०६ वाग्वर्गः

मूलम् - ०१.०६.००१

(०१.०६.००१अब्) ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती ।
(०१.०६.००१च्द्) व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १ ॥

लिङ्ग-सूरी - AK.01.06.001

ब्राह्मीति—ब्रह्मण इयं ब्राह्मी । विश्वानि भूतानि भ्रियन्तेऽनया भारती । ʻभृञ् भरणे । भरतस्य ब्रह्मण इयं वा । भरतस्य आदित्यस्य प्रभा वा । भाष्यते भाषा । ʻभाषा व्यक्तायां वाचि । गृणाति अस्खलितम् उच्चारयति गीः । ʻगॄ शब्दे । गीयते स्तूयते वा । ʻगै शब्दे । उच्यत इति वाक् । ʻवच परिभाषणे । वण्यते स्तूयते वाणी । ʻवण शब्दे । सरः प्रसरणं सर्वत्रास्तीति सरस्वती । सरस्वतीनामानि ॥ व्याह्रियते उच्यते व्याहारः । ʻहृञ् हरणे । उच्यते उक्तिः । ʻवच परिभाषणे । लप्यते लपितम् । ʻलप व्यक्तायां वाचि । भाष्यते भाषितम् । ʻभाष व्यक्तायां वाचि । उच्यत इति वचनम् । वचश्च । एतानि वचननामानि ॥ १ ॥

मल्लि-नाथः - AK.01.06.001

ब्राह्मी—सरस्वती । सरस्वतीदेवीनामानि ॥ इकारान्तवाणिशब्दः आकारान्तवाचाशब्दोऽप्यस्ति । तत्र प्रथमो यथा—ʻएका वाणिरलङ्करोति पुरुषम् (नी। श। १५) इति । अन्तिमो यथा—ʻकुठारदण्डः कुलमृत्युरेषा वाचा समीचीनसुवीरधन्वा’ इति । व्याहारः—वचः ।वचननामानि । सरस्वतीपर्यायं च पठन्ति ।

ʻकवेरपार्था-मधुरा न भारती कथेव कर्णान्तमुपैति भारती ।

इति राघवपाण्डवीये (द्विसं। १। ५) ।

ʻसन्तः क्षतानि जनयन्तु यथेष्टमस्यामाभाति तैरधिकमेव सरस्वती मे ।

दन्तक्षतं प्रियतमैरनुभूतिकाले किं मण्डनाय न भवेद् वरसुन्दरीणाम् ॥

इत्यादि ॥ १ ॥

[[०१.१०३]]

मूलम् - ०१.०६.००२

(०१.०६.००२अब्) अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः ।
(०१.०६.००२च्द्) तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥ २ ॥

लिङ्ग-सूरी - AK.01.06.002

अपभ्रंश इति—वाचम् अपभ्रंशयतीति अपभ्रंशः । ʻभ्रंशु अधः पतने शब्दादपभ्रष्टोपशब्दः । शब्दशास्त्राकथितशब्दनामानि ॥ शब्दयत्यवगमयत्यर्थमिति शब्दः । ʻशब्द आविष्कारे । वचोयोग्यो वाचकः । शब्दशास्त्रोक्तशब्दनाम ॥ तिङां चयः सुपां चयः कारकान्विता क्रिया वा वाक्यं भवति । अर्थबोधाय वक्तव्यं वाक्यम् । तिङन्तानां चयो यथा—पचति भवतीत्यादि । सुबन्तचयो यथा—ज्ञानेन मौनमित्यादि । क्रिया यथा—गां जलं फलमानयेत्यादि ॥ २ ॥

मल्लि-नाथः - AK.01.06.002

अपभ्रंशो—वाचकः । शास्त्रे गालिगोणीत्याद्यपशब्दोऽपभ्रंशः स्यात् । गौरित्यादिर्वाचकः शब्दो भवति । तिङ्—वाक्यम् । एकार्थोपरि तिङन्तसुबन्तसमुदायो वाक्यम् । यथा—

ʻकतिचन जृम्भन्ते दिशि कतिचन विकसन्ति काननाभोगे ।

कतिचन नृत्यन्ति गिरौ तथापि भवितव्यमेव भवितव्यम् ॥

ʻभ्रेमुर्ववल्गुर्ननृतुर्जजक्षुर्जगुः समुत्पुप्लुविरे निषेदुः ।

आस्फोटयाञ्चक्रुरभिप्रणेदू रेजुर्ननन्दुविययुः समीयुः ॥ (भट्टि। १३। २८)

ʻकियत्प्रमाणमुदकं जानुदघ्नं नराधिप ।

तथापीयमवस्था ते न हि सर्वे भवादृशः ॥ (भो। प्र। पृ। ४०, श्लो। १८५)

