर्धनः’ इति व्याडिः । कारुण्यं—अनुक्रोशः । करुणारसनामानि ॥ ʻकरुणो रस्ö इति पुंस्त्वमपि । अथो हसः—हास्यं च । हास्यरसनामानि ॥ चशब्दो रूपान्तरसमुच्चयार्थः । ʻहसिका तु हसो हासो हसनं हास्यघर्घरे इति । बीभत्सं विकृतम् । बीभत्सनामनी ॥ त्रिष्विदं द्वयम् । इमे द्वे त्रिष्वित्यनेन त्रिलिङ्गे । बीभत्सो रोगः । विकृतो रोग इत्यादि ॥ १८ ॥
अक्।०१.०८.०१९च्द् विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥
मूलम् - ०१.०८.०२०
अक्।०१.०८.०२०अब् दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ।
[[०१.१३३ ]]
अक्।०१.०८.०२०च्द् भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥
अक्।०१.०८.०२१अब् चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम् ।
लिङ्ग-सूरी - AK.01.08.019-20
विस्मय इति—विस्मापयतीति विस्मयः । ʻष्मिङ् ईषद्धसने । अत् आश्चर्यार्थेऽव्ययम् । तस्माति भवं अद्भुतम् । आचरणीयं आश्चर्यमिति साधु । ʻचर गतिभक्षणयोः’ । चित्रयतीति चित्रम् । ʻचित्र चित्रीकरणे । अद्भुतरसनामानि ॥ भीरोरिदं त्रासकरत्वाद् भैरवम् । बिभेत्यस्मात् अधीर इति वा भैरवम् । दारयति चित्तमिति दारुणम् । ʻदृ विदारणे । बिभेत्यस्मादिति भीषणम् । भीष्मम् । भीमम् । भयानकं च । ʻञिभी भये । घुरतीति घोरम् । ʻघुर भीमार्थशब्दयोः’ । भयं करोतीति भयङ्करम् । ʻडुकृञ् करणे । भयं प्रति गतं प्रतिभयम् । भयानकरसनामानि ॥ रुत् रोगः, तां राति ददातीति रुद्रः । तस्य कर्म रौद्रम् । उग्रत्वात् उग्रम् । रौद्ररसनामानि ॥ अमी अद्भुताद्याः उग्रान्ताः शब्दाः चतुर्दश त्रिषु लिङ्गेषु वर्तन्ते । दरति बिभेत्यस्मादिति दरः । ʻदृ भये । त्रस्यत्यस्मादिति त्रासः । ʻत्रसी उद्वेगे । बिभेत्यस्या इति भीतिः । भीश्च । भयं च । ʻञिभी भये । साधूनस्यति बाधत इति साध्वसम् । ʻअसु क्षेपणे । भयनामानि ॥ १९-२० ॥
मल्लि-नाथः - AK.01.06.019-20
विस्मयो—चित्रमपि । अद्भुतरसनामानि ॥ अथ—प्रतिभयम् । भयानकरसनामानि ॥ रौद्रं तूग्रम् । रौद्ररसनामनी ॥ अमी—चतुर्दश । धर्मिधर्मवचना अद्भुतादिशब्दा नियतत्रिलिङ्गा भवन्ति । अद्भुतकरी विद्या अद्भुता । धर्मवचना भैरवादयो नियतत्रिलिङ्गाः । भैरवोऽहिः, दारुणोऽहिः, इत्यादि ॥ दरत्रासौ—भयम् । भयनामानि । भयरसः साध्वसरस इति रसत्वोपचाराद् रसानन्तरकथनम् ॥ १९-२० ॥
अक्।०१.०८.०२१च्द् विकारो मानसो भावोऽनुभावो भावबोधकः ॥ २१ ॥
मूलम् - ०१.०८.०२२
अक्।०१.०८.०२२अब् गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः ।
(दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः ।)
लिङ्ग-सूरी - AK.01.08.021
विकार इति—भावयति करोति रसान् भावः । ʻभू सत्तायाम् । मनसोऽयं मानसः । मनोविकारो भाव इत्युच्यते ।
ʻहर्षोन्मादश्रमाशङ्का निर्वेदो जडता धृतिः ।
ग्लानिश्चिन्तामतिव्रीडा दैन्यं गर्वः स्मृतिर्मदः ॥
गर्हापस्मारसुप्तानि चापलालस्यमुग्रता ।
अमर्षत्रासतर्काश्च निद्रौत्सुक्यं मृतिस्तथा ॥
आवेगो व्याधिरीर्ष्या च विषादश्च विकत्थनम् ।
अवबोध इति प्रोक्ता भावाः सञ्चारिणो बुधैः ॥
