०७ शब्दादिवर्गः

मूलम् - ०१.०७.००१

(०१.०७.००१अब्) शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ।
(०१.०७.००१च्द्) स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ॥ १ ॥
(०१.०७.०२अब्) आरवारावसंरावविरावा अथ मर्मरः ।
(०१.०७.००२च्द्) स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ॥ २ ॥

लिङ्ग-सूरी - AK.01.07.001-2

शब्द इति—शब्द्यते इति शब्दः । ʻशब्द शब्दक्रियायाम् । निनदतीति निनादः । निनदश्च । ʻणद अव्यक्ते शब्दे । ध्वनतीति ध्वनिः । ध्वानश्च । ʻध्वन शब्दे । रूयते रवः । आरवः । आरावः । संरावः । विरावश्च । ʻरु शब्दे । स्वनतीति स्वनः । स्वानश्च । ʻस्वन शब्दे । निर्घुष्यते निर्घोषः । ʻघुषिर् विशब्दने । नितरां ह्रादते निर्ह्रादः । ʻह्राद अव्यक्ते शब्दे । नदतीति नादः । ʻणद अव्यक्ते शब्दे । निस्वाननिस्वनशब्दौ स्वानशब्दवदुन्नेयौ । समुद्रघोषादिशब्दनामानि ॥ मर्मरध्वनिरत्रास्तीति मर्मरः । वस्त्रपर्णस्वननाम ॥ शिङ्क्ते शिञ्जितम् । ʻशिजि अव्यक्ते शब्दे भूषणध्वनिनाम ॥ १-२ ॥

मल्लि-नाथः - AK.01.07.001-2

शब्दे—विरावाः । रावशब्दोऽपि साधितः । पृथु भाषार्थ(?) इति चुरादिपाठाद् रौतेर्भाषार्थत्वात् णिच् । प्रयोगश्च । ʻसमाविशद्भीषणरावगह्वरम् इति । अव्यक्तशब्दनामानि ॥ अथ मर्मरः—पर्णानाम् । वस्त्रपर्णानां रावः मर्मरः स्यात् ॥ भूषणानां च शिञ्जितम् । भूषणध्वनिः शिञ्जितं स्यात् । ʻशिञ्जापरशुशिशिरपिशुनशिखाश्रेणयः’ इत्यूष्मभेदपाठात् तालव्यादिः । शिञ्जैव शिञ्जानम् । ʻशिञ्जानमञ्जुमञ्जीरविरञ्जितपदाम्बुजाम् इति प्रयोगश्च ॥ १-२ ॥

[[०१.११८]]

मूलम् - ०१.०७.००३

(०१.०७.००३अब्) निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ।
(०१.०७.००३च्द्) वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः ॥ ३ ॥

लिङ्ग-सूरी - AK.01.07.003

निक्वाण इति—निक्वणतीति निक्वाणः । निक्वणः । क्वाणः । क्वणः । क्वणनम् । एतानि वीणादिवाद्यस्वननामानि ॥ वीणायाः क्वणिते प्रादेः प्रक्वाणः, प्रक्वणादयः । प्राद्युपसर्गे क्वणतिधातुजाः प्रक्वाणप्रक्वणादयः वीणायाः क्वणिते वर्तन्ते । निक्वाणादयस्तु वीणादिसर्ववाद्यध्वनौ वर्तन्त इत्यर्थः । ʻवण क्वण शब्दे ॥ ३ ॥

मल्लि-नाथः - AK.01.07.003

निक्वाणो—क्वणनमित्यपि । वीणादिध्वनिनामानि ॥ वीणायाः—प्रक्वणादयः । वीणामात्रध्वनिनामानि ॥ अनुक्तम्—ʻमार्जना मुरजध्वानः’ । मुरजध्वनिर्मार्जना स्यात् ॥ ʻगुण्डिलो मर्दलध्वानः’ । मर्दलध्वनिर्गुण्डिलः स्यात् ॥ ३ ॥

[[०१.११९]]

मूलम् - ०१.०७.००४

(०१.०७.००४अब्) कोलाहलः कलकलस्तिरश्चां वाशितं रुतम् ।
(०१.०७.००४च्द्) स्त्री प्रतिश्रुत् प्रतिध्वाने गीतं गानमिमे समे ॥ ४ ॥
इति शब्दादिवर्गः

लिङ्ग-सूरी - AK.01.07.004

कोलाहल इति—कोलान् वराहानाहलतीति कोलाहलः । ʻहल विलेखने । कल्यते शब्द्यते कलकलः । ʻकल शब्दसङ्ख्यानयोः’ । ʻकल किल क्षेपे इति वा धातुः । अव्यक्तनानावचनमहाध्वनिचयनामनी ॥ वाश्यते इति वाशितम् । ʻवाशृ शब्दे । मृगपक्षिरवनाम ॥ प्रतिश्रूयते प्रतिश्रुत् । ʻश्रु श्रवणे । प्रतिध्वाननाम ॥ गीयते गीतम् । गानं च । ʻकै गै रै शब्दे । गीतध्वनिनामानि ॥ ४ ॥

इत्यमरकोशपदविवृतौ शब्दादिवर्गः

मल्लि-नाथः - AK.01.07.004

कोलाहलः कलकलः । बहुध्वनिनामनी ॥ तिरश्चां वाशितं रुतम् । मृगपक्षिणां ध्वनिर्वाशितं स्यात् । ʻशिवं वा शशवाशितम् इति कर्पिणाभ्युदयप्रयोगात् (१८। ९२) तालव्यमध्यः । ʻवासितं भावितं रुते इति रुद्राभिधानाद् दन्त्यमध्यश्च भवति ॥ अनुक्तम्—ʻगवां तु रम्भितं हुम्फा’ । गवां ध्वनिनामनी ॥ ʻबुक्कनं भषितं शुनः’ । शुनकध्वनिनामनी ॥ स्त्री—प्रतिध्वाने । गुहादिप्रतिबिम्बितध्वनिनामनी ॥ गीतं—समे । गीतनामनी । इमे समे इत्यनेन रागगीत्यादिकं गीतं प्रावेशिक्यादिन्ध्रुवारूपं मन्द्रकादिरूपं गानमिति विशेषपक्षं विहाय ʻगीतं गानं च गेयं च गीतिर्गान्धर्वमित्यपि इति सामान्यपक्षमवलम्ब्योक्तम् ॥ ४ ॥

इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथविरचितेऽमरपदपारिजाते शब्दादिवर्गः

[[०१.१२०]]