इत्यादि ॥ क्रिया वा कारकान्विता । कारकसम्बद्धक्रियापि वाक्यं भवति । यथा—

ʻततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।

नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥ (म। भार। ७। १५९। ४२)

ʻमा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा ।

वाहिनी जलधरः कुलिशो वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥

अत्र बाधिष्ठा इति क्रियाध्याहर्तव्या ।

ʻछायासन्तपिताध्वन्यः फलैः पोषितनीडजः ।

हन्त वृक्षो महानेष समिदर्थे विभिद्यते ॥

अत्र जाल्मेनेति कारकमध्याहार्यम् ॥ २ ॥

[[०१.१०५]]

मूलम् - ०१.०६.००३

(०१.०६.००३अब्) श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः ।
(०१.०६.००३च्द्) स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी ॥ ३ ॥
(०१.०६.००४अब्) शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ ।

लिङ्ग-सूरी - AK.01.06.003

श्रुतिरिति—श्रूयेते धर्माधर्मावनयेति श्रुतिः । ʻश्रु श्रवणे । धर्माधर्मौ वेदयतीति वेदः । ʻविद ज्ञाने । आम्नायते पारम्पर्येण आम्नायः । ʻम्ना अभ्यासे ऋग्यजुःसामाख्याः त्रयोऽवयवा यस्याः त्रयी । वेदनामानि ॥ धारयति जगन्तीति धर्मः । वेदोक्तविधिनाम ॥ ऋच्यते स्तूयते ऋक् । ʻऋच स्तुतौ’ । पापं स्यतीति साम । ʻषोऽन्तकर्मणि । इज्यतेऽनेन यजुः । ʻयज देवपूजासङ्गतिकरणयजनदानेषु’ । इति त्रयो वेदाः । तेषां समाहारः त्रयी । वेदत्रयसमूहनाम ॥ शिक्ष्यतेऽनया वर्णादि शिक्षा । ʻशिक्ष विद्योपादाने । आदिशब्देन अङ्गान्युच्यन्ते ।

ʻशिक्षा व्याकरणं कल्पो निरुक्तं ज्योतिषां गतिः ।

छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते ॥

इति श्रुत्यङ्गनामानि ॥ ओमित्यक्षरम् ओङ्कारः । प्रणूयते स्तूयतेऽनेनेति प्रणवः । ʻणु स्तुतौ’ । वेदप्रणवनाम ॥ ३ ॥

मल्लि-नाथः - AK.01.06.003

श्रुतिः—त्रयी । वेदनामानि ॥ धर्मस्तु तद्विधिः । वेदोक्तविधिर्धर्मः स्यात् । स्त्रियाम्—त्रयी । त्रयाणां वेदानां समाहारस्त्रयी । अत्र त्रयीति सामान्याकारेणोक्तम् । शिक्षे—अङ्गम् । शिक्षादीनि वेदाङ्गानि ।

ʻशिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ।

छन्दसां विचितिश्चेति षडङ्गो वेद उच्यते ॥

ओङ्कारप्रणवौ समौ । प्रणवनामनी ॥ ३ ॥

[[०१.१०६]]

(०१.०६.००४च्द्) इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः ॥ ४ ॥

मूलम् - ०१.०६.००५

(०१.०६.००५अब्) आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः ।

लिङ्ग-सूरी - AK.01.06.004

इतिहास इति—इतिह इति पारम्पर्योपदेशः आस्तेऽस्मिन्निति इतिहासः । ʻआस उपवेशने । पुरावृत्तनृपादिचरित्रग्रन्थसन्दर्भनाम ॥ उत् ऊर्ध्वमुन्नीयते उदात्तः तद्विपरीतः अनुदात्तः । उदात्तानुदात्तयोः समाहारं प्राप्तः स्वरितः । एते त्रयः स्वरा भवन्ति ॥ प्रत्यक्षागमाभ्याम् अवगन्तव्यस्य वस्तुनोऽनु पश्चात् ईक्षणम् अन्वीक्षा, सा प्रयोजनं यस्याः सा आन्वीक्षिकी । अक्षपादादिप्रणीततर्कशास्त्रनाम ॥ दण्डोऽनया नीयते दण्डनीतिः । ʻणीञ् प्रापणे । चाणक्यादिप्रणीतार्थशास्त्रनाम ॥ ४ ॥