मनोविकारनाम ॥ अनु पश्चादर्थं भावयति प्रकाशयतीति अनुभावः । ʻभुवोऽवकल्कने । मनविकारज्ञापकहेतुनाम ।
ʻवागङ्गाभिनयेनेह यस्मादर्थोऽनुभूयते ।
शाखाङ्गोपाङ्गसहितः सोऽनुभावस्ततः स्मृतः ॥
इति । ʻभ्रूभङ्गकटाक्षाद्या अनुभावा इति स्मृताः’ इति च । गर्वत्यनेनेति गर्वः । ʻकर्व खर्व गर्व दर्पे । आत्मानं ज्यायांसमभिमनुते अभिमानः । ʻमनु अवबोधने । अहमेव ज्यायानिति करोतीत्यहङ्कारः । आत्मानं मानयतीति मानः । ʻमान पूजायाम् । चित्तस्य समुन्नतिः चित्तसमुन्नतिः । अहमेव ज्यायानिति मनननामानि ॥ २१ ॥
मल्लि-नाथः - AK.01.08.021
विकारो—भावबोधकः । मनसो विकारो भावः स्यात् । स च स्थायिसञ्चारभेदेन द्विविधो भवति । स च प्रकाशमानः सन् अनुभावः । अत्र भयप्रभृतयः स्थायिनः । गर्वप्रभृतयः सञ्चारिणः । अनादरप्रभृतयोऽनुभावाः । सात्त्विकभावानामनुभावविशेषत्वादनभिधानम् । ते च घर्मप्रलयादयः । गर्वो—समुन्नतिः । गर्वनामानि ॥ गर्विशब्दोऽप्यस्ति । ʻगर्विः स्त्री चास्मिता गर्वः’ इति वैजयन्ती (पृ। ९७, श्लो। १६९) । ʻस्मयोऽवलेप उत्सेको दर्पः शौण्डीर्यमित्यपि । एतानि च ॥ २१ ॥
[[०१.१३५]]
अक्।०१.०८.०२२च्द् अनादरः परिभवः परीभावस्तिरस्क्रिया ॥ २२ ॥
मूलम् - ०१.०८.०२३
अक्।०१.०८.०२३अब् रीढावमाननावज्ञावहेलनमसुक्षणम् ।
अक्।०१.०८.०२३च्द् मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः ॥ २३ ॥
लिङ्ग-सूरी - AK.01.08.022-23
अनादर इति—नाद्रियतेऽनादरः । ʻदृङ् आदरे । परिभूयते परिभवः, परीभावश्च । ʻभू सत्तायाम् । तिरस्करोतीति तिरस्क्रिया । ʻडुकृञ् करणे । रिहति हिनस्तीति रीढा । ʻरिह हिंसायाम् । अवमानयतीत्यवमानना । ʻमान पूजायाम् । अवज्ञायतेऽनया अवज्ञा । ʻज्ञा अवबोधने । अवहेलयतीति अवहेलनम् । ʻहेडृ अनादरे । असून् क्षिणोतीति असुक्षणम् । ʻक्षिणु हिंसायाम् । असूर्क्षणमिति वा पाठः । ʻसूर्क्ष आदरे । तिरस्क्रियानामानि ॥ मन्दम् अक्षि यत्रेति मन्दाक्षम् । मन्दम् अक्षम् इन्द्रियमत्रेति वा । जिह्रेत्यनयेति ह्रीः । ʻह्री लज्जायाम् । त्रपत इति त्रपा । ʻत्रपूष् लज्जायाम् । व्रीड्यतीति व्रीडा । ʻव्रीड चोदने लज्जायां च्ö । व्रीडाशब्दो द्वयोः । लज्जते इति लज्जा । ʻओ लस्जी व्रीडने । लज्जानामानि ॥ अपत्रपत इत्यपत्रपा । परादागतह्रीनाम ॥ २२-२३ ॥
मल्लि-नाथः - AK.01.08.022-23
अनादरः—असूक्षणम् । अनादरनामानि ॥ हलायुधाभिधानेऽनादरावज्ञे भिन्नार्थके ।
ʻअत्याकारः परिभवो निराकारः पराभवः ।
अनादरश्चाभिभवस्तिरस्कारश्च कथ्यते ॥ (अ। मा। ४। १९)
हेला स्यादवहेला चावज्ञा रीढा विमानना’ ॥ (अ। मा। ४। ३०)
इति ॥ मन्दाक्षं—लज्जा । लज्जानामानि ॥ व्रीलशब्दोऽप्यस्ति ।
ʻपथि पथिकवधूभिः सादरं पृच्छ्यमाना
कुवलयदलनीलः कोऽयमार्ये तवेति ।
स्मितविकसितगण्डं व्रीलविभ्रान्तनेत्रं
मुखमवनमयन्ती स्पष्टमाचष्ट सीता ॥
इति प्रसन्नराघवे ॥ सापत्रपान्यतः । परसकाशाज्जाता लज्जा अपत्रपा स्यात् ॥ २२-३ ॥
[[०१.१३६]]
मूलम् - ०१.०८.०२४
अक्।०१.०८.०२४अब् क्षान्तिस्तितिक्षाभिध्या तु परस्वविषये स्पृहा ।
अक्।०१.०८.०२४च्द् अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि ॥ २४ ॥