मल्लि-नाथः - AK.01.06.004

इतिहासः पुरावृत्तम् । इतिहासनाम ॥ उदात्ताद्यास्त्रयः स्वराः । उदात्तनिहतस्वरिताः स्वराः । आन्वीक्षिकी—शास्त्रयोः । तर्कविद्या वैशेषिकादिः, अर्थशास्त्रं कामन्दकादि । तयोर्यथाक्रमं आन्वीक्षिकीदण्डनीतिशब्दौ वर्तेते । अनुक्तम्—ʻनामशास्त्रं निघण्टुर्ना’ । नामशास्त्रं निघण्टुरित्युच्यते ॥ ४ ॥

(०१.०६.००५च्द्) आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ॥ ५ ॥

मूलम् - ०१.०६.००६

(०१.०६.००६अब्) प्रबन्धकल्पना कथा प्रवल्हिका प्रहेलिका ।

लिङ्ग-सूरी - AK.01.06.005

आख्यायिकेति—आख्यायते वर्तमाननृपादिचरितमित्याख्यायिका । ʻख्या प्रकथने । हर्षचरितादिग्रन्थसन्दर्भनाम ॥ पुरा भवं पुराणम् । पञ्चलक्षणयुक्तं ब्राह्मवैष्णवादिपुराणनाम ॥

ʻसर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।

वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥

अनया कथ्यत इति कथा । ʻकथु वाक्यप्रबन्धे । रामायणादेर्नाम ॥ प्रवल्हते प्राधान्यं भजते प्रवल्हिका । ʻवल्ह प्राधान्ये । प्रहेलयति हावयति सूचयति भावार्थमिति प्रहेलिका । ʻहिल भावकरणे । विरुद्धार्थवचोनामनी ॥ ५ ॥

मल्लि-नाथः - AK.01.06.005

आख्यायिकोपलब्धार्था । नायकाख्यातनायकोपलब्धार्थवती आख्यायिका । हर्षचरितादि ॥ पुराणं पञ्चलक्षणम् । सर्गप्रतिसर्गादिपञ्चलक्षणोपेतं पुराणम् ।

ʻसर्गश्च प्रतिसर्गश्च वंशो मन्वन्तरं तथा ।

वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥

स्कन्दादि ॥ प्रबन्धकल्पना कथा । स्तोकसत्यबह्वसत्यययुक्ता प्रबन्धकल्पना कथा स्यात् । कादम्बर्यादि ॥ प्रवह्लिका प्रहेलिका । गूढनिक्षिप्तार्थस्य कुतुकहेतोः कार्यविशेषस्य नामानि ।

ʻअष्टौ श्लोकान् कुरुष्वेति पुत्रः पित्रा नियन्त्रितः ।

सप्त श्लोकाः कृतास्तेन पितुराज्ञा न लङ्घिता’ ॥ ५ ॥

[[०१.१०७]]

(०१.०६.००६च्द्) स्मृतिस्तु धर्मसंहिता समाहृतिस्तु सङ्ग्रहः ॥ ६ ॥

मूलम् - ०१.०६.००७

(०१.०६.००७अब्) समस्या तु समासार्था किंवदन्ती जनश्रुतिः ।

लिङ्ग-सूरी - AK.01.06.006

स्मृतिरिति—स्मर्यतेऽनया स्मृतिः । ʻस्मृ आध्याने । मन्वादिप्रणीतधर्मसंहितानाम ॥ समाह्रियतेऽनयेति समाहृतिः । सङ्गृह्यते सङ्क्षिप्यते सङ्ग्रहः । सङ्क्षिप्तग्रन्थसन्दर्भनाम ॥ समस्यते सङ्क्षिप्यते समस्या । ʻअसु क्षेपणे । कविपरीक्षार्थं दीयमानश्लोकांशनाम ॥ किं परस्परं वदन्त्यत्रेति किंवदन्ती । ʻवद व्यक्तायां वाचि । जनैः श्रूयते जनश्रुतिः । ʻश्रु श्रवणे । लोकप्रवादनामनी ॥ ६ ॥

मल्लि-नाथः - AK.01.06.006

स्मृतिस्तु धर्मसंहिता । स्मृतिनाम ॥ समाहृतिस्तु सङ्ग्रहः । सङ्ग्रहग्रन्थनाम ॥ समस्या तु समस्यार्था । समस्यारूपार्थं प्रहेलिका निक्षिप्तार्थकौतुकवती समस्या । अथवा समस्या तु समासार्था समासशब्दवती समस्या । ʻसमस्या तु समासः स्यात् इति वैजयन्ती (पृ। ३४, श्लो। ४०) ।

ʻश्रीभोजेन जितोऽस्मीति चिन्तां चिन्तामणे त्यज ।

ʻजिता देवद्रुमाः पञ्च न दुःखं पञ्चभिः सह ॥

किंवदन्ती जनश्रुतिः । जनवादनामनी ॥ ६ ॥

[[०१.१०८]]