लिङ्ग-सूरी - AK.01.08.024
क्षान्तिरिति—क्षम्यत इति क्षान्तिः । ʻक्षमूष् सहने । तितिक्षते तितिक्षा । ʻतिज निशाने । निशानं सहनम् । मर्षणनामानि ॥ अभिध्यायते अभिध्या । ʻध्यै चिन्तायाम् । परद्रव्यलिप्सानाम ॥ न क्षान्तिरक्षान्तिः । ईर्ष्यतीति ईर्ष्या । ʻईर्ष्य ईर्ष्यायाम् । अक्षमानाम ॥ असूयतीति असूया । गुणेषु दोषारोपनाम ॥ २४॥
मल्लि-नाथः - AK.01.08.024
क्षान्तिस्तितिक्षा । मर्षणनामनी ॥ अभिध्या—स्पृहा । परद्रव्यविषयस्पृहा अभिध्या स्यात् । विषये स्पृहेति वा पाठः । अक्षान्तिरीर्ष्या । परौन्नत्यासहननामनी ॥ असूया—अपि । गुणेषु दोषारोपणमसूया स्यात् ॥ २४ ॥
मूलम् - ०१.०८.०२५
अक्।०१.०८.०२५अब् वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम् ।
अक्।०१.०८.०२५च्द् पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥
लिङ्ग-सूरी - AK.01.08.025
वैरमिति—वीरस्य कर्म वैरम् । विरुणद्धीति विरोधः । ʻरुधिर् आवरणे । विद्वेष्टीति विद्वेषः । ʻद्विष अप्रीतौ’ । वैरनामानि ॥ विरुद्धलक्षणया मन्यतेऽनेनेति मन्युः । ʻमन ज्ञाने शोचत्यनेन शोकः । ʻशुच शोके । शुक् च । शोकनामानि ॥ पश्चात्तपतीति पश्चात्तापः । अनुतापश्च । ʻतप सन्तापे । विरुद्धं प्रतिसरतीति विप्रतीसारः । ʻसृ गतौ’ । पश्चात्तापनामानि ॥ २५ ॥
मल्लि-नाथः - AK.01.08.025
वैरं—विद्वेषः । वैरनामानि ॥ अनुक्तम्—ʻकलहोऽस्त्री झकटकः’ । कलहनामनी ॥ ʻदोर्मध्यं तु करेकरम् । मुष्टिप्रहारनामनी ॥ मन्यु—स्त्रियाम् । शोकनामानि ॥ पश्चात्तापो—इत्यपि । पश्चात्तापनामानि । ʻपृष्ठमांसादनं पश्चाद् गतस्यार्थस्य चिन्तनम् । गतार्थचिन्तनं पृष्ठमांसादनं स्यात् ॥ २५ ॥
[[०१.१३७]]
मूलम् - ०१.०८.०२६
अक्।०१.०८.०२६अब् कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ ।
अक्।०१.०८.०२६च्द् शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २६ ॥
लिङ्ग-सूरी - AK.01.08.026
कोप इति—कुप्यतीति कोपः । ʻकुप क्रोधे । क्रुध्यतीति क्रोधः । ʻक्रुध कोपे । न मृष्यत्यनेन अमर्षः । ʻमृष सहने । रुष्यत अनेनेति रोषः । ʻरुष हिंसायाम् । रुट् च । प्रतिहन्तीति प्रतिघः । ʻहन हिंसागत्योः’ । क्रुध्यतीति क्रुत् । ʻक्रुध कोपे । कोपनामानि ॥ शीलतीति शीलम् । ʻशील समाधौ’ । शुचिचरितनाम ॥ उन्माद्यतेऽनेनेति उन्मादः । ʻमदी हर्षग्लपनयोः’ । चित्तस्य विभ्रमः चित्तविभ्रमः । भूताद्यावेशागतचित्तविभ्रमनाम ॥ २६ ॥
मल्लि-नाथः - AK.01.08.026
कोप—स्त्रियाम् । कोपनामानि ॥ रुषाक्रुधाशब्दावपि स्तः । ʻरुषारुट्क्रुत्क्रुधाः स्त्रियाम् इति वैजयन्ती (पृ। ९८, श्लो। १८३) । शुचौ—शीलम् । ʻआचारश्चरितं वृत्तं चरित्रं चरणं च तत् इति वैजयन्ती (पृ। ९२, श्लो। ११५) । सदाचारः शीलं स्यात् । उन्मादः—विभ्रमः । चित्तभ्रमणमुन्मादः स्यात् । अनुक्तम्—ʻतन्द्रा कौसीद्यमालस्यम् । आलस्यनामानि ॥ ʻविस्मृतिः प्रस्मृतिः समे । विस्मृतिनामनी ॥ २६ ॥
मूलम् - ०१.०८.०२७
अक्।०१.०८.०२७अब् प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम् ।
अक्।०१.०८.०२७च्द् इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः ॥ २७ ॥