(०१.०६.००७च्द्) वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः ॥ ७ ॥

मूलम् - ०१.०६.००८

(०१.०६.००८अब्) आख्याह्वे अभिधानं च नामधेयं च नाम च ।

लिङ्ग-सूरी - AK.01.06.007

वार्तेति—नृपादिवृत्तिरत्रास्तीति वार्ता । प्रवर्ततेऽत्रेति प्रवृत्तिः । ʻवृतु वर्तने । वृत्तोऽनुवर्तनीयोऽन्तः समाप्तिरस्येति वृत्तान्तः । वृत्तस्यान्तो वा । उद्यते निगद्यते राजादिचरित्रमत्रेत्युदन्तः । ʻवद व्यक्तायां वाचि । वार्तानामानि ॥ अनेन आह्वयन्तीत्याह्वयः । ʻह्वेञ् स्पर्धायां शब्दे च्ö । आहूयतेऽनेनेति वा । ʻहु दानादानयोः’ । अनया आख्यायते आख्या । ʻख्या प्रकथने । आहूयतेऽनया आह्वा । अनेनाभिधीयतेऽभिधानम् । नामैव नामधेयम् । अनेन नमति नाम । ʻणम प्रह्वत्वे शब्दे च्ö । सञ्ज्ञानामानि ॥ ७ ॥

मल्लि-नाथः - AK.01.06.007

वार्ता—उदन्तः स्यात् । वार्तानामानि । अनुक्तम्—ʻरथ्यावादस्तु कोहलः’ । एते द्वे च । वीथीवार्तानामनी ॥ अथाह्वयः—नाम च । सङ्केतितशब्दनामानि ॥ ७ ॥

[[०१.१०९]]

(०१.०६.००८च्द्) हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता ॥ ८ ॥

मूलम् - ०१.०६.००९

(०१.०६.००९अब्) विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् ।

लिङ्ग-सूरी - AK.01.06.008

हूतिरिति—अनया हूयते हूतिः । ʻहू दानादानयोः’ । अनया आकारयन्तीति आकारणा । अनेनाह्वयन्तीत्याह्वानम् । ʻह्वेञ् स्पर्धायां शब्दे च्ö । अथवा हूतिः आकारणं च आह्वानं च । आकारणाह्वाने इति द्वन्द्वम् । एहीति वचसो नामानि ॥ सम्यक् हूयते संहूतिः । बहुभिः कृतस्य एहीति वचसो नाम ॥ विविधो वादो विवादः । व्यवहरत्यनेन व्यवहारः । ʻहृञ् हरणे । इदं मदीयमिदं मदीयमिति परस्परवादनाम ॥ उपन्यस्यते उपन्यासः । ʻअसु क्षेपणे । वाचो मुखं वाङ्मुखम् । वाक्यारम्भनाम ॥ ८ ॥

मल्लि-नाथः - AK.01.06.008

हूतिः—आह्वानम्। इत एहीति वचसो नामानि ॥ समासाङ्गीकारपक्षे आकारणशब्दो नपुंसकः । ʻआकारणमाह्वानम् इति हलायुधः (अ। मा। १। १५४) । व्यासाङ्गीकारपक्षे आकारणाशब्दः स्त्रीलिङ्गः । ʻहूतिराकारणा हावो । हक्कारामन्त्रणाह्वानम् इति वैजयन्ती (पृ। ३३, श्लो। ३०) । संहूतिर्बहुभिः कृता । बहुभिः कृतस्य एहीति वचसो नाम । ʻबहुभिर्मुहुःकृता हक्का संहूतिरिति भण्यते इति वा ॥ विवादो व्यवहारः स्यात् । विवादनाम ॥ उपन्यासस्तु वाङ्मुखम् । ʻयरो ञमि ञम्वेति ककारस्य विभाषा ङकारः । उपन्यासनाम ॥ ८ ॥

(०१.०६.००९च्द्) उपोद्धात उदाहारः शपनं शपथः पुमान् ॥ ९ ॥

मूलम् - ०१.०६.०१०

(०१.०६.०१०अब्) प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे ।

लिङ्ग-सूरी - AK.01.06.009

उपोद्घात इति—उपोद्घन्यते उपोद्घातः । ʻहन हिंसागत्योः’ । उदाह्रियतेऽनेन उदाहारः । प्रकृतार्थचिन्ताग्रन्थस्य नामनी ॥ उदाहरणनामनी इति केचित् । विचारविषयवाक्यस्येत्यन्ये ॥ शपति आक्रोशतीति शपनम् । ʻशप आक्रोशे । शपति लम्भयति विश्वसित्यनेनेति शपथः । ʻशप लम्भने । सत्यवचननामनी ॥ देवतापितृपादादिस्पर्शस्य वा ॥ पृच्छतीति प्रश्नः । पृच्छा च । ʻपृच्छ ज्ञीप्सायाम् । अनुयुज्यतेऽनुयोगः । ʻयुजिर् योगे । कोऽसौ कुत इत्येवंविधस्य वाक्यस्य नामानि ॥ प्रतिविधानार्थं वाक्यं प्रतिवाक्यम् । उत्तरति चोद्यमनेनेति उत्तरम् । ʻतॄ प्लवनतरणयोः’ असावत्रेत्यादिप्रत्युत्तरनामानि ॥ ९ ॥