अक्।०१.०८.०२८अब् कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः ।
लिङ्ग-सूरी - AK.01.08.027
प्रेमेति—प्रियस्य भावः प्रेमा । प्रेम च । प्रियता च । हृद कर्म हार्दम् । स्निह्यत इति स्नेहः । ʻष्णिह प्रीतौ’ । स्नेहनामानि ॥ दोग्धीति दोहः तं ददतीति दोहदम् । ʻदुह प्रपूरणे । इच्छति ययेति इच्छा । ʻइषु इच्छायाम् । काङ्क्षति काङ्क्षा । ʻकाक्षि काङ्क्षायाम् । स्पृहयतीति स्पृहा । ʻस्पृह ईप्सायाम् । ईहनं ईहा । ʻईह चेष्टायाम् । तृष्यतीति तृट् । तर्षश्च । ʻञितृषा पिपासायाम् । वाञ्छतीति वाञ्छा । ʻवाछि इच्छायाम् । लब्धुमिच्छा लिप्सा । ʻडुलभष् प्राप्तौ’ । मनो रथो यस्य सः मनोरथः । काम्यते कामः । ʻकमु कान्तौ’ । अभिलषति अभिलाषः । ʻलष कान्तौ’ । इच्छानामानि ॥ तर्षणं तर्षः । ʻतृष पिपासायाम् । स एवाधिकश्चेत् लालसा । अतिशयेन लस्यते लालसा । ʻलस श्लेषणक्रीडनयोः’ । भृशतराभिलाषनाम ॥ २७ ॥
मल्लि-नाथः - AK.01.06.027
प्रेमा—स्नेहः । स्नेहनामानि ॥ पुंलिङ्गप्रेमशब्दस्तद्धितान्तः । नपुंसकलिङ्गप्रेमशब्दः कृत्प्रत्ययान्तः । तस्मात्—ʻस्नेहोऽस्त्री प्रेम सौहार्दमजीर्यं हार्दसौहृदे इत्यन्यसमीरिता सङ्ग्रहोक्तिरपि युक्ता । अथ दोहदम्—तर्षश्च तृष्णानामानि ॥ स महान् लालसा द्वयोः । अत्यर्थमिति वा पाठः । अतितृष्णानाम ॥ २७ ॥
[[०१.१३८]]
अक्।०१.०८.०२८च्द् उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा ॥ २८ ॥
मूलम् - ०१.०८.०२९
अक्।०१.०८.०२९अब् स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे ।
अक्।०१.०८.०२९च्द् उत्साहो व्यवसायः स्यात् स वीर्यमतिशक्तिभाक् ॥ २९ ॥
लिङ्ग-सूरी - AK.01.08.028-29
उपाधिरिति—उप समीपे आधीयते धर्मोऽत्रेति उपाधिः । धर्मचिन्ताया नाम ॥ आधीयते दैन्यमनेन आधिः । ʻडुधाञ् धारणपोषणयोः’ । मनोव्यथानाम ॥ चिन्त्यते चिन्ता । ʻचिति स्मृत्याम् । दारिद्र्यादिना वितर्कनाम ॥ स्मर्यत इति स्मृतिः । ʻस्मृ आध्याने । विस्मृतस्मरणनाम । आ समन्तात् ध्यायते आध्यानम् । ʻध्यै चिन्तायाम् । उत्कण्ठात्मकस्मरणनाम ॥ केचित् त्रय एकार्था इति वदन्ति । उत्कण्ठ्यते उत्कण्ठा । ʻकठि शोके । उत्कल्यते उत्कलिका । ʻकल सङ्ख्याने । औत्सुक्यनामानि ॥ उत्सहनं उत्साहः । ʻषह मर्षणे । व्यवसीयत इति व्यवसायः । ʻषोऽन्तकर्मणि । अध्यवसायो वा । उत्साहनामानि ॥ वीरस्य कर्म वीर्यम् । अतिशक्तिसहितोद्योगनाम ॥२८-९ ॥
मल्लि-नाथः - AK.01.08.028-29
उपाधिः—धर्मचिन्ता । धर्मचिन्ता उपाधिः स्यात् । पुंसि—व्यथा । मनोव्यथा आधिः स्यात् । स्याच्चिन्ता—आध्यानम् । चिन्तानामानि ॥ चिन्तियाशब्दोऽप्यस्ति । ʻचिन्ता स्याच्चिन्तिया स्मृतिः’ इति रभसकोशः । उत्कण्ठा—समे । औत्सुक्यनामानि । समशब्दग्रहणात् सर्वस्यापि ग्रहणम् । ʻउत्कण्ठा स्यादुत्कलिका रतिश्च रणरणकम् इत्यन्योक्तायल्लकादय ईषद्भिन्नार्थकाः ।
ʻउत्कण्ठा परितापो रणरणकं जागरस्तनोस्तनुता ।
फलमिदमहेयमाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥
उत्साहो—स्यात् । यत्ननामनी ॥ ʻयत्नोत्साहोद्यमायासास्तरीषोऽध्यवसायवत् इति वैजयन्ती (पृ। ९५, श्लो। १६७) । स वीर्यमतिशक्तिभाक् । स यत्नोऽतिशक्तिभाक् चेत् वीर्यं स्यात् । ʻअतिशयशक्तिर्वीर्यमिति त्रिकाण्डेऽमरमाला ॥ २८-९ ॥
[[०१.१३९]]
मूलम् - ०१.०८.०३०
अक्।०१.०८.०३०अब् कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।
अक्।०१.०८.०३०च्द् कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥
लिङ्ग-सूरी - AK.01.08.030
कपट इति—के शिरसि पट इव आच्छादकः कपटः । कं ब्रह्माणमपि पटतीति वा । ʻपट गतौ’ । व्यजतीति व्याजः । ʻअज गतिक्षेपणयोः’ । दभ्नोति हिनस्तीति दम्भः । ʻदम्भु आज्ञापने । उप समीपे धीयत इत्युपधिः । ʻडुधाञ् धारणपोषणयोः’ । छाद्यते स्वरूपमनेनेति छद्म । ʻछद अपवारणे । कितवस्य कर्म कैतवम् । कपटनामानि ॥ कुत्सिता सृतिः हिंसा कुसृतिः । ʻसृ गतौ’ । निकृष्टं कृणाति हिनस्तीति निकृतिः । ʻकॄ हिंसायाम् । शठतीति शठः । ʻशठ हिंसासङ्क्लेशनकैतवेषु’ । शठस्य कर्म शाठ्यम् । अनात्मकव्यारपारनामानि ॥ प्रमाद्यतीति प्रमादः । ʻमदी हर्षे । न विद्यतेऽवधानं यस्य सः अनवधानः । तस्य भावः अनवधानता । चित्ताकुलतानामनी ॥ ३० ॥
मल्लि-नाथः - AK.01.08.030
कपटो—कैतवे । कपटनामानि ॥ ʻभिषं निभं छलं दण्डाजिनं गजनिमीलनम् । एतानि पञ्च च । कुसृतिः—शाठ्यम् । शाठ्यनामानि । प्रमादोऽनवधानता । अनवधाननामनी ॥ ३० ॥
मूलम् - ०१.०८.०३१
अक्।०१.०८.०३१अब् कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ।
अक्।०१.०८.०३१च्द् स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा ॥ ३१ ॥
अक्।०१.०८.०३२अब् हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ।
लिङ्ग-सूरी - AK.01.08.031
कौतूहलमिति—एते शब्दा रूढाः । कुत्सितं पापं तूलयतीति कौतूहलम् । कुतूहलं च । ʻतूल निष्कर्षे । कुत्सितं तोजयतीति कुतुकम् । ʻतुज हिंसाबलादाननिकेतेषु’ । कुतुकमेव कौतुकम् । अननुभूताभीष्टाभिलाषनामानि ॥ विलसति येनेति विलासः । ʻलस श्लेषणक्रीडनयोः’ । प्रिये आगते सति प्रियाया अङ्गेषु यो विशेषो जायते तस्य नाम ॥ विशेषेण बुक्कति गर्वतीति बिब्बोकः । ʻबुक्क गर्वे । प्रिये आगते सति प्रियाया गर्वादनादरनाम ॥ विशेषेण भ्रमतीति विभ्रमः । ʻभ्रमु अनवस्थाने । शृङ्गाराधिक्यात् चित्तवृत्त्यनवस्थाननाम ॥ ललतीति ललितम् । ʻलल विलासे । स्वपरिकल्पितसुकुमाररत्याद्यङ्गचेष्टितनाम ॥ हिलतीति हेला । हेडते वा । ʻहिल भावकरणे ʻहेडृ अनादरे इति वा धातुः । शृङ्गारक्रीडानाम ॥ ललनं लीला । ʻलीङ् श्लेषणे । मनोमधुरवागङ्गचेष्टितैः प्रियानुकरणनाम ॥ स्त्रीणां शृङ्गारभावजाः क्रिया अमी हावा उच्यन्ते । हूयन्ते कामिनः एभिरिति हावाः । ʻहु दानादनयोः’ ॥ ३१ ॥
मल्लि-नाथः - AK.01.08.031
कौतूहलं—कुतूहलम् । अननुभूताभीष्टाभिलाषनामानि ॥ स्त्रीणां—भावजाः । स्मितकटाक्षसंवृत्यादयो विलासाः । भर्त्सनादयो बिब्बोकाः । वचनभूषणादिवृत्तयो विभ्रमाः । सुकुमारक्रमो ललितम् । धार्ष्ट्याचरणं हेला । प्रियगतिवचनाद्यनुकरणं लीला । इतिशब्देन मोट्टायितकुट्टमितादीनां ग्रहणम् । तत्र मोट्टायितं कर्णकण्डूयनगात्रभङ्गादि । कुट्टमितमोष्ठग्रहणसुखे दुःखाभिनयः । किलकिञ्चितं क्रोधाश्रुहर्षभीत्यादि साङ्कर्यं विकृतमुखभाषणम् । विच्छित्तिमाल्यभूषणादिनिरासः विक्षेपः । असकलप्रतिकर्म मौग्ध्यम् । स्त्रीणां शृङ्गारभावादुत्पन्नविलासादिचेष्टा हावशब्दवाच्याः ॥ ३१ ॥