मल्लि-नाथः - AK.01.06.009

उपोद्घात उदाहारः । प्रतिपाद्यमर्थं बुद्धौ सङ्गृह्य तदर्थमर्थान्तरवर्णनम् उपोद्घातः ॥ शपनं शपथः पुमान् । सत्यवचननामनी । प्रश्नो—पृच्छा च । प्रश्ननामानि ॥ प्रतिवाक्योत्तरे समे । उत्तरनामनी ॥ ९ ॥

[[०१.११०]]

(०१.०६.०१०च्द्) मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥ १० ॥

मूलम् - ०१.०६.०११

(०१.०६.०११अब्) अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः ।

लिङ्ग-सूरी - AK.01.06.010

मिथ्येति—अभि असत्यमारोप्याख्यानम् अभ्याख्यानम् । अध्याख्यानमिति वा पाठः । अन्धो बधिर इत्यादि मिथ्याभियोगनाम ॥ मिथ्या असत्यमभिशस्यते मिथ्याभिशंसनम् । ʻशसि इच्छायाम् । अभि आरोप्य शप्यते अभिशापः । ʻशप आक्रोशे । अविद्यमानपापारोपनामनी ॥ प्रणद्यतेऽनुरागेण प्रणादः । ʻणद अव्यक्ते शब्दे । अनुरागोत्पन्नमणितादिशब्दनाम ॥ १० ॥

मल्लि-नाथः - AK.01.06.010

मिथ्याभियोगोऽभ्याख्यानम् । अध्याख्यानमिति वा । मृषा झकटकनामनी(?) । अथ—अभिशापः । मृषाभूतनिर्भत्सननामनी ॥ प्रणादस्तु—अनुरागजः । अनुरागाज्जातध्वनिविशेषः प्रणादः स्यात् ॥ १० ॥

(०१.०६.०११च्द्) यशः कीर्तिः समाख्या च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ११ ॥

मूलम् - ०१.०६.०१२

(०१.०६.०१२अब्) आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा ।

लिङ्ग-सूरी - AK.01.06.011

यश इति—अश्नुते व्याप्नोति देशान्तरेषु यशः । सान्तः । ʻअशू व्याप्तौ’ । देशान्तरं यातीति वा । ʻया प्रापणे । कीर्त्यते शब्द्यते कीर्तिः । ʻकॄत संशब्दने । समन्तात् आख्यायते समाख्या । ʻख्या प्रकथने । यशोनामानि ॥ समाज्ञेति वा पाठः ॥ स्तूयतेऽनेन स्तवः । स्तोत्रं । स्तुतिश्च । ʻष्टुञ् स्तुतौ’ । नूयतेऽनेन नुतिः । ʻणु स्तुतौ’ । प्रशंसानामानि ॥ आम्रेड्यतेऽसकृदुच्यते आम्रेडितम् । ʻम्रेडृ उन्मादे । असकृद्भाषितनाम ॥ घुष्यत इति घोषणा । ʻघुषिर् शब्दे । आज्ञापयितुं सर्वजनबोधनार्थं पटहादावुच्चैःकृतशब्दनाम ॥ ११ ॥

मल्लि-नाथः - AK.01.06.011

यशः—समाख्या च । समाख्या तुल्यलक्षणमिति हलायुधानुसारी पाठः । ʻयशोऽभिख्यासमाख्यास्तुल्यलक्षणाः’ इति हलायुधः (अ। मा। १। १५३) । यशः कीर्तिः समाज्ञा चेत्ययं वैजयन्त्यनुसारिपाठः । ʻसमाज्ञा च यशः कीर्तिः’ इति वैजयन्ती (पृ। ३४, श्लो। ३६) । ʻकीर्तिः ख्यातिः समाज्ञा च्ö इति रभसकोशः । कीर्तिनामानि ॥ स्तवः—नुतिः । स्तोत्रनामानि ॥ ʻईडा श्लाघा प्रशंसा च वर्णनं च विकत्थनम् । एतानि च ॥ आम्रेडितं द्विस्त्रिरुक्तम् । द्विस्त्रिरुदीरणमाम्रेडितं भवति । ʻएतदेव यथावाचमाम्रेडयति वासवः’ (म। भार। ३। १२४। १३) ॥ उच्चैः—घोषणा । उच्चैःशब्दः घोषणा स्यात् ॥ ११ ॥

[[०१.१११]]

(०१.०६.०१२च्द्) काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥ १२ ॥

मूलम् - ०१.०६.०१३

(०१.०६.०१३अब्) अवर्णाक्षेपनिर्वादपरिवादापवादवत् ।
(०१.०६.०१३च्द्) उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥

लिङ्ग-सूरी - AK.01.06.012-13

काकुरिति—कायतीति काकुः । ʻकै शब्दे । शोकभीत्यादिकृतध्वनिविकारनाम ॥ वर्ण्यते वर्णः । विरुद्धो वर्णः अवर्णः । ʻवर्ण वर्णक्रियाविस्तारगुणवचनेषु’ । ʻवर्ण स्तुतौ’ इति वा धातुः । आक्षिप्यते आक्षेपः । ʻक्षिप प्रेरणे । निकृष्टो वादः निर्वादः । परिवादः । अपवादः । ʻवद व्यक्तायां वाचि । उपक्रोशतीत्युपक्रोशः । ʻक्रुश आह्वाने रोदने च्ö । जुगुप्सते जुगुप्सा । ʻगुप गोपने । कुत्सयते कुत्सा । ʻकुत्स निन्दने । निन्दतीति निन्दा । ʻणिदि कुत्सायाम् । गर्हतीति गर्हणम् । गर्हा च । ʻगर्ह कुत्सायाम् । निन्दानामानि ॥ १२-१३ ॥

पगे ११२ इस् लेफ़्त्।

[[०१.११३]]

लिङ्ग-सूरी - AK.01.06.015

तत्रेति—आ क्षरति परितो व्याप्नोतीति आक्षारणा । ʻक्षर सञ्चलने । मैथुनमुद्दिश्याक्रोशनाम ॥ आभाष्यते सम्यग् भाष्यते आभाषणम् । आलपतीत्यालापः । ʻलप व्यक्तायां वाचि । सुखेन स्थितमिति प्रियवचननाम ॥ प्रलपतीति प्रलापः । निष्प्रयोजनवचननाम ॥ अनुलपतीत्यनुलापः । मुहुर्वचननाम ॥ विलपतीति विलापः । परिदेवते परिदेवनम् । ʻदेवृ देवने ॥ अनुशोचननामानि ॥ १५ ॥

मल्लि-नाथः - AK.01.06.015

तत्र—प्रति । आक्रोश इति भर्त्सनानि । ʻशाप आक्रोश आक्षेपः क्षारणा स्याद् विरूक्षणम् इति हलायुधः (अ। मा। १। १४९) । मैथुनमुद्दिश्य यद्भर्त्सनं तव भार्यां तव मातरमित्यादि, तत्र आक्षारणाशब्दो वर्तते । स्यात्—

आलापः । सम्भाषणनामनी ॥ ʻसम्भाषणमाभाषणमालापः कुरुकुञ्चिका’ इति वैजयन्ती (पृ। ३२, श्लो। २३) । प्रलापोऽनर्थकं वचः । अर्थशून्योन्मत्तादिवचनं प्रलापः स्यात् ॥ अनुलापो मुहुर्भाषा । असकृदेकार्थवचनमनुलापः स्यात् ॥ विलापः परिदेवनम् । दुःखेन वचनं विलापः स्यात् ॥ १५ ॥

(०१.०६.०१६च्द्) विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ १६ ॥

मूलम् - ०१.०६.०१७

(०१.०६.०१७अब्) सुप्रलापः सुवचनमपलापस्तु निह्नवः ।
(चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा ।

अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम् ॥)

लिङ्ग-सूरी - AK.01.06.016

विप्रलाप इति—विप्रलपतीति विप्रलापः । पुरुषाणां मिथोविरोधवचननाम ॥ संलपतीति संलापः । मिथोऽविरोधोक्तिनाम ॥ सुप्रलपतीति सुप्रलापः सुवचननाम ॥ अपलपतीत्यपलापः । ʻलप व्यक्तायां वाचि । निह्नुते निह्नवः । ʻह्नुङ् अपनयने । निह्नववचननामनी ॥ १६ ॥