[[०१.१४१]]
अक्।०१.०८.०३२च्द् द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ ३२ ॥
मूलम् - ०१.०८.०३३
अक्।०१.०८.०३३अब् व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् ।
अक्।०१.०८.०३३च्द् घर्मो निदाघः स्वेदः स्यात् प्रलयो नष्टचेष्टता ॥ ३३ ॥
लिङ्ग-सूरी - AK.01.08.032-33
द्रवेति—द्रवति हृदयमनेनेति द्रवः । ʻद्रु गतौ’ । केलति चित्तं केलिः । ʻकेलृ चलने । किलतीति वा । ʻकिल श्वैत्ये क्रीडायां च्ö । परिहसतीति परीहासः । ʻहसे हसने । क्रीडतीति क्रीडा । ʻक्रीडृ विहारे । ललनं लीला। ʻलीङ् श्लेषणे । खेलेति वा पाठः । खेलतीति खेला । ʻखेलृ चलने । नृणाति रत्यतिशयं प्रापयतीति नर्म । ʻनॄ नये । प्रियाणां प्रियाभिः सह क्रियमाणरतिपरिहासनाम ॥ व्यजति क्षपयतीति व्याजः । ʻअज गतिक्षेपणयोः’ । अपदिश्यतेऽतद्रूपेणानेनेति अपदेशः । ʻदिश अतिसर्जने । लक्ष्यतेऽनेनेति लक्ष्यम् । ʻलक्ष दर्शनाङ्कनयोः’ । मिपनामानि ॥ क्रीडतीति क्रीडा । ʻक्रीडृ विहारे । खेलतीति खेला । ʻखेलृ चलने । कूर्दत इति कूर्दनम् । ʻकुर्द क्रीडायाम् । विहारनामानि ॥ अङ्गं जिघर्तीति घर्मः । ʻघृ क्षरणदीप्त्योः’ । नितरां दहतीति निदाघः । ʻदह भस्मीकरणे । निदाघकाले जातो वा निदाघः । स्विद्यतेऽनेनाङ्गमिति स्वेदः । ʻष्विदा गात्रप्रक्षरणे । स्वेदनामानि ॥ प्रलीयते क्रिया अत्रेति प्रलयः । ʻलीङ् श्लेषणे । नष्टचेष्टतानाम ॥ ३२-३ ॥
मल्लि-नाथः - AK.01.08.032-33
द्रवकेलि—नर्म च । कान्तैः कान्ताभिः सह कृतपरिहासभर्त्सनताडनादिनामानि । व्याजो—लक्षं च । ʻलक्षं सङ्ख्या व्याजलक्ष्ये इति रुद्राभिधानात् लक्षं मूर्धन्यान्तम् । विषमनामानि । अत्र कपटपर्यायमपि प्रपञ्चयन्ति ।
ʻसरागमुर्व्या मृगनाभिदम्भादपारकर्पूरपदेन कीर्त्या ।
रत्यापि दन्तच्छदरुक्झलेन स एकहेलं सुभगोऽवगूढः’ ॥
इति धर्मशर्माभ्युदयः । क्रीडा—कूर्दनम् । कूर्दनमिति च क्वचित् पाठः । ʻउपधायां च्ö (८। २। ७८) इति दीर्घत्वत्वमत्र कैश्चिन्नेष्यत इति रक्षितवचनात् कुर्दनमित्यप्यस्ति । विहारनामानि ॥ घर्मो—स्वेदः स्यात् । स्वेदनामानि ॥ प्रलयो नष्टचेष्टता । नष्टचेष्टतेति निष्पन्दस्थितिः । सा प्रलयः स्यात् । अनुक्तम्—ʻकालिका तु विवर्णता’ । वैवर्ण्यं कालिका स्यात् ॥ ३२-३ ॥
[[०१.१४२]]
मूलम् - ०१.०८.०३४
अक्।०१.०८.०३४अब् अवहित्थाकारगुप्तिः समौ संवेगसम्भ्रमौ ।
अक्।०१.०८.०३४च्द् स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम् ॥ ३४ ॥
अक्।०१.०८.०३५अब् मध्यमः स्याद् विहसितं रोमाञ्चो रोमहर्षणम् ।
लिङ्ग-सूरी - AK.01.08.034
अवहित्थेति—अवहीयते गोप्यते आकारोऽत्रेति अवहित्था । ʻओहाक् त्यागे ।आकारगुप्तिनाम ॥ संविज्यते संवेगः । ʻओ विजी भयचलनयोः’ । सम्भ्रमत्यनेनेति सम्भ्रमः । ʻभ्रमु अनवस्थाने । सम्भ्रमनामनी ॥ आ समन्तात् छुरतीति आच्छुरितकम् । ʻछुर छेदने । उत्प्रास्यते उत्क्षिप्यतेऽनेनेति उत्प्रासः । तेन सह वर्तत इति सोत्प्रासः । सोत्प्रासो हासः आच्छुरितकमित्युच्यते । सामर्षहासनाम ॥ स हासः मनाक् ईषच्चेत् स्मितमित्युच्यते । स्मीयते स्मितम् । ʻष्मिङ् ईषद्धसने । ईषद्धासनाम ॥ विहस्यते विहसितम् । ʻहस हसने मध्यमहासनाम ॥ रोमाणि अञ्चतीति रोमाञ्चः । ʻअञ्चु गतिपूजनयोः’ । रोमाणि हृष्यन्त्यनेन रोमहर्षणम् । ʻहृष तुष्टौ’ । पुलकोद्गमनामनी ॥ ३४ ॥
मल्लि-नाथः - AK.01.06.034
अवहित्थाकारगुप्तिः । लज्जाभयादिहेतुकाकारगोपनमवहित्था स्यात् । अवहित्थमप्यस्ति । ʻन पुमानवहित्था स्यादक्ली गृहजालिकाप्यस्याम् इति वैजयन्ती (पृ। १४३, श्लो। ८६) । समौ—सम्भ्रमौ । इष्टदर्शनादीभ्यो भूततारतम्यविरहनामनी ॥ स्यात्—सोत्प्रासः । परिहासवचनसहितहास्यमाच्छुरितकं स्यात् ॥ स मनाक् स्मितम् । स हासो मनाक् चेत् स्मितं भवति । मनाक्शब्देनादृष्टदन्तत्वलक्षणम् । ʻस्मितं त्वदृष्टदशने हासो वक्रोष्ठिका न ना’ इति वैजयन्ती (पृ। १४२, श्लो। ८३) । मध्यमं—विहसितम् । स्मितं मध्यमं चेद् विहसितम् । अनुक्तम्—ʻअट्टहासो महत्तरः’ । स हासो महान् चेत् अट्टहासः स्यात् । रोमाञ्चो—हर्षणम् । पुलकोद्गमनामनी ॥ क्वचित् स्पष्टलिङ्गस्यापि साहचर्यमपेक्ष्यम् ।
ʻभयाद् यदेवोद्गतमङ्गनानां देवासुराणां प्रधनोत्सुकानाम ।
तदेव हर्षश्च तयोर्जयेन रोमाञ्चमस्याप्युपकारि जातम् ॥
इति राघवपाण्डवीयम् (द्विसं। ६। ४८) ॥ ३४ ॥
[[०१.१४३]]
अक्।०१.०८.०३५च्द् क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम् ॥ ३५ ॥
मूलम् - ०१.०८.०३६
अक्।०१.०८.०३६अब् विप्रलम्भो विसंवादो रिङ्खणं स्खलनं समे ।
अक्।०१.०८.०३६च्द् स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ॥ ३६ ॥
लिङ्ग-सूरी - AK.01.08.035-36
क्रन्दितमिति—क्रन्द्यतेऽनेन क्रन्दितम् । ʻक्रदि आह्वाने रोदने च्ö । रोदित्यनेन रुदितम् । ʻरुदिर् अश्रुविमोचने । क्रोशत्यनेन क्रुष्टम् । ʻक्रुश आह्वाने रोदने च्ö । रुदितनामानि ॥ जृम्भन्तेऽनेनेति जृम्भः । जृम्भणं च । ʻजृभि गात्रविनामे । निद्रावसाने आरम्भे वा मुखविकासविशेषनामनी ॥ विप्रलभ्यतेऽनेन विप्रलम्भः । ʻडुलभष् प्राप्तौ’ । विसंवदतीति विसंवादः । ʻवद व्यक्तायां वाचि । अङ्गीकृतापह्नवनामनी ॥ रिङ्खतीति रिङ्खणम् । ʻरिखि गतौ’ । रिङ्गणमिति वा पाठः । ʻरिगि गतौ’ । स्खलतीति स्खलनम् । ʻस्खल सञ्चलने । स्वधर्माच्चलननामनी ॥ चत्वार्येतानि प्रतारणस्यैवेति केचित् ॥ नियतं द्रान्तीन्द्रियाण्यत्रेति निद्रा । ʻद्रा कुत्सायां गतौ’ । शेते शयनम् । ʻशीङ् स्वप्ने । स्वपितीति स्वापः । स्वप्नः । ʻञिष्वप् शये । संविशत्यत्रेति संवेशः । ʻविश प्रवेशने । निद्रानामानि ॥ ३५-६ ॥
मल्लि-नाथः - AK.01.08.035-36
क्रन्दितं—क्रुष्टम् । रुदितनामानि ॥ जृम्भस्तु—जृम्भणम् । अङ्गभङ्गनामानि ॥ ʻनिद्रावसानप्रारम्भयोर्मुखविकासविशेषनामनी इति लिङ्गभट्टीयम् । जृम्भो नियतस्त्रीलिङ्गश्चेत् मुखविकासनाम । ʻजृम्भणं तु त्रयी जृम्भा मुखभेदस्तु जृम्भिका’ इति वैजयन्ती (पृ। १४३, श्लो। ८८) । विप्रलम्भो विसंवादः । फलविप्रतिपत्तिनामनी ॥ रिङ्खणं—समे । अङ्गीकृतत्यागनामनी । स्यान्निद्रा—संवेश इत्यपि । निद्रानामानि ॥ स्वप्नशब्दोऽवस्थात्रयमध्यावस्थायामपि स्यात् । ʻनिद्रा गुडाका सुप्तिश्च स्वप्नस्त्वेवात्र दर्शनम् इति वैजयन्ती (पृ। ९९, श्लो। १९७) ॥ ३५-६ ॥