मल्लि-नाथः - AK.01.06.016

विप्रलापो विरोधोक्तिः । परस्परविरोधोक्तिर्विप्रलापःस्यात् ॥ संलापो भाषणं मिथः । परस्परभाषणं संलापः स्यात् । द्वयोरन्यतरस्यालापः, द्वयोरपि संलाप इति विशेषः ॥ सुप्रलापः सुवचनम् । सुवचननाम ॥ अपलापस्तु निह्नवः । निह्नववचननाम ॥ अनुक्तम्—ʻकाक्वा वर्णनमुल्लापः’ । काक्वा कथितवचनमुल्लापः स्यात् ॥ ʻप्रियवाक् चाटुरस्त्रियाम् । प्रियवचनं चाटु स्यात् ॥ १६ ॥

[[०१.११४]]

(०१.०६.०१७च्द्) सन्देशवाग् वाचिकं स्याद् वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥

मूलम् - ०१.०६.०१८

(०१.०६.०१८अब्) रुशती वागकल्याणी स्यात् कल्या तु शुभात्मिका ।

लिङ्ग-सूरी - AK.01.06.017

सन्देशवागिति—वाचोऽस्मिन् सन्तीति वाचिकम् । सन्देशवचननाम ॥ उत्तरे वाग्भेदास्त्रिषु वर्तन्ते । रुशति कल्याणमिति रुशती । ʻरुश हिंसायाम् । उषतीति पाठे ʻउष प्लुष दाहे । अमङ्गलोक्तिनाम ॥ कलयितुमर्हतीति कल्या । ʻकल गतौ सङ्ख्याने च्ö । कलासु क्रियासु साधुरिति वा । शुभवचननाम ॥ १७ ॥

मल्लि-नाथः - AK.01.06.017

सन्देशवाग्वाचिकं स्यात् । सन्देशवचननाम ॥ वाग्भेदास्तु त्रिषूत्तरे । उपरि वक्ष्यमाणा वाग्भेदा वागादिशब्दप्रयोगे त्रिषु वर्तन्ते । विशेष्यानुक्तौ तूक्तलिङ्गाः । रुशती वागकल्याणी । अकल्याणी वाग् रुशती स्यात् । रुशती वाक् । रुशन् व्याहारः । रुशद् भाषितम् । रुशतीं न ब्रूयात् कल्यामेव वदेत् । उषती वागकल्याणीति पाठादुषत्यपि भवति ॥ स्यात् कल्या तु शुभात्मिका । शोभना वाक् कल्या भवति ॥ १७ ॥

(०१.०६.०१८च्द्) अत्यर्थमधुरं सान्त्वं सङ्गतं हृदयङ्गमम् ॥ १८ ॥

मूलम् - ०१.०६.०१९

अक्।०१.०६.०१९अब् निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये ।

लिङ्ग-सूरी - AK.01.06.018

अत्यर्थमधुरमिति—सान्त्व्यते प्रयत्नेन सान्त्वम् । ʻषान्त्व सामप्रयोगे । अतिमधुरवचननाम ॥ हृदयं गम्यतेऽनेन हृदयङ्गमम् । ʻगम्लृ गतौ’ । सम्बन्धार्थ वचननाम ॥ दुष्टहेतुत्वान्निशितमिव तिष्ठतीति निष्ठुरम् । ʻष्ठा गतिनिवृत्तौ’ । परुषवचननाम ॥ न विद्यते श्रीरत्र अश्लीलम । असभ्यवचननाम ॥ शोभमानम् ऋतमत्रास्तीति सूनृतम् । प्रियसत्यवचननाम ॥१८ ॥

मल्लि-नाथः - AK.01.06.018

अत्यर्थमधुरं सान्त्वम् । अतिमधुरवचनं सान्त्वमित्युच्यते ॥ सङ्गतं हृदयङ्गमम् । ग्राह्यवचननाम ॥ निष्ठुरं परुषम् । कर्कशवचननामनी ॥ ग्राम्यमश्लीलम् । असभ्यवचननामनी ॥ ʻकुतस्त्यं फल्गु काहलम् । एतानि च । ʻअश्लीलं काहलं फल्गु’ इति धनञ्जयः ॥ सूनृतं प्रिये सत्ये । प्रियसत्यवचनं सूनृतं स्यात् ॥ १८ ॥

[[०१.११५]]

अक्।०१.०६.०१९च्द् सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहते ॥ १९ ॥

मूलम् - ०१.०६.०२०

अक्।०१.०६.०२०अब् लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ।

लिङ्ग-सूरी - AK.01.06.019

सत्य इति—सङ्कुल्यते सङ्कुलम् । ʻकुल संस्त्याने बन्धुपु च्ö । क्लिश्यते क्लिष्टम् । ʻक्लिशू विबाधने । अन्धः पश्यति अकरः करोतीत्येवमादिवचननामनी ॥ ग्रस्यते ग्रस्तम् । ʻग्रसु ग्लसु अदने । लुप्ताक्षरस्य लुप्तपदस्य वा नाम ॥ निरस्यते निरस्तम् । ʻअसु क्षेपणे । त्वरितोदितनाम ॥ १९॥

मल्लि-नाथः - AK.01.06.019

अथ—पराहते । वृद्धोऽहं मे पिता बाल इत्यादिव्याहतवचने सङ्कुलक्लिष्टशब्दौ वर्तेते ॥ लुप्तवर्णपदं ग्रस्तम् । लुप्तवर्णं पदं लुप्तपदं वाक्यं च ग्रस्तं स्यात् ॥ निरस्तं त्वरितोदितम् । द्रुतोच्चारितवचनं निरस्तं भवति ॥ १९ ॥

[[०१.११६]]

अक्।०१.०६.०२०च्द् अम्बूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम् ॥ २० ॥

मूलम् - ०१.०६.०२१

अक्।०१.०६.०२१अब् अनक्षरमवाच्यं स्यादाहतं तु मृष्टार्थकम् ।

लिङ्ग-सूरी - AK.01.06.020

अम्बूकृतमिति—निष्ठीवसम्पर्कात् अम्बूक्रियते अम्बूकृतम् । निष्ठीवसहितवचननाम । ʻष्ठिवु निरसने ॥ यत्रार्थसम्बन्धो नास्ति तदबद्धम् । ʻबन्ध बन्धने । सम्बन्धशून्यवचननाम ॥ न सन्त्यक्षराणि यत्र अनक्षरम् । अवाच्यवचननाम ॥ आहन्यत इत्याहतम् । मिथ्यार्थवचननाम ॥ २० ॥

मल्लि-नाथः - AK.01.06.020

अम्बूकृतं सनिष्ठीवम् । लालासहितं निष्ठीवनिर्यद्बिन्दुसहितं च वचनमम्बूकृतमित्युच्यते ॥ अबद्धं स्यादनर्थकम् । समुदायार्थशून्यं दशदाडिमादिवाक्यमबद्धं स्यात् ॥ अनक्षरमवाच्यं स्यात् । हस्तनेत्रादिव्यञ्जितवचनमनक्षरमित्युच्यते ॥ आहतं तु मृषार्थकम् । एष वन्ध्यासुतो याति—इत्यादिवचनमाहतं स्यात् ॥ २० ॥

(सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम् ।

श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् ॥)

अक्।०१.०६.०२१च्द् अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ २१ ॥
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति ।

इति वाग्वर्गः

लिङ्ग-सूरी - AK.01.06.021

अथिति—म्लेच्छतीति म्लिष्टम् । ʻम्लेच्छ अव्यक्ते शब्दे । क्लिष्टमिति पाठे क्लिश्यत इति क्लिष्टम् । ʻक्लिशू विबाधने । अस्पष्टवचननाम ॥ विगता तथा सत्यमत्रेति वितथम् । अनृतवचननाम ॥ सति धर्मे साधु सत्यम् । तथा सत्यमत्रास्तीति तथ्यम् । सद्भिरर्यते ऋतम् । ʻऋ गतौ’ । समञ्चतीति सम्यक् । ʻअञ्चु गतौ याचने च्ö । सत्यवचननामानि ॥ अमूनि तद्वति गुणिनि त्रिषु वर्तन्ते ॥ २१ ॥

इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ वाग्वर्गः

मल्लि-नाथः - AK.01.06.021

अथ म्लिष्टमविस्पष्टम् । अस्पष्टबालकिरातादिवचनं म्लिष्टं स्यात् ॥ अनुक्तम्—ʻगद्गदं गलमूलस्थम् । गलमूलस्थवचनं गद्गदं भवति ॥ ʻतुम्बकं स्पृष्टनासिकम् । नासिकां स्पृष्ट्वोद्गच्छद्वचनं तुम्वकमित्युच्यते । वितथं—वचः । असत्यवचननामनी ॥ आहतमसद्भूतार्थकथनम् । असत्यं सद्भूतापलापः ॥ सोल्लुण्ठनं तु सोत्प्रासम् । उत्क्रोशवचननामनी ॥ मणितं रतिकूजितम् । रतिकालगलरवनामनी ॥ सत्यं—सम्यक् । सत्यवचननामानि ॥ अमूनि त्रिषु तद्वति । सत्यादिशब्दाः सत्यवत्यर्थे त्रिलिङ्गा भवन्ति । सत्यो देवदत्तः । सत्या यज्ञद्त्ता । सत्यं कसत्रमित्यादि ॥ २१ ॥

इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते वाग्वर्गः

[[०१.११७]]