[[०१.१४४]]
मूलम् - ०१.०८.०३७
अक्।०१.०८.०३७अब् तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम् ।
अक्।०१.०८.०३७च्द् अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥
अक्।०१.०८.०३८अब् स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः।
अक्।०१.०८.०३८च्द् कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥
इति नाट्यवर्गः
लिङ्ग-सूरी - AK.01.08.037-38
तन्द्रीति—ततम् इन्द्रियाणां विस्तारं द्रातीति तन्द्री । तन्द्रा । तन्द्रिश्च । ʻद्रा कुत्सायां गतौ’ । प्रमीलन्ति इन्द्रियाण्यत्र प्रमीला । ʻमील निमेषणे । महाश्रमोपजनितेन्द्रियोपरतिनामनी ॥ भ्रुवोः कुटिः कुटिलता भ्रकुटिः, भ्रुकुटिः, भ्रूकुटिश्च । ʻकुट कौटिल्ये । भ्रुवोः कुटिलतानाम ॥ असौम्या दृष्टिः अदृष्टिः । विरुद्धदर्शननाम ॥ संसिध्यतीति संसिद्धिः । ʻषिधु संराद्धौ’ । प्रकर्षेण क्रियते प्रकृतिः । ʻडुकृञ् करणे । स्वस्य रूपं स्वरूपम् । स्वमात्मानं भावयतीति स्वभावः । ʻभुवोऽवकल्कने । निसृज्यते निसर्गः । ʻसृज विसर्गे । स्वभावनामानि ॥ वेपते वेपथुः । ʻटुवेपृ कम्पने । कम्पते कम्पः । ʻकपि चलने । कम्पनामनी ॥ अशुभं क्षणोति हिनस्तीति क्षणः । ʻक्षणु हिंसायाम् । उत्कृष्टः हर्षः उद्धर्षः । मह्यते जनैरिति महः । ʻमह पूजायाम् । उत् उद्धतं हूयन्ते जना अत्रेति उद्धवः । उत् उद्धतं जनान् सुवतीति उत्सवः । ʻषू प्रेरणे । उत्सूते सुखमिति वा । ʻषूङ् प्राणिगर्भविमोचने । उत्सवनामानि ॥ ३७-८ ॥
इत्यमरकोशपदविवृतौ नाट्यवर्गः
मल्लि-नाथः - AK.01.08.037-38
तन्द्री प्रमीला । निद्राभरजनितेन्द्रियविकारनामनी ॥ ʻविभज्य नक्तन्दिवमस्ततन्द्रिणा’ (किरा। १। ९) इति केचिद् ह्रस्वान्तस्तन्द्रिरिति । ʻतन्त्रीः कर्णामृतं कूज तन्द्रीः संश्रय चक्षुषी इति केषाञ्जिद्दीर्घान्तः । भ्रकुटिः—स्त्रियाम् । भ्रूकौटिल्यनामानि । भ्रुकुटिशब्दो रुवर्णादिः ऋवर्णादिश्च भवति । ʻभ्रुकुटि र्भ्रूकुटिः स्त्रियाम् । भ्रुकुटिर्भृकुटिः सारी काली तीरतरङ्गिका । रेचितं त्वेकया भ्रुवा’ इति वैजयन्ती । (पृ। १४३, श्लो। ९१-२) एकभ्रुवो भेदो रेचितं स्यात् ॥ अदृष्टिः—अक्ष्णि । रोषादिभिविकृतदृष्टिः अदृष्टिः स्यात् । संसिद्धि—निसर्गश्च । स्वभावनामानि ॥ चशब्दाः रूपभावसर्गसमुच्चयार्थाः । अथ—कम्पः। कम्पनामनी ॥ अथ क्षण—उत्सवः । उत्सवनामानि ॥ अत्र महशब्दोऽकारान्तः । यथा—ʻस स्वयंवरमहाय महेन्द्रान् इति नैषधे (५। १) । अनुक्तम्—ʻपूर्णानकं पूर्णपात्रं वस्त्राद्याकृष्टमुत्सवे । उत्सवे आकृष्टवस्त्रादिनामनी ॥ ʻउत्सवार्थं तु यत् तूर्यं तत्र स्यात् प्रियवादिका’ । उत्सवार्थतूर्यं प्रियवादिका स्यात् । मङ्गलवाद्यनाम ॥ ३७-८ ॥
इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते नाट्यवर्गः
[[०१.१४६]]